भीष्मस्तुतिः
जनमेजय उवाच
शरतल्पे शयानस्तु भरतानां पितामहः
कथमुत्सृष्टवान्देहं कं च योगमधारयत्
वैशम्पायन उवाच
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः
प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे
शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव
प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे
समावेशयदात्मानमात्मत्येव समाहितः
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः
व्यासेन देवश्रवसा नारदेन सुरर्षिणा
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना
तथा जैमिनिना चैव पैलेन च महात्मना
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता
असितेन वसिष्ठेन कौशिकेन महात्मना
हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता
बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः
धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम्
योगेश्वरं पझनाभं विष्णुं जिष्णुं जगत्पतिम्
अनादिनिधनं विष्णुमात्मयोनिं सनातनम्
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्
भीष्म उवाच
आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम्
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम्
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम्
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः
एकोऽयं वेद भगवान्धाता नारायणो हरिः
नारायणादृषिगणास्तथा सिद्धमहोरगाः
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम्
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः
यं न जानन्ति को ह्येष कुतो वा भगवानिति
यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः
यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
गुणभूतानि भूतेशे सूत्रे मणिगणा इव
यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम्
प्राहुर्नारायणं देवं यं विश्वस्य परायणम्
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि
चं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु
चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम्
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः
यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति
सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः
यं देवं देवकी देवी वसुदेवादजीजनत्
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि
अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम्
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्
पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु
क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम्
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम्
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम्
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः
प्रयता नित्यमर्चन्ति परमं सुखभेषजम्
अनादिनिधनं देवमात्मयोनिं सनातनम्
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम्
अथ भीष्मस्तवराजः
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः
हुताशनमुखैर्देवैर्धार्यते सकलं जगत्
हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः
महतस्तमसः पारे पुरुषं ह्यतितेजसम्
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः
पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषितम्
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः
यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः
ऋग्यजुःसामधामानं दशार्धहविराकृतिम्
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः
यश्चिनोति सतां सेतुमृतेनामृतयोनिना
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः
यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः
यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः
शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः
यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः
युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः
सहस्रशिरसे तस्मै पुरुषायामितात्मने
चतुःसमुद्रपयसि योगनिद्रात्मने नमः
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम्
पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः
यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः
अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः
ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः
पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः
अन्नपानेन्धनमयो रसप्राणविवर्धनः
यो धारयति भूतानि तस्मै प्राणात्मने नमः
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः
विषये वर्तमानानां यं तं वैषयिकैर्गुणैः
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे
अपारपरिमाणाय तस्मै दिव्यात्मने नमः
परः कालात्परो यज्ञात्परः सदसतश्च यः
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः
वैद्युतो जाठरश्चैव पावकः शुचिरेव च
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः
रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः
ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम्
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः
साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः
यो जातो वसुदेवेन देवक्यां यदुनन्दनः
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः
शिरःकपालमालाय व्याघ्रचर्मनिवासिने
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः
यो मोहयति भूतानि सर्वपाशानुबन्धनैः
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः
चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम्
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः
पञ्चभूतात्मभूताय भूतादिनिधनाय च
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः
यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते
फणासहस्ररचिते तस्मै निद्रात्मने नमः
विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः
अव्यक्तं बुद्ध्यहङ्कारो मनोबुद्धीन्द्रियाणि च
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः
भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः
यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः
सूक्ष्मात्सूक्ष्मं च यद् ब्रह्म तस्मै सूक्ष्मात्मने नमः
मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः
मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः
वाराहं रूपमास्थाय महीं सवनपर्वताम्
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः
नारसिंहवपुः कृत्वा सर्वलोकभयङ्करम्
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम्
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः
यं न देवा न गन्धर्वा न दैत्या न च दानवाः
तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः
वामनं रूपमास्थाय बलिं संयम्य मायया
त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः
त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात्
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः
विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः
रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम्
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः
यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः
रामाय रौहिणेयाय तस्मै भोगात्मने नमः
शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे
वनमालाधरायैव तस्मै कृष्णात्मने नमः
वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः
वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः
सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः
दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः
हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः
तारान्वये कालनेमिं हत्वा दानवपुङ्गवम्
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः
यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः
नमोस्तु ते महादेव नमस्ते भक्तवत्सल
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर
अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम्
हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम्
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्
येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः
मङ्गल भगवान्विष्णुर्मङ्गलं मधुसूदनः
मङ्गलं पुण़्डरीकाक्षो मङ्गलं गरुडध्वजः
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव
अपवर्गस्थभूतानां पञ्चानां परमास्थित
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्
नमस्ते भगवन्विष्णो त्येकानां प्रभवाव्यय
त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम्
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः
व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम्
अतसीपुष्पसङ्काशं पीतवाससमच्युतम्
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्
एकोऽपि कृष्णस्य कृतः प्रणामोदशाश्वमेधावभृथेन तुल्यः
दशाश्वमेधी पुनरेति जन्मकृष्णप्रणामी न पुनर्भवाय
कृष्णव्रताः कृष्णमनुस्मरन्तोरात्रौ च कृष्णं पुनरुत्थिता ये
ते कृष्णदेहाः प्रविशन्ति कृष्णमाज्यं यथा मन्त्रहुतं हुताशे
नमो नरकसन्त्रासरक्षामण्डलकारिणे
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम्
नारायणपरं ब्रह्म नारायणपरं तपः
नारायणपरं सत्यं नारायणपरं परम्
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः
तथा विष्णुमयं सर्वं पाप्मा ने नश्यतां तथा
तस्य यज्ञवराहस्य विष्णोरमिततेजसः
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः
वैशम्पायन उवाच
एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः
नम इत्येव कृष्णाय प्रणाममकरोत्तदा
तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः
भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम्
तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम्
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः
अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः
विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत
केशवः सात्यकिश्चैव रथेनकेन जग्मतुः
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ
भीमसेनो यमौ चोभौ रथमेकं समास्थिताः
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम्
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः
नेमिघोषेण महता कम्पयन्ते वसुन्धराम्
ततो गिरः पुरुषवरस्तवेरितान्द्विजेरिताः पथिषु मनाक् स शुश्रुवे
कृताञ्जलिं प्रणतमथापरं जनंस केशिहा मुदितमनास्थनन्दत
इति स्मरन्पठति च शार्ङ्गधन्वनःशृणोतु वा यदुकुलनन्दनस्तवम्
स चक्रभृत्प्रतिहतसर्वाकिल्विषोजनार्दनं प्रविशति देहसङ्क्षये
यं योगिनः प्राणवियोगकालेयत्नेन चित्ते विनिवेशयन्ति
स तं पुरस्ताद्धरिमीक्षमाणःप्राणाञ्जहौ प्राप्तफलो हि भीष्मः
स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः
गाङ्गेयेन पुरा गीतो महापातकनाशनः
इमं नरः स्तवराजं मुमुक्षुःपठञ्शुचिः कलुषितकल्मषापहम्
अतीत्य लोकान्मलिनः समामतान्पदं स गच्छत्यमृतं महात्मनः
భీష్మస్తుతిః
జనమేజయ ఉవాచ
శరతల్పే శయానస్తు భరతానాం పితామహః
కథముత్సృష్టవాన్దేహం కం చ యోగమధారయత్
వైశమ్పాయన ఉవాచ
శృణుష్వావహితో రాజఞ్శుచిర్భూత్వా సమాహితః
భీష్మస్య కురుశార్దూల దేహోత్సర్గం మహాత్మనః
ప్రవృత్తమాత్రే త్వయనముత్తరేణ దివాకరే
శుక్లపక్షస్య చాష్టభ్యాం మాఘమాసస్య పార్థివ
ప్రాజాపత్యే చ నక్షత్రే మధ్యం ప్రాప్తే దివాకరే
సమావేశయదాత్మానమాత్మత్యేవ సమాహితః
వికీర్ణాంశురివాదిత్యో భీష్మః శరశతైశ్చితః
శుశుభే పరయా లక్ష్మ్యా వృతో బ్రాహ్మణసత్తమైః
వ్యాసేన దేవశ్రవసా నారదేన సురర్షిణా
దేవస్థానేన వాత్స్యేన తథాఽశ్మకసుమన్తునా
తథా జైమినినా చైవ పైలేన చ మహాత్మనా
శాణ్డిల్యదేవలాభ్యాం చ మైత్రేయేణ చ ధీమతా
అసితేన వసిష్ఠేన కౌశికేన మహాత్మనా
హారితలోమశాభ్యాం చ తథాఽఽత్రేయేణ ధీమతా
బృహస్పతిశ్చ శుక్రశ్చ చ్యవనశ్చ మహామునిః
సనత్కుమారః కపిలో చాల్మీకిస్తుమ్బురుః కురుః
మౌద్గల్యో భార్గవో రామస్తృణబిన్దుర్మహామునిః
పిప్పలాదోఽథ వాయుశ్చ సవర్తః పులహః కచః
కాశ్యపశ్చ పులస్త్యశ్చ క్రతుర్దక్షః పరాశరః
మరీచిరఙ్గిరాః కాశ్యో గౌతమో గాలవో మునిః
ధౌమ్యో విభాణ్డో మాణ్డవ్యోధౌమ్రః కృష్ణానుభౌతికః
ఉలూకః పరమో విప్రో మార్కణ్డేయో మహామునిః
భాస్కరిః పూరణః కృష్ణః సూతః పరమధార్మికః
ఏతైశ్చాన్యైర్మునిగణైర్మహాభాగైర్మహాత్మభిః
శ్రద్ధాదమశమోపేతైర్వృతశ్చన్ద్ర ఇవ గ్రహైః
భీష్మస్తు పురుషవ్యాఘ్రః కర్మణా మనసా గిరా
శరతల్పగతః కృష్ణం ప్రదధ్యౌ ప్రాఞ్జలిః శుచిః
స్వరేణ హృష్టపుష్టేన తుష్టావ మధుసూదనమ్
యోగేశ్వరం పఝనాభం విష్ణుం జిష్ణుం జగత్పతిమ్
అనాదినిధనం విష్ణుమాత్మయోనిం సనాతనమ్
కృతాఞ్జలిపుటో భూత్వా వాగ్విదాం ప్రవరః ప్రభుః
భీష్మః పరమధర్మాత్మా వాసుదేవమథాస్తువత్
భీష్మ ఉవాచ
ఆరిరాధయిషుః కృష్ణం వాచం జిగదిషామి యామ్
తయా వ్యాససమాసిన్యా ప్రీయతాం పురుషోత్తమః
శుచిం శుచిపదం హంసం తత్పరం పరమేష్ఠినమ్
యుక్త్వా సర్వాత్మనాఽఽత్మానం తం ప్రపద్యే ప్రజాపతిమ్
అనాద్యన్తం పరం బ్రహ్మ న దేవా నర్షయో విదుః
ఏకోఽయం వేద భగవాన్ధాతా నారాయణో హరిః
నారాయణాదృషిగణాస్తథా సిద్ధమహోరగాః
దేవా దేవర్షయశ్చైవ యం విదుర్దుఃఖభేషజమ్
దేవదానవగన్ధర్వా యక్షరాక్షసపన్నగాః
యం న జానన్తి కో హ్యేష కుతో వా భగవానితి
యమాహుర్జగతః కోశం యస్మింశ్చ నిహితాః ప్రజాః
యస్మిఁల్లోకాః స్ఫురన్త్యేతే జాలే శకునయో యథా
యస్మిన్విశ్వాని భూతాని తిష్ఠన్తి చ విశన్తి చ
గుణభూతాని భూతేశే సూత్రే మణిగణా ఇవ
యం చ విశ్వస్య కర్తారం జగతస్తస్థుషాం పతిమ్
వదన్తి జగతోఽధ్యక్షమధ్యాత్మపరిచిన్తకాః
యస్మిన్నిత్యే తతే తన్తౌ దృఢే స్రగివ తిష్ఠతి
సదసద్గ్రథితం విశ్వం విశ్వాఙ్గే విశ్వకర్మణి
హరిం సహస్రశిరసం సహస్రచరణేక్షణమ్
సహస్రబాహుమకుటం సహస్రవదనోజ్జ్వలమ్
ప్రాహుర్నారాయణం దేవం యం విశ్వస్య పరాయణమ్
అణీయసామణీయాంసం స్థవిష్ఠం చ స్థవీయసామ్
గరీయసాం గరిష్ఠం చ శ్రేష్ఠం చ శ్రేయసామపి
చం వాకేష్వనువాకేషు నిషత్సూపనిషత్సు చ
గృణన్తి సత్యకర్మాణం సత్యం సత్యేషు సామసు
చతుర్భిశ్చతురాత్మానం సత్వస్థం సాత్వతాం పతిమ్
యం దివ్యైర్దేవమర్చన్తి గుహ్యైః పరమనామభిః
యస్మిన్నిత్యం తపస్తప్తం యదఙ్గేష్వనుతిష్ఠతి
సర్వాత్మా సర్వవిత్సర్వః సర్వజ్ఞః సర్వభావనః
యం దేవం దేవకీ దేవీ వసుదేవాదజీజనత్
భౌమస్య బ్రహ్మణో గుప్త్యై దీప్తమగ్నిమివారణిః
యమనన్యో వ్యపేతాశీరాత్మానం వీతకల్మషమ్
ఇష్ట్వానన్త్యాయ గోవిన్దం పశ్యత్యాత్మానమాత్మని
అప్రతర్క్యమవిజ్ఞేయం హరిం నారాయణం విభుమ్
అతివాయ్విన్ద్రకర్మాణమతిసూర్యాగ్నితేజసమ్
అతిబుద్ధీన్ద్రియాత్మానం తం ప్రపద్యే ప్రజాపతిమ్
పురాణే పురుషం ప్రోక్తం బ్రహ్మప్రోక్తం యుగాదిషు
క్షయే సఙ్కర్షణం ప్రోక్తం తముపాస్యముపాస్మహే
యమేకం బహుధాత్మానం ప్రాదుర్భూతమధోక్షజమ్
నాన్యభక్తాః క్రియావన్తో యజన్తే సర్వకామదమ్
ఋతమేకాక్షరం బ్రహ్మ యత్తత్సదసతః పరమ్
అనాదిమధ్యపర్యన్తం న దేవా నర్షయో విదుః
యం సురాసురగన్ధర్వాః సిద్ధా ఋషిమహోరగాః
ప్రయతా నిత్యమర్చన్తి పరమం సుఖభేషజమ్
అనాదినిధనం దేవమాత్మయోనిం సనాతనమ్
అప్రేక్ష్యమనభిజ్ఞేయం హరిం నారాయణం ప్రభుమ్
అథ భీష్మస్తవరాజః
హిరణ్యవర్ణం యం గర్భమదితిర్దైత్యనాశనమ్
ఏకం ద్వాదశధా జజ్ఞే తస్మై సూర్యాత్మనే నమః
శుక్లే దేవాన్పితౄన్కృష్ణే తర్పయత్యమృతేన యః
యశ్చ రాజా ద్విజాతీనాం తస్మై సోమాత్మనే నమః
హుతాశనముఖైర్దేవైర్ధార్యతే సకలం జగత్
హవిః ప్రథమభోక్తా యస్తస్మై హోత్రాత్మనే నమః
మహతస్తమసః పారే పురుషం హ్యతితేజసమ్
యం జ్ఞాత్వా మృత్యుమత్యేతి తస్మై జ్ఞేయాత్మనే నమః
యం బృహన్తం బృహత్యుక్థే యమగ్నౌ యం మహాధ్వరే
యం విప్రసఙ్ఘా గాయన్తి తస్మై వేదాత్మనే నమః
పాదాఙ్గం సన్ధిపర్వాణం స్వరవ్యఞ్జనభూషితమ్
యమాహురక్షరం విప్రాస్తస్మై వాగాత్మనే నమః
యజ్ఞాఙ్గో యో వరాహో వై భూత్వా గాముజ్జహారహ
లోకత్రయహితార్థాయ తస్మై వీర్యాత్మనే నమః
ఋగ్యజుఃసామధామానం దశార్ధహవిరాకృతిమ్
యం సప్తతన్తుం తన్వన్తి తస్మై యజ్ఞాత్మనే నమః
చతుర్భిశ్చ చతుర్భిశ్చ ద్వాభ్యాం పఞ్చభిరేవ చ
హూయతే చ పునర్ద్వాభ్యాం తస్మై హోమాత్మనే నమః
యః సుపర్ణో యజుర్నామ చ్ఛన్దోగాత్రస్త్రివృచ్ఛిరాః
రథన్తరబృహత్పక్షస్తస్మై స్తోత్రాత్మనే నమః
యః సహస్రసవే సత్రే జజ్ఞే విశ్వసృజామృషిః
హిరణ్యపక్షః శకునిస్తస్మై తార్క్ష్యాత్మనే నమః
యశ్చినోతి సతాం సేతుమృతేనామృతయోనినా
ధర్మార్థవ్యవహారాఙ్గైస్తస్మై సత్యాత్మనే నమః
యం పృథగ్ధర్మచరణాః పృథగ్ధర్మఫలైషిణః
పృథగ్ధర్మైః సమర్చన్తి తస్మై ధర్మాత్మనే నమః
యతః సర్వే ప్రసూయన్తే హ్యనఙ్గాత్మాఙ్గదేహినః
ఉన్మాదః సర్వభూతానాం తస్మై కామాత్మనే నమః
యం తం వ్యక్తస్థమవ్యక్తం విచిన్వన్తి మహర్షయః
క్షేత్రే క్షేత్రజ్ఞమాసీనం తస్మై క్షేత్రాత్మనే నమః
యం దృగాత్మానమాత్మస్థం వృతం షోడశభిర్గుణైః
ప్రాహుః సప్తదశంసాఙ్ఖ్యాస్తస్మై సాఙ్ఖ్యాత్మనే నమః
యం వినిద్రా జితశ్వాసాః సన్తుష్టాః సంయతేన్ద్రియాః
జ్యోతిః పశ్యన్తి యుఞ్జానాస్తస్మై యోగాత్మేన నమః
అపుణ్యపుణ్యోపరమే యం పునర్భవనిర్భయాః
శాన్తాః సన్న్యాసినో యాన్తి తస్మై మోక్షాత్మనే నమః
యస్యాగ్రిరాస్యం ద్యౌర్మూర్ధా ఖం నాభిశ్చరణౌ క్షితిః
సూర్యశ్చక్షుర్దిశః శ్రోత్రం తస్మై లోకాత్మనే నమః
యుగేష్వావర్తతే యోంఽశైర్మాసర్త్వయనహాయనైః
సర్గప్రలయయోః కర్తా తస్మై కాలాత్మనే నమః
యోఽసౌ యుగసహస్రాన్తే ప్రదీప్తార్చిర్విభావసుః
సమ్భక్షయతి భూతాని తస్మై ఘోరాత్మనే నమః
సమ్భక్ష్య సర్వభూతాని కృత్వా చైకార్ణవం జగత్
బాలః స్వపితి యశ్చైకస్తస్మై మాయాత్మనే నమః
సహస్రశిరసే తస్మై పురుషాయామితాత్మనే
చతుఃసముద్రపయసి యోగనిద్రాత్మనే నమః
అజస్య నాభావధ్యేకం యస్మిన్విశ్వం ప్రతిష్ఠితమ్
పుష్కరం పుష్కరాక్షస్య తస్మై పఝాత్మనే నమః
యస్య కేశేషు జీమూతా నద్యః సర్వాఙ్గసన్ధిషు
కుక్షౌ సముద్రాశ్చత్వారస్తస్మై తోయాత్మనే నమః
యస్మాత్సర్గాః ప్రవర్తన్తే సర్గప్రలయవిక్రియాః
యస్మింశ్చైవ ప్రలీయన్తే తస్మై హేత్వాత్మనే నమః
యో నిషణ్ణో భవేద్రాత్రౌ దివా భవతి విష్ఠితః
ఇష్టానిష్టస్య చ ద్రష్టా తస్మై ద్రష్ట్రాత్మనే నమః
అకార్యః సర్వకార్యేషు ధర్మకార్యార్థముద్యతః
వైకుణ్ఠస్య హి తద్రూపం తస్మై కార్యాత్మనే నమః
బ్రహ్మ వక్తం భుజౌ క్షత్రం కృత్స్నమూరూదరం విశః
పాదౌ యస్యాశ్రితాః శూద్రాస్తస్మైవర్ణాత్మనే నమః
అన్నపానేన్ధనమయో రసప్రాణవివర్ధనః
యో ధారయతి భూతాని తస్మై ప్రాణాత్మనే నమః
ప్రాణానాం ధారణార్థాయ యోఽన్నం భుఙ్క్తే చతుర్విధమ్
అన్తర్భూతః పచత్యగ్నిస్తస్మై పాకాత్మనే నమః
విషయే వర్తమానానాం యం తం వైషయికైర్గుణైః
ప్రాహుర్విషయగోప్తారం తస్మై గోప్త్రాత్మనే నమః
అప్రమేయశరీరాయ సర్వతో బుద్ధిచక్షుషే
అపారపరిమాణాయ తస్మై దివ్యాత్మనే నమః
పరః కాలాత్పరో యజ్ఞాత్పరః సదసతశ్చ యః
అనాదిరాదిర్విశ్వస్య తస్మై విశ్వాత్మనే నమః
వైద్యుతో జాఠరశ్చైవ పావకః శుచిరేవ చ
దహనః సర్వభక్షాణాం తస్మై వహ్న్యాత్మనే నమః
రసాతలగతః శ్రీమార్ననన్తో భగవాన్ప్రభుః
జగద్ధారయతే యోఽసౌ తస్మై శేషాత్మనే నమః
జ్వలనార్కేన్దుతారాణాం జ్యోతిషాం దివ్యమూర్తినామ్
యస్తేజయతి తేజాంసి తస్మై తేజాత్మనే నమః
ఆత్మజ్ఞానమిదం జ్ఞానం జ్ఞాత్వా పఞ్చస్వవస్థితమ్
యం జ్ఞానేనాధిగచ్ఛన్తి తస్మై జ్ఞానాత్మనే నమః
సాఙ్ఖ్యైర్యోగైర్వినిశ్చిత్య సాధ్యైశ్చ పరమర్షిభిః
యస్య తు జ్ఞాయతే తత్వం తస్మై గుహ్యాత్మనే నమః
జటినే దణ్డినే నిత్యం లమ్బోదరశరీరిణే
కమణ్డలునిషఙ్గాయ తస్మై బ్రహ్మాత్మనే నమః
శూలినే త్రిదశేశాయ త్ర్యమ్బకాయ మహాత్మనే
భస్మదిగ్ధోర్ధ్వలిఙ్గాయ తస్మా రుద్రాత్మనే నమః
చన్ద్రార్ధకృతశీర్షాయ వ్యాలయజ్ఞోపవీతినే
పినాకశూలహస్తాయ తస్మై ఉగ్రాత్మనే నమః
యో జాతో వసుదేవేన దేవక్యాం యదునన్దనః
శఙ్ఖచక్రగదాపాణిర్వాసుదేవాత్మనే నమః
శిరఃకపాలమాలాయ వ్యాఘ్రచర్మనివాసినే
భస్మదిగ్ధశరీరాయ తస్మై రుద్రాత్మనే నమః
యో మోహయతి భూతాని సర్వపాశానుబన్ధనైః
సర్వస్య రక్షణార్థాయ తస్మై మోహాత్మనే నమః
చైతన్యం సర్వతో నిత్యం సర్వప్రాణిహృది స్థితమ్
సర్వాతీతతరం సూక్ష్మం తస్మై సూక్ష్మాత్మనే నమః
పఞ్చభూతాత్మభూతాయ భూతాదినిధనాయ చ
అక్రోధద్రోహమోహాయ తస్మై శాన్తాత్మనే నమః
యస్మిన్సర్వం యతః సర్వం యః సర్వం సర్వతశ్చ యః
యశ్చ సర్వమయో దేవస్తస్మై సర్వాత్మనే నమః
యః శేతే క్షీరపర్యఙ్కే దివ్యనాగవిభూషితే
ఫణాసహస్రరచితే తస్మై నిద్రాత్మనే నమః
విశ్వే చ మరుతశ్చైవ రుద్రాదిత్యాశ్వినావపి
వసవః సిద్ధసాధ్యాశ్చ తస్మై దేవాత్మనే నమః
అవ్యక్తం బుద్ధ్యహఙ్కారో మనోబుద్ధీన్ద్రియాణి చ
తన్మాత్రాణి విశేషాశ్చ తస్మై తత్వాత్మనే నమః
భూతం భవ్యం భవిష్యచ్చ భూతాదిప్రభవావ్యయః
యోఽగ్రజః సర్వభూతానాం తస్మై భూతాత్మనే నమః
యం హి సూక్ష్మం విచిన్వన్తి పరం సూక్ష్మవిదో జనాః
సూక్ష్మాత్సూక్ష్మం చ యద్ బ్రహ్మ తస్మై సూక్ష్మాత్మనే నమః
మత్స్యో భూత్వా విరిఞ్చాయ యేన వేదాః సమాహృతాః
రసాతలగతః శీఘ్రం తస్మై మత్స్యాత్మనే నమః
మన్దరాద్రిర్ధృతో యేన ప్రాప్తే హ్యమృతమన్థనే
అతికర్కశదేహాయ తస్మై కూర్మాత్మనే నమః
వారాహం రూపమాస్థాయ మహీం సవనపర్వతామ్
ఉద్ధరత్యేకదంష్ట్రేణ తస్మై క్రోడాత్మనే నమః
నారసింహవపుః కృత్వా సర్వలోకభయఙ్కరమ్
హిరణ్యకశిపుం జఘ్నే తస్మై సింహాత్మనే నమః
పిఙ్గేక్షణసటం యస్య రూపం దంష్ట్రానఖైర్యుతమ్
దానవేన్ద్రాన్తకరణం తస్మై దృప్తాత్మనే నమః
యం న దేవా న గన్ధర్వా న దైత్యా న చ దానవాః
తత్వతో హి విజానన్తి తస్మై సూక్ష్మాత్మనే నమః
వామనం రూపమాస్థాయ బలిం సంయమ్య మాయయా
త్రైలోక్యం క్రాన్తవాన్యస్తు తస్మై క్రాన్తాత్మనే నమః
జమదగ్నిసుతో భూత్వా రామః శస్త్రభృతాం వరః
మహీం నిఃక్షత్రియాం చక్రే తస్మై రామాత్మనే నమః
త్రిఃసప్తకృత్వో యశ్చైకో ధర్మే వ్యుత్క్రాన్తిగౌరవాత్
జఘాన క్షత్రియాన్సఙ్ఖ్యే తస్మై క్రోధాత్మనే నమః
విభజ్య పఞ్చధాఽఽత్మానం వాయుర్భూత్వా శరీరగః
యశ్చేష్టయతి భూతాని తస్మై వాయ్వాత్మనే నమః
రామో దశిరథిర్భూత్వా పులస్త్యకులనన్దనమ్
జఘాన రావణం సఙ్ఖ్యే తస్మై క్షత్రాత్మనే నమః
యో హలీ ముసలీ శ్రీమాన్నీలామ్బరధరః స్థితః
రామాయ రౌహిణేయాయ తస్మై భోగాత్మనే నమః
శఙ్ఖినే చక్రిణే నిత్యం శార్ఙ్గిణే పీతవాససే
వనమాలాధరాయైవ తస్మై కృష్ణాత్మనే నమః
వసుదేవసుతః శ్రీమాన్క్రీడితో నన్దగోకులే
కంసస్య నిధనార్థాయ తస్మై క్రీడాత్మనే నమః
వాసుదేవత్వమాగమ్య యదోర్వంశసముద్భవః
భూభారహరణం చక్రే తస్మై కృష్ణాత్మనే నమః
సారథ్యమర్జునస్యాజౌ కుర్వన్గీతామృతం దదౌ
లోకత్రయోపకారాయ తస్మై బ్రహ్మాత్మనే నమః
దానవాంస్తు వశే కృత్వా పునర్బుద్ధత్వమాగతః
సర్గస్య రక్షణార్థాయ తస్మై బుద్ధాత్మనే నమః
హనిష్యతి కలౌ ప్రాప్తే మ్లేచ్ఛాంస్తురగవాహనః
ధర్మసంస్థాపకో యస్తు తస్మై కల్క్యాత్మనే నమః
తారాన్వయే కాలనేమిం హత్వా దానవపుఙ్గవమ్
దదౌ రాజ్యం మహేన్ద్రాయ తస్మై సాఙ్ఖ్యాత్మనే నమః
యః సర్వప్రాణినాం దేహే సాక్షిభూతో హ్యవస్థితః
అక్షరః క్షరమాణానాం తస్మై సాక్ష్యాత్మనే నమః
నమోస్తు తే మహాదేవ నమస్తే భక్తవత్సల
సుబ్రహ్మణ్య నమస్తేఽస్తు ప్రసీద పరమేశ్వర
అవ్యక్తవ్యక్తరూపేణ వ్యాప్తం సర్వం త్వయా విభో
నారాయణం సహస్రాక్షం సర్వలోకమహేశ్వరమ్
హిరణ్యనాభ యజ్ఞాఙ్గమమృతం విశ్వతోముఖమ్
సర్వదా సర్వకార్యేషు నాస్తి తేషామమఙ్గలమ్
యేషాం హృదిస్థో దేవేశో మఙ్గలాయతనం హరిః
మఙ్గల భగవాన్విష్ణుర్మఙ్గలం మధుసూదనః
మఙ్గలం పుణ़్డరీకాక్షో మఙ్గలం గరుడధ్వజః
విశ్వకర్మన్నమస్తేఽస్తు విశ్వాత్మన్విశ్వసమ్భవ
అపవర్గస్థభూతానాం పఞ్చానాం పరమాస్థిత
నమస్తే త్రిషు లోకేషు వమస్తే పరతస్త్రిషు
నమస్తే దిక్షు సర్వాసు త్వం హి సర్వపరాయణమ్
నమస్తే భగవన్విష్ణో త్యేకానాం ప్రభవావ్యయ
త్వం హి కర్తా హృషీకేశః సంహర్తా చాపరాజితః
తేన పశ్యామి తే దివ్యాన్భావాన్హి త్రిషువర్త్మసు
తచ్చ పశ్యామి తత్వేన యత్తే రూపం సనాతనమ్
దివం తే శిరసా వ్యాప్తం పద్భ్యాం దేవీ వసున్ధరా
విక్రమేణ త్రయో లోకాః పురుషోఽసి సనాతనః
దిశో భుజా రవిశ్చక్షుర్వీర్యే శుక్రః ప్రతిష్ఠితః
సప్తమార్గా నిరుద్ధాస్తే వాయోరమితతేజసః
వ్యక్తావ్యక్తస్వరూపేణ వ్యాప్తం సర్వం త్వయా విభో
అవ్యక్తం బ్రాహ్మణం రూపం వ్యక్తమేతచ్చరాచరమ్
అతసీపుష్పసఙ్కాశం పీతవాససమచ్యుతమ్
యే నమస్యన్తి గోవిన్దం న తేషాం విద్యతే భయమ్
ఏకోఽపి కృష్ణస్య కృతః ప్రణామోదశాశ్వమేధావభృథేన తుల్యః
దశాశ్వమేధీ పునరేతి జన్మకృష్ణప్రణామీ న పునర్భవాయ
కృష్ణవ్రతాః కృష్ణమనుస్మరన్తోరాత్రౌ చ కృష్ణం పునరుత్థితా యే
తే కృష్ణదేహాః ప్రవిశన్తి కృష్ణమాజ్యం యథా మన్త్రహుతం హుతాశే
నమో నరకసన్త్రాసరక్షామణ్డలకారిణే
సంసారనిమ్నగావర్తతరికాష్ఠాయ విష్ణవే
నమో బ్రహ్మణ్యదేవాయ గోబ్రాహ్మణహితాయ చ
జగద్ధితాయ కృష్ణాయ గోవిన్దాయ నమోనమః
ప్రాణకాన్తారపాథేయం సంసారోచ్ఛేదభేషజమ్
దుఃఖశోకపరిత్రాణం హరిరిత్యక్షరద్వయమ్
నారాయణపరం బ్రహ్మ నారాయణపరం తపః
నారాయణపరం సత్యం నారాయణపరం పరమ్
యథా విష్ణుమయం సత్యం యథా విష్ణుమయం హవిః
తథా విష్ణుమయం సర్వం పాప్మా నే నశ్యతాం తథా
తస్య యజ్ఞవరాహస్య విష్ణోరమితతేజసః
ప్రణామం యేఽపి కుర్వన్తి తేషామపి నమోనమః
త్వాం ప్రపన్నాయ భక్తాయ గతిమిష్టాం జిగీషవే
యచ్ఛ్రేయః పుణ్డరీకాక్ష తద్ధ్యాయస్వ సురోత్తమ
ఇతి విద్యాతపోయోనిరయోనిర్విష్ణురీడితః
వాగ్యజ్ఞేనార్చితో దేవః ప్రీయతాం మే జనార్దనః
వైశమ్పాయన ఉవాచ
ఏతావదుక్త్వా వచనం భీష్మస్తద్రతమానసః
నమ ఇత్యేవ కృష్ణాయ ప్రణామమకరోత్తదా
తస్మిన్నుపరతే వాక్యే తతస్తే బ్రహ్మవాదినః
భీష్మం వాగ్భిర్వాష్పగలాస్తమానర్చుర్మహాద్యుతిమ్
తేఽస్తువన్తశ్చ విప్రేన్ద్రాః కేశవం పురుషోత్తమమ్
భీష్మం చ శనకైః సర్వే ప్రశశంసుః పునః పునః
అధిగమ్య తు యోగేన భక్తిం భీష్మస్య మాధవః
త్రైలోక్యదర్శనం జ్ఞానం దివ్యం దత్త్వా యయౌ హరిః
విదిత్వా భక్తియోగం తం భీష్మస్య పురుషోత్తమః
సహసోత్థాయ తం హృష్టో యానమేవాన్వపద్యత
కేశవః సాత్యకిశ్చైవ రథేనకేన జగ్మతుః
అపరేణ మహాత్మానౌ యుధిష్ఠిరధనఞ్జయౌ
భీమసేనో యమౌ చోభౌ రథమేకం సమాస్థితాః
కృపో యుయుత్సుః సూతశ్చ సఞ్జయశ్చాపరం రథమ్
తే రథైర్నగరాకారైః ప్రయాతాః పురుషర్షభాః
నేమిఘోషేణ మహతా కమ్పయన్తే వసున్ధరామ్
తతో గిరః పురుషవరస్తవేరితాన్ద్విజేరితాః పథిషు మనాక్ స శుశ్రువే
కృతాఞ్జలిం ప్రణతమథాపరం జనంస కేశిహా ముదితమనాస్థనన్దత
ఇతి స్మరన్పఠతి చ శార్ఙ్గధన్వనఃశృణోతు వా యదుకులనన్దనస్తవమ్
స చక్రభృత్ప్రతిహతసర్వాకిల్విషోజనార్దనం ప్రవిశతి దేహసఙ్క్షయే
యం యోగినః ప్రాణవియోగకాలేయత్నేన చిత్తే వినివేశయన్తి
స తం పురస్తాద్ధరిమీక్షమాణఃప్రాణాఞ్జహౌ ప్రాప్తఫలో హి భీష్మః
స్వవరాజః సమాప్తోఽయం విష్ణోరద్భుతకర్మణః
గాఙ్గేయేన పురా గీతో మహాపాతకనాశనః
ఇమం నరః స్తవరాజం ముముక్షుఃపఠఞ్శుచిః కలుషితకల్మషాపహమ్
అతీత్య లోకాన్మలినః సమామతాన్పదం స గచ్ఛత్యమృతం మహాత్మనః
bhīṣmastutiḥ
janamejaya uvāca
śaratalpe śayānastu bharatānāṃ pitāmahaḥ
kathamutsṛṣṭavāndehaṃ kaṃ ca yogamadhārayat
vaiśampāyana uvāca
śṛṇuṣvāvahito rājañśucirbhūtvā samāhitaḥ
bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ
pravṛttamātre tvayanamuttareṇa divākare
śuklapakṣasya cāṣṭabhyāṃ māghamāsasya pārthiva
prājāpatye ca nakṣatre madhyaṃ prāpte divākare
samāveśayadātmānamātmatyeva samāhitaḥ
vikīrṇāṃśurivādityo bhīṣmaḥ śaraśataiścitaḥ
śuśubhe parayā lakṣmyā vṛto brāhmaṇasattamaiḥ
vyāsena devaśravasā nāradena surarṣiṇā
devasthānena vātsyena tathā'śmakasumantunā
tathā jaimininā caiva pailena ca mahātmanā
śāṇḍilyadevalābhyāṃ ca maitreyeṇa ca dhīmatā
asitena vasiṣṭhena kauśikena mahātmanā
hāritalomaśābhyāṃ ca tathā''treyeṇa dhīmatā
bṛhaspatiśca śukraśca cyavanaśca mahāmuniḥ
sanatkumāraḥ kapilo cālmīkistumburuḥ kuruḥ
maudgalyo bhārgavo rāmastṛṇabindurmahāmuniḥ
pippalādo'tha vāyuśca savartaḥ pulahaḥ kacaḥ
kāśyapaśca pulastyaśca kraturdakṣaḥ parāśaraḥ
marīciraṅgirāḥ kāśyo gautamo gālavo muniḥ
dhaumyo vibhāṇḍo māṇḍavyodhaumraḥ kṛṣṇānubhautikaḥ
ulūkaḥ paramo vipro mārkaṇḍeyo mahāmuniḥ
bhāskariḥ pūraṇaḥ kṛṣṇaḥ sūtaḥ paramadhārmikaḥ
etaiścānyairmunigaṇairmahābhāgairmahātmabhiḥ
śraddhādamaśamopetairvṛtaścandra iva grahaiḥ
bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā
śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ śuciḥ
svareṇa hṛṣṭapuṣṭena tuṣṭāva madhusūdanam
yogeśvaraṃ pajhanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim
anādinidhanaṃ viṣṇumātmayoniṃ sanātanam
kṛtāñjalipuṭo bhūtvā vāgvidāṃ pravaraḥ prabhuḥ
bhīṣmaḥ paramadharmātmā vāsudevamathāstuvat
bhīṣma uvāca
ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigadiṣāmi yām
tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ
śuciṃ śucipadaṃ haṃsaṃ tatparaṃ parameṣṭhinam
yuktvā sarvātmanā''tmānaṃ taṃ prapadye prajāpatim
anādyantaṃ paraṃ brahma na devā narṣayo viduḥ
eko'yaṃ veda bhagavāndhātā nārāyaṇo hariḥ
nārāyaṇādṛṣigaṇāstathā siddhamahoragāḥ
devā devarṣayaścaiva yaṃ vidurduḥkhabheṣajam
devadānavagandharvā yakṣarākṣasapannagāḥ
yaṃ na jānanti ko hyeṣa kuto vā bhagavāniti
yamāhurjagataḥ kośaṃ yasmiṃśca nihitāḥ prajāḥ
yasmi~llokāḥ sphurantyete jāle śakunayo yathā
yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca
guṇabhūtāni bhūteśe sūtre maṇigaṇā iva
yaṃ ca viśvasya kartāraṃ jagatastasthuṣāṃ patim
vadanti jagato'dhyakṣamadhyātmaparicintakāḥ
yasminnitye tate tantau dṛḍhe sragiva tiṣṭhati
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi
hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam
sahasrabāhumakuṭaṃ sahasravadanojjvalam
prāhurnārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam
aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi
caṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu
caturbhiścaturātmānaṃ satvasthaṃ sātvatāṃ patim
yaṃ divyairdevamarcanti guhyaiḥ paramanāmabhiḥ
yasminnityaṃ tapastaptaṃ yadaṅgeṣvanutiṣṭhati
sarvātmā sarvavitsarvaḥ sarvajñaḥ sarvabhāvanaḥ
yaṃ devaṃ devakī devī vasudevādajījanat
bhaumasya brahmaṇo guptyai dīptamagnimivāraṇiḥ
yamananyo vyapetāśīrātmānaṃ vītakalmaṣam
iṣṭvānantyāya govindaṃ paśyatyātmānamātmani
apratarkyamavijñeyaṃ hariṃ nārāyaṇaṃ vibhum
ativāyvindrakarmāṇamatisūryāgnitejasam
atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim
purāṇe puruṣaṃ proktaṃ brahmaproktaṃ yugādiṣu
kṣaye saṅkarṣaṇaṃ proktaṃ tamupāsyamupāsmahe
yamekaṃ bahudhātmānaṃ prādurbhūtamadhokṣajam
nānyabhaktāḥ kriyāvanto yajante sarvakāmadam
ṛtamekākṣaraṃ brahma yattatsadasataḥ param
anādimadhyaparyantaṃ na devā narṣayo viduḥ
yaṃ surāsuragandharvāḥ siddhā ṛṣimahoragāḥ
prayatā nityamarcanti paramaṃ sukhabheṣajam
anādinidhanaṃ devamātmayoniṃ sanātanam
aprekṣyamanabhijñeyaṃ hariṃ nārāyaṇaṃ prabhum
atha bhīṣmastavarājaḥ
hiraṇyavarṇaṃ yaṃ garbhamaditirdaityanāśanam
ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ
śukle devānpitṝnkṛṣṇe tarpayatyamṛtena yaḥ
yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ
hutāśanamukhairdevairdhāryate sakalaṃ jagat
haviḥ prathamabhoktā yastasmai hotrātmane namaḥ
mahatastamasaḥ pāre puruṣaṃ hyatitejasam
yaṃ jñātvā mṛtyumatyeti tasmai jñeyātmane namaḥ
yaṃ bṛhantaṃ bṛhatyukthe yamagnau yaṃ mahādhvare
yaṃ viprasaṅghā gāyanti tasmai vedātmane namaḥ
pādāṅgaṃ sandhiparvāṇaṃ svaravyañjanabhūṣitam
yamāhurakṣaraṃ viprāstasmai vāgātmane namaḥ
yajñāṅgo yo varāho vai bhūtvā gāmujjahāraha
lokatrayahitārthāya tasmai vīryātmane namaḥ
ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim
yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ
caturbhiśca caturbhiśca dvābhyāṃ pañcabhireva ca
hūyate ca punardvābhyāṃ tasmai homātmane namaḥ
yaḥ suparṇo yajurnāma cchandogātrastrivṛcchirāḥ
rathantarabṛhatpakṣastasmai stotrātmane namaḥ
yaḥ sahasrasave satre jajñe viśvasṛjāmṛṣiḥ
hiraṇyapakṣaḥ śakunistasmai tārkṣyātmane namaḥ
yaścinoti satāṃ setumṛtenāmṛtayoninā
dharmārthavyavahārāṅgaistasmai satyātmane namaḥ
yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ
pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ
yataḥ sarve prasūyante hyanaṅgātmāṅgadehinaḥ
unmādaḥ sarvabhūtānāṃ tasmai kāmātmane namaḥ
yaṃ taṃ vyaktasthamavyaktaṃ vicinvanti maharṣayaḥ
kṣetre kṣetrajñamāsīnaṃ tasmai kṣetrātmane namaḥ
yaṃ dṛgātmānamātmasthaṃ vṛtaṃ ṣoḍaśabhirguṇaiḥ
prāhuḥ saptadaśaṃsāṅkhyāstasmai sāṅkhyātmane namaḥ
yaṃ vinidrā jitaśvāsāḥ santuṣṭāḥ saṃyatendriyāḥ
jyotiḥ paśyanti yuñjānāstasmai yogātmena namaḥ
apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ
śāntāḥ sannyāsino yānti tasmai mokṣātmane namaḥ
yasyāgrirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ
sūryaścakṣurdiśaḥ śrotraṃ tasmai lokātmane namaḥ
yugeṣvāvartate yoṃ'śairmāsartvayanahāyanaiḥ
sargapralayayoḥ kartā tasmai kālātmane namaḥ
yo'sau yugasahasrānte pradīptārcirvibhāvasuḥ
sambhakṣayati bhūtāni tasmai ghorātmane namaḥ
sambhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat
bālaḥ svapiti yaścaikastasmai māyātmane namaḥ
sahasraśirase tasmai puruṣāyāmitātmane
catuḥsamudrapayasi yoganidrātmane namaḥ
ajasya nābhāvadhyekaṃ yasminviśvaṃ pratiṣṭhitam
puṣkaraṃ puṣkarākṣasya tasmai pajhātmane namaḥ
yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu
kukṣau samudrāścatvārastasmai toyātmane namaḥ
yasmātsargāḥ pravartante sargapralayavikriyāḥ
yasmiṃścaiva pralīyante tasmai hetvātmane namaḥ
yo niṣaṇṇo bhavedrātrau divā bhavati viṣṭhitaḥ
iṣṭāniṣṭasya ca draṣṭā tasmai draṣṭrātmane namaḥ
akāryaḥ sarvakāryeṣu dharmakāryārthamudyataḥ
vaikuṇṭhasya hi tadrūpaṃ tasmai kāryātmane namaḥ
brahma vaktaṃ bhujau kṣatraṃ kṛtsnamūrūdaraṃ viśaḥ
pādau yasyāśritāḥ śūdrāstasmaivarṇātmane namaḥ
annapānendhanamayo rasaprāṇavivardhanaḥ
yo dhārayati bhūtāni tasmai prāṇātmane namaḥ
prāṇānāṃ dhāraṇārthāya yo'nnaṃ bhuṅkte caturvidham
antarbhūtaḥ pacatyagnistasmai pākātmane namaḥ
viṣaye vartamānānāṃ yaṃ taṃ vaiṣayikairguṇaiḥ
prāhurviṣayagoptāraṃ tasmai goptrātmane namaḥ
aprameyaśarīrāya sarvato buddhicakṣuṣe
apāraparimāṇāya tasmai divyātmane namaḥ
paraḥ kālātparo yajñātparaḥ sadasataśca yaḥ
anādirādirviśvasya tasmai viśvātmane namaḥ
vaidyuto jāṭharaścaiva pāvakaḥ śucireva ca
dahanaḥ sarvabhakṣāṇāṃ tasmai vahnyātmane namaḥ
rasātalagataḥ śrīmārnananto bhagavānprabhuḥ
jagaddhārayate yo'sau tasmai śeṣātmane namaḥ
jvalanārkendutārāṇāṃ jyotiṣāṃ divyamūrtinām
yastejayati tejāṃsi tasmai tejātmane namaḥ
ātmajñānamidaṃ jñānaṃ jñātvā pañcasvavasthitam
yaṃ jñānenādhigacchanti tasmai jñānātmane namaḥ
sāṅkhyairyogairviniścitya sādhyaiśca paramarṣibhiḥ
yasya tu jñāyate tatvaṃ tasmai guhyātmane namaḥ
jaṭine daṇḍine nityaṃ lambodaraśarīriṇe
kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ
śūline tridaśeśāya tryambakāya mahātmane
bhasmadigdhordhvaliṅgāya tasmā rudrātmane namaḥ
candrārdhakṛtaśīrṣāya vyālayajñopavītine
pinākaśūlahastāya tasmai ugrātmane namaḥ
yo jāto vasudevena devakyāṃ yadunandanaḥ
śaṅkhacakragadāpāṇirvāsudevātmane namaḥ
śiraḥkapālamālāya vyāghracarmanivāsine
bhasmadigdhaśarīrāya tasmai rudrātmane namaḥ
yo mohayati bhūtāni sarvapāśānubandhanaiḥ
sarvasya rakṣaṇārthāya tasmai mohātmane namaḥ
caitanyaṃ sarvato nityaṃ sarvaprāṇihṛdi sthitam
sarvātītataraṃ sūkṣmaṃ tasmai sūkṣmātmane namaḥ
pañcabhūtātmabhūtāya bhūtādinidhanāya ca
akrodhadrohamohāya tasmai śāntātmane namaḥ
yasminsarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ
yaśca sarvamayo devastasmai sarvātmane namaḥ
yaḥ śete kṣīraparyaṅke divyanāgavibhūṣite
phaṇāsahasraracite tasmai nidrātmane namaḥ
viśve ca marutaścaiva rudrādityāśvināvapi
vasavaḥ siddhasādhyāśca tasmai devātmane namaḥ
avyaktaṃ buddhyahaṅkāro manobuddhīndriyāṇi ca
tanmātrāṇi viśeṣāśca tasmai tatvātmane namaḥ
bhūtaṃ bhavyaṃ bhaviṣyacca bhūtādiprabhavāvyayaḥ
yo'grajaḥ sarvabhūtānāṃ tasmai bhūtātmane namaḥ
yaṃ hi sūkṣmaṃ vicinvanti paraṃ sūkṣmavido janāḥ
sūkṣmātsūkṣmaṃ ca yad brahma tasmai sūkṣmātmane namaḥ
matsyo bhūtvā viriñcāya yena vedāḥ samāhṛtāḥ
rasātalagataḥ śīghraṃ tasmai matsyātmane namaḥ
mandarādrirdhṛto yena prāpte hyamṛtamanthane
atikarkaśadehāya tasmai kūrmātmane namaḥ
vārāhaṃ rūpamāsthāya mahīṃ savanaparvatām
uddharatyekadaṃṣṭreṇa tasmai kroḍātmane namaḥ
nārasiṃhavapuḥ kṛtvā sarvalokabhayaṅkaram
hiraṇyakaśipuṃ jaghne tasmai siṃhātmane namaḥ
piṅgekṣaṇasaṭaṃ yasya rūpaṃ daṃṣṭrānakhairyutam
dānavendrāntakaraṇaṃ tasmai dṛptātmane namaḥ
yaṃ na devā na gandharvā na daityā na ca dānavāḥ
tatvato hi vijānanti tasmai sūkṣmātmane namaḥ
vāmanaṃ rūpamāsthāya baliṃ saṃyamya māyayā
trailokyaṃ krāntavānyastu tasmai krāntātmane namaḥ
jamadagnisuto bhūtvā rāmaḥ śastrabhṛtāṃ varaḥ
mahīṃ niḥkṣatriyāṃ cakre tasmai rāmātmane namaḥ
triḥsaptakṛtvo yaścaiko dharme vyutkrāntigauravāt
jaghāna kṣatriyānsaṅkhye tasmai krodhātmane namaḥ
vibhajya pañcadhā''tmānaṃ vāyurbhūtvā śarīragaḥ
yaśceṣṭayati bhūtāni tasmai vāyvātmane namaḥ
rāmo daśirathirbhūtvā pulastyakulanandanam
jaghāna rāvaṇaṃ saṅkhye tasmai kṣatrātmane namaḥ
yo halī musalī śrīmānnīlāmbaradharaḥ sthitaḥ
rāmāya rauhiṇeyāya tasmai bhogātmane namaḥ
śaṅkhine cakriṇe nityaṃ śārṅgiṇe pītavāsase
vanamālādharāyaiva tasmai kṛṣṇātmane namaḥ
vasudevasutaḥ śrīmānkrīḍito nandagokule
kaṃsasya nidhanārthāya tasmai krīḍātmane namaḥ
vāsudevatvamāgamya yadorvaṃśasamudbhavaḥ
bhūbhāraharaṇaṃ cakre tasmai kṛṣṇātmane namaḥ
sārathyamarjunasyājau kurvangītāmṛtaṃ dadau
lokatrayopakārāya tasmai brahmātmane namaḥ
dānavāṃstu vaśe kṛtvā punarbuddhatvamāgataḥ
sargasya rakṣaṇārthāya tasmai buddhātmane namaḥ
haniṣyati kalau prāpte mlecchāṃsturagavāhanaḥ
dharmasaṃsthāpako yastu tasmai kalkyātmane namaḥ
tārānvaye kālanemiṃ hatvā dānavapuṅgavam
dadau rājyaṃ mahendrāya tasmai sāṅkhyātmane namaḥ
yaḥ sarvaprāṇināṃ dehe sākṣibhūto hyavasthitaḥ
akṣaraḥ kṣaramāṇānāṃ tasmai sākṣyātmane namaḥ
namostu te mahādeva namaste bhaktavatsala
subrahmaṇya namaste'stu prasīda parameśvara
avyaktavyaktarūpeṇa vyāptaṃ sarvaṃ tvayā vibho
nārāyaṇaṃ sahasrākṣaṃ sarvalokamaheśvaram
hiraṇyanābha yajñāṅgamamṛtaṃ viśvatomukham
sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam
yeṣāṃ hṛdistho deveśo maṅgalāyatanaṃ hariḥ
maṅgala bhagavānviṣṇurmaṅgalaṃ madhusūdanaḥ
maṅgalaṃ puṇ़ḍarīkākṣo maṅgalaṃ garuḍadhvajaḥ
viśvakarmannamaste'stu viśvātmanviśvasambhava
apavargasthabhūtānāṃ pañcānāṃ paramāsthita
namaste triṣu lokeṣu vamaste paratastriṣu
namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam
namaste bhagavanviṣṇo tyekānāṃ prabhavāvyaya
tvaṃ hi kartā hṛṣīkeśaḥ saṃhartā cāparājitaḥ
tena paśyāmi te divyānbhāvānhi triṣuvartmasu
tacca paśyāmi tatvena yatte rūpaṃ sanātanam
divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasundharā
vikrameṇa trayo lokāḥ puruṣo'si sanātanaḥ
diśo bhujā raviścakṣurvīrye śukraḥ pratiṣṭhitaḥ
saptamārgā niruddhāste vāyoramitatejasaḥ
vyaktāvyaktasvarūpeṇa vyāptaṃ sarvaṃ tvayā vibho
avyaktaṃ brāhmaṇaṃ rūpaṃ vyaktametaccarācaram
atasīpuṣpasaṅkāśaṃ pītavāsasamacyutam
ye namasyanti govindaṃ na teṣāṃ vidyate bhayam
eko'pi kṛṣṇasya kṛtaḥ praṇāmodaśāśvamedhāvabhṛthena tulyaḥ
daśāśvamedhī punareti janmakṛṣṇapraṇāmī na punarbhavāya
kṛṣṇavratāḥ kṛṣṇamanusmarantorātrau ca kṛṣṇaṃ punarutthitā ye
te kṛṣṇadehāḥ praviśanti kṛṣṇamājyaṃ yathā mantrahutaṃ hutāśe
namo narakasantrāsarakṣāmaṇḍalakāriṇe
saṃsāranimnagāvartatarikāṣṭhāya viṣṇave
namo brahmaṇyadevāya gobrāhmaṇahitāya ca
jagaddhitāya kṛṣṇāya govindāya namonamaḥ
prāṇakāntārapātheyaṃ saṃsārocchedabheṣajam
duḥkhaśokaparitrāṇaṃ harirityakṣaradvayam
nārāyaṇaparaṃ brahma nārāyaṇaparaṃ tapaḥ
nārāyaṇaparaṃ satyaṃ nārāyaṇaparaṃ param
yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ
tathā viṣṇumayaṃ sarvaṃ pāpmā ne naśyatāṃ tathā
tasya yajñavarāhasya viṣṇoramitatejasaḥ
praṇāmaṃ ye'pi kurvanti teṣāmapi namonamaḥ
tvāṃ prapannāya bhaktāya gatimiṣṭāṃ jigīṣave
yacchreyaḥ puṇḍarīkākṣa taddhyāyasva surottama
iti vidyātapoyonirayonirviṣṇurīḍitaḥ
vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ
vaiśampāyana uvāca
etāvaduktvā vacanaṃ bhīṣmastadratamānasaḥ
nama ityeva kṛṣṇāya praṇāmamakarottadā
tasminnuparate vākye tataste brahmavādinaḥ
bhīṣmaṃ vāgbhirvāṣpagalāstamānarcurmahādyutim
te'stuvantaśca viprendrāḥ keśavaṃ puruṣottamam
bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ
adhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ
trailokyadarśanaṃ jñānaṃ divyaṃ dattvā yayau hariḥ
viditvā bhaktiyogaṃ taṃ bhīṣmasya puruṣottamaḥ
sahasotthāya taṃ hṛṣṭo yānamevānvapadyata
keśavaḥ sātyakiścaiva rathenakena jagmatuḥ
apareṇa mahātmānau yudhiṣṭhiradhanañjayau
bhīmaseno yamau cobhau rathamekaṃ samāsthitāḥ
kṛpo yuyutsuḥ sūtaśca sañjayaścāparaṃ ratham
te rathairnagarākāraiḥ prayātāḥ puruṣarṣabhāḥ
nemighoṣeṇa mahatā kampayante vasundharām
tato giraḥ puruṣavarastaveritāndvijeritāḥ pathiṣu manāk sa śuśruve
kṛtāñjaliṃ praṇatamathāparaṃ janaṃsa keśihā muditamanāsthanandata
iti smaranpaṭhati ca śārṅgadhanvanaḥśṛṇotu vā yadukulanandanastavam
sa cakrabhṛtpratihatasarvākilviṣojanārdanaṃ praviśati dehasaṅkṣaye
yaṃ yoginaḥ prāṇaviyogakāleyatnena citte viniveśayanti
sa taṃ purastāddharimīkṣamāṇaḥprāṇāñjahau prāptaphalo hi bhīṣmaḥ
svavarājaḥ samāpto'yaṃ viṣṇoradbhutakarmaṇaḥ
gāṅgeyena purā gīto mahāpātakanāśanaḥ
imaṃ naraḥ stavarājaṃ mumukṣuḥpaṭhañśuciḥ kaluṣitakalmaṣāpaham
atītya lokānmalinaḥ samāmatānpadaṃ sa gacchatyamṛtaṃ mahātmanaḥ