श्री-कैशिकपुराणम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्
तत्पदं दर्शितं येन तस्मै श्री-गुरवे नमः
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना
पुराण मङ्गल-श्लोकाः
नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम्
खुरमध्यगतो यस्य मेरुः कणकणायते
प्रलयोदन्वदुत्तीर्णां प्रपद्येऽहं वसुन्धराम्
महावराह-दंष्ट्राग्र-मल्लीकोश-मधुव्रताम्
श्री-वराह उवाच
जागरे तु विशालाक्षि जानतो वाऽप्यजानतः
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः
यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः
नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः
मद्भक्तश्चापि जायेत इन्द्रेणैकपदे स्थितः
सर्वधर्मगुणश्रेष्ठस्तत्रापि मम लुब्धकः
इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः
प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति
एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा
वराहरूपिणं देवं प्रत्युवाच शुभानना
धरोवाच
अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः
श्री-वराह उवाच
शृणु तत्त्वेन ते देवि कथ्यमानं यशस्विनम्
यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः
अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः
तत्र क्षीरनदी पुण्या दक्षिणे सागरङ्गमा
तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः
दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः
एवं तु गायमानस्य गताः संवत्सरा दश
श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे
कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके
सुप्ते जने गते यामे वीणामादाय निर्ययौ
ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा
अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः
दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम्
उवाच वचनं मन्दं मातङ्गो ब्रह्मराक्षसम्
गच्छामि सन्तोषयितुमहं जागरणे हरिम्
गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम्
एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः
अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत्
आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम्
किं त्वया चेष्टितव्यं मे य एवं परिधावसि
श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः
उवाच वचनं घोरं मानुषाहारलोलुपः
अद्य मे दशरात्रं वै निराहारस्य गच्छतः
धात्रा त्वं विहितो मह्यमाहारः परितो मम
अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम्
तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम्
ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः
शृणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः
अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव
पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते
विष्णोः सन्तोषणार्थाय ममैतद् व्रतमुत्तमम्
रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम्
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम्
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्
मोघं भाषसि चण्डाल पुनरेष्याम्यहं त्विति
को हि रक्षोमुखाद् भ्रष्टस्तन्मुखायाभिवर्धते
बहवः सन्ति पन्थानो देशाश्च बहवस्तथा
आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि
स्वशरीरविनाशाय न चाऽऽगच्छति कश्चन
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि
राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम्
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्
यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः
प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना
शृणु तत्समयं रक्षो येनाऽऽगच्छाम्यहं पुनः
दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये
सत्यमूलं जगत्सर्वं लोकः सत्ये प्रतिष्ठितः
नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम्
अद्य मे समयस्तत्र ब्रह्मराक्षस तं शृणु
शपामि सत्येन गतो यद्यहं नाऽऽगमे पुनः
यो गच्छेत् परदारांश्च काममोहप्रपीडितः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
दत्त्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत्
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
षष्ठ्यष्टम्योरमावास्याचतुर्दश्योश्च नित्यशः
अस्नातानां गतिं गच्छे यद्यहं नाऽऽगमे पुनः
दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति
गतिं तस्य प्रपद्ये वै यद्यहं नाऽऽगमे पुनः
मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः
तेषां गतिं प्रपद्ये वै यद्यहं नाऽऽगमे पुनः
यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत्
गतिं तस्य प्रपद्ये वै यद्यहं नाऽऽगमे पुनः
अनन्यशरणां भार्यां यौवने यः परित्यजेत्
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
गोकुलस्य तृषार्तस्य जलार्थमभिधावतः
विघ्नमाचरते यस्तु तत्पापं स्यादनागमे
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे
वासुदेवं परित्यज्य येऽन्यं देवमुपासते
तेषां गतिं प्रपद्ये वै यद्यहं नाऽऽगमे पुनः
नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः
तस्य पापेन लिप्येयं यद्यहं नाऽऽगमे पुनः
चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते
राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः
पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः
अथ प्रभाते विमले विनिवृत्ते तु जागरे
नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत्
गच्छतस्त्वरितं तस्य पुरुषः पुरतः स्थितः
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्
कुतो गच्छसि चण्डाल द्रुतं गमननिश्चितम्
एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः
तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसम्मतः
उवाच मधुरं वाक्यं पुरुषं तदनन्तरम्
समयो मे कृतो यत्र ब्रह्मराक्षससन्निधौ
तत्राहं गन्तुमिच्छामि यत्रासौ ब्रह्मराक्षसः
श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्
न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत
तत्रासौ राक्षसः पापः पिशिताशी दुरासदः
पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः
मरणं तत्र निश्चित्य मधुरं वाक्यमब्रवीत्
नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि
अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम्
ततः स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह
यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः
ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ कृतनिश्चयः
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्
भवता समनुज्ञातो गानं कृत्वा यथेप्सया
विष्णवे लोकनाथाय मम पूर्णो मनोरथः
एतानि मम चाङ्गानि भक्षयस्व यथेच्छया
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम्
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्
त्वमद्य रात्रौ चण्डाल विष्णोर्जागरणं प्रति
फलं गीतस्य मे देहि जीवितं यदि चेच्छसि
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः पुनरब्रवीत्
यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम्
भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु
चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम्
उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः
अथवाऽर्धं तु मे देहि पुण्यं गीतस्य यत्फलम्
ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषणात्
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः
वाणीं श्लक्ष्णां समादाय ब्रह्मराक्षसमब्रवीत्
भक्षयामीति संश्रुत्य गीतमन्यत् किमिच्छसि
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम्
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्
एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम्
ततो यास्यसि कल्याण सङ्गमं पुत्रदारकैः
श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः
न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम्
पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम्
श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः
सत्यवन्तं गुणज्ञं च चण्डालमिदमब्रवीत्
एकं गीतस्य मे देहि यत् त्वया विष्णुसंसदि
निग्रहात्तारयास्माद्वै तेन गीतफलेन माम्
एवमुक्त्वा तु चण्डालं राक्षसः शरणं गतः
श्रुत्वा राक्षसवाक्यानि श्वपाकः संशितव्रतः
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्
किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः
कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः
एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन्
राक्षसः शरणं गत्वा श्वपाकमिदमब्रवीत्
नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः
सूत्रमन्त्रपरिभ्रष्टो यूपकर्मण्यधिष्ठितः
ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः
यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत
अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम्
अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः
तस्य यज्ञस्य दोषेण मातङ्ग शृणु यन्मम
जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः
एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम्
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः
बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः
यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम्
फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात्
श्री-वराह उवाच
यस्तु गायति भक्त्या वै कैशिकं मम संसदि
स तारयति दुर्गाणि श्वपाको राक्षसं यथा
एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः
जातस्तु विमले वंशे मम लोकं च गच्छति
श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः
कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः
एतद्गीतफलं देवि कौमुदद्वादशीं पुनः
यस्तु गायति स श्रीमान् मम लोकं च गच्छति
॥ इति श्री-वाराह-पुराणे भूमि-वराह-संवादे श्री-कैशिक-माहात्म्यं नाम अष्टचत्वारिंशोऽध्यायः॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
శ్రీ-కైశికపురాణమ్
శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే
వాగీశాద్యాః సుమనసః సర్వార్థానాముపక్రమే
యం నత్వా కృతకృత్యాః స్యుస్తం నమామి గజాననమ్
శ్రీ-గురు-ప్రార్థనా
గురుర్బ్రహ్మా గురుర్విష్ణుర్గురుర్దేవో మహేశ్వరః
గురుః సాక్షాత్ పరం బ్రహ్మ తస్మై శ్రీ-గురవే నమః
సదాశివసమారమ్భాం శఙ్కరాచార్యమధ్యమామ్
అస్మదాచార్యపర్యన్తాం వన్దే గురుపరమ్పరామ్
అఖణ్డమణ్డలాకారం వ్యాప్తం యేన చరాచరమ్
తత్పదం దర్శితం యేన తస్మై శ్రీ-గురవే నమః
శ్రీ-సరస్వతీ-ప్రార్థనా
దోర్భిర్యుక్తా చతుర్భిః స్ఫటికమణినిభైరక్షమాలాం దధానా
హస్తేనైకేన పద్మం సితమపి చ శుకం పుస్తకం చాపరేణ
భాసా కున్దేన్దుశఙ్ఖస్ఫటికమణినిభా భాసమానాఽసమానా
సా మే వాగ్దేవతేయం నివసతు వదనే సర్వదా సుప్రసన్నా
పురాణ మఙ్గల-శ్లోకాః
నమస్తేఽస్తు వరాహాయ లీలయోద్ధరతే మహీమ్
ఖురమధ్యగతో యస్య మేరుః కణకణాయతే
ప్రలయోదన్వదుత్తీర్ణాం ప్రపద్యేఽహం వసున్ధరామ్
మహావరాహ-దంష్ట్రాగ్ర-మల్లీకోశ-మధువ్రతామ్
శ్రీ-వరాహ ఉవాచ
జాగరే తు విశాలాక్షి జానతో వాఽప్యజానతః
యో మే ప్రగాయతే గేయం మమ భక్త్యా వ్యవస్థితః
యావన్తి త్వక్షరాణ్యస్య గీయమానే యశస్విని
తావద్వర్షసహస్రాణి స్వర్గలోకే మహీయతే
రూపవాన్ గుణవాన్ శుద్ధః సర్వధర్మభృతాం వరః
నిత్యం పశ్యతి వై శక్రం వజ్రహస్తం న సంశయః
మద్భక్తశ్చాపి జాయేత ఇన్ద్రేణైకపదే స్థితః
సర్వధర్మగుణశ్రేష్ఠస్తత్రాపి మమ లుబ్ధకః
ఇన్ద్రలోకాత్ పరిభ్రష్టో మమ గేయపరాయణః
ప్రముక్తః సర్వసంసారైర్మమ లోకం చ గచ్ఛతి
ఏవం తు వచనం శ్రుత్వా తత్ప్రసాదాద్వసున్ధరా
వరాహరూపిణం దేవం ప్రత్యువాచ శుభాననా
ధరోవాచ
అహో గీతప్రభావో వై యస్త్వయా పరికీర్తితః
కశ్చ గీతప్రభావేన సిద్ధిం ప్రాప్తో మహాతపాః
శ్రీ-వరాహ ఉవాచ
శృణు తత్త్వేన తే దేవి కథ్యమానం యశస్వినమ్
యస్తు గీతప్రభావేన సిద్ధిం ప్రాప్తో మహాతపాః
అస్తి దక్షిణదిగ్భాగే మహేన్ద్రో నామ పర్వతః
తత్ర క్షీరనదీ పుణ్యా దక్షిణే సాగరఙ్గమా
తత్ర సిద్ధాశ్రమే భద్రే చణ్డాలః కృతనిశ్చయః
దూరాజ్జాగరణే గాతి మమ భక్త్యా వ్యవస్థితః
ఏవం తు గాయమానస్య గతాః సంవత్సరా దశ
శ్వపాకస్య గుణజ్ఞస్య మద్భక్తస్య వసున్ధరే
కౌముదస్య తు మాసస్య ద్వాదశ్యాం శుక్లపక్షకే
సుప్తే జనే గతే యామే వీణామాదాయ నిర్యయౌ
తతో వర్త్మని చణ్డాలో గృహీతో బ్రహ్మరక్షసా
అల్పప్రాణః శ్వపాకో వై బలవాన్ బ్రహ్మరాక్షసః
దుఃఖేన స తు సన్తప్తో న చ శక్తో విచేష్టితుమ్
ఉవాచ వచనం మన్దం మాతఙ్గో బ్రహ్మరాక్షసమ్
గచ్ఛామి సన్తోషయితుమహం జాగరణే హరిమ్
గానేన పుణ్డరీకాక్షం బ్రహ్మరాక్షస ముఞ్చ మామ్
ఏవముక్తః శ్వపాకేన బలవాన్ బ్రహ్మరాక్షసః
అమర్షవశమాపన్నో న చ కిఞ్చిత్ తమబ్రవీత్
ఆత్మానం ప్రతిధావన్తం చణ్డాలః బ్రహ్మరాక్షసమ్
కిం త్వయా చేష్టితవ్యం మే య ఏవం పరిధావసి
శ్వపాకవచనం శ్రుత్వా తతో వై బ్రహ్మరాక్షసః
ఉవాచ వచనం ఘోరం మానుషాహారలోలుపః
అద్య మే దశరాత్రం వై నిరాహారస్య గచ్ఛతః
ధాత్రా త్వం విహితో మహ్యమాహారః పరితో మమ
అద్య త్వాం భక్షయిష్యామి సవసామాంసశోణితమ్
తర్పయిత్వా యథాన్యాయం యాస్యామి చ యథేప్సితమ్
బ్రహ్మరక్షోవచః శ్రుత్వా శ్వపాకో గీతలాలసః
రాక్షసం ఛన్దయామాస మమ భక్త్యా వ్యవస్థితః
శృణు తత్త్వం మహాభాగ భక్ష్యోఽహం సముపాగతః
అవశ్యమేతత్ కర్తవ్యం ధాత్రా దత్తం యథా తవ
పశ్చాత్ఖాదసి మాం రక్షో జాగరే వినివర్తితే
విష్ణోః సన్తోషణార్థాయ మమైతద్ వ్రతముత్తమమ్
రక్ష మాం వ్రతభఙ్గాద్వై దేవం నారాయణం ప్రతి
జాగరే వినివృత్తే తు మాం భక్షయ యథేప్సితమ్
శ్వపాకస్య వచః శ్రుత్వా బ్రహ్మరక్షః క్షుధాఽర్దితమ్
ఉవాచ మధురం వాక్యం శ్వపాకం తదనన్తరమ్
మోఘం భాషసి చణ్డాల పునరేష్యామ్యహం త్వితి
కో హి రక్షోముఖాద్ భ్రష్టస్తన్ముఖాయాభివర్ధతే
బహవః సన్తి పన్థానో దేశాశ్చ బహవస్తథా
ఆత్మదేశం పరిత్యజ్య పరేషాం గన్తుమిచ్ఛసి
స్వశరీరవినాశాయ న చాఽఽగచ్ఛతి కశ్చన
రక్షసో ముఖవిభ్రష్టః పునరాగన్తుమిచ్ఛసి
రాక్షసస్య వచః శ్రుత్వా చణ్డాలో ధర్మసంశ్రితమ్
ఉవాచ మధురం వాక్యం రాక్షసం పిశితాశనమ్
యద్యప్యహం హి చణ్డాలః పూర్వకర్మవిదూషితః
ప్రాప్తోఽహం మానుషం భావం విదితేనాన్తరాత్మనా
శృణు తత్సమయం రక్షో యేనాఽఽగచ్ఛామ్యహం పునః
దూరాజ్జాగరణం కృత్వా లోకనాథస్య తృప్తయే
సత్యమూలం జగత్సర్వం లోకః సత్యే ప్రతిష్ఠితః
నాహం మిథ్యా ప్రవక్ష్యామి సత్యమేవ వదామ్యహమ్
అద్య మే సమయస్తత్ర బ్రహ్మరాక్షస తం శృణు
శపామి సత్యేన గతో యద్యహం నాఽఽగమే పునః
యో గచ్ఛేత్ పరదారాంశ్చ కామమోహప్రపీడితః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
పాకభేదం తు యః కుర్యాదాత్మనశ్చోపభుఞ్జతః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
దత్త్వా వై భూమిదానం తు పునరాచ్ఛిన్దతీహ యః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
స్త్రియం భుక్త్వా రూపవతీం పునర్యస్తాం వినిన్దతి
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
యోఽమావాస్యాం విశాలాక్షి శ్రాద్ధం కృత్వా స్త్రియం వ్రజేత్
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
భుక్త్వా పరస్య చాన్నాని యస్తం నిన్దతి నిర్ఘృణః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
యస్తు కన్యాం దదామీతి పునస్తాం న ప్రయచ్ఛతి
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
షష్ఠ్యష్టమ్యోరమావాస్యాచతుర్దశ్యోశ్చ నిత్యశః
అస్నాతానాం గతిం గచ్ఛే యద్యహం నాఽఽగమే పునః
దాస్యామీతి ప్రతిశ్రుత్య న చ యస్తత్ప్రయచ్ఛతి
గతిం తస్య ప్రపద్యే వై యద్యహం నాఽఽగమే పునః
మిత్రభార్యాం తు యో గచ్ఛేత్ కామబాణవశానుగః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
గురుపత్నీం రాజపత్నీం యే తు గచ్ఛన్తి మోహితాః
తేషాం గతిం ప్రపద్యే వై యద్యహం నాఽఽగమే పునః
యో వై దారద్వయం కృత్వా ఏకస్యాం ప్రీతిమాన్ భవేత్
గతిం తస్య ప్రపద్యే వై యద్యహం నాఽఽగమే పునః
అనన్యశరణాం భార్యాం యౌవనే యః పరిత్యజేత్
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
గోకులస్య తృషార్తస్య జలార్థమభిధావతః
విఘ్నమాచరతే యస్తు తత్పాపం స్యాదనాగమే
బ్రహ్మఘ్నే చ సురాపే చ చోరే భగ్నవ్రతే తథా
యా గతిర్విహితా సద్భిః తత్పాపం స్యాదనాగమే
వాసుదేవం పరిత్యజ్య యేఽన్యం దేవముపాసతే
తేషాం గతిం ప్రపద్యే వై యద్యహం నాఽఽగమే పునః
నారాయణమథాన్యైస్తు దేవైస్తుల్యం కరోతి యః
తస్య పాపేన లిప్యేయం యద్యహం నాఽఽగమే పునః
చణ్డాలవచనం శ్రుత్వా పరితుష్టస్తు రాక్షసః
ఉవాచ మధురం వాక్యం గచ్ఛ శీఘ్రం నమోఽస్తు తే
రాక్షసేన వినిర్ముక్తశ్చణ్డాలః కృతనిశ్చయః
పునర్గాయతి మహ్యం వై మమ భక్త్యా వ్యవస్థితః
అథ ప్రభాతే విమలే వినివృత్తే తు జాగరే
నమో నారాయణేత్యుక్త్వా శ్వపాకః పునరాగమత్
గచ్ఛతస్త్వరితం తస్య పురుషః పురతః స్థితః
ఉవాచ మధురం వాక్యం శ్వపాకం తదనన్తరమ్
కుతో గచ్ఛసి చణ్డాల ద్రుతం గమననిశ్చితమ్
ఏతదాచక్ష్వ తత్త్వేన యత్ర తే వర్తతే మనః
తస్య తద్వచనం శ్రుత్వా శ్వపాకః సత్యసమ్మతః
ఉవాచ మధురం వాక్యం పురుషం తదనన్తరమ్
సమయో మే కృతో యత్ర బ్రహ్మరాక్షససన్నిధౌ
తత్రాహం గన్తుమిచ్ఛామి యత్రాసౌ బ్రహ్మరాక్షసః
శ్వపాకవచనం శ్రుత్వా పురుషో భావశోధకః
ఉవాచ మధురం వాక్యం శ్వపాకం తదనన్తరమ్
న తత్ర గచ్ఛ చణ్డాల మార్గేణానేన సువ్రత
తత్రాసౌ రాక్షసః పాపః పిశితాశీ దురాసదః
పురుషస్య వచః శ్రుత్వా శ్వపాకః సత్యసఙ్గరః
మరణం తత్ర నిశ్చిత్య మధురం వాక్యమబ్రవీత్
నాహమేవం కరిష్యామి యన్మాం త్వం పరిపృచ్ఛసి
అహం సత్యే ప్రవృత్తో వై శీలం సత్యే ప్రతిష్ఠితమ్
తతః స పద్మపత్రాక్షః శ్వపాకం ప్రత్యువాచ హ
యద్యేవం నిశ్చయస్తాత స్వస్తి తేఽస్తు గమిష్యతః
బ్రహ్మరక్షోన్తికం ప్రాప్య సత్యేఽసౌ కృతనిశ్చయః
ఉవాచ మధురం వాక్యం రాక్షసం పిశితాశనమ్
భవతా సమనుజ్ఞాతో గానం కృత్వా యథేప్సయా
విష్ణవే లోకనాథాయ మమ పూర్ణో మనోరథః
ఏతాని మమ చాఙ్గాని భక్షయస్వ యథేచ్ఛయా
శ్వపాకవచనం శ్రుత్వా బ్రహ్మరక్షో భయానకమ్
ఉవాచ మధురం వాక్యం శ్వపాకం సంశితవ్రతమ్
త్వమద్య రాత్రౌ చణ్డాల విష్ణోర్జాగరణం ప్రతి
ఫలం గీతస్య మే దేహి జీవితం యది చేచ్ఛసి
బ్రహ్మరక్షో వచః శ్రుత్వా శ్వపాకః పునరబ్రవీత్
యత్ త్వయా భాషితం పూర్వం మయా సత్యం చ యత్కృతమ్
భక్షయస్వ యథేచ్ఛం మాం దద్యాం గీతఫలం న తు
చణ్డాలస్య వచః శ్రుత్వా హేతుయుక్తమనన్తరమ్
ఉవాచ మధురం వాక్యం చణ్డాలం బ్రహ్మరాక్షసః
అథవాఽర్ధం తు మే దేహి పుణ్యం గీతస్య యత్ఫలమ్
తతో మోక్ష్యామి కల్యాణ భక్షాదస్మాద్విభీషణాత్
బ్రహ్మరక్షో వచః శ్రుత్వా శ్వపాకః సంశితవ్రతః
వాణీం శ్లక్ష్ణాం సమాదాయ బ్రహ్మరాక్షసమబ్రవీత్
భక్షయామీతి సంశ్రుత్య గీతమన్యత్ కిమిచ్ఛసి
శ్వపాకస్య వచః శ్రుత్వా బ్రహ్మరక్షో భయావహమ్
ఉవాచ మధురం వాక్యం శ్వపాకం సంశితవ్రతమ్
ఏకయామస్య మే దేహి పుణ్యం గీతస్య యత్ఫలమ్
తతో యాస్యసి కల్యాణ సఙ్గమం పుత్రదారకైః
శ్రుత్వా రాక్షస వాక్యాని చణ్డాలో గీతలాలసః
ఉవాచ మధురం వాక్యం రాక్షసం కృతనిశ్చయః
న యామస్య ఫలం దద్యాం బ్రహ్మరక్షస్తవేప్సితమ్
పిబస్వ శోణితం మహ్యం యత్ త్వయా పూర్వభాషితమ్
శ్వపాకస్య వచః శ్రుత్వా రాక్షసః పిశితాశనః
సత్యవన్తం గుణజ్ఞం చ చణ్డాలమిదమబ్రవీత్
ఏకం గీతస్య మే దేహి యత్ త్వయా విష్ణుసంసది
నిగ్రహాత్తారయాస్మాద్వై తేన గీతఫలేన మామ్
ఏవముక్త్వా తు చణ్డాలం రాక్షసః శరణం గతః
శ్రుత్వా రాక్షసవాక్యాని శ్వపాకః సంశితవ్రతః
ఉవాచ మధురం వాక్యం రాక్షసం పిశితాశనమ్
కిం త్వయా దుష్కృతం కర్మ కృతపూర్వం తు రాక్షసః
కర్మణో యస్య దోషేణ రాక్షసీం యోనిమాశ్రితః
ఏవముక్తః శ్వపాకేన పూర్వవృత్తమనుస్మరన్
రాక్షసః శరణం గత్వా శ్వపాకమిదమబ్రవీత్
నామ్నా వై సోమశర్మాఽహం చరకో బ్రహ్మయోనిజః
సూత్రమన్త్రపరిభ్రష్టో యూపకర్మణ్యధిష్ఠితః
తతోఽహం కారయే యజ్ఞం లోభమోహప్రపీడితః
యజ్ఞే ప్రవర్తమానే తు శూలదోషస్త్వజాయత
అథ పఞ్చమరాత్రే తు అసమాప్తే క్రతావహమ్
అకృత్వా విమలం కర్మ తతః పఞ్చత్వమాగతః
తస్య యజ్ఞస్య దోషేణ మాతఙ్గ శృణు యన్మమ
జాతోఽస్మి రాక్షసస్తత్ర బ్రాహ్మణో బ్రహ్మరాక్షసః
ఏవం తు యజ్ఞదోషేణ వపుః ప్రాప్తమిదం మమ
ఇత్యుక్త్వా తు తదా రక్షః శ్వపాకం శరణం గతమ్
బ్రహ్మరక్షో వచః శ్రుత్వా శ్వపాకః సంశితవ్రతః
బాఢమిత్యబ్రవీద్వాక్యం బ్రహ్మరాక్షసచోదితః
యన్మయా పశ్చిమం గీతం స్వరం కైశికముత్తమమ్
ఫలేన తస్య భద్రం తే మోక్షయిష్యామి కిల్బిషాత్
శ్రీ-వరాహ ఉవాచ
యస్తు గాయతి భక్త్యా వై కైశికం మమ సంసది
స తారయతి దుర్గాణి శ్వపాకో రాక్షసం యథా
ఏవం తత్ర వరం గృహ్య రాక్షసో బ్రహ్మసంస్థితః
జాతస్తు విమలే వంశే మమ లోకం చ గచ్ఛతి
శ్వపాకశ్చాపి సుశ్రోణి మమ చైవోపగాయకః
కృత్వా తు విపులం కర్మ స బ్రహ్మత్వముపాగతః
ఏతద్గీతఫలం దేవి కౌముదద్వాదశీం పునః
యస్తు గాయతి స శ్రీమాన్ మమ లోకం చ గచ్ఛతి
॥ ఇతి శ్రీ-వారాహ-పురాణే భూమి-వరాహ-సంవాదే శ్రీ-కైశిక-మాహాత్మ్యం నామ అష్టచత్వారింశోఽధ్యాయః॥
కాయేన వాచా మనసేన్ద్రియైర్వా బుద్ధ్యాఽఽత్మనా వా ప్రకృతేః స్వభావాత్
కరోమి యద్యత్ సకలం పరస్మై నారాయణాయేతి సమర్పయామి
śrī-kaiśikapurāṇam
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam
śrī-guru-prārthanā
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ
sadāśivasamārambhāṃ śaṅkarācāryamadhyamām
asmadācāryaparyantāṃ vande guruparamparām
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram
tatpadaṃ darśitaṃ yena tasmai śrī-gurave namaḥ
śrī-sarasvatī-prārthanā
dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāṃ dadhānā
hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānā'samānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā
purāṇa maṅgala-ślokāḥ
namaste'stu varāhāya līlayoddharate mahīm
khuramadhyagato yasya meruḥ kaṇakaṇāyate
pralayodanvaduttīrṇāṃ prapadye'haṃ vasundharām
mahāvarāha-daṃṣṭrāgra-mallīkośa-madhuvratām
śrī-varāha uvāca
jāgare tu viśālākṣi jānato vā'pyajānataḥ
yo me pragāyate geyaṃ mama bhaktyā vyavasthitaḥ
yāvanti tvakṣarāṇyasya gīyamāne yaśasvini
tāvadvarṣasahasrāṇi svargaloke mahīyate
rūpavān guṇavān śuddhaḥ sarvadharmabhṛtāṃ varaḥ
nityaṃ paśyati vai śakraṃ vajrahastaṃ na saṃśayaḥ
madbhaktaścāpi jāyeta indreṇaikapade sthitaḥ
sarvadharmaguṇaśreṣṭhastatrāpi mama lubdhakaḥ
indralokāt paribhraṣṭo mama geyaparāyaṇaḥ
pramuktaḥ sarvasaṃsārairmama lokaṃ ca gacchati
evaṃ tu vacanaṃ śrutvā tatprasādādvasundharā
varāharūpiṇaṃ devaṃ pratyuvāca śubhānanā
dharovāca
aho gītaprabhāvo vai yastvayā parikīrtitaḥ
kaśca gītaprabhāvena siddhiṃ prāpto mahātapāḥ
śrī-varāha uvāca
śṛṇu tattvena te devi kathyamānaṃ yaśasvinam
yastu gītaprabhāvena siddhiṃ prāpto mahātapāḥ
asti dakṣiṇadigbhāge mahendro nāma parvataḥ
tatra kṣīranadī puṇyā dakṣiṇe sāgaraṅgamā
tatra siddhāśrame bhadre caṇḍālaḥ kṛtaniścayaḥ
dūrājjāgaraṇe gāti mama bhaktyā vyavasthitaḥ
evaṃ tu gāyamānasya gatāḥ saṃvatsarā daśa
śvapākasya guṇajñasya madbhaktasya vasundhare
kaumudasya tu māsasya dvādaśyāṃ śuklapakṣake
supte jane gate yāme vīṇāmādāya niryayau
tato vartmani caṇḍālo gṛhīto brahmarakṣasā
alpaprāṇaḥ śvapāko vai balavān brahmarākṣasaḥ
duḥkhena sa tu santapto na ca śakto viceṣṭitum
uvāca vacanaṃ mandaṃ mātaṅgo brahmarākṣasam
gacchāmi santoṣayitumahaṃ jāgaraṇe harim
gānena puṇḍarīkākṣaṃ brahmarākṣasa muñca mām
evamuktaḥ śvapākena balavān brahmarākṣasaḥ
amarṣavaśamāpanno na ca kiñcit tamabravīt
ātmānaṃ pratidhāvantaṃ caṇḍālaḥ brahmarākṣasam
kiṃ tvayā ceṣṭitavyaṃ me ya evaṃ paridhāvasi
śvapākavacanaṃ śrutvā tato vai brahmarākṣasaḥ
uvāca vacanaṃ ghoraṃ mānuṣāhāralolupaḥ
adya me daśarātraṃ vai nirāhārasya gacchataḥ
dhātrā tvaṃ vihito mahyamāhāraḥ parito mama
adya tvāṃ bhakṣayiṣyāmi savasāmāṃsaśoṇitam
tarpayitvā yathānyāyaṃ yāsyāmi ca yathepsitam
brahmarakṣovacaḥ śrutvā śvapāko gītalālasaḥ
rākṣasaṃ chandayāmāsa mama bhaktyā vyavasthitaḥ
śṛṇu tattvaṃ mahābhāga bhakṣyo'haṃ samupāgataḥ
avaśyametat kartavyaṃ dhātrā dattaṃ yathā tava
paścātkhādasi māṃ rakṣo jāgare vinivartite
viṣṇoḥ santoṣaṇārthāya mamaitad vratamuttamam
rakṣa māṃ vratabhaṅgādvai devaṃ nārāyaṇaṃ prati
jāgare vinivṛtte tu māṃ bhakṣaya yathepsitam
śvapākasya vacaḥ śrutvā brahmarakṣaḥ kṣudhā'rditam
uvāca madhuraṃ vākyaṃ śvapākaṃ tadanantaram
moghaṃ bhāṣasi caṇḍāla punareṣyāmyahaṃ tviti
ko hi rakṣomukhād bhraṣṭastanmukhāyābhivardhate
bahavaḥ santi panthāno deśāśca bahavastathā
ātmadeśaṃ parityajya pareṣāṃ gantumicchasi
svaśarīravināśāya na cā''gacchati kaścana
rakṣaso mukhavibhraṣṭaḥ punarāgantumicchasi
rākṣasasya vacaḥ śrutvā caṇḍālo dharmasaṃśritam
uvāca madhuraṃ vākyaṃ rākṣasaṃ piśitāśanam
yadyapyahaṃ hi caṇḍālaḥ pūrvakarmavidūṣitaḥ
prāpto'haṃ mānuṣaṃ bhāvaṃ viditenāntarātmanā
śṛṇu tatsamayaṃ rakṣo yenā''gacchāmyahaṃ punaḥ
dūrājjāgaraṇaṃ kṛtvā lokanāthasya tṛptaye
satyamūlaṃ jagatsarvaṃ lokaḥ satye pratiṣṭhitaḥ
nāhaṃ mithyā pravakṣyāmi satyameva vadāmyaham
adya me samayastatra brahmarākṣasa taṃ śṛṇu
śapāmi satyena gato yadyahaṃ nā''game punaḥ
yo gacchet paradārāṃśca kāmamohaprapīḍitaḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
pākabhedaṃ tu yaḥ kuryādātmanaścopabhuñjataḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
dattvā vai bhūmidānaṃ tu punarācchindatīha yaḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
striyaṃ bhuktvā rūpavatīṃ punaryastāṃ vinindati
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
yo'māvāsyāṃ viśālākṣi śrāddhaṃ kṛtvā striyaṃ vrajet
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
bhuktvā parasya cānnāni yastaṃ nindati nirghṛṇaḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
yastu kanyāṃ dadāmīti punastāṃ na prayacchati
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
ṣaṣṭhyaṣṭamyoramāvāsyācaturdaśyośca nityaśaḥ
asnātānāṃ gatiṃ gacche yadyahaṃ nā''game punaḥ
dāsyāmīti pratiśrutya na ca yastatprayacchati
gatiṃ tasya prapadye vai yadyahaṃ nā''game punaḥ
mitrabhāryāṃ tu yo gacchet kāmabāṇavaśānugaḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
gurupatnīṃ rājapatnīṃ ye tu gacchanti mohitāḥ
teṣāṃ gatiṃ prapadye vai yadyahaṃ nā''game punaḥ
yo vai dāradvayaṃ kṛtvā ekasyāṃ prītimān bhavet
gatiṃ tasya prapadye vai yadyahaṃ nā''game punaḥ
ananyaśaraṇāṃ bhāryāṃ yauvane yaḥ parityajet
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
gokulasya tṛṣārtasya jalārthamabhidhāvataḥ
vighnamācarate yastu tatpāpaṃ syādanāgame
brahmaghne ca surāpe ca core bhagnavrate tathā
yā gatirvihitā sadbhiḥ tatpāpaṃ syādanāgame
vāsudevaṃ parityajya ye'nyaṃ devamupāsate
teṣāṃ gatiṃ prapadye vai yadyahaṃ nā''game punaḥ
nārāyaṇamathānyaistu devaistulyaṃ karoti yaḥ
tasya pāpena lipyeyaṃ yadyahaṃ nā''game punaḥ
caṇḍālavacanaṃ śrutvā parituṣṭastu rākṣasaḥ
uvāca madhuraṃ vākyaṃ gaccha śīghraṃ namo'stu te
rākṣasena vinirmuktaścaṇḍālaḥ kṛtaniścayaḥ
punargāyati mahyaṃ vai mama bhaktyā vyavasthitaḥ
atha prabhāte vimale vinivṛtte tu jāgare
namo nārāyaṇetyuktvā śvapākaḥ punarāgamat
gacchatastvaritaṃ tasya puruṣaḥ purataḥ sthitaḥ
uvāca madhuraṃ vākyaṃ śvapākaṃ tadanantaram
kuto gacchasi caṇḍāla drutaṃ gamananiścitam
etadācakṣva tattvena yatra te vartate manaḥ
tasya tadvacanaṃ śrutvā śvapākaḥ satyasammataḥ
uvāca madhuraṃ vākyaṃ puruṣaṃ tadanantaram
samayo me kṛto yatra brahmarākṣasasannidhau
tatrāhaṃ gantumicchāmi yatrāsau brahmarākṣasaḥ
śvapākavacanaṃ śrutvā puruṣo bhāvaśodhakaḥ
uvāca madhuraṃ vākyaṃ śvapākaṃ tadanantaram
na tatra gaccha caṇḍāla mārgeṇānena suvrata
tatrāsau rākṣasaḥ pāpaḥ piśitāśī durāsadaḥ
puruṣasya vacaḥ śrutvā śvapākaḥ satyasaṅgaraḥ
maraṇaṃ tatra niścitya madhuraṃ vākyamabravīt
nāhamevaṃ kariṣyāmi yanmāṃ tvaṃ paripṛcchasi
ahaṃ satye pravṛtto vai śīlaṃ satye pratiṣṭhitam
tataḥ sa padmapatrākṣaḥ śvapākaṃ pratyuvāca ha
yadyevaṃ niścayastāta svasti te'stu gamiṣyataḥ
brahmarakṣontikaṃ prāpya satye'sau kṛtaniścayaḥ
uvāca madhuraṃ vākyaṃ rākṣasaṃ piśitāśanam
bhavatā samanujñāto gānaṃ kṛtvā yathepsayā
viṣṇave lokanāthāya mama pūrṇo manorathaḥ
etāni mama cāṅgāni bhakṣayasva yathecchayā
śvapākavacanaṃ śrutvā brahmarakṣo bhayānakam
uvāca madhuraṃ vākyaṃ śvapākaṃ saṃśitavratam
tvamadya rātrau caṇḍāla viṣṇorjāgaraṇaṃ prati
phalaṃ gītasya me dehi jīvitaṃ yadi cecchasi
brahmarakṣo vacaḥ śrutvā śvapākaḥ punarabravīt
yat tvayā bhāṣitaṃ pūrvaṃ mayā satyaṃ ca yatkṛtam
bhakṣayasva yathecchaṃ māṃ dadyāṃ gītaphalaṃ na tu
caṇḍālasya vacaḥ śrutvā hetuyuktamanantaram
uvāca madhuraṃ vākyaṃ caṇḍālaṃ brahmarākṣasaḥ
athavā'rdhaṃ tu me dehi puṇyaṃ gītasya yatphalam
tato mokṣyāmi kalyāṇa bhakṣādasmādvibhīṣaṇāt
brahmarakṣo vacaḥ śrutvā śvapākaḥ saṃśitavrataḥ
vāṇīṃ ślakṣṇāṃ samādāya brahmarākṣasamabravīt
bhakṣayāmīti saṃśrutya gītamanyat kimicchasi
śvapākasya vacaḥ śrutvā brahmarakṣo bhayāvaham
uvāca madhuraṃ vākyaṃ śvapākaṃ saṃśitavratam
ekayāmasya me dehi puṇyaṃ gītasya yatphalam
tato yāsyasi kalyāṇa saṅgamaṃ putradārakaiḥ
śrutvā rākṣasa vākyāni caṇḍālo gītalālasaḥ
uvāca madhuraṃ vākyaṃ rākṣasaṃ kṛtaniścayaḥ
na yāmasya phalaṃ dadyāṃ brahmarakṣastavepsitam
pibasva śoṇitaṃ mahyaṃ yat tvayā pūrvabhāṣitam
śvapākasya vacaḥ śrutvā rākṣasaḥ piśitāśanaḥ
satyavantaṃ guṇajñaṃ ca caṇḍālamidamabravīt
ekaṃ gītasya me dehi yat tvayā viṣṇusaṃsadi
nigrahāttārayāsmādvai tena gītaphalena mām
evamuktvā tu caṇḍālaṃ rākṣasaḥ śaraṇaṃ gataḥ
śrutvā rākṣasavākyāni śvapākaḥ saṃśitavrataḥ
uvāca madhuraṃ vākyaṃ rākṣasaṃ piśitāśanam
kiṃ tvayā duṣkṛtaṃ karma kṛtapūrvaṃ tu rākṣasaḥ
karmaṇo yasya doṣeṇa rākṣasīṃ yonimāśritaḥ
evamuktaḥ śvapākena pūrvavṛttamanusmaran
rākṣasaḥ śaraṇaṃ gatvā śvapākamidamabravīt
nāmnā vai somaśarmā'haṃ carako brahmayonijaḥ
sūtramantraparibhraṣṭo yūpakarmaṇyadhiṣṭhitaḥ
tato'haṃ kāraye yajñaṃ lobhamohaprapīḍitaḥ
yajñe pravartamāne tu śūladoṣastvajāyata
atha pañcamarātre tu asamāpte kratāvaham
akṛtvā vimalaṃ karma tataḥ pañcatvamāgataḥ
tasya yajñasya doṣeṇa mātaṅga śṛṇu yanmama
jāto'smi rākṣasastatra brāhmaṇo brahmarākṣasaḥ
evaṃ tu yajñadoṣeṇa vapuḥ prāptamidaṃ mama
ityuktvā tu tadā rakṣaḥ śvapākaṃ śaraṇaṃ gatam
brahmarakṣo vacaḥ śrutvā śvapākaḥ saṃśitavrataḥ
bāḍhamityabravīdvākyaṃ brahmarākṣasacoditaḥ
yanmayā paścimaṃ gītaṃ svaraṃ kaiśikamuttamam
phalena tasya bhadraṃ te mokṣayiṣyāmi kilbiṣāt
śrī-varāha uvāca
yastu gāyati bhaktyā vai kaiśikaṃ mama saṃsadi
sa tārayati durgāṇi śvapāko rākṣasaṃ yathā
evaṃ tatra varaṃ gṛhya rākṣaso brahmasaṃsthitaḥ
jātastu vimale vaṃśe mama lokaṃ ca gacchati
śvapākaścāpi suśroṇi mama caivopagāyakaḥ
kṛtvā tu vipulaṃ karma sa brahmatvamupāgataḥ
etadgītaphalaṃ devi kaumudadvādaśīṃ punaḥ
yastu gāyati sa śrīmān mama lokaṃ ca gacchati
|| iti śrī-vārāha-purāṇe bhūmi-varāha-saṃvāde śrī-kaiśika-māhātmyaṃ nāma aṣṭacatvāriṃśo'dhyāyaḥ||
kāyena vācā manasendriyairvā buddhyā''tmanā vā prakṛteḥ svabhāvāt
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi