श्रीगणेशोत्तरशतकम्
एवं सृष्टयवनादीन् ब्रह्माण्डानामनेककोटीनाम् ।
कुर्वन् क्रीडावशतो विनायकत्वं विराजसे मुदितः ॥ १॥
भौतिकपरमाणूनां पुजञ्जैर्जातं यथा नरशरीरम् ।
ब्रह्माण्डात्मविराजो वपुर्हि जातं तथैव बहुगोलैः ॥ २॥
चन्द्राद्या उपगोलास्तेषु हि विश्वम्भरादयो गोलाः ।
सूर्यादिमहागोलाः सुमणिद्वीपादयः परमगोलाः ॥ ३॥
सर्वावयवसुपूर्णो मातुर्गर्भ यथा शिशुर्भवति ।
एवं बहुविधगोलैः पूर्णावयवं विराटूस्वरूपं तत् ॥ ४॥
तस्य विराजो देहे कटयूर्ध्वे चैकविंशतिस्वर्गाः ।
षोढा विभागवन्तस्तेषां मध्ये ह्य त्व यं परमगोलः ॥ ५॥
द्वीपश्चिन्तामणिरिति मूलाधारो विराट्शरीरस्य ।
ब्रह्माण्डमध्यदेशे तिष्ठत्वचलः सदा निरालम्बः ॥ ६॥
परमात्मकल्पितेषु स्वपथेषु गोला यथा भ्रमन्त्यन्ये ।
न कदापि तथा भ्राम्यति चिन्तामणिरित्ययं परमगोलः ॥ ७॥
तत्तद्ब्रह्माण्डात्मकविराट्समूहो महाविराड्ब्रह्म ।
तस्य हि सवावयवा निखिलैब्रह्माण्डकोटिभिः पूर्णः ॥ ८॥
अखिलाण्डकोटिसमुदयजगदात्माभून्महाविराट्पुरुषः ।
ब्रह्माण्डकोटिमध्ये मूलप्रकृतिस्वरूपको द्वीपः ॥ ९॥
नाम्ना चिन्तामणिरिति मूलाधारे महाविराड् रूपे ।
सहसिद्धिबुद्धिरस्मिन् सगुणमहावाक्यगणपतिर्भवसि ॥ १०॥
मूलाविद्याप्रतिगतदेवरत्वं हि प्लुतप्रणवरूपी ।
विरिश्चिहरिहररविभिस्तेषां शक्त्यात्मजादिभिर्विनुतः ॥ ११॥
एकार्णपत्तनाभिधमूलस्थानं विभाति तन्मध्ये ।
तत्रापि कल्पवृक्षोद्यानगतोङ्कारमण्टपो भाति ॥ १२॥
सिंहासने हि चिन्तामणिमयसोपानसंयुते तस्मिन् ।
एकाक्षरगणपतिमहमनिशं ध्यायामि सिद्धिबुद्धियुतम् ॥ १३॥
तत्र मयूरेशादिममूर्तिविशेषान् समन्ततोऽभिगतान् ।
तच्छक्तिमूर्तिसहितान् सहपरिवारान् समाश्रये सततम् ॥ १४॥
तत्र प्रथमावरणे युवराडव्यक्तगणपतिं वन्दे ।
गणकं हंसगणपतिं भजेऽहमन्यांस्तदीयपरिवारान् ॥ १५॥
अद्भुतरचनावत्यस्तत्र चतुष्षष्टिविधयः सन्ति ।
तत्तत्स्वथलाधिकारानुरूपगणपाश्च कोटिशः सन्ति ॥ १६॥
नात्रत्यवैभवादीन् शेषोऽपीष्टे यथावदाख्यातुम् ।
अत्यल्पबुद्धिविभवः प्रभुर्भवेयं कथं नु वर्णयितुम् ॥ १७॥
एकापत्तनस्य तु दक्षिणपार्श्वे पुरं वरं भवति ।
नाम्ना षडर्णपत्तनमाज्ञास्थानं स्थलं हि कृत्यानां कार्याणाम् ॥ १८॥
अत्र हि षडर्णरूपी निजशक्तिभ्यां चकास्ति विघ्नेशः ।
तं त्वां नमामि सन्ततं प्रायः प्रागुदितवैभवादियुतम् ॥ १९॥
निचितचतुर्दशभुवनं सप्तमहाद्वीपवसुमतीमध्यम ।
लोकालोकवलयितं ब्रह्माण्डमिदं तथान्यदपि सर्वम् ॥ २०॥
गगने खद्योत इव ह्यण्डः प्रद्योततेऽयमेकैकः ।
अण्वणुमात्रावयवः परिणतजगदाकृतेः किल महाप्रकृते ॥ २१॥
निखिलब्रह्माण्डोपरिभागे स्वानन्दभवनलोकरते ।
अन्वर्थनामधेयो मुद्गलकपिलादियोगिभजनीयः ॥ २२॥
स द्वादशान्तदेशो महाविराजोऽखिलाण्डरूपस्य ।
ऐक्षवसागरमध्ये प्रदीप्यते कोटियोजनं विततः ॥ २३॥
कोटिदिवाकरदीप्तिर्यत्र च पुरुषार्थसम्परिसमाप्तिः ।
यत्र न पुनरावृत्तिर्यश्च महावाक्यगणपतेर्वसतिः ॥ २४॥
तत्र हि मूलस्थानं शतयोजनविस्तृतायतोत्तुङ्गम् ।
ओङ्कारवलयरूपामृतसागरमध्यगं विभाति तव ॥ २५॥
तत्र सहस्रस्तम्भे चिन्तामणिमण्टपे विचित्रतमे ।
एकाक्षरपीठे तव तेजोमयविग्रहं हृदा कलये ॥ २६॥
भवदीयसत्यभागे स्मितवदनां ब्रह्मभावदां दयिताम् ।
ध्यायामि सिद्धिदेवीं पीताम्बरधारिणीं च जगदम्बाम् ॥ २७॥
कल्हारकुसुममालां कस्तूरीतिलकविज्वलत्फालाम् ।
करुणापूर्णकटाक्षां कनकसवर्णा सदृक्षां ञ्च मोक्षलक्ष्मीं ताम् ॥ २८॥
शशिशेखरां त्रिनयनां सुवर्णसरसीरुहे सुखासीनाम् ।
भासुरसर्वविभूषणवृन्दां सर्वाङ्गसुन्दरीं वन्दे ॥ २९॥
ध्यायामि बुद्धिदेवीं ब्रह्मज्ञानप्रदयिनीं दयिताम् ।
भवदीयदक्षभागे घनसारतुषारसन्निभशरीराम् ॥ ३०॥
मन्दस्मितमुखपद्मां मन्दारमुखप्रसूनकृतमालाम् ।
वन्दारुमधुज भजन लोलां वृन्दारकमुख्यमृग्यपदमूलाम् ॥ ३१॥
कस्तूरिकाविशेषकविलसितनिटिलां गणेशकृतलीलाम् ।
सिततामरसासीनां त्रिलोचनां चन्द्रशेखरां रुचिराम् ॥ ३२॥
भवतो भवनं परितः प्रथमावरणे विचित्ररत्नानि ।
क्रीडागानादीनि स्थानानि मनोहराणि सुबहूनि ॥ ३३॥
तत्तत्स्थानानुगुणं गृहीतकमनीयविग्रहविशेषः ।
सिद्धथा बुद्धया च युतो विहरसि मुदितस्तदर्हपरिवारः ॥ ३४॥
कन्दर्पकोटिपरिभूसौन्दर्यझरीतरङ्गिताकाराः ।
क्रीडागानादिगता मङ्गलमूर्तीश्च मन्महे मनसि ॥ ३५॥
भवतः कटाक्षवीक्षां प्रतीक्षमाणाश्च किङ्करप्रवराः ।
आज्ञाकरणप्रवणा अभ्यर्णे सन्ति कोटिकोटिगणाः ॥ ३६॥
भवतो हि वामपूर्वे किञ्चिन्यूने महेन्द्रमणिपीठे ।
आसीनं युवराज सिद्धिसुताऽव्यक्तगणपतिं वन्दे ॥ ३७॥
दूर्वादलवच्च्यामलकोमलमूर्तिं निशाकरापीडम् ।
कन्दर्पसुन्दराङ्गं कौस्तुभचिन्तामणिप्रभादीप्रम् ॥ ३८॥
निजलोकवासिसर्वाभीप्सितविज्ञापनादिवानाम् ।
विज्ञापयति विशेषान् स किल महावाक्यगणपतेः सविधेभवते ॥ ३९॥
भवदीयसन्निधाने तस्मादन्यो न कोऽपि गणवर्गः ।
गन्तुं स्थातुं वापि प्रभवति किमुत प्रभाषणादिविधौ ॥ ४०॥
अपि चाव्यक्तनिवेदितनिजभक्तजनानुकूलकृत्यानि ।
आकर्णनमात्रादपि सद्यः कर्तुं कृतादरो हि भवान् ॥ ४१॥
भवतो हि याम्यपूर्वे स्फाटिकपीठे गुरुं सुखासीनम् ।
अतिसुन्दरं युवानं बुद्धेः सूनुं वि सु लेखनीपाणिम् ॥ ४२॥
चूडाशशिप्रकाशं शुद्धस्फटिकप्रभाप्रतीकाशम् ।
गणकं गणकाधीशं हंसगणेशं नमाम्यमात्ये नमामि सचिवे शम् ॥ ४३॥
लोकं देशं ग्राम ब्रह्माण्डस्थितपरात्मभक्तानाम् ।
पूर्वाचरितान् गणको धर्मादींश्च स्वपुस्तके लिखति ॥ ४४॥
गणकविलेखनमात्रात् सकलान्निजभक्तपुङ्गवाकलितान् ।
प्रणिदापयस्यनल्पान् कामकलापान् सुरादिदुरवापान् ॥ ४५॥
ब्रह्म महत्तत्त्वगतं गणकं प्राहुः समस्तयोगीन्द्राः ।
यो निबबन्ध ग्रन्थान् गणपतिविषयान् महेतिहासादीन् ॥ ४६॥
ध्यायन्ति हंसरूपं परमगुरुं यं सहस्रदलपद्मे ।
आसीनं गणकेशं हृदये किल योगिपुङ्गवाः सततम् ॥ ४७॥
निखिलब्रह्माण्डस्थितभक्त जनानां हिताहितं वक्तुम् ।
वरदादिकोटिगणपा विकटस्यान्ते वहन्ति सचिवत्वम् ॥ ४८॥
अखिलाण्डकोटिनिवसद्भक्तानानन्दभवनमानेतुम् ।
आधिकारपदनियुक्ता आमोदमुखा भवन्ति कोदिगणाः ॥ ४९॥
त्वद्भक्तिमात्रसुलभानीदृशतत्रत्यसर्वपरिवारान् ।
मनसा नुमो नौन्य नवरतं द्वारीभूतान् भवत्समीपाप्तौ ॥ ५०॥
त्रिनयनचन्द्रापीडा ब्रह्मानन्दाम्बुधौ भृशं मग्नाः ।
आनन्दभवनभुवने गणपतिसारूप्यभागिनोऽनन्ताः ॥ ५१॥
बहुकल्पकोटिकालं भवतः सदुपासनात् प्रमोदन्ते ।
शुण्डादण्डविराजत्तुण्डाविगलन्मदाम्बुयुतगण्डाः ॥ ५२॥
सालोक्यमुक्तिभाजोऽसङ्ख्येयाश्चाखिलाण्डभक्तजनाः ।
एवं सामीप्यपदप्राप्त्या सुखभूमभागिनोऽनन्ताः ॥ ५३॥
स्वर्गादिवासिनामपि दुष्टासुरबाधशापबाधादिः ।
प्रारब्धकर्मभोगः कदाचिदपि मातृगर्भवासादिः ॥ ५४॥
आनन्दभवनवासी नैतादृगुपद्रवं कदाचिदपि ।
अनुभवति किं त्वखण्डं ब्रह्मानन्दं न दुःखसम्भिन्नम् ॥ ५५॥
सङ्कल्पमात्रसुलभानाहारविहारकामभोगादीन् ।
परिहृत्य नित्यतृप्ता नित्यानन्दात्मना महात्मानः ॥ ५६॥
ज्ञानयोगादिनिष्ठा जीवन्मुक्ता गता हि ये तत्र ।
ब्रह्मविचारपरास्ते प्रापुरनन्ता विदेहकैवल्यम् ॥ ५७॥
केशाधिकारयुक्ता योगिजना ये तु पूर्वकल्पेषु ।
ब्रह्माच्युतादयस्ते विद्यन्ते तत्र कोटिशः परितः ॥ ५८॥
अवतारमूर्तयस्ते सन्ति समन्तात् सहस्रशस्तत्र ।
तव तत्र तत्रैव मूर्तिमन्तो ह्याम्नायान्ताः स्तुवन्ति महिमानं तव रूपम् ॥ ५९॥
सर्वावरणसमेतास्तत्तत्वच्छक्तिसिद्धिबुद्धधंशाः ।
तत्तदवसरा काल नुगुणाः सन्ति सहस्स्रं हि मूर्तयस्तत्र ॥ ६०॥
इत्यानवमावरणं विचित्ररूपा विभूतिविभवाद्याः ।
कविवाङ्मनसोऽविषयाः सन्ति स्वानन्दभवनलोके ते ॥ ६१॥
एतेभ्यश्च निजेभ्यो लोकानुग्राहिमूर्तिभेदेभ्यः ।
जीवन्मुक्तादिभ्योऽत्रत्यमहद्भयो नमोऽस्तु सर्वेभ्यः ॥ ६२॥
दूरे भवतः पुरतो सिंहासनस्य मूले मूषकराजो विराजते सुतराम् ।
दस्युरिवान्तर्यामी भुङ्क्ते भोगांश्च सर्वजन्तूनाम् ॥ ६३॥
अव्यक्तगणपतिस्तव सेवार्थं प्राप मूषकाकारम् ।
भवदीयवाहनेष्वपि कुरुते सर्वेष्वनुप्रवेशमयम् ॥ ६४॥
यद्यपि हंसो विलिखति चण्डो वा ननभैरवो दाताः ।
भवदालये गणपते सततं सेवाफलं हि भक्तेभ्यः ॥ ६५॥
पूर्वं तव सेवार्थं प्रवेशकालेऽस्य मूषकस्य तथा स्यान्ते ।
न लभेत चेदनुज्ञां सेवा फलमपि सुदुर्लभं तस्य ॥ ६६॥
सेवानभिज्ञमपि मामनीशमन्यादृशोपचारविधौ ।
चण्डादयोऽनुगृह्णन्त्वेते भवदीयभवनपरिवाराः ॥ ६७॥
तव भक्तकोटिमहिमा वक्तुमशक्योऽत्र मुद्गलः प्रवरः ।
यच्छिष्याः कपिलाद्याः सन्ति चतुष्षष्टिकोटिमित्रसिद्धाः ॥ ६८॥
त्वन्नाममात्रजापा समूलकाषं कषन्ति कलुषाणि ।
विषहरणसिद्धमन्त्रो जपमात्रादिव विषं निरव शेषम् ॥ ६९॥
कुङ्कुमकर्पूरागरुमृगमदगोरोचनदियतगन्धम ।
यद्भक्ता दधते तद्वस्तु गजास्यं सदास्तु मम चित्ते ॥ ७०॥
श्वेतार्कमूलमूर्ति जीवद्गजदन्तमूर्तिमपि भवतः ।
शोणशिलामपि मनसा प्रवालरत्नादिमूर्तिमपि महये ॥ ७१॥
दूर्वार्चनमन्त्रजपा व्रतं चतुर्थ्या यदीयचिह्नानि ।
सिन्दूरधारणाद्यपि स गणाध्यक्षः सदास्तु मम शरणम् ॥ ७२॥
दूर्वारहितसपर्या विफला भवतः कृतापि हेरम्ब ।
निजशक्तिदत्तबीजद्वयरूढा यत् शताङ्कुरा देवी ॥ ७३॥
दुःस्वप्ननाशिनी सा स्वार्चकपापापनोदनैकचतुरा परा ।
भक्तजनविघ्नहन्त्री दूर्वायां ते ततो महाप्रीतिः ॥ ७४॥
यद्यपि दूर्वान्नमयी दुर्गाशप्ता तृणात्मना जाता ।
आराध्य सिद्धिबुद्धी श्वेतहरिद्भेदतो द्विधाभूत् सा ॥ ७५॥
दुर्गार्चने तु निन्द्या श्लाध्यतममेवार्चनेऽन्यदेवानाम् ।
भवतोऽतिश्लाध्यतमा युग्मत एकैकविंशतिभ्यां वा ॥ ७६॥
तुलसी नीला देवी वैष्णवमाया गणेशशप्ता सा ।
भवतोऽत एव निन्द्या अर्हा ग्रहदेवतान्यदेवानाम् ॥ ७७॥
श्वेतार्ककुसुमनिकरैर्मन्दारसुमैस्तथा शमीपत्रैः ।
भक्तैरर्चितमात्राद्यथातितृप्तिस्तथा न ते क्वापि ॥ ७८॥
श्वेतार्कमूलमणिभिर्मन्दारशमीमयैश्च मणिनिचयैः ।
प्रथितां किलाक्षमालां धारयितारः प्रसादपात्रं ते ॥ ७९॥
विजयप्रवालनगरो भौममयूरेशनासिकादीनाम् ।
क्षेत्राणां यात्रायामशक्तमपि मां पुनातु विग्नेशः ॥ ८०॥
न मम ज्ञाने निष्ठा योगे वा मन्त्रकर्मनामादौ ।
त्वत्पादाश्रयणान्मामुद्धर संसारतश्च सिद्धिपते ॥ ८१॥
निर्वाणदीक्षयाहं न संस्कृतो नापि योगदीक्षाद्यैः ।
सामान्यदीक्षयापि च पुनीहि बुद्धीश भावनालेशात् ॥ ८२॥
मामकृतसुकृतसञ्चयमनुपासितमुख्यदेवतामूर्तिम् ।
केवलभक्तिबलान्मां कृतार्थयेथाः स्त्वं कृपापयोराशे ॥ ८३॥
इच्छामात्रादणुमपि मेरुं कुरुषेऽनलं च सलिलमिव ।
मरुमपि जलधिं भवतो मदघनिरासे गणेश को भारः ॥ ८४॥
आकस्मिकयसि कामान दुरवापानपि विचित्रयस्यर्थान् ।
सर्वमकिञ्चित्करमप्यपेक्षसे किन्न्वनुग्रहार्हं माम् ॥ ८५॥
यो देशकालवस्तुभिरपरिच्छिन्नोऽपि हृद्गुहावर्ती ।
प्रेरयति सर्वजन्तूननवरतं तं गणेशमर्हामि ॥ ८६॥
कालस्वभावनियतिप्रभृतिममन्यन्त ये जगद्बीजं (ये जगद्बीजमुद् गिरन्ति) ।
अविदन्तस्तव तत्त्वं संसृतिचक्रे भ्रमन्ति मुह्यन्तः ॥ ८७॥
संसृतिधर्मासङ्गी तत्साक्षी त्वं तदानुरूप्येण ।
उच्चावचफलदातुस्तव च न वैषम्यं नापि नैर्गृण्यम् ॥ ८८॥
यमुपासेऽस्मिञ्जन्मनि देवं यावच्छरीरहानमहम् ।
प्रेत्य प्रतिपत्स्येऽहं तमेव भावं च तत्क्रतुन्यायात् ॥ ८९॥
प्रागुत्पत्तेस्त्वमिदं जगच्च सर्वं स्थितेरवस्थायाम ।
प्रलयावस्थायां त्वं ध्यायेयं कं कथं त्वदन्यमहम् ॥ १०॥
कामतरङ्गाभिहतं गभीरसंसारसागरे मग्नम् ।
विषयग्रहगृहीतं भवाब्धिपोतस्त्वमेव तारय माम् ॥ ९१॥
बहु सुख दुःखमोहरूपप्रपञ्चजालाड्कुरप्ररोहार्हम् ।
मूलाविद्याबीजं दग्धुं नान्यद्विना भवज्ज्ञानम् ॥ ९२॥
मायाविलासितमेतत् प्रपञ्चजालं न वस्तुतः किञ्जित् ।
न हि रज्जुशुक्तिकादिव्यतिरेकेणास्ति सर्परजतादिः ॥ ९३॥
तज्ज्ञानं मे सुलभं यज्ञतपोदानसाधनाभावात् ।
त्वद्भक्तिमात्रसाधनमतिदीनं मामनुगृहाण विभो ॥ ९४॥
गन्धर्वनगरकल्पं सर्वं स्वाप्नप्रवृत्तिसदृशञ्च ।
मायामात्रं मन्ये त्वद्व्यतिरिक्तं त्वदेकतानोऽहम् ॥ ९५॥
अग्राह्योऽनिर्देश्योऽचिन्योऽतक्योर्ऽप्रमेयमहिमा त्वं
विक्षिप्तचित्तवृत्तिः प्रभवेयमहं कथं मम द्ध्याने ॥ ९६॥
भूतभवद्भव्येषु त्वद्व्यतिरिक्तः कदापि नासेऽहं नासीय
त्वद्भावापत्तिस्नु भ्रमापगमनात् सदा त्वदात्माहम् ॥ ९७॥
शऋङ्गग्राहिकयेदृश आत्मेत्युक्तौ श्रुतिस्त्वनीशाना ।
चकिता प्रतिपादयति ह्यध्यारोपापवादरीत्या त्वाम् ॥ ९८॥
त्वामेवाहं जाने त्वदन्यभावभ्रमापगमनाय ।
त्वद्भावभावितोऽहं न्यं न भोग्यवर्गञ्च कामये कमपि ॥ ९९॥
लम्बोदर हेरम्ब द्वैमातुर दन्तिवदन विनेश ।
अव्याजदयासिन्धो भक्तपराधीन दीनजनबन्धो ॥ १००॥
भवतानुग्राह्योऽहं संसृतिबन्धादहं प्रमुच्येय ।
नाल्पेन लोभनीयः विषयानन्दं न चाभिनन्देयम् ॥ १०१॥
न स्वर्गस्वानन्दं कार्यस्वानन्दमप्यहं नेहे ।
आनन्दभवनमीयां तद्विन्देयं विदेहकैवल्यम् ॥ १०२॥
यद्यपि शुद्धाद्वैती बाह्यसुपूजनादिनापि शैवोऽहम् ।
परमात्मभावितगणपतिभावः कदापि मापैतु ॥ १०३॥
श्रुत्यादिषु प्रसिद्धा गुणगण गणपति विभवा यथावदाख्याताः ।
कविसमयसहजसिद्धा वाचोयुक्तिः प्रतायते न मया ॥ १०४॥
यद्यपि गणपतिगुणगणवर्णनमेव प्रधानतः प्रकृतम् ।
मतविमतनान्तरीयकनिरूपणश्चानुषङ्गतो ग्रथितम् ॥ १०५॥
अत एव पूर्वमेव प्रतिश्रुतश्लोकशतकतोऽप्यधिका ।
विनेशभिन्नविषयप्रतिपादनतत्पराः कृताः श्लोकाः ॥ १०६॥
इति नीलकण्ठशास्त्री विद्वद्रत्नोपनामवान् विबुधः ।
शङ्करभगवत्पदस्थापितषट्दर्शनी सुसारज्ञः ॥ १०७॥
गामिषु भवत्सु सप्तदशाधिकपञ्चसहस्रेषु कलि युगाब्देषु ।
अकरोद्गणेशशतकं तद्गुणलेशैः स्ववाग्विशुध्यर्थम् ॥ १०८॥
तं क्षाम्यन्तु महान्तो यदि प्रमादप्रयुक्तदोषः स्यात् ।
जीयादियं कृतिर्मे सुचिरं भूयान्मुदे च सिद्धिपतेः ॥ १०९॥
संसारदशायामपि मोक्षदशायां तथैकरूपत्वम् ।
आत्मन उक्तोऽत एव शान्त ब्रह्मप्रवादिभिः साङ्खयैः ॥ ११०॥
मीमांसकास्तु कथयन्त्यात्माहम्प्रत्ययेन वेद्य इति ।
अन्ये त्वन्यं सर्वं न वस्तुतः किन्त्वपक्कसोपानम् ॥ १११॥
विगतद्वैताभासो वेद्यान्तरविषयवृत्तिहीनोऽहम् ।
त्वदूपचित्तवृत्तिः किन्न भवेयं सदा त्वदाकारः ॥ ११२॥
निरतिशयान्दात्मभवत्स्वरूपे महापयोराशौ ।
विषयानन्दो नार्हति बिन्दशततमांशमात्रमपि भवितुम ॥ ११३॥
॥ इति श्रीविद्वद्रत्नोपनामकेन वैयाकरणशिरोमणिना वैदिकषड्दर्शनीसारवेदिना
नीलकण्ठशास्त्रिणा विरचितं गणेशोत्तरशतकं समाप्तम् ।
Proofread by Gopalakrisnan
% Text title : Ganesha Uttarashatakam 06-32
% File name : gaNeshottarashatakam.itx
% itxtitle : gaNeshottarashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshottarashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshapUrvashatakam, From stotrArNavaH 06-32
% Indexextra : (Scan, gaNeshapUrvashatakam)
% Latest update : September 10, 2021
% Send corrections to : (sanskrit at cheerful dot c om)
% Site access : https://sanskritdocuments.org
śrīgaṇeśottaraśatakam
evaṃ sṛṣṭayavanādīn brahmāṇḍānāmanekakoṭīnām |
kurvan krīḍāvaśato vināyakatvaṃ virājase muditaḥ || 1||
bhautikaparamāṇūnāṃ pujañjairjātaṃ yathā naraśarīram |
brahmāṇḍātmavirājo vapurhi jātaṃ tathaiva bahugolaiḥ || 2||
candrādyā upagolāsteṣu hi viśvambharādayo golāḥ |
sūryādimahāgolāḥ sumaṇidvīpādayaḥ paramagolāḥ || 3||
sarvāvayavasupūrṇo māturgarbha yathā śiśurbhavati |
evaṃ bahuvidhagolaiḥ pūrṇāvayavaṃ virāṭūsvarūpaṃ tat || 4||
tasya virājo dehe kaṭayūrdhve caikaviṃśatisvargāḥ |
ṣoḍhā vibhāgavantasteṣāṃ madhye hya tva yaṃ paramagolaḥ || 5||
dvīpaścintāmaṇiriti mūlādhāro virāṭśarīrasya |
brahmāṇḍamadhyadeśe tiṣṭhatvacalaḥ sadā nirālambaḥ || 6||
paramātmakalpiteṣu svapatheṣu golā yathā bhramantyanye |
na kadāpi tathā bhrāmyati cintāmaṇirityayaṃ paramagolaḥ || 7||
tattadbrahmāṇḍātmakavirāṭsamūho mahāvirāḍbrahma |
tasya hi savāvayavā nikhilaibrahmāṇḍakoṭibhiḥ pūrṇaḥ || 8||
akhilāṇḍakoṭisamudayajagadātmābhūnmahāvirāṭpuruṣaḥ |
brahmāṇḍakoṭimadhye mūlaprakṛtisvarūpako dvīpaḥ || 9||
nāmnā cintāmaṇiriti mūlādhāre mahāvirāḍ rūpe |
sahasiddhibuddhirasmin saguṇamahāvākyagaṇapatirbhavasi || 10||
mūlāvidyāpratigatadevaratvaṃ hi plutapraṇavarūpī |
viriściharihararavibhisteṣāṃ śaktyātmajādibhirvinutaḥ || 11||
ekārṇapattanābhidhamūlasthānaṃ vibhāti tanmadhye |
tatrāpi kalpavṛkṣodyānagatoṅkāramaṇṭapo bhāti || 12||
siṃhāsane hi cintāmaṇimayasopānasaṃyute tasmin |
ekākṣaragaṇapatimahamaniśaṃ dhyāyāmi siddhibuddhiyutam || 13||
tatra mayūreśādimamūrtiviśeṣān samantato'bhigatān |
tacchaktimūrtisahitān sahaparivārān samāśraye satatam || 14||
tatra prathamāvaraṇe yuvarāḍavyaktagaṇapatiṃ vande |
gaṇakaṃ haṃsagaṇapatiṃ bhaje'hamanyāṃstadīyaparivārān || 15||
adbhutaracanāvatyastatra catuṣṣaṣṭividhayaḥ santi |
tattatsvathalādhikārānurūpagaṇapāśca koṭiśaḥ santi || 16||
nātratyavaibhavādīn śeṣo'pīṣṭe yathāvadākhyātum |
atyalpabuddhivibhavaḥ prabhurbhaveyaṃ kathaṃ nu varṇayitum || 17||
ekāpattanasya tu dakṣiṇapārśve puraṃ varaṃ bhavati |
nāmnā ṣaḍarṇapattanamājñāsthānaṃ sthalaṃ hi kṛtyānāṃ kāryāṇām || 18||
atra hi ṣaḍarṇarūpī nijaśaktibhyāṃ cakāsti vighneśaḥ |
taṃ tvāṃ namāmi santataṃ prāyaḥ prāguditavaibhavādiyutam || 19||
nicitacaturdaśabhuvanaṃ saptamahādvīpavasumatīmadhyama |
lokālokavalayitaṃ brahmāṇḍamidaṃ tathānyadapi sarvam || 20||
gagane khadyota iva hyaṇḍaḥ pradyotate'yamekaikaḥ |
aṇvaṇumātrāvayavaḥ pariṇatajagadākṛteḥ kila mahāprakṛte || 21||
nikhilabrahmāṇḍoparibhāge svānandabhavanalokarate |
anvarthanāmadheyo mudgalakapilādiyogibhajanīyaḥ || 22||
sa dvādaśāntadeśo mahāvirājo'khilāṇḍarūpasya |
aikṣavasāgaramadhye pradīpyate koṭiyojanaṃ vitataḥ || 23||
koṭidivākaradīptiryatra ca puruṣārthasamparisamāptiḥ |
yatra na punarāvṛttiryaśca mahāvākyagaṇapatervasatiḥ || 24||
tatra hi mūlasthānaṃ śatayojanavistṛtāyatottuṅgam |
oṅkāravalayarūpāmṛtasāgaramadhyagaṃ vibhāti tava || 25||
tatra sahasrastambhe cintāmaṇimaṇṭape vicitratame |
ekākṣarapīṭhe tava tejomayavigrahaṃ hṛdā kalaye || 26||
bhavadīyasatyabhāge smitavadanāṃ brahmabhāvadāṃ dayitām |
dhyāyāmi siddhidevīṃ pītāmbaradhāriṇīṃ ca jagadambām || 27||
kalhārakusumamālāṃ kastūrītilakavijvalatphālām |
karuṇāpūrṇakaṭākṣāṃ kanakasavarṇā sadṛkṣāṃ ñca mokṣalakṣmīṃ tām || 28||
śaśiśekharāṃ trinayanāṃ suvarṇasarasīruhe sukhāsīnām |
bhāsurasarvavibhūṣaṇavṛndāṃ sarvāṅgasundarīṃ vande || 29||
dhyāyāmi buddhidevīṃ brahmajñānapradayinīṃ dayitām |
bhavadīyadakṣabhāge ghanasāratuṣārasannibhaśarīrām || 30||
mandasmitamukhapadmāṃ mandāramukhaprasūnakṛtamālām |
vandārumadhuja bhajana lolāṃ vṛndārakamukhyamṛgyapadamūlām || 31||
kastūrikāviśeṣakavilasitaniṭilāṃ gaṇeśakṛtalīlām |
sitatāmarasāsīnāṃ trilocanāṃ candraśekharāṃ rucirām || 32||
bhavato bhavanaṃ paritaḥ prathamāvaraṇe vicitraratnāni |
krīḍāgānādīni sthānāni manoharāṇi subahūni || 33||
tattatsthānānuguṇaṃ gṛhītakamanīyavigrahaviśeṣaḥ |
siddhathā buddhayā ca yuto viharasi muditastadarhaparivāraḥ || 34||
kandarpakoṭiparibhūsaundaryajharītaraṅgitākārāḥ |
krīḍāgānādigatā maṅgalamūrtīśca manmahe manasi || 35||
bhavataḥ kaṭākṣavīkṣāṃ pratīkṣamāṇāśca kiṅkarapravarāḥ |
ājñākaraṇapravaṇā abhyarṇe santi koṭikoṭigaṇāḥ || 36||
bhavato hi vāmapūrve kiñcinyūne mahendramaṇipīṭhe |
āsīnaṃ yuvarāja siddhisutā'vyaktagaṇapatiṃ vande || 37||
dūrvādalavaccyāmalakomalamūrtiṃ niśākarāpīḍam |
kandarpasundarāṅgaṃ kaustubhacintāmaṇiprabhādīpram || 38||
nijalokavāsisarvābhīpsitavijñāpanādivānām |
vijñāpayati viśeṣān sa kila mahāvākyagaṇapateḥ savidhebhavate || 39||
bhavadīyasannidhāne tasmādanyo na ko'pi gaṇavargaḥ |
gantuṃ sthātuṃ vāpi prabhavati kimuta prabhāṣaṇādividhau || 40||
api cāvyaktaniveditanijabhaktajanānukūlakṛtyāni |
ākarṇanamātrādapi sadyaḥ kartuṃ kṛtādaro hi bhavān || 41||
bhavato hi yāmyapūrve sphāṭikapīṭhe guruṃ sukhāsīnam |
atisundaraṃ yuvānaṃ buddheḥ sūnuṃ vi su lekhanīpāṇim || 42||
cūḍāśaśiprakāśaṃ śuddhasphaṭikaprabhāpratīkāśam |
gaṇakaṃ gaṇakādhīśaṃ haṃsagaṇeśaṃ namāmyamātye namāmi sacive śam || 43||
lokaṃ deśaṃ grāma brahmāṇḍasthitaparātmabhaktānām |
pūrvācaritān gaṇako dharmādīṃśca svapustake likhati || 44||
gaṇakavilekhanamātrāt sakalānnijabhaktapuṅgavākalitān |
praṇidāpayasyanalpān kāmakalāpān surādiduravāpān || 45||
brahma mahattattvagataṃ gaṇakaṃ prāhuḥ samastayogīndrāḥ |
yo nibabandha granthān gaṇapativiṣayān mahetihāsādīn || 46||
dhyāyanti haṃsarūpaṃ paramaguruṃ yaṃ sahasradalapadme |
āsīnaṃ gaṇakeśaṃ hṛdaye kila yogipuṅgavāḥ satatam || 47||
nikhilabrahmāṇḍasthitabhakta janānāṃ hitāhitaṃ vaktum |
varadādikoṭigaṇapā vikaṭasyānte vahanti sacivatvam || 48||
akhilāṇḍakoṭinivasadbhaktānānandabhavanamānetum |
ādhikārapadaniyuktā āmodamukhā bhavanti kodigaṇāḥ || 49||
tvadbhaktimātrasulabhānīdṛśatatratyasarvaparivārān |
manasā numo naunya navarataṃ dvārībhūtān bhavatsamīpāptau || 50||
trinayanacandrāpīḍā brahmānandāmbudhau bhṛśaṃ magnāḥ |
ānandabhavanabhuvane gaṇapatisārūpyabhāgino'nantāḥ || 51||
bahukalpakoṭikālaṃ bhavataḥ sadupāsanāt pramodante |
śuṇḍādaṇḍavirājattuṇḍāvigalanmadāmbuyutagaṇḍāḥ || 52||
sālokyamuktibhājo'saṅkhyeyāścākhilāṇḍabhaktajanāḥ |
evaṃ sāmīpyapadaprāptyā sukhabhūmabhāgino'nantāḥ || 53||
svargādivāsināmapi duṣṭāsurabādhaśāpabādhādiḥ |
prārabdhakarmabhogaḥ kadācidapi mātṛgarbhavāsādiḥ || 54||
ānandabhavanavāsī naitādṛgupadravaṃ kadācidapi |
anubhavati kiṃ tvakhaṇḍaṃ brahmānandaṃ na duḥkhasambhinnam || 55||
saṅkalpamātrasulabhānāhāravihārakāmabhogādīn |
parihṛtya nityatṛptā nityānandātmanā mahātmānaḥ || 56||
jñānayogādiniṣṭhā jīvanmuktā gatā hi ye tatra |
brahmavicāraparāste prāpuranantā videhakaivalyam || 57||
keśādhikārayuktā yogijanā ye tu pūrvakalpeṣu |
brahmācyutādayaste vidyante tatra koṭiśaḥ paritaḥ || 58||
avatāramūrtayaste santi samantāt sahasraśastatra |
tava tatra tatraiva mūrtimanto hyāmnāyāntāḥ stuvanti mahimānaṃ tava rūpam || 59||
sarvāvaraṇasametāstattatvacchaktisiddhibuddhadhaṃśāḥ |
tattadavasarā kāla nuguṇāḥ santi sahassraṃ hi mūrtayastatra || 60||
ityānavamāvaraṇaṃ vicitrarūpā vibhūtivibhavādyāḥ |
kavivāṅmanaso'viṣayāḥ santi svānandabhavanaloke te || 61||
etebhyaśca nijebhyo lokānugrāhimūrtibhedebhyaḥ |
jīvanmuktādibhyo'tratyamahadbhayo namo'stu sarvebhyaḥ || 62||
dūre bhavataḥ purato siṃhāsanasya mūle mūṣakarājo virājate sutarām |
dasyurivāntaryāmī bhuṅkte bhogāṃśca sarvajantūnām || 63||
avyaktagaṇapatistava sevārthaṃ prāpa mūṣakākāram |
bhavadīyavāhaneṣvapi kurute sarveṣvanupraveśamayam || 64||
yadyapi haṃso vilikhati caṇḍo vā nanabhairavo dātāḥ |
bhavadālaye gaṇapate satataṃ sevāphalaṃ hi bhaktebhyaḥ || 65||
pūrvaṃ tava sevārthaṃ praveśakāle'sya mūṣakasya tathā syānte |
na labheta cedanujñāṃ sevā phalamapi sudurlabhaṃ tasya || 66||
sevānabhijñamapi māmanīśamanyādṛśopacāravidhau |
caṇḍādayo'nugṛhṇantvete bhavadīyabhavanaparivārāḥ || 67||
tava bhaktakoṭimahimā vaktumaśakyo'tra mudgalaḥ pravaraḥ |
yacchiṣyāḥ kapilādyāḥ santi catuṣṣaṣṭikoṭimitrasiddhāḥ || 68||
tvannāmamātrajāpā samūlakāṣaṃ kaṣanti kaluṣāṇi |
viṣaharaṇasiddhamantro japamātrādiva viṣaṃ nirava śeṣam || 69||
kuṅkumakarpūrāgarumṛgamadagorocanadiyatagandhama |
yadbhaktā dadhate tadvastu gajāsyaṃ sadāstu mama citte || 70||
śvetārkamūlamūrti jīvadgajadantamūrtimapi bhavataḥ |
śoṇaśilāmapi manasā pravālaratnādimūrtimapi mahaye || 71||
dūrvārcanamantrajapā vrataṃ caturthyā yadīyacihnāni |
sindūradhāraṇādyapi sa gaṇādhyakṣaḥ sadāstu mama śaraṇam || 72||
dūrvārahitasaparyā viphalā bhavataḥ kṛtāpi heramba |
nijaśaktidattabījadvayarūḍhā yat śatāṅkurā devī || 73||
duḥsvapnanāśinī sā svārcakapāpāpanodanaikacaturā parā |
bhaktajanavighnahantrī dūrvāyāṃ te tato mahāprītiḥ || 74||
yadyapi dūrvānnamayī durgāśaptā tṛṇātmanā jātā |
ārādhya siddhibuddhī śvetaharidbhedato dvidhābhūt sā || 75||
durgārcane tu nindyā ślādhyatamamevārcane'nyadevānām |
bhavato'tiślādhyatamā yugmata ekaikaviṃśatibhyāṃ vā || 76||
tulasī nīlā devī vaiṣṇavamāyā gaṇeśaśaptā sā |
bhavato'ta eva nindyā arhā grahadevatānyadevānām || 77||
śvetārkakusumanikarairmandārasumaistathā śamīpatraiḥ |
bhaktairarcitamātrādyathātitṛptistathā na te kvāpi || 78||
śvetārkamūlamaṇibhirmandāraśamīmayaiśca maṇinicayaiḥ |
prathitāṃ kilākṣamālāṃ dhārayitāraḥ prasādapātraṃ te || 79||
vijayapravālanagaro bhaumamayūreśanāsikādīnām |
kṣetrāṇāṃ yātrāyāmaśaktamapi māṃ punātu vigneśaḥ || 80||
na mama jñāne niṣṭhā yoge vā mantrakarmanāmādau |
tvatpādāśrayaṇānmāmuddhara saṃsārataśca siddhipate || 81||
nirvāṇadīkṣayāhaṃ na saṃskṛto nāpi yogadīkṣādyaiḥ |
sāmānyadīkṣayāpi ca punīhi buddhīśa bhāvanāleśāt || 82||
māmakṛtasukṛtasañcayamanupāsitamukhyadevatāmūrtim |
kevalabhaktibalānmāṃ kṛtārthayethāḥ stvaṃ kṛpāpayorāśe || 83||
icchāmātrādaṇumapi meruṃ kuruṣe'nalaṃ ca salilamiva |
marumapi jaladhiṃ bhavato madaghanirāse gaṇeśa ko bhāraḥ || 84||
ākasmikayasi kāmāna duravāpānapi vicitrayasyarthān |
sarvamakiñcitkaramapyapekṣase kinnvanugrahārhaṃ mām || 85||
yo deśakālavastubhiraparicchinno'pi hṛdguhāvartī |
prerayati sarvajantūnanavarataṃ taṃ gaṇeśamarhāmi || 86||
kālasvabhāvaniyatiprabhṛtimamanyanta ye jagadbījaṃ (ye jagadbījamud giranti) |
avidantastava tattvaṃ saṃsṛticakre bhramanti muhyantaḥ || 87||
saṃsṛtidharmāsaṅgī tatsākṣī tvaṃ tadānurūpyeṇa |
uccāvacaphaladātustava ca na vaiṣamyaṃ nāpi nairgṛṇyam || 88||
yamupāse'smiñjanmani devaṃ yāvaccharīrahānamaham |
pretya pratipatsye'haṃ tameva bhāvaṃ ca tatkratunyāyāt || 89||
prāgutpattestvamidaṃ jagacca sarvaṃ sthiteravasthāyāma |
pralayāvasthāyāṃ tvaṃ dhyāyeyaṃ kaṃ kathaṃ tvadanyamaham || 10||
kāmataraṅgābhihataṃ gabhīrasaṃsārasāgare magnam |
viṣayagrahagṛhītaṃ bhavābdhipotastvameva tāraya mām || 91||
bahu sukha duḥkhamoharūpaprapañcajālāḍkuraprarohārham |
mūlāvidyābījaṃ dagdhuṃ nānyadvinā bhavajjñānam || 92||
māyāvilāsitametat prapañcajālaṃ na vastutaḥ kiñjit |
na hi rajjuśuktikādivyatirekeṇāsti sarparajatādiḥ || 93||
tajjñānaṃ me sulabhaṃ yajñatapodānasādhanābhāvāt |
tvadbhaktimātrasādhanamatidīnaṃ māmanugṛhāṇa vibho || 94||
gandharvanagarakalpaṃ sarvaṃ svāpnapravṛttisadṛśañca |
māyāmātraṃ manye tvadvyatiriktaṃ tvadekatāno'ham || 95||
agrāhyo'nirdeśyo'cinyo'takyor'prameyamahimā tvaṃ
vikṣiptacittavṛttiḥ prabhaveyamahaṃ kathaṃ mama ddhyāne || 96||
bhūtabhavadbhavyeṣu tvadvyatiriktaḥ kadāpi nāse'haṃ nāsīya
tvadbhāvāpattisnu bhramāpagamanāt sadā tvadātmāham || 97||
śaṛṅgagrāhikayedṛśa ātmetyuktau śrutistvanīśānā |
cakitā pratipādayati hyadhyāropāpavādarītyā tvām || 98||
tvāmevāhaṃ jāne tvadanyabhāvabhramāpagamanāya |
tvadbhāvabhāvito'haṃ nyaṃ na bhogyavargañca kāmaye kamapi || 99||
lambodara heramba dvaimātura dantivadana vineśa |
avyājadayāsindho bhaktaparādhīna dīnajanabandho || 100||
bhavatānugrāhyo'haṃ saṃsṛtibandhādahaṃ pramucyeya |
nālpena lobhanīyaḥ viṣayānandaṃ na cābhinandeyam || 101||
na svargasvānandaṃ kāryasvānandamapyahaṃ nehe |
ānandabhavanamīyāṃ tadvindeyaṃ videhakaivalyam || 102||
yadyapi śuddhādvaitī bāhyasupūjanādināpi śaivo'ham |
paramātmabhāvitagaṇapatibhāvaḥ kadāpi māpaitu || 103||
śrutyādiṣu prasiddhā guṇagaṇa gaṇapati vibhavā yathāvadākhyātāḥ |
kavisamayasahajasiddhā vācoyuktiḥ pratāyate na mayā || 104||
yadyapi gaṇapatiguṇagaṇavarṇanameva pradhānataḥ prakṛtam |
matavimatanāntarīyakanirūpaṇaścānuṣaṅgato grathitam || 105||
ata eva pūrvameva pratiśrutaślokaśatakato'pyadhikā |
vineśabhinnaviṣayapratipādanatatparāḥ kṛtāḥ ślokāḥ || 106||
iti nīlakaṇṭhaśāstrī vidvadratnopanāmavān vibudhaḥ |
śaṅkarabhagavatpadasthāpitaṣaṭdarśanī susārajñaḥ || 107||
gāmiṣu bhavatsu saptadaśādhikapañcasahasreṣu kali yugābdeṣu |
akarodgaṇeśaśatakaṃ tadguṇaleśaiḥ svavāgviśudhyartham || 108||
taṃ kṣāmyantu mahānto yadi pramādaprayuktadoṣaḥ syāt |
jīyādiyaṃ kṛtirme suciraṃ bhūyānmude ca siddhipateḥ || 109||
saṃsāradaśāyāmapi mokṣadaśāyāṃ tathaikarūpatvam |
ātmana ukto'ta eva śānta brahmapravādibhiḥ sāṅkhayaiḥ || 110||
mīmāṃsakāstu kathayantyātmāhampratyayena vedya iti |
anye tvanyaṃ sarvaṃ na vastutaḥ kintvapakkasopānam || 111||
vigatadvaitābhāso vedyāntaraviṣayavṛttihīno'ham |
tvadūpacittavṛttiḥ kinna bhaveyaṃ sadā tvadākāraḥ || 112||
niratiśayāndātmabhavatsvarūpe mahāpayorāśau |
viṣayānando nārhati bindaśatatamāṃśamātramapi bhavituma || 113||
|| iti śrīvidvadratnopanāmakena vaiyākaraṇaśiromaṇinā vaidikaṣaḍdarśanīsāravedinā
nīlakaṇṭhaśāstriṇā viracitaṃ gaṇeśottaraśatakaṃ samāptam |
Proofread by Gopalakrisnan
% Text title : Ganesha Uttarashatakam 06-32
% File name : gaNeshottarashatakam.itx
% itxtitle : gaNeshottarashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshottarashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshapUrvashatakam, From stotrArNavaH 06-32
% Indexextra : (Scan, gaNeshapUrvashatakam)
% Latest update : September 10, 2021
% Send corrections to : (sanskrit at cheerful dot c om)
% Site access : https://sanskritdocuments.org
శ్రీగణేశోత్తరశతకమ్
ఏవం సృష్టయవనాదీన్ బ్రహ్మాణ్డానామనేకకోటీనామ్ ।
కుర్వన్ క్రీడావశతో వినాయకత్వం విరాజసే ముదితః ॥ ౧॥
భౌతికపరమాణూనాం పుజఞ్జైర్జాతం యథా నరశరీరమ్ ।
బ్రహ్మాణ్డాత్మవిరాజో వపుర్హి జాతం తథైవ బహుగోలైః ॥ ౨॥
చన్ద్రాద్యా ఉపగోలాస్తేషు హి విశ్వమ్భరాదయో గోలాః ।
సూర్యాదిమహాగోలాః సుమణిద్వీపాదయః పరమగోలాః ॥ ౩॥
సర్వావయవసుపూర్ణో మాతుర్గర్భ యథా శిశుర్భవతి ।
ఏవం బహువిధగోలైః పూర్ణావయవం విరాటూస్వరూపం తత్ ॥ ౪॥
తస్య విరాజో దేహే కటయూర్ధ్వే చైకవింశతిస్వర్గాః ।
షోఢా విభాగవన్తస్తేషాం మధ్యే హ్య త్వ యం పరమగోలః ॥ ౫॥
ద్వీపశ్చిన్తామణిరితి మూలాధారో విరాట్శరీరస్య ।
బ్రహ్మాణ్డమధ్యదేశే తిష్ఠత్వచలః సదా నిరాలమ్బః ॥ ౬॥
పరమాత్మకల్పితేషు స్వపథేషు గోలా యథా భ్రమన్త్యన్యే ।
న కదాపి తథా భ్రామ్యతి చిన్తామణిరిత్యయం పరమగోలః ॥ ౭॥
తత్తద్బ్రహ్మాణ్డాత్మకవిరాట్సమూహో మహావిరాడ్బ్రహ్మ ।
తస్య హి సవావయవా నిఖిలైబ్రహ్మాణ్డకోటిభిః పూర్ణః ॥ ౮॥
అఖిలాణ్డకోటిసముదయజగదాత్మాభూన్మహావిరాట్పురుషః ।
బ్రహ్మాణ్డకోటిమధ్యే మూలప్రకృతిస్వరూపకో ద్వీపః ॥ ౯॥
నామ్నా చిన్తామణిరితి మూలాధారే మహావిరాడ్ రూపే ।
సహసిద్ధిబుద్ధిరస్మిన్ సగుణమహావాక్యగణపతిర్భవసి ॥ ౧౦॥
మూలావిద్యాప్రతిగతదేవరత్వం హి ప్లుతప్రణవరూపీ ।
విరిశ్చిహరిహరరవిభిస్తేషాం శక్త్యాత్మజాదిభిర్వినుతః ॥ ౧౧॥
ఏకార్ణపత్తనాభిధమూలస్థానం విభాతి తన్మధ్యే ।
తత్రాపి కల్పవృక్షోద్యానగతోఙ్కారమణ్టపో భాతి ॥ ౧౨॥
సింహాసనే హి చిన్తామణిమయసోపానసంయుతే తస్మిన్ ।
ఏకాక్షరగణపతిమహమనిశం ధ్యాయామి సిద్ధిబుద్ధియుతమ్ ॥ ౧౩॥
తత్ర మయూరేశాదిమమూర్తివిశేషాన్ సమన్తతోఽభిగతాన్ ।
తచ్ఛక్తిమూర్తిసహితాన్ సహపరివారాన్ సమాశ్రయే సతతమ్ ॥ ౧౪॥
తత్ర ప్రథమావరణే యువరాడవ్యక్తగణపతిం వన్దే ।
గణకం హంసగణపతిం భజేఽహమన్యాంస్తదీయపరివారాన్ ॥ ౧౫॥
అద్భుతరచనావత్యస్తత్ర చతుష్షష్టివిధయః సన్తి ।
తత్తత్స్వథలాధికారానురూపగణపాశ్చ కోటిశః సన్తి ॥ ౧౬॥
నాత్రత్యవైభవాదీన్ శేషోఽపీష్టే యథావదాఖ్యాతుమ్ ।
అత్యల్పబుద్ధివిభవః ప్రభుర్భవేయం కథం ను వర్ణయితుమ్ ॥ ౧౭॥
ఏకాపత్తనస్య తు దక్షిణపార్శ్వే పురం వరం భవతి ।
నామ్నా షడర్ణపత్తనమాజ్ఞాస్థానం స్థలం హి కృత్యానాం కార్యాణామ్ ॥ ౧౮॥
అత్ర హి షడర్ణరూపీ నిజశక్తిభ్యాం చకాస్తి విఘ్నేశః ।
తం త్వాం నమామి సన్తతం ప్రాయః ప్రాగుదితవైభవాదియుతమ్ ॥ ౧౯॥
నిచితచతుర్దశభువనం సప్తమహాద్వీపవసుమతీమధ్యమ ।
లోకాలోకవలయితం బ్రహ్మాణ్డమిదం తథాన్యదపి సర్వమ్ ॥ ౨౦॥
గగనే ఖద్యోత ఇవ హ్యణ్డః ప్రద్యోతతేఽయమేకైకః ।
అణ్వణుమాత్రావయవః పరిణతజగదాకృతేః కిల మహాప్రకృతే ॥ ౨౧॥
నిఖిలబ్రహ్మాణ్డోపరిభాగే స్వానన్దభవనలోకరతే ।
అన్వర్థనామధేయో ముద్గలకపిలాదియోగిభజనీయః ॥ ౨౨॥
స ద్వాదశాన్తదేశో మహావిరాజోఽఖిలాణ్డరూపస్య ।
ఐక్షవసాగరమధ్యే ప్రదీప్యతే కోటియోజనం వితతః ॥ ౨౩॥
కోటిదివాకరదీప్తిర్యత్ర చ పురుషార్థసమ్పరిసమాప్తిః ।
యత్ర న పునరావృత్తిర్యశ్చ మహావాక్యగణపతేర్వసతిః ॥ ౨౪॥
తత్ర హి మూలస్థానం శతయోజనవిస్తృతాయతోత్తుఙ్గమ్ ।
ఓఙ్కారవలయరూపామృతసాగరమధ్యగం విభాతి తవ ॥ ౨౫॥
తత్ర సహస్రస్తమ్భే చిన్తామణిమణ్టపే విచిత్రతమే ।
ఏకాక్షరపీఠే తవ తేజోమయవిగ్రహం హృదా కలయే ॥ ౨౬॥
భవదీయసత్యభాగే స్మితవదనాం బ్రహ్మభావదాం దయితామ్ ।
ధ్యాయామి సిద్ధిదేవీం పీతామ్బరధారిణీం చ జగదమ్బామ్ ॥ ౨౭॥
కల్హారకుసుమమాలాం కస్తూరీతిలకవిజ్వలత్ఫాలామ్ ।
కరుణాపూర్ణకటాక్షాం కనకసవర్ణా సదృక్షాం ఞ్చ మోక్షలక్ష్మీం తామ్ ॥ ౨౮॥
శశిశేఖరాం త్రినయనాం సువర్ణసరసీరుహే సుఖాసీనామ్ ।
భాసురసర్వవిభూషణవృన్దాం సర్వాఙ్గసున్దరీం వన్దే ॥ ౨౯॥
ధ్యాయామి బుద్ధిదేవీం బ్రహ్మజ్ఞానప్రదయినీం దయితామ్ ।
భవదీయదక్షభాగే ఘనసారతుషారసన్నిభశరీరామ్ ॥ ౩౦॥
మన్దస్మితముఖపద్మాం మన్దారముఖప్రసూనకృతమాలామ్ ।
వన్దారుమధుజ భజన లోలాం వృన్దారకముఖ్యమృగ్యపదమూలామ్ ॥ ౩౧॥
కస్తూరికావిశేషకవిలసితనిటిలాం గణేశకృతలీలామ్ ।
సితతామరసాసీనాం త్రిలోచనాం చన్ద్రశేఖరాం రుచిరామ్ ॥ ౩౨॥
భవతో భవనం పరితః ప్రథమావరణే విచిత్రరత్నాని ।
క్రీడాగానాదీని స్థానాని మనోహరాణి సుబహూని ॥ ౩౩॥
తత్తత్స్థానానుగుణం గృహీతకమనీయవిగ్రహవిశేషః ।
సిద్ధథా బుద్ధయా చ యుతో విహరసి ముదితస్తదర్హపరివారః ॥ ౩౪॥
కన్దర్పకోటిపరిభూసౌన్దర్యఝరీతరఙ్గితాకారాః ।
క్రీడాగానాదిగతా మఙ్గలమూర్తీశ్చ మన్మహే మనసి ॥ ౩౫॥
భవతః కటాక్షవీక్షాం ప్రతీక్షమాణాశ్చ కిఙ్కరప్రవరాః ।
ఆజ్ఞాకరణప్రవణా అభ్యర్ణే సన్తి కోటికోటిగణాః ॥ ౩౬॥
భవతో హి వామపూర్వే కిఞ్చిన్యూనే మహేన్ద్రమణిపీఠే ।
ఆసీనం యువరాజ సిద్ధిసుతాఽవ్యక్తగణపతిం వన్దే ॥ ౩౭॥
దూర్వాదలవచ్చ్యామలకోమలమూర్తిం నిశాకరాపీడమ్ ।
కన్దర్పసున్దరాఙ్గం కౌస్తుభచిన్తామణిప్రభాదీప్రమ్ ॥ ౩౮॥
నిజలోకవాసిసర్వాభీప్సితవిజ్ఞాపనాదివానామ్ ।
విజ్ఞాపయతి విశేషాన్ స కిల మహావాక్యగణపతేః సవిధేభవతే ॥ ౩౯॥
భవదీయసన్నిధానే తస్మాదన్యో న కోఽపి గణవర్గః ।
గన్తుం స్థాతుం వాపి ప్రభవతి కిముత ప్రభాషణాదివిధౌ ॥ ౪౦॥
అపి చావ్యక్తనివేదితనిజభక్తజనానుకూలకృత్యాని ।
ఆకర్ణనమాత్రాదపి సద్యః కర్తుం కృతాదరో హి భవాన్ ॥ ౪౧॥
భవతో హి యామ్యపూర్వే స్ఫాటికపీఠే గురుం సుఖాసీనమ్ ।
అతిసున్దరం యువానం బుద్ధేః సూనుం వి సు లేఖనీపాణిమ్ ॥ ౪౨॥
చూడాశశిప్రకాశం శుద్ధస్ఫటికప్రభాప్రతీకాశమ్ ।
గణకం గణకాధీశం హంసగణేశం నమామ్యమాత్యే నమామి సచివే శమ్ ॥ ౪౩॥
లోకం దేశం గ్రామ బ్రహ్మాణ్డస్థితపరాత్మభక్తానామ్ ।
పూర్వాచరితాన్ గణకో ధర్మాదీంశ్చ స్వపుస్తకే లిఖతి ॥ ౪౪॥
గణకవిలేఖనమాత్రాత్ సకలాన్నిజభక్తపుఙ్గవాకలితాన్ ।
ప్రణిదాపయస్యనల్పాన్ కామకలాపాన్ సురాదిదురవాపాన్ ॥ ౪౫॥
బ్రహ్మ మహత్తత్త్వగతం గణకం ప్రాహుః సమస్తయోగీన్ద్రాః ।
యో నిబబన్ధ గ్రన్థాన్ గణపతివిషయాన్ మహేతిహాసాదీన్ ॥ ౪౬॥
ధ్యాయన్తి హంసరూపం పరమగురుం యం సహస్రదలపద్మే ।
ఆసీనం గణకేశం హృదయే కిల యోగిపుఙ్గవాః సతతమ్ ॥ ౪౭॥
నిఖిలబ్రహ్మాణ్డస్థితభక్త జనానాం హితాహితం వక్తుమ్ ।
వరదాదికోటిగణపా వికటస్యాన్తే వహన్తి సచివత్వమ్ ॥ ౪౮॥
అఖిలాణ్డకోటినివసద్భక్తానానన్దభవనమానేతుమ్ ।
ఆధికారపదనియుక్తా ఆమోదముఖా భవన్తి కోదిగణాః ॥ ౪౯॥
త్వద్భక్తిమాత్రసులభానీదృశతత్రత్యసర్వపరివారాన్ ।
మనసా నుమో నౌన్య నవరతం ద్వారీభూతాన్ భవత్సమీపాప్తౌ ॥ ౫౦॥
త్రినయనచన్ద్రాపీడా బ్రహ్మానన్దామ్బుధౌ భృశం మగ్నాః ।
ఆనన్దభవనభువనే గణపతిసారూప్యభాగినోఽనన్తాః ॥ ౫౧॥
బహుకల్పకోటికాలం భవతః సదుపాసనాత్ ప్రమోదన్తే ।
శుణ్డాదణ్డవిరాజత్తుణ్డావిగలన్మదామ్బుయుతగణ్డాః ॥ ౫౨॥
సాలోక్యముక్తిభాజోఽసఙ్ఖ్యేయాశ్చాఖిలాణ్డభక్తజనాః ।
ఏవం సామీప్యపదప్రాప్త్యా సుఖభూమభాగినోఽనన్తాః ॥ ౫౩॥
స్వర్గాదివాసినామపి దుష్టాసురబాధశాపబాధాదిః ।
ప్రారబ్ధకర్మభోగః కదాచిదపి మాతృగర్భవాసాదిః ॥ ౫౪॥
ఆనన్దభవనవాసీ నైతాదృగుపద్రవం కదాచిదపి ।
అనుభవతి కిం త్వఖణ్డం బ్రహ్మానన్దం న దుఃఖసమ్భిన్నమ్ ॥ ౫౫॥
సఙ్కల్పమాత్రసులభానాహారవిహారకామభోగాదీన్ ।
పరిహృత్య నిత్యతృప్తా నిత్యానన్దాత్మనా మహాత్మానః ॥ ౫౬॥
జ్ఞానయోగాదినిష్ఠా జీవన్ముక్తా గతా హి యే తత్ర ।
బ్రహ్మవిచారపరాస్తే ప్రాపురనన్తా విదేహకైవల్యమ్ ॥ ౫౭॥
కేశాధికారయుక్తా యోగిజనా యే తు పూర్వకల్పేషు ।
బ్రహ్మాచ్యుతాదయస్తే విద్యన్తే తత్ర కోటిశః పరితః ॥ ౫౮॥
అవతారమూర్తయస్తే సన్తి సమన్తాత్ సహస్రశస్తత్ర ।
తవ తత్ర తత్రైవ మూర్తిమన్తో హ్యామ్నాయాన్తాః స్తువన్తి మహిమానం తవ రూపమ్ ॥ ౫౯॥
సర్వావరణసమేతాస్తత్తత్వచ్ఛక్తిసిద్ధిబుద్ధధంశాః ।
తత్తదవసరా కాల నుగుణాః సన్తి సహస్స్రం హి మూర్తయస్తత్ర ॥ ౬౦॥
ఇత్యానవమావరణం విచిత్రరూపా విభూతివిభవాద్యాః ।
కవివాఙ్మనసోఽవిషయాః సన్తి స్వానన్దభవనలోకే తే ॥ ౬౧॥
ఏతేభ్యశ్చ నిజేభ్యో లోకానుగ్రాహిమూర్తిభేదేభ్యః ।
జీవన్ముక్తాదిభ్యోఽత్రత్యమహద్భయో నమోఽస్తు సర్వేభ్యః ॥ ౬౨॥
దూరే భవతః పురతో సింహాసనస్య మూలే మూషకరాజో విరాజతే సుతరామ్ ।
దస్యురివాన్తర్యామీ భుఙ్క్తే భోగాంశ్చ సర్వజన్తూనామ్ ॥ ౬౩॥
అవ్యక్తగణపతిస్తవ సేవార్థం ప్రాప మూషకాకారమ్ ।
భవదీయవాహనేష్వపి కురుతే సర్వేష్వనుప్రవేశమయమ్ ॥ ౬౪॥
యద్యపి హంసో విలిఖతి చణ్డో వా ననభైరవో దాతాః ।
భవదాలయే గణపతే సతతం సేవాఫలం హి భక్తేభ్యః ॥ ౬౫॥
పూర్వం తవ సేవార్థం ప్రవేశకాలేఽస్య మూషకస్య తథా స్యాన్తే ।
న లభేత చేదనుజ్ఞాం సేవా ఫలమపి సుదుర్లభం తస్య ॥ ౬౬॥
సేవానభిజ్ఞమపి మామనీశమన్యాదృశోపచారవిధౌ ।
చణ్డాదయోఽనుగృహ్ణన్త్వేతే భవదీయభవనపరివారాః ॥ ౬౭॥
తవ భక్తకోటిమహిమా వక్తుమశక్యోఽత్ర ముద్గలః ప్రవరః ।
యచ్ఛిష్యాః కపిలాద్యాః సన్తి చతుష్షష్టికోటిమిత్రసిద్ధాః ॥ ౬౮॥
త్వన్నామమాత్రజాపా సమూలకాషం కషన్తి కలుషాణి ।
విషహరణసిద్ధమన్త్రో జపమాత్రాదివ విషం నిరవ శేషమ్ ॥ ౬౯॥
కుఙ్కుమకర్పూరాగరుమృగమదగోరోచనదియతగన్ధమ ।
యద్భక్తా దధతే తద్వస్తు గజాస్యం సదాస్తు మమ చిత్తే ॥ ౭౦॥
శ్వేతార్కమూలమూర్తి జీవద్గజదన్తమూర్తిమపి భవతః ।
శోణశిలామపి మనసా ప్రవాలరత్నాదిమూర్తిమపి మహయే ॥ ౭౧॥
దూర్వార్చనమన్త్రజపా వ్రతం చతుర్థ్యా యదీయచిహ్నాని ।
సిన్దూరధారణాద్యపి స గణాధ్యక్షః సదాస్తు మమ శరణమ్ ॥ ౭౨॥
దూర్వారహితసపర్యా విఫలా భవతః కృతాపి హేరమ్బ ।
నిజశక్తిదత్తబీజద్వయరూఢా యత్ శతాఙ్కురా దేవీ ॥ ౭౩॥
దుఃస్వప్ననాశినీ సా స్వార్చకపాపాపనోదనైకచతురా పరా ।
భక్తజనవిఘ్నహన్త్రీ దూర్వాయాం తే తతో మహాప్రీతిః ॥ ౭౪॥
యద్యపి దూర్వాన్నమయీ దుర్గాశప్తా తృణాత్మనా జాతా ।
ఆరాధ్య సిద్ధిబుద్ధీ శ్వేతహరిద్భేదతో ద్విధాభూత్ సా ॥ ౭౫॥
దుర్గార్చనే తు నిన్ద్యా శ్లాధ్యతమమేవార్చనేఽన్యదేవానామ్ ।
భవతోఽతిశ్లాధ్యతమా యుగ్మత ఏకైకవింశతిభ్యాం వా ॥ ౭౬॥
తులసీ నీలా దేవీ వైష్ణవమాయా గణేశశప్తా సా ।
భవతోఽత ఏవ నిన్ద్యా అర్హా గ్రహదేవతాన్యదేవానామ్ ॥ ౭౭॥
శ్వేతార్కకుసుమనికరైర్మన్దారసుమైస్తథా శమీపత్రైః ।
భక్తైరర్చితమాత్రాద్యథాతితృప్తిస్తథా న తే క్వాపి ॥ ౭౮॥
శ్వేతార్కమూలమణిభిర్మన్దారశమీమయైశ్చ మణినిచయైః ।
ప్రథితాం కిలాక్షమాలాం ధారయితారః ప్రసాదపాత్రం తే ॥ ౭౯॥
విజయప్రవాలనగరో భౌమమయూరేశనాసికాదీనామ్ ।
క్షేత్రాణాం యాత్రాయామశక్తమపి మాం పునాతు విగ్నేశః ॥ ౮౦॥
న మమ జ్ఞానే నిష్ఠా యోగే వా మన్త్రకర్మనామాదౌ ।
త్వత్పాదాశ్రయణాన్మాముద్ధర సంసారతశ్చ సిద్ధిపతే ॥ ౮౧॥
నిర్వాణదీక్షయాహం న సంస్కృతో నాపి యోగదీక్షాద్యైః ।
సామాన్యదీక్షయాపి చ పునీహి బుద్ధీశ భావనాలేశాత్ ॥ ౮౨॥
మామకృతసుకృతసఞ్చయమనుపాసితముఖ్యదేవతామూర్తిమ్ ।
కేవలభక్తిబలాన్మాం కృతార్థయేథాః స్త్వం కృపాపయోరాశే ॥ ౮౩॥
ఇచ్ఛామాత్రాదణుమపి మేరుం కురుషేఽనలం చ సలిలమివ ।
మరుమపి జలధిం భవతో మదఘనిరాసే గణేశ కో భారః ॥ ౮౪॥
ఆకస్మికయసి కామాన దురవాపానపి విచిత్రయస్యర్థాన్ ।
సర్వమకిఞ్చిత్కరమప్యపేక్షసే కిన్న్వనుగ్రహార్హం మామ్ ॥ ౮౫॥
యో దేశకాలవస్తుభిరపరిచ్ఛిన్నోఽపి హృద్గుహావర్తీ ।
ప్రేరయతి సర్వజన్తూననవరతం తం గణేశమర్హామి ॥ ౮౬॥
కాలస్వభావనియతిప్రభృతిమమన్యన్త యే జగద్బీజం (యే జగద్బీజముద్ గిరన్తి) ।
అవిదన్తస్తవ తత్త్వం సంసృతిచక్రే భ్రమన్తి ముహ్యన్తః ॥ ౮౭॥
సంసృతిధర్మాసఙ్గీ తత్సాక్షీ త్వం తదానురూప్యేణ ।
ఉచ్చావచఫలదాతుస్తవ చ న వైషమ్యం నాపి నైర్గృణ్యమ్ ॥ ౮౮॥
యముపాసేఽస్మిఞ్జన్మని దేవం యావచ్ఛరీరహానమహమ్ ।
ప్రేత్య ప్రతిపత్స్యేఽహం తమేవ భావం చ తత్క్రతున్యాయాత్ ॥ ౮౯॥
ప్రాగుత్పత్తేస్త్వమిదం జగచ్చ సర్వం స్థితేరవస్థాయామ ।
ప్రలయావస్థాయాం త్వం ధ్యాయేయం కం కథం త్వదన్యమహమ్ ॥ ౧౦॥
కామతరఙ్గాభిహతం గభీరసంసారసాగరే మగ్నమ్ ।
విషయగ్రహగృహీతం భవాబ్ధిపోతస్త్వమేవ తారయ మామ్ ॥ ౯౧॥
బహు సుఖ దుఃఖమోహరూపప్రపఞ్చజాలాడ్కురప్రరోహార్హమ్ ।
మూలావిద్యాబీజం దగ్ధుం నాన్యద్వినా భవజ్జ్ఞానమ్ ॥ ౯౨॥
మాయావిలాసితమేతత్ ప్రపఞ్చజాలం న వస్తుతః కిఞ్జిత్ ।
న హి రజ్జుశుక్తికాదివ్యతిరేకేణాస్తి సర్పరజతాదిః ॥ ౯౩॥
తజ్జ్ఞానం మే సులభం యజ్ఞతపోదానసాధనాభావాత్ ।
త్వద్భక్తిమాత్రసాధనమతిదీనం మామనుగృహాణ విభో ॥ ౯౪॥
గన్ధర్వనగరకల్పం సర్వం స్వాప్నప్రవృత్తిసదృశఞ్చ ।
మాయామాత్రం మన్యే త్వద్వ్యతిరిక్తం త్వదేకతానోఽహమ్ ॥ ౯౫॥
అగ్రాహ్యోఽనిర్దేశ్యోఽచిన్యోఽతక్యోర్ఽప్రమేయమహిమా త్వం
విక్షిప్తచిత్తవృత్తిః ప్రభవేయమహం కథం మమ ద్ధ్యానే ॥ ౯౬॥
భూతభవద్భవ్యేషు త్వద్వ్యతిరిక్తః కదాపి నాసేఽహం నాసీయ
త్వద్భావాపత్తిస్ను భ్రమాపగమనాత్ సదా త్వదాత్మాహమ్ ॥ ౯౭॥
శఋఙ్గగ్రాహికయేదృశ ఆత్మేత్యుక్తౌ శ్రుతిస్త్వనీశానా ।
చకితా ప్రతిపాదయతి హ్యధ్యారోపాపవాదరీత్యా త్వామ్ ॥ ౯౮॥
త్వామేవాహం జానే త్వదన్యభావభ్రమాపగమనాయ ।
త్వద్భావభావితోఽహం న్యం న భోగ్యవర్గఞ్చ కామయే కమపి ॥ ౯౯॥
లమ్బోదర హేరమ్బ ద్వైమాతుర దన్తివదన వినేశ ।
అవ్యాజదయాసిన్ధో భక్తపరాధీన దీనజనబన్ధో ॥ ౧౦౦॥
భవతానుగ్రాహ్యోఽహం సంసృతిబన్ధాదహం ప్రముచ్యేయ ।
నాల్పేన లోభనీయః విషయానన్దం న చాభినన్దేయమ్ ॥ ౧౦౧॥
న స్వర్గస్వానన్దం కార్యస్వానన్దమప్యహం నేహే ।
ఆనన్దభవనమీయాం తద్విన్దేయం విదేహకైవల్యమ్ ॥ ౧౦౨॥
యద్యపి శుద్ధాద్వైతీ బాహ్యసుపూజనాదినాపి శైవోఽహమ్ ।
పరమాత్మభావితగణపతిభావః కదాపి మాపైతు ॥ ౧౦౩॥
శ్రుత్యాదిషు ప్రసిద్ధా గుణగణ గణపతి విభవా యథావదాఖ్యాతాః ।
కవిసమయసహజసిద్ధా వాచోయుక్తిః ప్రతాయతే న మయా ॥ ౧౦౪॥
యద్యపి గణపతిగుణగణవర్ణనమేవ ప్రధానతః ప్రకృతమ్ ।
మతవిమతనాన్తరీయకనిరూపణశ్చానుషఙ్గతో గ్రథితమ్ ॥ ౧౦౫॥
అత ఏవ పూర్వమేవ ప్రతిశ్రుతశ్లోకశతకతోఽప్యధికా ।
వినేశభిన్నవిషయప్రతిపాదనతత్పరాః కృతాః శ్లోకాః ॥ ౧౦౬॥
ఇతి నీలకణ్ఠశాస్త్రీ విద్వద్రత్నోపనామవాన్ విబుధః ।
శఙ్కరభగవత్పదస్థాపితషట్దర్శనీ సుసారజ్ఞః ॥ ౧౦౭॥
గామిషు భవత్సు సప్తదశాధికపఞ్చసహస్రేషు కలి యుగాబ్దేషు ।
అకరోద్గణేశశతకం తద్గుణలేశైః స్వవాగ్విశుధ్యర్థమ్ ॥ ౧౦౮॥
తం క్షామ్యన్తు మహాన్తో యది ప్రమాదప్రయుక్తదోషః స్యాత్ ।
జీయాదియం కృతిర్మే సుచిరం భూయాన్ముదే చ సిద్ధిపతేః ॥ ౧౦౯॥
సంసారదశాయామపి మోక్షదశాయాం తథైకరూపత్వమ్ ।
ఆత్మన ఉక్తోఽత ఏవ శాన్త బ్రహ్మప్రవాదిభిః సాఙ్ఖయైః ॥ ౧౧౦॥
మీమాంసకాస్తు కథయన్త్యాత్మాహమ్ప్రత్యయేన వేద్య ఇతి ।
అన్యే త్వన్యం సర్వం న వస్తుతః కిన్త్వపక్కసోపానమ్ ॥ ౧౧౧॥
విగతద్వైతాభాసో వేద్యాన్తరవిషయవృత్తిహీనోఽహమ్ ।
త్వదూపచిత్తవృత్తిః కిన్న భవేయం సదా త్వదాకారః ॥ ౧౧౨॥
నిరతిశయాన్దాత్మభవత్స్వరూపే మహాపయోరాశౌ ।
విషయానన్దో నార్హతి బిన్దశతతమాంశమాత్రమపి భవితుమ ॥ ౧౧౩॥
॥ ఇతి శ్రీవిద్వద్రత్నోపనామకేన వైయాకరణశిరోమణినా వైదికషడ్దర్శనీసారవేదినా
నీలకణ్ఠశాస్త్రిణా విరచితం గణేశోత్తరశతకం సమాప్తమ్ ।
Proofread by Gopalakrisnan
% Text title : Ganesha Uttarashatakam 06-32
% File name : gaNeshottarashatakam.itx
% itxtitle : gaNeshottarashatakam (nIlakaNThashAstriNA virachitam)
% engtitle : gaNeshottarashatakam
% Category : ganesha, shataka
% Location : doc_ganesha
% Sublocation : ganesha
% Author : nIlakaNThashAstri
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Gopalakrishnan
% Description/comments : See accompanying gaNeshapUrvashatakam, From stotrArNavaH 06-32
% Indexextra : (Scan, gaNeshapUrvashatakam)
% Latest update : September 10, 2021
% Send corrections to : (sanskrit at cheerful dot c om)
% Site access : https://sanskritdocuments.org