सूर्यसहस्रनामस्तोत्रम्
शतानीक उवाच
नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज
येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम्
स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम्
न तदस्ति भयं किञ्चिद्यदनेन न नश्यति
ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः
अन्ये च रोगाः शाम्यन्ति पठतः शृण्वतस्तथा
सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः
य एतदादितः श्रुत्वा सङ्ग्रामं प्रविशेन्नरः
स जित्वा समरे शत्रूनभ्येति गृहमक्षतः
वन्ध्यानां पुत्रजननं भीतानां भयनाशनम्
भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम्
बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम्
पठते संयतो राजन् स श्रेयः परमाप्नुयात्
स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते
धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः
राज्याय राज्यकामैश्च पठितव्यमिदं नरैः
विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम्
पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम्
पठतां शृण्वतामेतद्भवतीति न संशयः
तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते
नाम्नां सहस्रं विख्यातं देवदेवस्य धीमतः
ध्यानम्
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः
स्तोत्रम्
ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः
कालाश्रयः कालकर्ता कालहा कालनाशनः
महायोगी महासिद्धिर्महात्मा सुमहाबलः
प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः
भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः
शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः
प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः
अव्यङ्गधारी धीरात्मा सविता वायुवाहनः
समाहितमतिर्दाता विधाता कृतमङ्गलः
कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः
अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः
कान्तः कामारिरादित्यो नियतात्मा निराकुलः
कामः कारुणिकः कर्ता कमलाकरबोधनः
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः
सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः
अयुक्तो विश्वनिलयः संविभागी वृषध्वजः
वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः
एकचक्ररथो मौनी सुरथो रथिनां वरः
सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः
दीननाथो हरो होता दिव्यबाहुर्दिवाकरः
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः
परापरज्ञस्तरणिरंशुमाली मनोहरः
प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान्
सदागतिर्गन्धवहो विहितो विधिराशुगः
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः
आलोककृल्लोकनाथो लोकालोकनमस्कृतः
कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः
विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः
श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः
श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः
कामचारी महामायो महोग्रोऽविदितामयः
तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः
समुद्रो धनदो धाता मान्धाता कश्मलापहः
तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः
पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः
अजितो विजितो जेता जङ्गमस्थावरात्मकः
जीवानन्दो नित्यगामी विजेता विजयप्रदः
पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः
ध्रुवो मेषी महावीर्यो हंसः संसारतारकः
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः
मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः
विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः
असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः
सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः
गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः
भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः
सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः
अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः
महावैद्यो गणपतिर्धनेशो गणनायकः
तीव्रप्रतापनस्तापी तापनो विश्वतापनः
कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट्
आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः
विगाही वेणुरसहः समायुक्तः समाक्रतुः
धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः
प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः
नभो विगाहनः सत्यः सवितात्मा मनोहरः
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः
सुखसेव्यो महातेजा जगतामेककारणम्
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः
सहस्रकर आयुष्मान् अरोषः सुखदः सुखी
व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः
आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः
हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान्
प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः
सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती
केयूरी भूषणोद्भासी भासितो भासनोऽनलः
शरण्यार्तिहरो होता खद्योतः खगसत्तमः
सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः
कल्याणः कल्याणकरः कल्यः कल्यकरः कविः
कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम्
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः
वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः
तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः
यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः
आकाशगः शीघ्रगतिराशुगो गतिमान् खगः
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः
जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः
सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः
मरीचिमाली सुमतिः कृताभिख्यविशेषकः
शिष्टाचारः शुभाचारः स्वचाराचारतत्परः
मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः
सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः
महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः
सर्ववेदप्रगीतात्मा सर्ववेदलयो महान्
वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः
क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः
व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः
अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः
आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः
चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः
वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत्
अप्रमेयः सदायोगी निरहङ्कार ईश्वरः
शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः
सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः
बलभृद् बलदो बन्धुर्मतिमान् बलिनां वरः
अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः
पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः
पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः
अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः
शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः
सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः
माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः
विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः
विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः
अखिन्नो वेदनिलयो वेदविद्विदिताशयः
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः
कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः
भास्करः सततानन्दो नन्दनो नरवाहनः
मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः
मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा
अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्छुचिः
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः
सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक्
सुवाहनो माल्यदामा कृताहारो हरिप्रियः
ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः
शतविन्दुः शतमुखो गरीयाननलप्रभः
धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः
अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः
निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशकः
दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः
भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः
चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः
विचित्ररथ एकाकी सप्तसप्तिः परात्परः
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः
निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः
पशुमान् वासवस्वामी वसुधामा वसुप्रदः
बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः
सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः
नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः
जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः
सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः
विग्रही विमलो विन्दुर्विशोको विमलद्युतिः
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली
घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट्
सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः
सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः
सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः
अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः
सन्तापनः सन्तपन आतपस्तपसां पतिः
उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः
प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः
सर्वगो जगदानन्दो जगन्नेता सुरारिहा
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः
उत्तमो मेरुमेयोऽथ धरणो धरणीधरः
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः
रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः
पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः
स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत्
व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः
एकरथो रथाधीशः पिता शनैश्चरस्य हि
वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः
प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः
सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः
श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः
संसारगतिविच्छेत्ता संसारार्णवतारकः
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः
धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः
लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः
धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः
पिनाकधृङ्महोत्साहो महामायो महाशनः
वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः
ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः
खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः
भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः
एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः
शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः
सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः
द्वापरः परमोदारः परमो ब्रह्मचर्यवान्
उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत्
सितः प्रसन्नवदनः पद्मोदरनिभाननः
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः
महारथो महानीशः शेषः सत्त्वरजस्तमः
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः
अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः
सर्वदो धनदो मोक्षो विहारी बहुदायकः
चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः
सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः
सैंहिकेयरिपुर्देवो वरदो वरनायकः
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक्
निरालम्बो गगनगो धर्मकर्मप्रभावकृत्
धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान्
आधारभूतो रतिमांस्तथा च धनधान्यकृत्
पापसन्तापहर्ता च मनोवाञ्छितदायकः
रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः
सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः
साम्राज्यदाननिरतः समाराधनतोषवान्
भक्तदुःखक्षयकरो भवसागरतारकः
भयापहर्ता भगवानप्रमेयपराक्रमः
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः
फलश्रुतिः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे
धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम्
बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात्
यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम्
नृपाग्नितस्करभयं व्याधितो न भयं भवेत्
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात्
कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः
नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः
॥इति श्री-भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम्॥
సూర్యసహస్రనామస్తోత్రమ్
శతానీక ఉవాచ
నామ్నాం సహస్రం సవితుః శ్రోతుమిచ్ఛామి హే ద్విజ
యేన తే దర్శనం యాతః సాక్షాద్దేవో దివాకరః
సర్వమఙ్గలమఙ్గల్యం సర్వపాపప్రణాశనమ్
స్తోత్రమేతన్మహాపుణ్యం సర్వోపద్రవనాశనమ్
న తదస్తి భయం కిఞ్చిద్యదనేన న నశ్యతి
జ్వరాద్యైర్ముచ్యతే రాజన్ స్తోత్రేఽస్మిన్ పఠితే నరః
అన్యే చ రోగాః శామ్యన్తి పఠతః శృణ్వతస్తథా
సమ్పద్యన్తే యథా కామాః సర్వ ఏవ యథేప్సితాః
య ఏతదాదితః శ్రుత్వా సఙ్గ్రామం ప్రవిశేన్నరః
స జిత్వా సమరే శత్రూనభ్యేతి గృహమక్షతః
వన్ధ్యానాం పుత్రజననం భీతానాం భయనాశనమ్
భూతికారి దరిద్రాణాం కుష్ఠినాం పరమౌషధమ్
బాలానాం చైవ సర్వేషాం గ్రహరక్షోనివారణమ్
పఠతే సంయతో రాజన్ స శ్రేయః పరమాప్నుయాత్
స సిద్ధః సర్వసఙ్కల్పః సుఖమత్యన్తమశ్నుతే
ధర్మార్థిభిర్ధర్మలుబ్ధైః సుఖాయ చ సుఖార్థిభిః
రాజ్యాయ రాజ్యకామైశ్చ పఠితవ్యమిదం నరైః
విద్యావహం తు విప్రాణాం క్షత్రియాణాం జయావహమ్
పశ్వావహం తు వైశ్యానాం శూద్రాణాం ధర్మవర్ధనమ్
పఠతాం శృణ్వతామేతద్భవతీతి న సంశయః
తచ్ఛృణుష్వ నృపశ్రేష్ఠ ప్రయతాత్మా బ్రవీమి తే
నామ్నాం సహస్రం విఖ్యాతం దేవదేవస్య ధీమతః
ధ్యానమ్
ధ్యేయః సదా సవితృమణ్డలమధ్యవర్తీ
నారాయణః సరసిజాసనసన్నివిష్టః
కేయూరవాన్ మకరకుణ్డలవాన్ కిరీటీ
హారీ హిరణ్మయవపుర్ధృతశఙ్ఖచక్రః
స్తోత్రమ్
ఓం విశ్వవిద్విశ్వజిత్కర్తా విశ్వాత్మా విశ్వతోముఖః
విశ్వేశ్వరో విశ్వయోనిర్నియతాత్మా జితేన్ద్రియః
కాలాశ్రయః కాలకర్తా కాలహా కాలనాశనః
మహాయోగీ మహాసిద్ధిర్మహాత్మా సుమహాబలః
ప్రభుర్విభుర్భూతనాథో భూతాత్మా భువనేశ్వరః
భూతభవ్యో భావితాత్మా భూతాన్తఃకరణం శివః
శరణ్యః కమలానన్దో నన్దనో నన్దవర్ధనః
వరేణ్యో వరదో యోగీ సుసంయుక్తః ప్రకాశకః
ప్రాప్తయానః పరప్రాణః పూతాత్మా ప్రయతః ప్రియః
నయః సహస్రపాత్ సాధుర్దివ్యకుణ్డలమణ్డితః
అవ్యఙ్గధారీ ధీరాత్మా సవితా వాయువాహనః
సమాహితమతిర్దాతా విధాతా కృతమఙ్గలః
కపర్దీ కల్పపాద్రుద్రః సుమనా ధర్మవత్సలః
సమాయుక్తో విముక్తాత్మా కృతాత్మా కృతినాం వరః
అవిచిన్త్యవపుః శ్రేష్ఠో మహాయోగీ మహేశ్వరః
కాన్తః కామారిరాదిత్యో నియతాత్మా నిరాకులః
కామః కారుణికః కర్తా కమలాకరబోధనః
సప్తసప్తిరచిన్త్యాత్మా మహాకారుణికోత్తమః
సఞ్జీవనో జీవనాథో జయో జీవో జగత్పతిః
అయుక్తో విశ్వనిలయః సంవిభాగీ వృషధ్వజః
వృషాకపిః కల్పకర్తా కల్పాన్తకరణో రవిః
ఏకచక్రరథో మౌనీ సురథో రథినాం వరః
సక్రోధనో రశ్మిమాలీ తేజోరాశిర్విభావసుః
దివ్యకృద్దినకృద్దేవో దేవదేవో దివస్పతిః
దీననాథో హరో హోతా దివ్యబాహుర్దివాకరః
యజ్ఞో యజ్ఞపతిః పూషా స్వర్ణరేతాః పరావరః
పరాపరజ్ఞస్తరణిరంశుమాలీ మనోహరః
ప్రాజ్ఞః ప్రాజ్ఞపతిః సూర్యః సవితా విష్ణురంశుమాన్
సదాగతిర్గన్ధవహో విహితో విధిరాశుగః
పతఙ్గః పతగః స్థాణుర్విహఙ్గో విహగో వరః
హర్యశ్వో హరితాశ్వశ్చ హరిదశ్వో జగత్ప్రియః
త్ర్యమ్బకః సర్వదమనో భావితాత్మా భిషగ్వరః
ఆలోకకృల్లోకనాథో లోకాలోకనమస్కృతః
కాలః కల్పాన్తకో వహ్నిస్తపనః సమ్ప్రతాపనః
విరోచనో విరూపాక్షః సహస్రాక్షః పురన్దరః
సహస్రరశ్మిర్మిహిరో వివిధామ్బరభూషణః
ఖగః ప్రతర్దనో ధన్యో హయగో వాగ్విశారదః
శ్రీమానశిశిరో వాగ్మీ శ్రీపతిః శ్రీనికేతనః
శ్రీకణ్ఠః శ్రీధరః శ్రీమాన్ శ్రీనివాసో వసుప్రదః
కామచారీ మహామాయో మహోగ్రోఽవిదితామయః
తీర్థక్రియావాన్ సునయో విభక్తో భక్తవత్సలః
కీర్తిః కీర్తికరో నిత్యః కుణ్డలీ కవచీ రథీ
హిరణ్యరేతాః సప్తాశ్వః ప్రయతాత్మా పరన్తపః
బుద్ధిమానమరశ్రేష్ఠో రోచిష్ణుః పాకశాసనః
సముద్రో ధనదో ధాతా మాన్ధాతా కశ్మలాపహః
తమోఘ్నో ధ్వాన్తహా వహ్నిర్హోతాఽన్తఃకరణో గుహః
పశుమాన్ ప్రయతానన్దో భూతేశః శ్రీమతాం వరః
నిత్యోఽదితో నిత్యరథః సురేశః సురపూజితః
అజితో విజితో జేతా జఙ్గమస్థావరాత్మకః
జీవానన్దో నిత్యగామీ విజేతా విజయప్రదః
పర్జన్యోఽగ్నిః స్థితిః స్థేయః స్థవిరోఽథ నిరఞ్జనః
ప్రద్యోతనో రథారూఢః సర్వలోకప్రకాశకః
ధ్రువో మేషీ మహావీర్యో హంసః సంసారతారకః
సృష్టికర్తా క్రియాహేతుర్మార్తణ్డో మరుతాం పతిః
మరుత్వాన్ దహనస్త్వష్టా భగో భర్గోఽర్యమా కపిః
వరుణేశో జగన్నాథః కృతకృత్యః సులోచనః
వివస్వాన్ భానుమాన్ కార్యః కారణస్తేజసాం నిధిః
అసఙ్గగామీ తిగ్మాంశుర్ఘర్మాంశుర్దీప్తదీధితిః
సహస్రదీధితిర్బ్రధ్నః సహస్రాంశుర్దివాకరః
గభస్తిమాన్ దీధితిమాన్ స్రగ్వీ మణికులద్యుతిః
భాస్కరః సురకార్యజ్ఞః సర్వజ్ఞస్తీక్ష్ణదీధితిః
సురజ్యేష్ఠః సురపతిర్బహుజ్ఞో వచసాం పతిః
తేజోనిధిర్బృహత్తేజా బృహత్కీర్తిర్బృహస్పతిః
అహిమానూర్జితో ధీమానాముక్తః కీర్తివర్ధనః
మహావైద్యో గణపతిర్ధనేశో గణనాయకః
తీవ్రప్రతాపనస్తాపీ తాపనో విశ్వతాపనః
కార్తస్వరో హృషీకేశః పద్మానన్దోఽతినన్దితః
పద్మనాభోఽమృతాహారః స్థితిమాన్ కేతుమాన్ నభః
అనాద్యన్తోఽచ్యుతో విశ్వో విశ్వామిత్రో ఘృణిర్విరాట్
ఆముక్తకవచో వాగ్మీ కఞ్చుకీ విశ్వభావనః
అనిమిత్తగతిః శ్రేష్ఠః శరణ్యః సర్వతోముఖః
విగాహీ వేణురసహః సమాయుక్తః సమాక్రతుః
ధర్మకేతుర్ధర్మరతిః సంహర్తా సంయమో యమః
ప్రణతార్తిహరో వాయుః సిద్ధకార్యో జనేశ్వరః
నభో విగాహనః సత్యః సవితాత్మా మనోహరః
హారీ హరిర్హరో వాయురృతుః కాలానలద్యుతిః
సుఖసేవ్యో మహాతేజా జగతామేకకారణమ్
మహేన్ద్రో విష్టుతః స్తోత్రం స్తుతిహేతుః ప్రభాకరః
సహస్రకర ఆయుష్మాన్ అరోషః సుఖదః సుఖీ
వ్యాధిహా సుఖదః సౌఖ్యం కల్యాణః కలతాం వరః
ఆరోగ్యకారణం సిద్ధిరృద్ధిర్వృద్ధిర్బృహస్పతిః
హిరణ్యరేతా ఆరోగ్యం విద్వాన్ బ్రధ్నో బుధో మహాన్
ప్రాణవాన్ ధృతిమాన్ ఘర్మో ఘర్మకర్తా రుచిప్రదః
సర్వప్రియః సర్వసహః సర్వశత్రువినాశనః
ప్రాంశుర్విద్యోతనో ద్యోతః సహస్రకిరణః కృతీ
కేయూరీ భూషణోద్భాసీ భాసితో భాసనోఽనలః
శరణ్యార్తిహరో హోతా ఖద్యోతః ఖగసత్తమః
సర్వద్యోతో భవద్యోతః సర్వద్యుతికరో మతః
కల్యాణః కల్యాణకరః కల్యః కల్యకరః కవిః
కల్యాణకృత్ కల్యవపుః సర్వకల్యాణభాజనమ్
శాన్తిప్రియః ప్రసన్నాత్మా ప్రశాన్తః ప్రశమప్రియః
ఉదారకర్మా సునయః సువర్చా వర్చసోజ్జ్వలః
వర్చస్వీ వర్చసామీశస్త్రైలోక్యేశో వశానుగః
తేజస్వీ సుయశా వర్ష్మీ వర్ణాధ్యక్షో బలిప్రియః
యశస్వీ తేజోనిలయస్తేజస్వీ ప్రకృతిస్థితః
ఆకాశగః శీఘ్రగతిరాశుగో గతిమాన్ ఖగః
గోపతిర్గ్రహదేవేశో గోమానేకః ప్రభఞ్జనః
జనితా ప్రజనో జీవో దీపః సర్వప్రకాశకః
సర్వసాక్షీ యోగనిత్యో నభస్వానసురాన్తకః
రక్షోఘ్నో విఘ్నశమనః కిరీటీ సుమనఃప్రియః
మరీచిమాలీ సుమతిః కృతాభిఖ్యవిశేషకః
శిష్టాచారః శుభాచారః స్వచారాచారతత్పరః
మన్దారో మాఠరో వేణుః క్షుధాపః క్ష్మాపతిర్గురుః
సువిశిష్టో విశిష్టాత్మా విధేయో జ్ఞానశోభనః
మహాశ్వేతః ప్రియో జ్ఞేయః సామగో మోక్షదాయకః
సర్వవేదప్రగీతాత్మా సర్వవేదలయో మహాన్
వేదమూర్తిశ్చతుర్వేదో వేదభృద్వేదపారగః
క్రియావానసితో జిష్ణుర్వరీయాంశుర్వరప్రదః
వ్రతచారీ వ్రతధరో లోకబన్ధురలఙ్కృతః
అలఙ్కారాక్షరో వేద్యో విద్యావాన్ విదితాశయః
ఆకారో భూషణో భూష్యో భూష్ణుర్భువనపూజితః
చక్రపాణిర్ధ్వజధరః సురేశో లోకవత్సలః
వాగ్మిపతిర్మహాబాహుః ప్రకృతిర్వికృతిర్గుణః
అన్ధకారాపహః శ్రేష్ఠో యుగావర్తో యుగాదికృత్
అప్రమేయః సదాయోగీ నిరహఙ్కార ఈశ్వరః
శుభప్రదః శుభః శాస్తా శుభకర్మా శుభప్రదః
సత్యవాన్ శ్రుతిమానుచ్చైర్నకారో వృద్ధిదోఽనలః
బలభృద్ బలదో బన్ధుర్మతిమాన్ బలినాం వరః
అనఙ్గో నాగరాజేన్ద్రః పద్మయోనిర్గణేశ్వరః
సంవత్సర ఋతుర్నేతా కాలచక్రప్రవర్తకః
పద్మేక్షణః పద్మయోనిః ప్రభావానమరః ప్రభుః
సుమూర్తిః సుమతిః సోమో గోవిన్దో జగదాదిజః
పీతవాసాః కృష్ణవాసా దిగ్వాసాస్త్విన్ద్రియాతిగః
అతీన్ద్రియోఽనేకరూపః స్కన్దః పరపురఞ్జయః
శక్తిమాఞ్జలధృగ్భాస్వాన్ మోక్షహేతురయోనిజః
సర్వదర్శీ జితాదర్శో దుఃస్వప్నాశుభనాశనః
మాఙ్గల్యకర్తా తరణిర్వేగవాన్ కశ్మలాపహః
స్పష్టాక్షరో మహామన్త్రో విశాఖో యజనప్రియః
విశ్వకర్మా మహాశక్తిర్ద్యుతిరీశో విహఙ్గమః
విచక్షణో దక్ష ఇన్ద్రః ప్రత్యూషః ప్రియదర్శనః
అఖిన్నో వేదనిలయో వేదవిద్విదితాశయః
ప్రభాకరో జితరిపుః సుజనోఽరుణసారథిః
కునాశీ సురతః స్కన్దో మహితోఽభిమతో గురుః
గ్రహరాజో గ్రహపతిర్గ్రహనక్షత్రమణ్డలః
భాస్కరః సతతానన్దో నన్దనో నరవాహనః
మఙ్గలోఽథ మఙ్గలవాన్ మాఙ్గల్యో మఙ్గలావహః
మఙ్గల్యచారుచరితః శీర్ణః సర్వవ్రతో వ్రతీ
చతుర్ముఖః పద్మమాలీ పూతాత్మా ప్రణతార్తిహా
అకిఞ్చనః సతామీశో నిర్గుణో గుణవాఞ్ఛుచిః
సమ్పూర్ణః పుణ్డరీకాక్షో విధేయో యోగతత్పరః
సహస్రాంశుః క్రతుమతిః సర్వజ్ఞః సుమతిః సువాక్
సువాహనో మాల్యదామా కృతాహారో హరిప్రియః
బ్రహ్మా ప్రచేతాః ప్రథితః ప్రయతాత్మా స్థిరాత్మకః
శతవిన్దుః శతముఖో గరీయాననలప్రభః
ధీరో మహత్తరో విప్రః పురాణపురుషోత్తమః
విద్యారాజాధిరాజో హి విద్యావాన్ భూతిదః స్థితః
అనిర్దేశ్యవపుః శ్రీమాన్ విపాప్మా బహుమఙ్గలః
స్వఃస్థితః సురథః స్వర్ణో మోక్షదో బలికేతనః
నిర్ద్వన్ద్వో ద్వన్ద్వహా సర్గః సర్వగః సమ్ప్రకాశకః
దయాలుః సూక్ష్మధీః క్షాన్తిః క్షేమాక్షేమస్థితిప్రియః
భూధరో భూపతిర్వక్తా పవిత్రాత్మా త్రిలోచనః
మహావరాహః ప్రియకృద్దాతా భోక్తాఽభయప్రదః
చక్రవర్తీ ధృతికరః సమ్పూర్ణోఽథ మహేశ్వరః
చతుర్వేదధరోఽచిన్త్యో వినిన్ద్యో వివిధాశనః
విచిత్రరథ ఏకాకీ సప్తసప్తిః పరాత్పరః
సర్వోదధిస్థితికరః స్థితిస్థేయః స్థితిప్రియః
నిష్కలః పుష్కలో విభుర్వసుమాన్ వాసవప్రియః
పశుమాన్ వాసవస్వామీ వసుధామా వసుప్రదః
బలవాన్ జ్ఞానవాంస్తత్త్వమోఙ్కారస్త్రిషు సంస్థితః
సఙ్కల్పయోనిర్దినకృద్భగవాన్ కారణాపహః
నీలకణ్ఠో ధనాధ్యక్షశ్చతుర్వేదప్రియంవదః
వషట్కారోద్గాతా హోతా స్వాహాకారో హుతాహుతిః
జనార్దనో జనానన్దో నరో నారాయణోఽమ్బుదః
సన్దేహనాశనో వాయుర్ధన్వీ సురనమస్కృతః
విగ్రహీ విమలో విన్దుర్విశోకో విమలద్యుతిః
ద్యుతిమాన్ ద్యోతనో విద్యుద్విద్యావాన్ విదితో బలీ
ఘర్మదో హిమదో హాసః కృష్ణవర్త్మా సుతాజితః
సావిత్రీభావితో రాజా విశ్వామిత్రో ఘృణిర్విరాట్
సప్తార్చిః సప్తతురగః సప్తలోకనమస్కృతః
సమ్పూర్ణోఽథ జగన్నాథః సుమనాః శోభనప్రియః
సర్వాత్మా సర్వకృత్ సృష్టిః సప్తిమాన్ సప్తమీప్రియః
సుమేధా మేధికో మేధ్యో మేధావీ మధుసూదనః
అఙ్గిరఃపతిః కాలజ్ఞో ధూమకేతుః సుకేతనః
సుఖీ సుఖప్రదః సౌఖ్యం కామీ కాన్తిప్రియో మునిః
సన్తాపనః సన్తపన ఆతపస్తపసాం పతిః
ఉమాపతిః సహస్రాంశుః ప్రియకారీ ప్రియఙ్కరః
ప్రీతిర్విమన్యురమ్భోత్థః ఖఞ్జనో జగతాం పతిః
జగత్పితా ప్రీతమనాః సర్వః ఖర్వో గుహోఽచలః
సర్వగో జగదానన్దో జగన్నేతా సురారిహా
శ్రేయః శ్రేయస్కరో జ్యాయాన్ మహానుత్తమ ఉద్భవః
ఉత్తమో మేరుమేయోఽథ ధరణో ధరణీధరః
ధరాధ్యక్షో ధర్మరాజో ధర్మాధర్మప్రవర్తకః
రథాధ్యక్షో రథగతిస్తరుణస్తనితోఽనలః
ఉత్తరోఽనుత్తరస్తాపీ అవాక్పతిరపాం పతిః
పుణ్యసఙ్కీర్తనః పుణ్యో హేతుర్లోకత్రయాశ్రయః
స్వర్భానుర్విగతానన్దో విశిష్టోత్కృష్టకర్మకృత్
వ్యాధిప్రణాశనః క్షేమః శూరః సర్వజితాం వరః
ఏకరథో రథాధీశః పితా శనైశ్చరస్య హి
వైవస్వతగురుర్మృత్యుర్ధర్మనిత్యో మహావ్రతః
ప్రలమ్బహారసఞ్చారీ ప్రద్యోతో ద్యోతితానలః
సన్తాపహృత్ పరో మన్త్రో మన్త్రమూర్తిర్మహాబలః
శ్రేష్ఠాత్మా సుప్రియః శమ్భుర్మరుతామీశ్వరేశ్వరః
సంసారగతివిచ్ఛేత్తా సంసారార్ణవతారకః
సప్తజిహ్వః సహస్రార్చీ రత్నగర్భోఽపరాజితః
ధర్మకేతురమేయాత్మా ధర్మాధర్మవరప్రదః
లోకసాక్షీ లోకగురుర్లోకేశశ్చణ్డవాహనః
ధర్మయూపో యూపవృక్షో ధనుష్పాణిర్ధనుర్ధరః
పినాకధృఙ్మహోత్సాహో మహామాయో మహాశనః
వీరః శక్తిమతాం శ్రేష్ఠః సర్వశస్త్రభృతాం వరః
జ్ఞానగమ్యో దురారాధ్యో లోహితాఙ్గో వివర్ధనః
ఖగోఽన్ధో ధర్మదో నిత్యో ధర్మకృచ్చిత్రవిక్రమః
భగవానాత్మవాన్ మన్త్రస్త్ర్యక్షరో నీలలోహితః
ఏకోఽనేకస్త్రయీ కాలః సవితా సమితిఞ్జయః
శార్ఙ్గధన్వాఽనలో భీమః సర్వప్రహరణాయుధః
సుకర్మా పరమేష్ఠీ చ నాకపాలీ దివిస్థితః
వదాన్యో వాసుకిర్వైద్య ఆత్రేయోఽథ పరాక్రమః
ద్వాపరః పరమోదారః పరమో బ్రహ్మచర్యవాన్
ఉదీచ్యవేషో ముకుటీ పద్మహస్తో హిమాంశుభృత్
సితః ప్రసన్నవదనః పద్మోదరనిభాననః
సాయం దివా దివ్యవపురనిర్దేశ్యో మహాలయః
మహారథో మహానీశః శేషః సత్త్వరజస్తమః
ధృతాతపత్రప్రతిమో విమర్షీ నిర్ణయః స్థితః
అహింసకః శుద్ధమతిరద్వితీయో వివర్ధనః
సర్వదో ధనదో మోక్షో విహారీ బహుదాయకః
చారురాత్రిహరో నాథో భగవాన్ సర్వగోఽవ్యయః
మనోహరవపుః శుభ్రః శోభనః సుప్రభావనః
సుప్రభావః సుప్రతాపః సునేత్రో దిగ్విదిక్పతిః
రాజ్ఞీప్రియః శబ్దకరో గ్రహేశస్తిమిరాపహః
సైంహికేయరిపుర్దేవో వరదో వరనాయకః
చతుర్భుజో మహాయోగీ యోగీశ్వరపతిస్తథా
అనాదిరూపోఽదితిజో రత్నకాన్తిః ప్రభామయః
జగత్ప్రదీపో విస్తీర్ణో మహావిస్తీర్ణమణ్డలః
ఏకచక్రరథః స్వర్ణరథః స్వర్ణశరీరధృక్
నిరాలమ్బో గగనగో ధర్మకర్మప్రభావకృత్
ధర్మాత్మా కర్మణాం సాక్షీ ప్రత్యక్షః పరమేశ్వరః
మేరుసేవీ సుమేధావీ మేరురక్షాకరో మహాన్
ఆధారభూతో రతిమాంస్తథా చ ధనధాన్యకృత్
పాపసన్తాపహర్తా చ మనోవాఞ్ఛితదాయకః
రోగహర్తా రాజ్యదాయీ రమణీయగుణోఽనృణీ
కాలత్రయానన్తరూపో మునివృన్దనమస్కృతః
సన్ధ్యారాగకరః సిద్ధః సన్ధ్యావన్దనవన్దితః
సామ్రాజ్యదాననిరతః సమారాధనతోషవాన్
భక్తదుఃఖక్షయకరో భవసాగరతారకః
భయాపహర్తా భగవానప్రమేయపరాక్రమః
మనుస్వామీ మనుపతిర్మాన్యో మన్వన్తరాధిపః
ఫలశ్రుతిః
ఏతత్తే సర్వమాఖ్యాతం యన్మాం త్వం పరిపృచ్ఛసి
నామ్నాం సహస్రం సవితుః పారాశర్యో యదాహ మే
ధన్యం యశస్యమాయుష్యం దుఃఖదుఃస్వప్ననాశనమ్
బన్ధమోక్షకరం చైవ భానోర్నామానుకీర్తనాత్
యస్త్విదం శృణుయాన్నిత్యం పఠేద్వా ప్రయతో నరః
అక్షయం సుఖమన్నాద్యం భవేత్తస్యోపసాధితమ్
నృపాగ్నితస్కరభయం వ్యాధితో న భయం భవేత్
విజయీ చ భవేన్నిత్యమాశ్రయం పరమాప్నుయాత్
కీర్తిమాన్ సుభగో విద్వాన్ స సుఖీ ప్రియదర్శనః
జీవేద్వర్షశతాయుశ్చ సర్వవ్యాధివివర్జితః
నామ్నాం సహస్రమిదమంశుమతః పఠేద్యః
ప్రాతః శుచిర్నియమవాన్ సుసమృద్ధియుక్తః
దూరేణ తం పరిహరన్తి సదైవ రోగాః
భూతాః సుపర్ణమివ సర్వమహోరగేన్ద్రాః
॥ఇతి శ్రీ-భవిష్యపురాణే సప్తమకల్పే శ్రీభగవత్సూర్యస్య సహస్రనామస్తోత్రం సమ్పూర్ణమ్॥
sūryasahasranāmastotram
śatānīka uvāca
nāmnāṃ sahasraṃ savituḥ śrotumicchāmi he dvija
yena te darśanaṃ yātaḥ sākṣāddevo divākaraḥ
sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam
stotrametanmahāpuṇyaṃ sarvopadravanāśanam
na tadasti bhayaṃ kiñcidyadanena na naśyati
jvarādyairmucyate rājan stotre'smin paṭhite naraḥ
anye ca rogāḥ śāmyanti paṭhataḥ śṛṇvatastathā
sampadyante yathā kāmāḥ sarva eva yathepsitāḥ
ya etadāditaḥ śrutvā saṅgrāmaṃ praviśennaraḥ
sa jitvā samare śatrūnabhyeti gṛhamakṣataḥ
vandhyānāṃ putrajananaṃ bhītānāṃ bhayanāśanam
bhūtikāri daridrāṇāṃ kuṣṭhināṃ paramauṣadham
bālānāṃ caiva sarveṣāṃ graharakṣonivāraṇam
paṭhate saṃyato rājan sa śreyaḥ paramāpnuyāt
sa siddhaḥ sarvasaṅkalpaḥ sukhamatyantamaśnute
dharmārthibhirdharmalubdhaiḥ sukhāya ca sukhārthibhiḥ
rājyāya rājyakāmaiśca paṭhitavyamidaṃ naraiḥ
vidyāvahaṃ tu viprāṇāṃ kṣatriyāṇāṃ jayāvaham
paśvāvahaṃ tu vaiśyānāṃ śūdrāṇāṃ dharmavardhanam
paṭhatāṃ śṛṇvatāmetadbhavatīti na saṃśayaḥ
tacchṛṇuṣva nṛpaśreṣṭha prayatātmā bravīmi te
nāmnāṃ sahasraṃ vikhyātaṃ devadevasya dhīmataḥ
dhyānam
dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ
keyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ
stotram
oṃ viśvavidviśvajitkartā viśvātmā viśvatomukhaḥ
viśveśvaro viśvayonirniyatātmā jitendriyaḥ
kālāśrayaḥ kālakartā kālahā kālanāśanaḥ
mahāyogī mahāsiddhirmahātmā sumahābalaḥ
prabhurvibhurbhūtanātho bhūtātmā bhuvaneśvaraḥ
bhūtabhavyo bhāvitātmā bhūtāntaḥkaraṇaṃ śivaḥ
śaraṇyaḥ kamalānando nandano nandavardhanaḥ
vareṇyo varado yogī susaṃyuktaḥ prakāśakaḥ
prāptayānaḥ paraprāṇaḥ pūtātmā prayataḥ priyaḥ
nayaḥ sahasrapāt sādhurdivyakuṇḍalamaṇḍitaḥ
avyaṅgadhārī dhīrātmā savitā vāyuvāhanaḥ
samāhitamatirdātā vidhātā kṛtamaṅgalaḥ
kapardī kalpapādrudraḥ sumanā dharmavatsalaḥ
samāyukto vimuktātmā kṛtātmā kṛtināṃ varaḥ
avicintyavapuḥ śreṣṭho mahāyogī maheśvaraḥ
kāntaḥ kāmārirādityo niyatātmā nirākulaḥ
kāmaḥ kāruṇikaḥ kartā kamalākarabodhanaḥ
saptasaptiracintyātmā mahākāruṇikottamaḥ
sañjīvano jīvanātho jayo jīvo jagatpatiḥ
ayukto viśvanilayaḥ saṃvibhāgī vṛṣadhvajaḥ
vṛṣākapiḥ kalpakartā kalpāntakaraṇo raviḥ
ekacakraratho maunī suratho rathināṃ varaḥ
sakrodhano raśmimālī tejorāśirvibhāvasuḥ
divyakṛddinakṛddevo devadevo divaspatiḥ
dīnanātho haro hotā divyabāhurdivākaraḥ
yajño yajñapatiḥ pūṣā svarṇaretāḥ parāvaraḥ
parāparajñastaraṇiraṃśumālī manoharaḥ
prājñaḥ prājñapatiḥ sūryaḥ savitā viṣṇuraṃśumān
sadāgatirgandhavaho vihito vidhirāśugaḥ
pataṅgaḥ patagaḥ sthāṇurvihaṅgo vihago varaḥ
haryaśvo haritāśvaśca haridaśvo jagatpriyaḥ
tryambakaḥ sarvadamano bhāvitātmā bhiṣagvaraḥ
ālokakṛllokanātho lokālokanamaskṛtaḥ
kālaḥ kalpāntako vahnistapanaḥ sampratāpanaḥ
virocano virūpākṣaḥ sahasrākṣaḥ purandaraḥ
sahasraraśmirmihiro vividhāmbarabhūṣaṇaḥ
khagaḥ pratardano dhanyo hayago vāgviśāradaḥ
śrīmānaśiśiro vāgmī śrīpatiḥ śrīniketanaḥ
śrīkaṇṭhaḥ śrīdharaḥ śrīmān śrīnivāso vasupradaḥ
kāmacārī mahāmāyo mahogro'viditāmayaḥ
tīrthakriyāvān sunayo vibhakto bhaktavatsalaḥ
kīrtiḥ kīrtikaro nityaḥ kuṇḍalī kavacī rathī
hiraṇyaretāḥ saptāśvaḥ prayatātmā parantapaḥ
buddhimānamaraśreṣṭho rociṣṇuḥ pākaśāsanaḥ
samudro dhanado dhātā māndhātā kaśmalāpahaḥ
tamoghno dhvāntahā vahnirhotā'ntaḥkaraṇo guhaḥ
paśumān prayatānando bhūteśaḥ śrīmatāṃ varaḥ
nityo'dito nityarathaḥ sureśaḥ surapūjitaḥ
ajito vijito jetā jaṅgamasthāvarātmakaḥ
jīvānando nityagāmī vijetā vijayapradaḥ
parjanyo'gniḥ sthitiḥ stheyaḥ sthaviro'tha nirañjanaḥ
pradyotano rathārūḍhaḥ sarvalokaprakāśakaḥ
dhruvo meṣī mahāvīryo haṃsaḥ saṃsāratārakaḥ
sṛṣṭikartā kriyāheturmārtaṇḍo marutāṃ patiḥ
marutvān dahanastvaṣṭā bhago bhargo'ryamā kapiḥ
varuṇeśo jagannāthaḥ kṛtakṛtyaḥ sulocanaḥ
vivasvān bhānumān kāryaḥ kāraṇastejasāṃ nidhiḥ
asaṅgagāmī tigmāṃśurgharmāṃśurdīptadīdhitiḥ
sahasradīdhitirbradhnaḥ sahasrāṃśurdivākaraḥ
gabhastimān dīdhitimān sragvī maṇikuladyutiḥ
bhāskaraḥ surakāryajñaḥ sarvajñastīkṣṇadīdhitiḥ
surajyeṣṭhaḥ surapatirbahujño vacasāṃ patiḥ
tejonidhirbṛhattejā bṛhatkīrtirbṛhaspatiḥ
ahimānūrjito dhīmānāmuktaḥ kīrtivardhanaḥ
mahāvaidyo gaṇapatirdhaneśo gaṇanāyakaḥ
tīvrapratāpanastāpī tāpano viśvatāpanaḥ
kārtasvaro hṛṣīkeśaḥ padmānando'tinanditaḥ
padmanābho'mṛtāhāraḥ sthitimān ketumān nabhaḥ
anādyanto'cyuto viśvo viśvāmitro ghṛṇirvirāṭ
āmuktakavaco vāgmī kañcukī viśvabhāvanaḥ
animittagatiḥ śreṣṭhaḥ śaraṇyaḥ sarvatomukhaḥ
vigāhī veṇurasahaḥ samāyuktaḥ samākratuḥ
dharmaketurdharmaratiḥ saṃhartā saṃyamo yamaḥ
praṇatārtiharo vāyuḥ siddhakāryo janeśvaraḥ
nabho vigāhanaḥ satyaḥ savitātmā manoharaḥ
hārī harirharo vāyurṛtuḥ kālānaladyutiḥ
sukhasevyo mahātejā jagatāmekakāraṇam
mahendro viṣṭutaḥ stotraṃ stutihetuḥ prabhākaraḥ
sahasrakara āyuṣmān aroṣaḥ sukhadaḥ sukhī
vyādhihā sukhadaḥ saukhyaṃ kalyāṇaḥ kalatāṃ varaḥ
ārogyakāraṇaṃ siddhirṛddhirvṛddhirbṛhaspatiḥ
hiraṇyaretā ārogyaṃ vidvān bradhno budho mahān
prāṇavān dhṛtimān gharmo gharmakartā rucipradaḥ
sarvapriyaḥ sarvasahaḥ sarvaśatruvināśanaḥ
prāṃśurvidyotano dyotaḥ sahasrakiraṇaḥ kṛtī
keyūrī bhūṣaṇodbhāsī bhāsito bhāsano'nalaḥ
śaraṇyārtiharo hotā khadyotaḥ khagasattamaḥ
sarvadyoto bhavadyotaḥ sarvadyutikaro mataḥ
kalyāṇaḥ kalyāṇakaraḥ kalyaḥ kalyakaraḥ kaviḥ
kalyāṇakṛt kalyavapuḥ sarvakalyāṇabhājanam
śāntipriyaḥ prasannātmā praśāntaḥ praśamapriyaḥ
udārakarmā sunayaḥ suvarcā varcasojjvalaḥ
varcasvī varcasāmīśastrailokyeśo vaśānugaḥ
tejasvī suyaśā varṣmī varṇādhyakṣo balipriyaḥ
yaśasvī tejonilayastejasvī prakṛtisthitaḥ
ākāśagaḥ śīghragatirāśugo gatimān khagaḥ
gopatirgrahadeveśo gomānekaḥ prabhañjanaḥ
janitā prajano jīvo dīpaḥ sarvaprakāśakaḥ
sarvasākṣī yoganityo nabhasvānasurāntakaḥ
rakṣoghno vighnaśamanaḥ kirīṭī sumanaḥpriyaḥ
marīcimālī sumatiḥ kṛtābhikhyaviśeṣakaḥ
śiṣṭācāraḥ śubhācāraḥ svacārācāratatparaḥ
mandāro māṭharo veṇuḥ kṣudhāpaḥ kṣmāpatirguruḥ
suviśiṣṭo viśiṣṭātmā vidheyo jñānaśobhanaḥ
mahāśvetaḥ priyo jñeyaḥ sāmago mokṣadāyakaḥ
sarvavedapragītātmā sarvavedalayo mahān
vedamūrtiścaturvedo vedabhṛdvedapāragaḥ
kriyāvānasito jiṣṇurvarīyāṃśurvarapradaḥ
vratacārī vratadharo lokabandhuralaṅkṛtaḥ
alaṅkārākṣaro vedyo vidyāvān viditāśayaḥ
ākāro bhūṣaṇo bhūṣyo bhūṣṇurbhuvanapūjitaḥ
cakrapāṇirdhvajadharaḥ sureśo lokavatsalaḥ
vāgmipatirmahābāhuḥ prakṛtirvikṛtirguṇaḥ
andhakārāpahaḥ śreṣṭho yugāvarto yugādikṛt
aprameyaḥ sadāyogī nirahaṅkāra īśvaraḥ
śubhapradaḥ śubhaḥ śāstā śubhakarmā śubhapradaḥ
satyavān śrutimānuccairnakāro vṛddhido'nalaḥ
balabhṛd balado bandhurmatimān balināṃ varaḥ
anaṅgo nāgarājendraḥ padmayonirgaṇeśvaraḥ
saṃvatsara ṛturnetā kālacakrapravartakaḥ
padmekṣaṇaḥ padmayoniḥ prabhāvānamaraḥ prabhuḥ
sumūrtiḥ sumatiḥ somo govindo jagadādijaḥ
pītavāsāḥ kṛṣṇavāsā digvāsāstvindriyātigaḥ
atīndriyo'nekarūpaḥ skandaḥ parapurañjayaḥ
śaktimāñjaladhṛgbhāsvān mokṣaheturayonijaḥ
sarvadarśī jitādarśo duḥsvapnāśubhanāśanaḥ
māṅgalyakartā taraṇirvegavān kaśmalāpahaḥ
spaṣṭākṣaro mahāmantro viśākho yajanapriyaḥ
viśvakarmā mahāśaktirdyutirīśo vihaṅgamaḥ
vicakṣaṇo dakṣa indraḥ pratyūṣaḥ priyadarśanaḥ
akhinno vedanilayo vedavidviditāśayaḥ
prabhākaro jitaripuḥ sujano'ruṇasārathiḥ
kunāśī surataḥ skando mahito'bhimato guruḥ
graharājo grahapatirgrahanakṣatramaṇḍalaḥ
bhāskaraḥ satatānando nandano naravāhanaḥ
maṅgalo'tha maṅgalavān māṅgalyo maṅgalāvahaḥ
maṅgalyacārucaritaḥ śīrṇaḥ sarvavrato vratī
caturmukhaḥ padmamālī pūtātmā praṇatārtihā
akiñcanaḥ satāmīśo nirguṇo guṇavāñchuciḥ
sampūrṇaḥ puṇḍarīkākṣo vidheyo yogatatparaḥ
sahasrāṃśuḥ kratumatiḥ sarvajñaḥ sumatiḥ suvāk
suvāhano mālyadāmā kṛtāhāro haripriyaḥ
brahmā pracetāḥ prathitaḥ prayatātmā sthirātmakaḥ
śatavinduḥ śatamukho garīyānanalaprabhaḥ
dhīro mahattaro vipraḥ purāṇapuruṣottamaḥ
vidyārājādhirājo hi vidyāvān bhūtidaḥ sthitaḥ
anirdeśyavapuḥ śrīmān vipāpmā bahumaṅgalaḥ
svaḥsthitaḥ surathaḥ svarṇo mokṣado baliketanaḥ
nirdvandvo dvandvahā sargaḥ sarvagaḥ samprakāśakaḥ
dayāluḥ sūkṣmadhīḥ kṣāntiḥ kṣemākṣemasthitipriyaḥ
bhūdharo bhūpatirvaktā pavitrātmā trilocanaḥ
mahāvarāhaḥ priyakṛddātā bhoktā'bhayapradaḥ
cakravartī dhṛtikaraḥ sampūrṇo'tha maheśvaraḥ
caturvedadharo'cintyo vinindyo vividhāśanaḥ
vicitraratha ekākī saptasaptiḥ parātparaḥ
sarvodadhisthitikaraḥ sthitistheyaḥ sthitipriyaḥ
niṣkalaḥ puṣkalo vibhurvasumān vāsavapriyaḥ
paśumān vāsavasvāmī vasudhāmā vasupradaḥ
balavān jñānavāṃstattvamoṅkārastriṣu saṃsthitaḥ
saṅkalpayonirdinakṛdbhagavān kāraṇāpahaḥ
nīlakaṇṭho dhanādhyakṣaścaturvedapriyaṃvadaḥ
vaṣaṭkārodgātā hotā svāhākāro hutāhutiḥ
janārdano janānando naro nārāyaṇo'mbudaḥ
sandehanāśano vāyurdhanvī suranamaskṛtaḥ
vigrahī vimalo vindurviśoko vimaladyutiḥ
dyutimān dyotano vidyudvidyāvān vidito balī
gharmado himado hāsaḥ kṛṣṇavartmā sutājitaḥ
sāvitrībhāvito rājā viśvāmitro ghṛṇirvirāṭ
saptārciḥ saptaturagaḥ saptalokanamaskṛtaḥ
sampūrṇo'tha jagannāthaḥ sumanāḥ śobhanapriyaḥ
sarvātmā sarvakṛt sṛṣṭiḥ saptimān saptamīpriyaḥ
sumedhā medhiko medhyo medhāvī madhusūdanaḥ
aṅgiraḥpatiḥ kālajño dhūmaketuḥ suketanaḥ
sukhī sukhapradaḥ saukhyaṃ kāmī kāntipriyo muniḥ
santāpanaḥ santapana ātapastapasāṃ patiḥ
umāpatiḥ sahasrāṃśuḥ priyakārī priyaṅkaraḥ
prītirvimanyurambhotthaḥ khañjano jagatāṃ patiḥ
jagatpitā prītamanāḥ sarvaḥ kharvo guho'calaḥ
sarvago jagadānando jagannetā surārihā
śreyaḥ śreyaskaro jyāyān mahānuttama udbhavaḥ
uttamo merumeyo'tha dharaṇo dharaṇīdharaḥ
dharādhyakṣo dharmarājo dharmādharmapravartakaḥ
rathādhyakṣo rathagatistaruṇastanito'nalaḥ
uttaro'nuttarastāpī avākpatirapāṃ patiḥ
puṇyasaṅkīrtanaḥ puṇyo heturlokatrayāśrayaḥ
svarbhānurvigatānando viśiṣṭotkṛṣṭakarmakṛt
vyādhipraṇāśanaḥ kṣemaḥ śūraḥ sarvajitāṃ varaḥ
ekaratho rathādhīśaḥ pitā śanaiścarasya hi
vaivasvatagururmṛtyurdharmanityo mahāvrataḥ
pralambahārasañcārī pradyoto dyotitānalaḥ
santāpahṛt paro mantro mantramūrtirmahābalaḥ
śreṣṭhātmā supriyaḥ śambhurmarutāmīśvareśvaraḥ
saṃsāragativicchettā saṃsārārṇavatārakaḥ
saptajihvaḥ sahasrārcī ratnagarbho'parājitaḥ
dharmaketurameyātmā dharmādharmavarapradaḥ
lokasākṣī lokagururlokeśaścaṇḍavāhanaḥ
dharmayūpo yūpavṛkṣo dhanuṣpāṇirdhanurdharaḥ
pinākadhṛṅmahotsāho mahāmāyo mahāśanaḥ
vīraḥ śaktimatāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
jñānagamyo durārādhyo lohitāṅgo vivardhanaḥ
khago'ndho dharmado nityo dharmakṛccitravikramaḥ
bhagavānātmavān mantrastryakṣaro nīlalohitaḥ
eko'nekastrayī kālaḥ savitā samitiñjayaḥ
śārṅgadhanvā'nalo bhīmaḥ sarvapraharaṇāyudhaḥ
sukarmā parameṣṭhī ca nākapālī divisthitaḥ
vadānyo vāsukirvaidya ātreyo'tha parākramaḥ
dvāparaḥ paramodāraḥ paramo brahmacaryavān
udīcyaveṣo mukuṭī padmahasto himāṃśubhṛt
sitaḥ prasannavadanaḥ padmodaranibhānanaḥ
sāyaṃ divā divyavapuranirdeśyo mahālayaḥ
mahāratho mahānīśaḥ śeṣaḥ sattvarajastamaḥ
dhṛtātapatrapratimo vimarṣī nirṇayaḥ sthitaḥ
ahiṃsakaḥ śuddhamatiradvitīyo vivardhanaḥ
sarvado dhanado mokṣo vihārī bahudāyakaḥ
cārurātriharo nātho bhagavān sarvago'vyayaḥ
manoharavapuḥ śubhraḥ śobhanaḥ suprabhāvanaḥ
suprabhāvaḥ supratāpaḥ sunetro digvidikpatiḥ
rājñīpriyaḥ śabdakaro graheśastimirāpahaḥ
saiṃhikeyaripurdevo varado varanāyakaḥ
caturbhujo mahāyogī yogīśvarapatistathā
anādirūpo'ditijo ratnakāntiḥ prabhāmayaḥ
jagatpradīpo vistīrṇo mahāvistīrṇamaṇḍalaḥ
ekacakrarathaḥ svarṇarathaḥ svarṇaśarīradhṛk
nirālambo gaganago dharmakarmaprabhāvakṛt
dharmātmā karmaṇāṃ sākṣī pratyakṣaḥ parameśvaraḥ
merusevī sumedhāvī merurakṣākaro mahān
ādhārabhūto ratimāṃstathā ca dhanadhānyakṛt
pāpasantāpahartā ca manovāñchitadāyakaḥ
rogahartā rājyadāyī ramaṇīyaguṇo'nṛṇī
kālatrayānantarūpo munivṛndanamaskṛtaḥ
sandhyārāgakaraḥ siddhaḥ sandhyāvandanavanditaḥ
sāmrājyadānanirataḥ samārādhanatoṣavān
bhaktaduḥkhakṣayakaro bhavasāgaratārakaḥ
bhayāpahartā bhagavānaprameyaparākramaḥ
manusvāmī manupatirmānyo manvantarādhipaḥ
phalaśrutiḥ
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi
nāmnāṃ sahasraṃ savituḥ pārāśaryo yadāha me
dhanyaṃ yaśasyamāyuṣyaṃ duḥkhaduḥsvapnanāśanam
bandhamokṣakaraṃ caiva bhānornāmānukīrtanāt
yastvidaṃ śṛṇuyānnityaṃ paṭhedvā prayato naraḥ
akṣayaṃ sukhamannādyaṃ bhavettasyopasādhitam
nṛpāgnitaskarabhayaṃ vyādhito na bhayaṃ bhavet
vijayī ca bhavennityamāśrayaṃ paramāpnuyāt
kīrtimān subhago vidvān sa sukhī priyadarśanaḥ
jīvedvarṣaśatāyuśca sarvavyādhivivarjitaḥ
nāmnāṃ sahasramidamaṃśumataḥ paṭhedyaḥ
prātaḥ śucirniyamavān susamṛddhiyuktaḥ
dūreṇa taṃ pariharanti sadaiva rogāḥ
bhūtāḥ suparṇamiva sarvamahoragendrāḥ
||iti śrī-bhaviṣyapurāṇe saptamakalpe śrībhagavatsūryasya sahasranāmastotraṃ sampūrṇam||