अस्य श्री गुरुगीता स्तोत्रमन्त्रस्य
भगवान् सदाशिव ऋषिः
नानाविधानि छन्दांसि
श्री गुरुपरमात्मा देवता
हं बीजम्
सः शक्तिः
क्रॐ कीलकम्
श्री गुरुप्रसादसिद्ध्यर्थे पाठे विनियोगः १
ध्यानम्
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैः
विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया २
तद्द्योतं पदशाम्भवं तु चरणं दीपाङ्कुरग्राहिणम्
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ३
ऋषय ऊचुः
गुह्याद्गुह्यधरा विद्या गुरुगीता विचेतसः
ब्रूहि नः सूत कृपया शृणुमद्वत्प्रसादकः ४
सूत उवाच
कैलास शिखरे रम्ये भक्तिसन्धाननायकम्
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ५
श्री देव्युवाच
ॐ नमो देवदेवेश परात्परजगद्गुरो
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ६
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत्
त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ७
ईश्वर उवाच
ममरूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम्
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ८
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम्
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ९
वेदशास्त्रपुराणानि इतिहासादिकानि च
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् १०
शैवशाक्तागमादीनि अन्यानि विविधानि च
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ११
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च
गुरुतत्त्वमविज्ञाय मूढास्ते आचरन्ति जनाः १२
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः १३
गूढ विद्या जगन्माया देहे चाज्ञानसम्भवा
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते १४
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्
देहि ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते १५
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत्
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः १६
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम्
गुरुपादोदकं सम्यक्संसारार्णवतारकम् १७
अज्ञानमूलहरणं जन्म कर्म निवारणम्
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् १८
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम्
गुरुमूर्तेः सदा ध्यानं गुरुमन्त्रं सदा जपेत् १९
काशी क्षेत्रं तन्निवासो जाह्नवी चरणोदकम्
गुरुर्विश्वेश्वरः साक्षात्तारकं ब्रह्म निश्चितम् २०
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः
तीर्थराजः प्रयागश्च गुरुमूर्त्यै नमो नमः २१
गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत्
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् २२
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः
गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा २३
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम्
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् २४
अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम्
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु २५
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः
गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते २६
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते
अज्ञानग्रासकं ब्रह्म गुरुदेव न संशयः २७
गुकारः प्रथमो वर्णो मायादिगुणभासकः
रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम् २८
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम्
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते २९
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ३०
साधकेन प्रदातव्यं गुरुसन्तोषकारकम्
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ३१
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ३२
शरीरमिन्द्रि यं प्राणां सद्गुरुभ्यो निवेदयेत्
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ३३
कृमिकीटभस्मविष्ठा दुर्गन्धिमलमूत्रकम्
श्लेष्मरक्तं त्वचा मांसं वञ्चयेन्न वरानने ३४
संसारवृक्षमारूढः पतन्तो नरकार्णवे
येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ३५
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ३६
हेतवे जगतामेव संसारार्णवसेतवे
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ३७
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ३८
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ३९
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत्
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ४०
यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ४१
येन चेतयते हीदं चित्तं चेतयते न यम्
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ४२
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः
सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ४३
यस्यामतं तस्य मतं मतं यस्य न वेद सः
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ४४
यस्य कारणरूपस्य कार्यरूपेण भाति यत्
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ४५
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता
कार्यकारणता चैव तस्मै श्रीगुरवे नमः ४६
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम्
तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ४७
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ४८
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम्
गुकारं च गुणातीतं रुकारं रूपवर्जितम्
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ४९
अत्रिनेत्रः सर्वसाक्षी अचतुर्बाहुरच्युतः
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ५०
अयं मयाञ्जलिर्बद्धो दया सागरवृद्धये
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ५१
श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम्
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ५२
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते
तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ५३
तस्यै दिशे सततमञ्जलिरेष आर्ये
प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च
जागर्ति यत्र भगवान्गुरुचक्रवर्ती
विश्वोदय प्रलयनाटकनित्यसाक्षी ५४
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलं
वीरान्द्व्यष्टचतुष्क षष्टि नवकं वीरावली पञ्चकं
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ५५
अभ्यस्तैः सकलैः सुदिर्घमनिलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ५६
स्वदेशिकस्यैव शरीरचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम्
स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम् ५७
यत्पादरेणुकणिका कापि संसारवारिधेः
सेतुबन्धायते नाथं देशिकं तमुपास्महे ५८
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत्
तस्मै श्रीदेशिकेन्द्रा य नमश्चाभिष्टसिद्धये ५९
पादाब्जं सर्वसंसारदावानलविनाशकम्
ब्रह्मरन्ध्रे सिताम्भोजमध्यस्थं चन्द्र मण्डले ६०
अकथादित्रिरेखाब्जे सहस्रदलमण्डले
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ६१
सकलभुवनसृष्टिः कल्पिताशेषपुष्टिः
निखिलनिगमदृष्टिः सम्पदां व्यर्थदृष्टिः
अवगुणपरिमार्ष्टिस्तत्पदार्थैकदृष्टिः
भव गुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ६२
सकलभुवनरङ्गस्थापना स्तम्भयस्तिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः
सकलसमयसृष्टिः सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ६३
अग्निशुद्धसमन्ताच्च ज्वाला परिचकाधिया
मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ६४
तदेजति तन्नैजति तद्दूरे तत्समीपके
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ६५
अजोऽहमजरोऽहं च
अनादिनिधनः स्वयम्
अविकारश्चिदानन्द
अणीयान्महतो महान् ६६
अपूर्वाणां परं नित्यं स्वयञ्ज्योतिर्निरामयम्
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ६७
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम्
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् ६८
मनुञ्च यद्भवं कार्यं तद्वदामि महामते
साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति साम्प्रतम् ६९
अखण्डमण्डलाकारं व्याप्तं येन चराचरं
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ७०
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः
वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ७१
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयं
य एव सर्व सम्प्राप्तिस्तस्मै श्रीगुरवे नमः ७२
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम्
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ७३
स्थावरं जङ्गमं चैव तथा चैव चराचरम्
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ७४
ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः
भुक्तिमुक्तिप्रदाताय तस्मै श्रीगुरवे नमः ७५
अनेकजन्मसम्प्राप्तसर्वकर्मविदाहिने
स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ७६
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ७७
मन्नाथः श्रीजगन्नाथो मद्गुरुश्श्रीजगद्गुरुः
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ७८
ध्यानमूलं गुरोर्मूर्तिः पूजा मूलं गुरोः पदम्
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ७९
गुरुरादिरनादिश्च गुरुः परमदैवतम्
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ८०
सप्तसागरपर्यन्त तीर्थस्नानादिकं फलम्
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम् ८१
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ८२
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम्
गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ८३
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ८४
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः
मनसा वचसा चैव नित्यमाराधयेद्गुरुम् ८५
गुरोः कृपा प्रसादेन ब्रह्मविष्णुसदाशिवाः
समर्थाः प्रभवादौ च केवलं गुरुसेवया ८६
देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ८७
महाहङ्कारगर्वेण तपो विद्या बलान्विताः
संसारकुहरावर्ते घटयन्त्रे यथा घटाः ८८
न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः
ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखाः ८९
ध्यानं शृणु महादेवि सर्वानन्दप्रदायकम्
सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ९०
श्रीमत्परब्रह्मगुरुं स्मरामि श्रीमत्परब्रह्मगुरुं वदामि
श्रीमत्परब्रह्मगुरुं नमामि श्रीमत्परब्रह्मगुरुं भजामि ९१
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ९२
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भवातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ९३
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ९४
हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम्
ध्यायेद्गुरुं चन्द्र कलाप्रकाशं चित्पुस्तकाभिष्टवरं दधानम् ९५
श्वेताम्बरं श्वेतविलेपपुष्पं मुक्ता विभूषं मुदितं द्विनेत्रम्
वामाङ्कपीठस्थितदिव्यशक्तिं मन्दस्मितं सान्द्र कृपानिधानम् ९६
आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम्
योगीन्द्र मीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ९७
यस्मिन्सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम्
कृत्यं पञ्चविधं शश्वद्भासते तं नमाम्यहम् ९८
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम्
वराभययुतं शान्तं स्मरेत्तं नामपूर्वकम् ९९
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः १००
इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं
मम शासनतो मम शासनतो मम शासनतो मम शासनतः १०१
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम्
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् १०२
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत्
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् १०३
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते
ज्ञानं ज्ञेयसमं कुर्यान्नान्यः पन्था द्वितीयकः १०४
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः
स याति नरकं घोरं यावच्चन्द्र दिवाकरौ १०५
यावत्कल्पान्तको देहस्तावदेव गुरुं स्मरेत्
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् १०६
हुङ्कारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथञ्चन
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन १०७
गुरुं त्वङ्कृत्य हुङ्कृत्य गुरुं निर्जित्य वादतः
अरण्ये निर्जले देशे स भवेद्ब्रह्मराक्षसः १०८
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि
कालमृत्युभयाद्वापि गुरुरक्षति पार्वति १०९
अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा
गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ११०
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम्
स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् १११
श्रुतिस्मृती अविज्ञाय केवलं गुरुसेवकाः
ते वै सन्न्यासिनः प्रोक्ता इतरे वेषधारिणः ११२
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत्परम्
सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ११३
गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत्
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ११४
आब्रह्म स्तम्बपर्यन्तं परमात्मस्वरूपकम्
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ११५
वन्देऽहं सच्चिदानन्दं भेदातीतं सदा गुरुम्
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ११६
परात्परतरं ध्येयं नित्यमानन्दकारकम्
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ११७
स्फटिकप्रतिमा रूपं दृश्यते दर्पणे यथा
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ११८
अङ्गुष्ठमात्र पुरुषं ध्यायतश्चिन्मयं हृदि
तत्र स्फुरति भावो यः शृणु तं कथयाम्यहम् ११९
अगोचरं तथाऽगम्यं नामरूपविवर्जितम्
निःशब्दं तद्विजानीयात्स्वभावं ब्रह्म पार्वति १२०
यथा गन्धः स्वभावेन कर्पूरकुसुमादिषु
शीतोष्णादि स्वभावेन तथा ब्रह्म च शाश्वतम् १२१
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित्
कीतभ्रमरवत्तत्र ध्यानं भवति तादृशम् १२२
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत्
पिण्डे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः १२३
श्रीपार्वत्युवाच
पिण्डं किं तु महादेव पदं किं समुदाहृतम्
रूपातीतं च रूपं किमेतदाख्याहि शङ्कर १२४
श्री महादेव उवाच
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम्
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् १२५
पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः १२६
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत्
परात्परतरं नान्यत्सर्वमेतन्निरालयम् १२७
तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः
एकाकी निःस्पृहः शान्तस्तिष्ठासेत्तत्प्रसादतः १२८
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा
निष्कामेनैव भोक्तव्यं सदा सन्तुष्टचेतसा १२९
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः
सदानन्दः सदा शान्तो रमते यत्रकुत्रचित् १३०
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम्
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया १३१
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् १३२
अनेन यद्भवेत्कार्यं तद्वदामि महामते
लोकोपकारकं देवि लौकिकं तु न भावयेत् १३३
लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम्
ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् १३४
इदं तु भक्तिभावेन पठते शृणुते यदि
लिखित्वा तत्प्रदातव्यं तत्सर्वं सफलं भवेत् १३५
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम्
भव व्याधिविनाशार्थं स्वयमेव जपेत्सदा १३६
गुरुगीताक्षरैकं तु मन्त्रराजमिमं जपेत्
अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोडशीम् १३७
अनन्तफलमाप्नोति गुरुगीता जपेन तु
सर्वपापप्रशमनं सर्वदारिद्र य्नाशनम् १३८
कालमृत्युभयहरं सर्वसङ्कटनाशनम्
यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् १३९
महा व्याधि हरं सर्वं विभूतिसिद्धिदं भवेत्
अथवा मोहनं वश्यं स्वयमेव जपेत्सदा १४०
वस्त्रासने च दारिद्र यं\! पाषाणे रोगसम्भवः
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् १४१
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्री व्याघ्रचर्मणि
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले १४२
कुशैर्वा दूर्वया देवि आसने शुभ्रकम्बले
उपविश्य ततो देवि जपेदेकाग्रमानसः १४३
ध्येयं शुक्लं च शान्त्यर्थं वश्ये रक्तासनं प्रिये
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे १४४
उत्तरे शान्तिकामस्तु वश्ये पूर्वमुखो जपेत्
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः १४५
मोहनं सर्वभूतानां बन्धमोक्षकरं भवेत्
देवराजप्रियकरं सर्वलोकवशं भवेत् १४६
सर्वेषां स्तम्भनकरं गुणानां च विवर्धनम्
दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् १४७
असिद्धं साधयेत्कार्यं नवग्रहभयापहम्
दुःस्वप्ननाशनं चैव सुस्वप्न फलदायकम् १४८
सर्वशान्तिकरं नित्यं तथा वन्ध्यासुपुत्रदम्
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा १४९
आयुरारोग्यमैश्वर्यपुत्रपौत्रप्रवर्धनम्
अकामतः स्त्री विधवा जपान्मोक्षमवाप्नुयात् १५०
अवैधव्यं सकामा तु लभते चान्यजन्मनि
सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम् १५१
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम्
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् १५२
कामितस्य कामधेनुः कल्पना कल्पपादपः
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् १५३
मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात्
भोगकामो जपेद्यो वै तस्य कामफलप्रदम् १५४
जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः १५५
अथ काम्यजपे स्थानं कथयामि वरानने
सागरे वा सरित्तीरेऽथवा हरिहरालये १५६
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे
वटे च धात्रीमूले वा मठे वृन्दावने तथा १५७
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा
निवेदनेन मौनेन जपमेतं समाचरेत् १५८
श्मसाने भयभूमौ तु वटमूलान्तिके तथा
सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ १५९
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा
शुभकर्माणि सर्वाणि दीक्षा व्रततपांसि च १६०
संसारमलनाशार्थं भव पाशनिवृत्तये
गुरुगीताम्भसिस्नानं तत्त्वज्ञः कुरुते सदा १६१
स एव च गुरुः साक्षात्सदा सद्ब्रह्मवित्तमः
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः १६२
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति
तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि १६३
आसनस्थः शयानो वा गच्छंस्तिष्ठन्वदन्नपि
अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा १६४
शुचिष्मंश्च सदा ज्ञानी गुरुगीता जपेन तु
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते १६५
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतं
भिन्ने कुम्भे यथाकाशस्तथात्मा परमात्मनि १६६
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् १६७
एवंविधो महामुक्तः सर्वदा वर्तते बुधः
तस्य सर्वप्रयत्नेन भावभक्तिं करोति यः १६८
सर्वसन्देहरहितो मुक्तो भवति पार्वति
भुक्तिमुक्तिद्वयं तस्य जिह्वाग्रे च सरस्वति १६९
अनेन प्राणिनः सर्वे गुरुगीता जपेन तु
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः १७०
सत्यं सत्यं पुनः सत्यं धर्म्यं साङ्ख्यं मयोदितं
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने १७१
एको देव एकधर्म एक निष्ठा परं तपः
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् १७२
माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा १७३
शरीरमिन्द्रि यं प्राणाश्चार्थः स्वजनबान्धवाः
माता पिता कुलं देवि गुरुरेव न संशयः १७४
आकल्पजन्मना कोट्या जपव्रत तपः क्रियाः
तत्सर्वं सफलं देवि गुरुसन्तोषमात्रतः १७५
विद्यातपो बलेनैव मन्दभाग्याश्च ये नराः
गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने १७६
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः
सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः १७७
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम्
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते १७८
जपेन जयमाप्नोति चानन्तफलमाप्नुयात्
हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च १७९
जपं हीनासनं कुर्वन्हीनकर्म फलप्रदम्
गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे १८०
जपञ्जयमवाप्नोति मरणे मुक्तिदायकम्
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति १८१
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया
सुगोप्यं च प्रयत्नेन मम त्वं च प्रिया त्विति १८२
स्वामि मुख्यगणेशादि विष्ण्वादीनां च पार्वति
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् १८३
अतीव पक्वचित्ताय श्रद्धा भक्तियुताय च
प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये १८४
अभक्ते वञ्चके धूर्ते पाखण्डे नास्तिके नरे
मनसापि न वक्तव्या गुरुगीता कदाचन १८५
संसारसागरसमुद्धरणैकमन्त्रम्
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्
दारिद्र य्दुःखभवरोगविनाशमन्त्रम्
वन्दे महाभयहरं गुरुराजमन्त्रम् १८६
श्री गुरुदेव चरणार्पणमस्तु
êhr´ Guru G´tŒ, Transliteration and English Translations, (Ganeshpuri:
Shree Gurudev Ashram).
అస్య శ్రీ గురుగీతా స్తోత్రమన్త్రస్య
భగవాన్ సదాశివ ఋషిః
నానావిధాని ఛన్దాంసి
శ్రీ గురుపరమాత్మా దేవతా
హం బీజమ్
సః శక్తిః
క్రఓం కీలకమ్
శ్రీ గురుప్రసాదసిద్ధ్యర్థే పాఠే వినియోగః ౧
ధ్యానమ్
హంసాభ్యాం పరివృత్తపత్రకమలైర్దివ్యైర్జగత్కారణైః
విశ్వోత్కీర్ణమనేకదేహనిలయైః స్వచ్ఛన్దమాత్మేచ్ఛయా ౨
తద్ద్యోతం పదశామ్భవం తు చరణం దీపాఙ్కురగ్రాహిణమ్
ప్రత్యక్షాక్షరవిగ్రహం గురుపదం ధ్యాయేద్విభుం శాశ్వతమ్ ౩
ఋషయ ఊచుః
గుహ్యాద్గుహ్యధరా విద్యా గురుగీతా విచేతసః
బ్రూహి నః సూత కృపయా శృణుమద్వత్ప్రసాదకః ౪
సూత ఉవాచ
కైలాస శిఖరే రమ్యే భక్తిసన్ధాననాయకమ్
ప్రణమ్య పార్వతీ భక్త్యా శఙ్కరం పర్యపృచ్ఛత ౫
శ్రీ దేవ్యువాచ
ఓం నమో దేవదేవేశ పరాత్పరజగద్గురో
సదాశివ మహాదేవ గురుదీక్షాం ప్రదేహి మే ౬
కేన మార్గేణ భో స్వామిన్ దేహీ బ్రహ్మమయో భవేత్
త్వం కృపాం కురు మే స్వామిన్ నమామి చరణౌ తవ ౭
ఈశ్వర ఉవాచ
మమరూపాసి దేవి త్వం త్వత్ప్రీత్యర్థం వదామ్యహమ్
లోకోపకారకః ప్రశ్నో న కేనాపి కృతః పురా ౮
దుర్లభం త్రిషు లోకేషు తచ్ఛృణుష్వ వదామ్యహమ్
గురుం వినా బ్రహ్మ నాన్యత్సత్యం సత్యం వరాననే ౯
వేదశాస్త్రపురాణాని ఇతిహాసాదికాని చ
మన్త్రయన్త్రాదివిద్యాశ్చ స్మృతిరుచ్చాటనాదికమ్ ౧౦
శైవశాక్తాగమాదీని అన్యాని వివిధాని చ
అపభ్రంశకరాణీహ జీవానాం భ్రాన్తచేతసామ్ ౧౧
యజ్ఞో వ్రతం తపో దానం జపస్తీర్థం తథైవ చ
గురుతత్త్వమవిజ్ఞాయ మూఢాస్తే ఆచరన్తి జనాః ౧౨
గురుర్బుద్ధ్యాత్మనో నాన్యత్సత్యం సత్యం న సంశయః
తల్లాభార్థం ప్రయత్నస్తు కర్తవ్యో హి మనీషిభిః ౧౩
గూఢ విద్యా జగన్మాయా దేహే చాజ్ఞానసమ్భవా
ఉదయో యత్ప్రకాశేన గురుశబ్దేన కథ్యతే ౧౪
సర్వపాపవిశుద్ధాత్మా శ్రీగురోః పాదసేవనాత్
దేహి బ్రహ్మ భవేద్యస్మాత్త్వత్కృపార్థం వదామి తే ౧౫
గురుపాదామ్బుజం స్మృత్వా జలం శిరసి ధారయేత్
సర్వతీర్థావగాహస్య సమ్ప్రాప్నోతి ఫలం నరః ౧౬
శోషణం పాపపఙ్కస్య దీపనం జ్ఞానతేజసామ్
గురుపాదోదకం సమ్యక్సంసారార్ణవతారకమ్ ౧౭
అజ్ఞానమూలహరణం జన్మ కర్మ నివారణమ్
జ్ఞానవైరాగ్యసిద్ధ్యర్థం గురుపాదోదకం పిబేత్ ౧౮
గురోః పాదోదకం పీత్వా గురోరుచ్ఛిష్టభోజనమ్
గురుమూర్తేః సదా ధ్యానం గురుమన్త్రం సదా జపేత్ ౧౯
కాశీ క్షేత్రం తన్నివాసో జాహ్నవీ చరణోదకమ్
గురుర్విశ్వేశ్వరః సాక్షాత్తారకం బ్రహ్మ నిశ్చితమ్ ౨౦
గురోః పాదోదకం యత్తు గయాఽసౌ సోఽక్షయో వటః
తీర్థరాజః ప్రయాగశ్చ గురుమూర్త్యై నమో నమః ౨౧
గురుమూర్తిం స్మరేన్నిత్యం గురునామ సదా జపేత్
గురోరాజ్ఞాం ప్రకుర్వీత గురోరన్యన్న భావయేత్ ౨౨
గురువక్త్రస్థితం బ్రహ్మ ప్రాప్యతే తత్ప్రసాదతః
గురోర్ధ్యానం సదా కుర్యాత్కులస్త్రీ స్వపతేర్యథా ౨౩
స్వాశ్రమం చ స్వజాతిం చ స్వకీర్తిపుష్టివర్ధనమ్
ఏతత్సర్వం పరిత్యజ్య గురోరన్యన్న భావయేత్ ౨౪
అనన్యాశ్చిన్తయన్తో మాం సులభం పరమం పదమ్
తస్మాత్సర్వప్రయత్నేన గురోరారాధనం కురు ౨౫
త్రైలోక్యే స్ఫుటవక్తారో దేవాద్యసురపన్నగాః
గురువక్త్రస్థితా విద్యా గురుభక్త్యా తు లభ్యతే ౨౬
గుకారస్త్వన్ధకారశ్చ రుకారస్తేజ ఉచ్యతే
అజ్ఞానగ్రాసకం బ్రహ్మ గురుదేవ న సంశయః ౨౭
గుకారః ప్రథమో వర్ణో మాయాదిగుణభాసకః
రుకారో ద్వితీయో బ్రహ్మ మాయా భ్రాన్తి వినాశనమ్ ౨౮
ఏవం గురుపదం శ్రేష్ఠం దేవానామపి దుర్లభమ్
హాహా హూహూ గణైశ్చైవ గన్ధర్వైశ్చ ప్రపూజ్యతే ౨౯
ధ్రువం తేషాం చ సర్వేషాం నాస్తి తత్త్వం గురోః పరమ్
ఆసనం శయనం వస్త్రం భూషణం వాహనాదికమ్ ౩౦
సాధకేన ప్రదాతవ్యం గురుసన్తోషకారకమ్
గురోరారాధనం కార్యం స్వజీవిత్వం నివేదయేత్ ౩౧
కర్మణా మనసా వాచా నిత్యమారాధయేద్గురుమ్
దీర్ఘదణ్డం నమస్కృత్య నిర్లజ్జో గురుసన్నిధౌ ౩౨
శరీరమిన్ద్రి యం ప్రాణాం సద్గురుభ్యో నివేదయేత్
ఆత్మదారాదికం సర్వం సద్గురుభ్యో నివేదయేత్ ౩౩
కృమికీటభస్మవిష్ఠా దుర్గన్ధిమలమూత్రకమ్
శ్లేష్మరక్తం త్వచా మాంసం వఞ్చయేన్న వరాననే ౩౪
సంసారవృక్షమారూఢః పతన్తో నరకార్ణవే
యేన చైవోద్ధృతాః సర్వే తస్మై శ్రీగురవే నమః ౩౫
గురుర్బ్రహ్మా గురుర్విష్ణుర్గురుర్దేవో మహేశ్వరః
గురురేవ పరబ్రహ్మ తస్మై శ్రీగురవే నమః ౩౬
హేతవే జగతామేవ సంసారార్ణవసేతవే
ప్రభవే సర్వవిద్యానాం శమ్భవే గురవే నమః ౩౭
అజ్ఞానతిమిరాన్ధస్య జ్ఞానాఞ్జనశలాకయా
చక్షురున్మీలితం యేన తస్మై శ్రీగురవే నమః ౩౮
త్వం పితా త్వం చ మే మాతా త్వం బన్ధుస్త్వం చ దేవతా
సంసారప్రతిబోధార్థం తస్మై శ్రీగురవే నమః ౩౯
యత్సత్యేన జగత్సత్యం యత్ప్రకాశేన భాతి తత్
యదానన్దేన నన్దన్తి తస్మై శ్రీగురవే నమః ౪౦
యస్య స్థిత్యా సత్యమిదం యద్భాతి భానురూపతః
ప్రియం పుత్రాది యత్ప్రీత్యా తస్మై శ్రీగురవే నమః ౪౧
యేన చేతయతే హీదం చిత్తం చేతయతే న యమ్
జాగ్రత్స్వప్నసుషుప్త్యాది తస్మై శ్రీగురవే నమః ౪౨
యస్య జ్ఞానాదిదం విశ్వం న దృశ్యం భిన్నభేదతః
సదేకరూపరూపాయ తస్మై శ్రీగురవే నమః ౪౩
యస్యామతం తస్య మతం మతం యస్య న వేద సః
అనన్యభావభావాయ తస్మై శ్రీగురవే నమః ౪౪
యస్య కారణరూపస్య కార్యరూపేణ భాతి యత్
కార్యకారణరూపాయ తస్మై శ్రీగురవే నమః ౪౫
నానారూపమిదం సర్వం న కేనాప్యస్తి భిన్నతా
కార్యకారణతా చైవ తస్మై శ్రీగురవే నమః ౪౬
యదఙ్ఘ్రికమలద్వన్ద్వం ద్వన్ద్వతాపనివారకమ్
తారకం సర్వదాఽపద్భ్యః శ్రీగురుం ప్రణమామ్యహమ్ ౪౭
శివే క్రుద్ధే గురుస్త్రాతా గురౌ క్రుద్ధే శివో న హి
తస్మాత్సర్వప్రయత్నేన శ్రీగురుం శరణం వ్రజేత్ ౪౮
వన్దే గురుపదద్వన్ద్వం వాఙ్మనశ్చిత్తగోచరమ్
శ్వేతరక్తప్రభాభిన్నం శివశక్త్యాత్మకం పరమ్
గుకారం చ గుణాతీతం రుకారం రూపవర్జితమ్
గుణాతీతస్వరూపం చ యో దద్యాత్స గురుః స్మృతః ౪౯
అత్రినేత్రః సర్వసాక్షీ అచతుర్బాహురచ్యుతః
అచతుర్వదనో బ్రహ్మా శ్రీగురుః కథితః ప్రియే ౫౦
అయం మయాఞ్జలిర్బద్ధో దయా సాగరవృద్ధయే
యదనుగ్రహతో జన్తుశ్చిత్రసంసారముక్తిభాక్ ౫౧
శ్రీగురోః పరమం రూపం వివేకచక్షుషోఽమృతమ్
మన్దభాగ్యా న పశ్యన్తి అన్ధాః సూర్యోదయం యథా ౫౨
శ్రీనాథచరణద్వన్ద్వం యస్యాం దిశి విరాజతే
తస్యై దిశే నమస్కుర్యాద్భక్త్యా ప్రతిదినం ప్రియే ౫౩
తస్యై దిశే సతతమఞ్జలిరేష ఆర్యే
ప్రక్షిప్యతే ముఖరితో మధుపైర్బుధైశ్చ
జాగర్తి యత్ర భగవాన్గురుచక్రవర్తీ
విశ్వోదయ ప్రలయనాటకనిత్యసాక్షీ ౫౪
శ్రీనాథాది గురుత్రయం గణపతిం పీఠత్రయం భైరవం
సిద్ధౌఘం బటుకత్రయం పదయుగం దూతీక్రమం మణ్డలం
వీరాన్ద్వ్యష్టచతుష్క షష్టి నవకం వీరావలీ పఞ్చకం
శ్రీమన్మాలినిమన్త్రరాజసహితం వన్దే గురోర్మణ్డలమ్ ౫౫
అభ్యస్తైః సకలైః సుదిర్ఘమనిలైర్వ్యాధిప్రదైర్దుష్కరైః
ప్రాణాయామశతైరనేకకరణైర్దుఃఖాత్మకైర్దుర్జయైః
యస్మిన్నభ్యుదితే వినశ్యతి బలీ వాయుః స్వయం తత్క్షణాత్
ప్రాప్తుం తత్సహజం స్వభావమనిశం సేవధ్వమేకం గురుమ్ ౫౬
స్వదేశికస్యైవ శరీరచిన్తనం భవేదనన్తస్య శివస్య చిన్తనమ్
స్వదేశికస్యైవ చ నామకీర్తనం భవేదనన్తస్య శివస్య కీర్తనమ్ ౫౭
యత్పాదరేణుకణికా కాపి సంసారవారిధేః
సేతుబన్ధాయతే నాథం దేశికం తముపాస్మహే ౫౮
యస్మాదనుగ్రహం లబ్ధ్వా మహదజ్ఞానముత్సృజేత్
తస్మై శ్రీదేశికేన్ద్రా య నమశ్చాభిష్టసిద్ధయే ౫౯
పాదాబ్జం సర్వసంసారదావానలవినాశకమ్
బ్రహ్మరన్ధ్రే సితామ్భోజమధ్యస్థం చన్ద్ర మణ్డలే ౬౦
అకథాదిత్రిరేఖాబ్జే సహస్రదలమణ్డలే
హంసపార్శ్వత్రికోణే చ స్మరేత్తన్మధ్యగం గురుమ్ ౬౧
సకలభువనసృష్టిః కల్పితాశేషపుష్టిః
నిఖిలనిగమదృష్టిః సమ్పదాం వ్యర్థదృష్టిః
అవగుణపరిమార్ష్టిస్తత్పదార్థైకదృష్టిః
భవ గుణపరమేష్టిర్మోక్షమార్గైకదృష్టిః ౬౨
సకలభువనరఙ్గస్థాపనా స్తమ్భయస్తిః
సకరుణరసవృష్టిస్తత్త్వమాలాసమష్టిః
సకలసమయసృష్టిః సచ్చిదానన్దదృష్టిః
నివసతు మయి నిత్యం శ్రీగురోర్దివ్యదృష్టిః ౬౩
అగ్నిశుద్ధసమన్తాచ్చ జ్వాలా పరిచకాధియా
మన్త్రరాజమిమం మన్యేఽహర్నిశం పాతు మృత్యుతః ౬౪
తదేజతి తన్నైజతి తద్దూరే తత్సమీపకే
తదన్తరస్య సర్వస్య తదు సర్వస్య బాహ్యతః ౬౫
అజోఽహమజరోఽహం చ
అనాదినిధనః స్వయమ్
అవికారశ్చిదానన్ద
అణీయాన్మహతో మహాన్ ౬౬
అపూర్వాణాం పరం నిత్యం స్వయఞ్జ్యోతిర్నిరామయమ్
విరజం పరమాకాశం ధ్రువమానన్దమవ్యయమ్ ౬౭
శ్రుతిః ప్రత్యక్షమైతిహ్యమనుమానశ్చతుష్టయమ్
యస్య చాత్మతపో వేద దేశికం చ సదా స్మరేత్ ౬౮
మనుఞ్చ యద్భవం కార్యం తద్వదామి మహామతే
సాధుత్వం చ మయా దృష్ట్వా త్వయి తిష్ఠతి సామ్ప్రతమ్ ౬౯
అఖణ్డమణ్డలాకారం వ్యాప్తం యేన చరాచరం
తత్పదం దర్శితం యేన తస్మై శ్రీగురవే నమః ౭౦
సర్వశ్రుతిశిరోరత్నవిరాజితపదామ్బుజః
వేదాన్తామ్బుజసూర్యో యస్తస్మై శ్రీగురవే నమః ౭౧
యస్య స్మరణమాత్రేణ జ్ఞానముత్పద్యతే స్వయం
య ఏవ సర్వ సమ్ప్రాప్తిస్తస్మై శ్రీగురవే నమః ౭౨
చైతన్యం శాశ్వతం శాన్తం వ్యోమాతీతం నిరఞ్జనమ్
నాదబిన్దుకలాతీతం తస్మై శ్రీగురవే నమః ౭౩
స్థావరం జఙ్గమం చైవ తథా చైవ చరాచరమ్
వ్యాప్తం యేన జగత్సర్వం తస్మై శ్రీగురవే నమః ౭౪
జ్ఞానశక్తిసమారూఢస్తత్త్వమాలా విభూషితః
భుక్తిముక్తిప్రదాతాయ తస్మై శ్రీగురవే నమః ౭౫
అనేకజన్మసమ్ప్రాప్తసర్వకర్మవిదాహినే
స్వాత్మజ్ఞానప్రభావేణ తస్మై శ్రీగురవే నమః ౭౬
న గురోరధికం తత్త్వం న గురోరధికం తపః
తత్త్వం జ్ఞానాత్పరం నాస్తి తస్మై శ్రీగురవే నమః ౭౭
మన్నాథః శ్రీజగన్నాథో మద్గురుశ్శ్రీజగద్గురుః
మమాత్మా సర్వభూతాత్మా తస్మై శ్రీగురవే నమః ౭౮
ధ్యానమూలం గురోర్మూర్తిః పూజా మూలం గురోః పదమ్
మన్త్రమూలం గురోర్వాక్యం మోక్షమూలం గురోః కృపా ౭౯
గురురాదిరనాదిశ్చ గురుః పరమదైవతమ్
గురోః పరతరం నాస్తి తస్మై శ్రీగురవే నమః ౮౦
సప్తసాగరపర్యన్త తీర్థస్నానాదికం ఫలమ్
గురోరఙ్ఘ్రిపయోబిన్దుసహస్రాంశే న దుర్లభమ్ ౮౧
హరౌ రుష్టే గురుస్త్రాతా గురౌ రుష్టే న కశ్చన
తస్మాత్సర్వప్రయత్నేన శ్రీగురుం శరణం వ్రజేత్ ౮౨
గురురేవ జగత్సర్వం బ్రహ్మవిష్ణుశివాత్మకమ్
గురోః పరతరం నాస్తి తస్మాత్సమ్పూజయేద్గురుమ్ ౮౩
జ్ఞానం విజ్ఞానసహితం లభ్యతే గురుభక్తితః
గురోః పరతరం నాస్తి ధ్యేయోఽసౌ గురుమార్గిభిః ౮౪
యస్మాత్పరతరం నాస్తి నేతి నేతీతి వై శ్రుతిః
మనసా వచసా చైవ నిత్యమారాధయేద్గురుమ్ ౮౫
గురోః కృపా ప్రసాదేన బ్రహ్మవిష్ణుసదాశివాః
సమర్థాః ప్రభవాదౌ చ కేవలం గురుసేవయా ౮౬
దేవకిన్నరగన్ధర్వాః పితరో యక్షచారణాః
మునయోఽపి న జానన్తి గురుశుశ్రూషణే విధిమ్ ౮౭
మహాహఙ్కారగర్వేణ తపో విద్యా బలాన్వితాః
సంసారకుహరావర్తే ఘటయన్త్రే యథా ఘటాః ౮౮
న ముక్తా దేవగన్ధర్వాః పితరో యక్షకిన్నరాః
ఋషయః సర్వసిద్ధాశ్చ గురుసేవా పరాఙ్ముఖాః ౮౯
ధ్యానం శృణు మహాదేవి సర్వానన్దప్రదాయకమ్
సర్వసౌఖ్యకరం నిత్యం భుక్తిముక్తివిధాయకమ్ ౯౦
శ్రీమత్పరబ్రహ్మగురుం స్మరామి శ్రీమత్పరబ్రహ్మగురుం వదామి
శ్రీమత్పరబ్రహ్మగురుం నమామి శ్రీమత్పరబ్రహ్మగురుం భజామి ౯౧
బ్రహ్మానన్దం పరమసుఖదం కేవలం జ్ఞానమూర్తిమ్
ద్వన్ద్వాతీతం గగనసదృశం తత్త్వమస్యాదిలక్ష్యమ్ ౯౨
ఏకం నిత్యం విమలమచలం సర్వధీసాక్షిభూతం
భవాతీతం త్రిగుణరహితం సద్గురుం తం నమామి ౯౩
నిత్యం శుద్ధం నిరాభాసం నిరాకారం నిరఞ్జనమ్
నిత్యబోధం చిదానన్దం గురుం బ్రహ్మ నమామ్యహమ్ ౯౪
హృదమ్బుజే కర్ణికమధ్యసంస్థే సింహాసనే సంస్థితదివ్యమూర్తిమ్
ధ్యాయేద్గురుం చన్ద్ర కలాప్రకాశం చిత్పుస్తకాభిష్టవరం దధానమ్ ౯౫
శ్వేతామ్బరం శ్వేతవిలేపపుష్పం ముక్తా విభూషం ముదితం ద్వినేత్రమ్
వామాఙ్కపీఠస్థితదివ్యశక్తిం మన్దస్మితం సాన్ద్ర కృపానిధానమ్ ౯౬
ఆనన్దమానన్దకరం ప్రసన్నం జ్ఞానస్వరూపం నిజబోధయుక్తమ్
యోగీన్ద్ర మీడ్యం భవరోగవైద్యం శ్రీమద్గురుం నిత్యమహం నమామి ౯౭
యస్మిన్సృష్టిస్థితిధ్వంసనిగ్రహానుగ్రహాత్మకమ్
కృత్యం పఞ్చవిధం శశ్వద్భాసతే తం నమామ్యహమ్ ౯౮
ప్రాతః శిరసి శుక్లాబ్జే ద్వినేత్రం ద్విభుజం గురుమ్
వరాభయయుతం శాన్తం స్మరేత్తం నామపూర్వకమ్ ౯౯
న గురోరధికం న గురోరధికం న గురోరధికం న గురోరధికం
శివశాసనతః శివశాసనతః శివశాసనతః శివశాసనతః ౧౦౦
ఇదమేవ శివం త్విదమేవ శివం త్విదమేవ శివం త్విదమేవ శివం
మమ శాసనతో మమ శాసనతో మమ శాసనతో మమ శాసనతః ౧౦౧
ఏవంవిధం గురుం ధ్యాత్వా జ్ఞానముత్పద్యతే స్వయమ్
తత్సద్గురుప్రసాదేన ముక్తోఽహమితి భావయేత్ ౧౦౨
గురుదర్శితమార్గేణ మనఃశుద్ధిం తు కారయేత్
అనిత్యం ఖణ్డయేత్సర్వం యత్కిఞ్చిదాత్మగోచరమ్ ౧౦౩
జ్ఞేయం సర్వస్వరూపం చ జ్ఞానం చ మన ఉచ్యతే
జ్ఞానం జ్ఞేయసమం కుర్యాన్నాన్యః పన్థా ద్వితీయకః ౧౦౪
ఏవం శ్రుత్వా మహాదేవి గురునిన్దాం కరోతి యః
స యాతి నరకం ఘోరం యావచ్చన్ద్ర దివాకరౌ ౧౦౫
యావత్కల్పాన్తకో దేహస్తావదేవ గురుం స్మరేత్
గురులోపో న కర్తవ్యః స్వచ్ఛన్దో యది వా భవేత్ ౧౦౬
హుఙ్కారేణ న వక్తవ్యం ప్రాజ్ఞైః శిష్యైః కథఞ్చన
గురోరగ్రే న వక్తవ్యమసత్యం చ కదాచన ౧౦౭
గురుం త్వఙ్కృత్య హుఙ్కృత్య గురుం నిర్జిత్య వాదతః
అరణ్యే నిర్జలే దేశే స భవేద్బ్రహ్మరాక్షసః ౧౦౮
మునిభిః పన్నగైర్వాఽపి సురైర్వా శాపితో యది
కాలమృత్యుభయాద్వాపి గురురక్షతి పార్వతి ౧౦౯
అశక్తా హి సురాద్యాశ్చ అశక్తా మునయస్తథా
గురుశాపేన తే శీఘ్రం క్షయం యాన్తి న సంశయః ౧౧౦
మన్త్రరాజమిదం దేవి గురురిత్యక్షరద్వయమ్
స్మృతివేదార్థవాక్యేన గురుః సాక్షాత్పరం పదమ్ ౧౧౧
శ్రుతిస్మృతీ అవిజ్ఞాయ కేవలం గురుసేవకాః
తే వై సన్న్యాసినః ప్రోక్తా ఇతరే వేషధారిణః ౧౧౨
నిత్యం బ్రహ్మ నిరాకారం నిర్గుణం బోధయేత్పరమ్
సర్వం బ్రహ్మ నిరాభాసం దీపో దీపాన్తరం యథా ౧౧౩
గురోః కృపాప్రసాదేన ఆత్మారామం నిరీక్షయేత్
అనేన గురుమార్గేణ స్వాత్మజ్ఞానం ప్రవర్తతే ౧౧౪
ఆబ్రహ్మ స్తమ్బపర్యన్తం పరమాత్మస్వరూపకమ్
స్థావరం జఙ్గమం చైవ ప్రణమామి జగన్మయమ్ ౧౧౫
వన్దేఽహం సచ్చిదానన్దం భేదాతీతం సదా గురుమ్
నిత్యం పూర్ణం నిరాకారం నిర్గుణం స్వాత్మసంస్థితమ్ ౧౧౬
పరాత్పరతరం ధ్యేయం నిత్యమానన్దకారకమ్
హృదయాకాశమధ్యస్థం శుద్ధస్ఫటికసన్నిభమ్ ౧౧౭
స్ఫటికప్రతిమా రూపం దృశ్యతే దర్పణే యథా
తథాత్మని చిదాకారమానన్దం సోఽహమిత్యుత ౧౧౮
అఙ్గుష్ఠమాత్ర పురుషం ధ్యాయతశ్చిన్మయం హృది
తత్ర స్ఫురతి భావో యః శృణు తం కథయామ్యహమ్ ౧౧౯
అగోచరం తథాఽగమ్యం నామరూపవివర్జితమ్
నిఃశబ్దం తద్విజానీయాత్స్వభావం బ్రహ్మ పార్వతి ౧౨౦
యథా గన్ధః స్వభావేన కర్పూరకుసుమాదిషు
శీతోష్ణాది స్వభావేన తథా బ్రహ్మ చ శాశ్వతమ్ ౧౨౧
స్వయం తథావిధో భూత్వా స్థాతవ్యం యత్రకుత్రచిత్
కీతభ్రమరవత్తత్ర ధ్యానం భవతి తాదృశమ్ ౧౨౨
గురుధ్యానం తథా కృత్వా స్వయం బ్రహ్మమయో భవేత్
పిణ్డే పదే తథా రూపే ముక్తోఽసౌ నాత్ర సంశయః ౧౨౩
శ్రీపార్వత్యువాచ
పిణ్డం కిం తు మహాదేవ పదం కిం సముదాహృతమ్
రూపాతీతం చ రూపం కిమేతదాఖ్యాహి శఙ్కర ౧౨౪
శ్రీ మహాదేవ ఉవాచ
పిణ్డం కుణ్డలినీ శక్తిః పదం హంసముదాహృతమ్
రూపం బిన్దురితి జ్ఞేయం రూపాతీతం నిరఞ్జనమ్ ౧౨౫
పిణ్డే ముక్తా పదే ముక్తా రూపే ముక్తా వరాననే
రూపాతీతే తు యే ముక్తాస్తే ముక్తా నాత్ర సంశయః ౧౨౬
స్వయం సర్వమయో భూత్వా పరం తత్త్వం విలోకయేత్
పరాత్పరతరం నాన్యత్సర్వమేతన్నిరాలయమ్ ౧౨౭
తస్యావలోకనం ప్రాప్య సర్వసఙ్గవివర్జితః
ఏకాకీ నిఃస్పృహః శాన్తస్తిష్ఠాసేత్తత్ప్రసాదతః ౧౨౮
లబ్ధం వాఽథ న లబ్ధం వా స్వల్పం వా బహులం తథా
నిష్కామేనైవ భోక్తవ్యం సదా సన్తుష్టచేతసా ౧౨౯
సర్వజ్ఞపదమిత్యాహుర్దేహీ సర్వమయో బుధాః
సదానన్దః సదా శాన్తో రమతే యత్రకుత్రచిత్ ౧౩౦
యత్రైవ తిష్ఠతే సోఽపి స దేశః పుణ్యభాజనమ్
ముక్తస్య లక్షణం దేవి తవాగ్రే కథితం మయా ౧౩౧
ఉపదేశస్తథా దేవి గురుమార్గేణ ముక్తిదః
గురుభక్తిస్తథా ధ్యానం సకలం తవ కీర్తితమ్ ౧౩౨
అనేన యద్భవేత్కార్యం తద్వదామి మహామతే
లోకోపకారకం దేవి లౌకికం తు న భావయేత్ ౧౩౩
లౌకికాత్కర్మణో యాన్తి జ్ఞానహీనా భవార్ణవమ్
జ్ఞానీ తు భావయేత్సర్వం కర్మ నిష్కర్మ యత్కృతమ్ ౧౩౪
ఇదం తు భక్తిభావేన పఠతే శృణుతే యది
లిఖిత్వా తత్ప్రదాతవ్యం తత్సర్వం సఫలం భవేత్ ౧౩౫
గురుగీతాత్మకం దేవి శుద్ధతత్త్వం మయోదితమ్
భవ వ్యాధివినాశార్థం స్వయమేవ జపేత్సదా ౧౩౬
గురుగీతాక్షరైకం తు మన్త్రరాజమిమం జపేత్
అన్యే చ వివిధా మన్త్రాః కలాం నార్హన్తి షోడశీమ్ ౧౩౭
అనన్తఫలమాప్నోతి గురుగీతా జపేన తు
సర్వపాపప్రశమనం సర్వదారిద్ర య్నాశనమ్ ౧౩౮
కాలమృత్యుభయహరం సర్వసఙ్కటనాశనమ్
యక్షరాక్షసభూతానాం చోరవ్యాఘ్రభయాపహమ్ ౧౩౯
మహా వ్యాధి హరం సర్వం విభూతిసిద్ధిదం భవేత్
అథవా మోహనం వశ్యం స్వయమేవ జపేత్సదా ౧౪౦
వస్త్రాసనే చ దారిద్ర యం\! పాషాణే రోగసమ్భవః
మేదిన్యాం దుఃఖమాప్నోతి కాష్ఠే భవతి నిష్ఫలమ్ ౧౪౧
కృష్ణాజినే జ్ఞానసిద్ధిర్మోక్షశ్రీ వ్యాఘ్రచర్మణి
కుశాసనే జ్ఞానసిద్ధిః సర్వసిద్ధిస్తు కమ్బలే ౧౪౨
కుశైర్వా దూర్వయా దేవి ఆసనే శుభ్రకమ్బలే
ఉపవిశ్య తతో దేవి జపేదేకాగ్రమానసః ౧౪౩
ధ్యేయం శుక్లం చ శాన్త్యర్థం వశ్యే రక్తాసనం ప్రియే
అభిచారే కృష్ణవర్ణం పీతవర్ణం ధనాగమే ౧౪౪
ఉత్తరే శాన్తికామస్తు వశ్యే పూర్వముఖో జపేత్
దక్షిణే మారణం ప్రోక్తం పశ్చిమే చ ధనాగమః ౧౪౫
మోహనం సర్వభూతానాం బన్ధమోక్షకరం భవేత్
దేవరాజప్రియకరం సర్వలోకవశం భవేత్ ౧౪౬
సర్వేషాం స్తమ్భనకరం గుణానాం చ వివర్ధనమ్
దుష్కర్మనాశనం చైవ సుకర్మసిద్ధిదం భవేత్ ౧౪౭
అసిద్ధం సాధయేత్కార్యం నవగ్రహభయాపహమ్
దుఃస్వప్ననాశనం చైవ సుస్వప్న ఫలదాయకమ్ ౧౪౮
సర్వశాన్తికరం నిత్యం తథా వన్ధ్యాసుపుత్రదమ్
అవైధవ్యకరం స్త్రీణాం సౌభాగ్యదాయకం సదా ౧౪౯
ఆయురారోగ్యమైశ్వర్యపుత్రపౌత్రప్రవర్ధనమ్
అకామతః స్త్రీ విధవా జపాన్మోక్షమవాప్నుయాత్ ౧౫౦
అవైధవ్యం సకామా తు లభతే చాన్యజన్మని
సర్వదుఃఖభయం విఘ్నం నాశయేచ్ఛాపహారకమ్ ౧౫౧
సర్వబాధాప్రశమనం ధర్మార్థకామమోక్షదమ్
యం యం చిన్తయతే కామం తం తం ప్రాప్నోతి నిశ్చితమ్ ౧౫౨
కామితస్య కామధేనుః కల్పనా కల్పపాదపః
చిన్తామణిశ్చిన్తితస్య సర్వమఙ్గలకారకమ్ ౧౫౩
మోక్షహేతుర్జపేన్నిత్యం మోక్షశ్రియమవాప్నుయాత్
భోగకామో జపేద్యో వై తస్య కామఫలప్రదమ్ ౧౫౪
జపేచ్ఛాక్తశ్చ సౌరశ్చ గాణపత్యశ్చ వైష్ణవః
శైవశ్చ సిద్ధిదం దేవి సత్యం సత్యం న సంశయః ౧౫౫
అథ కామ్యజపే స్థానం కథయామి వరాననే
సాగరే వా సరిత్తీరేఽథవా హరిహరాలయే ౧౫౬
శక్తిదేవాలయే గోష్ఠే సర్వదేవాలయే శుభే
వటే చ ధాత్రీమూలే వా మఠే వృన్దావనే తథా ౧౫౭
పవిత్రే నిర్మలే స్థానే నిత్యానుష్ఠానతోఽపి వా
నివేదనేన మౌనేన జపమేతం సమాచరేత్ ౧౫౮
శ్మసానే భయభూమౌ తు వటమూలాన్తికే తథా
సిద్ధ్యన్తి ధౌత్తరే మూలే చూతవృక్షస్య సన్నిధౌ ౧౫౯
గురుపుత్రో వరం మూర్ఖస్తస్య సిద్ధ్యన్తి నాన్యథా
శుభకర్మాణి సర్వాణి దీక్షా వ్రతతపాంసి చ ౧౬౦
సంసారమలనాశార్థం భవ పాశనివృత్తయే
గురుగీతామ్భసిస్నానం తత్త్వజ్ఞః కురుతే సదా ౧౬౧
స ఏవ చ గురుః సాక్షాత్సదా సద్బ్రహ్మవిత్తమః
తస్య స్థానాని సర్వాణి పవిత్రాణి న సంశయః ౧౬౨
సర్వశుద్ధః పవిత్రోఽసౌ స్వభావాద్యత్ర తిష్ఠతి
తత్ర దేవగణాః సర్వే క్షేత్రే పీఠే వసన్తి హి ౧౬౩
ఆసనస్థః శయానో వా గచ్ఛంస్తిష్ఠన్వదన్నపి
అశ్వారూఢో గజారూఢః సుప్తో వా జాగృతోఽపి వా ౧౬౪
శుచిష్మంశ్చ సదా జ్ఞానీ గురుగీతా జపేన తు
తస్య దర్శనమాత్రేణ పునర్జన్మ న విద్యతే ౧౬౫
సముద్రే చ యథా తోయం క్షీరే క్షీరం ఘృతే ఘృతం
భిన్నే కుమ్భే యథాకాశస్తథాత్మా పరమాత్మని ౧౬౬
తథైవ జ్ఞానీ జీవాత్మా పరమాత్మని లీయతే
ఐక్యేన రమతే జ్ఞానీ యత్ర తత్ర దివానిశమ్ ౧౬౭
ఏవంవిధో మహాముక్తః సర్వదా వర్తతే బుధః
తస్య సర్వప్రయత్నేన భావభక్తిం కరోతి యః ౧౬౮
సర్వసన్దేహరహితో ముక్తో భవతి పార్వతి
భుక్తిముక్తిద్వయం తస్య జిహ్వాగ్రే చ సరస్వతి ౧౬౯
అనేన ప్రాణినః సర్వే గురుగీతా జపేన తు
సర్వసిద్ధిం ప్రాప్నువన్తి భుక్తిం ముక్తిం న సంశయః ౧౭౦
సత్యం సత్యం పునః సత్యం ధర్మ్యం సాఙ్ఖ్యం మయోదితం
గురుగీతాసమం నాస్తి సత్యం సత్యం వరాననే ౧౭౧
ఏకో దేవ ఏకధర్మ ఏక నిష్ఠా పరం తపః
గురోః పరతరం నాన్యన్నాస్తి తత్త్వం గురోః పరమ్ ౧౭౨
మాతా ధన్యా పితా ధన్యో ధన్యో వంశః కులం తథా
ధన్యా చ వసుధా దేవి గురుభక్తిః సుదుర్లభా ౧౭౩
శరీరమిన్ద్రి యం ప్రాణాశ్చార్థః స్వజనబాన్ధవాః
మాతా పితా కులం దేవి గురురేవ న సంశయః ౧౭౪
ఆకల్పజన్మనా కోట్యా జపవ్రత తపః క్రియాః
తత్సర్వం సఫలం దేవి గురుసన్తోషమాత్రతః ౧౭౫
విద్యాతపో బలేనైవ మన్దభాగ్యాశ్చ యే నరాః
గురుసేవాం న కుర్వన్తి సత్యం సత్యం వరాననే ౧౭౬
బ్రహ్మవిష్ణుమహేశాశ్చ దేవర్షిపితృకిన్నరాః
సిద్ధచారణయక్షాశ్చ అన్యేఽపి మునయో జనాః ౧౭౭
గురుభావః పరం తీర్థమన్యతీర్థం నిరర్థకమ్
సర్వతీర్థాశ్రయం దేవి పాదాఙ్గుష్ఠం చ వర్తతే ౧౭౮
జపేన జయమాప్నోతి చానన్తఫలమాప్నుయాత్
హీనకర్మ త్యజన్సర్వం స్థానాని చాధమాని చ ౧౭౯
జపం హీనాసనం కుర్వన్హీనకర్మ ఫలప్రదమ్
గురుగీతాం ప్రయాణే వా సఙ్గ్రామే రిపుసఙ్కటే ౧౮౦
జపఞ్జయమవాప్నోతి మరణే ముక్తిదాయకమ్
సర్వకర్మ చ సర్వత్ర గురుపుత్రస్య సిద్ధ్యతి ౧౮౧
ఇదం రహస్యం నో వాచ్యం తవాగ్రే కథితం మయా
సుగోప్యం చ ప్రయత్నేన మమ త్వం చ ప్రియా త్వితి ౧౮౨
స్వామి ముఖ్యగణేశాది విష్ణ్వాదీనాం చ పార్వతి
మనసాపి న వక్తవ్యం సత్యం సత్యం వదామ్యహమ్ ౧౮౩
అతీవ పక్వచిత్తాయ శ్రద్ధా భక్తియుతాయ చ
ప్రవక్తవ్యమిదం దేవి మమాత్మాఽసి సదా ప్రియే ౧౮౪
అభక్తే వఞ్చకే ధూర్తే పాఖణ్డే నాస్తికే నరే
మనసాపి న వక్తవ్యా గురుగీతా కదాచన ౧౮౫
సంసారసాగరసముద్ధరణైకమన్త్రమ్
బ్రహ్మాదిదేవమునిపూజితసిద్ధమన్త్రమ్
దారిద్ర య్దుఃఖభవరోగవినాశమన్త్రమ్
వన్దే మహాభయహరం గురురాజమన్త్రమ్ ౧౮౬
శ్రీ గురుదేవ చరణార్పణమస్తు
êhr´ Guru G´tŒ, Transliteration and English Translations, (Ganeshpuri:
Shree Gurudev Ashram).
asya śrī gurugītā stotramantrasya
bhagavān sadāśiva ṛṣiḥ
nānāvidhāni chandāṃsi
śrī guruparamātmā devatā
haṃ bījam
saḥ śaktiḥ
kraoṃ kīlakam
śrī guruprasādasiddhyarthe pāṭhe viniyogaḥ 1
dhyānam
haṃsābhyāṃ parivṛttapatrakamalairdivyairjagatkāraṇaiḥ
viśvotkīrṇamanekadehanilayaiḥ svacchandamātmecchayā 2
taddyotaṃ padaśāmbhavaṃ tu caraṇaṃ dīpāṅkuragrāhiṇam
pratyakṣākṣaravigrahaṃ gurupadaṃ dhyāyedvibhuṃ śāśvatam 3
ṛṣaya ūcuḥ
guhyādguhyadharā vidyā gurugītā vicetasaḥ
brūhi naḥ sūta kṛpayā śṛṇumadvatprasādakaḥ 4
sūta uvāca
kailāsa śikhare ramye bhaktisandhānanāyakam
praṇamya pārvatī bhaktyā śaṅkaraṃ paryapṛcchata 5
śrī devyuvāca
oṃ namo devadeveśa parātparajagadguro
sadāśiva mahādeva gurudīkṣāṃ pradehi me 6
kena mārgeṇa bho svāmin dehī brahmamayo bhavet
tvaṃ kṛpāṃ kuru me svāmin namāmi caraṇau tava 7
īśvara uvāca
mamarūpāsi devi tvaṃ tvatprītyarthaṃ vadāmyaham
lokopakārakaḥ praśno na kenāpi kṛtaḥ purā 8
durlabhaṃ triṣu lokeṣu tacchṛṇuṣva vadāmyaham
guruṃ vinā brahma nānyatsatyaṃ satyaṃ varānane 9
vedaśāstrapurāṇāni itihāsādikāni ca
mantrayantrādividyāśca smṛtiruccāṭanādikam 10
śaivaśāktāgamādīni anyāni vividhāni ca
apabhraṃśakarāṇīha jīvānāṃ bhrāntacetasām 11
yajño vrataṃ tapo dānaṃ japastīrthaṃ tathaiva ca
gurutattvamavijñāya mūḍhāste ācaranti janāḥ 12
gururbuddhyātmano nānyatsatyaṃ satyaṃ na saṃśayaḥ
tallābhārthaṃ prayatnastu kartavyo hi manīṣibhiḥ 13
gūḍha vidyā jaganmāyā dehe cājñānasambhavā
udayo yatprakāśena guruśabdena kathyate 14
sarvapāpaviśuddhātmā śrīguroḥ pādasevanāt
dehi brahma bhavedyasmāttvatkṛpārthaṃ vadāmi te 15
gurupādāmbujaṃ smṛtvā jalaṃ śirasi dhārayet
sarvatīrthāvagāhasya samprāpnoti phalaṃ naraḥ 16
śoṣaṇaṃ pāpapaṅkasya dīpanaṃ jñānatejasām
gurupādodakaṃ samyaksaṃsārārṇavatārakam 17
ajñānamūlaharaṇaṃ janma karma nivāraṇam
jñānavairāgyasiddhyarthaṃ gurupādodakaṃ pibet 18
guroḥ pādodakaṃ pītvā gurorucchiṣṭabhojanam
gurumūrteḥ sadā dhyānaṃ gurumantraṃ sadā japet 19
kāśī kṣetraṃ tannivāso jāhnavī caraṇodakam
gururviśveśvaraḥ sākṣāttārakaṃ brahma niścitam 20
guroḥ pādodakaṃ yattu gayā'sau so'kṣayo vaṭaḥ
tīrtharājaḥ prayāgaśca gurumūrtyai namo namaḥ 21
gurumūrtiṃ smarennityaṃ gurunāma sadā japet
gurorājñāṃ prakurvīta guroranyanna bhāvayet 22
guruvaktrasthitaṃ brahma prāpyate tatprasādataḥ
gurordhyānaṃ sadā kuryātkulastrī svapateryathā 23
svāśramaṃ ca svajātiṃ ca svakīrtipuṣṭivardhanam
etatsarvaṃ parityajya guroranyanna bhāvayet 24
ananyāścintayanto māṃ sulabhaṃ paramaṃ padam
tasmātsarvaprayatnena gurorārādhanaṃ kuru 25
trailokye sphuṭavaktāro devādyasurapannagāḥ
guruvaktrasthitā vidyā gurubhaktyā tu labhyate 26
gukārastvandhakāraśca rukārasteja ucyate
ajñānagrāsakaṃ brahma gurudeva na saṃśayaḥ 27
gukāraḥ prathamo varṇo māyādiguṇabhāsakaḥ
rukāro dvitīyo brahma māyā bhrānti vināśanam 28
evaṃ gurupadaṃ śreṣṭhaṃ devānāmapi durlabham
hāhā hūhū gaṇaiścaiva gandharvaiśca prapūjyate 29
dhruvaṃ teṣāṃ ca sarveṣāṃ nāsti tattvaṃ guroḥ param
āsanaṃ śayanaṃ vastraṃ bhūṣaṇaṃ vāhanādikam 30
sādhakena pradātavyaṃ gurusantoṣakārakam
gurorārādhanaṃ kāryaṃ svajīvitvaṃ nivedayet 31
karmaṇā manasā vācā nityamārādhayedgurum
dīrghadaṇḍaṃ namaskṛtya nirlajjo gurusannidhau 32
śarīramindri yaṃ prāṇāṃ sadgurubhyo nivedayet
ātmadārādikaṃ sarvaṃ sadgurubhyo nivedayet 33
kṛmikīṭabhasmaviṣṭhā durgandhimalamūtrakam
śleṣmaraktaṃ tvacā māṃsaṃ vañcayenna varānane 34
saṃsāravṛkṣamārūḍhaḥ patanto narakārṇave
yena caivoddhṛtāḥ sarve tasmai śrīgurave namaḥ 35
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ
gurureva parabrahma tasmai śrīgurave namaḥ 36
hetave jagatāmeva saṃsārārṇavasetave
prabhave sarvavidyānāṃ śambhave gurave namaḥ 37
ajñānatimirāndhasya jñānāñjanaśalākayā
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ 38
tvaṃ pitā tvaṃ ca me mātā tvaṃ bandhustvaṃ ca devatā
saṃsārapratibodhārthaṃ tasmai śrīgurave namaḥ 39
yatsatyena jagatsatyaṃ yatprakāśena bhāti tat
yadānandena nandanti tasmai śrīgurave namaḥ 40
yasya sthityā satyamidaṃ yadbhāti bhānurūpataḥ
priyaṃ putrādi yatprītyā tasmai śrīgurave namaḥ 41
yena cetayate hīdaṃ cittaṃ cetayate na yam
jāgratsvapnasuṣuptyādi tasmai śrīgurave namaḥ 42
yasya jñānādidaṃ viśvaṃ na dṛśyaṃ bhinnabhedataḥ
sadekarūparūpāya tasmai śrīgurave namaḥ 43
yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ
ananyabhāvabhāvāya tasmai śrīgurave namaḥ 44
yasya kāraṇarūpasya kāryarūpeṇa bhāti yat
kāryakāraṇarūpāya tasmai śrīgurave namaḥ 45
nānārūpamidaṃ sarvaṃ na kenāpyasti bhinnatā
kāryakāraṇatā caiva tasmai śrīgurave namaḥ 46
yadaṅghrikamaladvandvaṃ dvandvatāpanivārakam
tārakaṃ sarvadā'padbhyaḥ śrīguruṃ praṇamāmyaham 47
śive kruddhe gurustrātā gurau kruddhe śivo na hi
tasmātsarvaprayatnena śrīguruṃ śaraṇaṃ vrajet 48
vande gurupadadvandvaṃ vāṅmanaścittagocaram
śvetaraktaprabhābhinnaṃ śivaśaktyātmakaṃ param
gukāraṃ ca guṇātītaṃ rukāraṃ rūpavarjitam
guṇātītasvarūpaṃ ca yo dadyātsa guruḥ smṛtaḥ 49
atrinetraḥ sarvasākṣī acaturbāhuracyutaḥ
acaturvadano brahmā śrīguruḥ kathitaḥ priye 50
ayaṃ mayāñjalirbaddho dayā sāgaravṛddhaye
yadanugrahato jantuścitrasaṃsāramuktibhāk 51
śrīguroḥ paramaṃ rūpaṃ vivekacakṣuṣo'mṛtam
mandabhāgyā na paśyanti andhāḥ sūryodayaṃ yathā 52
śrīnāthacaraṇadvandvaṃ yasyāṃ diśi virājate
tasyai diśe namaskuryādbhaktyā pratidinaṃ priye 53
tasyai diśe satatamañjalireṣa ārye
prakṣipyate mukharito madhupairbudhaiśca
jāgarti yatra bhagavāngurucakravartī
viśvodaya pralayanāṭakanityasākṣī 54
śrīnāthādi gurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ
siddhaughaṃ baṭukatrayaṃ padayugaṃ dūtīkramaṃ maṇḍalaṃ
vīrāndvyaṣṭacatuṣka ṣaṣṭi navakaṃ vīrāvalī pañcakaṃ
śrīmanmālinimantrarājasahitaṃ vande gurormaṇḍalam 55
abhyastaiḥ sakalaiḥ sudirghamanilairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanekakaraṇairduḥkhātmakairdurjayaiḥ
yasminnabhyudite vinaśyati balī vāyuḥ svayaṃ tatkṣaṇāt
prāptuṃ tatsahajaṃ svabhāvamaniśaṃ sevadhvamekaṃ gurum 56
svadeśikasyaiva śarīracintanaṃ bhavedanantasya śivasya cintanam
svadeśikasyaiva ca nāmakīrtanaṃ bhavedanantasya śivasya kīrtanam 57
yatpādareṇukaṇikā kāpi saṃsāravāridheḥ
setubandhāyate nāthaṃ deśikaṃ tamupāsmahe 58
yasmādanugrahaṃ labdhvā mahadajñānamutsṛjet
tasmai śrīdeśikendrā ya namaścābhiṣṭasiddhaye 59
pādābjaṃ sarvasaṃsāradāvānalavināśakam
brahmarandhre sitāmbhojamadhyasthaṃ candra maṇḍale 60
akathāditrirekhābje sahasradalamaṇḍale
haṃsapārśvatrikoṇe ca smarettanmadhyagaṃ gurum 61
sakalabhuvanasṛṣṭiḥ kalpitāśeṣapuṣṭiḥ
nikhilanigamadṛṣṭiḥ sampadāṃ vyarthadṛṣṭiḥ
avaguṇaparimārṣṭistatpadārthaikadṛṣṭiḥ
bhava guṇaparameṣṭirmokṣamārgaikadṛṣṭiḥ 62
sakalabhuvanaraṅgasthāpanā stambhayastiḥ
sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ
sakalasamayasṛṣṭiḥ saccidānandadṛṣṭiḥ
nivasatu mayi nityaṃ śrīgurordivyadṛṣṭiḥ 63
agniśuddhasamantācca jvālā paricakādhiyā
mantrarājamimaṃ manye'harniśaṃ pātu mṛtyutaḥ 64
tadejati tannaijati taddūre tatsamīpake
tadantarasya sarvasya tadu sarvasya bāhyataḥ 65
ajo'hamajaro'haṃ ca
anādinidhanaḥ svayam
avikāraścidānanda
aṇīyānmahato mahān 66
apūrvāṇāṃ paraṃ nityaṃ svayañjyotirnirāmayam
virajaṃ paramākāśaṃ dhruvamānandamavyayam 67
śrutiḥ pratyakṣamaitihyamanumānaścatuṣṭayam
yasya cātmatapo veda deśikaṃ ca sadā smaret 68
manuñca yadbhavaṃ kāryaṃ tadvadāmi mahāmate
sādhutvaṃ ca mayā dṛṣṭvā tvayi tiṣṭhati sāmpratam 69
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ 70
sarvaśrutiśiroratnavirājitapadāmbujaḥ
vedāntāmbujasūryo yastasmai śrīgurave namaḥ 71
yasya smaraṇamātreṇa jñānamutpadyate svayaṃ
ya eva sarva samprāptistasmai śrīgurave namaḥ 72
caitanyaṃ śāśvataṃ śāntaṃ vyomātītaṃ nirañjanam
nādabindukalātītaṃ tasmai śrīgurave namaḥ 73
sthāvaraṃ jaṅgamaṃ caiva tathā caiva carācaram
vyāptaṃ yena jagatsarvaṃ tasmai śrīgurave namaḥ 74
jñānaśaktisamārūḍhastattvamālā vibhūṣitaḥ
bhuktimuktipradātāya tasmai śrīgurave namaḥ 75
anekajanmasamprāptasarvakarmavidāhine
svātmajñānaprabhāveṇa tasmai śrīgurave namaḥ 76
na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥ
tattvaṃ jñānātparaṃ nāsti tasmai śrīgurave namaḥ 77
mannāthaḥ śrījagannātho madguruśśrījagadguruḥ
mamātmā sarvabhūtātmā tasmai śrīgurave namaḥ 78
dhyānamūlaṃ gurormūrtiḥ pūjā mūlaṃ guroḥ padam
mantramūlaṃ gurorvākyaṃ mokṣamūlaṃ guroḥ kṛpā 79
gururādiranādiśca guruḥ paramadaivatam
guroḥ parataraṃ nāsti tasmai śrīgurave namaḥ 80
saptasāgaraparyanta tīrthasnānādikaṃ phalam
guroraṅghripayobindusahasrāṃśe na durlabham 81
harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana
tasmātsarvaprayatnena śrīguruṃ śaraṇaṃ vrajet 82
gurureva jagatsarvaṃ brahmaviṣṇuśivātmakam
guroḥ parataraṃ nāsti tasmātsampūjayedgurum 83
jñānaṃ vijñānasahitaṃ labhyate gurubhaktitaḥ
guroḥ parataraṃ nāsti dhyeyo'sau gurumārgibhiḥ 84
yasmātparataraṃ nāsti neti netīti vai śrutiḥ
manasā vacasā caiva nityamārādhayedgurum 85
guroḥ kṛpā prasādena brahmaviṣṇusadāśivāḥ
samarthāḥ prabhavādau ca kevalaṃ gurusevayā 86
devakinnaragandharvāḥ pitaro yakṣacāraṇāḥ
munayo'pi na jānanti guruśuśrūṣaṇe vidhim 87
mahāhaṅkāragarveṇa tapo vidyā balānvitāḥ
saṃsārakuharāvarte ghaṭayantre yathā ghaṭāḥ 88
na muktā devagandharvāḥ pitaro yakṣakinnarāḥ
ṛṣayaḥ sarvasiddhāśca gurusevā parāṅmukhāḥ 89
dhyānaṃ śṛṇu mahādevi sarvānandapradāyakam
sarvasaukhyakaraṃ nityaṃ bhuktimuktividhāyakam 90
śrīmatparabrahmaguruṃ smarāmi śrīmatparabrahmaguruṃ vadāmi
śrīmatparabrahmaguruṃ namāmi śrīmatparabrahmaguruṃ bhajāmi 91
brahmānandaṃ paramasukhadaṃ kevalaṃ jñānamūrtim
dvandvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam 92
ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃ
bhavātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi 93
nityaṃ śuddhaṃ nirābhāsaṃ nirākāraṃ nirañjanam
nityabodhaṃ cidānandaṃ guruṃ brahma namāmyaham 94
hṛdambuje karṇikamadhyasaṃsthe siṃhāsane saṃsthitadivyamūrtim
dhyāyedguruṃ candra kalāprakāśaṃ citpustakābhiṣṭavaraṃ dadhānam 95
śvetāmbaraṃ śvetavilepapuṣpaṃ muktā vibhūṣaṃ muditaṃ dvinetram
vāmāṅkapīṭhasthitadivyaśaktiṃ mandasmitaṃ sāndra kṛpānidhānam 96
ānandamānandakaraṃ prasannaṃ jñānasvarūpaṃ nijabodhayuktam
yogīndra mīḍyaṃ bhavarogavaidyaṃ śrīmadguruṃ nityamahaṃ namāmi 97
yasminsṛṣṭisthitidhvaṃsanigrahānugrahātmakam
kṛtyaṃ pañcavidhaṃ śaśvadbhāsate taṃ namāmyaham 98
prātaḥ śirasi śuklābje dvinetraṃ dvibhujaṃ gurum
varābhayayutaṃ śāntaṃ smarettaṃ nāmapūrvakam 99
na guroradhikaṃ na guroradhikaṃ na guroradhikaṃ na guroradhikaṃ
śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ 100
idameva śivaṃ tvidameva śivaṃ tvidameva śivaṃ tvidameva śivaṃ
mama śāsanato mama śāsanato mama śāsanato mama śāsanataḥ 101
evaṃvidhaṃ guruṃ dhyātvā jñānamutpadyate svayam
tatsadguruprasādena mukto'hamiti bhāvayet 102
gurudarśitamārgeṇa manaḥśuddhiṃ tu kārayet
anityaṃ khaṇḍayetsarvaṃ yatkiñcidātmagocaram 103
jñeyaṃ sarvasvarūpaṃ ca jñānaṃ ca mana ucyate
jñānaṃ jñeyasamaṃ kuryānnānyaḥ panthā dvitīyakaḥ 104
evaṃ śrutvā mahādevi gurunindāṃ karoti yaḥ
sa yāti narakaṃ ghoraṃ yāvaccandra divākarau 105
yāvatkalpāntako dehastāvadeva guruṃ smaret
gurulopo na kartavyaḥ svacchando yadi vā bhavet 106
huṅkāreṇa na vaktavyaṃ prājñaiḥ śiṣyaiḥ kathañcana
guroragre na vaktavyamasatyaṃ ca kadācana 107
guruṃ tvaṅkṛtya huṅkṛtya guruṃ nirjitya vādataḥ
araṇye nirjale deśe sa bhavedbrahmarākṣasaḥ 108
munibhiḥ pannagairvā'pi surairvā śāpito yadi
kālamṛtyubhayādvāpi gururakṣati pārvati 109
aśaktā hi surādyāśca aśaktā munayastathā
guruśāpena te śīghraṃ kṣayaṃ yānti na saṃśayaḥ 110
mantrarājamidaṃ devi gururityakṣaradvayam
smṛtivedārthavākyena guruḥ sākṣātparaṃ padam 111
śrutismṛtī avijñāya kevalaṃ gurusevakāḥ
te vai sannyāsinaḥ proktā itare veṣadhāriṇaḥ 112
nityaṃ brahma nirākāraṃ nirguṇaṃ bodhayetparam
sarvaṃ brahma nirābhāsaṃ dīpo dīpāntaraṃ yathā 113
guroḥ kṛpāprasādena ātmārāmaṃ nirīkṣayet
anena gurumārgeṇa svātmajñānaṃ pravartate 114
ābrahma stambaparyantaṃ paramātmasvarūpakam
sthāvaraṃ jaṅgamaṃ caiva praṇamāmi jaganmayam 115
vande'haṃ saccidānandaṃ bhedātītaṃ sadā gurum
nityaṃ pūrṇaṃ nirākāraṃ nirguṇaṃ svātmasaṃsthitam 116
parātparataraṃ dhyeyaṃ nityamānandakārakam
hṛdayākāśamadhyasthaṃ śuddhasphaṭikasannibham 117
sphaṭikapratimā rūpaṃ dṛśyate darpaṇe yathā
tathātmani cidākāramānandaṃ so'hamityuta 118
aṅguṣṭhamātra puruṣaṃ dhyāyataścinmayaṃ hṛdi
tatra sphurati bhāvo yaḥ śṛṇu taṃ kathayāmyaham 119
agocaraṃ tathā'gamyaṃ nāmarūpavivarjitam
niḥśabdaṃ tadvijānīyātsvabhāvaṃ brahma pārvati 120
yathā gandhaḥ svabhāvena karpūrakusumādiṣu
śītoṣṇādi svabhāvena tathā brahma ca śāśvatam 121
svayaṃ tathāvidho bhūtvā sthātavyaṃ yatrakutracit
kītabhramaravattatra dhyānaṃ bhavati tādṛśam 122
gurudhyānaṃ tathā kṛtvā svayaṃ brahmamayo bhavet
piṇḍe pade tathā rūpe mukto'sau nātra saṃśayaḥ 123
śrīpārvatyuvāca
piṇḍaṃ kiṃ tu mahādeva padaṃ kiṃ samudāhṛtam
rūpātītaṃ ca rūpaṃ kimetadākhyāhi śaṅkara 124
śrī mahādeva uvāca
piṇḍaṃ kuṇḍalinī śaktiḥ padaṃ haṃsamudāhṛtam
rūpaṃ binduriti jñeyaṃ rūpātītaṃ nirañjanam 125
piṇḍe muktā pade muktā rūpe muktā varānane
rūpātīte tu ye muktāste muktā nātra saṃśayaḥ 126
svayaṃ sarvamayo bhūtvā paraṃ tattvaṃ vilokayet
parātparataraṃ nānyatsarvametannirālayam 127
tasyāvalokanaṃ prāpya sarvasaṅgavivarjitaḥ
ekākī niḥspṛhaḥ śāntastiṣṭhāsettatprasādataḥ 128
labdhaṃ vā'tha na labdhaṃ vā svalpaṃ vā bahulaṃ tathā
niṣkāmenaiva bhoktavyaṃ sadā santuṣṭacetasā 129
sarvajñapadamityāhurdehī sarvamayo budhāḥ
sadānandaḥ sadā śānto ramate yatrakutracit 130
yatraiva tiṣṭhate so'pi sa deśaḥ puṇyabhājanam
muktasya lakṣaṇaṃ devi tavāgre kathitaṃ mayā 131
upadeśastathā devi gurumārgeṇa muktidaḥ
gurubhaktistathā dhyānaṃ sakalaṃ tava kīrtitam 132
anena yadbhavetkāryaṃ tadvadāmi mahāmate
lokopakārakaṃ devi laukikaṃ tu na bhāvayet 133
laukikātkarmaṇo yānti jñānahīnā bhavārṇavam
jñānī tu bhāvayetsarvaṃ karma niṣkarma yatkṛtam 134
idaṃ tu bhaktibhāvena paṭhate śṛṇute yadi
likhitvā tatpradātavyaṃ tatsarvaṃ saphalaṃ bhavet 135
gurugītātmakaṃ devi śuddhatattvaṃ mayoditam
bhava vyādhivināśārthaṃ svayameva japetsadā 136
gurugītākṣaraikaṃ tu mantrarājamimaṃ japet
anye ca vividhā mantrāḥ kalāṃ nārhanti ṣoḍaśīm 137
anantaphalamāpnoti gurugītā japena tu
sarvapāpapraśamanaṃ sarvadāridra ynāśanam 138
kālamṛtyubhayaharaṃ sarvasaṅkaṭanāśanam
yakṣarākṣasabhūtānāṃ coravyāghrabhayāpaham 139
mahā vyādhi haraṃ sarvaṃ vibhūtisiddhidaṃ bhavet
athavā mohanaṃ vaśyaṃ svayameva japetsadā 140
vastrāsane ca dāridra yaṃ\! pāṣāṇe rogasambhavaḥ
medinyāṃ duḥkhamāpnoti kāṣṭhe bhavati niṣphalam 141
kṛṣṇājine jñānasiddhirmokṣaśrī vyāghracarmaṇi
kuśāsane jñānasiddhiḥ sarvasiddhistu kambale 142
kuśairvā dūrvayā devi āsane śubhrakambale
upaviśya tato devi japedekāgramānasaḥ 143
dhyeyaṃ śuklaṃ ca śāntyarthaṃ vaśye raktāsanaṃ priye
abhicāre kṛṣṇavarṇaṃ pītavarṇaṃ dhanāgame 144
uttare śāntikāmastu vaśye pūrvamukho japet
dakṣiṇe māraṇaṃ proktaṃ paścime ca dhanāgamaḥ 145
mohanaṃ sarvabhūtānāṃ bandhamokṣakaraṃ bhavet
devarājapriyakaraṃ sarvalokavaśaṃ bhavet 146
sarveṣāṃ stambhanakaraṃ guṇānāṃ ca vivardhanam
duṣkarmanāśanaṃ caiva sukarmasiddhidaṃ bhavet 147
asiddhaṃ sādhayetkāryaṃ navagrahabhayāpaham
duḥsvapnanāśanaṃ caiva susvapna phaladāyakam 148
sarvaśāntikaraṃ nityaṃ tathā vandhyāsuputradam
avaidhavyakaraṃ strīṇāṃ saubhāgyadāyakaṃ sadā 149
āyurārogyamaiśvaryaputrapautrapravardhanam
akāmataḥ strī vidhavā japānmokṣamavāpnuyāt 150
avaidhavyaṃ sakāmā tu labhate cānyajanmani
sarvaduḥkhabhayaṃ vighnaṃ nāśayecchāpahārakam 151
sarvabādhāpraśamanaṃ dharmārthakāmamokṣadam
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam 152
kāmitasya kāmadhenuḥ kalpanā kalpapādapaḥ
cintāmaṇiścintitasya sarvamaṅgalakārakam 153
mokṣaheturjapennityaṃ mokṣaśriyamavāpnuyāt
bhogakāmo japedyo vai tasya kāmaphalapradam 154
japecchāktaśca sauraśca gāṇapatyaśca vaiṣṇavaḥ
śaivaśca siddhidaṃ devi satyaṃ satyaṃ na saṃśayaḥ 155
atha kāmyajape sthānaṃ kathayāmi varānane
sāgare vā sarittīre'thavā hariharālaye 156
śaktidevālaye goṣṭhe sarvadevālaye śubhe
vaṭe ca dhātrīmūle vā maṭhe vṛndāvane tathā 157
pavitre nirmale sthāne nityānuṣṭhānato'pi vā
nivedanena maunena japametaṃ samācaret 158
śmasāne bhayabhūmau tu vaṭamūlāntike tathā
siddhyanti dhauttare mūle cūtavṛkṣasya sannidhau 159
guruputro varaṃ mūrkhastasya siddhyanti nānyathā
śubhakarmāṇi sarvāṇi dīkṣā vratatapāṃsi ca 160
saṃsāramalanāśārthaṃ bhava pāśanivṛttaye
gurugītāmbhasisnānaṃ tattvajñaḥ kurute sadā 161
sa eva ca guruḥ sākṣātsadā sadbrahmavittamaḥ
tasya sthānāni sarvāṇi pavitrāṇi na saṃśayaḥ 162
sarvaśuddhaḥ pavitro'sau svabhāvādyatra tiṣṭhati
tatra devagaṇāḥ sarve kṣetre pīṭhe vasanti hi 163
āsanasthaḥ śayāno vā gacchaṃstiṣṭhanvadannapi
aśvārūḍho gajārūḍhaḥ supto vā jāgṛto'pi vā 164
śuciṣmaṃśca sadā jñānī gurugītā japena tu
tasya darśanamātreṇa punarjanma na vidyate 165
samudre ca yathā toyaṃ kṣīre kṣīraṃ ghṛte ghṛtaṃ
bhinne kumbhe yathākāśastathātmā paramātmani 166
tathaiva jñānī jīvātmā paramātmani līyate
aikyena ramate jñānī yatra tatra divāniśam 167
evaṃvidho mahāmuktaḥ sarvadā vartate budhaḥ
tasya sarvaprayatnena bhāvabhaktiṃ karoti yaḥ 168
sarvasandeharahito mukto bhavati pārvati
bhuktimuktidvayaṃ tasya jihvāgre ca sarasvati 169
anena prāṇinaḥ sarve gurugītā japena tu
sarvasiddhiṃ prāpnuvanti bhuktiṃ muktiṃ na saṃśayaḥ 170
satyaṃ satyaṃ punaḥ satyaṃ dharmyaṃ sāṅkhyaṃ mayoditaṃ
gurugītāsamaṃ nāsti satyaṃ satyaṃ varānane 171
eko deva ekadharma eka niṣṭhā paraṃ tapaḥ
guroḥ parataraṃ nānyannāsti tattvaṃ guroḥ param 172
mātā dhanyā pitā dhanyo dhanyo vaṃśaḥ kulaṃ tathā
dhanyā ca vasudhā devi gurubhaktiḥ sudurlabhā 173
śarīramindri yaṃ prāṇāścārthaḥ svajanabāndhavāḥ
mātā pitā kulaṃ devi gurureva na saṃśayaḥ 174
ākalpajanmanā koṭyā japavrata tapaḥ kriyāḥ
tatsarvaṃ saphalaṃ devi gurusantoṣamātrataḥ 175
vidyātapo balenaiva mandabhāgyāśca ye narāḥ
gurusevāṃ na kurvanti satyaṃ satyaṃ varānane 176
brahmaviṣṇumaheśāśca devarṣipitṛkinnarāḥ
siddhacāraṇayakṣāśca anye'pi munayo janāḥ 177
gurubhāvaḥ paraṃ tīrthamanyatīrthaṃ nirarthakam
sarvatīrthāśrayaṃ devi pādāṅguṣṭhaṃ ca vartate 178
japena jayamāpnoti cānantaphalamāpnuyāt
hīnakarma tyajansarvaṃ sthānāni cādhamāni ca 179
japaṃ hīnāsanaṃ kurvanhīnakarma phalapradam
gurugītāṃ prayāṇe vā saṅgrāme ripusaṅkaṭe 180
japañjayamavāpnoti maraṇe muktidāyakam
sarvakarma ca sarvatra guruputrasya siddhyati 181
idaṃ rahasyaṃ no vācyaṃ tavāgre kathitaṃ mayā
sugopyaṃ ca prayatnena mama tvaṃ ca priyā tviti 182
svāmi mukhyagaṇeśādi viṣṇvādīnāṃ ca pārvati
manasāpi na vaktavyaṃ satyaṃ satyaṃ vadāmyaham 183
atīva pakvacittāya śraddhā bhaktiyutāya ca
pravaktavyamidaṃ devi mamātmā'si sadā priye 184
abhakte vañcake dhūrte pākhaṇḍe nāstike nare
manasāpi na vaktavyā gurugītā kadācana 185
saṃsārasāgarasamuddharaṇaikamantram
brahmādidevamunipūjitasiddhamantram
dāridra yduḥkhabhavarogavināśamantram
vande mahābhayaharaṃ gururājamantram 186
śrī gurudeva caraṇārpaṇamastu
êhr´ Guru G´tŒ, Transliteration and English Translations, (Ganeshpuri:
Shree Gurudev Ashram).