कारवणमाहात्म्यं अथवा लकुलीशमाहात्म्यम्
गायकवाड प्राच्य ग्रन्थमाला क्रमाङ्क २५ (सन् १९२०)में गणकारिका प्रकाशित हुई थी ।
लकुलीश पाशुपत मत का यह एकमात्र उपलब्ध ग्रन्थ है । इस में चौथ परिशिष्ट के रूप में कारवणमाहात्म्य का मूलपाठ दिया गया है । तुलनात्मक अध्ययन के लिये उपयोगी सामग्री के रूप में हम उसे किञ्चित् सङ्क्षेप के साथ उद्धृत कर रहे हैं ।
कारवणमाहात्म्य में भगवान् शिव के जन्म की कथा कही गयी है । उल्कापुरी के एक ब्राह्मण के पुत्र के रूप में कारवण क्षेत्र में लकुलीश के रूप में भगवान् का जन्म हुआ । इसमें पूजाविधि और पट्टबन्ध का माहात्म्य कहा गया है । इस में चार अध्याय हैं । पहले का सम्बन्ध वायुपुराण से, शेष तीन का शिवपुराण से जोड़ा गया है ।
प्रथमोऽध्यायः । शिवप्रसूतिसर्गः ।
- कथासङ्क्षेप एवं सङ्क्षिप्त मूलपाठ
आरम्भ में लकुटपाणीश के रूप में अवतरित शिव की वन्दना को गई है । फिर शिव और पार्वती में एक वार्तालाप है, जिसमें पार्वती पट्टबन्ध का माहात्म्य पूछती हैं । शिव कलि और द्वापर के मध्य में अपने अवतार की कथा सुनाते हैं ।
अत्रि ऋषि के वंशज विश्वरूप नाम के ब्राह्मण और उसकी पत्नी सुदशना के यहाँ चैत्र शुक्ल चतुर्दशी को पिङ्गलाक्ष पिङ्गकेश वाले बालक का जन्म हुआ । उसके शरीर का वर्ण तप्त काञ्चन जैसा था । श्रावण के अन्त में सूर्यग्रहण के उपलक्ष्य में ब्राह्मण कुरुक्षेत्र का यात्रा के लिये गया ओर पत्नी को अग्निहोत्र सौम्पकर गया ।
अमरगणनिषेव्यः सर्वसिद्धिप्रदाता
कलियुगमवतीर्णः कार्यरूपो महेशः ।
सकलभुवनकर्ता सर्वपापप्रहर्ता
दिशतु लकुटपाणिर्वो विभूतिं प्रसन्नः ॥
कैलासशिखरारूढं भगवन्तं त्रिलोचनम् ।
महादेवं महाकालं महाभैरवरूपिणम् ॥
एकाकिनं प्रभुं दृष्ट्वा पप्रच्छ पार्वती तदा ।
श्रीदेव्युवाच -
पट्टबन्धस्य माहात्म्यं विस्तरात् कथय प्रभो ।
ईश्वर उवाच -
कलिद्वापरयोर्मध्ये अवतारं मम शृणु ।
यस्य स्मरणमात्रेण मुच्यते सर्वपातकेः ॥
अत्रिनामा तु देवर्षिः पूर्वं ख्यातो महातपाः ।
तदन्वये प्रसूतोऽसौ विश्वरूपो महाद्विजः ॥
सुदर्शनस्तु देवेशि ! तस्य पत्नी सुदर्शना ।
सर्वलक्षणसम्पन्ना रूपलावण्यसंयुता ॥
हर्षगद्गदसम्भाषां मत्तमातङ्गगामिनी ।
सम्पूर्णेन्दुमुखी सुभ्रूः कुरङ्गचकितेक्षणा ॥
पतिव्रतधरा साध्वी पत्युरादेशकारिणी ।
यथा रूपं तथा शीलं साध्वीनां घुरि कीर्त्तिता ॥
ब्रह्मरात्र्यवसाने तु प्रथमे च चतुयुगे ।
अवतीर्णो ह्ययं मर्त्ये उल्काग्रामे विलोमतः ॥
वीरभद्रो गणो नाम . . . . तस्य वरानने ।
तस्य चैकाग्रतो भक्तेरवतीर्णो स्वयं ततः ॥
उपपन्नस्ततो गर्भे मासि भाद्रपदे तदा ।
देवकार्यस्य कार्यार्थं मर्त्यलोके वरानने ।
एवं चैवाश्विनो मासस्तथा वै कार्त्तिको गतः ॥
अथ मार्गशिरोमासस्तथा पौषः प्रकीर्तितः ।
माघमासो गतो देवि तथा वै फाल्गुनः स्मृतः ॥
सम्प्राप्ते चैत्रमासे तु शुक्लपक्षे चतुर्दशी ।
अर्धरात्रे व्यतीते तु प्रसूता सा कुलाङ्गना ॥
सूतिकास्था महादेवि महासत्यवती सती ।
अपश्यदात्मनो बालं जातमात्रं वरानने ॥
पिङ्गाक्षं पिङ्गकेशं च तप्तकाञ्चनसन्निभम् ।
सुदृढं बाहुयुगलम्मूरू च सुदृढौ तथा ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
स्वजना बान्धवा ये च श्यालाः सम्बन्धिनस्तदा ।
विद्यार्थिनस्तु ये विप्रा ये चान्ये आश्रिता जनाः ॥
कृताञ्जलिः पुरो भूत्वा बालं यत्नेन रक्षत ।
एवं समर्पयन् बालं कुरुक्षेत्रं प्रतस्थिवान् ॥
इति श्रीवायुपुराणे शिवप्रसूतिसर्गः (प्रथमः) सम्पूर्णः ॥
द्वितीयोऽध्यायः । सन्तोषकरणम् ।
-कथासङ्क्षेप एवं मूलपाठ का आदि-अन्त
आश्विन मास में एक दिन प्रातः ब्राह्मणी अग्नि पर घृत डाल कर एक ब्राह्मण को बुलाने गई । लौट कर उसने देखा कि अग्नि ठीक से प्रज्वलित है और अग्निहोत्र की विधि सम्पन्न हो चुकी है । उसे बहुत आश्चर्य हुआ । फिर प्रत्येक रात्रि में वह इस शिशु द्वारा इस कृत्य की पुनरावृत्ति देखती रही । तीर्थयात्रा से पति के लौटने पर उसने यह आश्चर्य वृत्तान्त कह सुनाया । माता-पिता ने शिशु को अग्नि में आहुति देते देखा ।
अतः परं प्रवक्ष्यामि कुमारचरितं परम् ।
यन्न कस्यचिदाख्यातं तत्सर्वं कथयामि ते ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
समीपे च गृहं गत्वा उपसृत्य च सुन्दरि ।
एकाग्रः प्रयतो भूत्वा मुहुस्तिर्यङ् निरीक्षयन् ॥
पर्यङ्कादुत्थितो बालः प्रेमं (?)दत्त्वा यथा व्रजन् ।
पुनस्तत्रैव गच्छन्तौ दम्पती तदनन्तरम् ॥
इति श्रीशिवपुराणे लकुलीशमाहात्म्ये सन्तोषकरणं
नामाध्यायः (द्वितीयः) सम्पूर्णः ॥
तृतीयोऽध्यायः ।
-कथासङ्क्षेप एवं सङ्क्षिप्त मूलपाठ
बालक जब अग्निहोत्र पूरा कर चुका तब माता-पिता ने उससे पूछा --पुत्र तुम थक तो नहीं गए हो ? उनके इतना कहते ही शिशु मूच्छित हो कर पञ्चत्व को प्राप्त हो गया । माता पिता ने मृत शिशु को देवखात नामक बड़ए जलाशय में विपुल जल में डाल दिया । कच्छप उसे जलेश्वर देव के पास ले गये (जलेश्वर = जल में स्थित महालिङ्ग)। तीरस्थ ब्राह्मणों ने बालक को इस प्रकार खेलते देख कर महान् आश्चर्य किया और उसे पुकार कर पूछा तुम कौन हो ? . . . . स्तुति . . . . ।
ईश्वर उवाच -
ततः प्रभातसमये तथा दृष्ट्वा तु पार्वति !
आहतुस्तौ विशालाक्षं पुत्र ! श्रान्तोऽसि को भवान् ?
इति वाक्यावसाने तु मूर्च्छितः पतितो भुवि ।
मूर्च्छितं च सुतं दृष्ट्वा विस्मिता च सुदर्शना ॥
दिशो निरीक्षण कृत्वा पतिता धरणीतले ।
सप्तमासस्तु देवेशि ! सुतः पञ्चत्वमागतः ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
ऋषय ऊचुः -
बालस्य चरितं दृष्ट्वा ऋषयो विस्मयान्विताः ।
ब्रूहि त्वं को भगवान् ? कस्य ? सत्यधर्मपरायणः ॥
बाल उवाच -
क्षितिजलपवनेभ्यस्तेजसश्चैव देशाद्-
उपचितनरवेशः सम्भवो द्रव्यराशिः ।
श्रवणनयनजिह्वाघ्राणसंस्पर्शवेत्ता
क्षितितलपरिवर्ती कोऽप्यहं प्राणधर्मः ॥
ऋषय ऊचुः -
नमो बालकरूपाय अव्यक्ताय नमो नमः ।
व्योमप्रमाणकायाय कामेशाय नमो नमः ॥
व्योमप्रमाणविद्याय विद्येशाय नमो नमः ।
व्योमप्रमाणकालाय कालेशाय नमो नमः ॥
व्योमप्रमाणधर्माय धर्मेशाय नमो नमः ।
व्योमप्रमाणविश्वाय विश्वेशाय नमो नमः ॥
एकवज्र द्विवज्राय बहुवज्राय ते नमः ।
एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः ॥
एकहस्तद्विहस्ताय बहुहस्ताय ते नमः ।
एकत्रद्विनेत्राय बहुनेत्राय ते नमः ॥
नमस्तेऽस्तु महादेव ! नमस्तेऽस्तु महेश्वर !
नमस्तेऽस्तु महारुद्र ! नमस्ते बालरूपिणे ॥
नमस्तेऽस्तु महासिद्ध ! देवखातसमुद्भव !
नमस्तेऽस्तु महारुद्र ! नमस्तेऽस्तु सदा हरे ॥
अव्यक्ताय नमस्तुभ्यं शाश्वताय च ते नमः ॥
एवं स्तवेन देवेशं स्तौति यो लकुडेश्वरम् ।
स मुक्तः सर्वपापेभ्यो शिवलोके महीयते ॥
भोगार्थी लभते भोगान् योगार्थी योगमाप्नुयात् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति सत्वरम् ।
शिवस्य पदमाप्नोति नित्यं पठति यो नरः ॥
इति श्रीशिवपुराणे लकुलीशमाहात्म्ये तृतीयोऽध्यायः ॥
चतुर्थोऽध्यायः । तीर्थानुक्रमणिकायां शूलपाणिजन्मपट्टबन्धादिमाहात्म्यम् ।
- कथासङ्क्षेप एवं सङ्क्षिप्त मूलपाठ
यं चारुचामीकरराशिगौरं
संस्कारविद्याव्रतमन्त्रधौताः ।
समाविशन्ति प्रतिगृह्य कायं
लोकप्रवीराय नमोऽस्तु तस्मै ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
प्रकाशयत्स्वरूपं च दिव्यं त्रैलोक्यमोहनम् ।
त्रिनेत्रं च सुदीप्तं च मुक्तकेशञ्च सुव्रते ॥
धृतयज्ञोपवीतं च मेखलाभस्मसंयुतम् ।
प्रहृष्टमनसः सर्वे नित्यं प्रोत्फुल्ललोचनम् ॥
ऋग्यजुःसामसम्बन्धैर्दिव्याभिः स्तुतिसंयुतैः ।
स्तोत्रैर्मनोरमैः स्तुत्वा धावमानं पुनः पुनः ॥
हर्षगद्गदया वाचा सम्भाव्य तं च बालकम् ।
कृताञ्जलिपुराः सर्वे स्तुति समुपचक्रमुः ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
फिर ऋषियों ने पिता की प्रशंसा की । तब बालक उन सब के आगे-आगे भागने लगा । क्षणमात्र अदृश्य हो कर -
ऊर्वा नाम्ना तु या देवी नदीनाम्ना सरस्वती ।
भृगुक्षेत्रोपकाराय त्रिषु लोकेषु विश्रुता ॥
नदीतीरे गतो बालः क्रीडमानस्तु तिष्ठति ।
ततः पश्चिममार्गेण श्रीमत्कायावरोहणम् ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
सभी ब्राह्मण, स्वजन विकल हो कर बालक को खोजने लगे । किन्तु लकुलीश वायुवेग से चक्रपुर पहुँच गये । सभी लोग रोते-बिलखते पीछे-पीछे दौड़कर बुलाते रहे । तब बालक ने कहा -
कुमार उवाच -
मा मा स्पृशन्ति मुनयो मम माता पिता तथा ।
अस्ति कार्यं परं किञ्चित् शृण्वन्तु मुनिसत्तमाः ॥
त्यज शोकं विशालाक्षि ! न मे माता कदाचन ।
शृण्वन्तु ऋषयः सर्वे इतिहासं पुरातनम् ॥
अहं सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ।
ऋषीणां वरदानाय उल्काग्रामे महर्षयः ॥
प्रकाशाय द्विजातीनां धर्मसंस्थापनाय च ।
अवतीर्णः स्वयं देवि ! तं वेद मां पुरातनम् ॥
ऋषय ऊचुः -
त्वं देवः सर्वदेवानां कर्ता हर्ता जगत्पतिः ।
भुक्तिमुक्तिप्रदाता त्वं भोगमोक्षमभीप्सितम् ॥
किं पुण्यं के गुणास्तस्य येन देवि (?)प्रशंसति ।
उल्काग्रामस्य माहात्म्यमशेषं कथय प्रभो ! ॥
तब उन सब के अनुरोध पर बालक ने उल्काग्राम का माहात्म्य कहा, उसे शिवक्षेत्र बताकर वहीं स्थित देवह्रद में गङ्गा-सरस्वती-तापी-यमुना-नर्मदा-सरयू इत्यादि सभी का समावेश बताया और कहा कि उन सब के स्नानादि का फल यहाँ मिल जाता है । इसके बाद -
ईशानश्चोत्तरेशाने भालाक्षो देवतागणैः ।
पृष्ठभागे पुनर्दृष्ट्वा जननीजनकादयः ॥
ततो मया धृतः कोणः भ्रुकुटीकुटिलाननम् ।
ततो मे भृकुटीं दृष्ट्वा स ऋषिर्दीनमानसः ॥
विचेतनः पुनर्जातः पुनराश्वासितो मया ।
अत्रैव स्थीयतां ब्रह्मन् ! आवयोः सङ्गकारणम् ।
मया तु दण्डकाष्ठेन नदीनामा तु जाह्नवी ॥
आनीता जाह्नवी पुण्या पुण्यतोयावगाहिता ॥
सर्वतीर्थमयी पुण्या देवखातेषु दुर्लभा ।
दीर्घा रेखा कृता यस्मात् तेनेय दीर्घिका स्मृता ॥
दीर्घिका के पास वृद्धदेव का स्थान था । बालक ने वहीं आश्रय माँगा, किन्तु वृद्धदेव ने कहा -
ममैतत्सङ्कटस्थानं कथं तर्ह्यावयोर्भवेत् ।
बालक ने फिर भी आग्रह किया, किन्तु वृद्धदेव ने कहा कि तुम ब्रह्मेश्वर के समीप ब्रह्मतीर्थ में जाओ ।
श्रीमहादेव उवाच -
वृद्धस्य वचनं श्रुत्वा लकुलीशो वरानने ।
ब्रह्मेश्वरं समासाध्य तस्मिन्नेव लयं गतः ॥
स्थितः स भगवान् तत्र कायरूपी महेश्वरः ।
येन कायावतारोऽसौ तेनेदं कायरोहणम् ॥
असिदण्डधरो वामे दक्षिणे बीजपूरकम् ।
ब्रह्मलिङ्गे महादेवि ! अहमपि लयं गतः ॥
कायावरोहणे पुण्ये तीर्थे तीर्थवरोत्तमे ।
भृगुक्षेत्रपवित्रार्थमवतीर्णो युगे युगे ॥
आदिकल्पावसाने तु ब्रह्मकल्पे पुरातने ।
ब्रह्मणो मनसः पुत्रो अत्रिनामा च विश्रुतः ॥
अत्रिस्तु जनयामास आत्रेयं नाम नामतः ।
आत्रेयादग्निशर्मोऽपि अग्निशर्मसुतः शुचिः ॥
सोमशर्मेति विख्यातो धर्मशीलो जितेन्द्रियः ।
सोमशर्मसुतो जातो विश्वरूपो द्विजोत्तमः ॥
विश्वरूपादहं जातो बालरूपधरो हरः ।
येन व्याप्तं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥
जगत्प्राणस्वरूपोऽहं जन्तूनां जीवलक्षणम् ।
योगिनां परमं ब्रह्म ब्रह्मणा परिकीर्तितम् ॥
तन्मां विद्धि महादेवि ! विश्वरूपं जगद्गुरूम् ।
चराचरेषु विख्यातं देहिनां देहमाश्रितम् ॥
समानो नाम यो वायुर्भूतानां विषयात्मवान् ।
तत्रोत्पन्नश्च तत्रैव मया सङ्क्रमणं कृतम् ॥
लम्बकस्तु समानस्याव्यापकस्तु व्यवस्थितः ।
आत्मरूपसमानस्य प्राणिनां परमः शिवः ॥
अवतीर्णस्ततो मर्त्ये कायरूपधरो हरः ।
कायावतारे लोकेशो लोकानां हितकाम्यया ॥
ईश्वर उवाच -
ईशानः प्रथमे जातो द्वितीये तु महाबलः ।
तृतीये तु युगे जातो वृद्धदेवो महेश्वरः ॥
प्राप्त कलियुगे घोरे धर्मसंस्थापनाय च ।
सवपापहरं पुण्यं श्रीमत्कायावरोहणम् ॥
कोटिलिङ्गस्य संस्थानं शिवक्षेत्रेण निर्मितम् ।
सर्वं तीर्थमिदं देवि ! विख्यातं भृगुमण्डले ॥
श्रीमत्कारवणे तीर्थे मूर्तिमान् शङ्करः स्वयम् ।
चातुर्युगमिदं तीर्थं शिवशक्त्या समन्वितम् ॥
भृगुक्षेत्रपवित्रार्थं निर्मितं शम्भुना स्वयम् ।
कृते इच्छापुरी नाम त्रेतायां च मयापुरी ॥
द्वापरे मेघवती नाम कलौ कायावरोहणम् ।
श्रीमातेति कृते प्रोक्ता त्रेतायां भूलम्बा मता ॥
आदौ चान्ते महादेवि ! मूर्तिमन्तौ महेश्वरौ ।
लिङ्गमूर्त्ती द्वयोर्मध्ये स्वयं साक्षाद्युगेश्वरः ॥
ईशानं कृत्तिकानाथं सानन्दं लकुलीश्वरम् ।
पश्यन्ति ये नरा नित्यं ते नरा गतकल्मषाः ॥
ईशानं प्रवरं तोर्थमीशानो यत्र तिष्ठति ।
प्रवरः सर्वदेवानां सर्वपापोपशान्तिदः ॥
ईशानः सर्वतन्त्रेषु सर्वतन्त्रेषु नायकः ।
ईशानः सर्वदेवश्च तस्मादीशानो वै प्रभुः ॥
तमीशानं समासाध्य विधिना श्रद्धया सह ।
शिवोक्तेन च मन्त्रेण पूजयित्वा जगद्गुरुम ॥
प्रदक्षिणं ततः कृत्वा पूजयित्वा महेश्वरम् ।
प्राप्नोति परमं स्थानं भुक्तिमुक्तिफलप्रदम् ॥
महाबलं ततस्तीर्थं यत्र तप्तं तपः पुरा ।
ऋषिभिर्देवमुख्यैश्च परं मोक्षमभीप्सुभिः ॥
पुरा त्रेतायुगे देवि ! तीर्थे तीर्थवरोत्तमे ।
सालङ्काय (?)पौत्रेण नन्दिना भावितात्मना ॥
आराध्य तपसा तेन दिव्यं वर्षसहस्रकम् ।
ध्यानयुक्तः सदा तिष्ठन् जपन् इन्द्रियनिग्रहः ॥
एकचित्तश्च शान्तात्मा मम वाक्यपरायणः ।
तोषितोऽहं तदा देवि ! वरमस्मै प्रदत्तवान् ॥
त्रिनेत्रः शूलपाणिश्च मम रूपस्वरूपधृक् ।
सप्तर्षिभिश्च भानुना परमार्थविशारदैः ॥
प्राप्ता तैः परमा सिद्धिरक्षया लोकदुर्लभा ।
अन्यैश्च बहुभिः सिद्धेस्तपसा पुष्कलेन च ॥
अपरे तु युगे प्राप्ते वृद्धदेवो महोदयः ।
यत्र सिद्धो महामेधाः स्वयं देवो महेश्वरः ॥
अस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ।
क्षेत्राधिपं तु तं विद्धि स्वयं तत्र व्यवस्थितः ॥
घोरे कलियुगे प्राप्ते देवदेवो जगद्गुरुः ।
लकुलीश इति ख्यातः त्रिषु लोकेषु विश्रुतः ॥
तत्रस्थजीवलोकानां मुक्त्यर्थं नैव संशयः ।
ज्ञानमूर्त्तिः स्वयं साक्षाद्देवदेवो भवोद्भवः ॥
आत्मस्थं चिन्तय ज्ञानं वीतरागं च केवलम् ।
तत्तीर्थं लाकुलं ज्ञेयं शिवक्षेत्रमुदाहृतम् ॥
सेव्यते दैवतैः सर्वं ऋषिभिश्च तपोधनैः ।
तपसा साधितस्तैस्तु सुरैर्ब्रह्मादिभिः प्रिये ॥
ईप्सितं प्राप्तवान् कार्यमस्मिन् तीर्थे वरानने ।
तत्र स्नात्वा च दत्त्वा च पितॄणां तु तिलोदकम् ॥
मुच्यते मानवः पापात् सप्तजन्मसमुद्भवात् ।
सन्देहो नैव कर्तव्य इति शम्भुः स्वयमब्रवीत् ॥
प्रयागे वा भवेन्मोक्षो महाकाले च वा प्रिये !
अमरकण्टके तद्वत्तथा कायावरोहणे ॥
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् ।
अनघः स्नानमात्रेण स भूत्वेह द्विजोत्तमः ॥
अस्मिन् योगे त्वशक्तोऽपि स्नायादत्र दिनत्रयम् ।
पतित्वा ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ।
आश्विनस्य सिते पक्षे चतुर्दश्यामुपोषितः ॥
देवेभ्यश्च पितृभ्यश्च कृत्वा श्राद्धादिकाः क्रियाः ।
आश्विन्याश्च सोमयोगे ये कुर्वन्ति नरोत्तमाः ॥
पट्टबन्धं लाकुलीशं स्वयं देवैश्च यत्कृतम् ।
न तेषां जायते जन्म संसारे दुःखसङ्कटे ॥
तत्र मारी न वर्तेत न दारिद्र्यं न रोगिणः ।
श्रूयतामत्र देवेशि ! पुण्येऽस्मिन् भृगुमण्डले ॥
श्रीमत्कारोहणे तीर्थे प्रथमं तु कलौ युगे ।
दीर्घकायं तु देवेशि यज्ञं यज्ञवरोत्तमे ॥
कृत्वा तु ब्राह्मणान् पूज्य (?)दिनान्यष्टादशैव तु ।
तत्र कारोहणे द्वारे विश्वे देवा महर्षयः ॥
भोजयेयुर्ब्राह्मणान् शक्त्या यजमानः पितामहम् ।
यो वेद विश्वमद्रूपं स्वयं विष्णुमहेश्वरम् ॥
ब्राह्मणः श्रद्धया युक्तो ब्रह्मेश्वरो ह्यजायत ।
अजैकपादा गन्धर्वा किन्नराश्च तथैव च ॥
सर्वे देवाश्च पितरः सचन्द्रार्कदिवाकराः ।
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहस्तथा ॥
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ।
देवला गालवश्चैव वामदेवो महाऋषिः ॥
बालखिल्यश्च कुशश्च तृणबिन्दुस्तथैव च ।
उद्दालको जयच्छृङ्गो माण्डव्यो व्यासनन्दनः ॥
गौतमोऽथ भरद्वाजो वात्सो वात्स्यायनस्तथा !
अन्ये च बहवो देवि ! ऋषयश्च तपोधनाः ॥
दृष्ट्वा देवं विरूपाक्षं आनन्दं परमं ययुः ।
यानि कानि च पुण्यानि तीर्थानि सरितस्तथा ॥
ब्रह्माद्याः सर्वतीर्थेषु स्नात्वा चैव मुदान्विताः ।
स्नापयेयुः शिवं तत्र पुण्यैस्तीर्थोदकैः प्रिये ॥
प्रथमं स्नापयेद्ब्रह्मा ततश्चैव जनार्दनः ।
ततस्त्विन्द्रोऽपि देवेशः चतुर्थो भानुरेव च ॥
चतुर्भिः कलशैर्दिव्यैः स्नाप्य देवं जगद्गुरुम् ।
विलेप्य चन्दनैर्दिव्येः कर्पूरागुरुधूपकैः ॥
पुष्पैर्मनोहरैर्दिव्यैः श्वेतमालाभिरर्चितः ॥
पट्टसूत्रमयैवस्त्रैः सूत्रजैर्वा महेश्वरम् ।
परिधाप्य महादेवं यथाशक्त्या च पूजयेत् ॥
यावत् तद्वस्त्रतन्तूनां सङ्ख्यानं शिवपूजने ।
तावद्युगसहस्राणि शिवलोके महीयते ॥
ते पूज्य विधिना देवं सुरा ब्रह्मादयः प्रिये ।
हिरण्मयं ततः पट्टं चक्रुर्देवस्य मूर्धनि ॥
पट्टबन्धं तु ये कुर्युरेवं देवस्य मूर्धनि ।
न तेषां पुनरावृत्तिः संसारे जायते प्रिये ! ॥
श्रीदेव्युवाच -
किं पुण्यं के गुणास्तस्य किमर्थं कीर्तितं विभो !
पट्टबन्धस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर ! ॥
श्रीशङ्कर उवाच -
सागरस्य तटे रम्ये प्रभासो नाम सुन्दरि !
सर्व तीर्थं प्रभासादि नात्र कार्या विचारणा ॥
तत्र सोमेश्वरो देवो सोमेन स्थापितः पुरा ।
तस्य द्वादशमात्राभिः समानं पट्टबन्धनम् ॥
सकलैश्चैव योगैश्च प्रभासे यत्प्रकीर्तितम् ।
तत्फलं समवाप्नोति पट्टबन्धं करोति यः ॥
कार्त्तिके कृत्तिकायोगे कार्तिक्यां षण्मुखस्य च ।
दर्शनात् सप्तयात्रायां तत्फलं नात्र संशयः ॥
अयनेऽमरचण्डीशे यात्रायां पञ्चभिः फलम् ।
तत्फलं कृतमात्रेण नरः प्राप्नोति पार्वति ! ॥
वैशाख्यां महाकाले अद्य अघ (यच्च)एकादशीफलम् ।
दर्शनेनापि चाश्विन्यामित्याहुश्च पुराविदः ॥
यत्फलं च कुरुक्षेत्रे राहुणा ग्रसिते रवौ ।
आजन्मगामिनां नॄणां तत्फलं पट्टबन्धने ॥
सोमवारे त्वमावस्यां भस्मगात्रस्य दर्शनात् ।
यात्राणां दशके यच्च तत्फलं पट्टबन्धनात् ॥
वाराणस्यां महादेवि ! कालक्षेपं करोति यः ।
तत्फलं समवाप्नोति सकृद्वै पट्टबन्धनात् ॥
गङ्गायां साधयेत् पुण्यं चतुर्युगेन यन्नरः ।
तत्पुण्यं जायते तस्य पट्टबन्धं करोति यः ॥
कृष्णाजिनसहस्राणि तिलधेनुशतानि च ।
दत्त्वा तत्फलमाप्नोति पट्टबन्धे कृते सति ॥
मतङ्गजसहस्रं तु अश्वानामयुतं तथा ।
तत्फलं समवाप्नोति पट्टबन्धे कृते सति ॥
ससागरां धरां दत्वा पुमान् यत्फलमश्नुते ।
तत्फलं समवाप्नोति पट्टबन्धे कृते सति ॥
कन्याकोटिप्रदानेन यत्फलं कविभिः कृतम् ।
विधिना पट्टबन्धे तु तत्फलं लभते नरः ॥
वापीकूपसहस्राणि देवतायतनानि च ।
कृत्वा यत्फलमाप्नोति तत्फल पट्टबन्धनात् ॥
मातापित्रोर्गुरूणां च (यत्फल)भक्तितो नृणाम् ।
तत्फलं समवाप्नोति सकृद्वै पट्टबन्धनात् ॥
गवार्थे द्विजार्थे च स्वाम्यर्थे यस्त्यजेत् तनुम् ।
तत्फलं समवाप्नोति पट्ट्बन्धेन पार्वति ! ॥
आपन्नार्तिहराणां च तीर्थसेवार्जितात्मनाम् ।
सत्यव्रतानां यत्पुण्यं तत्फलं पट्टबन्धनात् ॥
वनाश्रमेषु वसतां तापसानां च यत्फलम् ।
तत्फलं जायते तस्य पट्टबन्धं करोति यः ॥
यस्तु वर्षशतं पूणमहोरात्रमुपासते ।
एकेन पट्टबन्धेन तत्फलं लभते नरः ॥
गाङ्गेयं नार्मदं चान्द्रं पुण्यं सारस्वतं जलम् ।
करोति पार्वति ! नित्यं तत्फलं पट्टबन्धनात् ॥
यानि कानि च तीर्थानि पुण्यान्यायतनानि च ।
भूतलं सर्वमटते तत्फलं पट्टबन्धनात् ॥
दुर्लभं जन्म विप्रस्य दुर्लभं च तथा धनम् ।
दुर्लभः पट्टबन्धश्च लकुलीशस्य च प्रिये ! ॥
स्वल्पेन हेम्ना लकुलीश्वरस्य यः पट्टबन्धं विधिवत् करोति ।
विधूतपापो हि विमोदते स प्रसादमासाद्य महेश्वरस्य ॥
य इदं लकुलीशस्य माहात्म्यं शृणुयान् नरः ।
तत्प्रसादेन तस्यास्तु गोसहस्रादिकं फलम् ॥
इति प्रपन्नाः लकुलीशमीशं ये चारुचामीकरराशिगौरं !
संस्कारविद्याव्रतमन्त्रधौतं समाविशन्ति प्रतिगृह्यकायम् ॥
इति श्रीशिवपुराणे पार्वतीमहेश्वरसंवादे तीर्थानुक्रमणिकायां
शूलपाणिजन्मपट्टबन्धादिमाहात्म्यं समाप्तम् ।
॥ समाप्तं कारवणमाहात्म्यम् ॥
Notes:
KāravaṇaMāhātmyam कारवणमाहात्म्यम्; a.k.a LakulīśaMāhātmyam लकुलीशमाहत्म्यम्, describes about the birth of Lakulīśa लकुलीश / Lakuṭīśa लकुटीश who is considered to be a Śiva Avatāra शिव अवतार closely related to the Pāśupata Sampradāya पाशुपत सम्प्रदाय.
Lakulīśa लकुलीश was born on Caitra Śukla Caturdaśī चैत्र शुक्ल चतुर्दशी in Kāravaṇa कारवण / Kāyāvarohaṇa कायावरोहण.
KāravaṇaMāhātmyam कारवणमाहात्म्यम् also holds the details about the PaṭṭabandhaMāhātmyam पट्टबन्धमाहात्म्यम्, UlkāgrāmaMāhātmyam उल्काग्राममाहात्म्यम् in this context.
The text of KāravaṇaMāhātmyam कारवणमाहात्म्यम्; a SthalaPurāṇa स्थलपुराण,
is punctuated with brief summaries about (parts of) the chapters - with the first chapter attributed to VāyuPurāṇa वायुपुराण and the remaining three to ŚivaPurāṇa शिवपुराण.
Pāśupatasūtra पाशुपतसूत्र, that is said to be authored by Lakulīśa लकुलीश can be accessed from the respective link given below.
Proofread by Ruma Dewan
% Text title : Karavanamahatmyam
% File name : kAravaNamAhAtmyam.itx
% itxtitle : kAravaNamAhAtmyam (vAyupurANAntargatam)
% engtitle : kAravaNamAhAtmyam
% Category : shiva, vAyupurANa, mAhAtmya
% Location : doc_shiva
% Sublocation : shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ruma Dewan
% Proofread by : Ruma Dewan
% Description/comments : vAyupurANa
% Indexextra : (Scan kAravaNamAhAtmyam, pAshupatasUtram)
% Latest update : September 2, 2025
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
kāravaṇamāhātmyaṃ athavā lakulīśamāhātmyam
gāyakavāḍa prācya granthamālā kramāṅka 25 (san 1920)meṃ gaṇakārikā prakāśita huī thī |
lakulīśa pāśupata mata kā yaha ekamātra upalabdha grantha hai | isa meṃ cautha pariśiṣṭa ke rūpa meṃ kāravaṇamāhātmya kā mūlapāṭha diyā gayā hai | tulanātmaka adhyayana ke liye upayogī sāmagrī ke rūpa meṃ hama use kiñcit saṅkṣepa ke sātha uddhṛta kara rahe haiṃ |
kāravaṇamāhātmya meṃ bhagavān śiva ke janma kī kathā kahī gayī hai | ulkāpurī ke eka brāhmaṇa ke putra ke rūpa meṃ kāravaṇa kṣetra meṃ lakulīśa ke rūpa meṃ bhagavān kā janma huā | isameṃ pūjāvidhi aura paṭṭabandha kā māhātmya kahā gayā hai | isa meṃ cāra adhyāya haiṃ | pahale kā sambandha vāyupurāṇa se, śeṣa tīna kā śivapurāṇa se joḍa़ā gayā hai |
prathamo'dhyāyaḥ | śivaprasūtisargaḥ |
- kathāsaṅkṣepa evaṃ saṅkṣipta mūlapāṭha
ārambha meṃ lakuṭapāṇīśa ke rūpa meṃ avatarita śiva kī vandanā ko gaī hai | phira śiva aura pārvatī meṃ eka vārtālāpa hai, jisameṃ pārvatī paṭṭabandha kā māhātmya pūchatī haiṃ | śiva kali aura dvāpara ke madhya meṃ apane avatāra kī kathā sunāte haiṃ |
atri ṛṣi ke vaṃśaja viśvarūpa nāma ke brāhmaṇa aura usakī patnī sudaśanā ke yahā~ caitra śukla caturdaśī ko piṅgalākṣa piṅgakeśa vāle bālaka kā janma huā | usake śarīra kā varṇa tapta kāñcana jaisā thā | śrāvaṇa ke anta meṃ sūryagrahaṇa ke upalakṣya meṃ brāhmaṇa kurukṣetra kā yātrā ke liye gayā ora patnī ko agnihotra saumpakara gayā |
amaragaṇaniṣevyaḥ sarvasiddhipradātā
kaliyugamavatīrṇaḥ kāryarūpo maheśaḥ |
sakalabhuvanakartā sarvapāpaprahartā
diśatu lakuṭapāṇirvo vibhūtiṃ prasannaḥ ||
kailāsaśikharārūḍhaṃ bhagavantaṃ trilocanam |
mahādevaṃ mahākālaṃ mahābhairavarūpiṇam ||
ekākinaṃ prabhuṃ dṛṣṭvā papraccha pārvatī tadā |
śrīdevyuvāca -
paṭṭabandhasya māhātmyaṃ vistarāt kathaya prabho |
īśvara uvāca -
kalidvāparayormadhye avatāraṃ mama śaṛṇu |
yasya smaraṇamātreṇa mucyate sarvapātakeḥ ||
atrināmā tu devarṣiḥ pūrvaṃ khyāto mahātapāḥ |
tadanvaye prasūto'sau viśvarūpo mahādvijaḥ ||
sudarśanastu deveśi ! tasya patnī sudarśanā |
sarvalakṣaṇasampannā rūpalāvaṇyasaṃyutā ||
harṣagadgadasambhāṣāṃ mattamātaṅgagāminī |
sampūrṇendumukhī subhrūḥ kuraṅgacakitekṣaṇā ||
pativratadharā sādhvī patyurādeśakāriṇī |
yathā rūpaṃ tathā śīlaṃ sādhvīnāṃ ghuri kīrttitā ||
brahmarātryavasāne tu prathame ca catuyuge |
avatīrṇo hyayaṃ martye ulkāgrāme vilomataḥ ||
vīrabhadro gaṇo nāma . . . . tasya varānane |
tasya caikāgrato bhakteravatīrṇo svayaṃ tataḥ ||
upapannastato garbhe māsi bhādrapade tadā |
devakāryasya kāryārthaṃ martyaloke varānane |
evaṃ caivāśvino māsastathā vai kārttiko gataḥ ||
atha mārgaśiromāsastathā pauṣaḥ prakīrtitaḥ |
māghamāso gato devi tathā vai phālgunaḥ smṛtaḥ ||
samprāpte caitramāse tu śuklapakṣe caturdaśī |
ardharātre vyatīte tu prasūtā sā kulāṅganā ||
sūtikāsthā mahādevi mahāsatyavatī satī |
apaśyadātmano bālaṃ jātamātraṃ varānane ||
piṅgākṣaṃ piṅgakeśaṃ ca taptakāñcanasannibham |
sudṛḍhaṃ bāhuyugalammūrū ca sudṛḍhau tathā ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
svajanā bāndhavā ye ca śyālāḥ sambandhinastadā |
vidyārthinastu ye viprā ye cānye āśritā janāḥ ||
kṛtāñjaliḥ puro bhūtvā bālaṃ yatnena rakṣata |
evaṃ samarpayan bālaṃ kurukṣetraṃ pratasthivān ||
iti śrīvāyupurāṇe śivaprasūtisargaḥ (prathamaḥ) sampūrṇaḥ ||
dvitīyo'dhyāyaḥ | santoṣakaraṇam |
-kathāsaṅkṣepa evaṃ mūlapāṭha kā ādi-anta
āśvina māsa meṃ eka dina prātaḥ brāhmaṇī agni para ghṛta ḍāla kara eka brāhmaṇa ko bulāne gaī | lauṭa kara usane dekhā ki agni ṭhīka se prajvalita hai aura agnihotra kī vidhi sampanna ho cukī hai | use bahuta āścarya huā | phira pratyeka rātri meṃ vaha isa śiśu dvārā isa kṛtya kī punarāvṛtti dekhatī rahī | tīrthayātrā se pati ke lauṭane para usane yaha āścarya vṛttānta kaha sunāyā | mātā-pitā ne śiśu ko agni meṃ āhuti dete dekhā |
ataḥ paraṃ pravakṣyāmi kumāracaritaṃ param |
yanna kasyacidākhyātaṃ tatsarvaṃ kathayāmi te ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
samīpe ca gṛhaṃ gatvā upasṛtya ca sundari |
ekāgraḥ prayato bhūtvā muhustiryaṅ nirīkṣayan ||
paryaṅkādutthito bālaḥ premaṃ (?)dattvā yathā vrajan |
punastatraiva gacchantau dampatī tadanantaram ||
iti śrīśivapurāṇe lakulīśamāhātmye santoṣakaraṇaṃ
nāmādhyāyaḥ (dvitīyaḥ) sampūrṇaḥ ||
tṛtīyo'dhyāyaḥ |
-kathāsaṅkṣepa evaṃ saṅkṣipta mūlapāṭha
bālaka jaba agnihotra pūrā kara cukā taba mātā-pitā ne usase pūchā --putra tuma thaka to nahīṃ gae ho ? unake itanā kahate hī śiśu mūcchita ho kara pañcatva ko prāpta ho gayā | mātā pitā ne mṛta śiśu ko devakhāta nāmaka baḍa़e jalāśaya meṃ vipula jala meṃ ḍāla diyā | kacchapa use jaleśvara deva ke pāsa le gaye (jaleśvara = jala meṃ sthita mahāliṅga)| tīrastha brāhmaṇoṃ ne bālaka ko isa prakāra khelate dekha kara mahān āścarya kiyā aura use pukāra kara pūchā tuma kauna ho ? . . . . stuti . . . . |
īśvara uvāca -
tataḥ prabhātasamaye tathā dṛṣṭvā tu pārvati !
āhatustau viśālākṣaṃ putra ! śrānto'si ko bhavān ?
iti vākyāvasāne tu mūrcchitaḥ patito bhuvi |
mūrcchitaṃ ca sutaṃ dṛṣṭvā vismitā ca sudarśanā ||
diśo nirīkṣaṇa kṛtvā patitā dharaṇītale |
saptamāsastu deveśi ! sutaḥ pañcatvamāgataḥ ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
ṛṣaya ūcuḥ -
bālasya caritaṃ dṛṣṭvā ṛṣayo vismayānvitāḥ |
brūhi tvaṃ ko bhagavān ? kasya ? satyadharmaparāyaṇaḥ ||
bāla uvāca -
kṣitijalapavanebhyastejasaścaiva deśād-
upacitanaraveśaḥ sambhavo dravyarāśiḥ |
śravaṇanayanajihvāghrāṇasaṃsparśavettā
kṣititalaparivartī ko'pyahaṃ prāṇadharmaḥ ||
ṛṣaya ūcuḥ -
namo bālakarūpāya avyaktāya namo namaḥ |
vyomapramāṇakāyāya kāmeśāya namo namaḥ ||
vyomapramāṇavidyāya vidyeśāya namo namaḥ |
vyomapramāṇakālāya kāleśāya namo namaḥ ||
vyomapramāṇadharmāya dharmeśāya namo namaḥ |
vyomapramāṇaviśvāya viśveśāya namo namaḥ ||
ekavajra dvivajrāya bahuvajrāya te namaḥ |
ekakaṇṭhadvikaṇṭhāya bahukaṇṭhāya te namaḥ ||
ekahastadvihastāya bahuhastāya te namaḥ |
ekatradvinetrāya bahunetrāya te namaḥ ||
namaste'stu mahādeva ! namaste'stu maheśvara !
namaste'stu mahārudra ! namaste bālarūpiṇe ||
namaste'stu mahāsiddha ! devakhātasamudbhava !
namaste'stu mahārudra ! namaste'stu sadā hare ||
avyaktāya namastubhyaṃ śāśvatāya ca te namaḥ ||
evaṃ stavena deveśaṃ stauti yo lakuḍeśvaram |
sa muktaḥ sarvapāpebhyo śivaloke mahīyate ||
bhogārthī labhate bhogān yogārthī yogamāpnuyāt |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti satvaram |
śivasya padamāpnoti nityaṃ paṭhati yo naraḥ ||
iti śrīśivapurāṇe lakulīśamāhātmye tṛtīyo'dhyāyaḥ ||
caturtho'dhyāyaḥ | tīrthānukramaṇikāyāṃ śūlapāṇijanmapaṭṭabandhādimāhātmyam |
- kathāsaṅkṣepa evaṃ saṅkṣipta mūlapāṭha
yaṃ cārucāmīkararāśigauraṃ
saṃskāravidyāvratamantradhautāḥ |
samāviśanti pratigṛhya kāyaṃ
lokapravīrāya namo'stu tasmai ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
prakāśayatsvarūpaṃ ca divyaṃ trailokyamohanam |
trinetraṃ ca sudīptaṃ ca muktakeśañca suvrate ||
dhṛtayajñopavītaṃ ca mekhalābhasmasaṃyutam |
prahṛṣṭamanasaḥ sarve nityaṃ protphullalocanam ||
ṛgyajuḥsāmasambandhairdivyābhiḥ stutisaṃyutaiḥ |
stotrairmanoramaiḥ stutvā dhāvamānaṃ punaḥ punaḥ ||
harṣagadgadayā vācā sambhāvya taṃ ca bālakam |
kṛtāñjalipurāḥ sarve stuti samupacakramuḥ ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
phira ṛṣiyoṃ ne pitā kī praśaṃsā kī | taba bālaka una saba ke āge-āge bhāgane lagā | kṣaṇamātra adṛśya ho kara -
ūrvā nāmnā tu yā devī nadīnāmnā sarasvatī |
bhṛgukṣetropakārāya triṣu lokeṣu viśrutā ||
nadītīre gato bālaḥ krīḍamānastu tiṣṭhati |
tataḥ paścimamārgeṇa śrīmatkāyāvarohaṇam ||
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
sabhī brāhmaṇa, svajana vikala ho kara bālaka ko khojane lage | kintu lakulīśa vāyuvega se cakrapura pahu~ca gaye | sabhī loga rote-bilakhate pīche-pīche dauḍa़kara bulāte rahe | taba bālaka ne kahā -
kumāra uvāca -
mā mā spṛśanti munayo mama mātā pitā tathā |
asti kāryaṃ paraṃ kiñcit śaṛṇvantu munisattamāḥ ||
tyaja śokaṃ viśālākṣi ! na me mātā kadācana |
śaṛṇvantu ṛṣayaḥ sarve itihāsaṃ purātanam ||
ahaṃ sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ |
ṛṣīṇāṃ varadānāya ulkāgrāme maharṣayaḥ ||
prakāśāya dvijātīnāṃ dharmasaṃsthāpanāya ca |
avatīrṇaḥ svayaṃ devi ! taṃ veda māṃ purātanam ||
ṛṣaya ūcuḥ -
tvaṃ devaḥ sarvadevānāṃ kartā hartā jagatpatiḥ |
bhuktimuktipradātā tvaṃ bhogamokṣamabhīpsitam ||
kiṃ puṇyaṃ ke guṇāstasya yena devi (?)praśaṃsati |
ulkāgrāmasya māhātmyamaśeṣaṃ kathaya prabho ! ||
taba una saba ke anurodha para bālaka ne ulkāgrāma kā māhātmya kahā, use śivakṣetra batākara vahīṃ sthita devahrada meṃ gaṅgā-sarasvatī-tāpī-yamunā-narmadā-sarayū ityādi sabhī kā samāveśa batāyā aura kahā ki una saba ke snānādi kā phala yahā~ mila jātā hai | isake bāda -
īśānaścottareśāne bhālākṣo devatāgaṇaiḥ |
pṛṣṭhabhāge punardṛṣṭvā jananījanakādayaḥ ||
tato mayā dhṛtaḥ koṇaḥ bhrukuṭīkuṭilānanam |
tato me bhṛkuṭīṃ dṛṣṭvā sa ṛṣirdīnamānasaḥ ||
vicetanaḥ punarjātaḥ punarāśvāsito mayā |
atraiva sthīyatāṃ brahman ! āvayoḥ saṅgakāraṇam |
mayā tu daṇḍakāṣṭhena nadīnāmā tu jāhnavī ||
ānītā jāhnavī puṇyā puṇyatoyāvagāhitā ||
sarvatīrthamayī puṇyā devakhāteṣu durlabhā |
dīrghā rekhā kṛtā yasmāt teneya dīrghikā smṛtā ||
dīrghikā ke pāsa vṛddhadeva kā sthāna thā | bālaka ne vahīṃ āśraya mā~gā, kintu vṛddhadeva ne kahā -
mamaitatsaṅkaṭasthānaṃ kathaṃ tarhyāvayorbhavet |
bālaka ne phira bhī āgraha kiyā, kintu vṛddhadeva ne kahā ki tuma brahmeśvara ke samīpa brahmatīrtha meṃ jāo |
śrīmahādeva uvāca -
vṛddhasya vacanaṃ śrutvā lakulīśo varānane |
brahmeśvaraṃ samāsādhya tasminneva layaṃ gataḥ ||
sthitaḥ sa bhagavān tatra kāyarūpī maheśvaraḥ |
yena kāyāvatāro'sau tenedaṃ kāyarohaṇam ||
asidaṇḍadharo vāme dakṣiṇe bījapūrakam |
brahmaliṅge mahādevi ! ahamapi layaṃ gataḥ ||
kāyāvarohaṇe puṇye tīrthe tīrthavarottame |
bhṛgukṣetrapavitrārthamavatīrṇo yuge yuge ||
ādikalpāvasāne tu brahmakalpe purātane |
brahmaṇo manasaḥ putro atrināmā ca viśrutaḥ ||
atristu janayāmāsa ātreyaṃ nāma nāmataḥ |
ātreyādagniśarmo'pi agniśarmasutaḥ śuciḥ ||
somaśarmeti vikhyāto dharmaśīlo jitendriyaḥ |
somaśarmasuto jāto viśvarūpo dvijottamaḥ ||
viśvarūpādahaṃ jāto bālarūpadharo haraḥ |
yena vyāptaṃ jagatsarvaṃ trailokyaṃ sacarācaram ||
jagatprāṇasvarūpo'haṃ jantūnāṃ jīvalakṣaṇam |
yogināṃ paramaṃ brahma brahmaṇā parikīrtitam ||
tanmāṃ viddhi mahādevi ! viśvarūpaṃ jagadgurūm |
carācareṣu vikhyātaṃ dehināṃ dehamāśritam ||
samāno nāma yo vāyurbhūtānāṃ viṣayātmavān |
tatrotpannaśca tatraiva mayā saṅkramaṇaṃ kṛtam ||
lambakastu samānasyāvyāpakastu vyavasthitaḥ |
ātmarūpasamānasya prāṇināṃ paramaḥ śivaḥ ||
avatīrṇastato martye kāyarūpadharo haraḥ |
kāyāvatāre lokeśo lokānāṃ hitakāmyayā ||
īśvara uvāca -
īśānaḥ prathame jāto dvitīye tu mahābalaḥ |
tṛtīye tu yuge jāto vṛddhadevo maheśvaraḥ ||
prāpta kaliyuge ghore dharmasaṃsthāpanāya ca |
savapāpaharaṃ puṇyaṃ śrīmatkāyāvarohaṇam ||
koṭiliṅgasya saṃsthānaṃ śivakṣetreṇa nirmitam |
sarvaṃ tīrthamidaṃ devi ! vikhyātaṃ bhṛgumaṇḍale ||
śrīmatkāravaṇe tīrthe mūrtimān śaṅkaraḥ svayam |
cāturyugamidaṃ tīrthaṃ śivaśaktyā samanvitam ||
bhṛgukṣetrapavitrārthaṃ nirmitaṃ śambhunā svayam |
kṛte icchāpurī nāma tretāyāṃ ca mayāpurī ||
dvāpare meghavatī nāma kalau kāyāvarohaṇam |
śrīmāteti kṛte proktā tretāyāṃ bhūlambā matā ||
ādau cānte mahādevi ! mūrtimantau maheśvarau |
liṅgamūrttī dvayormadhye svayaṃ sākṣādyugeśvaraḥ ||
īśānaṃ kṛttikānāthaṃ sānandaṃ lakulīśvaram |
paśyanti ye narā nityaṃ te narā gatakalmaṣāḥ ||
īśānaṃ pravaraṃ torthamīśāno yatra tiṣṭhati |
pravaraḥ sarvadevānāṃ sarvapāpopaśāntidaḥ ||
īśānaḥ sarvatantreṣu sarvatantreṣu nāyakaḥ |
īśānaḥ sarvadevaśca tasmādīśāno vai prabhuḥ ||
tamīśānaṃ samāsādhya vidhinā śraddhayā saha |
śivoktena ca mantreṇa pūjayitvā jagadguruma ||
pradakṣiṇaṃ tataḥ kṛtvā pūjayitvā maheśvaram |
prāpnoti paramaṃ sthānaṃ bhuktimuktiphalapradam ||
mahābalaṃ tatastīrthaṃ yatra taptaṃ tapaḥ purā |
ṛṣibhirdevamukhyaiśca paraṃ mokṣamabhīpsubhiḥ ||
purā tretāyuge devi ! tīrthe tīrthavarottame |
sālaṅkāya (?)pautreṇa nandinā bhāvitātmanā ||
ārādhya tapasā tena divyaṃ varṣasahasrakam |
dhyānayuktaḥ sadā tiṣṭhan japan indriyanigrahaḥ ||
ekacittaśca śāntātmā mama vākyaparāyaṇaḥ |
toṣito'haṃ tadā devi ! varamasmai pradattavān ||
trinetraḥ śūlapāṇiśca mama rūpasvarūpadhṛk |
saptarṣibhiśca bhānunā paramārthaviśāradaiḥ ||
prāptā taiḥ paramā siddhirakṣayā lokadurlabhā |
anyaiśca bahubhiḥ siddhestapasā puṣkalena ca ||
apare tu yuge prāpte vṛddhadevo mahodayaḥ |
yatra siddho mahāmedhāḥ svayaṃ devo maheśvaraḥ ||
asya darśanamātreṇa mucyate sarvapātakaiḥ |
kṣetrādhipaṃ tu taṃ viddhi svayaṃ tatra vyavasthitaḥ ||
ghore kaliyuge prāpte devadevo jagadguruḥ |
lakulīśa iti khyātaḥ triṣu lokeṣu viśrutaḥ ||
tatrasthajīvalokānāṃ muktyarthaṃ naiva saṃśayaḥ |
jñānamūrttiḥ svayaṃ sākṣāddevadevo bhavodbhavaḥ ||
ātmasthaṃ cintaya jñānaṃ vītarāgaṃ ca kevalam |
tattīrthaṃ lākulaṃ jñeyaṃ śivakṣetramudāhṛtam ||
sevyate daivataiḥ sarvaṃ ṛṣibhiśca tapodhanaiḥ |
tapasā sādhitastaistu surairbrahmādibhiḥ priye ||
īpsitaṃ prāptavān kāryamasmin tīrthe varānane |
tatra snātvā ca dattvā ca pitṝṇāṃ tu tilodakam ||
mucyate mānavaḥ pāpāt saptajanmasamudbhavāt |
sandeho naiva kartavya iti śambhuḥ svayamabravīt ||
prayāge vā bhavenmokṣo mahākāle ca vā priye !
amarakaṇṭake tadvattathā kāyāvarohaṇe ||
mahāmāghīṃ puraskṛtya sasnau tatra dinatrayam |
anaghaḥ snānamātreṇa sa bhūtveha dvijottamaḥ ||
asmin yoge tvaśakto'pi snāyādatra dinatrayam |
patitvā brāhmaṇastatra brahmahā cātmahā bhavet ||
mucyate sarvapāpebhyo nātra kāryā vicāraṇā |
āśvinasya site pakṣe caturdaśyāmupoṣitaḥ ||
devebhyaśca pitṛbhyaśca kṛtvā śrāddhādikāḥ kriyāḥ |
āśvinyāśca somayoge ye kurvanti narottamāḥ ||
paṭṭabandhaṃ lākulīśaṃ svayaṃ devaiśca yatkṛtam |
na teṣāṃ jāyate janma saṃsāre duḥkhasaṅkaṭe ||
tatra mārī na varteta na dāridryaṃ na rogiṇaḥ |
śrūyatāmatra deveśi ! puṇye'smin bhṛgumaṇḍale ||
śrīmatkārohaṇe tīrthe prathamaṃ tu kalau yuge |
dīrghakāyaṃ tu deveśi yajñaṃ yajñavarottame ||
kṛtvā tu brāhmaṇān pūjya (?)dinānyaṣṭādaśaiva tu |
tatra kārohaṇe dvāre viśve devā maharṣayaḥ ||
bhojayeyurbrāhmaṇān śaktyā yajamānaḥ pitāmaham |
yo veda viśvamadrūpaṃ svayaṃ viṣṇumaheśvaram ||
brāhmaṇaḥ śraddhayā yukto brahmeśvaro hyajāyata |
ajaikapādā gandharvā kinnarāśca tathaiva ca ||
sarve devāśca pitaraḥ sacandrārkadivākarāḥ |
marīciraṅgirā atriḥ pulastyaḥ pulahastathā ||
pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca |
devalā gālavaścaiva vāmadevo mahāṛṣiḥ ||
bālakhilyaśca kuśaśca tṛṇabindustathaiva ca |
uddālako jayacchṛṅgo māṇḍavyo vyāsanandanaḥ ||
gautamo'tha bharadvājo vātso vātsyāyanastathā !
anye ca bahavo devi ! ṛṣayaśca tapodhanāḥ ||
dṛṣṭvā devaṃ virūpākṣaṃ ānandaṃ paramaṃ yayuḥ |
yāni kāni ca puṇyāni tīrthāni saritastathā ||
brahmādyāḥ sarvatīrtheṣu snātvā caiva mudānvitāḥ |
snāpayeyuḥ śivaṃ tatra puṇyaistīrthodakaiḥ priye ||
prathamaṃ snāpayedbrahmā tataścaiva janārdanaḥ |
tatastvindro'pi deveśaḥ caturtho bhānureva ca ||
caturbhiḥ kalaśairdivyaiḥ snāpya devaṃ jagadgurum |
vilepya candanairdivyeḥ karpūrāgurudhūpakaiḥ ||
puṣpairmanoharairdivyaiḥ śvetamālābhirarcitaḥ ||
paṭṭasūtramayaivastraiḥ sūtrajairvā maheśvaram |
paridhāpya mahādevaṃ yathāśaktyā ca pūjayet ||
yāvat tadvastratantūnāṃ saṅkhyānaṃ śivapūjane |
tāvadyugasahasrāṇi śivaloke mahīyate ||
te pūjya vidhinā devaṃ surā brahmādayaḥ priye |
hiraṇmayaṃ tataḥ paṭṭaṃ cakrurdevasya mūrdhani ||
paṭṭabandhaṃ tu ye kuryurevaṃ devasya mūrdhani |
na teṣāṃ punarāvṛttiḥ saṃsāre jāyate priye ! ||
śrīdevyuvāca -
kiṃ puṇyaṃ ke guṇāstasya kimarthaṃ kīrtitaṃ vibho !
paṭṭabandhasya māhātmyaṃ śrotumicchāmi śaṅkara ! ||
śrīśaṅkara uvāca -
sāgarasya taṭe ramye prabhāso nāma sundari !
sarva tīrthaṃ prabhāsādi nātra kāryā vicāraṇā ||
tatra someśvaro devo somena sthāpitaḥ purā |
tasya dvādaśamātrābhiḥ samānaṃ paṭṭabandhanam ||
sakalaiścaiva yogaiśca prabhāse yatprakīrtitam |
tatphalaṃ samavāpnoti paṭṭabandhaṃ karoti yaḥ ||
kārttike kṛttikāyoge kārtikyāṃ ṣaṇmukhasya ca |
darśanāt saptayātrāyāṃ tatphalaṃ nātra saṃśayaḥ ||
ayane'maracaṇḍīśe yātrāyāṃ pañcabhiḥ phalam |
tatphalaṃ kṛtamātreṇa naraḥ prāpnoti pārvati ! ||
vaiśākhyāṃ mahākāle adya agha (yacca)ekādaśīphalam |
darśanenāpi cāśvinyāmityāhuśca purāvidaḥ ||
yatphalaṃ ca kurukṣetre rāhuṇā grasite ravau |
ājanmagāmināṃ nṝṇāṃ tatphalaṃ paṭṭabandhane ||
somavāre tvamāvasyāṃ bhasmagātrasya darśanāt |
yātrāṇāṃ daśake yacca tatphalaṃ paṭṭabandhanāt ||
vārāṇasyāṃ mahādevi ! kālakṣepaṃ karoti yaḥ |
tatphalaṃ samavāpnoti sakṛdvai paṭṭabandhanāt ||
gaṅgāyāṃ sādhayet puṇyaṃ caturyugena yannaraḥ |
tatpuṇyaṃ jāyate tasya paṭṭabandhaṃ karoti yaḥ ||
kṛṣṇājinasahasrāṇi tiladhenuśatāni ca |
dattvā tatphalamāpnoti paṭṭabandhe kṛte sati ||
mataṅgajasahasraṃ tu aśvānāmayutaṃ tathā |
tatphalaṃ samavāpnoti paṭṭabandhe kṛte sati ||
sasāgarāṃ dharāṃ datvā pumān yatphalamaśnute |
tatphalaṃ samavāpnoti paṭṭabandhe kṛte sati ||
kanyākoṭipradānena yatphalaṃ kavibhiḥ kṛtam |
vidhinā paṭṭabandhe tu tatphalaṃ labhate naraḥ ||
vāpīkūpasahasrāṇi devatāyatanāni ca |
kṛtvā yatphalamāpnoti tatphala paṭṭabandhanāt ||
mātāpitrorgurūṇāṃ ca (yatphala)bhaktito nṛṇām |
tatphalaṃ samavāpnoti sakṛdvai paṭṭabandhanāt ||
gavārthe dvijārthe ca svāmyarthe yastyajet tanum |
tatphalaṃ samavāpnoti paṭṭbandhena pārvati ! ||
āpannārtiharāṇāṃ ca tīrthasevārjitātmanām |
satyavratānāṃ yatpuṇyaṃ tatphalaṃ paṭṭabandhanāt ||
vanāśrameṣu vasatāṃ tāpasānāṃ ca yatphalam |
tatphalaṃ jāyate tasya paṭṭabandhaṃ karoti yaḥ ||
yastu varṣaśataṃ pūṇamahorātramupāsate |
ekena paṭṭabandhena tatphalaṃ labhate naraḥ ||
gāṅgeyaṃ nārmadaṃ cāndraṃ puṇyaṃ sārasvataṃ jalam |
karoti pārvati ! nityaṃ tatphalaṃ paṭṭabandhanāt ||
yāni kāni ca tīrthāni puṇyānyāyatanāni ca |
bhūtalaṃ sarvamaṭate tatphalaṃ paṭṭabandhanāt ||
durlabhaṃ janma viprasya durlabhaṃ ca tathā dhanam |
durlabhaḥ paṭṭabandhaśca lakulīśasya ca priye ! ||
svalpena hemnā lakulīśvarasya yaḥ paṭṭabandhaṃ vidhivat karoti |
vidhūtapāpo hi vimodate sa prasādamāsādya maheśvarasya ||
ya idaṃ lakulīśasya māhātmyaṃ śaṛṇuyān naraḥ |
tatprasādena tasyāstu gosahasrādikaṃ phalam ||
iti prapannāḥ lakulīśamīśaṃ ye cārucāmīkararāśigauraṃ !
saṃskāravidyāvratamantradhautaṃ samāviśanti pratigṛhyakāyam ||
iti śrīśivapurāṇe pārvatīmaheśvarasaṃvāde tīrthānukramaṇikāyāṃ
śūlapāṇijanmapaṭṭabandhādimāhātmyaṃ samāptam |
|| samāptaṃ kāravaṇamāhātmyam ||
Notes:
KāravaṇaMāhātmyam kāravaṇamāhātmyam; a.k.a LakulīśaMāhātmyam lakulīśamāhatmyam, describes about the birth of Lakulīśa lakulīśa / Lakuṭīśa lakuṭīśa who is considered to be a Śiva Avatāra śiva avatāra closely related to the Pāśupata Sampradāya pāśupata sampradāya.
Lakulīśa lakulīśa was born on Caitra Śukla Caturdaśī caitra śukla caturdaśī in Kāravaṇa kāravaṇa / Kāyāvarohaṇa kāyāvarohaṇa.
KāravaṇaMāhātmyam kāravaṇamāhātmyam also holds the details about the PaṭṭabandhaMāhātmyam paṭṭabandhamāhātmyam, UlkāgrāmaMāhātmyam ulkāgrāmamāhātmyam in this context.
The text of KāravaṇaMāhātmyam kāravaṇamāhātmyam; a SthalaPurāṇa sthalapurāṇa,
is punctuated with brief summaries about (parts of) the chapters - with the first chapter attributed to VāyuPurāṇa vāyupurāṇa and the remaining three to ŚivaPurāṇa śivapurāṇa.
Pāśupatasūtra pāśupatasūtra, that is said to be authored by Lakulīśa lakulīśa can be accessed from the respective link given below.
Proofread by Ruma Dewan
% Text title : Karavanamahatmyam
% File name : kAravaNamAhAtmyam.itx
% itxtitle : kAravaNamAhAtmyam (vAyupurANAntargatam)
% engtitle : kAravaNamAhAtmyam
% Category : shiva, vAyupurANa, mAhAtmya
% Location : doc_shiva
% Sublocation : shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ruma Dewan
% Proofread by : Ruma Dewan
% Description/comments : vAyupurANa
% Indexextra : (Scan kAravaNamAhAtmyam, pAshupatasUtram)
% Latest update : September 2, 2025
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
కారవణమాహాత్మ్యం అథవా లకులీశమాహాత్మ్యమ్
గాయకవాడ ప్రాచ్య గ్రన్థమాలా క్రమాఙ్క ౨౫ (సన్ ౧౯౨౦)మేం గణకారికా ప్రకాశిత హుఈ థీ ।
లకులీశ పాశుపత మత కా యహ ఏకమాత్ర ఉపలబ్ధ గ్రన్థ హై । ఇస మేం చౌథ పరిశిష్ట కే రూప మేం కారవణమాహాత్మ్య కా మూలపాఠ దియా గయా హై । తులనాత్మక అధ్యయన కే లియే ఉపయోగీ సామగ్రీ కే రూప మేం హమ ఉసే కిఞ్చిత్ సఙ్క్షేప కే సాథ ఉద్ధృత కర రహే హైం ।
కారవణమాహాత్మ్య మేం భగవాన్ శివ కే జన్మ కీ కథా కహీ గయీ హై । ఉల్కాపురీ కే ఏక బ్రాహ్మణ కే పుత్ర కే రూప మేం కారవణ క్షేత్ర మేం లకులీశ కే రూప మేం భగవాన్ కా జన్మ హుఆ । ఇసమేం పూజావిధి ఔర పట్టబన్ధ కా మాహాత్మ్య కహా గయా హై । ఇస మేం చార అధ్యాయ హైం । పహలే కా సమ్బన్ధ వాయుపురాణ సే, శేష తీన కా శివపురాణ సే జోడ़ా గయా హై ।
ప్రథమోఽధ్యాయః । శివప్రసూతిసర్గః ।
- కథాసఙ్క్షేప ఏవం సఙ్క్షిప్త మూలపాఠ
ఆరమ్భ మేం లకుటపాణీశ కే రూప మేం అవతరిత శివ కీ వన్దనా కో గఈ హై । ఫిర శివ ఔర పార్వతీ మేం ఏక వార్తాలాప హై, జిసమేం పార్వతీ పట్టబన్ధ కా మాహాత్మ్య పూఛతీ హైం । శివ కలి ఔర ద్వాపర కే మధ్య మేం అపనే అవతార కీ కథా సునాతే హైం ।
అత్రి ఋషి కే వంశజ విశ్వరూప నామ కే బ్రాహ్మణ ఔర ఉసకీ పత్నీ సుదశనా కే యహాఁ చైత్ర శుక్ల చతుర్దశీ కో పిఙ్గలాక్ష పిఙ్గకేశ వాలే బాలక కా జన్మ హుఆ । ఉసకే శరీర కా వర్ణ తప్త కాఞ్చన జైసా థా । శ్రావణ కే అన్త మేం సూర్యగ్రహణ కే ఉపలక్ష్య మేం బ్రాహ్మణ కురుక్షేత్ర కా యాత్రా కే లియే గయా ఓర పత్నీ కో అగ్నిహోత్ర సౌమ్పకర గయా ।
అమరగణనిషేవ్యః సర్వసిద్ధిప్రదాతా
కలియుగమవతీర్ణః కార్యరూపో మహేశః ।
సకలభువనకర్తా సర్వపాపప్రహర్తా
దిశతు లకుటపాణిర్వో విభూతిం ప్రసన్నః ॥
కైలాసశిఖరారూఢం భగవన్తం త్రిలోచనమ్ ।
మహాదేవం మహాకాలం మహాభైరవరూపిణమ్ ॥
ఏకాకినం ప్రభుం దృష్ట్వా పప్రచ్ఛ పార్వతీ తదా ।
శ్రీదేవ్యువాచ -
పట్టబన్ధస్య మాహాత్మ్యం విస్తరాత్ కథయ ప్రభో ।
ఈశ్వర ఉవాచ -
కలిద్వాపరయోర్మధ్యే అవతారం మమ శృణు ।
యస్య స్మరణమాత్రేణ ముచ్యతే సర్వపాతకేః ॥
అత్రినామా తు దేవర్షిః పూర్వం ఖ్యాతో మహాతపాః ।
తదన్వయే ప్రసూతోఽసౌ విశ్వరూపో మహాద్విజః ॥
సుదర్శనస్తు దేవేశి ! తస్య పత్నీ సుదర్శనా ।
సర్వలక్షణసమ్పన్నా రూపలావణ్యసంయుతా ॥
హర్షగద్గదసమ్భాషాం మత్తమాతఙ్గగామినీ ।
సమ్పూర్ణేన్దుముఖీ సుభ్రూః కురఙ్గచకితేక్షణా ॥
పతివ్రతధరా సాధ్వీ పత్యురాదేశకారిణీ ।
యథా రూపం తథా శీలం సాధ్వీనాం ఘురి కీర్త్తితా ॥
బ్రహ్మరాత్ర్యవసానే తు ప్రథమే చ చతుయుగే ।
అవతీర్ణో హ్యయం మర్త్యే ఉల్కాగ్రామే విలోమతః ॥
వీరభద్రో గణో నామ . . . . తస్య వరాననే ।
తస్య చైకాగ్రతో భక్తేరవతీర్ణో స్వయం తతః ॥
ఉపపన్నస్తతో గర్భే మాసి భాద్రపదే తదా ।
దేవకార్యస్య కార్యార్థం మర్త్యలోకే వరాననే ।
ఏవం చైవాశ్వినో మాసస్తథా వై కార్త్తికో గతః ॥
అథ మార్గశిరోమాసస్తథా పౌషః ప్రకీర్తితః ।
మాఘమాసో గతో దేవి తథా వై ఫాల్గునః స్మృతః ॥
సమ్ప్రాప్తే చైత్రమాసే తు శుక్లపక్షే చతుర్దశీ ।
అర్ధరాత్రే వ్యతీతే తు ప్రసూతా సా కులాఙ్గనా ॥
సూతికాస్థా మహాదేవి మహాసత్యవతీ సతీ ।
అపశ్యదాత్మనో బాలం జాతమాత్రం వరాననే ॥
పిఙ్గాక్షం పిఙ్గకేశం చ తప్తకాఞ్చనసన్నిభమ్ ।
సుదృఢం బాహుయుగలమ్మూరూ చ సుదృఢౌ తథా ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
స్వజనా బాన్ధవా యే చ శ్యాలాః సమ్బన్ధినస్తదా ।
విద్యార్థినస్తు యే విప్రా యే చాన్యే ఆశ్రితా జనాః ॥
కృతాఞ్జలిః పురో భూత్వా బాలం యత్నేన రక్షత ।
ఏవం సమర్పయన్ బాలం కురుక్షేత్రం ప్రతస్థివాన్ ॥
ఇతి శ్రీవాయుపురాణే శివప్రసూతిసర్గః (ప్రథమః) సమ్పూర్ణః ॥
ద్వితీయోఽధ్యాయః । సన్తోషకరణమ్ ।
-కథాసఙ్క్షేప ఏవం మూలపాఠ కా ఆది-అన్త
ఆశ్విన మాస మేం ఏక దిన ప్రాతః బ్రాహ్మణీ అగ్ని పర ఘృత డాల కర ఏక బ్రాహ్మణ కో బులానే గఈ । లౌట కర ఉసనే దేఖా కి అగ్ని ఠీక సే ప్రజ్వలిత హై ఔర అగ్నిహోత్ర కీ విధి సమ్పన్న హో చుకీ హై । ఉసే బహుత ఆశ్చర్య హుఆ । ఫిర ప్రత్యేక రాత్రి మేం వహ ఇస శిశు ద్వారా ఇస కృత్య కీ పునరావృత్తి దేఖతీ రహీ । తీర్థయాత్రా సే పతి కే లౌటనే పర ఉసనే యహ ఆశ్చర్య వృత్తాన్త కహ సునాయా । మాతా-పితా నే శిశు కో అగ్ని మేం ఆహుతి దేతే దేఖా ।
అతః పరం ప్రవక్ష్యామి కుమారచరితం పరమ్ ।
యన్న కస్యచిదాఖ్యాతం తత్సర్వం కథయామి తే ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
సమీపే చ గృహం గత్వా ఉపసృత్య చ సున్దరి ।
ఏకాగ్రః ప్రయతో భూత్వా ముహుస్తిర్యఙ్ నిరీక్షయన్ ॥
పర్యఙ్కాదుత్థితో బాలః ప్రేమం (?)దత్త్వా యథా వ్రజన్ ।
పునస్తత్రైవ గచ్ఛన్తౌ దమ్పతీ తదనన్తరమ్ ॥
ఇతి శ్రీశివపురాణే లకులీశమాహాత్మ్యే సన్తోషకరణం
నామాధ్యాయః (ద్వితీయః) సమ్పూర్ణః ॥
తృతీయోఽధ్యాయః ।
-కథాసఙ్క్షేప ఏవం సఙ్క్షిప్త మూలపాఠ
బాలక జబ అగ్నిహోత్ర పూరా కర చుకా తబ మాతా-పితా నే ఉససే పూఛా --పుత్ర తుమ థక తో నహీం గఏ హో ? ఉనకే ఇతనా కహతే హీ శిశు మూచ్ఛిత హో కర పఞ్చత్వ కో ప్రాప్త హో గయా । మాతా పితా నే మృత శిశు కో దేవఖాత నామక బడ़ఏ జలాశయ మేం విపుల జల మేం డాల దియా । కచ్ఛప ఉసే జలేశ్వర దేవ కే పాస లే గయే (జలేశ్వర = జల మేం స్థిత మహాలిఙ్గ)। తీరస్థ బ్రాహ్మణోం నే బాలక కో ఇస ప్రకార ఖేలతే దేఖ కర మహాన్ ఆశ్చర్య కియా ఔర ఉసే పుకార కర పూఛా తుమ కౌన హో ? . . . . స్తుతి . . . . ।
ఈశ్వర ఉవాచ -
తతః ప్రభాతసమయే తథా దృష్ట్వా తు పార్వతి !
ఆహతుస్తౌ విశాలాక్షం పుత్ర ! శ్రాన్తోఽసి కో భవాన్ ?
ఇతి వాక్యావసానే తు మూర్చ్ఛితః పతితో భువి ।
మూర్చ్ఛితం చ సుతం దృష్ట్వా విస్మితా చ సుదర్శనా ॥
దిశో నిరీక్షణ కృత్వా పతితా ధరణీతలే ।
సప్తమాసస్తు దేవేశి ! సుతః పఞ్చత్వమాగతః ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
ఋషయ ఊచుః -
బాలస్య చరితం దృష్ట్వా ఋషయో విస్మయాన్వితాః ।
బ్రూహి త్వం కో భగవాన్ ? కస్య ? సత్యధర్మపరాయణః ॥
బాల ఉవాచ -
క్షితిజలపవనేభ్యస్తేజసశ్చైవ దేశాద్-
ఉపచితనరవేశః సమ్భవో ద్రవ్యరాశిః ।
శ్రవణనయనజిహ్వాఘ్రాణసంస్పర్శవేత్తా
క్షితితలపరివర్తీ కోఽప్యహం ప్రాణధర్మః ॥
ఋషయ ఊచుః -
నమో బాలకరూపాయ అవ్యక్తాయ నమో నమః ।
వ్యోమప్రమాణకాయాయ కామేశాయ నమో నమః ॥
వ్యోమప్రమాణవిద్యాయ విద్యేశాయ నమో నమః ।
వ్యోమప్రమాణకాలాయ కాలేశాయ నమో నమః ॥
వ్యోమప్రమాణధర్మాయ ధర్మేశాయ నమో నమః ।
వ్యోమప్రమాణవిశ్వాయ విశ్వేశాయ నమో నమః ॥
ఏకవజ్ర ద్వివజ్రాయ బహువజ్రాయ తే నమః ।
ఏకకణ్ఠద్వికణ్ఠాయ బహుకణ్ఠాయ తే నమః ॥
ఏకహస్తద్విహస్తాయ బహుహస్తాయ తే నమః ।
ఏకత్రద్వినేత్రాయ బహునేత్రాయ తే నమః ॥
నమస్తేఽస్తు మహాదేవ ! నమస్తేఽస్తు మహేశ్వర !
నమస్తేఽస్తు మహారుద్ర ! నమస్తే బాలరూపిణే ॥
నమస్తేఽస్తు మహాసిద్ధ ! దేవఖాతసముద్భవ !
నమస్తేఽస్తు మహారుద్ర ! నమస్తేఽస్తు సదా హరే ॥
అవ్యక్తాయ నమస్తుభ్యం శాశ్వతాయ చ తే నమః ॥
ఏవం స్తవేన దేవేశం స్తౌతి యో లకుడేశ్వరమ్ ।
స ముక్తః సర్వపాపేభ్యో శివలోకే మహీయతే ॥
భోగార్థీ లభతే భోగాన్ యోగార్థీ యోగమాప్నుయాత్ ।
యం యం చిన్తయతే కామం తం తం ప్రాప్నోతి సత్వరమ్ ।
శివస్య పదమాప్నోతి నిత్యం పఠతి యో నరః ॥
ఇతి శ్రీశివపురాణే లకులీశమాహాత్మ్యే తృతీయోఽధ్యాయః ॥
చతుర్థోఽధ్యాయః । తీర్థానుక్రమణికాయాం శూలపాణిజన్మపట్టబన్ధాదిమాహాత్మ్యమ్ ।
- కథాసఙ్క్షేప ఏవం సఙ్క్షిప్త మూలపాఠ
యం చారుచామీకరరాశిగౌరం
సంస్కారవిద్యావ్రతమన్త్రధౌతాః ।
సమావిశన్తి ప్రతిగృహ్య కాయం
లోకప్రవీరాయ నమోఽస్తు తస్మై ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
ప్రకాశయత్స్వరూపం చ దివ్యం త్రైలోక్యమోహనమ్ ।
త్రినేత్రం చ సుదీప్తం చ ముక్తకేశఞ్చ సువ్రతే ॥
ధృతయజ్ఞోపవీతం చ మేఖలాభస్మసంయుతమ్ ।
ప్రహృష్టమనసః సర్వే నిత్యం ప్రోత్ఫుల్లలోచనమ్ ॥
ఋగ్యజుఃసామసమ్బన్ధైర్దివ్యాభిః స్తుతిసంయుతైః ।
స్తోత్రైర్మనోరమైః స్తుత్వా ధావమానం పునః పునః ॥
హర్షగద్గదయా వాచా సమ్భావ్య తం చ బాలకమ్ ।
కృతాఞ్జలిపురాః సర్వే స్తుతి సముపచక్రముః ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
ఫిర ఋషియోం నే పితా కీ ప్రశంసా కీ । తబ బాలక ఉన సబ కే ఆగే-ఆగే భాగనే లగా । క్షణమాత్ర అదృశ్య హో కర -
ఊర్వా నామ్నా తు యా దేవీ నదీనామ్నా సరస్వతీ ।
భృగుక్షేత్రోపకారాయ త్రిషు లోకేషు విశ్రుతా ॥
నదీతీరే గతో బాలః క్రీడమానస్తు తిష్ఠతి ।
తతః పశ్చిమమార్గేణ శ్రీమత్కాయావరోహణమ్ ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . . . .
సభీ బ్రాహ్మణ, స్వజన వికల హో కర బాలక కో ఖోజనే లగే । కిన్తు లకులీశ వాయువేగ సే చక్రపుర పహుఁచ గయే । సభీ లోగ రోతే-బిలఖతే పీఛే-పీఛే దౌడ़కర బులాతే రహే । తబ బాలక నే కహా -
కుమార ఉవాచ -
మా మా స్పృశన్తి మునయో మమ మాతా పితా తథా ।
అస్తి కార్యం పరం కిఞ్చిత్ శృణ్వన్తు మునిసత్తమాః ॥
త్యజ శోకం విశాలాక్షి ! న మే మాతా కదాచన ।
శృణ్వన్తు ఋషయః సర్వే ఇతిహాసం పురాతనమ్ ॥
అహం సర్వజగద్వ్యాపీ స్వయం సాక్షాన్మహేశ్వరః ।
ఋషీణాం వరదానాయ ఉల్కాగ్రామే మహర్షయః ॥
ప్రకాశాయ ద్విజాతీనాం ధర్మసంస్థాపనాయ చ ।
అవతీర్ణః స్వయం దేవి ! తం వేద మాం పురాతనమ్ ॥
ఋషయ ఊచుః -
త్వం దేవః సర్వదేవానాం కర్తా హర్తా జగత్పతిః ।
భుక్తిముక్తిప్రదాతా త్వం భోగమోక్షమభీప్సితమ్ ॥
కిం పుణ్యం కే గుణాస్తస్య యేన దేవి (?)ప్రశంసతి ।
ఉల్కాగ్రామస్య మాహాత్మ్యమశేషం కథయ ప్రభో ! ॥
తబ ఉన సబ కే అనురోధ పర బాలక నే ఉల్కాగ్రామ కా మాహాత్మ్య కహా, ఉసే శివక్షేత్ర బతాకర వహీం స్థిత దేవహ్రద మేం గఙ్గా-సరస్వతీ-తాపీ-యమునా-నర్మదా-సరయూ ఇత్యాది సభీ కా సమావేశ బతాయా ఔర కహా కి ఉన సబ కే స్నానాది కా ఫల యహాఁ మిల జాతా హై । ఇసకే బాద -
ఈశానశ్చోత్తరేశానే భాలాక్షో దేవతాగణైః ।
పృష్ఠభాగే పునర్దృష్ట్వా జననీజనకాదయః ॥
తతో మయా ధృతః కోణః భ్రుకుటీకుటిలాననమ్ ।
తతో మే భృకుటీం దృష్ట్వా స ఋషిర్దీనమానసః ॥
విచేతనః పునర్జాతః పునరాశ్వాసితో మయా ।
అత్రైవ స్థీయతాం బ్రహ్మన్ ! ఆవయోః సఙ్గకారణమ్ ।
మయా తు దణ్డకాష్ఠేన నదీనామా తు జాహ్నవీ ॥
ఆనీతా జాహ్నవీ పుణ్యా పుణ్యతోయావగాహితా ॥
సర్వతీర్థమయీ పుణ్యా దేవఖాతేషు దుర్లభా ।
దీర్ఘా రేఖా కృతా యస్మాత్ తేనేయ దీర్ఘికా స్మృతా ॥
దీర్ఘికా కే పాస వృద్ధదేవ కా స్థాన థా । బాలక నే వహీం ఆశ్రయ మాఁగా, కిన్తు వృద్ధదేవ నే కహా -
మమైతత్సఙ్కటస్థానం కథం తర్హ్యావయోర్భవేత్ ।
బాలక నే ఫిర భీ ఆగ్రహ కియా, కిన్తు వృద్ధదేవ నే కహా కి తుమ బ్రహ్మేశ్వర కే సమీప బ్రహ్మతీర్థ మేం జాఓ ।
శ్రీమహాదేవ ఉవాచ -
వృద్ధస్య వచనం శ్రుత్వా లకులీశో వరాననే ।
బ్రహ్మేశ్వరం సమాసాధ్య తస్మిన్నేవ లయం గతః ॥
స్థితః స భగవాన్ తత్ర కాయరూపీ మహేశ్వరః ।
యేన కాయావతారోఽసౌ తేనేదం కాయరోహణమ్ ॥
అసిదణ్డధరో వామే దక్షిణే బీజపూరకమ్ ।
బ్రహ్మలిఙ్గే మహాదేవి ! అహమపి లయం గతః ॥
కాయావరోహణే పుణ్యే తీర్థే తీర్థవరోత్తమే ।
భృగుక్షేత్రపవిత్రార్థమవతీర్ణో యుగే యుగే ॥
ఆదికల్పావసానే తు బ్రహ్మకల్పే పురాతనే ।
బ్రహ్మణో మనసః పుత్రో అత్రినామా చ విశ్రుతః ॥
అత్రిస్తు జనయామాస ఆత్రేయం నామ నామతః ।
ఆత్రేయాదగ్నిశర్మోఽపి అగ్నిశర్మసుతః శుచిః ॥
సోమశర్మేతి విఖ్యాతో ధర్మశీలో జితేన్ద్రియః ।
సోమశర్మసుతో జాతో విశ్వరూపో ద్విజోత్తమః ॥
విశ్వరూపాదహం జాతో బాలరూపధరో హరః ।
యేన వ్యాప్తం జగత్సర్వం త్రైలోక్యం సచరాచరమ్ ॥
జగత్ప్రాణస్వరూపోఽహం జన్తూనాం జీవలక్షణమ్ ।
యోగినాం పరమం బ్రహ్మ బ్రహ్మణా పరికీర్తితమ్ ॥
తన్మాం విద్ధి మహాదేవి ! విశ్వరూపం జగద్గురూమ్ ।
చరాచరేషు విఖ్యాతం దేహినాం దేహమాశ్రితమ్ ॥
సమానో నామ యో వాయుర్భూతానాం విషయాత్మవాన్ ।
తత్రోత్పన్నశ్చ తత్రైవ మయా సఙ్క్రమణం కృతమ్ ॥
లమ్బకస్తు సమానస్యావ్యాపకస్తు వ్యవస్థితః ।
ఆత్మరూపసమానస్య ప్రాణినాం పరమః శివః ॥
అవతీర్ణస్తతో మర్త్యే కాయరూపధరో హరః ।
కాయావతారే లోకేశో లోకానాం హితకామ్యయా ॥
ఈశ్వర ఉవాచ -
ఈశానః ప్రథమే జాతో ద్వితీయే తు మహాబలః ।
తృతీయే తు యుగే జాతో వృద్ధదేవో మహేశ్వరః ॥
ప్రాప్త కలియుగే ఘోరే ధర్మసంస్థాపనాయ చ ।
సవపాపహరం పుణ్యం శ్రీమత్కాయావరోహణమ్ ॥
కోటిలిఙ్గస్య సంస్థానం శివక్షేత్రేణ నిర్మితమ్ ।
సర్వం తీర్థమిదం దేవి ! విఖ్యాతం భృగుమణ్డలే ॥
శ్రీమత్కారవణే తీర్థే మూర్తిమాన్ శఙ్కరః స్వయమ్ ।
చాతుర్యుగమిదం తీర్థం శివశక్త్యా సమన్వితమ్ ॥
భృగుక్షేత్రపవిత్రార్థం నిర్మితం శమ్భునా స్వయమ్ ।
కృతే ఇచ్ఛాపురీ నామ త్రేతాయాం చ మయాపురీ ॥
ద్వాపరే మేఘవతీ నామ కలౌ కాయావరోహణమ్ ।
శ్రీమాతేతి కృతే ప్రోక్తా త్రేతాయాం భూలమ్బా మతా ॥
ఆదౌ చాన్తే మహాదేవి ! మూర్తిమన్తౌ మహేశ్వరౌ ।
లిఙ్గమూర్త్తీ ద్వయోర్మధ్యే స్వయం సాక్షాద్యుగేశ్వరః ॥
ఈశానం కృత్తికానాథం సానన్దం లకులీశ్వరమ్ ।
పశ్యన్తి యే నరా నిత్యం తే నరా గతకల్మషాః ॥
ఈశానం ప్రవరం తోర్థమీశానో యత్ర తిష్ఠతి ।
ప్రవరః సర్వదేవానాం సర్వపాపోపశాన్తిదః ॥
ఈశానః సర్వతన్త్రేషు సర్వతన్త్రేషు నాయకః ।
ఈశానః సర్వదేవశ్చ తస్మాదీశానో వై ప్రభుః ॥
తమీశానం సమాసాధ్య విధినా శ్రద్ధయా సహ ।
శివోక్తేన చ మన్త్రేణ పూజయిత్వా జగద్గురుమ ॥
ప్రదక్షిణం తతః కృత్వా పూజయిత్వా మహేశ్వరమ్ ।
ప్రాప్నోతి పరమం స్థానం భుక్తిముక్తిఫలప్రదమ్ ॥
మహాబలం తతస్తీర్థం యత్ర తప్తం తపః పురా ।
ఋషిభిర్దేవముఖ్యైశ్చ పరం మోక్షమభీప్సుభిః ॥
పురా త్రేతాయుగే దేవి ! తీర్థే తీర్థవరోత్తమే ।
సాలఙ్కాయ (?)పౌత్రేణ నన్దినా భావితాత్మనా ॥
ఆరాధ్య తపసా తేన దివ్యం వర్షసహస్రకమ్ ।
ధ్యానయుక్తః సదా తిష్ఠన్ జపన్ ఇన్ద్రియనిగ్రహః ॥
ఏకచిత్తశ్చ శాన్తాత్మా మమ వాక్యపరాయణః ।
తోషితోఽహం తదా దేవి ! వరమస్మై ప్రదత్తవాన్ ॥
త్రినేత్రః శూలపాణిశ్చ మమ రూపస్వరూపధృక్ ।
సప్తర్షిభిశ్చ భానునా పరమార్థవిశారదైః ॥
ప్రాప్తా తైః పరమా సిద్ధిరక్షయా లోకదుర్లభా ।
అన్యైశ్చ బహుభిః సిద్ధేస్తపసా పుష్కలేన చ ॥
అపరే తు యుగే ప్రాప్తే వృద్ధదేవో మహోదయః ।
యత్ర సిద్ధో మహామేధాః స్వయం దేవో మహేశ్వరః ॥
అస్య దర్శనమాత్రేణ ముచ్యతే సర్వపాతకైః ।
క్షేత్రాధిపం తు తం విద్ధి స్వయం తత్ర వ్యవస్థితః ॥
ఘోరే కలియుగే ప్రాప్తే దేవదేవో జగద్గురుః ।
లకులీశ ఇతి ఖ్యాతః త్రిషు లోకేషు విశ్రుతః ॥
తత్రస్థజీవలోకానాం ముక్త్యర్థం నైవ సంశయః ।
జ్ఞానమూర్త్తిః స్వయం సాక్షాద్దేవదేవో భవోద్భవః ॥
ఆత్మస్థం చిన్తయ జ్ఞానం వీతరాగం చ కేవలమ్ ।
తత్తీర్థం లాకులం జ్ఞేయం శివక్షేత్రముదాహృతమ్ ॥
సేవ్యతే దైవతైః సర్వం ఋషిభిశ్చ తపోధనైః ।
తపసా సాధితస్తైస్తు సురైర్బ్రహ్మాదిభిః ప్రియే ॥
ఈప్సితం ప్రాప్తవాన్ కార్యమస్మిన్ తీర్థే వరాననే ।
తత్ర స్నాత్వా చ దత్త్వా చ పితౄణాం తు తిలోదకమ్ ॥
ముచ్యతే మానవః పాపాత్ సప్తజన్మసముద్భవాత్ ।
సన్దేహో నైవ కర్తవ్య ఇతి శమ్భుః స్వయమబ్రవీత్ ॥
ప్రయాగే వా భవేన్మోక్షో మహాకాలే చ వా ప్రియే !
అమరకణ్టకే తద్వత్తథా కాయావరోహణే ॥
మహామాఘీం పురస్కృత్య సస్నౌ తత్ర దినత్రయమ్ ।
అనఘః స్నానమాత్రేణ స భూత్వేహ ద్విజోత్తమః ॥
అస్మిన్ యోగే త్వశక్తోఽపి స్నాయాదత్ర దినత్రయమ్ ।
పతిత్వా బ్రాహ్మణస్తత్ర బ్రహ్మహా చాత్మహా భవేత్ ॥
ముచ్యతే సర్వపాపేభ్యో నాత్ర కార్యా విచారణా ।
ఆశ్వినస్య సితే పక్షే చతుర్దశ్యాముపోషితః ॥
దేవేభ్యశ్చ పితృభ్యశ్చ కృత్వా శ్రాద్ధాదికాః క్రియాః ।
ఆశ్విన్యాశ్చ సోమయోగే యే కుర్వన్తి నరోత్తమాః ॥
పట్టబన్ధం లాకులీశం స్వయం దేవైశ్చ యత్కృతమ్ ।
న తేషాం జాయతే జన్మ సంసారే దుఃఖసఙ్కటే ॥
తత్ర మారీ న వర్తేత న దారిద్ర్యం న రోగిణః ।
శ్రూయతామత్ర దేవేశి ! పుణ్యేఽస్మిన్ భృగుమణ్డలే ॥
శ్రీమత్కారోహణే తీర్థే ప్రథమం తు కలౌ యుగే ।
దీర్ఘకాయం తు దేవేశి యజ్ఞం యజ్ఞవరోత్తమే ॥
కృత్వా తు బ్రాహ్మణాన్ పూజ్య (?)దినాన్యష్టాదశైవ తు ।
తత్ర కారోహణే ద్వారే విశ్వే దేవా మహర్షయః ॥
భోజయేయుర్బ్రాహ్మణాన్ శక్త్యా యజమానః పితామహమ్ ।
యో వేద విశ్వమద్రూపం స్వయం విష్ణుమహేశ్వరమ్ ॥
బ్రాహ్మణః శ్రద్ధయా యుక్తో బ్రహ్మేశ్వరో హ్యజాయత ।
అజైకపాదా గన్ధర్వా కిన్నరాశ్చ తథైవ చ ॥
సర్వే దేవాశ్చ పితరః సచన్ద్రార్కదివాకరాః ।
మరీచిరఙ్గిరా అత్రిః పులస్త్యః పులహస్తథా ॥
ప్రచేతాశ్చ వసిష్ఠశ్చ భృగుర్నారద ఏవ చ ।
దేవలా గాలవశ్చైవ వామదేవో మహాఋషిః ॥
బాలఖిల్యశ్చ కుశశ్చ తృణబిన్దుస్తథైవ చ ।
ఉద్దాలకో జయచ్ఛృఙ్గో మాణ్డవ్యో వ్యాసనన్దనః ॥
గౌతమోఽథ భరద్వాజో వాత్సో వాత్స్యాయనస్తథా !
అన్యే చ బహవో దేవి ! ఋషయశ్చ తపోధనాః ॥
దృష్ట్వా దేవం విరూపాక్షం ఆనన్దం పరమం యయుః ।
యాని కాని చ పుణ్యాని తీర్థాని సరితస్తథా ॥
బ్రహ్మాద్యాః సర్వతీర్థేషు స్నాత్వా చైవ ముదాన్వితాః ।
స్నాపయేయుః శివం తత్ర పుణ్యైస్తీర్థోదకైః ప్రియే ॥
ప్రథమం స్నాపయేద్బ్రహ్మా తతశ్చైవ జనార్దనః ।
తతస్త్విన్ద్రోఽపి దేవేశః చతుర్థో భానురేవ చ ॥
చతుర్భిః కలశైర్దివ్యైః స్నాప్య దేవం జగద్గురుమ్ ।
విలేప్య చన్దనైర్దివ్యేః కర్పూరాగురుధూపకైః ॥
పుష్పైర్మనోహరైర్దివ్యైః శ్వేతమాలాభిరర్చితః ॥
పట్టసూత్రమయైవస్త్రైః సూత్రజైర్వా మహేశ్వరమ్ ।
పరిధాప్య మహాదేవం యథాశక్త్యా చ పూజయేత్ ॥
యావత్ తద్వస్త్రతన్తూనాం సఙ్ఖ్యానం శివపూజనే ।
తావద్యుగసహస్రాణి శివలోకే మహీయతే ॥
తే పూజ్య విధినా దేవం సురా బ్రహ్మాదయః ప్రియే ।
హిరణ్మయం తతః పట్టం చక్రుర్దేవస్య మూర్ధని ॥
పట్టబన్ధం తు యే కుర్యురేవం దేవస్య మూర్ధని ।
న తేషాం పునరావృత్తిః సంసారే జాయతే ప్రియే ! ॥
శ్రీదేవ్యువాచ -
కిం పుణ్యం కే గుణాస్తస్య కిమర్థం కీర్తితం విభో !
పట్టబన్ధస్య మాహాత్మ్యం శ్రోతుమిచ్ఛామి శఙ్కర ! ॥
శ్రీశఙ్కర ఉవాచ -
సాగరస్య తటే రమ్యే ప్రభాసో నామ సున్దరి !
సర్వ తీర్థం ప్రభాసాది నాత్ర కార్యా విచారణా ॥
తత్ర సోమేశ్వరో దేవో సోమేన స్థాపితః పురా ।
తస్య ద్వాదశమాత్రాభిః సమానం పట్టబన్ధనమ్ ॥
సకలైశ్చైవ యోగైశ్చ ప్రభాసే యత్ప్రకీర్తితమ్ ।
తత్ఫలం సమవాప్నోతి పట్టబన్ధం కరోతి యః ॥
కార్త్తికే కృత్తికాయోగే కార్తిక్యాం షణ్ముఖస్య చ ।
దర్శనాత్ సప్తయాత్రాయాం తత్ఫలం నాత్ర సంశయః ॥
అయనేఽమరచణ్డీశే యాత్రాయాం పఞ్చభిః ఫలమ్ ।
తత్ఫలం కృతమాత్రేణ నరః ప్రాప్నోతి పార్వతి ! ॥
వైశాఖ్యాం మహాకాలే అద్య అఘ (యచ్చ)ఏకాదశీఫలమ్ ।
దర్శనేనాపి చాశ్విన్యామిత్యాహుశ్చ పురావిదః ॥
యత్ఫలం చ కురుక్షేత్రే రాహుణా గ్రసితే రవౌ ।
ఆజన్మగామినాం నౄణాం తత్ఫలం పట్టబన్ధనే ॥
సోమవారే త్వమావస్యాం భస్మగాత్రస్య దర్శనాత్ ।
యాత్రాణాం దశకే యచ్చ తత్ఫలం పట్టబన్ధనాత్ ॥
వారాణస్యాం మహాదేవి ! కాలక్షేపం కరోతి యః ।
తత్ఫలం సమవాప్నోతి సకృద్వై పట్టబన్ధనాత్ ॥
గఙ్గాయాం సాధయేత్ పుణ్యం చతుర్యుగేన యన్నరః ।
తత్పుణ్యం జాయతే తస్య పట్టబన్ధం కరోతి యః ॥
కృష్ణాజినసహస్రాణి తిలధేనుశతాని చ ।
దత్త్వా తత్ఫలమాప్నోతి పట్టబన్ధే కృతే సతి ॥
మతఙ్గజసహస్రం తు అశ్వానామయుతం తథా ।
తత్ఫలం సమవాప్నోతి పట్టబన్ధే కృతే సతి ॥
ససాగరాం ధరాం దత్వా పుమాన్ యత్ఫలమశ్నుతే ।
తత్ఫలం సమవాప్నోతి పట్టబన్ధే కృతే సతి ॥
కన్యాకోటిప్రదానేన యత్ఫలం కవిభిః కృతమ్ ।
విధినా పట్టబన్ధే తు తత్ఫలం లభతే నరః ॥
వాపీకూపసహస్రాణి దేవతాయతనాని చ ।
కృత్వా యత్ఫలమాప్నోతి తత్ఫల పట్టబన్ధనాత్ ॥
మాతాపిత్రోర్గురూణాం చ (యత్ఫల)భక్తితో నృణామ్ ।
తత్ఫలం సమవాప్నోతి సకృద్వై పట్టబన్ధనాత్ ॥
గవార్థే ద్విజార్థే చ స్వామ్యర్థే యస్త్యజేత్ తనుమ్ ।
తత్ఫలం సమవాప్నోతి పట్ట్బన్ధేన పార్వతి ! ॥
ఆపన్నార్తిహరాణాం చ తీర్థసేవార్జితాత్మనామ్ ।
సత్యవ్రతానాం యత్పుణ్యం తత్ఫలం పట్టబన్ధనాత్ ॥
వనాశ్రమేషు వసతాం తాపసానాం చ యత్ఫలమ్ ।
తత్ఫలం జాయతే తస్య పట్టబన్ధం కరోతి యః ॥
యస్తు వర్షశతం పూణమహోరాత్రముపాసతే ।
ఏకేన పట్టబన్ధేన తత్ఫలం లభతే నరః ॥
గాఙ్గేయం నార్మదం చాన్ద్రం పుణ్యం సారస్వతం జలమ్ ।
కరోతి పార్వతి ! నిత్యం తత్ఫలం పట్టబన్ధనాత్ ॥
యాని కాని చ తీర్థాని పుణ్యాన్యాయతనాని చ ।
భూతలం సర్వమటతే తత్ఫలం పట్టబన్ధనాత్ ॥
దుర్లభం జన్మ విప్రస్య దుర్లభం చ తథా ధనమ్ ।
దుర్లభః పట్టబన్ధశ్చ లకులీశస్య చ ప్రియే ! ॥
స్వల్పేన హేమ్నా లకులీశ్వరస్య యః పట్టబన్ధం విధివత్ కరోతి ।
విధూతపాపో హి విమోదతే స ప్రసాదమాసాద్య మహేశ్వరస్య ॥
య ఇదం లకులీశస్య మాహాత్మ్యం శృణుయాన్ నరః ।
తత్ప్రసాదేన తస్యాస్తు గోసహస్రాదికం ఫలమ్ ॥
ఇతి ప్రపన్నాః లకులీశమీశం యే చారుచామీకరరాశిగౌరం !
సంస్కారవిద్యావ్రతమన్త్రధౌతం సమావిశన్తి ప్రతిగృహ్యకాయమ్ ॥
ఇతి శ్రీశివపురాణే పార్వతీమహేశ్వరసంవాదే తీర్థానుక్రమణికాయాం
శూలపాణిజన్మపట్టబన్ధాదిమాహాత్మ్యం సమాప్తమ్ ।
॥ సమాప్తం కారవణమాహాత్మ్యమ్ ॥
Notes:
KāravaṇaMāhātmyam కారవణమాహాత్మ్యమ్; a.k.a LakulīśaMāhātmyam లకులీశమాహత్మ్యమ్, describes about the birth of Lakulīśa లకులీశ / Lakuṭīśa లకుటీశ who is considered to be a Śiva Avatāra శివ అవతార closely related to the Pāśupata Sampradāya పాశుపత సమ్ప్రదాయ.
Lakulīśa లకులీశ was born on Caitra Śukla Caturdaśī చైత్ర శుక్ల చతుర్దశీ in Kāravaṇa కారవణ / Kāyāvarohaṇa కాయావరోహణ.
KāravaṇaMāhātmyam కారవణమాహాత్మ్యమ్ also holds the details about the PaṭṭabandhaMāhātmyam పట్టబన్ధమాహాత్మ్యమ్, UlkāgrāmaMāhātmyam ఉల్కాగ్రామమాహాత్మ్యమ్ in this context.
The text of KāravaṇaMāhātmyam కారవణమాహాత్మ్యమ్; a SthalaPurāṇa స్థలపురాణ,
is punctuated with brief summaries about (parts of) the chapters - with the first chapter attributed to VāyuPurāṇa వాయుపురాణ and the remaining three to ŚivaPurāṇa శివపురాణ.
Pāśupatasūtra పాశుపతసూత్ర, that is said to be authored by Lakulīśa లకులీశ can be accessed from the respective link given below.
Proofread by Ruma Dewan
% Text title : Karavanamahatmyam
% File name : kAravaNamAhAtmyam.itx
% itxtitle : kAravaNamAhAtmyam (vAyupurANAntargatam)
% engtitle : kAravaNamAhAtmyam
% Category : shiva, vAyupurANa, mAhAtmya
% Location : doc_shiva
% Sublocation : shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ruma Dewan
% Proofread by : Ruma Dewan
% Description/comments : vAyupurANa
% Indexextra : (Scan kAravaNamAhAtmyam, pAshupatasUtram)
% Latest update : September 2, 2025
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org