गकारादि श्री-गणपति सहस्रनाम-स्तोत्रम्
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य।\\
दुर्वासा ऋषिः। अनुष्टुप् छन्दः। श्री-गणपतिर्देवता।\\
गं बीजम्। स्वाहा शक्तिः। ग्लौं कीलकम् ।\\
सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः
ओं अङ्गुष्ठाभ्यां नमः। श्रीं तर्जनीभ्यां नमः।\\
ह्रीं मध्यमाभ्यां नमः। क्रीं अनामिकाभ्यां नमः।\\
ग्लौं कनिष्ठिकाभ्यां नमः। गं करतलकरपृष्ठाभ्यां नमः।\\
एवं हृदयादिन्यासः।\\
अथवा षड्दीर्घभाजागमितिबीजेन कराङ्गन्यासः॥
ध्यानम्
ओङ्कार-सन्निभमिभाननमिन्दुभालम्मुक्ताग्रबिन्दुममलद्युतिमेकदन्तं
लम्बोदरं कलचतुर्भुजमादिदेवम्ध्यायेन्महागणपतिं मतिसिद्धिकान्तम्
स्तोत्रम्
ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः
गणनाथो गणस्वामी गणेशो गणनायकः
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट्
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम्
गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः
गणप्रियसखः शश्वद्गणप्रियसुहृत् तथा
गणप्रियरतो नित्यं गणप्रीतिविवर्धनः
गणमण्डलमध्यस्थो गणकेलिपरायणः
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः
गणभीतिप्रमथनो गणभीत्यपहारकः
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः
गणसेनो गणचरो गणप्रज्ञो गणैकराट्
गणाग्र्यो गणनामा च गणपालनतत्परः
गणजिद्गणगर्भस्थो गणप्रवणमानसः
गणगर्वपरीहर्ता गणो गणनमस्कृतः
गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा
गणध्यातो गणगुरुर्गणप्रणयतत्परः
गणागणपरित्राता गणाधिहरणोद्धुरः
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः
गणहेतुर्गणग्राही गणानुग्रहकारकः
गणागणानुग्रहभूर्गणागणवरप्रदः
गणस्तुतो गणप्राणो गणसर्वस्वदायकः
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः
गणसौख्यप्रदाता च गणदुःखप्रणाशनः
गणप्रथितनामा च गणाभीष्टकरः सदा
गणमान्यो गणख्यातो गणवीतो गणोत्कटः
गणपालो गणवरो गणगौरवदायकः
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा
गणराजो गणश्रीदो गणाभयकरः क्षणात्
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः
गुणातीतो गुणमयो गुणत्रयविभागकृत्
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः
गुणागुणवपुर्गौणशरीरो गुणमण्डितः
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः
गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट्
गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम्
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः
गुणगौरो गुणाधारो गुणसंवृतचेतनः
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक्
गुणप्रचारी गुणयुग् गुणागुणविवेककृत्
गुणाकरो गुणकरो गुणप्रवणवर्धनः
गुणगूढचरो गौणसर्वसंसारचेष्टितः
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित्
गुणहारी गुणकलो गुणसङ्घसखः सदा
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः
गुणगर्वधरो गौणसुखदुःखोदयो गुणः
गुणाधीशो गुणलयो गुणवीक्षणलालसः
गुणगौरवदाता च गुणदाता गुणप्रदः
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः
गुणचक्रधरो गौणावतारो गुणबान्धवः
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः
गुणयायी गुणाधायी गुणपो गुणपालकः
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः
गुणवद्गीतकीर्तिश्च गुणवद् बद्धसौहृदः
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः
गुणवत्पोषणकरो गुणवच्छत्रुसूदनः
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः
गुणवत्कुलविद्वेषिविनाशकरणक्षमः
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिःस्वनः
गजो गजपतिर्गर्जद्गजयुद्धविशारदः
गजास्यो गजकर्णोऽथ गजराजो गजाननः
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः
गजाधीशो गजाधारो गजासुरजयोद्धुरः
गजदन्तो गजवरो गजकुम्भो गजध्वनिः
गजमायो गजमयो गजश्रीर्गजगर्जितः
गजामयहरो नित्यं गजपुष्टिप्रदायकः
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः
गजमुख्यो गजकुलप्रवरो गजदैत्यहा
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः
गजमत्तो गजेशानो गजेशो गजपुङ्गवः
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत्
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः
गर्जितोज्ञितदैत्यासुर्गर्जितत्रातविष्टपः
गानज्ञो गानकुशलो गानतत्त्वविवेचकः
गानश्लाघी गानरसो गानज्ञानपरायणः
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः
गानकृद्गानचतुरो गानविद्याविशारदः
गानध्येयो गानगम्यो गानध्यानपरायणः
गानभूर्गानशीलश्च गानशाली गतश्रमः
गानविज्ञानसम्पन्नो गानश्रवणलालसः
गानयत्तो गानमयो गानप्रणयवान् सदा
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः
गानङ्गज्ञानवान् गानमानवान् गानपेशलः
गानवत्प्रणयो गानसमुद्रो गानभूषणः
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक्
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा
गानमयो गानधरो गानविद्याविशोधकः
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः
गानाधीशो गानलयो गानाधारो गतीश्वरः
गानवन्मानदो गानभूतिर्गानैकभूतिमान्
गानतानततो गानतानदानविमोहितः
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा
गुरुगौरवदायी च गुरुभीत्यपहारकः
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत्
गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा
गुरुसंशयभेत्ता च गुरुमानप्रदायकः
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः
गुरुधर्मधरो गौरधर्माधारो गदापहः
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा
गुरुमन्त्रो गुरुशेष्ठो गुरुमन्त्रफलप्रदः
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः
गुरुसंसारसुखदो गुरुसंसारदुःखभित्
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत्
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम्
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः
गुरुविज्ञानविभवो गौरभानुवरप्रदः
गौरभानुस्तुतो गौरभानुत्रासापहारकः
गौरभानुप्रियो गौरभानुर्गौरववर्धनः
गौरभानुपरित्राता गौरभानुसखः सदा
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत्
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक्
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः
गौतमाभीष्टवरदो गौतमाभयदायकः
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः
गौतमापत्परिहारो गौतमाधिविनाशनः
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः
गोसहस्रो गोपवरो गोपगोपीसुखावहः
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत्
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम्
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः
गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः
ग्रन्थादीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित्
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक्
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भषोधकः
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः
गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः
गीताशक्तो गीतलीनो गीताविगतसञ्ज्वरः
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित्
गीतागीतविवेकज्ञो गीताप्रवणचेतनः
गतभीर्गतविद्वेषो गतसंसारबन्धनः
गतमायो गतत्रासो गतदुःखो गतज्वरः
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः
गताहङ्कारसञ्चारो गतदर्पो गताहितः
गतविघ्नो गतभयो गतागतनिवारकः
गतव्यथो गतापायो गतदोषो गतेः परः
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः
गताभावो गतभवो गततत्त्वार्थसंशयः
गयासुरशिरश्छेत्ता गयासुरवरप्रदः
गयावासो गयानाथो गयावासिनमस्कृतः
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत्
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः
गायको गायकवरो गायकेष्टफलप्रदः
गायकप्रणयी गाता गायकाभयदायकः
गायकप्रवणस्वान्तो गायकः प्रथमः सदा
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा
गानगेयो गानकेशो गायकान्तरसञ्चरः
गायकप्रियदः शश्वद्गायकाधीनविग्रहः
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित्
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम्
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत्
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा
गन्धमादनसंवासो गन्धमादनकेलिकृत्
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः
गकारबीजनिलयो गकारो गर्विगर्वनुत्
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम्
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः
गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः
गीर्वाणगीतचरितो गीर्वाणगणसेवितः
गीर्वाणवरदाता च गीर्वाणभयनाशकृत्
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत्
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत्
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित्
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम्
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पती
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः
गविरक्षणसन्नद्धो गवाम्भयहरः क्षणात्
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः
गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः
गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक्
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः
गुडाकेशार्चितपदो गुडाकेशसखः सदा
गदाधरार्चितपदो गदाधरवरप्रदः
गदायुधो गदापाणिर्गदायुद्धविशारदः
गदहा गददर्पघ्नो गदगर्वप्रणाशनः
गदग्रस्तपरित्राता गदाडम्बरखण्डकः
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक्
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः
गिरीशजो गिरौशायी गिरिराजसुखावहः
गिरिराजार्चितपदो गिरिराजनमस्कृतः
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः
गिरिराजेष्टवरदो गिरिराजप्रपालकः
गिरिराजसुतासूनुर्गिरिराजजयप्रदः
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा
गर्गो गर्गप्रियो गर्गदेहो गर्गनमस्कृतः
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः
गम्भीरो गणितप्रज्ञो गणितागमसारवित्
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः
गणकप्रवणस्वान्तो गणितो गणितागमः
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः
गललग्नमहानागो गलदर्चिर्गलन्मदः
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत्
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत्
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः
गरसन्तापशमनो गुरुराज्यसुखप्रदः।
फलश्रुतिः
नाम्नां सहस्रमुदितं महद्गणपतेरिदम्
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम्
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके
पूजयित्वा गणधीशं यथोक्तविधिना पुरा
पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम्
धारयेद्यः प्रयत्नेन स साक्षाद्गणनायकः
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः
प्रणमन्ति सदा तं वै दुष्ट्वा विस्मितमानसाः
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः
तस्य वंशो स्थिरा लक्ष्मीः कदाऽपि न विमुञ्चति
निष्कामो यः पठेदेतद्गणेश्वरपरायणः
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात्
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम्
न देयं कृपणायाथ शठाय गुरुविद्विषे
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः
इति श्रुत्वा महादेवी तदा विस्मितमानसा
पूजयामास विधिवद्गणेश्वरपदद्वयम्
॥इति श्री-रुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्री-गणपतिसहस्रनामस्तोत्रं सम्पूर्णम्॥
గకారాది శ్రీ-గణపతి సహస్రనామ-స్తోత్రమ్
అస్య శ్రీగణపతిగకారాదిసహస్రనామమాలామన్త్రస్య।\\
దుర్వాసా ఋషిః। అనుష్టుప్ ఛన్దః। శ్రీ-గణపతిర్దేవతా।\\
గం బీజమ్। స్వాహా శక్తిః। గ్లౌం కీలకమ్ ।\\
సకలాభీష్టసిద్ధ్యర్థే జపే వినియోగః ॥
కరన్యాసః
ఓం అఙ్గుష్ఠాభ్యాం నమః। శ్రీం తర్జనీభ్యాం నమః।\\
హ్రీం మధ్యమాభ్యాం నమః। క్రీం అనామికాభ్యాం నమః।\\
గ్లౌం కనిష్ఠికాభ్యాం నమః। గం కరతలకరపృష్ఠాభ్యాం నమః।\\
ఏవం హృదయాదిన్యాసః।\\
అథవా షడ్దీర్ఘభాజాగమితిబీజేన కరాఙ్గన్యాసః॥
ధ్యానమ్
ఓఙ్కార-సన్నిభమిభాననమిన్దుభాలమ్ముక్తాగ్రబిన్దుమమలద్యుతిమేకదన్తం
లమ్బోదరం కలచతుర్భుజమాదిదేవమ్ధ్యాయేన్మహాగణపతిం మతిసిద్ధికాన్తమ్
స్తోత్రమ్
ఓం గణేశ్వరో గణాధ్యక్షో గణారాధ్యో గణప్రియః
గణనాథో గణస్వామీ గణేశో గణనాయకః
గణమూర్తిర్గణపతిర్గణత్రాతా గణఞ్జయః
గణపోఽథ గణక్రీడో గణదేవో గణాధిపః
గణజ్యేష్ఠో గణశ్రేష్ఠో గణప్రేష్ఠో గణాధిరాట్
గణరాడ్ గణగోప్తాథ గణాఙ్గో గణదైవతమ్
గణబన్ధుర్గణసుహృద్గణాధీశో గణప్రథః
గణప్రియసఖః శశ్వద్గణప్రియసుహృత్ తథా
గణప్రియరతో నిత్యం గణప్రీతివివర్ధనః
గణమణ్డలమధ్యస్థో గణకేలిపరాయణః
గణాగ్రణీర్గణేశానో గణగీతో గణోచ్ఛ్రయః
గణ్యో గణహితో గర్జద్గణసేనో గణోద్ధతః
గణభీతిప్రమథనో గణభీత్యపహారకః
గణనార్హో గణప్రౌఢో గణభర్తా గణప్రభుః
గణసేనో గణచరో గణప్రజ్ఞో గణైకరాట్
గణాగ్ర్యో గణనామా చ గణపాలనతత్పరః
గణజిద్గణగర్భస్థో గణప్రవణమానసః
గణగర్వపరీహర్తా గణో గణనమస్కృతః
గణార్చితాఙ్ఘ్రియుగలో గణరక్షణకృత్ సదా
గణధ్యాతో గణగురుర్గణప్రణయతత్పరః
గణాగణపరిత్రాతా గణాధిహరణోద్ధురః
గణసేతుర్గణనుతో గణకేతుర్గణాగ్రగః
గణహేతుర్గణగ్రాహీ గణానుగ్రహకారకః
గణాగణానుగ్రహభూర్గణాగణవరప్రదః
గణస్తుతో గణప్రాణో గణసర్వస్వదాయకః
గణవల్లభమూర్తిశ్చ గణభూతిర్గణేష్టదః
గణసౌఖ్యప్రదాతా చ గణదుఃఖప్రణాశనః
గణప్రథితనామా చ గణాభీష్టకరః సదా
గణమాన్యో గణఖ్యాతో గణవీతో గణోత్కటః
గణపాలో గణవరో గణగౌరవదాయకః
గణగర్జితసన్తుష్టో గణస్వచ్ఛన్దగః సదా
గణరాజో గణశ్రీదో గణాభయకరః క్షణాత్
గణమూర్ధాభిషిక్తశ్చ గణసైన్యపురస్సరః
గుణాతీతో గుణమయో గుణత్రయవిభాగకృత్
గుణీ గుణాకృతిధరో గుణశాలీ గుణప్రియః
గుణపూర్ణో గుణామ్భోధిర్గుణభాగ్ గుణదూరగః
గుణాగుణవపుర్గౌణశరీరో గుణమణ్డితః
గుణస్త్రష్టా గుణేశానో గుణేశోఽథ గుణేశ్వరః
గుణసృష్టజగత్సఙ్ఘో గుణసఙ్ఘో గుణైకరాట్
గుణప్రవృష్టో గుణభూర్గుణీకృతచరాచరః
గుణప్రవణసన్తుష్టో గుణహీనపరాఙ్ముఖః
గుణైకభూర్గుణశ్రేష్ఠో గుణజ్యేష్ఠో గుణప్రభుః
గుణజ్ఞో గుణసమ్పూజ్యో గుణైకసదనం సదా
గుణప్రణయవాన్ గౌణప్రకృతిర్గుణభాజనమ్
గుణిప్రణతపాదాబ్జో గుణిగీతో గుణోజ్జ్వలః
గుణవాన్ గుణసమ్పన్నో గుణానన్దితమానసః
గుణసఞ్చారచతురో గుణసఞ్చయసున్దరః
గుణగౌరో గుణాధారో గుణసంవృతచేతనః
గుణకృద్గుణభృన్నిత్యం గుణాగ్ర్యో గుణపారదృక్
గుణప్రచారీ గుణయుగ్ గుణాగుణవివేకకృత్
గుణాకరో గుణకరో గుణప్రవణవర్ధనః
గుణగూఢచరో గౌణసర్వసంసారచేష్టితః
గుణదక్షిణసౌహార్దో గుణలక్షణతత్త్వవిత్
గుణహారీ గుణకలో గుణసఙ్ఘసఖః సదా
గుణసంస్కృతసంసారో గుణతత్త్వవివేచకః
గుణగర్వధరో గౌణసుఖదుఃఖోదయో గుణః
గుణాధీశో గుణలయో గుణవీక్షణలాలసః
గుణగౌరవదాతా చ గుణదాతా గుణప్రదః
గుణకృద్గుణసమ్బన్ధో గుణభృద్గుణబన్ధనః
గుణహృద్యో గుణస్థాయీ గుణదాయీ గుణోత్కటః
గుణచక్రధరో గౌణావతారో గుణబాన్ధవః
గుణబన్ధుర్గుణప్రజ్ఞో గుణప్రాజ్ఞో గుణాలయః
గుణధాతా గుణప్రాణో గుణగోపో గుణాశ్రయః
గుణయాయీ గుణాధాయీ గుణపో గుణపాలకః
గుణాహృతతనుర్గౌణో గీర్వాణో గుణగౌరవః
గుణవత్పూజితపదో గుణవత్ప్రీతిదాయకః
గుణవద్గీతకీర్తిశ్చ గుణవద్ బద్ధసౌహృదః
గుణవద్వరదో నిత్యం గుణవత్ప్రతిపాలకః
గుణవద్గుణసన్తుష్టో గుణవద్రచితస్తవః
గుణవద్రక్షణపరో గుణవత్ప్రణయప్రియః
గుణవచ్చక్రసఞ్చారో గుణవత్కీర్తివర్ధనః
గుణవద్గుణచిత్తస్థో గుణవద్గుణరక్షకః
గుణవత్పోషణకరో గుణవచ్ఛత్రుసూదనః
గుణవత్సిద్ధిదాతా చ గుణవద్గౌరవప్రదః
గుణవత్ప్రవణస్వాన్తో గుణవద్గుణభూషణః
గుణవత్కులవిద్వేషివినాశకరణక్షమః
గుణిస్తుతగుణో గర్జప్రలయామ్బుదనిఃస్వనః
గజో గజపతిర్గర్జద్గజయుద్ధవిశారదః
గజాస్యో గజకర్ణోఽథ గజరాజో గజాననః
గజరూపధరో గర్జద్గజయూథోద్ధురధ్వనిః
గజాధీశో గజాధారో గజాసురజయోద్ధురః
గజదన్తో గజవరో గజకుమ్భో గజధ్వనిః
గజమాయో గజమయో గజశ్రీర్గజగర్జితః
గజామయహరో నిత్యం గజపుష్టిప్రదాయకః
గజోత్పత్తిర్గజత్రాతా గజహేతుర్గజాధిపః
గజముఖ్యో గజకులప్రవరో గజదైత్యహా
గజకేతుర్గజాధ్యక్షో గజసేతుర్గజాకృతిః
గజవన్ద్యో గజప్రాణో గజసేవ్యో గజప్రభుః
గజమత్తో గజేశానో గజేశో గజపుఙ్గవః
గజదన్తధరో గుఞ్జన్మధుపో గజవేషభృత్
గజచ్ఛన్నో గజాగ్రస్థో గజయాయీ గజాజయః
గజరాడ్గజయూథస్థో గజగఞ్జకభఞ్జకః
గర్జితోజ్ఞితదైత్యాసుర్గర్జితత్రాతవిష్టపః
గానజ్ఞో గానకుశలో గానతత్త్వవివేచకః
గానశ్లాఘీ గానరసో గానజ్ఞానపరాయణః
గానాగమజ్ఞో గానాఙ్గో గానప్రవణచేతనః
గానకృద్గానచతురో గానవిద్యావిశారదః
గానధ్యేయో గానగమ్యో గానధ్యానపరాయణః
గానభూర్గానశీలశ్చ గానశాలీ గతశ్రమః
గానవిజ్ఞానసమ్పన్నో గానశ్రవణలాలసః
గానయత్తో గానమయో గానప్రణయవాన్ సదా
గానధ్యాతా గానబుద్ధిర్గానోత్సుకమనాః పునః
గానోత్సుకో గానభూమిర్గానసీమా గుణోజ్జ్వలః
గానఙ్గజ్ఞానవాన్ గానమానవాన్ గానపేశలః
గానవత్ప్రణయో గానసముద్రో గానభూషణః
గానసిన్ధుర్గానపరో గానప్రాణో గణాశ్రయః
గానైకభూర్గానహృష్టో గానచక్షుర్గాణైకదృక్
గానమత్తో గానరుచిర్గానవిద్గానవిత్ప్రియః
గానాన్తరాత్మా గానాఢ్యో గానభ్రాజత్సభః సదా
గానమయో గానధరో గానవిద్యావిశోధకః
గానాహితఘ్రో గానేన్ద్రో గానలీనో గతిప్రియః
గానాధీశో గానలయో గానాధారో గతీశ్వరః
గానవన్మానదో గానభూతిర్గానైకభూతిమాన్
గానతానతతో గానతానదానవిమోహితః
గురుర్గురుదరశ్రోణిర్గురుతత్త్వార్థదర్శనః
గురుస్తుతో గురుగుణో గురుమాయో గురుప్రియః
గురుకీర్తిర్గురుభుజో గురువక్షా గురుప్రభః
గురులక్షణసమ్పన్నో గురుద్రోహపరాఙ్ముఖః
గురువిద్యో గురుప్రాణో గురుబాహుబలోచ్ఛ్రయః
గురుదైత్యప్రాణహరో గురుదైత్యాపహారకః
గురుగర్వహరో గుహ్యప్రవరో గురుదర్పహా
గురుగౌరవదాయీ చ గురుభీత్యపహారకః
గురుశుణ్డో గురుస్కన్ధో గురుజఙ్ఘో గురుప్రథః
గురుభాలో గురుగలో గురుశ్రీర్గురుగర్వనుత్
గురూరుర్గురుపీనాంసో గురుప్రణయలాలసః
గురుముఖ్యో గురుకులస్థాయీ గురుగుణః సదా
గురుసంశయభేత్తా చ గురుమానప్రదాయకః
గురుధర్మసదారాధ్యో గురుధర్మనికేతనః
గురుదైత్యకులచ్ఛేత్తా గురుసైన్యో గురుద్యుతిః
గురుధర్మాగ్రగణ్యోఽథ గురుధర్మధురన్ధరః
గరిష్ఠో గురుసన్తాపశమనో గురుపూజితః
గురుధర్మధరో గౌరధర్మాధారో గదాపహః
గురుశాస్త్రవిచారజ్ఞో గురుశాస్త్రకృతోద్యమః
గురుశాస్త్రార్థనిలయో గురుశాస్త్రాలయః సదా
గురుమన్త్రో గురుశేష్ఠో గురుమన్త్రఫలప్రదః
గురుస్త్రీగమనోద్దామప్రాయశ్చిత్తనివారకః
గురుసంసారసుఖదో గురుసంసారదుఃఖభిత్
గురుశ్లాఘాపరో గౌరభానుఖణ్డావతంసభృత్
గురుప్రసన్నమూర్తిశ్చ గురుశాపవిమోచకః
గురుకాన్తిర్గురుమయో గురుశాసనపాలకః
గురుతన్త్రో గురుప్రజ్ఞో గురుభో గురుదైవతమ్
గురువిక్రమసఞ్చారో గురుదృగ్గురువిక్రమః
గురుక్రమో గురుప్రేష్ఠో గురుపాఖణ్డఖణ్డకః
గురుగర్జితసమ్పూర్ణబ్రహ్మాణ్డో గురుగర్జితః
గురుపుత్రప్రియసఖో గురుపుత్రభయాపహః
గురుపుత్రపరిత్రాతా గురుపుత్రవరప్రదః
గురుపుత్రార్తిశమనో గురుపుత్రాధినాశనః
గురుపుత్రప్రాణదాతా గురుభక్తిపరాయణః
గురువిజ్ఞానవిభవో గౌరభానువరప్రదః
గౌరభానుస్తుతో గౌరభానుత్రాసాపహారకః
గౌరభానుప్రియో గౌరభానుర్గౌరవవర్ధనః
గౌరభానుపరిత్రాతా గౌరభానుసఖః సదా
గౌరభానుర్ప్రభుర్గౌరభానుభీతిప్రణాశనః
గౌరీతేజఃసముత్పన్నో గౌరీహృదయనన్దనః
గౌరీస్తనన్ధయో గౌరీమనోవాఞ్ఛితసిద్ధికృత్
గౌరో గౌరగుణో గౌరప్రకాశో గౌరభైరవః
గౌరీశనన్దనో గౌరీప్రియపుత్రో గదాధరః
గౌరీవరప్రదో గౌరీప్రణయో గౌరసచ్ఛవిః
గౌరీగణేశ్వరో గౌరీప్రవణో గౌరభావనః
గౌరాత్మా గౌరకీర్తిశ్చ గౌరభావో గరిష్ఠదృక్
గౌతమో గౌతమీనాథో గౌతమీప్రాణవల్లభః
గౌతమాభీష్టవరదో గౌతమాభయదాయకః
గౌతమప్రణయప్రహ్వో గౌతమాశ్రమదుఃఖహా
గౌతమీతీరసఞ్చారీ గౌతమీతీర్థనాయకః
గౌతమాపత్పరిహారో గౌతమాధివినాశనః
గోపతిర్గోధనో గోపో గోపాలప్రియదర్శనః
గోపాలో గోగణాధీశో గోకశ్మలనివర్తకః
గోసహస్రో గోపవరో గోపగోపీసుఖావహః
గోవర్ధనో గోపగోపో గోపో గోకులవర్ధనః
గోచరో గోచరాధ్యక్షో గోచరప్రీతివృద్ధికృత్
గోమీ గోకష్టసన్త్రాతా గోసన్తాపనివర్తకః
గోష్ఠో గోష్ఠాశ్రయో గోష్ఠపతిర్గోధనవర్ధనః
గోష్ఠప్రియో గోష్ఠమయో గోష్ఠామయనివర్తకః
గోలోకో గోలకో గోభృద్గోభర్తా గోసుఖావహః
గోధుగ్గోధుగ్గణప్రేష్ఠో గోదోగ్ధా గోమయప్రియః
గోత్రం గోత్రపతిర్గోత్రప్రభుర్గోత్రభయాపహః
గోత్రవృద్ధికరో గోత్రప్రియో గోత్రార్తినాశనః
గోత్రోద్ధారపరో గోత్రప్రవరో గోత్రదైవతమ్
గోత్రవిఖ్యాతనామా చ గోత్రీ గోత్రప్రపాలకః
గోత్రసేతుర్గోత్రకేతుర్గోత్రహేతుర్గతక్లమః
గోత్రత్రాణకరో గోత్రపతిర్గోత్రేశపూజితః
గోత్రభిద్గోత్రభిత్త్రాతా గోత్రభిద్వరదాయకః
గోత్రభిత్పూజితపదో గోత్రభిచ్ఛత్రుసూదనః
గోత్రభిత్ప్రీతిదో నిత్యం గోత్రభిద్గోత్రపాలకః
గోత్రభిద్గీతచరితో గోత్రభిద్రాజ్యరక్షకః
గోత్రభిజ్జయదాయీ చ గోత్రభిత్ప్రణయః సదా
గోత్రభిద్భయసమ్భేత్తా గోత్రభిన్మానదాయకః
గోత్రభిద్గోపనపరో గోత్రభిత్సైన్యనాయకః
గోత్రాధిపప్రియో గోత్రపుత్రీపుత్రో గిరిప్రియః
గ్రన్థజ్ఞో గ్రన్థకృద్గ్రన్థగ్రన్థిభిద్గ్రన్థవిఘ్నహా
గ్రన్థాదిర్గ్రన్థసఞ్చారో గ్రన్థశ్రవణలోలుపః
గ్రన్థాదీనక్రియో గ్రన్థప్రియో గ్రన్థార్థతత్త్వవిత్
గ్రన్థసంశయసఞ్ఛేదీ గ్రన్థవక్తా గ్రహాగ్రణీః
గ్రన్థగీతగుణో గ్రన్థగీతో గ్రన్థాదిపూజితః
గ్రన్థారమ్భస్తుతో గ్రన్థగ్రాహీ గ్రన్థార్థపారదృక్
గ్రన్థదృగ్గ్రన్థవిజ్ఞానో గ్రన్థసన్దర్భషోధకః
గ్రన్థకృత్పూజితో గ్రన్థకరో గ్రన్థపరాయణః
గ్రన్థపారాయణపరో గ్రన్థసన్దేహభఞ్జకః
గ్రన్థకృద్వరదాతా చ గ్రన్థకృద్వన్దితః సదా
గ్రన్థానురక్తో గ్రన్థజ్ఞో గ్రన్థానుగ్రహదాయకః
గ్రన్థాన్తరాత్మా గ్రన్థార్థపణ్డితో గ్రన్థసౌహృదః
గ్రన్థపారఙ్గమో గ్రన్థగుణవిద్గ్రన్థవిగ్రహః
గ్రన్థసేతుర్గ్రన్థహేతుర్గ్రన్థకేతుర్గ్రహాగ్రగః
గ్రన్థపూజ్యో గ్రన్థగేయో గ్రన్థగ్రథనలాలసః
గ్రన్థభూమిర్గ్రహశ్రేష్ఠో గ్రహకేతుర్గ్రహాశ్రయః
గ్రన్థకారో గ్రన్థకారమాన్యో గ్రన్థప్రసారకః
గ్రన్థశ్రమజ్ఞో గ్రన్థాఙ్గో గ్రన్థభ్రమనివారకః
గ్రన్థప్రవణసర్వాఙ్గో గ్రన్థప్రణయతత్పరః
గీతం గీతగుణో గీతకీర్తిర్గీతవిశారదః
గీతస్ఫీతయశా గీతప్రణయో గీతచఞ్చురః
గీతప్రసన్నో గీతాత్మా గీతలోలో గతస్పృహః
గీతాశ్రయో గీతమయో గీతతత్త్వార్థకోవిదః
గీతసంశయసఞ్ఛేత్తా గీతసఙ్గీతశాసనః
గీతార్థజ్ఞో గీతతత్త్వో గీతాతత్త్వం గతాశ్రయః
గీతాసారోఽథ గీతాకృద్గీతాకృద్విఘ్ననాశనః
గీతాశక్తో గీతలీనో గీతావిగతసఞ్జ్వరః
గీతైకదృగ్గీతభూతిర్గీతప్రీతో గతాలసః
గీతవాద్యపటుర్గీతప్రభుర్గీతార్థతత్త్వవిత్
గీతాగీతవివేకజ్ఞో గీతాప్రవణచేతనః
గతభీర్గతవిద్వేషో గతసంసారబన్ధనః
గతమాయో గతత్రాసో గతదుఃఖో గతజ్వరః
గతాసుహృద్గతజ్ఞానో గతదుష్టాశయో గతః
గతార్తిర్గతసఙ్కల్పో గతదుష్టవిచేష్టితః
గతాహఙ్కారసఞ్చారో గతదర్పో గతాహితః
గతవిఘ్నో గతభయో గతాగతనివారకః
గతవ్యథో గతాపాయో గతదోషో గతేః పరః
గతసర్వవికారోఽథ గతగఞ్జితకుఞ్జరః
గతకమ్పితభూపృష్ఠో గతరుగ్గతకల్మషః
గతదైన్యో గతస్తైన్యో గతమానో గతశ్రమః
గతక్రోధో గతగ్లానిర్గతమ్లానో గతభ్రమః
గతాభావో గతభవో గతతత్త్వార్థసంశయః
గయాసురశిరశ్ఛేత్తా గయాసురవరప్రదః
గయావాసో గయానాథో గయావాసినమస్కృతః
గయాతీర్థఫలాధ్యక్షో గయాయాత్రాఫలప్రదః
గయామయో గయాక్షేత్రం గయాక్షేత్రనివాసకృత్
గయావాసిస్తుతో గయాన్మధువ్రతలసత్కటః
గాయకో గాయకవరో గాయకేష్టఫలప్రదః
గాయకప్రణయీ గాతా గాయకాభయదాయకః
గాయకప్రవణస్వాన్తో గాయకః ప్రథమః సదా
గాయకోద్గీతసమ్ప్రీతో గాయకోత్కటవిఘ్నహా
గానగేయో గానకేశో గాయకాన్తరసఞ్చరః
గాయకప్రియదః శశ్వద్గాయకాధీనవిగ్రహః
గేయో గేయగుణో గేయచరితో గేయతత్త్వవిత్
గాయకత్రాసహా గ్రన్థో గ్రన్థతత్త్వవివేచకః
గాఢానురాగో గాఢాఙ్గో గాఢాగఙ్గాజలోఽన్వహమ్
గాఢావగాఢజలధిర్గాఢప్రజ్ఞో గతామయః
గాఢప్రత్యర్థిసైన్యోఽథ గాఢానుగ్రహతత్పరః
గాఢశ్లేషరసాభిజ్ఞో గాఢనిర్వృతిసాధకః
గఙ్గాధరేష్టవరదో గఙ్గాధరభయాపహః
గఙ్గాధరగురుర్గఙ్గాధరధ్యాతపదః సదా
గఙ్గాధరస్తుతో గఙ్గాధరారాధ్యో గతస్మయః
గఙ్గాధరప్రియో గఙ్గాధరో గఙ్గామ్బుసున్దరః
గఙ్గాజలరసాస్వాదచతురో గాఙ్గతీరయః
గఙ్గాజలప్రణయవాన్ గఙ్గాతీరవిహారకృత్
గఙ్గాప్రియో గఙ్గాజలావగాహనపరః సదా
గన్ధమాదనసంవాసో గన్ధమాదనకేలికృత్
గన్ధానులిప్తసర్వాఙ్గో గన్ధలుబ్ధమధువ్రతః
గన్ధో గన్ధర్వరాజోఽథ గన్ధర్వప్రియకృత్ సదా
గన్ధర్వవిద్యాతత్త్వజ్ఞో గన్ధర్వప్రీతివర్ధనః
గకారబీజనిలయో గకారో గర్విగర్వనుత్
గన్ధర్వగణసంసేవ్యో గన్ధర్వవరదాయకః
గన్ధర్వో గన్ధమాతఙ్గో గన్ధర్వకులదైవతమ్
గన్ధర్వగర్వసఞ్ఛేత్తా గన్ధర్వవరదర్పహా
గన్ధర్వప్రవణస్వాన్తో గన్ధర్వగణసంస్తుతః
గన్ధర్వార్చితపాదాబ్జో గన్ధర్వభయహారకః
గన్ధర్వాభయదః శశ్వద్గన్ధర్వప్రతిపాలకః
గన్ధర్వగీతచరితో గన్ధర్వప్రణయోత్సుకః
గన్ధర్వగానశ్రవణప్రణయీ గర్వభఞ్జనః
గన్ధర్వత్రాణసన్నద్ధో గన్ధర్వసమరక్షమః
గన్ధర్వస్త్రీభిరారాధ్యో గానం గానపటుః సదా
గచ్ఛో గచ్ఛపతిర్గచ్ఛనాయకో గచ్ఛగర్వహా
గచ్ఛరాజోఽథ గచ్ఛేశో గచ్ఛరాజనమస్కృతః
గచ్ఛప్రియో గచ్ఛగురుర్గచ్ఛత్రాణకృతోద్యమః
గచ్ఛప్రభుర్గచ్ఛచరో గచ్ఛప్రియకృతోద్యమః
గచ్ఛగీతగుణో గచ్ఛమర్యాదాప్రతిపాలకః
గచ్ఛధాతా గచ్ఛభర్తా గచ్ఛవన్ద్యో గురోర్గురుః
గృత్సో గృత్సమదో గృత్సమదాభీష్టవరప్రదః
గీర్వాణగీతచరితో గీర్వాణగణసేవితః
గీర్వాణవరదాతా చ గీర్వాణభయనాశకృత్
గీర్వాణగుణసంవీతో గీర్వాణారాతిసూదనః
గీర్వాణధామ గీర్వాణగోప్తా గీర్వాణగర్వహృత్
గీర్వాణార్తిహరో నిత్యం గీర్వాణవరదాయకః
గీర్వాణశరణం గీతనామా గీర్వాణసున్దరః
గీర్వాణప్రాణదో గన్తా గీర్వాణానీకరక్షకః
గుహేహాపూరకో గన్ధమత్తో గీర్వాణపుష్టిదః
గీర్వాణప్రయుతత్రాతా గీతగోత్రో గతాహితః
గీర్వాణసేవితపదో గీర్వాణప్రథితో గలత్
గీర్వాణగోత్రప్రవరో గీర్వాణఫలదాయకః
గీర్వాణప్రియకర్తా చ గీర్వాణాగమసారవిత్
గీర్వాణాగమసమ్పత్తిర్గీర్వాణవ్యసనాపహః
గీర్వాణప్రణయో గీతగ్రహణోత్సుకమానసః
గీర్వాణభ్రమసమ్భేత్తా గీర్వాణగురుపూజితః
గ్రహో గ్రహపతిర్గ్రాహో గ్రహపీడాప్రణాశనః
గ్రహస్తుతో గ్రహాధ్యక్షో గ్రహేశో గ్రహదైవతమ్
గ్రహకృద్గ్రహభర్తా చ గ్రహేశానో గ్రహేశ్వరః
గ్రహారాధ్యో గ్రహత్రాతా గ్రహగోప్తా గ్రహోత్కటః
గ్రహగీతగుణో గ్రన్థప్రణేతా గ్రహవన్దితః
గవీ గవీశ్వరో గర్వీ గర్విష్ఠో గర్విగర్వహా
గవామ్ప్రియో గవాన్నాథో గవీశానో గవామ్పతీ
గవ్యప్రియో గవాఙ్గోప్తా గవిసమ్పత్తిసాధకః
గవిరక్షణసన్నద్ధో గవామ్భయహరః క్షణాత్
గవిగర్వహరో గోదో గోప్రదో గోజయప్రదః
గజాయుతబలో గణ్డగుఞ్జన్మత్తమధువ్రతః
గణ్డస్థలలసద్దానమిలన్మత్తాలిమణ్డితః
గుడో గుడప్రియో గుణ్డగలద్దానో గుడాశనః
గుడాకేశో గుడాకేశసహాయో గుడలడ్డుభుక్
గుడభుగ్గుడభుగ్గణయో గుడాకేశవరప్రదః
గుడాకేశార్చితపదో గుడాకేశసఖః సదా
గదాధరార్చితపదో గదాధరవరప్రదః
గదాయుధో గదాపాణిర్గదాయుద్ధవిశారదః
గదహా గదదర్పఘ్నో గదగర్వప్రణాశనః
గదగ్రస్తపరిత్రాతా గదాడమ్బరఖణ్డకః
గుహో గుహాగ్రజో గుప్తో గుహాశాయీ గుహాశయః
గుహప్రీతికరో గూఢో గూఢగుల్ఫో గుణైకదృక్
గీర్గీష్పతిర్గిరీశానో గీర్దేవీగీతసద్గుణః
గీర్దేవో గీష్ప్రియో గీర్భూర్గీరాత్మా గీష్ప్రియఙ్కరః
గీర్భూమిర్గీరసన్నోఽథ గీఃప్రసన్నో గిరీశ్వరః
గిరీశజో గిరౌశాయీ గిరిరాజసుఖావహః
గిరిరాజార్చితపదో గిరిరాజనమస్కృతః
గిరిరాజగుహావిష్టో గిరిరాజాభయప్రదః
గిరిరాజేష్టవరదో గిరిరాజప్రపాలకః
గిరిరాజసుతాసూనుర్గిరిరాజజయప్రదః
గిరివ్రజవనస్థాయీ గిరివ్రజచరః సదా
గర్గో గర్గప్రియో గర్గదేహో గర్గనమస్కృతః
గర్గభీతిహరో గర్గవరదో గర్గసంస్తుతః
గర్గగీతప్రసన్నాత్మా గర్గానన్దకరః సదా
గర్గప్రియో గర్గమానప్రదో గర్గారిభఞ్జకః
గర్గవర్గపరిత్రాతా గర్గసిద్ధిప్రదాయకః
గర్గగ్లానిహరో గర్గభ్రమహృద్గర్గసఙ్గతః
గర్గాచార్యో గర్గమునిర్గర్గసమ్మానభాజనః
గమ్భీరో గణితప్రజ్ఞో గణితాగమసారవిత్
గణకో గణకశ్లాఘ్యో గణకప్రణయోత్సుకః
గణకప్రవణస్వాన్తో గణితో గణితాగమః
గద్యం గద్యమయో గద్యపద్యవిద్యావిశారదః
గలలగ్నమహానాగో గలదర్చిర్గలన్మదః
గలత్కుష్ఠివ్యథాహన్తా గలత్కుష్ఠిసుఖప్రదః
గమ్భీరనాభిర్గమ్భీరస్వరో గమ్భీరలోచనః
గమ్భీరగుణసమ్పన్నో గమ్భీరగతిశోభనః
గర్భప్రదో గర్భరూపో గర్భాపద్వినివారకః
గర్భాగమనసన్నాశో గర్భదో గర్భశోకనుత్
గర్భత్రాతా గర్భగోప్తా గర్భపుష్టికరః సదా
గర్భాశ్రయో గర్భమయో గర్భామయనివారకః
గర్భాధారో గర్భధరో గర్భసన్తోషసాధకః
గర్భగౌరవసన్ధానసన్ధానం గర్భవర్గహృత్
గరీయాన్ గర్వనుద్గర్వమర్దీ గరదమర్దకః
గరసన్తాపశమనో గురురాజ్యసుఖప్రదః।
ఫలశ్రుతిః
నామ్నాం సహస్రముదితం మహద్గణపతేరిదమ్
గకారాది జగద్వన్ద్యం గోపనీయం ప్రయత్నతః
య ఇదం ప్రయతః ప్రాతస్త్రిసన్ధ్యం వా పఠేన్నరః
వాఞ్ఛితం సమవాప్నోతి నాత్ర కార్యా విచారణా
పుత్రార్థీ లభతే పుత్రాన్ ధనార్థీ లభతే ధనమ్
విద్యార్థీ లభతే విద్యాం సత్యం సత్యం న సంశయః
భూర్జత్వచి సమాలిఖ్య కుఙ్కుమేన సమాహితః
చతుర్థాం భౌమవారో చ చన్ద్రసూర్యోపరాగకే
పూజయిత్వా గణధీశం యథోక్తవిధినా పురా
పూజయేద్యో యథాశక్త్యా జుహుయాచ్చ శమీదలైః
గురుం సమ్పూజ్య వస్త్రాద్యైః కృత్వా చాపి ప్రదక్షిణమ్
ధారయేద్యః ప్రయత్నేన స సాక్షాద్గణనాయకః
సురాశ్చాసురవర్యాశ్చ పిశాచాః కిన్నరోరగః
ప్రణమన్తి సదా తం వై దుష్ట్వా విస్మితమానసాః
రాజా సపది వశ్యః స్యాత్ కామిన్యస్తద్వశో స్థిరాః
తస్య వంశో స్థిరా లక్ష్మీః కదాఽపి న విముఞ్చతి
నిష్కామో యః పఠేదేతద్గణేశ్వరపరాయణః
స ప్రతిష్ఠాం పరాం ప్రాప్య నిజలోకమవాప్నుయాత్
ఇదం తే కీర్తితం నామ్నాం సహస్రం దేవి పావనమ్
న దేయం కృపణాయాథ శఠాయ గురువిద్విషే
దత్త్వా చ భ్రంశమాప్నోతి దేవతాయాః ప్రకోపతః
ఇతి శ్రుత్వా మహాదేవీ తదా విస్మితమానసా
పూజయామాస విధివద్గణేశ్వరపదద్వయమ్
॥ఇతి శ్రీ-రుద్రయామలే మహాగుప్తసారే శివపార్వతీసంవాదే గకారాది శ్రీ-గణపతిసహస్రనామస్తోత్రం సమ్పూర్ణమ్॥
gakārādi śrī-gaṇapati sahasranāma-stotram
asya śrīgaṇapatigakārādisahasranāmamālāmantrasya|\\
durvāsā ṛṣiḥ| anuṣṭup chandaḥ| śrī-gaṇapatirdevatā|\\
gaṃ bījam| svāhā śaktiḥ| glauṃ kīlakam |\\
sakalābhīṣṭasiddhyarthe jape viniyogaḥ ||
karanyāsaḥ
oṃ aṅguṣṭhābhyāṃ namaḥ| śrīṃ tarjanībhyāṃ namaḥ|\\
hrīṃ madhyamābhyāṃ namaḥ| krīṃ anāmikābhyāṃ namaḥ|\\
glauṃ kaniṣṭhikābhyāṃ namaḥ| gaṃ karatalakarapṛṣṭhābhyāṃ namaḥ|\\
evaṃ hṛdayādinyāsaḥ|\\
athavā ṣaḍdīrghabhājāgamitibījena karāṅganyāsaḥ||
dhyānam
oṅkāra-sannibhamibhānanamindubhālammuktāgrabindumamaladyutimekadantaṃ
lambodaraṃ kalacaturbhujamādidevamdhyāyenmahāgaṇapatiṃ matisiddhikāntam
stotram
oṃ gaṇeśvaro gaṇādhyakṣo gaṇārādhyo gaṇapriyaḥ
gaṇanātho gaṇasvāmī gaṇeśo gaṇanāyakaḥ
gaṇamūrtirgaṇapatirgaṇatrātā gaṇañjayaḥ
gaṇapo'tha gaṇakrīḍo gaṇadevo gaṇādhipaḥ
gaṇajyeṣṭho gaṇaśreṣṭho gaṇapreṣṭho gaṇādhirāṭ
gaṇarāḍ gaṇagoptātha gaṇāṅgo gaṇadaivatam
gaṇabandhurgaṇasuhṛdgaṇādhīśo gaṇaprathaḥ
gaṇapriyasakhaḥ śaśvadgaṇapriyasuhṛt tathā
gaṇapriyarato nityaṃ gaṇaprītivivardhanaḥ
gaṇamaṇḍalamadhyastho gaṇakeliparāyaṇaḥ
gaṇāgraṇīrgaṇeśāno gaṇagīto gaṇocchrayaḥ
gaṇyo gaṇahito garjadgaṇaseno gaṇoddhataḥ
gaṇabhītipramathano gaṇabhītyapahārakaḥ
gaṇanārho gaṇaprauḍho gaṇabhartā gaṇaprabhuḥ
gaṇaseno gaṇacaro gaṇaprajño gaṇaikarāṭ
gaṇāgryo gaṇanāmā ca gaṇapālanatatparaḥ
gaṇajidgaṇagarbhastho gaṇapravaṇamānasaḥ
gaṇagarvaparīhartā gaṇo gaṇanamaskṛtaḥ
gaṇārcitāṅghriyugalo gaṇarakṣaṇakṛt sadā
gaṇadhyāto gaṇagururgaṇapraṇayatatparaḥ
gaṇāgaṇaparitrātā gaṇādhiharaṇoddhuraḥ
gaṇaseturgaṇanuto gaṇaketurgaṇāgragaḥ
gaṇaheturgaṇagrāhī gaṇānugrahakārakaḥ
gaṇāgaṇānugrahabhūrgaṇāgaṇavarapradaḥ
gaṇastuto gaṇaprāṇo gaṇasarvasvadāyakaḥ
gaṇavallabhamūrtiśca gaṇabhūtirgaṇeṣṭadaḥ
gaṇasaukhyapradātā ca gaṇaduḥkhapraṇāśanaḥ
gaṇaprathitanāmā ca gaṇābhīṣṭakaraḥ sadā
gaṇamānyo gaṇakhyāto gaṇavīto gaṇotkaṭaḥ
gaṇapālo gaṇavaro gaṇagauravadāyakaḥ
gaṇagarjitasantuṣṭo gaṇasvacchandagaḥ sadā
gaṇarājo gaṇaśrīdo gaṇābhayakaraḥ kṣaṇāt
gaṇamūrdhābhiṣiktaśca gaṇasainyapurassaraḥ
guṇātīto guṇamayo guṇatrayavibhāgakṛt
guṇī guṇākṛtidharo guṇaśālī guṇapriyaḥ
guṇapūrṇo guṇāmbhodhirguṇabhāg guṇadūragaḥ
guṇāguṇavapurgauṇaśarīro guṇamaṇḍitaḥ
guṇastraṣṭā guṇeśāno guṇeśo'tha guṇeśvaraḥ
guṇasṛṣṭajagatsaṅgho guṇasaṅgho guṇaikarāṭ
guṇapravṛṣṭo guṇabhūrguṇīkṛtacarācaraḥ
guṇapravaṇasantuṣṭo guṇahīnaparāṅmukhaḥ
guṇaikabhūrguṇaśreṣṭho guṇajyeṣṭho guṇaprabhuḥ
guṇajño guṇasampūjyo guṇaikasadanaṃ sadā
guṇapraṇayavān gauṇaprakṛtirguṇabhājanam
guṇipraṇatapādābjo guṇigīto guṇojjvalaḥ
guṇavān guṇasampanno guṇānanditamānasaḥ
guṇasañcāracaturo guṇasañcayasundaraḥ
guṇagauro guṇādhāro guṇasaṃvṛtacetanaḥ
guṇakṛdguṇabhṛnnityaṃ guṇāgryo guṇapāradṛk
guṇapracārī guṇayug guṇāguṇavivekakṛt
guṇākaro guṇakaro guṇapravaṇavardhanaḥ
guṇagūḍhacaro gauṇasarvasaṃsāraceṣṭitaḥ
guṇadakṣiṇasauhārdo guṇalakṣaṇatattvavit
guṇahārī guṇakalo guṇasaṅghasakhaḥ sadā
guṇasaṃskṛtasaṃsāro guṇatattvavivecakaḥ
guṇagarvadharo gauṇasukhaduḥkhodayo guṇaḥ
guṇādhīśo guṇalayo guṇavīkṣaṇalālasaḥ
guṇagauravadātā ca guṇadātā guṇapradaḥ
guṇakṛdguṇasambandho guṇabhṛdguṇabandhanaḥ
guṇahṛdyo guṇasthāyī guṇadāyī guṇotkaṭaḥ
guṇacakradharo gauṇāvatāro guṇabāndhavaḥ
guṇabandhurguṇaprajño guṇaprājño guṇālayaḥ
guṇadhātā guṇaprāṇo guṇagopo guṇāśrayaḥ
guṇayāyī guṇādhāyī guṇapo guṇapālakaḥ
guṇāhṛtatanurgauṇo gīrvāṇo guṇagauravaḥ
guṇavatpūjitapado guṇavatprītidāyakaḥ
guṇavadgītakīrtiśca guṇavad baddhasauhṛdaḥ
guṇavadvarado nityaṃ guṇavatpratipālakaḥ
guṇavadguṇasantuṣṭo guṇavadracitastavaḥ
guṇavadrakṣaṇaparo guṇavatpraṇayapriyaḥ
guṇavaccakrasañcāro guṇavatkīrtivardhanaḥ
guṇavadguṇacittastho guṇavadguṇarakṣakaḥ
guṇavatpoṣaṇakaro guṇavacchatrusūdanaḥ
guṇavatsiddhidātā ca guṇavadgauravapradaḥ
guṇavatpravaṇasvānto guṇavadguṇabhūṣaṇaḥ
guṇavatkulavidveṣivināśakaraṇakṣamaḥ
guṇistutaguṇo garjapralayāmbudaniḥsvanaḥ
gajo gajapatirgarjadgajayuddhaviśāradaḥ
gajāsyo gajakarṇo'tha gajarājo gajānanaḥ
gajarūpadharo garjadgajayūthoddhuradhvaniḥ
gajādhīśo gajādhāro gajāsurajayoddhuraḥ
gajadanto gajavaro gajakumbho gajadhvaniḥ
gajamāyo gajamayo gajaśrīrgajagarjitaḥ
gajāmayaharo nityaṃ gajapuṣṭipradāyakaḥ
gajotpattirgajatrātā gajaheturgajādhipaḥ
gajamukhyo gajakulapravaro gajadaityahā
gajaketurgajādhyakṣo gajaseturgajākṛtiḥ
gajavandyo gajaprāṇo gajasevyo gajaprabhuḥ
gajamatto gajeśāno gajeśo gajapuṅgavaḥ
gajadantadharo guñjanmadhupo gajaveṣabhṛt
gajacchanno gajāgrastho gajayāyī gajājayaḥ
gajarāḍgajayūthastho gajagañjakabhañjakaḥ
garjitojñitadaityāsurgarjitatrātaviṣṭapaḥ
gānajño gānakuśalo gānatattvavivecakaḥ
gānaślāghī gānaraso gānajñānaparāyaṇaḥ
gānāgamajño gānāṅgo gānapravaṇacetanaḥ
gānakṛdgānacaturo gānavidyāviśāradaḥ
gānadhyeyo gānagamyo gānadhyānaparāyaṇaḥ
gānabhūrgānaśīlaśca gānaśālī gataśramaḥ
gānavijñānasampanno gānaśravaṇalālasaḥ
gānayatto gānamayo gānapraṇayavān sadā
gānadhyātā gānabuddhirgānotsukamanāḥ punaḥ
gānotsuko gānabhūmirgānasīmā guṇojjvalaḥ
gānaṅgajñānavān gānamānavān gānapeśalaḥ
gānavatpraṇayo gānasamudro gānabhūṣaṇaḥ
gānasindhurgānaparo gānaprāṇo gaṇāśrayaḥ
gānaikabhūrgānahṛṣṭo gānacakṣurgāṇaikadṛk
gānamatto gānarucirgānavidgānavitpriyaḥ
gānāntarātmā gānāḍhyo gānabhrājatsabhaḥ sadā
gānamayo gānadharo gānavidyāviśodhakaḥ
gānāhitaghro gānendro gānalīno gatipriyaḥ
gānādhīśo gānalayo gānādhāro gatīśvaraḥ
gānavanmānado gānabhūtirgānaikabhūtimān
gānatānatato gānatānadānavimohitaḥ
gururgurudaraśroṇirgurutattvārthadarśanaḥ
gurustuto guruguṇo gurumāyo gurupriyaḥ
gurukīrtirgurubhujo guruvakṣā guruprabhaḥ
gurulakṣaṇasampanno gurudrohaparāṅmukhaḥ
guruvidyo guruprāṇo gurubāhubalocchrayaḥ
gurudaityaprāṇaharo gurudaityāpahārakaḥ
gurugarvaharo guhyapravaro gurudarpahā
gurugauravadāyī ca gurubhītyapahārakaḥ
guruśuṇḍo guruskandho gurujaṅgho guruprathaḥ
gurubhālo gurugalo guruśrīrgurugarvanut
gurūrurgurupīnāṃso gurupraṇayalālasaḥ
gurumukhyo gurukulasthāyī guruguṇaḥ sadā
gurusaṃśayabhettā ca gurumānapradāyakaḥ
gurudharmasadārādhyo gurudharmaniketanaḥ
gurudaityakulacchettā gurusainyo gurudyutiḥ
gurudharmāgragaṇyo'tha gurudharmadhurandharaḥ
gariṣṭho gurusantāpaśamano gurupūjitaḥ
gurudharmadharo gauradharmādhāro gadāpahaḥ
guruśāstravicārajño guruśāstrakṛtodyamaḥ
guruśāstrārthanilayo guruśāstrālayaḥ sadā
gurumantro guruśeṣṭho gurumantraphalapradaḥ
gurustrīgamanoddāmaprāyaścittanivārakaḥ
gurusaṃsārasukhado gurusaṃsāraduḥkhabhit
guruślāghāparo gaurabhānukhaṇḍāvataṃsabhṛt
guruprasannamūrtiśca guruśāpavimocakaḥ
gurukāntirgurumayo guruśāsanapālakaḥ
gurutantro guruprajño gurubho gurudaivatam
guruvikramasañcāro gurudṛgguruvikramaḥ
gurukramo gurupreṣṭho gurupākhaṇḍakhaṇḍakaḥ
gurugarjitasampūrṇabrahmāṇḍo gurugarjitaḥ
guruputrapriyasakho guruputrabhayāpahaḥ
guruputraparitrātā guruputravarapradaḥ
guruputrārtiśamano guruputrādhināśanaḥ
guruputraprāṇadātā gurubhaktiparāyaṇaḥ
guruvijñānavibhavo gaurabhānuvarapradaḥ
gaurabhānustuto gaurabhānutrāsāpahārakaḥ
gaurabhānupriyo gaurabhānurgauravavardhanaḥ
gaurabhānuparitrātā gaurabhānusakhaḥ sadā
gaurabhānurprabhurgaurabhānubhītipraṇāśanaḥ
gaurītejaḥsamutpanno gaurīhṛdayanandanaḥ
gaurīstanandhayo gaurīmanovāñchitasiddhikṛt
gauro gauraguṇo gauraprakāśo gaurabhairavaḥ
gaurīśanandano gaurīpriyaputro gadādharaḥ
gaurīvaraprado gaurīpraṇayo gaurasacchaviḥ
gaurīgaṇeśvaro gaurīpravaṇo gaurabhāvanaḥ
gaurātmā gaurakīrtiśca gaurabhāvo gariṣṭhadṛk
gautamo gautamīnātho gautamīprāṇavallabhaḥ
gautamābhīṣṭavarado gautamābhayadāyakaḥ
gautamapraṇayaprahvo gautamāśramaduḥkhahā
gautamītīrasañcārī gautamītīrthanāyakaḥ
gautamāpatparihāro gautamādhivināśanaḥ
gopatirgodhano gopo gopālapriyadarśanaḥ
gopālo gogaṇādhīśo gokaśmalanivartakaḥ
gosahasro gopavaro gopagopīsukhāvahaḥ
govardhano gopagopo gopo gokulavardhanaḥ
gocaro gocarādhyakṣo gocaraprītivṛddhikṛt
gomī gokaṣṭasantrātā gosantāpanivartakaḥ
goṣṭho goṣṭhāśrayo goṣṭhapatirgodhanavardhanaḥ
goṣṭhapriyo goṣṭhamayo goṣṭhāmayanivartakaḥ
goloko golako gobhṛdgobhartā gosukhāvahaḥ
godhuggodhuggaṇapreṣṭho godogdhā gomayapriyaḥ
gotraṃ gotrapatirgotraprabhurgotrabhayāpahaḥ
gotravṛddhikaro gotrapriyo gotrārtināśanaḥ
gotroddhāraparo gotrapravaro gotradaivatam
gotravikhyātanāmā ca gotrī gotraprapālakaḥ
gotraseturgotraketurgotraheturgataklamaḥ
gotratrāṇakaro gotrapatirgotreśapūjitaḥ
gotrabhidgotrabhittrātā gotrabhidvaradāyakaḥ
gotrabhitpūjitapado gotrabhicchatrusūdanaḥ
gotrabhitprītido nityaṃ gotrabhidgotrapālakaḥ
gotrabhidgītacarito gotrabhidrājyarakṣakaḥ
gotrabhijjayadāyī ca gotrabhitpraṇayaḥ sadā
gotrabhidbhayasambhettā gotrabhinmānadāyakaḥ
gotrabhidgopanaparo gotrabhitsainyanāyakaḥ
gotrādhipapriyo gotraputrīputro giripriyaḥ
granthajño granthakṛdgranthagranthibhidgranthavighnahā
granthādirgranthasañcāro granthaśravaṇalolupaḥ
granthādīnakriyo granthapriyo granthārthatattvavit
granthasaṃśayasañchedī granthavaktā grahāgraṇīḥ
granthagītaguṇo granthagīto granthādipūjitaḥ
granthārambhastuto granthagrāhī granthārthapāradṛk
granthadṛggranthavijñāno granthasandarbhaṣodhakaḥ
granthakṛtpūjito granthakaro granthaparāyaṇaḥ
granthapārāyaṇaparo granthasandehabhañjakaḥ
granthakṛdvaradātā ca granthakṛdvanditaḥ sadā
granthānurakto granthajño granthānugrahadāyakaḥ
granthāntarātmā granthārthapaṇḍito granthasauhṛdaḥ
granthapāraṅgamo granthaguṇavidgranthavigrahaḥ
granthaseturgranthaheturgranthaketurgrahāgragaḥ
granthapūjyo granthageyo granthagrathanalālasaḥ
granthabhūmirgrahaśreṣṭho grahaketurgrahāśrayaḥ
granthakāro granthakāramānyo granthaprasārakaḥ
granthaśramajño granthāṅgo granthabhramanivārakaḥ
granthapravaṇasarvāṅgo granthapraṇayatatparaḥ
gītaṃ gītaguṇo gītakīrtirgītaviśāradaḥ
gītasphītayaśā gītapraṇayo gītacañcuraḥ
gītaprasanno gītātmā gītalolo gataspṛhaḥ
gītāśrayo gītamayo gītatattvārthakovidaḥ
gītasaṃśayasañchettā gītasaṅgītaśāsanaḥ
gītārthajño gītatattvo gītātattvaṃ gatāśrayaḥ
gītāsāro'tha gītākṛdgītākṛdvighnanāśanaḥ
gītāśakto gītalīno gītāvigatasañjvaraḥ
gītaikadṛggītabhūtirgītaprīto gatālasaḥ
gītavādyapaṭurgītaprabhurgītārthatattvavit
gītāgītavivekajño gītāpravaṇacetanaḥ
gatabhīrgatavidveṣo gatasaṃsārabandhanaḥ
gatamāyo gatatrāso gataduḥkho gatajvaraḥ
gatāsuhṛdgatajñāno gataduṣṭāśayo gataḥ
gatārtirgatasaṅkalpo gataduṣṭaviceṣṭitaḥ
gatāhaṅkārasañcāro gatadarpo gatāhitaḥ
gatavighno gatabhayo gatāgatanivārakaḥ
gatavyatho gatāpāyo gatadoṣo gateḥ paraḥ
gatasarvavikāro'tha gatagañjitakuñjaraḥ
gatakampitabhūpṛṣṭho gataruggatakalmaṣaḥ
gatadainyo gatastainyo gatamāno gataśramaḥ
gatakrodho gataglānirgatamlāno gatabhramaḥ
gatābhāvo gatabhavo gatatattvārthasaṃśayaḥ
gayāsuraśiraśchettā gayāsuravarapradaḥ
gayāvāso gayānātho gayāvāsinamaskṛtaḥ
gayātīrthaphalādhyakṣo gayāyātrāphalapradaḥ
gayāmayo gayākṣetraṃ gayākṣetranivāsakṛt
gayāvāsistuto gayānmadhuvratalasatkaṭaḥ
gāyako gāyakavaro gāyakeṣṭaphalapradaḥ
gāyakapraṇayī gātā gāyakābhayadāyakaḥ
gāyakapravaṇasvānto gāyakaḥ prathamaḥ sadā
gāyakodgītasamprīto gāyakotkaṭavighnahā
gānageyo gānakeśo gāyakāntarasañcaraḥ
gāyakapriyadaḥ śaśvadgāyakādhīnavigrahaḥ
geyo geyaguṇo geyacarito geyatattvavit
gāyakatrāsahā grantho granthatattvavivecakaḥ
gāḍhānurāgo gāḍhāṅgo gāḍhāgaṅgājalo'nvaham
gāḍhāvagāḍhajaladhirgāḍhaprajño gatāmayaḥ
gāḍhapratyarthisainyo'tha gāḍhānugrahatatparaḥ
gāḍhaśleṣarasābhijño gāḍhanirvṛtisādhakaḥ
gaṅgādhareṣṭavarado gaṅgādharabhayāpahaḥ
gaṅgādharagururgaṅgādharadhyātapadaḥ sadā
gaṅgādharastuto gaṅgādharārādhyo gatasmayaḥ
gaṅgādharapriyo gaṅgādharo gaṅgāmbusundaraḥ
gaṅgājalarasāsvādacaturo gāṅgatīrayaḥ
gaṅgājalapraṇayavān gaṅgātīravihārakṛt
gaṅgāpriyo gaṅgājalāvagāhanaparaḥ sadā
gandhamādanasaṃvāso gandhamādanakelikṛt
gandhānuliptasarvāṅgo gandhalubdhamadhuvrataḥ
gandho gandharvarājo'tha gandharvapriyakṛt sadā
gandharvavidyātattvajño gandharvaprītivardhanaḥ
gakārabījanilayo gakāro garvigarvanut
gandharvagaṇasaṃsevyo gandharvavaradāyakaḥ
gandharvo gandhamātaṅgo gandharvakuladaivatam
gandharvagarvasañchettā gandharvavaradarpahā
gandharvapravaṇasvānto gandharvagaṇasaṃstutaḥ
gandharvārcitapādābjo gandharvabhayahārakaḥ
gandharvābhayadaḥ śaśvadgandharvapratipālakaḥ
gandharvagītacarito gandharvapraṇayotsukaḥ
gandharvagānaśravaṇapraṇayī garvabhañjanaḥ
gandharvatrāṇasannaddho gandharvasamarakṣamaḥ
gandharvastrībhirārādhyo gānaṃ gānapaṭuḥ sadā
gaccho gacchapatirgacchanāyako gacchagarvahā
gaccharājo'tha gaccheśo gaccharājanamaskṛtaḥ
gacchapriyo gacchagururgacchatrāṇakṛtodyamaḥ
gacchaprabhurgacchacaro gacchapriyakṛtodyamaḥ
gacchagītaguṇo gacchamaryādāpratipālakaḥ
gacchadhātā gacchabhartā gacchavandyo gurorguruḥ
gṛtso gṛtsamado gṛtsamadābhīṣṭavarapradaḥ
gīrvāṇagītacarito gīrvāṇagaṇasevitaḥ
gīrvāṇavaradātā ca gīrvāṇabhayanāśakṛt
gīrvāṇaguṇasaṃvīto gīrvāṇārātisūdanaḥ
gīrvāṇadhāma gīrvāṇagoptā gīrvāṇagarvahṛt
gīrvāṇārtiharo nityaṃ gīrvāṇavaradāyakaḥ
gīrvāṇaśaraṇaṃ gītanāmā gīrvāṇasundaraḥ
gīrvāṇaprāṇado gantā gīrvāṇānīkarakṣakaḥ
guhehāpūrako gandhamatto gīrvāṇapuṣṭidaḥ
gīrvāṇaprayutatrātā gītagotro gatāhitaḥ
gīrvāṇasevitapado gīrvāṇaprathito galat
gīrvāṇagotrapravaro gīrvāṇaphaladāyakaḥ
gīrvāṇapriyakartā ca gīrvāṇāgamasāravit
gīrvāṇāgamasampattirgīrvāṇavyasanāpahaḥ
gīrvāṇapraṇayo gītagrahaṇotsukamānasaḥ
gīrvāṇabhramasambhettā gīrvāṇagurupūjitaḥ
graho grahapatirgrāho grahapīḍāpraṇāśanaḥ
grahastuto grahādhyakṣo graheśo grahadaivatam
grahakṛdgrahabhartā ca graheśāno graheśvaraḥ
grahārādhyo grahatrātā grahagoptā grahotkaṭaḥ
grahagītaguṇo granthapraṇetā grahavanditaḥ
gavī gavīśvaro garvī garviṣṭho garvigarvahā
gavāmpriyo gavānnātho gavīśāno gavāmpatī
gavyapriyo gavāṅgoptā gavisampattisādhakaḥ
gavirakṣaṇasannaddho gavāmbhayaharaḥ kṣaṇāt
gavigarvaharo godo goprado gojayapradaḥ
gajāyutabalo gaṇḍaguñjanmattamadhuvrataḥ
gaṇḍasthalalasaddānamilanmattālimaṇḍitaḥ
guḍo guḍapriyo guṇḍagaladdāno guḍāśanaḥ
guḍākeśo guḍākeśasahāyo guḍalaḍḍubhuk
guḍabhugguḍabhuggaṇayo guḍākeśavarapradaḥ
guḍākeśārcitapado guḍākeśasakhaḥ sadā
gadādharārcitapado gadādharavarapradaḥ
gadāyudho gadāpāṇirgadāyuddhaviśāradaḥ
gadahā gadadarpaghno gadagarvapraṇāśanaḥ
gadagrastaparitrātā gadāḍambarakhaṇḍakaḥ
guho guhāgrajo gupto guhāśāyī guhāśayaḥ
guhaprītikaro gūḍho gūḍhagulpho guṇaikadṛk
gīrgīṣpatirgirīśāno gīrdevīgītasadguṇaḥ
gīrdevo gīṣpriyo gīrbhūrgīrātmā gīṣpriyaṅkaraḥ
gīrbhūmirgīrasanno'tha gīḥprasanno girīśvaraḥ
girīśajo girauśāyī girirājasukhāvahaḥ
girirājārcitapado girirājanamaskṛtaḥ
girirājaguhāviṣṭo girirājābhayapradaḥ
girirājeṣṭavarado girirājaprapālakaḥ
girirājasutāsūnurgirirājajayapradaḥ
girivrajavanasthāyī girivrajacaraḥ sadā
gargo gargapriyo gargadeho garganamaskṛtaḥ
gargabhītiharo gargavarado gargasaṃstutaḥ
gargagītaprasannātmā gargānandakaraḥ sadā
gargapriyo gargamānaprado gargāribhañjakaḥ
gargavargaparitrātā gargasiddhipradāyakaḥ
gargaglāniharo gargabhramahṛdgargasaṅgataḥ
gargācāryo gargamunirgargasammānabhājanaḥ
gambhīro gaṇitaprajño gaṇitāgamasāravit
gaṇako gaṇakaślāghyo gaṇakapraṇayotsukaḥ
gaṇakapravaṇasvānto gaṇito gaṇitāgamaḥ
gadyaṃ gadyamayo gadyapadyavidyāviśāradaḥ
galalagnamahānāgo galadarcirgalanmadaḥ
galatkuṣṭhivyathāhantā galatkuṣṭhisukhapradaḥ
gambhīranābhirgambhīrasvaro gambhīralocanaḥ
gambhīraguṇasampanno gambhīragatiśobhanaḥ
garbhaprado garbharūpo garbhāpadvinivārakaḥ
garbhāgamanasannāśo garbhado garbhaśokanut
garbhatrātā garbhagoptā garbhapuṣṭikaraḥ sadā
garbhāśrayo garbhamayo garbhāmayanivārakaḥ
garbhādhāro garbhadharo garbhasantoṣasādhakaḥ
garbhagauravasandhānasandhānaṃ garbhavargahṛt
garīyān garvanudgarvamardī garadamardakaḥ
garasantāpaśamano gururājyasukhapradaḥ|
phalaśrutiḥ
nāmnāṃ sahasramuditaṃ mahadgaṇapateridam
gakārādi jagadvandyaṃ gopanīyaṃ prayatnataḥ
ya idaṃ prayataḥ prātastrisandhyaṃ vā paṭhennaraḥ
vāñchitaṃ samavāpnoti nātra kāryā vicāraṇā
putrārthī labhate putrān dhanārthī labhate dhanam
vidyārthī labhate vidyāṃ satyaṃ satyaṃ na saṃśayaḥ
bhūrjatvaci samālikhya kuṅkumena samāhitaḥ
caturthāṃ bhaumavāro ca candrasūryoparāgake
pūjayitvā gaṇadhīśaṃ yathoktavidhinā purā
pūjayedyo yathāśaktyā juhuyācca śamīdalaiḥ
guruṃ sampūjya vastrādyaiḥ kṛtvā cāpi pradakṣiṇam
dhārayedyaḥ prayatnena sa sākṣādgaṇanāyakaḥ
surāścāsuravaryāśca piśācāḥ kinnaroragaḥ
praṇamanti sadā taṃ vai duṣṭvā vismitamānasāḥ
rājā sapadi vaśyaḥ syāt kāminyastadvaśo sthirāḥ
tasya vaṃśo sthirā lakṣmīḥ kadā'pi na vimuñcati
niṣkāmo yaḥ paṭhedetadgaṇeśvaraparāyaṇaḥ
sa pratiṣṭhāṃ parāṃ prāpya nijalokamavāpnuyāt
idaṃ te kīrtitaṃ nāmnāṃ sahasraṃ devi pāvanam
na deyaṃ kṛpaṇāyātha śaṭhāya guruvidviṣe
dattvā ca bhraṃśamāpnoti devatāyāḥ prakopataḥ
iti śrutvā mahādevī tadā vismitamānasā
pūjayāmāsa vidhivadgaṇeśvarapadadvayam
||iti śrī-rudrayāmale mahāguptasāre śivapārvatīsaṃvāde gakārādi śrī-gaṇapatisahasranāmastotraṃ sampūrṇam||