श्रीगणेशपूर्वशतकम्
सत्यज्ञानानन्दं गजवदनं नौमि सिद्धिबुद्धीशम् ।
कुर्वे गणेशशतकं कुजुकेनाहं स्वबुद्धिशुद्धयर्थम् ॥ १॥
दिङ्मात्रेण गणपतेर्गुणगणविभवादिवर्णनारूपम् ।
प्रायो वैनायककृतिविदितमतपक्रियाविवृतिपूर्वम् ॥ २॥
यद्यपि मन्दमतिरहं गुणलवमवगन्तुमतितरां नालम् ।
प्रयते तथापि वदितुं लम्बोदर ते दयावलम्बेन ॥ ३॥
जगतः सर्गादाद्यात् प्रागप्येकस्त्वमेव भासि विभो ।
तस्माद्गणप भवन्तं निखिलनिदानं गदन्ति निगमान्ताः ॥ ४॥
त्वमतो मायातीतं सकलजगत्कल्पनाद्यधिष्ठानम् ।
अद्वैतसीमभूतं वाङ्मानसागोचरं परं ब्रह्म ॥ ५॥
सगुणब्रह्मात्मानो गणपतिशिवशक्तिकेशवार्का ये ।
तेषां कारणमाहुः शुद्धाद्वैतानुगा यमात्मानम् ॥ ६॥
यः सर्ववेदवेद्यस्तत्त्वमसिपदाद्यतीतरूपो यः ।
यो योगिवृन्दमृग्यः परमात्मानं तमाश्रये नित्यम् ॥ ७॥
यत्पूर्णयोगलभ्यं भूमात्मकमामनन्ति गाणपताः ।
शुद्धं स्वमहिमसंस्थं ब्रह्मास्मिन् मे मनः सदा स्मरताम् ॥ ८॥
भूमा ब्रह्मैतत् ते षष्ठं गणपं च पञ्चमं प्राहुः ।
तुर्यं गणेशमस्य हि कार्यान् सगुणात्मनोऽपि तान् पञ्च ॥ ९॥
तत्रोपासनकाण्डे परकाष्ठाभूतमसिपदार्थमयम् ।
स्वानन्दं ब्रह्मैतद्गजवदनमहं भजे जगद्वन्द्यम् ॥ १०॥
गाणपतपुङ्गवाः किल पादमयान्यस्य पञ्चमस्याहुः ।
शैवाद्वैतादीनां मुख्यब्रह्माणि यानि चत्वारि ॥ ११॥
अव्याकृतं तुरीयं ब्रह्म त्रिगुणात्मकं गुगणेशाख्यम् ।
विद्यात्मकं गणपते सततं दूरीकरोतु मम दुरितम् ॥ १२॥
यस्य हि नाभिर्ब्रह्मा वदनं विष्णुश्च लोचनं रुद्रः ।
शक्तिश्च वामपार्श्वं दक्षिणमर्कोऽस्मितामयस्त्वात्मा ॥ १३॥
जाग्रत्स्वप्नसुषुप्तब्रह्म त्रिगुणात्मकं च यत्प्रोक्तम् ।
व्याकृतमाविद्यकमपि तदपि व्यक्तं चकास्तु मे चित्ते ॥ १४॥
ब्रह्म स्वानन्दात्मकविद्याऽविद्यात्मकप्रभेदेन ।
भूमब्रह्म चतुष्पात् प्रकाशतां मेऽनिशं हृदाकाशे ॥ १५॥
मायासमरसयुक्तं शान्तिगतं निष्कलं परं ज्योतिः ।
यद्ब्रह्म पादरूपं गाणेशाद्वैतलक्ष्यभूतमसि ॥ १६॥
यो ब्रह्मपाद आद्यः संयोगायोगपादयुगयुक्तः
तौ पादावप्युदितावध्यारोपापवादपरकाष्ठे ।
सदसत्सहजसमात्मकचतुर्विधानन्दपादरूपस्त्वं
रविशक्तीशहरीणां सङ्घातस्त्वं श्रुतोऽसि गणराज ॥ १७॥
बिन्दुः सोऽहम्बोधः साङ्ख्यश्चेति प्रसिद्धभेदयुतः ।
विद्यापादोऽपि त्वं योगिसमाधौ गृहीतसुविशेषः ॥ १८॥
तुर्याविद्यापादस्त्वमेव सत्यानृतो जगद्रूपः ।
स विराट् हिरण्यगर्भावीशगुणेशाविति प्रभेदयुतः ॥ १९॥
ब्रह्मांशस्थितिभेदाः सर्वे चैते स्फुरन्तु मम चित्ते ।
प्रायोऽसम्प्रज्ञातसमाधिज्ञेया गणेश करुणाब्धे ॥ २०॥
सिद्धिर्बुद्धिश्चेति द्विधा हि वैनायकी महामाया ।
लोकैकनायिका सा तदुपाधिवशात् किलासि बहुधा त्वम् ॥ २१॥
एवं मायोपाधिकपरात्मरूपं हि पञ्चधा भिन्नम् ।
तददस्थागुणभेदान्नीरूपस्यापि ते समाम्नातम् ॥ २२॥
सद्ब्रह्म किल प्रथमं सकलजगद्वीजभूतरूपं त्वम् ।
मूर्तिं विनायक इति स्वेच्छावशतो गणेश गृह्णासि ॥ २३॥
बीजस्य भूमिरूपा केवलमायाद्वितीयमूर्तिस्ते ।
वर्तयति कृत्यमखिलं भुवनेशी सा शिवो पराशक्तिः ॥ २४॥
मायेशं तु तृतीयं रविमण्डलगं हिरण्मयं पुरुषम् ।
त्वामामनन्ति वेदा ह्यनवरतं कालचक्रनेतारम् ॥ २५॥
उपहिततुरीयमूर्तिर्मायायुक्तः परः शिवो गिरीशः ।
कल्पान्तकालरूपी त्वमेव सर्वं च सञ्जरीहर्षि ॥ २६॥
मायामयो हि विष्णुर्मायोपाधेश्च पञ्चमी मूर्तिः ।
सोऽपि त्वमेव निखिलं लोकं पालयसि लीलया सततम् ॥ २७॥
एवं मायावशतो रविशिवशक्त्यादिनामपञ्चकभाक् ।
दिशतु मदीप्सितमखिलं शुद्धब्रह्मात्मकं भवद्रूपम् ॥ २८॥
मायाबद्धः षष्ठः प्रथमशरीरी हिरण्यगर्भस्त्वम् ।
तत्तत्कर्मानुगुणं करोषि सर्गं समस्तलोकस्य ॥ २९॥
प्राक् पद्मासनरूपग्रहणाद्भवतोऽप्युपाधितो भिन्नाः ।
एताश्च सगुणमूर्तीरालम्ब्य मतानि पञ्च जातानि ॥ ३०॥
एते हि पञ्च देवाः स्वस्वाधारेषु सन्ति सर्वत्र ।
वर्णस्वधर्मविभवात्तेजोरूपास्त्रिवर्ण देहेषु ॥ ३१॥
गायत्रीग्रहणेन हि तत्ततेजो विशेषतो भाति ।
तत्तज्जातिगुणा अप्युत्कृष्टत्वेन तेन जायन्ते ॥ ३२॥
मूलाधारे गणपो मणिपूरे हरिरनाहते शम्भुः ।
राजति रविर्विशुद्धौ ब्रह्मसुरन्ध्र शिवा परा शक्तिः ॥ ३३॥
अपि च षडाधारेषु प्राप्यैवं ध्यानयोगचित्तलयौ ।
मुक्ता भवन्ति तस्मात् पञ्चायतनार्चनेऽतिहर्षस्ते ॥ ३४॥
गणपतिपञ्चायतनं पञ्चायतनं रवीश्वरादीनाम् ।
यद्वा तद्वा कृतमपि पूजाविषयेऽतिमात्रतृप्तिस्ते ॥ ३५॥
प्रासादशुद्धपूजा अत एव विहाय पञ्चदेवानाम् ।
पञ्चायतनसपर्यां सगुणसमष्टयर्चनां वदन्ति बुधाः ॥ ३६॥
हर्यादिगणेशान्ताः पञ्चैता ब्रह्ममूर्तयो मुनिभिः ।
अत एव प्रणवस्य च गायत्र्याश्चापि देवताः प्रोक्ताः ॥ ३७॥
व्याचक्षते हि ऋषयो गायत्र्याः पञ्चदेवतापराम् ।
प्रणवस्यापि तथैव प्रपञ्चयन्ति स्म पञ्चधाप्यर्थान् ॥ ३८॥
अत एषां पञ्चानां ब्रह्मत्वनिरूपणे निष्णाताः ।
उत्तरमीमांसाः षट् शुद्धाद्वैतेन तेनिरे मुनयः ॥ ३१॥
प्रतिपादयन्ति चैते यद्यप्यापाततो विभिन्नान् वै ।
सर्वेषां हि ऋषीणां प्रायस्त्वय्येव परमतात्पर्यम् ॥ ४०॥
एते पञ्च मतस्था भवतः सर्वेषु पूर्वपूज्यत्वम् ।
विग्नाधिपत्यमङ्गीकुर्वन्ति यतो गणाधिपत्यं च ॥ ४१॥
भूगतबीजादि यथा पादपरूपेण जायते जगति ।
ब्रह्मैव बीजभूतं प्रकृतिः पृथिवी तया हि संयोगात् ॥ ४२॥
कारणसूक्ष्मस्थूलप्रपञ्चरूपेण जायते क्रमशः ।
मूलं गणपतिरूपं प्रपश्चरूपस्य पादपस्यैवम् ॥ ४३॥
बुद्धिः सिद्धिश्च फले मूलं गणपोऽस्य विश्वरूपतरोः ।
शाखाः केशाः कन्दं त्वर्कोऽखिलमूलमुच्यसेऽतस्त्वम् ॥ ४४॥
सूले जलसेकात् किल तरुपत्रफलादयोऽपि वर्धन्ते ।
तव पूजया गणपते रविशिवशक्त्यादयोऽपि तृप्यन्ति ॥ ४५॥
एवं सगुणब्रह्मव्यपदेशवतां च पञ्च देवानाम् ।
पूर्णकलांशांशांशावताररूपाश्च मूर्तयोऽनन्ताः ॥ ४६॥
भवतः कतिपयमूर्तीराविर्भावावतारतारमुखाः ।
वैनायकमतविदितप्रक्रिययैव ब्रवीमि हेरम्ब ॥ ४७॥
सत्यं ज्ञानमनन्तं ज्योतीरूपं च निर्गुणं ब्रह्म ।
एतन्निर्व्यापारं गजपदवाच्यं लयादिहेतुत्वात् ॥ ४८॥
योगीन्द्रा गच्छन्ति हि समाधिनात्रेति गः स्मृतो मुनिभिः ।
प्रणवात्मकजगदस्माज्जायत इति जः स्मृतिप्रतीतार्थः ॥ ४९॥
गश्वासौ जश्चेति व्युत्पादयति स्मृतिर्हि गजशब्दम् ।
एष प्रतिपदायति प्रभवाप्ययकारणं परं ब्रह्म ॥ ५०॥
मूलप्रकृतिस्त्रिगुणा शुक्तौ रजतं यथा ततो जाता ।
तद्गतचित्प्रतिबिम्बं सगुणब्रह्मेति कीर्तितं मुनिभिः ॥ ५१॥
ओङ्कारब्रह्मेति च नर इति नाम्नी प्रकीर्तिते तस्य ।
सकलज्योतीरूपं सगुणस्योक्तं हि तत्त्वविद्वद्भिः ॥ ५२॥
मूलाविद्यागतनरमद्वैतब्रह्मरूपमपि बिभ्रत् ।
निर्गुणसगुणज्योतीरूमुभयथा तृतीयमप्युक्तम् ॥ ५३॥
अद्वैत इति सदात्मेत्याम्नायन्ते तथा महावाक्याः ।
इत्युक्तानि क्रमतो नामान्येषां स्मृतीतिहासादौ ॥ ५४॥
नरवाच्यसकलरूपो गजवाच्यो निष्कलस्वरूपस्त्वम् ।
विग्नेश सकलनिष्कलरूपमहावाक्यमूर्तिधारी त्वम् ॥ ५५॥
ओं तत्सदिति हि भेदाद्ब्रह्म प्रोक्तं त्रिधा सुधीभिरपि ।
प्रथितं मूर्तमर्म्तं मूर्तामूर्तं त्रिधा तदेवमपि ॥ ५६॥
नामान्तराणि सर्वाण्येतान्युदितानि वेदशीर्षेषु ।
कमलावल्लभ भवतः पूर्वोक्तत्रिविधरूपधारयितुः ॥ ५७॥
अपि चान्यानि गणपते नामानि सहस्रशः प्रसिद्धानि ।
कर्मज्ञानोपासनकाण्डेषु पृथग्विनायकादीनि ॥ ५८॥
निर्गुणरूपध्यानं न साधकाला प्रसिध्यति क्षिप्रम् ।
तदनुग्रहाय धरसे (धत्से)धीपरिपाकानुरूपरूपाणि ॥ ५९॥
मन्दाधिकारिणामपि यथा रुचिः स्यात्तदानुगुण्येन ।
विग्रहवरा गृहीताः सर्वे ते मां सदानुगृह्णन्तु ॥ ६०॥
कैलासे वैकुण्ठे हिरण्मयपुरे च या मणिद्वीपे ।
पूज्यन्तेऽनयस्मिन् वा सर्वा मूर्तीश्च तास्तवोपासे ॥ ६१॥
अष्टोत्तरं शतं वा सहस्रमत्यष्ट मधिका श्च मूर्तयो वा ते ।
मुख्यत्वेन ख्याताः खेलन्त्वखिलाः सदा मम स्वान्ते ॥ ६२॥
काश्चन पत्नीहीना बहुशक्तियुताश्च मूर्तयः काश्वित् ।
पान्त्वेकदन्त भवतोऽप्येकत्यष्टादिशक्तयः सर्वाः ॥ ६३॥
बहुफलपुष्पमही रुहनिकरारामं निघाटितकवाटम् ।
आरामेशसमीपे निष्ठन् कृत्वाह्यारामेशितृसविधे यथोपवनपालः (?) ॥ ६४॥
नोद्धाटयति कवाटं स्वाम्यादेशं विना प्रवेशाय ।
तद्वन्नोद्घाटयति स्वाधिष्ठानादि निजकवाटानि ॥ ६५॥
सर्वशरीरिशरीरे मूलाधारस्थिता हि कुण्डलिनी ।
(मूलाधारस्थकुण्डलिनीशक्तिः)
आवृत्य षडाधारान् मृद्भाण्डमिवास्ति मूलवह्नेर्या ॥ ६६॥
यद्वच्छमीद्रुमेऽग्निस्तद्वन्मूलानले भवान गणेशो स्ति ।
तत्रत्यसिद्धिबुद्धथाद्धि युतभवदाज्ञां गणपाज्ञां विना कदाचिदपि ॥ ६७॥
यदि तव पूजा क्रियते विनायकोद्घाटिताः षडाधाराः ।
अत एव पूर्वपूज्यः सर्वा कर्मा स्म्भेत्वमेव देवाद्यैः ॥ ६८॥
शुक्लाम्बरेतिमन्त्रं प्रोच्चार्य चतुर्मुखादयोऽपि त्वाम् ।
श्वेतविनायकमूर्तिं ध्यात्वा कुर्वन्ति कुट्टनं मुष्टया ॥ ६९॥
सर्वशरीरिशिरस्था मूर्धनि करकुट्टनात् सुधा गलिता ।
पतति सुषुम्नानाडिद्वारा मूलादुपर्युपोद्गतया ॥ ७०॥
सिद्धथा बुद्धथा च युते मूलाधारस्थगणपतौ भवति ।
तेन प्रसीदति भवान् करोति कर्मार्हमन्तरात्मानम् ॥ ७१॥
तादृशकुट्टनतुष्टं श्वेतविनायकमनारतं कलये ।
पीयूषमथनसमये पुरुहूतमुखैश्च पूजितो योऽभूत् ॥ ७२॥
भवतस्तेजोरूपं नरामराद्यैर्न शक्यते द्रष्टुम् ।
अत एव नयनविषयं गृह्णासि त्वं गजाननशरीरम् ॥ ७३॥
नृगजात्मकरूपत्वान्निर्गुणसगुणस्वरूपवत्त्वाच्च ।
हेलम्बोदर स्यादेकदन्त भवतो गजाननाख्या सुविश्रुताम्नाये ॥ ७४॥
गजपदवाच्यं हि मुखं प्रथमं कार्यं हि यस्य देवस्य ।
अत एव वा स कथितो गजमुखनामेति मन्वते मुनयः ॥ ७५॥
त्यक्त्वा मायावदनं गजवदनं निर्गुणं दधौ देवः ।
यो लीलया गणेशस्तं त्वां शरणं सदा प्रपत्येऽहम् ॥ ७६॥
विगतो नायक इति सा विनायकाख्या श्रुतौ समाम्नाता ।
सर्वेषां हि विशेषान्नायक इत्यप्यभिप्रयन्त्यर्थम् ॥ ७७॥
विग्नोऽभिहितो जगतां सामर्थ्यस्य हि विशेषतो हननात् ।
उक्तः स एव कालस्तन्नाथत्वात् त्वमेव विग्नेशः ॥ ७८॥
जीवेश्वरा हि वशगा भवन्ति कालात्मनः परेशस्य ।
तदधीश्वरस्य भवतो विग्नेशत्वे किमस्ति वक्तव्यम् ॥ ७९॥
सर्वब्रह्माण्डानां स्वतन्त्रदेवो विनायको राजा ।
राजप्रतिनिधिरर्कः सहायभूता शिवा महाराज्ञी ॥ ८०॥
सृष्टिस्थितिसंहारान् कर्तारो धातृहरिगिरीशाश्च ।
राज्याधिकारसचिवाः सन्ति भवानी दिवाकराद्याश्च ॥ ८१॥
यद्राज्यरक्षणायैतत्सेनापतितां गुहो महासेनः ।
तज्ज्येष्टराजनामा गजाननोऽभूदितीरितं मुनिभिः ॥ ८२॥
यस्य ज्येष्ठाभावाज्येष्ठत्वादपि च राजभाववताम् ।
तज्ज्येष्ठराजनाम प्रोक्तं स सदा विराजतां चित्ते ॥ ८३॥
यस्योदरमवलम्बश्वराचराणां हि सर्वजन्तूनाम् ।
मातापितरावपि प्रलये स्थित्यादावपि जन्मादावपि
यः सदैव लम्बोदरं तमवलम्बे ॥ ८४॥
शूर्पस्तुषमिव कलुषं निरस्यतीत्यस्य ।
(शूर्पकर्णाख्या कर्णादस्यति हि शूर्पकर्णोऽतः)
विगलितरजस्तमोमलमतिपूतं मां करोतु स गणेशः ॥ ८५॥
ब्रह्मात्ममस्तकत्वात् कण्ठाधो मायिकस्वरूपत्वात् ।
वक्रं देहविलक्षणमस्य तु तुण्डं स वक्रतुण्डोऽतः ॥ ८६॥
मायावाचक एकः दन्तः सत्तात्मवाचकश्च तयोः ।
योगो गणेश इत्यत उक्तोऽसावेकदन्ताम्नापि ॥ ८७॥
ब्रह्मात्मनां पतित्वान्मायागौरीमहेश्वरादीनाम ।
अन्नप्राणप्रभृतिप्रणवान्तब्रह्मणां पतित्वाच्च ॥ ८८॥
यं ब्रह्मणम्पतिरिति प्राहुर्वेदाधिपत्यतोऽप्येवम् ।
तमहं सर्वाधीशं सततं परिशीलयामि विघ्नेशम् ॥ ८९॥
ब्रह्मादिस्तम्बान्तप्राणिगणानामधीश्वरो यतः ।
सगुणब्रह्मगणानामपि तस्मात् त्वं गणेश इत्युक्तः ॥ ९०॥
यन्नामरूपभोगान् मायागूढोऽन्तरेव मुष्णाति ।
तन्मूषकः स्ववाहो यस्य स गणपो विहरतु मम मनसि ॥ ९१॥
मूलप्रकृतिः पत्नी जहाति चैनां तु भुक्तभोगां यः ।
पत्नीहीनोऽभिहितस्ततो गजास्योऽनिशं स मां पातु ॥ ९२॥
ब्रह्मणि वेदे चरतीत्यर्थमभिप्रेत्य वेदगम्यत्वात् ।
तं ब्रह्मचारिशब्दं कुञ्जरवदने प्रयुञ्जते कवयः ॥ ९३॥
ब्रह्मात्ममस्तकत्वात्तस्य महावाक्यगणपतेश्व विभोः ।
तेन च सहसञ्चारादाहुर्वा ब्रह्मचारीति ॥ ९४॥
आत्मारामत्वादपि चरति ब्रह्मण्यबाह्यवृत्तिरिति ।
यमिहामनन्ति मुनयः पायात्स ब्रह्मचारिदेवो गणपो माम् ॥ ९५॥
सन् द्वापरे पराशरपुत्रः सिन्दूरदानवं न्यवधीत् ।
यद्ब्रह्मचर्यवर्ती गदितोऽतो ब्रह्मचारिशब्देन ॥ ९६॥
विमलकमण्डलुतटिनीतीरमयूरेशनगरवर्ये यः ।
भूस्वानन्दे सुचिरादाविर्भूतोऽद्भुतानि कृत्यानि ॥ ९७॥
लोकानुकूलभूतान् सिन्धुवधादींश्च बहुविधान् व्यदधात् ।
निखिलानुग्रहनिरतः सततं द्वैमातुरः स मां पायात् ॥ ९८॥
यत्कोपपावकार्चिष्यसुरौ चण्डप्रचण्डनामानौ ।
प्राप्तौ पतङ्गभावं पालयतु स मां सदैव विघ्नेशः ॥ ९९॥
यश्चाष्टगन्धनिर्मितचन्दनगणपो पुरा भृगोः सुतया ।
रमया प्रपूजितः सन् विवाहसमये पुराणपुरुषस्य ॥ १००॥
दुर्गन्धासुरमवधीन्मधुकैटभमेदसः समुद्भूतम् ।
योऽपि च गव्यगणपतिर्महितो गोलोकराधया पूर्वम् ॥ १०१॥
गव्यैः पयोदधिघृतैर्जघान पापासुरं दुरात्मानम् ।
वरिवस्याम्यनवरतं तं विघ्नेशं दयापयोराशिम् ॥ १०२॥
यं हारिद्रगणपतिं हिमवद्दुहिता महेश्वरश्चापि ।
स्वीये विवाहसमये ह्यपूजयेतां च दम्पती प्राञ्चौ ॥ १०३॥
यश्च हरिद्राबिम्बादाविर्भूतो गणेश्वरः सद्यः ।
अवधीदमङ्गलासुरमन्यमपरमारनामकं ह्यसुरम् ॥ १०४॥
गौरीहरवचनाद्यं च शुभादौ प्रपूजयन्त्यद्य ।
मम हारिद्रगणपतिर्हरतु स दुरितं समस्तमपि सद्यः ॥ १०५॥
कृतयुगसमये योऽसौ काश्यपपुत्रो महोत्कटो भूत्वा ।
देवान्तकं नरान्तकमपि नाम्ना तावहन्महादुष्टौ ॥ १०६॥
प्रापयदानन्दभुवं सशरीरं काशिराजमपि भक्तम् ।
अकरोच्चाद्भुतलीलामहोत्कटं त्वामहं सदार्हामि ॥ १०७॥
योऽपि वरेण्याय पुरा गणेशगीतां हितामुपदिदेश ।
स वरेण्यराजपुत्रो गजाननो मे तनोतु कुशलततिम् ॥ १०८॥
धूम्रविनायकमूर्तिं ग्रहीष्यसि त्वं कलेर्युगस्यान्ते ।
सर्वांश्च निग्रहिष्यसि विप्लुतमतकृत्यनास्तिकप्रायान् ॥ १०९॥
शिश्नोदरमात्रपरा जातिविभागादिवर्जिताः सर्वे ।
धूम्रविनायक (धूमध्वजेन) भवता समूलघातं हता भविष्यन्ति ॥ ११०॥
॥ इति श्रीविद्वद्रत्नोपनामकेन वैयाकरणशिरोमणिना वैदिकषड्दर्शनीसारवेदिना
नीलकण्ठशास्त्रिणा विरचितं गणेशपूर्वशतकं समाप्तम् ।
This is condensed version of gaNeshatattvasudhAlaharI
Proofread by Gopalakrisnan
% Text title : Ganesha Purvashatakam 06 31
% File name : gaNeshapUrvashatakam.itx
% itxtitle : gaNeshapUrvashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshapUrvashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshottarashatakam, From stotrArNavaH 06-31. Shorter version of gaNeshatattvasudhAlaharI
% Indexextra : (Scan, gaNeshottarashatakam)
% Latest update : September 10, 2021
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
śrīgaṇeśapūrvaśatakam
satyajñānānandaṃ gajavadanaṃ naumi siddhibuddhīśam |
kurve gaṇeśaśatakaṃ kujukenāhaṃ svabuddhiśuddhayartham || 1||
diṅmātreṇa gaṇapaterguṇagaṇavibhavādivarṇanārūpam |
prāyo vaināyakakṛtividitamatapakriyāvivṛtipūrvam || 2||
yadyapi mandamatirahaṃ guṇalavamavagantumatitarāṃ nālam |
prayate tathāpi vadituṃ lambodara te dayāvalambena || 3||
jagataḥ sargādādyāt prāgapyekastvameva bhāsi vibho |
tasmādgaṇapa bhavantaṃ nikhilanidānaṃ gadanti nigamāntāḥ || 4||
tvamato māyātītaṃ sakalajagatkalpanādyadhiṣṭhānam |
advaitasīmabhūtaṃ vāṅmānasāgocaraṃ paraṃ brahma || 5||
saguṇabrahmātmāno gaṇapatiśivaśaktikeśavārkā ye |
teṣāṃ kāraṇamāhuḥ śuddhādvaitānugā yamātmānam || 6||
yaḥ sarvavedavedyastattvamasipadādyatītarūpo yaḥ |
yo yogivṛndamṛgyaḥ paramātmānaṃ tamāśraye nityam || 7||
yatpūrṇayogalabhyaṃ bhūmātmakamāmananti gāṇapatāḥ |
śuddhaṃ svamahimasaṃsthaṃ brahmāsmin me manaḥ sadā smaratām || 8||
bhūmā brahmaitat te ṣaṣṭhaṃ gaṇapaṃ ca pañcamaṃ prāhuḥ |
turyaṃ gaṇeśamasya hi kāryān saguṇātmano'pi tān pañca || 9||
tatropāsanakāṇḍe parakāṣṭhābhūtamasipadārthamayam |
svānandaṃ brahmaitadgajavadanamahaṃ bhaje jagadvandyam || 10||
gāṇapatapuṅgavāḥ kila pādamayānyasya pañcamasyāhuḥ |
śaivādvaitādīnāṃ mukhyabrahmāṇi yāni catvāri || 11||
avyākṛtaṃ turīyaṃ brahma triguṇātmakaṃ gugaṇeśākhyam |
vidyātmakaṃ gaṇapate satataṃ dūrīkarotu mama duritam || 12||
yasya hi nābhirbrahmā vadanaṃ viṣṇuśca locanaṃ rudraḥ |
śaktiśca vāmapārśvaṃ dakṣiṇamarko'smitāmayastvātmā || 13||
jāgratsvapnasuṣuptabrahma triguṇātmakaṃ ca yatproktam |
vyākṛtamāvidyakamapi tadapi vyaktaṃ cakāstu me citte || 14||
brahma svānandātmakavidyā'vidyātmakaprabhedena |
bhūmabrahma catuṣpāt prakāśatāṃ me'niśaṃ hṛdākāśe || 15||
māyāsamarasayuktaṃ śāntigataṃ niṣkalaṃ paraṃ jyotiḥ |
yadbrahma pādarūpaṃ gāṇeśādvaitalakṣyabhūtamasi || 16||
yo brahmapāda ādyaḥ saṃyogāyogapādayugayuktaḥ
tau pādāvapyuditāvadhyāropāpavādaparakāṣṭhe |
sadasatsahajasamātmakacaturvidhānandapādarūpastvaṃ
raviśaktīśaharīṇāṃ saṅghātastvaṃ śruto'si gaṇarāja || 17||
binduḥ so'hambodhaḥ sāṅkhyaśceti prasiddhabhedayutaḥ |
vidyāpādo'pi tvaṃ yogisamādhau gṛhītasuviśeṣaḥ || 18||
turyāvidyāpādastvameva satyānṛto jagadrūpaḥ |
sa virāṭ hiraṇyagarbhāvīśaguṇeśāviti prabhedayutaḥ || 19||
brahmāṃśasthitibhedāḥ sarve caite sphurantu mama citte |
prāyo'samprajñātasamādhijñeyā gaṇeśa karuṇābdhe || 20||
siddhirbuddhiśceti dvidhā hi vaināyakī mahāmāyā |
lokaikanāyikā sā tadupādhivaśāt kilāsi bahudhā tvam || 21||
evaṃ māyopādhikaparātmarūpaṃ hi pañcadhā bhinnam |
tadadasthāguṇabhedānnīrūpasyāpi te samāmnātam || 22||
sadbrahma kila prathamaṃ sakalajagadvījabhūtarūpaṃ tvam |
mūrtiṃ vināyaka iti svecchāvaśato gaṇeśa gṛhṇāsi || 23||
bījasya bhūmirūpā kevalamāyādvitīyamūrtiste |
vartayati kṛtyamakhilaṃ bhuvaneśī sā śivo parāśaktiḥ || 24||
māyeśaṃ tu tṛtīyaṃ ravimaṇḍalagaṃ hiraṇmayaṃ puruṣam |
tvāmāmananti vedā hyanavarataṃ kālacakranetāram || 25||
upahitaturīyamūrtirmāyāyuktaḥ paraḥ śivo girīśaḥ |
kalpāntakālarūpī tvameva sarvaṃ ca sañjarīharṣi || 26||
māyāmayo hi viṣṇurmāyopādheśca pañcamī mūrtiḥ |
so'pi tvameva nikhilaṃ lokaṃ pālayasi līlayā satatam || 27||
evaṃ māyāvaśato raviśivaśaktyādināmapañcakabhāk |
diśatu madīpsitamakhilaṃ śuddhabrahmātmakaṃ bhavadrūpam || 28||
māyābaddhaḥ ṣaṣṭhaḥ prathamaśarīrī hiraṇyagarbhastvam |
tattatkarmānuguṇaṃ karoṣi sargaṃ samastalokasya || 29||
prāk padmāsanarūpagrahaṇādbhavato'pyupādhito bhinnāḥ |
etāśca saguṇamūrtīrālambya matāni pañca jātāni || 30||
ete hi pañca devāḥ svasvādhāreṣu santi sarvatra |
varṇasvadharmavibhavāttejorūpāstrivarṇa deheṣu || 31||
gāyatrīgrahaṇena hi tattatejo viśeṣato bhāti |
tattajjātiguṇā apyutkṛṣṭatvena tena jāyante || 32||
mūlādhāre gaṇapo maṇipūre hariranāhate śambhuḥ |
rājati ravirviśuddhau brahmasurandhra śivā parā śaktiḥ || 33||
api ca ṣaḍādhāreṣu prāpyaivaṃ dhyānayogacittalayau |
muktā bhavanti tasmāt pañcāyatanārcane'tiharṣaste || 34||
gaṇapatipañcāyatanaṃ pañcāyatanaṃ ravīśvarādīnām |
yadvā tadvā kṛtamapi pūjāviṣaye'timātratṛptiste || 35||
prāsādaśuddhapūjā ata eva vihāya pañcadevānām |
pañcāyatanasaparyāṃ saguṇasamaṣṭayarcanāṃ vadanti budhāḥ || 36||
haryādigaṇeśāntāḥ pañcaitā brahmamūrtayo munibhiḥ |
ata eva praṇavasya ca gāyatryāścāpi devatāḥ proktāḥ || 37||
vyācakṣate hi ṛṣayo gāyatryāḥ pañcadevatāparām |
praṇavasyāpi tathaiva prapañcayanti sma pañcadhāpyarthān || 38||
ata eṣāṃ pañcānāṃ brahmatvanirūpaṇe niṣṇātāḥ |
uttaramīmāṃsāḥ ṣaṭ śuddhādvaitena tenire munayaḥ || 31||
pratipādayanti caite yadyapyāpātato vibhinnān vai |
sarveṣāṃ hi ṛṣīṇāṃ prāyastvayyeva paramatātparyam || 40||
ete pañca matasthā bhavataḥ sarveṣu pūrvapūjyatvam |
vignādhipatyamaṅgīkurvanti yato gaṇādhipatyaṃ ca || 41||
bhūgatabījādi yathā pādaparūpeṇa jāyate jagati |
brahmaiva bījabhūtaṃ prakṛtiḥ pṛthivī tayā hi saṃyogāt || 42||
kāraṇasūkṣmasthūlaprapañcarūpeṇa jāyate kramaśaḥ |
mūlaṃ gaṇapatirūpaṃ prapaścarūpasya pādapasyaivam || 43||
buddhiḥ siddhiśca phale mūlaṃ gaṇapo'sya viśvarūpataroḥ |
śākhāḥ keśāḥ kandaṃ tvarko'khilamūlamucyase'tastvam || 44||
sūle jalasekāt kila tarupatraphalādayo'pi vardhante |
tava pūjayā gaṇapate raviśivaśaktyādayo'pi tṛpyanti || 45||
evaṃ saguṇabrahmavyapadeśavatāṃ ca pañca devānām |
pūrṇakalāṃśāṃśāṃśāvatārarūpāśca mūrtayo'nantāḥ || 46||
bhavataḥ katipayamūrtīrāvirbhāvāvatāratāramukhāḥ |
vaināyakamataviditaprakriyayaiva bravīmi heramba || 47||
satyaṃ jñānamanantaṃ jyotīrūpaṃ ca nirguṇaṃ brahma |
etannirvyāpāraṃ gajapadavācyaṃ layādihetutvāt || 48||
yogīndrā gacchanti hi samādhinātreti gaḥ smṛto munibhiḥ |
praṇavātmakajagadasmājjāyata iti jaḥ smṛtipratītārthaḥ || 49||
gaśvāsau jaśceti vyutpādayati smṛtirhi gajaśabdam |
eṣa pratipadāyati prabhavāpyayakāraṇaṃ paraṃ brahma || 50||
mūlaprakṛtistriguṇā śuktau rajataṃ yathā tato jātā |
tadgatacitpratibimbaṃ saguṇabrahmeti kīrtitaṃ munibhiḥ || 51||
oṅkārabrahmeti ca nara iti nāmnī prakīrtite tasya |
sakalajyotīrūpaṃ saguṇasyoktaṃ hi tattvavidvadbhiḥ || 52||
mūlāvidyāgatanaramadvaitabrahmarūpamapi bibhrat |
nirguṇasaguṇajyotīrūmubhayathā tṛtīyamapyuktam || 53||
advaita iti sadātmetyāmnāyante tathā mahāvākyāḥ |
ityuktāni kramato nāmānyeṣāṃ smṛtītihāsādau || 54||
naravācyasakalarūpo gajavācyo niṣkalasvarūpastvam |
vigneśa sakalaniṣkalarūpamahāvākyamūrtidhārī tvam || 55||
oṃ tatsaditi hi bhedādbrahma proktaṃ tridhā sudhībhirapi |
prathitaṃ mūrtamarmtaṃ mūrtāmūrtaṃ tridhā tadevamapi || 56||
nāmāntarāṇi sarvāṇyetānyuditāni vedaśīrṣeṣu |
kamalāvallabha bhavataḥ pūrvoktatrividharūpadhārayituḥ || 57||
api cānyāni gaṇapate nāmāni sahasraśaḥ prasiddhāni |
karmajñānopāsanakāṇḍeṣu pṛthagvināyakādīni || 58||
nirguṇarūpadhyānaṃ na sādhakālā prasidhyati kṣipram |
tadanugrahāya dharase (dhatse)dhīparipākānurūparūpāṇi || 59||
mandādhikāriṇāmapi yathā ruciḥ syāttadānuguṇyena |
vigrahavarā gṛhītāḥ sarve te māṃ sadānugṛhṇantu || 60||
kailāse vaikuṇṭhe hiraṇmayapure ca yā maṇidvīpe |
pūjyante'nayasmin vā sarvā mūrtīśca tāstavopāse || 61||
aṣṭottaraṃ śataṃ vā sahasramatyaṣṭa madhikā śca mūrtayo vā te |
mukhyatvena khyātāḥ khelantvakhilāḥ sadā mama svānte || 62||
kāścana patnīhīnā bahuśaktiyutāśca mūrtayaḥ kāśvit |
pāntvekadanta bhavato'pyekatyaṣṭādiśaktayaḥ sarvāḥ || 63||
bahuphalapuṣpamahī ruhanikarārāmaṃ nighāṭitakavāṭam |
ārāmeśasamīpe niṣṭhan kṛtvāhyārāmeśitṛsavidhe yathopavanapālaḥ (?) || 64||
noddhāṭayati kavāṭaṃ svāmyādeśaṃ vinā praveśāya |
tadvannodghāṭayati svādhiṣṭhānādi nijakavāṭāni || 65||
sarvaśarīriśarīre mūlādhārasthitā hi kuṇḍalinī |
(mūlādhārasthakuṇḍalinīśaktiḥ)
āvṛtya ṣaḍādhārān mṛdbhāṇḍamivāsti mūlavahneryā || 66||
yadvacchamīdrume'gnistadvanmūlānale bhavāna gaṇeśo sti |
tatratyasiddhibuddhathāddhi yutabhavadājñāṃ gaṇapājñāṃ vinā kadācidapi || 67||
yadi tava pūjā kriyate vināyakodghāṭitāḥ ṣaḍādhārāḥ |
ata eva pūrvapūjyaḥ sarvā karmā smbhetvameva devādyaiḥ || 68||
śuklāmbaretimantraṃ proccārya caturmukhādayo'pi tvām |
śvetavināyakamūrtiṃ dhyātvā kurvanti kuṭṭanaṃ muṣṭayā || 69||
sarvaśarīriśirasthā mūrdhani karakuṭṭanāt sudhā galitā |
patati suṣumnānāḍidvārā mūlāduparyupodgatayā || 70||
siddhathā buddhathā ca yute mūlādhārasthagaṇapatau bhavati |
tena prasīdati bhavān karoti karmārhamantarātmānam || 71||
tādṛśakuṭṭanatuṣṭaṃ śvetavināyakamanārataṃ kalaye |
pīyūṣamathanasamaye puruhūtamukhaiśca pūjito yo'bhūt || 72||
bhavatastejorūpaṃ narāmarādyairna śakyate draṣṭum |
ata eva nayanaviṣayaṃ gṛhṇāsi tvaṃ gajānanaśarīram || 73||
nṛgajātmakarūpatvānnirguṇasaguṇasvarūpavattvācca |
helambodara syādekadanta bhavato gajānanākhyā suviśrutāmnāye || 74||
gajapadavācyaṃ hi mukhaṃ prathamaṃ kāryaṃ hi yasya devasya |
ata eva vā sa kathito gajamukhanāmeti manvate munayaḥ || 75||
tyaktvā māyāvadanaṃ gajavadanaṃ nirguṇaṃ dadhau devaḥ |
yo līlayā gaṇeśastaṃ tvāṃ śaraṇaṃ sadā prapatye'ham || 76||
vigato nāyaka iti sā vināyakākhyā śrutau samāmnātā |
sarveṣāṃ hi viśeṣānnāyaka ityapyabhiprayantyartham || 77||
vigno'bhihito jagatāṃ sāmarthyasya hi viśeṣato hananāt |
uktaḥ sa eva kālastannāthatvāt tvameva vigneśaḥ || 78||
jīveśvarā hi vaśagā bhavanti kālātmanaḥ pareśasya |
tadadhīśvarasya bhavato vigneśatve kimasti vaktavyam || 79||
sarvabrahmāṇḍānāṃ svatantradevo vināyako rājā |
rājapratinidhirarkaḥ sahāyabhūtā śivā mahārājñī || 80||
sṛṣṭisthitisaṃhārān kartāro dhātṛharigirīśāśca |
rājyādhikārasacivāḥ santi bhavānī divākarādyāśca || 81||
yadrājyarakṣaṇāyaitatsenāpatitāṃ guho mahāsenaḥ |
tajjyeṣṭarājanāmā gajānano'bhūditīritaṃ munibhiḥ || 82||
yasya jyeṣṭhābhāvājyeṣṭhatvādapi ca rājabhāvavatām |
tajjyeṣṭharājanāma proktaṃ sa sadā virājatāṃ citte || 83||
yasyodaramavalambaśvarācarāṇāṃ hi sarvajantūnām |
mātāpitarāvapi pralaye sthityādāvapi janmādāvapi
yaḥ sadaiva lambodaraṃ tamavalambe || 84||
śūrpastuṣamiva kaluṣaṃ nirasyatītyasya |
(śūrpakarṇākhyā karṇādasyati hi śūrpakarṇo'taḥ)
vigalitarajastamomalamatipūtaṃ māṃ karotu sa gaṇeśaḥ || 85||
brahmātmamastakatvāt kaṇṭhādho māyikasvarūpatvāt |
vakraṃ dehavilakṣaṇamasya tu tuṇḍaṃ sa vakratuṇḍo'taḥ || 86||
māyāvācaka ekaḥ dantaḥ sattātmavācakaśca tayoḥ |
yogo gaṇeśa ityata ukto'sāvekadantāmnāpi || 87||
brahmātmanāṃ patitvānmāyāgaurīmaheśvarādīnāma |
annaprāṇaprabhṛtipraṇavāntabrahmaṇāṃ patitvācca || 88||
yaṃ brahmaṇampatiriti prāhurvedādhipatyato'pyevam |
tamahaṃ sarvādhīśaṃ satataṃ pariśīlayāmi vighneśam || 89||
brahmādistambāntaprāṇigaṇānāmadhīśvaro yataḥ |
saguṇabrahmagaṇānāmapi tasmāt tvaṃ gaṇeśa ityuktaḥ || 90||
yannāmarūpabhogān māyāgūḍho'ntareva muṣṇāti |
tanmūṣakaḥ svavāho yasya sa gaṇapo viharatu mama manasi || 91||
mūlaprakṛtiḥ patnī jahāti caināṃ tu bhuktabhogāṃ yaḥ |
patnīhīno'bhihitastato gajāsyo'niśaṃ sa māṃ pātu || 92||
brahmaṇi vede caratītyarthamabhipretya vedagamyatvāt |
taṃ brahmacāriśabdaṃ kuñjaravadane prayuñjate kavayaḥ || 93||
brahmātmamastakatvāttasya mahāvākyagaṇapateśva vibhoḥ |
tena ca sahasañcārādāhurvā brahmacārīti || 94||
ātmārāmatvādapi carati brahmaṇyabāhyavṛttiriti |
yamihāmananti munayaḥ pāyātsa brahmacāridevo gaṇapo mām || 95||
san dvāpare parāśaraputraḥ sindūradānavaṃ nyavadhīt |
yadbrahmacaryavartī gadito'to brahmacāriśabdena || 96||
vimalakamaṇḍalutaṭinītīramayūreśanagaravarye yaḥ |
bhūsvānande sucirādāvirbhūto'dbhutāni kṛtyāni || 97||
lokānukūlabhūtān sindhuvadhādīṃśca bahuvidhān vyadadhāt |
nikhilānugrahanirataḥ satataṃ dvaimāturaḥ sa māṃ pāyāt || 98||
yatkopapāvakārciṣyasurau caṇḍapracaṇḍanāmānau |
prāptau pataṅgabhāvaṃ pālayatu sa māṃ sadaiva vighneśaḥ || 99||
yaścāṣṭagandhanirmitacandanagaṇapo purā bhṛgoḥ sutayā |
ramayā prapūjitaḥ san vivāhasamaye purāṇapuruṣasya || 100||
durgandhāsuramavadhīnmadhukaiṭabhamedasaḥ samudbhūtam |
yo'pi ca gavyagaṇapatirmahito golokarādhayā pūrvam || 101||
gavyaiḥ payodadhighṛtairjaghāna pāpāsuraṃ durātmānam |
varivasyāmyanavarataṃ taṃ vighneśaṃ dayāpayorāśim || 102||
yaṃ hāridragaṇapatiṃ himavadduhitā maheśvaraścāpi |
svīye vivāhasamaye hyapūjayetāṃ ca dampatī prāñcau || 103||
yaśca haridrābimbādāvirbhūto gaṇeśvaraḥ sadyaḥ |
avadhīdamaṅgalāsuramanyamaparamāranāmakaṃ hyasuram || 104||
gaurīharavacanādyaṃ ca śubhādau prapūjayantyadya |
mama hāridragaṇapatirharatu sa duritaṃ samastamapi sadyaḥ || 105||
kṛtayugasamaye yo'sau kāśyapaputro mahotkaṭo bhūtvā |
devāntakaṃ narāntakamapi nāmnā tāvahanmahāduṣṭau || 106||
prāpayadānandabhuvaṃ saśarīraṃ kāśirājamapi bhaktam |
akaroccādbhutalīlāmahotkaṭaṃ tvāmahaṃ sadārhāmi || 107||
yo'pi vareṇyāya purā gaṇeśagītāṃ hitāmupadideśa |
sa vareṇyarājaputro gajānano me tanotu kuśalatatim || 108||
dhūmravināyakamūrtiṃ grahīṣyasi tvaṃ kaleryugasyānte |
sarvāṃśca nigrahiṣyasi viplutamatakṛtyanāstikaprāyān || 109||
śiśnodaramātraparā jātivibhāgādivarjitāḥ sarve |
dhūmravināyaka (dhūmadhvajena) bhavatā samūlaghātaṃ hatā bhaviṣyanti || 110||
|| iti śrīvidvadratnopanāmakena vaiyākaraṇaśiromaṇinā vaidikaṣaḍdarśanīsāravedinā
nīlakaṇṭhaśāstriṇā viracitaṃ gaṇeśapūrvaśatakaṃ samāptam |
This is condensed version of gaNeshatattvasudhAlaharI
Proofread by Gopalakrisnan
% Text title : Ganesha Purvashatakam 06 31
% File name : gaNeshapUrvashatakam.itx
% itxtitle : gaNeshapUrvashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshapUrvashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshottarashatakam, From stotrArNavaH 06-31. Shorter version of gaNeshatattvasudhAlaharI
% Indexextra : (Scan, gaNeshottarashatakam)
% Latest update : September 10, 2021
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
శ్రీగణేశపూర్వశతకమ్
సత్యజ్ఞానానన్దం గజవదనం నౌమి సిద్ధిబుద్ధీశమ్ ।
కుర్వే గణేశశతకం కుజుకేనాహం స్వబుద్ధిశుద్ధయర్థమ్ ॥ ౧॥
దిఙ్మాత్రేణ గణపతేర్గుణగణవిభవాదివర్ణనారూపమ్ ।
ప్రాయో వైనాయకకృతివిదితమతపక్రియావివృతిపూర్వమ్ ॥ ౨॥
యద్యపి మన్దమతిరహం గుణలవమవగన్తుమతితరాం నాలమ్ ।
ప్రయతే తథాపి వదితుం లమ్బోదర తే దయావలమ్బేన ॥ ౩॥
జగతః సర్గాదాద్యాత్ ప్రాగప్యేకస్త్వమేవ భాసి విభో ।
తస్మాద్గణప భవన్తం నిఖిలనిదానం గదన్తి నిగమాన్తాః ॥ ౪॥
త్వమతో మాయాతీతం సకలజగత్కల్పనాద్యధిష్ఠానమ్ ।
అద్వైతసీమభూతం వాఙ్మానసాగోచరం పరం బ్రహ్మ ॥ ౫॥
సగుణబ్రహ్మాత్మానో గణపతిశివశక్తికేశవార్కా యే ।
తేషాం కారణమాహుః శుద్ధాద్వైతానుగా యమాత్మానమ్ ॥ ౬॥
యః సర్వవేదవేద్యస్తత్త్వమసిపదాద్యతీతరూపో యః ।
యో యోగివృన్దమృగ్యః పరమాత్మానం తమాశ్రయే నిత్యమ్ ॥ ౭॥
యత్పూర్ణయోగలభ్యం భూమాత్మకమామనన్తి గాణపతాః ।
శుద్ధం స్వమహిమసంస్థం బ్రహ్మాస్మిన్ మే మనః సదా స్మరతామ్ ॥ ౮॥
భూమా బ్రహ్మైతత్ తే షష్ఠం గణపం చ పఞ్చమం ప్రాహుః ।
తుర్యం గణేశమస్య హి కార్యాన్ సగుణాత్మనోఽపి తాన్ పఞ్చ ॥ ౯॥
తత్రోపాసనకాణ్డే పరకాష్ఠాభూతమసిపదార్థమయమ్ ।
స్వానన్దం బ్రహ్మైతద్గజవదనమహం భజే జగద్వన్ద్యమ్ ॥ ౧౦॥
గాణపతపుఙ్గవాః కిల పాదమయాన్యస్య పఞ్చమస్యాహుః ।
శైవాద్వైతాదీనాం ముఖ్యబ్రహ్మాణి యాని చత్వారి ॥ ౧౧॥
అవ్యాకృతం తురీయం బ్రహ్మ త్రిగుణాత్మకం గుగణేశాఖ్యమ్ ।
విద్యాత్మకం గణపతే సతతం దూరీకరోతు మమ దురితమ్ ॥ ౧౨॥
యస్య హి నాభిర్బ్రహ్మా వదనం విష్ణుశ్చ లోచనం రుద్రః ।
శక్తిశ్చ వామపార్శ్వం దక్షిణమర్కోఽస్మితామయస్త్వాత్మా ॥ ౧౩॥
జాగ్రత్స్వప్నసుషుప్తబ్రహ్మ త్రిగుణాత్మకం చ యత్ప్రోక్తమ్ ।
వ్యాకృతమావిద్యకమపి తదపి వ్యక్తం చకాస్తు మే చిత్తే ॥ ౧౪॥
బ్రహ్మ స్వానన్దాత్మకవిద్యాఽవిద్యాత్మకప్రభేదేన ।
భూమబ్రహ్మ చతుష్పాత్ ప్రకాశతాం మేఽనిశం హృదాకాశే ॥ ౧౫॥
మాయాసమరసయుక్తం శాన్తిగతం నిష్కలం పరం జ్యోతిః ।
యద్బ్రహ్మ పాదరూపం గాణేశాద్వైతలక్ష్యభూతమసి ॥ ౧౬॥
యో బ్రహ్మపాద ఆద్యః సంయోగాయోగపాదయుగయుక్తః
తౌ పాదావప్యుదితావధ్యారోపాపవాదపరకాష్ఠే ।
సదసత్సహజసమాత్మకచతుర్విధానన్దపాదరూపస్త్వం
రవిశక్తీశహరీణాం సఙ్ఘాతస్త్వం శ్రుతోఽసి గణరాజ ॥ ౧౭॥
బిన్దుః సోఽహమ్బోధః సాఙ్ఖ్యశ్చేతి ప్రసిద్ధభేదయుతః ।
విద్యాపాదోఽపి త్వం యోగిసమాధౌ గృహీతసువిశేషః ॥ ౧౮॥
తుర్యావిద్యాపాదస్త్వమేవ సత్యానృతో జగద్రూపః ।
స విరాట్ హిరణ్యగర్భావీశగుణేశావితి ప్రభేదయుతః ॥ ౧౯॥
బ్రహ్మాంశస్థితిభేదాః సర్వే చైతే స్ఫురన్తు మమ చిత్తే ।
ప్రాయోఽసమ్ప్రజ్ఞాతసమాధిజ్ఞేయా గణేశ కరుణాబ్ధే ॥ ౨౦॥
సిద్ధిర్బుద్ధిశ్చేతి ద్విధా హి వైనాయకీ మహామాయా ।
లోకైకనాయికా సా తదుపాధివశాత్ కిలాసి బహుధా త్వమ్ ॥ ౨౧॥
ఏవం మాయోపాధికపరాత్మరూపం హి పఞ్చధా భిన్నమ్ ।
తదదస్థాగుణభేదాన్నీరూపస్యాపి తే సమామ్నాతమ్ ॥ ౨౨॥
సద్బ్రహ్మ కిల ప్రథమం సకలజగద్వీజభూతరూపం త్వమ్ ।
మూర్తిం వినాయక ఇతి స్వేచ్ఛావశతో గణేశ గృహ్ణాసి ॥ ౨౩॥
బీజస్య భూమిరూపా కేవలమాయాద్వితీయమూర్తిస్తే ।
వర్తయతి కృత్యమఖిలం భువనేశీ సా శివో పరాశక్తిః ॥ ౨౪॥
మాయేశం తు తృతీయం రవిమణ్డలగం హిరణ్మయం పురుషమ్ ।
త్వామామనన్తి వేదా హ్యనవరతం కాలచక్రనేతారమ్ ॥ ౨౫॥
ఉపహితతురీయమూర్తిర్మాయాయుక్తః పరః శివో గిరీశః ।
కల్పాన్తకాలరూపీ త్వమేవ సర్వం చ సఞ్జరీహర్షి ॥ ౨౬॥
మాయామయో హి విష్ణుర్మాయోపాధేశ్చ పఞ్చమీ మూర్తిః ।
సోఽపి త్వమేవ నిఖిలం లోకం పాలయసి లీలయా సతతమ్ ॥ ౨౭॥
ఏవం మాయావశతో రవిశివశక్త్యాదినామపఞ్చకభాక్ ।
దిశతు మదీప్సితమఖిలం శుద్ధబ్రహ్మాత్మకం భవద్రూపమ్ ॥ ౨౮॥
మాయాబద్ధః షష్ఠః ప్రథమశరీరీ హిరణ్యగర్భస్త్వమ్ ।
తత్తత్కర్మానుగుణం కరోషి సర్గం సమస్తలోకస్య ॥ ౨౯॥
ప్రాక్ పద్మాసనరూపగ్రహణాద్భవతోఽప్యుపాధితో భిన్నాః ।
ఏతాశ్చ సగుణమూర్తీరాలమ్బ్య మతాని పఞ్చ జాతాని ॥ ౩౦॥
ఏతే హి పఞ్చ దేవాః స్వస్వాధారేషు సన్తి సర్వత్ర ।
వర్ణస్వధర్మవిభవాత్తేజోరూపాస్త్రివర్ణ దేహేషు ॥ ౩౧॥
గాయత్రీగ్రహణేన హి తత్తతేజో విశేషతో భాతి ।
తత్తజ్జాతిగుణా అప్యుత్కృష్టత్వేన తేన జాయన్తే ॥ ౩౨॥
మూలాధారే గణపో మణిపూరే హరిరనాహతే శమ్భుః ।
రాజతి రవిర్విశుద్ధౌ బ్రహ్మసురన్ధ్ర శివా పరా శక్తిః ॥ ౩౩॥
అపి చ షడాధారేషు ప్రాప్యైవం ధ్యానయోగచిత్తలయౌ ।
ముక్తా భవన్తి తస్మాత్ పఞ్చాయతనార్చనేఽతిహర్షస్తే ॥ ౩౪॥
గణపతిపఞ్చాయతనం పఞ్చాయతనం రవీశ్వరాదీనామ్ ।
యద్వా తద్వా కృతమపి పూజావిషయేఽతిమాత్రతృప్తిస్తే ॥ ౩౫॥
ప్రాసాదశుద్ధపూజా అత ఏవ విహాయ పఞ్చదేవానామ్ ।
పఞ్చాయతనసపర్యాం సగుణసమష్టయర్చనాం వదన్తి బుధాః ॥ ౩౬॥
హర్యాదిగణేశాన్తాః పఞ్చైతా బ్రహ్మమూర్తయో మునిభిః ।
అత ఏవ ప్రణవస్య చ గాయత్ర్యాశ్చాపి దేవతాః ప్రోక్తాః ॥ ౩౭॥
వ్యాచక్షతే హి ఋషయో గాయత్ర్యాః పఞ్చదేవతాపరామ్ ।
ప్రణవస్యాపి తథైవ ప్రపఞ్చయన్తి స్మ పఞ్చధాప్యర్థాన్ ॥ ౩౮॥
అత ఏషాం పఞ్చానాం బ్రహ్మత్వనిరూపణే నిష్ణాతాః ।
ఉత్తరమీమాంసాః షట్ శుద్ధాద్వైతేన తేనిరే మునయః ॥ ౩౧॥
ప్రతిపాదయన్తి చైతే యద్యప్యాపాతతో విభిన్నాన్ వై ।
సర్వేషాం హి ఋషీణాం ప్రాయస్త్వయ్యేవ పరమతాత్పర్యమ్ ॥ ౪౦॥
ఏతే పఞ్చ మతస్థా భవతః సర్వేషు పూర్వపూజ్యత్వమ్ ।
విగ్నాధిపత్యమఙ్గీకుర్వన్తి యతో గణాధిపత్యం చ ॥ ౪౧॥
భూగతబీజాది యథా పాదపరూపేణ జాయతే జగతి ।
బ్రహ్మైవ బీజభూతం ప్రకృతిః పృథివీ తయా హి సంయోగాత్ ॥ ౪౨॥
కారణసూక్ష్మస్థూలప్రపఞ్చరూపేణ జాయతే క్రమశః ।
మూలం గణపతిరూపం ప్రపశ్చరూపస్య పాదపస్యైవమ్ ॥ ౪౩॥
బుద్ధిః సిద్ధిశ్చ ఫలే మూలం గణపోఽస్య విశ్వరూపతరోః ।
శాఖాః కేశాః కన్దం త్వర్కోఽఖిలమూలముచ్యసేఽతస్త్వమ్ ॥ ౪౪॥
సూలే జలసేకాత్ కిల తరుపత్రఫలాదయోఽపి వర్ధన్తే ।
తవ పూజయా గణపతే రవిశివశక్త్యాదయోఽపి తృప్యన్తి ॥ ౪౫॥
ఏవం సగుణబ్రహ్మవ్యపదేశవతాం చ పఞ్చ దేవానామ్ ।
పూర్ణకలాంశాంశాంశావతారరూపాశ్చ మూర్తయోఽనన్తాః ॥ ౪౬॥
భవతః కతిపయమూర్తీరావిర్భావావతారతారముఖాః ।
వైనాయకమతవిదితప్రక్రియయైవ బ్రవీమి హేరమ్బ ॥ ౪౭॥
సత్యం జ్ఞానమనన్తం జ్యోతీరూపం చ నిర్గుణం బ్రహ్మ ।
ఏతన్నిర్వ్యాపారం గజపదవాచ్యం లయాదిహేతుత్వాత్ ॥ ౪౮॥
యోగీన్ద్రా గచ్ఛన్తి హి సమాధినాత్రేతి గః స్మృతో మునిభిః ।
ప్రణవాత్మకజగదస్మాజ్జాయత ఇతి జః స్మృతిప్రతీతార్థః ॥ ౪౯॥
గశ్వాసౌ జశ్చేతి వ్యుత్పాదయతి స్మృతిర్హి గజశబ్దమ్ ।
ఏష ప్రతిపదాయతి ప్రభవాప్యయకారణం పరం బ్రహ్మ ॥ ౫౦॥
మూలప్రకృతిస్త్రిగుణా శుక్తౌ రజతం యథా తతో జాతా ।
తద్గతచిత్ప్రతిబిమ్బం సగుణబ్రహ్మేతి కీర్తితం మునిభిః ॥ ౫౧॥
ఓఙ్కారబ్రహ్మేతి చ నర ఇతి నామ్నీ ప్రకీర్తితే తస్య ।
సకలజ్యోతీరూపం సగుణస్యోక్తం హి తత్త్వవిద్వద్భిః ॥ ౫౨॥
మూలావిద్యాగతనరమద్వైతబ్రహ్మరూపమపి బిభ్రత్ ।
నిర్గుణసగుణజ్యోతీరూముభయథా తృతీయమప్యుక్తమ్ ॥ ౫౩॥
అద్వైత ఇతి సదాత్మేత్యామ్నాయన్తే తథా మహావాక్యాః ।
ఇత్యుక్తాని క్రమతో నామాన్యేషాం స్మృతీతిహాసాదౌ ॥ ౫౪॥
నరవాచ్యసకలరూపో గజవాచ్యో నిష్కలస్వరూపస్త్వమ్ ।
విగ్నేశ సకలనిష్కలరూపమహావాక్యమూర్తిధారీ త్వమ్ ॥ ౫౫॥
ఓం తత్సదితి హి భేదాద్బ్రహ్మ ప్రోక్తం త్రిధా సుధీభిరపి ।
ప్రథితం మూర్తమర్మ్తం మూర్తామూర్తం త్రిధా తదేవమపి ॥ ౫౬॥
నామాన్తరాణి సర్వాణ్యేతాన్యుదితాని వేదశీర్షేషు ।
కమలావల్లభ భవతః పూర్వోక్తత్రివిధరూపధారయితుః ॥ ౫౭॥
అపి చాన్యాని గణపతే నామాని సహస్రశః ప్రసిద్ధాని ।
కర్మజ్ఞానోపాసనకాణ్డేషు పృథగ్వినాయకాదీని ॥ ౫౮॥
నిర్గుణరూపధ్యానం న సాధకాలా ప్రసిధ్యతి క్షిప్రమ్ ।
తదనుగ్రహాయ ధరసే (ధత్సే)ధీపరిపాకానురూపరూపాణి ॥ ౫౯॥
మన్దాధికారిణామపి యథా రుచిః స్యాత్తదానుగుణ్యేన ।
విగ్రహవరా గృహీతాః సర్వే తే మాం సదానుగృహ్ణన్తు ॥ ౬౦॥
కైలాసే వైకుణ్ఠే హిరణ్మయపురే చ యా మణిద్వీపే ।
పూజ్యన్తేఽనయస్మిన్ వా సర్వా మూర్తీశ్చ తాస్తవోపాసే ॥ ౬౧॥
అష్టోత్తరం శతం వా సహస్రమత్యష్ట మధికా శ్చ మూర్తయో వా తే ।
ముఖ్యత్వేన ఖ్యాతాః ఖేలన్త్వఖిలాః సదా మమ స్వాన్తే ॥ ౬౨॥
కాశ్చన పత్నీహీనా బహుశక్తియుతాశ్చ మూర్తయః కాశ్విత్ ।
పాన్త్వేకదన్త భవతోఽప్యేకత్యష్టాదిశక్తయః సర్వాః ॥ ౬౩॥
బహుఫలపుష్పమహీ రుహనికరారామం నిఘాటితకవాటమ్ ।
ఆరామేశసమీపే నిష్ఠన్ కృత్వాహ్యారామేశితృసవిధే యథోపవనపాలః (?) ॥ ౬౪॥
నోద్ధాటయతి కవాటం స్వామ్యాదేశం వినా ప్రవేశాయ ।
తద్వన్నోద్ఘాటయతి స్వాధిష్ఠానాది నిజకవాటాని ॥ ౬౫॥
సర్వశరీరిశరీరే మూలాధారస్థితా హి కుణ్డలినీ ।
(మూలాధారస్థకుణ్డలినీశక్తిః)
ఆవృత్య షడాధారాన్ మృద్భాణ్డమివాస్తి మూలవహ్నేర్యా ॥ ౬౬॥
యద్వచ్ఛమీద్రుమేఽగ్నిస్తద్వన్మూలానలే భవాన గణేశో స్తి ।
తత్రత్యసిద్ధిబుద్ధథాద్ధి యుతభవదాజ్ఞాం గణపాజ్ఞాం వినా కదాచిదపి ॥ ౬౭॥
యది తవ పూజా క్రియతే వినాయకోద్ఘాటితాః షడాధారాః ।
అత ఏవ పూర్వపూజ్యః సర్వా కర్మా స్మ్భేత్వమేవ దేవాద్యైః ॥ ౬౮॥
శుక్లామ్బరేతిమన్త్రం ప్రోచ్చార్య చతుర్ముఖాదయోఽపి త్వామ్ ।
శ్వేతవినాయకమూర్తిం ధ్యాత్వా కుర్వన్తి కుట్టనం ముష్టయా ॥ ౬౯॥
సర్వశరీరిశిరస్థా మూర్ధని కరకుట్టనాత్ సుధా గలితా ।
పతతి సుషుమ్నానాడిద్వారా మూలాదుపర్యుపోద్గతయా ॥ ౭౦॥
సిద్ధథా బుద్ధథా చ యుతే మూలాధారస్థగణపతౌ భవతి ।
తేన ప్రసీదతి భవాన్ కరోతి కర్మార్హమన్తరాత్మానమ్ ॥ ౭౧॥
తాదృశకుట్టనతుష్టం శ్వేతవినాయకమనారతం కలయే ।
పీయూషమథనసమయే పురుహూతముఖైశ్చ పూజితో యోఽభూత్ ॥ ౭౨॥
భవతస్తేజోరూపం నరామరాద్యైర్న శక్యతే ద్రష్టుమ్ ।
అత ఏవ నయనవిషయం గృహ్ణాసి త్వం గజాననశరీరమ్ ॥ ౭౩॥
నృగజాత్మకరూపత్వాన్నిర్గుణసగుణస్వరూపవత్త్వాచ్చ ।
హేలమ్బోదర స్యాదేకదన్త భవతో గజాననాఖ్యా సువిశ్రుతామ్నాయే ॥ ౭౪॥
గజపదవాచ్యం హి ముఖం ప్రథమం కార్యం హి యస్య దేవస్య ।
అత ఏవ వా స కథితో గజముఖనామేతి మన్వతే మునయః ॥ ౭౫॥
త్యక్త్వా మాయావదనం గజవదనం నిర్గుణం దధౌ దేవః ।
యో లీలయా గణేశస్తం త్వాం శరణం సదా ప్రపత్యేఽహమ్ ॥ ౭౬॥
విగతో నాయక ఇతి సా వినాయకాఖ్యా శ్రుతౌ సమామ్నాతా ।
సర్వేషాం హి విశేషాన్నాయక ఇత్యప్యభిప్రయన్త్యర్థమ్ ॥ ౭౭॥
విగ్నోఽభిహితో జగతాం సామర్థ్యస్య హి విశేషతో హననాత్ ।
ఉక్తః స ఏవ కాలస్తన్నాథత్వాత్ త్వమేవ విగ్నేశః ॥ ౭౮॥
జీవేశ్వరా హి వశగా భవన్తి కాలాత్మనః పరేశస్య ।
తదధీశ్వరస్య భవతో విగ్నేశత్వే కిమస్తి వక్తవ్యమ్ ॥ ౭౯॥
సర్వబ్రహ్మాణ్డానాం స్వతన్త్రదేవో వినాయకో రాజా ।
రాజప్రతినిధిరర్కః సహాయభూతా శివా మహారాజ్ఞీ ॥ ౮౦॥
సృష్టిస్థితిసంహారాన్ కర్తారో ధాతృహరిగిరీశాశ్చ ।
రాజ్యాధికారసచివాః సన్తి భవానీ దివాకరాద్యాశ్చ ॥ ౮౧॥
యద్రాజ్యరక్షణాయైతత్సేనాపతితాం గుహో మహాసేనః ।
తజ్జ్యేష్టరాజనామా గజాననోఽభూదితీరితం మునిభిః ॥ ౮౨॥
యస్య జ్యేష్ఠాభావాజ్యేష్ఠత్వాదపి చ రాజభావవతామ్ ।
తజ్జ్యేష్ఠరాజనామ ప్రోక్తం స సదా విరాజతాం చిత్తే ॥ ౮౩॥
యస్యోదరమవలమ్బశ్వరాచరాణాం హి సర్వజన్తూనామ్ ।
మాతాపితరావపి ప్రలయే స్థిత్యాదావపి జన్మాదావపి
యః సదైవ లమ్బోదరం తమవలమ్బే ॥ ౮౪॥
శూర్పస్తుషమివ కలుషం నిరస్యతీత్యస్య ।
(శూర్పకర్ణాఖ్యా కర్ణాదస్యతి హి శూర్పకర్ణోఽతః)
విగలితరజస్తమోమలమతిపూతం మాం కరోతు స గణేశః ॥ ౮౫॥
బ్రహ్మాత్మమస్తకత్వాత్ కణ్ఠాధో మాయికస్వరూపత్వాత్ ।
వక్రం దేహవిలక్షణమస్య తు తుణ్డం స వక్రతుణ్డోఽతః ॥ ౮౬॥
మాయావాచక ఏకః దన్తః సత్తాత్మవాచకశ్చ తయోః ।
యోగో గణేశ ఇత్యత ఉక్తోఽసావేకదన్తామ్నాపి ॥ ౮౭॥
బ్రహ్మాత్మనాం పతిత్వాన్మాయాగౌరీమహేశ్వరాదీనామ ।
అన్నప్రాణప్రభృతిప్రణవాన్తబ్రహ్మణాం పతిత్వాచ్చ ॥ ౮౮॥
యం బ్రహ్మణమ్పతిరితి ప్రాహుర్వేదాధిపత్యతోఽప్యేవమ్ ।
తమహం సర్వాధీశం సతతం పరిశీలయామి విఘ్నేశమ్ ॥ ౮౯॥
బ్రహ్మాదిస్తమ్బాన్తప్రాణిగణానామధీశ్వరో యతః ।
సగుణబ్రహ్మగణానామపి తస్మాత్ త్వం గణేశ ఇత్యుక్తః ॥ ౯౦॥
యన్నామరూపభోగాన్ మాయాగూఢోఽన్తరేవ ముష్ణాతి ।
తన్మూషకః స్వవాహో యస్య స గణపో విహరతు మమ మనసి ॥ ౯౧॥
మూలప్రకృతిః పత్నీ జహాతి చైనాం తు భుక్తభోగాం యః ।
పత్నీహీనోఽభిహితస్తతో గజాస్యోఽనిశం స మాం పాతు ॥ ౯౨॥
బ్రహ్మణి వేదే చరతీత్యర్థమభిప్రేత్య వేదగమ్యత్వాత్ ।
తం బ్రహ్మచారిశబ్దం కుఞ్జరవదనే ప్రయుఞ్జతే కవయః ॥ ౯౩॥
బ్రహ్మాత్మమస్తకత్వాత్తస్య మహావాక్యగణపతేశ్వ విభోః ।
తేన చ సహసఞ్చారాదాహుర్వా బ్రహ్మచారీతి ॥ ౯౪॥
ఆత్మారామత్వాదపి చరతి బ్రహ్మణ్యబాహ్యవృత్తిరితి ।
యమిహామనన్తి మునయః పాయాత్స బ్రహ్మచారిదేవో గణపో మామ్ ॥ ౯౫॥
సన్ ద్వాపరే పరాశరపుత్రః సిన్దూరదానవం న్యవధీత్ ।
యద్బ్రహ్మచర్యవర్తీ గదితోఽతో బ్రహ్మచారిశబ్దేన ॥ ౯౬॥
విమలకమణ్డలుతటినీతీరమయూరేశనగరవర్యే యః ।
భూస్వానన్దే సుచిరాదావిర్భూతోఽద్భుతాని కృత్యాని ॥ ౯౭॥
లోకానుకూలభూతాన్ సిన్ధువధాదీంశ్చ బహువిధాన్ వ్యదధాత్ ।
నిఖిలానుగ్రహనిరతః సతతం ద్వైమాతురః స మాం పాయాత్ ॥ ౯౮॥
యత్కోపపావకార్చిష్యసురౌ చణ్డప్రచణ్డనామానౌ ।
ప్రాప్తౌ పతఙ్గభావం పాలయతు స మాం సదైవ విఘ్నేశః ॥ ౯౯॥
యశ్చాష్టగన్ధనిర్మితచన్దనగణపో పురా భృగోః సుతయా ।
రమయా ప్రపూజితః సన్ వివాహసమయే పురాణపురుషస్య ॥ ౧౦౦॥
దుర్గన్ధాసురమవధీన్మధుకైటభమేదసః సముద్భూతమ్ ।
యోఽపి చ గవ్యగణపతిర్మహితో గోలోకరాధయా పూర్వమ్ ॥ ౧౦౧॥
గవ్యైః పయోదధిఘృతైర్జఘాన పాపాసురం దురాత్మానమ్ ।
వరివస్యామ్యనవరతం తం విఘ్నేశం దయాపయోరాశిమ్ ॥ ౧౦౨॥
యం హారిద్రగణపతిం హిమవద్దుహితా మహేశ్వరశ్చాపి ।
స్వీయే వివాహసమయే హ్యపూజయేతాం చ దమ్పతీ ప్రాఞ్చౌ ॥ ౧౦౩॥
యశ్చ హరిద్రాబిమ్బాదావిర్భూతో గణేశ్వరః సద్యః ।
అవధీదమఙ్గలాసురమన్యమపరమారనామకం హ్యసురమ్ ॥ ౧౦౪॥
గౌరీహరవచనాద్యం చ శుభాదౌ ప్రపూజయన్త్యద్య ।
మమ హారిద్రగణపతిర్హరతు స దురితం సమస్తమపి సద్యః ॥ ౧౦౫॥
కృతయుగసమయే యోఽసౌ కాశ్యపపుత్రో మహోత్కటో భూత్వా ।
దేవాన్తకం నరాన్తకమపి నామ్నా తావహన్మహాదుష్టౌ ॥ ౧౦౬॥
ప్రాపయదానన్దభువం సశరీరం కాశిరాజమపి భక్తమ్ ।
అకరోచ్చాద్భుతలీలామహోత్కటం త్వామహం సదార్హామి ॥ ౧౦౭॥
యోఽపి వరేణ్యాయ పురా గణేశగీతాం హితాముపదిదేశ ।
స వరేణ్యరాజపుత్రో గజాననో మే తనోతు కుశలతతిమ్ ॥ ౧౦౮॥
ధూమ్రవినాయకమూర్తిం గ్రహీష్యసి త్వం కలేర్యుగస్యాన్తే ।
సర్వాంశ్చ నిగ్రహిష్యసి విప్లుతమతకృత్యనాస్తికప్రాయాన్ ॥ ౧౦౯॥
శిశ్నోదరమాత్రపరా జాతివిభాగాదివర్జితాః సర్వే ।
ధూమ్రవినాయక (ధూమధ్వజేన) భవతా సమూలఘాతం హతా భవిష్యన్తి ॥ ౧౧౦॥
॥ ఇతి శ్రీవిద్వద్రత్నోపనామకేన వైయాకరణశిరోమణినా వైదికషడ్దర్శనీసారవేదినా
నీలకణ్ఠశాస్త్రిణా విరచితం గణేశపూర్వశతకం సమాప్తమ్ ।
This is condensed version of gaNeshatattvasudhAlaharI
Proofread by Gopalakrisnan
% Text title : Ganesha Purvashatakam 06 31
% File name : gaNeshapUrvashatakam.itx
% itxtitle : gaNeshapUrvashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshapUrvashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshottarashatakam, From stotrArNavaH 06-31. Shorter version of gaNeshatattvasudhAlaharI
% Indexextra : (Scan, gaNeshottarashatakam)
% Latest update : September 10, 2021
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org