वक्रतुण्डमहागणपतिसहस्रनामस्तोत्रम्
मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान्
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर
ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल
मनसा स विनिर्धार्य ददृशे विघ्नकारणम्
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम्
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम्
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम्
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत्
अस्य श्रीवक्रतुण्डमहागणपतिसहस्रनामस्तोत्रमन्त्रस्य\\
महागणपतिर्ऋषिः। अनुष्टुप् छन्दः। महागणपतिर्देवता।\\
गं बीजम्। हुं शक्तिः। स्वाहा कीलकम्।\\
चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः।
करन्यासः
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः।\\
कुमारगुरुरीशान इति तर्जनीभ्यां नमः।\\
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः।\\
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः।\\
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः।\\
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः।\\
हृदयादिन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः।\\
निष्कलो निर्मल इति शिरसे स्वाहा।\\
सृष्टिस्थितिलयक्रीड इति शिखायै वषट्।\\
ज्ञानं विज्ञानमानन्द इति कवचाय हुम्।\\
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट्।\\
अनन्तशक्तिसहित इत्यस्त्राय फट्।\\
भूर्भुवः स्वरोम् इति दिग्बन्धः।\\
ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम्
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः।
स्तोत्रम्
श्रीगणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः
विनायको विरूपाक्षो वीरः शूरवरप्रदः
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः
कुमारगुरुरीशानपुत्रो मूषकवाहनः
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः
कटङ्कटो राजपुत्रः शाकलः सम्मितोऽमितः
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित्
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः
किरीटी कुण्डली हारी वनमाली मनोमयः
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत्
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी
देवदेवः स्मरः प्राणदीपको वायुकीलकः
विपश्चिद्वरदो नादो नादभिन्नमहाचलः
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक्
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः
सद्भक्तध्याननिगडः पूजावारिनिवारितः
प्रतापी काश्यपो मन्ता गणको विष्टपी बली
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः
लिपिपद्मासनाधारो वह्निधामत्रयालयः
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान्
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम्
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत्
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत्
कल्पवल्लीधरो विश्वाभयदैककरो वशी
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान्
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः
भारतीसुन्दरीनाथो विनायकरतिप्रियः
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः
आमोदमोदजननः सम्प्रमोदप्रमोदनः
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक्
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक्
ऐरावतादिसर्वाशावारणो वारणप्रियः
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः
जयाजयपरिकरो विजयाविजयावहः
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः
सुभगासंश्रितपदो ललिताललिताश्रयः
कामिनीपालनः कामकामिनीकेलिलालितः
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः
नलिनीकामुको वामारामो ज्येष्ठामनोरमः
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः
अमृताब्धिकृतावासो मदघूर्णितलोचनः
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः
आधारपीठमाधार आधाराधेयवर्जितः
आखुकेतन आशापूरक आखुमहारथः
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः
ईशानमौलिरीशान ईशानप्रिय ईतिहा
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम्
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः
एकारपीठमध्यस्थ एकपादकृतासनः
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः
ऐरम्मदसमोन्मेष ऐरावतसमाननः
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः
अः समस्तविसर्गान्तपदेषु परिकीर्तितः
कमण्डलुधरः कल्पः कपर्दी कलभाननः
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः
कदम्बगोलकाकारः कूष्माण्डगणनायकः
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत्
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः
खल्वाटशृङ्गनिलयः खट्वाङ्गी खन्दुरासदः
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत्
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः
चराचरपिता चिन्तामणिश्चर्वणलालसः
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः
तारकान्तरसंस्थानस्तारकस्तारकान्तकः
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत्
दक्षयज्ञप्रमथनो दाता दानं दमो दया
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः
धनं धनपतेर्बन्धुर्धनदो धरणीधरः
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः
परं व्योम परं धाम परमात्मा परं पदम्
परात्परः पशुपतिः पशुपाशविमोचनः
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनोरमः
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः
महाबलो महावीर्यो महाप्राणो महामनाः
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः
यशस्करो योगगम्यो याज्ञिको याजकप्रियः
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः
वामदेवो विश्वनेता वज्रिवज्रनिवारणः
विवस्वद् बन्धनो विश्वाधारो विश्वेश्वरो विभुः
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः
पराभिचारशमनो दुःखहा बन्धमोक्षदः
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम्
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः
राशिस्तारा तिथिर्योगो वारः करणमंशकम्
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत्
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान्
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम्
वैखानसं भागवतं मानुषं पाञ्चरात्रकम्
शैवं पाशुपतं कालामुखं भैरवशासनम्
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम्
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान्
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण्णमः
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः
एक एकाक्षराधार एकाक्षरपरायणः
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक्
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिवात्मकः
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम्
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः
नवनागासनाध्यासी नवनिध्यनुशासितः
नवद्वारपुरावृत्तो नवद्वारनिकेतनः
नवनाथमहानाथो नवनागविभूषितः
नवनारायणस्तुल्यो नवदुर्गानिषेवितः
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः
दशात्मको दशभुजो दशदिक्पतिवन्दितः
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम्
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः
षोडशाधारनिलयः षोडशस्वरमातृकः
षोडशान्तपदावासः षोडशेन्दुकलात्मकः
कलासप्तदशी सप्तदशसप्तदशाक्षरः
अष्टादशद्वीपपतिरष्टादशपुराणकृत्
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत्
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः
सप्तविंशतितारेशः सप्तविंशतियोगकृत्
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः
द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः
शतानन्दः शतधृतिः शतपत्रायतेक्षणः
शतानीकः शतमखः शतधारावरायुधः
सहस्रपत्रनिलयः सहस्रफणिभूषणः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः
दशसाहस्रफणिभृत्फणिराजकृतासनः
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः
फलश्रुतिः
इति वैनायकं नाम्नां सहस्रमिदमीरितम्
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम्
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता
जगत्संवननं विश्वसंवादो वेदपाटवम्
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम्
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत्
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते
धर्मार्थकाममोक्षाणामनायासेन साधनम्
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम्
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम्
समस्तकलहध्वंसि दग्धबीजप्ररोहणम्
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम्
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम्
परकृत्यप्रशमनं परचक्रप्रमर्दनम्
सङ्ग्राममार्गे सर्वेषामिदमेकं जयावहम्
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम्
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम्
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः
गुल्मं प्लीहानमाध्मानमतिसारं महोदरम्
कासं श्वासमुदावर्तं शूलं शोफामयोदरम्
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम्
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम्
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम्
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम्
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम्
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान्
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु
कामरूपः कामगतिः कामदः कामदेश्वरः
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः
गणेशानुचरो भूत्वा गणो गणपतिप्रियः
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः
निरन्तरे निराबाधे परमानन्दसंज्ञिते
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेन्नरः
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम्
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत्
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम्
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम्
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम्
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम्
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत्
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम्
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च
न तत्फलं विन्दति यद्गणेश-
सहस्रनामस्मरणेन सद्यः
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तत्
नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम्
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः
सुमङ्गलो बीजमाशापूरको वरदः कलः
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान्
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये
यः स्तौति मद्गतमना ममाराधनतत्परः
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः
नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते
किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना
॥इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः॥
వక్రతుణ్డమహాగణపతిసహస్రనామస్తోత్రమ్
మునిరువాచ
కథం నామ్నాం సహస్రం తం గణేశ ఉపదిష్టవాన్
శివదం తన్మమాచక్ష్వ లోకానుగ్రహతత్పర
బ్రహ్మోవాచ
దేవః పూర్వం పురారాతిః పురత్రయజయోద్యమే
అనర్చనాద్గణేశస్య జాతో విఘ్నాకులః కిల
మనసా స వినిర్ధార్య దదృశే విఘ్నకారణమ్
మహాగణపతిం భక్త్యా సమభ్యర్చ్య యథావిధి
విఘ్నప్రశమనోపాయమపృచ్ఛదపరిశ్రమమ్
సన్తుష్టః పూజయా శమ్భోర్మహాగణపతిః స్వయమ్
సర్వవిఘ్నప్రశమనం సర్వకామఫలప్రదమ్
తతస్తస్మై స్వయం నామ్నాం సహస్రమిదమబ్రవీత్
అస్య శ్రీవక్రతుణ్డమహాగణపతిసహస్రనామస్తోత్రమన్త్రస్య\\
మహాగణపతిర్ఋషిః। అనుష్టుప్ ఛన్దః। మహాగణపతిర్దేవతా।\\
గం బీజమ్। హుం శక్తిః। స్వాహా కీలకమ్।\\
చతుర్విధపురుషార్థసిద్ధ్యర్థే జపే వినియోగః।
కరన్యాసః
గణేశ్వరో గణక్రీడ ఇత్యఙ్గుష్ఠాభ్యాం నమః।\\
కుమారగురురీశాన ఇతి తర్జనీభ్యాం నమః।\\
బ్రహ్మాణ్డకుమ్భశ్చిద్వ్యోమేతి మధ్యమాభ్యాం నమః।\\
రక్తో రక్తామ్బరధర ఇత్యనామికాభ్యాం నమః।\\
సర్వసద్గురుసంసేవ్య ఇతి కనిష్ఠికాభ్యాం నమః।\\
లుప్తవిఘ్నః స్వభక్తానామితి కరతలకరపృష్ఠాభ్యాం నమః।\\
హృదయాదిన్యాసః
ఛన్దశ్ఛన్దోద్భవ ఇతి హృదయాయ నమః।\\
నిష్కలో నిర్మల ఇతి శిరసే స్వాహా।\\
సృష్టిస్థితిలయక్రీడ ఇతి శిఖాయై వషట్।\\
జ్ఞానం విజ్ఞానమానన్ద ఇతి కవచాయ హుమ్।\\
అష్టాఙ్గయోగఫలభృదితి నేత్రత్రయాయ వౌషట్।\\
అనన్తశక్తిసహిత ఇత్యస్త్రాయ ఫట్।\\
భూర్భువః స్వరోమ్ ఇతి దిగ్బన్ధః।\\
ధ్యానమ్
గజవదనమచిన్త్యం తీక్ష్ణదంష్ట్రం త్రినేత్రం
బృహదుదరమశేషం భూతిరాజం పురాణమ్
అమరవరసుపూజ్యం రక్తవర్ణం సురేశం
పశుపతిసుతమీశం విఘ్నరాజం నమామి
ఖర్వం స్థూలతనుం గజేన్ద్రవదనం లమ్బోదరం సున్దరం
ప్రస్యన్దన్మదగన్ధలుబ్ధమధుపవ్యాలోలగణ్డస్థలమ్
దన్తాఘాతవిదారితారిరుధిరైః సిన్దూరశోభాకరం
వన్దే శైలసుతాసుతం గణపతిం సిద్ధిప్రదం కామదమ్
సకలవిఘ్నవినాశనద్వారా శ్రీమహాగణపతిప్రసాదసిద్ధ్యర్థే జపే వినియోగః।
స్తోత్రమ్
శ్రీగణపతిరువాచ
ఓం గణేశ్వరో గణక్రీడో గణనాథో గణాధిపః
ఏకదన్తో వక్రతుణ్డో గజవక్త్రో మహోదరః
లమ్బోదరో ధూమ్రవర్ణో వికటో విఘ్ననాశనః
సుముఖో దుర్ముఖో బుద్ధో విఘ్నరాజో గజాననః
భీమః ప్రమోద ఆమోదః సురానన్దో మదోత్కటః
హేరమ్బః శమ్బరః శమ్భుర్లమ్బకర్ణో మహాబలః
నన్దనో లమ్పటో భీమో మేఘనాదో గణఞ్జయః
వినాయకో విరూపాక్షో వీరః శూరవరప్రదః
మహాగణపతిర్బుద్ధిప్రియః క్షిప్రప్రసాదనః
రుద్రప్రియో గణాధ్యక్ష ఉమాపుత్రోఽఘనాశనః
కుమారగురురీశానపుత్రో మూషకవాహనః
సిద్ధిప్రియః సిద్ధిపతిః సిద్ధః సిద్ధివినాయకః
అవిఘ్నస్తుమ్బురుః సింహవాహనో మోహినీప్రియః
కటఙ్కటో రాజపుత్రః శాకలః సమ్మితోఽమితః
కూష్మాణ్డసామసమ్భూతిర్దుర్జయో ధూర్జయో జయః
భూపతిర్భువనపతిర్భూతానాం పతిరవ్యయః
విశ్వకర్తా విశ్వముఖో విశ్వరూపో నిధిర్గుణః
కవిః కవీనామృషభో బ్రహ్మణ్యో బ్రహ్మవిత్ప్రియః
జ్యేష్ఠరాజో నిధిపతిర్నిధిప్రియపతిప్రియః
హిరణ్మయపురాన్తఃస్థః సూర్యమణ్డలమధ్యగః
కరాహతిధ్వస్తసిన్ధుసలిలః పూషదన్తభిత్
ఉమాఙ్కకేలికుతుకీ ముక్తిదః కులపావనః
కిరీటీ కుణ్డలీ హారీ వనమాలీ మనోమయః
వైముఖ్యహతదైత్యశ్రీః పాదాహతిజితక్షితిః
సద్యోజాతః స్వర్ణముఞ్జమేఖలీ దుర్నిమిత్తహృత్
దుఃస్వప్నహృత్ప్రసహనో గుణీ నాదప్రతిష్ఠితః
సురూపః సర్వనేత్రాధివాసో వీరాసనాశ్రయః
పీతామ్బరః ఖణ్డరదః ఖణ్డవైశాఖసంస్థితః
చిత్రాఙ్గః శ్యామదశనో భాలచన్ద్రో హవిర్భుజః
యోగాధిపస్తారకస్థః పురుషో గజకర్ణకః
గణాధిరాజో విజయః స్థిరో గజపతిర్ధ్వజీ
దేవదేవః స్మరః ప్రాణదీపకో వాయుకీలకః
విపశ్చిద్వరదో నాదో నాదభిన్నమహాచలః
వరాహరదనో మృత్యుఞ్జయో వ్యాఘ్రాజినామ్బరః
ఇచ్ఛాశక్తిభవో దేవత్రాతా దైత్యవిమర్దనః
శమ్భువక్త్రోద్భవః శమ్భుకోపహా శమ్భుహాస్యభూః
శమ్భుతేజాః శివాశోకహారీ గౌరీసుఖావహః
ఉమాఙ్గమలజో గౌరీతేజోభూః స్వర్ధునీభవః
యజ్ఞకాయో మహానాదో గిరివర్ష్మా శుభాననః
సర్వాత్మా సర్వదేవాత్మా బ్రహ్మమూర్ధా కకుప్శ్రుతిః
బ్రహ్మాణ్డకుమ్భశ్చిద్వ్యోమభాలఃసత్యశిరోరుహః
జగజ్జన్మలయోన్మేషనిమేషోఽగ్న్యర్కసోమదృక్
గిరీన్ద్రైకరదో ధర్మాధర్మోష్ఠః సామబృంహితః
గ్రహర్క్షదశనో వాణీజిహ్వో వాసవనాసికః
భ్రూమధ్యసంస్థితకరో బ్రహ్మవిద్యామదోదకః
కులాచలాంసః సోమార్కఘణ్టో రుద్రశిరోధరః
నదీనదభుజః సర్పాఙ్గులీకస్తారకానఖః
వ్యోమనాభిః శ్రీహృదయో మేరుపృష్ఠోఽర్ణవోదరః
కుక్షిస్థయక్షగన్ధర్వరక్షఃకిన్నరమానుషః
పృథ్వీకటిః సృష్టిలిఙ్గః శైలోరుర్దస్రజానుకః
పాతాలజఙ్ఘో మునిపాత్కాలాఙ్గుష్ఠస్త్రయీతనుః
జ్యోతిర్మణ్డలలాఙ్గూలో హృదయాలాననిశ్చలః
హృత్పద్మకర్ణికాశాలీ వియత్కేలిసరోవరః
సద్భక్తధ్యాననిగడః పూజావారినివారితః
ప్రతాపీ కాశ్యపో మన్తా గణకో విష్టపీ బలీ
యశస్వీ ధార్మికో జేతా ప్రథమః ప్రమథేశ్వరః
చిన్తామణిర్ద్వీపపతిః కల్పద్రుమవనాలయః
రత్నమణ్డపమధ్యస్థో రత్నసింహాసనాశ్రయః
తీవ్రాశిరోద్ధృతపదో జ్వాలినీమౌలిలాలితః
నన్దానన్దితపీఠశ్రీర్భోగదో భూషితాసనః
సకామదాయినీపీఠః స్ఫురదుగ్రాసనాశ్రయః
తేజోవతీశిరోరత్నం సత్యానిత్యావతంసితః
సవిఘ్ననాశినీపీఠః సర్వశక్త్యమ్బుజాలయః
లిపిపద్మాసనాధారో వహ్నిధామత్రయాలయః
ఉన్నతప్రపదో గూఢగుల్ఫః సంవృతపార్ష్ణికః
పీనజఙ్ఘః శ్లిష్టజానుః స్థూలోరుః ప్రోన్నమత్కటిః
నిమ్ననాభిః స్థూలకుక్షిః పీనవక్షా బృహద్భుజః
పీనస్కన్ధః కమ్బుకణ్ఠో లమ్బోష్ఠో లమ్బనాసికః
భగ్నవామరదస్తుఙ్గసవ్యదన్తో మహాహనుః
హ్రస్వనేత్రత్రయః శూర్పకర్ణో నిబిడమస్తకః
స్తబకాకారకుమ్భాగ్రో రత్నమౌలిర్నిరఙ్కుశః
సర్పహారకటీసూత్రః సర్పయజ్ఞోపవీతవాన్
సర్పకోటీరకటకః సర్పగ్రైవేయకాఙ్గదః
సర్పకక్షోదరాబన్ధః సర్పరాజోత్తరచ్ఛదః
రక్తో రక్తామ్బరధరో రక్తమాలావిభూషణః
రక్తేక్షణో రక్తకరో రక్తతాల్వోష్ఠపల్లవః
శ్వేతః శ్వేతామ్బరధరః శ్వేతమాలావిభూషణః
శ్వేతాతపత్రరుచిరః శ్వేతచామరవీజితః
సర్వావయవసమ్పూర్ణః సర్వలక్షణలక్షితః
సర్వాభరణశోభాఢ్యః సర్వశోభాసమన్వితః
సర్వమఙ్గలమాఙ్గల్యః సర్వకారణకారణమ్
సర్వదేవవరః శార్ఙ్గీ బీజపూరీ గదాధరః
ఇక్షుచాపధరః శూలీ చక్రపాణిః సరోజభృత్
పాశీ ధృతోత్పలః శాలిమఞ్జరీభృత్స్వదన్తభృత్
కల్పవల్లీధరో విశ్వాభయదైకకరో వశీ
అక్షమాలాధరో జ్ఞానముద్రావాన్ ముద్గరాయుధః
పూర్ణపాత్రీ కమ్బుధరో విధృతాఙ్కుశమూలకః
కరస్థామ్రఫలశ్చూతకలికాభృత్కుఠారవాన్
పుష్కరస్థస్వర్ణఘటీపూర్ణరత్నాభివర్షకః
భారతీసున్దరీనాథో వినాయకరతిప్రియః
మహాలక్ష్మీప్రియతమః సిద్ధలక్ష్మీమనోరమః
రమారమేశపూర్వాఙ్గో దక్షిణోమామహేశ్వరః
మహీవరాహవామాఙ్గో రతికన్దర్పపశ్చిమః
ఆమోదమోదజననః సమ్ప్రమోదప్రమోదనః
సంవర్ధితమహావృద్ధిరృద్ధిసిద్ధిప్రవర్ధనః
దన్తసౌముఖ్యసుముఖః కాన్తికన్దలితాశ్రయః
మదనావత్యాశ్రితాఙ్ఘ్రిః కృతవైముఖ్యదుర్ముఖః
విఘ్నసమ్పల్లవః పద్మః సర్వోన్నతమదద్రవః
విఘ్నకృన్నిమ్నచరణో ద్రావిణీశక్తిసత్కృతః
తీవ్రాప్రసన్ననయనో జ్వాలినీపాలితైకదృక్
మోహినీమోహనో భోగదాయినీకాన్తిమణ్డనః
కామినీకాన్తవక్త్రశ్రీరధిష్ఠితవసున్ధరః
వసుధారామదోన్నాదో మహాశఙ్ఖనిధిప్రియః
నమద్వసుమతీమాలీ మహాపద్మనిధిః ప్రభుః
సర్వసద్గురుసంసేవ్యః శోచిష్కేశహృదాశ్రయః
ఈశానమూర్ధా దేవేన్ద్రశిఖః పవననన్దనః
ప్రత్యుగ్రనయనో దివ్యో దివ్యాస్త్రశతపర్వధృక్
ఐరావతాదిసర్వాశావారణో వారణప్రియః
వజ్రాద్యస్త్రపరీవారో గణచణ్డసమాశ్రయః
జయాజయపరికరో విజయావిజయావహః
అజయార్చితపాదాబ్జో నిత్యానన్దవనస్థితః
విలాసినీకృతోల్లాసః శౌణ్డీ సౌన్దర్యమణ్డితః
అనన్తానన్తసుఖదః సుమఙ్గలసుమఙ్గలః
జ్ఞానాశ్రయః క్రియాధార ఇచ్ఛాశక్తినిషేవితః
సుభగాసంశ్రితపదో లలితాలలితాశ్రయః
కామినీపాలనః కామకామినీకేలిలాలితః
సరస్వత్యాశ్రయో గౌరీనన్దనః శ్రీనికేతనః
గురుగుప్తపదో వాచాసిద్ధో వాగీశ్వరీపతిః
నలినీకాముకో వామారామో జ్యేష్ఠామనోరమః
రౌద్రీముద్రితపాదాబ్జో హుమ్బీజస్తుఙ్గశక్తికః
విశ్వాదిజననత్రాణః స్వాహాశక్తిః సకీలకః
అమృతాబ్ధికృతావాసో మదఘూర్ణితలోచనః
ఉచ్ఛిష్టోచ్ఛిష్టగణకో గణేశో గణనాయకః
సార్వకాలికసంసిద్ధిర్నిత్యసేవ్యో దిగమ్బరః
అనపాయోఽనన్తదృష్టిరప్రమేయోఽజరామరః
అనావిలోఽప్రతిహతిరచ్యుతోఽమృతమక్షరః
అప్రతర్క్యోఽక్షయోఽజయ్యోఽనాధారోఽనామయోఽమలః
అమేయసిద్ధిరద్వైతమఘోరోఽగ్నిసమాననః
అనాకారోఽబ్ధిభూమ్యగ్నిబలఘ్నోఽవ్యక్తలక్షణః
ఆధారపీఠమాధార ఆధారాధేయవర్జితః
ఆఖుకేతన ఆశాపూరక ఆఖుమహారథః
ఇక్షుసాగరమధ్యస్థ ఇక్షుభక్షణలాలసః
ఇక్షుచాపాతిరేకశ్రీరిక్షుచాపనిషేవితః
ఇన్ద్రగోపసమానశ్రీరిన్ద్రనీలసమద్యుతిః
ఇన్దీవరదలశ్యామ ఇన్దుమణ్డలమణ్డితః
ఇధ్మప్రియ ఇడాభాగ ఇడావానిన్దిరాప్రియః
ఇక్ష్వాకువిఘ్నవిధ్వంసీ ఇతికర్తవ్యతేప్సితః
ఈశానమౌలిరీశాన ఈశానప్రియ ఈతిహా
ఈషణాత్రయకల్పాన్త ఈహామాత్రవివర్జితః
ఉపేన్ద్ర ఉడుభృన్మౌలిరుడునాథకరప్రియః
ఉన్నతానన ఉత్తుఙ్గ ఉదారస్త్రిదశాగ్రణీః
ఊర్జస్వానూష్మలమద ఊహాపోహదురాసదః
ఋగ్యజుఃసామనయన ఋద్ధిసిద్ధిసమర్పకః
ఋజుచిత్తైకసులభో ఋణత్రయవిమోచనః
లుప్తవిఘ్నః స్వభక్తానాం లుప్తశక్తిః సురద్విషామ్
లుప్తశ్రీర్విముఖార్చానాం లూతావిస్ఫోటనాశనః
ఏకారపీఠమధ్యస్థ ఏకపాదకృతాసనః
ఏజితాఖిలదైత్యశ్రీరేధితాఖిలసంశ్రయః
ఐశ్వర్యనిధిరైశ్వర్యమైహికాముష్మికప్రదః
ఐరమ్మదసమోన్మేష ఐరావతసమాననః
ఓఙ్కారవాచ్య ఓఙ్కార ఓజస్వానోషధీపతిః
ఔదార్యనిధిరౌద్ధత్యధైర్య ఔన్నత్యనిఃసమః
అఙ్కుశః సురనాగానామఙ్కుశాకారసంస్థితః
అః సమస్తవిసర్గాన్తపదేషు పరికీర్తితః
కమణ్డలుధరః కల్పః కపర్దీ కలభాననః
కర్మసాక్షీ కర్మకర్తా కర్మాకర్మఫలప్రదః
కదమ్బగోలకాకారః కూష్మాణ్డగణనాయకః
కారుణ్యదేహః కపిలః కథకః కటిసూత్రభృత్
ఖర్వః ఖడ్గప్రియః ఖడ్గః ఖాన్తాన్తఃస్థః ఖనిర్మలః
ఖల్వాటశృఙ్గనిలయః ఖట్వాఙ్గీ ఖన్దురాసదః
గుణాఢ్యో గహనో గద్యో గద్యపద్యసుధార్ణవః
గద్యగానప్రియో గర్జో గీతగీర్వాణపూర్వజః
గుహ్యాచారరతో గుహ్యో గుహ్యాగమనిరూపితః
గుహాశయో గుడాబ్ధిస్థో గురుగమ్యో గురుర్గురుః
ఘణ్టాఘర్ఘరికామాలీ ఘటకుమ్భో ఘటోదరః
ఙకారవాచ్యో ఙాకారో ఙకారాకారశుణ్డభృత్
చణ్డశ్చణ్డేశ్వరశ్చణ్డీ చణ్డేశశ్చణ్డవిక్రమః
చరాచరపితా చిన్తామణిశ్చర్వణలాలసః
ఛన్దశ్ఛన్దోద్భవశ్ఛన్దో దుర్లక్ష్యశ్ఛన్దవిగ్రహః
జగద్యోనిర్జగత్సాక్షీ జగదీశో జగన్మయః
జప్యో జపపరో జాప్యో జిహ్వాసింహాసనప్రభుః
స్రవద్గణ్డోల్లసద్ధానఝఙ్కారిభ్రమరాకులః
టఙ్కారస్ఫారసంరావష్టఙ్కారమణినూపురః
ఠద్వయీపల్లవాన్తస్థసర్వమన్త్రేషు సిద్ధిదః
డిణ్డిముణ్డో డాకినీశో డామరో డిణ్డిమప్రియః
ఢక్కానినాదముదితో ఢౌఙ్కో ఢుణ్ఢివినాయకః
తత్త్వానాం ప్రకృతిస్తత్త్వం తత్త్వమ్పదనిరూపితః
తారకాన్తరసంస్థానస్తారకస్తారకాన్తకః
స్థాణుః స్థాణుప్రియః స్థాతా స్థావరం జఙ్గమం జగత్
దక్షయజ్ఞప్రమథనో దాతా దానం దమో దయా
దయావాన్దివ్యవిభవో దణ్డభృద్దణ్డనాయకః
దన్తప్రభిన్నాభ్రమాలో దైత్యవారణదారణః
దంష్ట్రాలగ్నద్వీపఘటో దేవార్థనృగజాకృతిః
ధనం ధనపతేర్బన్ధుర్ధనదో ధరణీధరః
ధ్యానైకప్రకటో ధ్యేయో ధ్యానం ధ్యానపరాయణః
ధ్వనిప్రకృతిచీత్కారో బ్రహ్మాణ్డావలిమేఖలః
నన్ద్యో నన్దిప్రియో నాదో నాదమధ్యప్రతిష్ఠితః
నిష్కలో నిర్మలో నిత్యో నిత్యానిత్యో నిరామయః
పరం వ్యోమ పరం ధామ పరమాత్మా పరం పదమ్
పరాత్పరః పశుపతిః పశుపాశవిమోచనః
పూర్ణానన్దః పరానన్దః పురాణపురుషోత్తమః
పద్మప్రసన్నవదనః ప్రణతాజ్ఞాననాశనః
ప్రమాణప్రత్యయాతీతః ప్రణతార్తినివారణః
ఫణిహస్తః ఫణిపతిః ఫూత్కారః ఫణితప్రియః
బాణార్చితాఙ్ఘ్రియుగలో బాలకేలికుతూహలీ
బ్రహ్మ బ్రహ్మార్చితపదో బ్రహ్మచారీ బృహస్పతిః
బృహత్తమో బ్రహ్మపరో బ్రహ్మణ్యో బ్రహ్మవిత్ప్రియః
బృహన్నాదాగ్ర్యచీత్కారో బ్రహ్మాణ్డావలిమేఖలః
భ్రూక్షేపదత్తలక్ష్మీకో భర్గో భద్రో భయాపహః
భగవాన్ భక్తిసులభో భూతిదో భూతిభూషణః
భవ్యో భూతాలయో భోగదాతా భ్రూమధ్యగోచరః
మన్త్రో మన్త్రపతిర్మన్త్రీ మదమత్తో మనోరమః
మేఖలాహీశ్వరో మన్దగతిర్మన్దనిభేక్షణః
మహాబలో మహావీర్యో మహాప్రాణో మహామనాః
యజ్ఞో యజ్ఞపతిర్యజ్ఞగోప్తా యజ్ఞఫలప్రదః
యశస్కరో యోగగమ్యో యాజ్ఞికో యాజకప్రియః
రసో రసప్రియో రస్యో రఞ్జకో రావణార్చితః
రాజ్యరక్షాకరో రత్నగర్భో రాజ్యసుఖప్రదః
లక్షో లక్షపతిర్లక్ష్యో లయస్థో లడ్డుకప్రియః
లాసప్రియో లాస్యపరో లాభకృల్లోకవిశ్రుతః
వరేణ్యో వహ్నివదనో వన్ద్యో వేదాన్తగోచరః
వికర్తా విశ్వతశ్చక్షుర్విధాతా విశ్వతోముఖః
వామదేవో విశ్వనేతా వజ్రివజ్రనివారణః
వివస్వద్ బన్ధనో విశ్వాధారో విశ్వేశ్వరో విభుః
శబ్దబ్రహ్మ శమప్రాప్యః శమ్భుశక్తిగణేశ్వరః
శాస్తా శిఖాగ్రనిలయః శరణ్యః శమ్బరేశ్వరః
షడృతుకుసుమస్రగ్వీ షడాధారః షడక్షరః
సంసారవైద్యః సర్వజ్ఞః సర్వభేషజభేషజమ్
సృష్టిస్థితిలయక్రీడః సురకుఞ్జరభేదకః
సిన్దూరితమహాకుమ్భః సదసద్భక్తిదాయకః
సాక్షీ సముద్రమథనః స్వయంవేద్యః స్వదక్షిణః
స్వతన్త్రః సత్యసఙ్కల్పః సామగానరతః సుఖీ
హంసో హస్తిపిశాచీశో హవనం హవ్యకవ్యభుక్
హవ్యం హుతప్రియో హృష్టో హృల్లేఖామన్త్రమధ్యగః
క్షేత్రాధిపః క్షమాభర్తా క్షమాక్షమపరాయణః
క్షిప్రక్షేమకరః క్షేమానన్దః క్షోణీసురద్రుమః
ధర్మప్రదోఽర్థదః కామదాతా సౌభాగ్యవర్ధనః
విద్యాప్రదో విభవదో భుక్తిముక్తిఫలప్రదః
ఆభిరూప్యకరో వీరశ్రీప్రదో విజయప్రదః
సర్వవశ్యకరో గర్భదోషహా పుత్రపౌత్రదః
మేధాదః కీర్తిదః శోకహారీ దౌర్భాగ్యనాశనః
ప్రతివాదిముఖస్తమ్భో రుష్టచిత్తప్రసాదనః
పరాభిచారశమనో దుఃఖహా బన్ధమోక్షదః
లవస్త్రుటిః కలా కాష్ఠా నిమేషస్తత్పరక్షణః
ఘటీ ముహూర్తః ప్రహరో దివా నక్తమహర్నిశమ్
పక్షో మాసర్త్వయనాబ్దయుగం కల్పో మహాలయః
రాశిస్తారా తిథిర్యోగో వారః కరణమంశకమ్
లగ్నం హోరా కాలచక్రం మేరుః సప్తర్షయో ధ్రువః
రాహుర్మన్దః కవిర్జీవో బుధో భౌమః శశీ రవిః
కాలః సృష్టిః స్థితిర్విశ్వం స్థావరం జఙ్గమం జగత్
భూరాపోఽగ్నిర్మరుద్వ్యోమాహఙ్కృతిః ప్రకృతిః పుమాన్
బ్రహ్మా విష్ణుః శివో రుద్ర ఈశః శక్తిః సదాశివః
త్రిదశాః పితరః సిద్ధా యక్షా రక్షాంసి కిన్నరాః
సిద్ధవిద్యాధరా భూతా మనుష్యాః పశవః ఖగాః
సముద్రాః సరితః శైలా భూతం భవ్యం భవోద్భవః
సాఙ్ఖ్యం పాతఞ్జలం యోగం పురాణాని శ్రుతిః స్మృతిః
వేదాఙ్గాని సదాచారో మీమాంసా న్యాయవిస్తరః
ఆయుర్వేదో ధనుర్వేదో గాన్ధర్వం కావ్యనాటకమ్
వైఖానసం భాగవతం మానుషం పాఞ్చరాత్రకమ్
శైవం పాశుపతం కాలాముఖం భైరవశాసనమ్
శాక్తం వైనాయకం సౌరం జైనమార్హతసంహితా
సదసద్వ్యక్తమవ్యక్తం సచేతనమచేతనమ్
బన్ధో మోక్షః సుఖం భోగో యోగః సత్యమణుర్మహాన్
స్వస్తి హుమ్ఫట్ స్వధా స్వాహా శ్రౌషట్ వౌషట్ వషణ్ణమః
జ్ఞానం విజ్ఞానమానన్దో బోధః సంవిత్సమోఽసమః
ఏక ఏకాక్షరాధార ఏకాక్షరపరాయణః
ఏకాగ్రధీరేకవీర ఏకోఽనేకస్వరూపధృక్
ద్విరూపో ద్విభుజో ద్వ్యక్షో ద్విరదో ద్వీపరక్షకః
ద్వైమాతురో ద్వివదనో ద్వన్ద్వహీనో ద్వయాతిగః
త్రిధామా త్రికరస్త్రేతా త్రివర్గఫలదాయకః
త్రిగుణాత్మా త్రిలోకాదిస్త్రిశక్తీశస్త్రిలోచనః
చతుర్విధవచోవృత్తిపరివృత్తిప్రవర్తకః
చతుర్బాహుశ్చతుర్దన్తశ్చతురాత్మా చతుర్భుజః
చతుర్విధోపాయమయశ్చతుర్వర్ణాశ్రమాశ్రయః
చతుర్థీపూజనప్రీతశ్చతుర్థీతిథిసమ్భవః
పఞ్చాక్షరాత్మా పఞ్చాత్మా పఞ్చాస్యః పఞ్చకృత్తమః
పఞ్చాధారః పఞ్చవర్ణః పఞ్చాక్షరపరాయణః
పఞ్చతాలః పఞ్చకరః పఞ్చప్రణవమాతృకః
పఞ్చబ్రహ్మమయస్ఫూర్తిః పఞ్చావరణవారితః
పఞ్చభక్షప్రియః పఞ్చబాణః పఞ్చశివాత్మకః
షట్కోణపీఠః షట్చక్రధామా షడ్గ్రన్థిభేదకః
షడఙ్గధ్వాన్తవిధ్వంసీ షడఙ్గులమహాహ్రదః
షణ్ముఖః షణ్ముఖభ్రాతా షట్శక్తిపరివారితః
షడ్వైరివర్గవిధ్వంసీ షడూర్మిభయభఞ్జనః
షట్తర్కదూరః షట్కర్మా షడ్గుణః షడ్రసాశ్రయః
సప్తపాతాలచరణః సప్తద్వీపోరుమణ్డలః
సప్తస్వర్లోకముకుటః సప్తసప్తివరప్రదః
సప్తాఙ్గరాజ్యసుఖదః సప్తర్షిగణవన్దితః
సప్తచ్ఛన్దోనిధిః సప్తహోత్రః సప్తస్వరాశ్రయః
సప్తాబ్ధికేలికాసారః సప్తమాతృనిషేవితః
సప్తచ్ఛన్దో మోదమదః సప్తచ్ఛన్దో మఖప్రభుః
అష్టమూర్తిర్ధ్యేయమూర్తిరష్టప్రకృతికారణమ్
అష్టాఙ్గయోగఫలభృదష్టపత్రామ్బుజాసనః
అష్టశక్తిసమానశ్రీరష్టైశ్వర్యప్రవర్ధనః
అష్టపీఠోపపీఠశ్రీరష్టమాతృసమావృతః
అష్టభైరవసేవ్యోఽష్టవసువన్ద్యోఽష్టమూర్తిభృత్
అష్టచక్రస్ఫురన్మూర్తిరష్టద్రవ్యహవిఃప్రియః
అష్టశ్రీరష్టసామశ్రీరష్టైశ్వర్యప్రదాయకః
నవనాగాసనాధ్యాసీ నవనిధ్యనుశాసితః
నవద్వారపురావృత్తో నవద్వారనికేతనః
నవనాథమహానాథో నవనాగవిభూషితః
నవనారాయణస్తుల్యో నవదుర్గానిషేవితః
నవరత్నవిచిత్రాఙ్గో నవశక్తిశిరోద్ధృతః
దశాత్మకో దశభుజో దశదిక్పతివన్దితః
దశాధ్యాయో దశప్రాణో దశేన్ద్రియనియామకః
దశాక్షరమహామన్త్రో దశాశావ్యాపివిగ్రహః
ఏకాదశమహారుద్రైఃస్తుతశ్చైకాదశాక్షరః
ద్వాదశద్విదశాష్టాదిదోర్దణ్డాస్త్రనికేతనః
త్రయోదశభిదాభిన్నో విశ్వేదేవాధిదైవతమ్
చతుర్దశేన్ద్రవరదశ్చతుర్దశమనుప్రభుః
చతుర్దశాద్యవిద్యాఢ్యశ్చతుర్దశజగత్పతిః
సామపఞ్చదశః పఞ్చదశీశీతాంశునిర్మలః
తిథిపఞ్చదశాకారస్తిథ్యా పఞ్చదశార్చితః
షోడశాధారనిలయః షోడశస్వరమాతృకః
షోడశాన్తపదావాసః షోడశేన్దుకలాత్మకః
కలాసప్తదశీ సప్తదశసప్తదశాక్షరః
అష్టాదశద్వీపపతిరష్టాదశపురాణకృత్
అష్టాదశౌషధీసృష్టిరష్టాదశవిధిః స్మృతః
అష్టాదశలిపివ్యష్టిసమష్టిజ్ఞానకోవిదః
అష్టాదశాన్నసమ్పత్తిరష్టాదశవిజాతికృత్
ఏకవింశః పుమానేకవింశత్యఙ్గులిపల్లవః
చతుర్వింశతితత్త్వాత్మా పఞ్చవింశాఖ్యపూరుషః
సప్తవింశతితారేశః సప్తవింశతియోగకృత్
ద్వాత్రింశద్భైరవాధీశశ్చతుస్త్రింశన్మహాహ్రదః
షట్త్రింశత్తత్త్వసమ్భూతిరష్టత్రింశత్కలాత్మకః
పఞ్చాశద్విష్ణుశక్తీశః పఞ్చాశన్మాతృకాలయః
ద్విపఞ్చాశద్వపుఃశ్రేణీ త్రిషష్ట్యక్షరసంశ్రయః
పఞ్చాశదక్షరశ్రేణీపఞ్చాశద్రుద్రవిగ్రహః
చతుఃషష్టిమహాసిద్ధియోగినీవృన్దవన్దితః
నమదేకోనపఞ్చాశన్మరుద్వర్గనిరర్గలః
చతుఃషష్ట్యర్థనిర్ణేతా చతుఃషష్టికలానిధిః
అష్టషష్టిమహాతీర్థక్షేత్రభైరవవన్దితః
చతుర్నవతిమన్త్రాత్మా షణ్ణవత్యధికప్రభుః
శతానన్దః శతధృతిః శతపత్రాయతేక్షణః
శతానీకః శతమఖః శతధారావరాయుధః
సహస్రపత్రనిలయః సహస్రఫణిభూషణః
సహస్రశీర్షా పురుషః సహస్రాక్షః సహస్రపాత్
సహస్రనామసంస్తుత్యః సహస్రాక్షబలాపహః
దశసాహస్రఫణిభృత్ఫణిరాజకృతాసనః
అష్టాశీతిసహస్రాద్యమహర్షిస్తోత్రపాఠితః
లక్షాధారః ప్రియాధారో లక్షాధారమనోమయః
చతుర్లక్షజపప్రీతశ్చతుర్లక్షప్రకాశకః
చతురశీతిలక్షాణాం జీవానాం దేహసంస్థితః
కోటిసూర్యప్రతీకాశః కోటిచన్ద్రాంశునిర్మలః
శివోద్భవాద్యష్టకోటివైనాయకధురన్ధరః
సప్తకోటిమహామన్త్రమన్త్రితావయవద్యుతిః
త్రయస్త్రింశత్కోటిసురశ్రేణీప్రణతపాదుకః
అనన్తదేవతాసేవ్యో హ్యనన్తశుభదాయకః
అనన్తనామానన్తశ్రీరనన్తోఽనన్తసౌఖ్యదః
అనన్తశక్తిసహితో హ్యనన్తమునిసంస్తుతః
ఫలశ్రుతిః
ఇతి వైనాయకం నామ్నాం సహస్రమిదమీరితమ్
ఇదం బ్రాహ్మే ముహూర్తే యః పఠతి ప్రత్యహం నరః
కరస్థం తస్య సకలమైహికాముష్మికం సుఖమ్
ఆయురారోగ్యమైశ్వర్యం ధైర్యం శౌర్యం బలం యశః
మేధా ప్రజ్ఞా ధృతిః కాన్తిః సౌభాగ్యమభిరూపతా
సత్యం దయా క్షమా శాన్తిర్దాక్షిణ్యం ధర్మశీలతా
జగత్సంవననం విశ్వసంవాదో వేదపాటవమ్
సభాపాణ్డిత్యమౌదార్యం గామ్భీర్యం బ్రహ్మవర్చసమ్
ఓజస్తేజః కులం శీలం ప్రతాపో వీర్యమార్యతా
జ్ఞానం విజ్ఞానమాస్తిక్యం స్థైర్యం విశ్వాసతా తథా
ధనధాన్యాదివృద్ధిశ్చ సకృదస్య జపాద్భవేత్
వశ్యం చతుర్విధం విశ్వం జపాదస్య ప్రజాయతే
రాజ్ఞో రాజకలత్రస్య రాజపుత్రస్య మన్త్రిణః
జప్యతే యస్య వశ్యార్థే స దాసస్తస్య జాయతే
ధర్మార్థకామమోక్షాణామనాయాసేన సాధనమ్
శాకినీడాకినీరక్షోయక్షగ్రహభయాపహమ్
సామ్రాజ్యసుఖదం సర్వసపత్నమదమర్దనమ్
సమస్తకలహధ్వంసి దగ్ధబీజప్రరోహణమ్
దుఃస్వప్నశమనం క్రుద్ధస్వామిచిత్తప్రసాదనమ్
షడ్వర్గాష్టమహాసిద్ధిత్రికాలజ్ఞానకారణమ్
పరకృత్యప్రశమనం పరచక్రప్రమర్దనమ్
సఙ్గ్రామమార్గే సర్వేషామిదమేకం జయావహమ్
సర్వవన్ధ్యత్వదోషఘ్నం గర్భరక్షైకకారణమ్
పఠ్యతే ప్రత్యహం యత్ర స్తోత్రం గణపతేరిదమ్
దేశే తత్ర న దుర్భిక్షమీతయో దురితాని చ
న తద్గేహం జహాతి శ్రీర్యత్రాయం జప్యతే స్తవః
క్షయకుష్ఠప్రమేహార్శభగన్దరవిషూచికాః
గుల్మం ప్లీహానమాధ్మానమతిసారం మహోదరమ్
కాసం శ్వాసముదావర్తం శూలం శోఫామయోదరమ్
శిరోరోగం వమిం హిక్కాం గణ్డమాలామరోచకమ్
వాతపిత్తకఫద్వన్ద్వత్రిదోషజనితజ్వరమ్
ఆగన్తువిషమం శీతముష్ణం చైకాహికాదికమ్
ఇత్యాద్యుక్తమనుక్తం వా రోగదోషాదిసమ్భవమ్
సర్వం ప్రశమయత్యాశు స్తోత్రస్యాస్య సకృజ్జపః
ప్రాప్యతేఽస్య జపాత్సిద్ధిః స్త్రీశూద్రైః పతితైరపి
సహస్రనామమన్త్రోఽయం జపితవ్యః శుభాప్తయే
మహాగణపతేః స్తోత్రం సకామః ప్రజపన్నిదమ్
ఇచ్ఛయా సకలాన్ భోగానుపభుజ్యేహ పార్థివాన్
మనోరథఫలైర్దివ్యైర్వ్యోమయానైర్మనోరమైః
చన్ద్రేన్ద్రభాస్కరోపేన్ద్రబ్రహ్మశర్వాదిసద్మసు
కామరూపః కామగతిః కామదః కామదేశ్వరః
భుక్త్వా యథేప్సితాన్భోగానభీష్టైః సహ బన్ధుభిః
గణేశానుచరో భూత్వా గణో గణపతిప్రియః
నన్దీశ్వరాదిసానన్దైర్నన్దితః సకలైర్గణైః
శివాభ్యాం కృపయా పుత్రనిర్విశేషం చ లాలితః
శివభక్తః పూర్ణకామో గణేశ్వరవరాత్పునః
జాతిస్మరో ధర్మపరః సార్వభౌమోఽభిజాయతే
నిష్కామస్తు జపన్నిత్యం భక్త్యా విఘ్నేశతత్పరః
యోగసిద్ధిం పరాం ప్రాప్య జ్ఞానవైరాగ్యసంయుతః
నిరన్తరే నిరాబాధే పరమానన్దసంజ్ఞితే
విశ్వోత్తీర్ణే పరే పూర్ణే పునరావృత్తివర్జితే
లీనో వైనాయకే ధామ్ని రమతే నిత్యనిర్వృతే
యో నామభిర్హుతైర్దత్తైః పూజయేదర్చయేన్నరః
రాజానో వశ్యతాం యాన్తి రిపవో యాన్తి దాసతామ్
తస్య సిధ్యన్తి మన్త్రాణాం దుర్లభాశ్చేష్టసిద్ధయః
మూలమన్త్రాదపి స్తోత్రమిదం ప్రియతమం మమ
నభస్యే మాసి శుక్లాయాం చతుర్థ్యాం మమ జన్మని
దూర్వాభిర్నామభిః పూజాం తర్పణం విధివచ్చరేత్
అష్టద్రవ్యైర్విశేషేణ కుర్యాద్భక్తిసుసంయుతః
తస్యేప్సితం ధనం ధాన్యమైశ్వర్యం విజయో యశః
భవిష్యతి న సన్దేహః పుత్రపౌత్రాదికం సుఖమ్
ఇదం ప్రజపితం స్తోత్రం పఠితం శ్రావితం శ్రుతమ్
వ్యాకృతం చర్చితం ధ్యాతం విమృష్టమభివన్దితమ్
ఇహాముత్ర చ విశ్వేషాం విశ్వైశ్వర్యప్రదాయకమ్
స్వచ్ఛన్దచారిణాప్యేష యేన సన్ధార్యతే స్తవః
స రక్ష్యతే శివోద్భూతైర్గణైరధ్యష్టకోటిభిః
లిఖితం పుస్తకస్తోత్రం మన్త్రభూతం ప్రపూజయేత్
తత్ర సర్వోత్తమా లక్ష్మీః సన్నిధత్తే నిరన్తరమ్
దానైరశేషైరఖిలైర్వ్రతైశ్చ
తీర్థైరశేషైరఖిలైర్మఖైశ్చ
న తత్ఫలం విన్దతి యద్గణేశ-
సహస్రనామస్మరణేన సద్యః
ఏతన్నామ్నాం సహస్రం పఠతి దినమణౌ ప్రత్యహం ప్రోజ్జిహానే
సాయం మధ్యన్దినే వా త్రిషవణమథవా సన్తతం వా జనో యః
స స్యాదైశ్వర్యధుర్యః ప్రభవతి వచసాం కీర్తిముచ్చైస్తనోతి
దారిద్ర్యం హన్తి విశ్వం వశయతి సుచిరం వర్ధతే పుత్రపౌత్రైః
అకిఞ్చనోఽప్యేకచిత్తో నియతో నియతాసనః
ప్రజపంశ్చతురో మాసాన్ గణేశార్చనతత్పరః
దరిద్రతాం సమున్మూల్య సప్తజన్మానుగామపి
లభతే మహతీం లక్ష్మీమిత్యాజ్ఞా పారమేశ్వరీ
ఆయుష్యం వీతరోగం కులమతివిమలం సమ్పదశ్చార్తినాశః
కీర్తిర్నిత్యావదాతా భవతి ఖలు నవా కాన్తిరవ్యాజభవ్యా
పుత్రాః సన్తః కలత్రం గుణవదభిమతం యద్యదన్యచ్చ తత్తత్
నిత్యం యః స్తోత్రమేతత్ పఠతి గణపతేస్తస్య హస్తే సమస్తమ్
గణఞ్జయో గణపతిర్హేరమ్బో ధరణీధరః
మహాగణపతిర్బుద్ధిప్రియః క్షిప్రప్రసాదనః
అమోఘసిద్ధిరమృతమన్త్రశ్చిన్తామణిర్నిధిః
సుమఙ్గలో బీజమాశాపూరకో వరదః కలః
కాశ్యపో నన్దనో వాచాసిద్ధో ఢుణ్ఢిర్వినాయకః
మోదకైరేభిరత్రైకవింశత్యా నామభిః పుమాన్
ఉపాయనం దదేద్భక్త్యా మత్ప్రసాదం చికీర్షతి
వత్సరం విఘ్నరాజోఽస్య తథ్యమిష్టార్థసిద్ధయే
యః స్తౌతి మద్గతమనా మమారాధనతత్పరః
స్తుతో నామ్నా సహస్రేణ తేనాహం నాత్ర సంశయః
నమో నమః సురవరపూజితాఙ్ఘ్రయే
నమో నమో నిరుపమమఙ్గలాత్మనే
నమో నమో విపులదయైకసిద్ధయే
నమో నమః కరికలభాననాయ తే
కిఙ్కిణీగణరచితచరణః
ప్రకటితగురుమితచారుకరణః
మదజలలహరీకలితకపోలః
శమయతు దురితం గణపతినామ్నా
॥ఇతి శ్రీగణేశపురాణే ఉపాసనాఖణ్డే ఈశ్వరగణేశసంవాదే గణేశసహస్రనామస్తోత్రం నామ షట్చత్వారింశోఽధ్యాయః॥
vakratuṇḍamahāgaṇapatisahasranāmastotram
muniruvāca
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiṣṭavān
śivadaṃ tanmamācakṣva lokānugrahatatpara
brahmovāca
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame
anarcanādgaṇeśasya jāto vighnākulaḥ kila
manasā sa vinirdhārya dadṛśe vighnakāraṇam
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi
vighnapraśamanopāyamapṛcchadapariśramam
santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam
sarvavighnapraśamanaṃ sarvakāmaphalapradam
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt
asya śrīvakratuṇḍamahāgaṇapatisahasranāmastotramantrasya\\
mahāgaṇapatirṛṣiḥ| anuṣṭup chandaḥ| mahāgaṇapatirdevatā|\\
gaṃ bījam| huṃ śaktiḥ| svāhā kīlakam|\\
caturvidhapuruṣārthasiddhyarthe jape viniyogaḥ|
karanyāsaḥ
gaṇeśvaro gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ|\\
kumāragururīśāna iti tarjanībhyāṃ namaḥ|\\
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ|\\
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ|\\
sarvasadgurusaṃsevya iti kaniṣṭhikābhyāṃ namaḥ|\\
luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ|\\
hṛdayādinyāsaḥ
chandaśchandodbhava iti hṛdayāya namaḥ|\\
niṣkalo nirmala iti śirase svāhā|\\
sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ|\\
jñānaṃ vijñānamānanda iti kavacāya hum|\\
aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ|\\
anantaśaktisahita ityastrāya phaṭ|\\
bhūrbhuvaḥ svarom iti digbandhaḥ|\\
dhyānam
gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃ
bṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi
kharvaṃ sthūlatanuṃ gajendravadanaṃ lambodaraṃ sundaraṃ
prasyandanmadagandhalubdhamadhupavyālolagaṇḍasthalam
dantāghātavidāritārirudhiraiḥ sindūraśobhākaraṃ
vande śailasutāsutaṃ gaṇapatiṃ siddhipradaṃ kāmadam
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ|
stotram
śrīgaṇapatiruvāca
oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ
ekadanto vakratuṇḍo gajavaktro mahodaraḥ
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ
sumukho durmukho buddho vighnarājo gajānanaḥ
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ
vināyako virūpākṣo vīraḥ śūravarapradaḥ
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ
rudrapriyo gaṇādhyakṣa umāputro'ghanāśanaḥ
kumāragururīśānaputro mūṣakavāhanaḥ
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ
kaṭaṅkaṭo rājaputraḥ śākalaḥ sammito'mitaḥ
kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ
kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ
jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ
karāhatidhvastasindhusalilaḥ pūṣadantabhit
umāṅkakelikutukī muktidaḥ kulapāvanaḥ
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt
duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ
yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ
gaṇādhirājo vijayaḥ sthiro gajapatirdhvajī
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ
vipaścidvarado nādo nādabhinnamahācalaḥ
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ
icchāśaktibhavo devatrātā daityavimardanaḥ
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ
yajñakāyo mahānādo girivarṣmā śubhānanaḥ
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ
jagajjanmalayonmeṣanimeṣo'gnyarkasomadṛk
girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ
graharkṣadaśano vāṇījihvo vāsavanāsikaḥ
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ
vyomanābhiḥ śrīhṛdayo merupṛṣṭho'rṇavodaraḥ
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ
pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ
pratāpī kāśyapo mantā gaṇako viṣṭapī balī
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ
nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ
lipipadmāsanādhāro vahnidhāmatrayālayaḥ
unnataprapado gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ
pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ
pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ
sarpahārakaṭīsūtraḥ sarpayajñopavītavān
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ
sarpakakṣodarābandhaḥ sarparājottaracchadaḥ
rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ
raktekṣaṇo raktakaro raktatālvoṣṭhapallavaḥ
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ
śvetātapatraruciraḥ śvetacāmaravījitaḥ
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt
kalpavallīdharo viśvābhayadaikakaro vaśī
akṣamālādharo jñānamudrāvān mudgarāyudhaḥ
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ
karasthāmraphalaścūtakalikābhṛtkuṭhāravān
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ
bhāratīsundarīnātho vināyakaratipriyaḥ
mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ
ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ
āmodamodajananaḥ sampramodapramodanaḥ
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ
tīvrāprasannanayano jvālinīpālitaikadṛk
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ
sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ
īśānamūrdhā devendraśikhaḥ pavananandanaḥ
pratyugranayano divyo divyāstraśataparvadhṛk
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ
jayājayaparikaro vijayāvijayāvahaḥ
ajayārcitapādābjo nityānandavanasthitaḥ
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ
jñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ
subhagāsaṃśritapado lalitālalitāśrayaḥ
kāminīpālanaḥ kāmakāminīkelilālitaḥ
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ
guruguptapado vācāsiddho vāgīśvarīpatiḥ
nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ
ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ
sārvakālikasaṃsiddhirnityasevyo digambaraḥ
anapāyo'nantadṛṣṭiraprameyo'jarāmaraḥ
anāvilo'pratihatiracyuto'mṛtamakṣaraḥ
apratarkyo'kṣayo'jayyo'nādhāro'nāmayo'malaḥ
ameyasiddhiradvaitamaghoro'gnisamānanaḥ
anākāro'bdhibhūmyagnibalaghno'vyaktalakṣaṇaḥ
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ
ākhuketana āśāpūraka ākhumahārathaḥ
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ
ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ
indragopasamānaśrīrindranīlasamadyutiḥ
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ
ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ
īśānamaulirīśāna īśānapriya ītihā
īṣaṇātrayakalpānta īhāmātravivarjitaḥ
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ
unnatānana uttuṅga udārastridaśāgraṇīḥ
ūrjasvānūṣmalamada ūhāpohadurāsadaḥ
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ
ṛjucittaikasulabho ṛṇatrayavimocanaḥ
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ
airammadasamonmeṣa airāvatasamānanaḥ
oṅkāravācya oṅkāra ojasvānoṣadhīpatiḥ
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ
aḥ samastavisargāntapadeṣu parikīrtitaḥ
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ
karmasākṣī karmakartā karmākarmaphalapradaḥ
kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khandurāsadaḥ
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ
guhyācārarato guhyo guhyāgamanirūpitaḥ
guhāśayo guḍābdhistho gurugamyo gururguruḥ
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ
carācarapitā cintāmaṇiścarvaṇalālasaḥ
chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ
jagadyonirjagatsākṣī jagadīśo jaganmayaḥ
japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ
ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ
ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ
tārakāntarasaṃsthānastārakastārakāntakaḥ
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat
dakṣayajñapramathano dātā dānaṃ damo dayā
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ
daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ
dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ
nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ
niṣkalo nirmalo nityo nityānityo nirāmayaḥ
paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam
parātparaḥ paśupatiḥ paśupāśavimocanaḥ
pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ
padmaprasannavadanaḥ praṇatājñānanāśanaḥ
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ
bāṇārcitāṅghriyugalo bālakelikutūhalī
brahma brahmārcitapado brahmacārī bṛhaspatiḥ
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ
bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ
bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ
mantro mantrapatirmantrī madamatto manoramaḥ
mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ
yajño yajñapatiryajñagoptā yajñaphalapradaḥ
yaśaskaro yogagamyo yājñiko yājakapriyaḥ
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ
rājyarakṣākaro ratnagarbho rājyasukhapradaḥ
lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ
vareṇyo vahnivadano vandyo vedāntagocaraḥ
vikartā viśvataścakṣurvidhātā viśvatomukhaḥ
vāmadevo viśvanetā vajrivajranivāraṇaḥ
vivasvad bandhano viśvādhāro viśveśvaro vibhuḥ
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ
ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam
sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ
sākṣī samudramathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī
haṃso hastipiśācīśo havanaṃ havyakavyabhuk
havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ
kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ
kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ
dharmaprado'rthadaḥ kāmadātā saubhāgyavardhanaḥ
vidyāprado vibhavado bhuktimuktiphalapradaḥ
ābhirūpyakaro vīraśrīprado vijayapradaḥ
sarvavaśyakaro garbhadoṣahā putrapautradaḥ
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ
prativādimukhastambho ruṣṭacittaprasādanaḥ
parābhicāraśamano duḥkhahā bandhamokṣadaḥ
lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ
ghaṭī muhūrtaḥ praharo divā naktamaharniśam
pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ
rāśistārā tithiryogo vāraḥ karaṇamaṃśakam
lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat
bhūrāpo'gnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān
brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ
samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam
vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam
śaivaṃ pāśupataṃ kālāmukhaṃ bhairavaśāsanam
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā
sadasadvyaktamavyaktaṃ sacetanamacetanam
bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān
svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇṇamaḥ
jñānaṃ vijñānamānando bodhaḥ saṃvitsamo'samaḥ
eka ekākṣarādhāra ekākṣaraparāyaṇaḥ
ekāgradhīrekavīra eko'nekasvarūpadhṛk
dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ
dvaimāturo dvivadano dvandvahīno dvayātigaḥ
tridhāmā trikarastretā trivargaphaladāyakaḥ
triguṇātmā trilokādistriśaktīśastrilocanaḥ
caturvidhavacovṛttiparivṛttipravartakaḥ
caturbāhuścaturdantaścaturātmā caturbhujaḥ
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ
caturthīpūjanaprītaścaturthītithisambhavaḥ
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ
pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ
ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ
ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ
saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ
saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ
saptacchando modamadaḥ saptacchando makhaprabhuḥ
aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam
aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ
aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ
aṣṭabhairavasevyo'ṣṭavasuvandyo'ṣṭamūrtibhṛt
aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ
navanāgāsanādhyāsī navanidhyanuśāsitaḥ
navadvārapurāvṛtto navadvāraniketanaḥ
navanāthamahānātho navanāgavibhūṣitaḥ
navanārāyaṇastulyo navadurgāniṣevitaḥ
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ
daśātmako daśabhujo daśadikpativanditaḥ
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ
daśākṣaramahāmantro daśāśāvyāpivigrahaḥ
ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ
dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ
trayodaśabhidābhinno viśvedevādhidaivatam
caturdaśendravaradaścaturdaśamanuprabhuḥ
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ
sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ
tithipañcadaśākārastithyā pañcadaśārcitaḥ
ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ
ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ
kalāsaptadaśī saptadaśasaptadaśākṣaraḥ
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt
aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ
aṣṭādaśalipivyaṣṭisamaṣṭijñānakovidaḥ
aṣṭādaśānnasampattiraṣṭādaśavijātikṛt
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ
caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt
dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ
dvipañcāśadvapuḥśreṇī triṣaṣṭyakṣarasaṃśrayaḥ
pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ
catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ
namadekonapañcāśanmarudvarganirargalaḥ
catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ
aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ
śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ
aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ
lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ
caturlakṣajapaprītaścaturlakṣaprakāśakaḥ
caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ
śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ
saptakoṭimahāmantramantritāvayavadyutiḥ
trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ
anantadevatāsevyo hyanantaśubhadāyakaḥ
anantanāmānantaśrīrananto'nantasaukhyadaḥ
anantaśaktisahito hyanantamunisaṃstutaḥ
phalaśrutiḥ
iti vaināyakaṃ nāmnāṃ sahasramidamīritam
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ
karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ
medhā prajñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā
satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā
jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam
ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā
jñānaṃ vijñānamāstikyaṃ sthairyaṃ viśvāsatā tathā
dhanadhānyādivṛddhiśca sakṛdasya japādbhavet
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate
rājño rājakalatrasya rājaputrasya mantriṇaḥ
japyate yasya vaśyārthe sa dāsastasya jāyate
dharmārthakāmamokṣāṇāmanāyāsena sādhanam
śākinīḍākinīrakṣoyakṣagrahabhayāpaham
sāmrājyasukhadaṃ sarvasapatnamadamardanam
samastakalahadhvaṃsi dagdhabījaprarohaṇam
duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam
ṣaḍvargāṣṭamahāsiddhitrikālajñānakāraṇam
parakṛtyapraśamanaṃ paracakrapramardanam
saṅgrāmamārge sarveṣāmidamekaṃ jayāvaham
sarvavandhyatvadoṣaghnaṃ garbharakṣaikakāraṇam
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam
deśe tatra na durbhikṣamītayo duritāni ca
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ
kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ
gulmaṃ plīhānamādhmānamatisāraṃ mahodaram
kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam
vātapittakaphadvandvatridoṣajanitajvaram
āgantuviṣamaṃ śītamuṣṇaṃ caikāhikādikam
ityādyuktamanuktaṃ vā rogadoṣādisambhavam
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ
prāpyate'sya japātsiddhiḥ strīśūdraiḥ patitairapi
sahasranāmamantro'yaṃ japitavyaḥ śubhāptaye
mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam
icchayā sakalān bhogānupabhujyeha pārthivān
manorathaphalairdivyairvyomayānairmanoramaiḥ
candrendrabhāskaropendrabrahmaśarvādisadmasu
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ
bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ
gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ
śivābhyāṃ kṛpayā putranirviśeṣaṃ ca lālitaḥ
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ
jātismaro dharmaparaḥ sārvabhaumo'bhijāyate
niṣkāmastu japannityaṃ bhaktyā vighneśatatparaḥ
yogasiddhiṃ parāṃ prāpya jñānavairāgyasaṃyutaḥ
nirantare nirābādhe paramānandasaṃjñite
viśvottīrṇe pare pūrṇe punarāvṛttivarjite
līno vaināyake dhāmni ramate nityanirvṛte
yo nāmabhirhutairdattaiḥ pūjayedarcayennaraḥ
rājāno vaśyatāṃ yānti ripavo yānti dāsatām
tasya sidhyanti mantrāṇāṃ durlabhāśceṣṭasiddhayaḥ
mūlamantrādapi stotramidaṃ priyatamaṃ mama
nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret
aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṃyutaḥ
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ
bhaviṣyati na sandehaḥ putrapautrādikaṃ sukham
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam
vyākṛtaṃ carcitaṃ dhyātaṃ vimṛṣṭamabhivanditam
ihāmutra ca viśveṣāṃ viśvaiśvaryapradāyakam
svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ
sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ
likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet
tatra sarvottamā lakṣmīḥ sannidhatte nirantaram
dānairaśeṣairakhilairvrataiśca
tīrthairaśeṣairakhilairmakhaiśca
na tatphalaṃ vindati yadgaṇeśa-
sahasranāmasmaraṇena sadyaḥ
etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahaṃ projjihāne
sāyaṃ madhyandine vā triṣavaṇamathavā santataṃ vā jano yaḥ
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ
akiñcano'pyekacitto niyato niyatāsanaḥ
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ
daridratāṃ samunmūlya saptajanmānugāmapi
labhate mahatīṃ lakṣmīmityājñā pārameśvarī
āyuṣyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tattat
nityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam
gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ
amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ
kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān
upāyanaṃ dadedbhaktyā matprasādaṃ cikīrṣati
vatsaraṃ vighnarājo'sya tathyamiṣṭārthasiddhaye
yaḥ stauti madgatamanā mamārādhanatatparaḥ
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ
namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te
kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā
||iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde gaṇeśasahasranāmastotraṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ||