मातृभूतशतकम्
श्रेयांसि यं सकृदनुस्मरतां जनाना-
माविर्भवन्ति सुमहान्त्यनपायवन्ति
तं त्वामनन्यशरणश्शरणं भजामि
श्रीमातृभूत शिव पालय मां नमस्ते
आनन्द सच्चिदमलात्मनि शङ्करे त्वय्-
यन्तर्निषीदति भवन्तमहो विहाय
भ्राम्यामि मोहविवशो भवशोकखिन्नः
श्रीमातृभूत शिव पालय मां नमस्ते
मद्दाससूनुरयमित्यनुकम्पनीये
मय्यर्भके समधिरोप्य वृथाऽपराधान्
युक्तं किमेवमधिगन्तुमुदासिकां ते
श्रीमातृभूत शिव पालय मां नमस्ते
सौशील्यघस्मरधनस्मयनष्टसंज्ञान्
अज्ञो विषीदति यदेष वृथानुधावन्
तत्पश्यतस्तव दया न कथं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते
भक्तिं त्वयि श्रितवतां वद कः प्रहीणः
सा वा तवाहमिति किं न सकृत्प्रपत्तिः
किं तद्वतामनवितासि कुतोऽस्म्युपेक्ष्यः
श्रीमातृभूत शिव पालय मां नमस्ते
दासस्तवाहमिति यः सकृदप्युपैति
रक्ष्यः स एष इति ते विधृतव्रतस्य
रक्षोऽहमस्म्यथ कियानफलो विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते
आज्ञापयेः कथमये तव गर्भवासं
दुःखापवर्गिणि गिरीश समाश्रयेयम्
आस्तां सहस्रमपि नानुगुणं त्विदं ते
श्रीमातृभूत शिव पालय मां नमस्ते
सर्वज्ञ शङ्करमहेशदयालु शब्दाः
किं पारिभाषिकतयोपगता भवन्तम्
विज्ञापिते विलपितेऽपि किमित्युदास्से
श्रीमातृभूत शिव पालय मां नमस्ते
हीनैः सदाधिकृतिकैरपि धृष्यमाणे
सावज्ञमेवमपदे मयि दृश्यमाने
नेदं क्षणं क्षणमुपेक्षणमाश्रयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते
आलस्यदुर्विषयसक्त्यपलापनिद्रा-
पद्मामदाधिगदनीचसमागमादीन्
विघ्नान् धुनीहि घटय त्वयि मेऽभिलाषं
श्रीमातृभूत शिव पालय मां नमस्ते
क्वासावनन्यसुलभा भवदीयता मे
भूयिष्ठनिष्ठुर विपद्विषमा क्व वृत्तिः
एतन्न किं तव यशोभरभङ्गभीतं
श्रीमातृभूत शिव पालय मां नमस्ते
सम्फुल्लचम्पकलसन्नवमल्लिकादि-
हृद्योपचार रुचिरं भवदर्चनं मे
पाण्योस्तरङ्गय निरन्तरमन्तरात्मन्
श्रीमातृभूत शिव पालय मां नमस्ते
दारैः सुतैश्शुभतमैर्द्रविणैः प्रशान्तैः
स्वर्गापवर्गफलसिद्धिभिरभ्युपेताः
नन्दन्ति ते करुणया किमसाध्यमस्याः
श्रीमातृभूत शिव पालय मां नमस्ते
कालं कियन्तमघदन्तुरमन्तरङ्गं
त्वच्चिन्तनं तनितुमक्षममीक्षसे त्वम्
त्वद्भक्तये स्पृहयतश्शिव मे दयस्व
श्रीमातृभूत शिव पालय मां नमस्ते
वित्तस्मयान्ध गृहकानन सम्प्रचार
धौरेयभावमवधूय कदा मदङ्घ्री
स्तां त्वत्प्रदक्षिणविधौ करुणावशात्ते
श्रीमातृभूत शिव पालय मां नमस्ते
स्यात्त्वत्पदं विदलदम्बुजसौरभश्री-
विश्रामसीमभिरुदञ्चितवाक्प्रपञ्चैः
स्तोत्रैर्विभो मम कदा नु सदानुबन्धि
श्रीमातृभूत शिव पालय मां नमस्ते
पादौ प्रदक्षिणविधौ भवदर्चनेषु
पाणी स्तवेषु फणितीरपि मेऽन्तरात्मन्
ध्याने मनश्च विनियुङ्क्ष्व दयस्व मङ्क्षु
श्रीमातृभूत शिव पालय मां नमस्ते
मूढोऽपटुर्भवदुपश्रयणक्रमेषु
रूढोपतापविततिर्विपदां कदम्बैः
सीमा तृषामहमतोऽस्मि तवानुकम्प्यः
श्रीमातृभूत शिव पालय मां नमस्ते
अम्बेयमप्रतिहतप्रतिपत्तिशक्तिः
सर्वज्ञता च भवतो भुवने निरूढा
भूतिश्च वां निरवधिस्तनयस्तु सोऽहं
श्रीमातृभूत शिव पालय मां नमस्ते
पुत्रादयो न सुखयन्ति हि भावभेदात्
सोपाधिकप्रणयसम्भ्रमिभिः किमेतैः
माता पिता च निरुपाधिकृपानिधिस्त्वं
श्रीमातृभूत शिव पालय मां नमस्ते
उद्गद्गदस्वनगलं गलदम्बुनेत्रं
रोमाञ्चकञ्चुकितमञ्चितघर्मबिन्दु
त्वन्नामनि श्रवणगामिनि कल्पयाङ्गं
श्रीमातृभूत शिव पालय मां नमस्ते
दुर्लभ्यदुर्विपरिणत्यसुखानुबन्धि-
विप्लावितेषु विषयेषु वृथा निपात्य
मां खेदयन्न कथमुद्वहसेऽनुकम्पां
श्रीमातृभूत शिव पालय मां नमस्ते
कन्दर्पकोटिशतसुन्दरमिन्दुरेखा-
चूडं दरस्मितपरिस्फुरदाननेन्दुम्
कान्तं नगेन्द्रसुतया कलये भवन्तं
श्रीमातृभूत शिव पालय मां नमस्ते
सृष्टौ स्थितावपि लयेऽस्ति तव प्रभुत्वं
दुःखे तु मे द्वितयगोचरमेव दृश्यम्
व्यङ्क्तुं तदन्तविषयं तव को विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते
मन्दस्मितैर्दिशि दिशि स्फुरदिन्दुचूडैः
गौरीसखैः स्फटिकगौर मनोहराङ्गैः
त्वद्विग्रहैः कबलयाविरतं मनो मे
श्रीमातृभूत शिव पालय मां नमस्ते
प्रेमातिरेकशिशिरां त्वदपाङ्गधाराम्
आनन्दसिन्धुवलमानतरङ्गरेखाम्
सञ्चारयन्मयि सहाम्बिकया दयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते
भ्रूकिङ्करास्तव विरिञ्चपुरन्दराद्याः
कस्त्वां विरोत्स्यति निरोत्स्यति किं ममैनः
दैन्यं ततो न बलवत् किमु दीनबन्धो
श्रीमातृभूत शिव पालय मां नमस्ते
अन्वेति शङ्कर न यं करुणाङ्कुरस्ते
कस्तं विलोकयतु जल्पतु को धिनोतु
केयं विभो विमुखता मयि किङ्करेऽस्मिन्
श्रीमातृभूत शिव पालय मां नमस्ते
भान्तं भवन्तमनघं मणिभूषणौघैः
भान्त्योमया विमलविद्रुमपाटलाङ्ग्या
शृङ्गारिताङ्कमुपयामि शशाङ्कगौरं
श्रीमातृभूत शिव पालय मां नमस्ते
मन्दस्मितैः करुणया शिशिरैः कटाक्षैः
प्रेमातिरेकमधुरैरपि चाभिलापैः
आनन्दयिष्यसि कदा नु सहाम्बया त्वं
श्रीमातृभूत शिव पालय मां नमस्ते
गोपायितेति कुलदैवतमित्यजस्रं
विस्रम्भतोऽर्पितभरं त्वयि दीनबन्धो
मामीक्षसे न कृपया यदि किं करोमि
श्रीमातृभूत शिव पालय मां नमस्ते
एकं सकृद्यदलसो न पुराऽभजं त्वां
नानादुरीशसतताश्रयदुर्विपाकः
तस्यै न सोऽयमधुनाऽतिधुनाति चेतः
श्रीमातृभूत शिव पालय मां नमस्ते
एषा सुगन्धिचिकुरा जननी पिता त्वं
का ते सुते मयि विभो करुणा प्रहाणिः
किञ्चापि सा न खलु सार्द्रहृदो जनन्याः
श्रीमातृभूत शिव पालय मां नमस्ते
त्वत्संविदा तरति शोकमिति श्रुतीनां
भावो भवोन्नतिविधायि तवाभिधानम्
शोकापहं तदहमीश समाश्रयामि
श्रीमातृभूत शिव पालय मां नमस्ते
त्वन्नामकीर्तनमघापहमाशयेन
शंसन् पुराणनिकरो न किलार्थवादः
तत्संश्रयोऽहमकृपास्पदमस्मि किं ते
श्रीमातृभूत शिव पालय मां नमस्ते
कर्मानुरोधि फलमित्यवगम्यमाने
ह्येनोहृतौ शुभविधौ च पटीयसस्ते
कर्मेति कं प्रति तु वञ्चनचातुरीयं
श्रीमातृभूत शिव पालय मां नमस्ते
उत्सङ्गसीमनि सुगन्धिकचां निषण्णाम्
उल्लासयन् कुचतटीनखरावमर्शैः
आभासि शङ्कर निरन्तरमन्तरङ्गे
श्रीमातृभूत शिव पालय मां नमस्ते
मन्देतरैरखिलमान्तरमन्धकारं
माणिक्यभूषणमहोर्मिभिरंशुजालैः
धुन्वन्वपुस्तव विभासय मानसे मे
श्रीमातृभूत शिव पालय मां नमस्ते
अन्तर्वसद्भवदुदारपदारविन्द
सन्दर्शनाय मम तत्प्रतिरोधकं द्राक्
अंहः कवाटपटलं विघटय्य देव
श्रीमातृभूत शिव पालय मां नमस्ते
चेतो मम त्वदनुचिन्तनबद्धतृष्णं
मुष्णन्ति तच्च विषया मुहुरेधितार्थाः
विघ्नान् जहि त्वयि विजृम्भय भक्तियोगं
श्रीमातृभूत शिव पालय मां नमस्ते
दृक्कूणितेन जगतः खलु सृष्टिरेषा
तेनैव तेऽवनलयौ भुवने निरूढौ
तेनैव संहर ममाघततिं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते
अङ्गं शिरीषमृदुलं परुषैर्ममाश्म-
प्रायैर्वचोभिरभिपीडितमीडनार्थे
यत्तावकं तमपराधमिमं सहस्व
श्रीमातृभूत शिव पालय मां नमस्ते
मन्दस्मितैर्भ्रुकुटिभिर्मधुरैः कटाक्षैः
वामभ्रुवां नवनवैश्च वपुर्विलासैः
त्वां नोऽभजं तरलितस्तदिदं सहस्व
श्रीमातृभूत शिव पालय मां नमस्ते
मन्दस्मितं मदनसुन्दरमिन्दुचूडम्
उत्सङ्गविस्फुरदुमोरसिजस्पृशं त्वाम्
ध्यायन्वसानि दिवसानि नयन् कदा वा
श्रीमातृभूत शिव पालय मां नमस्ते
पाटीरसारलहरीं तुहिनांशुधारां
सौधाकरीमपि झरीमवमन्यमानः
त्वच्चिन्तनप्रभवनिर्वृतिभिः कदा स्यां
श्रीमातृभूत शिव पालय मां नमस्ते
त्वामस्म्यसावजमुपासितुमक्षमोऽहं
मोहान्धया बत धिया न यदेतदेनः
हार्या त्वयैव कृपया मम दुर्दशेयं
श्रीमातृभूत शिव पालय मां नमस्ते
वित्तार्जनस्य सकलः किमसावनेहा
नेह स्थितेः फलमहो भवतो धनेहा
इत्थं दुरीश्वरगिरां पदमस्मि दीनः
श्रीमातृभूत शिव पालय मां नमस्ते
सांसारिकानवधिखेदपरम्परासू-
न्मज्जन्निमज्जदिव सीदति मानसं मे
आश्वासयाशु कृपया न किमीक्षसे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते
लक्ष्मीपतिस्तव पदाभरणे स शेते
भिक्षाटनेन वद कं प्रतिविप्रलम्भः
जानाम्यहं न किमशेषजगत्पतिं त्वां
श्रीमातृभूत शिव पालय मां नमस्ते
संसृत्युदन्वति वितन्वति दुःखमोह-
ग्राहैर्व्यथामहह मे दृढमज्जनेन
त्वं क्रीडसीति सदृशं तव किं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते
मात्रा सुगन्धिकचया भवता च पित्रा
युक्तः प्रसूजनकहीन इवावसीदन्
अस्मीति वां जगदधीश्वरयोरयुक्तं
श्रीमातृभूत शिव पालय मां नमस्ते
मौढ्यादपाटवभरादपि पूजनं ते
नाहं तनोमि तदहं व्यथितो भवामि
विघ्नानपास्य वितर त्वदुपासनां मे
श्रीमातृभूत शिव पालय मां नमस्ते
त्वद्वन्दनं ननु जगत्त्रयवन्द्यतायै
त्वत्पूजनं तु भुवनत्रयपूज्यतायै
पुण्योच्चयेन तदिदं भवदीयता मे
श्रीमातृभूत शिव पालय मां नमस्ते
अल्पं महच्च सकलं फलमर्पणीयं
देव त्वयैव खलु तत्किमपीहमानः
त्वामाश्रयाम्यगतिको वद किं तवागः
श्रीमातृभूत शिव पालय मां नमस्ते
कन्दर्पदर्पहरसुन्दररूपधेये
मन्दस्मिते भुवनमङ्गलनामधेये
खेदापहे भवति खेलय मानसं मे
श्रीमातृभूत शिव पालय मां नमस्ते
सूर्योदये तिमिरजालमिवार्तिजालं
धावन्न किं मम विभो यदि दृक्पथे स्याः
किं मे तथा न दयसेऽनुचितो विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते
त्वं त्रायसे यदि निवारयितुं क्षमः को
लभ्यं किमस्ति तव मय्यवसीदतीत्थम्
किं हीयते मदवने तव किं विलम्बैः
श्रीमातृभूत शिव पालय मां नमस्ते
चन्द्रोपलामलभवत्कमनीयमूर्ति-
सम्पूजनं सुदृढभक्त्यनघोपचारैः
ईहे सदा रचयितुं घटयाशु तन्मे
श्रीमातृभूत शिव पालय मां नमस्ते
संसारसिन्धुसमुदित्वरखेदमोद-
वीचीपरिभ्रमपरिश्रमनोदनं मे
आकल्पय त्वदभिराधनहर्षभूतं
श्रीमातृभूत शिव पालय मां नमस्ते
भक्तिस्पृशो भवति तस्य न शर्म तेन
त्राणव्रताश्रुतिषु वा न सकृत् प्रपन्नः
कस्मात् करोषि करुणां न मयि प्रपन्ने
श्रीमातृभूत शिव पालय मां नमस्ते
यन्मां न पालयसि तत्त्वदपाटवाद्वा
यद्वा मदीयदुरिताद्वद नाथ नाद्यः
सर्वेश्वरो ननु भवानत एव नान्त्यः
श्रीमातृभूत शिव पालय मां नमस्ते
विश्वाधिनेतरि विपन्नजनावनस्थे
नाथे सति त्वयि न यन्मम खेदभङ्गः
तत्ते यशोहरमतो विनिवेदयामि
श्रीमातृभूत शिव पालय मां नमस्ते
अस्योद्यतः समुपरोद्धुमनात्मनीनं
सत्यं भवानघफलार्त्यनुभावनासु
नेशस्तु सोढुमियदस्म्यहमार्तबन्धौ
श्रीमातृभूत शिव पालय मां नमस्ते
आमज्जतः प्रतिपदं विपदम्बुराशौ
दृप्तं मम श्वसितुमप्यनधीश्वरस्य
किं पश्यतस्तव दया न कियान् विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते
स्वर्धेनवो न कति नो कति कल्पवृक्षाः
भ्रूवश्यतां न कति यान्त्यपरेऽप्युदाराः
भक्तिस्पृशां त्वयि भजे तमहं भवन्तं
श्रीमातृभूत शिव पालय मां नमस्ते
एनामुपप्लवभरैर्जटिलामवस्थां
प्राप्तं हि मां परिहसन्ति नितान्तमन्ये
त्वञ्चेन्न पश्यसि दयार्द्रदृशा गतिः का
श्रीमातृभूत शिव पालय मां नमस्ते
श्रीशश्शरः कनकभूमिशरश्शरासो
वासस्तु रूप्यशिखरी धनदः सखा ते
त्वामाश्रितस्य मम किन्न धुनोषि दैन्यं
श्रीमातृभूत शिव पालय मां नमस्ते
अत्यङ्कुरार्णमुखखेदमहार्णवेऽस्मिन्
मग्नस्य शङ्कर ममोत्तरणं प्रकल्प्य
त्वद्पूजनं घटय सङ्क्षपितान्तरायं
श्रीमातृभूत शिव पालय मां नमस्ते
लोकेऽतिवर्तितुमलं तव शासनं कः
पद्मासनो भवतु पद्मविलोचनो वा
तद्दुर्लिपिं विधिकृतामपि मे विलुम्प
श्रीमातृभूत शिव पालय मां नमस्ते
निःसारतामपि विदन्विषयेष्वमीषु
निःसीमसक्तिरहमेषु हि गाढमूढः
रक्ष्यस्त्वयैव करुणानिधिना प्रसह्य
श्रीमातृभूत शिव पालय मां नमस्ते
मञ्चे तरङ्गितमणित्विषि पुष्पकऌप्ते
मन्दस्मितं सह कदाऽम्बिकया भवन्तम्
पश्यामि पश्चिमतनूपहितोपबर्हं
श्रीमातृभूत शिव पालय मां नमस्ते
मय्यात्मनीनविमुखे मलिनस्वभावे
निर्वेदसागरनिमज्जनविप्लवेऽस्मिन्
कस्माद् भवस्यकरुणः करुणानिधे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते
रुद्राक्षभृद्भसितभूषणधन्यमूर्तिः
भावं वहन् प्रमुदितं भवदेकतानम्
कालं क्षिपेयमिति साधय कामनां मे
श्रीमातृभूत शिव पालय मां नमस्ते
त्वं चिद्घनोऽस्यहमसौ जडिमैकसीमा
दुःखाकरः पुनरहं सुखशेवधिस्त्वम्
युक्ता न ते स्थितिरियं तव गर्भवासे
श्रीमातृभूत शिव पालय मां नमस्ते
खेदं हरिष्यसि कदा शिशिरैः कटाक्षैः
मोदं करिष्यसि कदा मृदुभिर्वचोभिः
इत्युत्सुकोऽस्मि करुणां कुरु किङ्करेऽस्मिन्
श्रीमातृभूत शिव पालय मां नमस्ते
पाति प्रसह्य न किमर्भकमात्मनीनं
संयोजकैर्गुरुजनः स्मर तं क्रमं त्वम्
भक्तिं बलाद्भवति कल्पय मे दयालो
श्रीमातृभूत शिव पालय मां नमस्ते
सोऽहं न किञ्चिदपि साधु करोमि पापः
तुङ्गं पदं त्वभिलषामि तदप्यलज्जः
त्वद्दातृतासदयतागरिमावमर्शी
श्रीमातृभूत शिव पालय मां नमस्ते
शक्तो न कश्चिदपि शासनमन्तरा ते
कः सेव्यतां त्वदितरः किमितः फलं वा
स्वामिन्नुपैमि शरणं करणैस्त्रिभिस्त्वां
श्रीमातृभूत शिव पालय मां नमस्ते
मृत्युञ्जयोऽसि कमलापतिवल्लभोऽसि
तन्मृत्युदैन्यविपदोरपदं त्वदीयम्
त्वामाश्रितस्य मम किं सदृशी दशेयं
श्रीमातृभूत शिव पालय मां नमस्ते
किं जामिता न भवतो मम दुःखधारा-
निर्मातुरस्मृतिपदं किमुपांशुयाजः
कस्मात्प्रभो किमपि शर्म न किं विधत्से
श्रीमातृभूत शिव पालय मां नमस्ते
क्वाहं क्व चोन्नतपदस्पृहयालुतेय-
मात्मैव मामपहसत्यधुना तथाऽपि
त्वत्संश्रये सति किमस्ति दुरापमीश
श्रीमातृभूत शिव पालय मां नमस्ते
कस्याग्रतः प्रकटयानिरदानकाण्डे
कं हर्षयाणि नुतिभिः कमुपाश्रयाणि
मोघः श्रमेषु निपतेयमतो दयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते
किं विद्यया किमु धनेन किमात्मजैर्वा
किं जायया किमितरैस्त्वयि चेन्न चेतः
आनन्दशेवधिमतस्त्वयि देहि भक्तिं
श्रीमातृभूत शिव पालय मां नमस्ते
दासोऽस्मि दैन्यविवशस्त्वयि सर्वलोक-
साम्राज्यसम्पदमकम्पितमश्नुवाने
यत्तन्न ते समुचितं विमृश प्रसीद
श्रीमातृभूत शिव पालय मां नमस्ते
त्वामाश्रितस्त्वदितराश्रयदैन्यभङ्गम्
अङ्गीकरोमि जगदीश कथं कथं वा
त्वां नायशः स्पृशतु तत्त्यज मय्युपेक्षां
श्रीमातृभूत शिव पालय मां नमस्ते
श्रान्तं वपुर्दुरधिपाश्रयधावनान्मे
श्रान्तं वचो दुरधिपस्तुतिधोरणीभिः
क्रान्तं मनो दुरधिपाश्रयचिन्तयैव
श्रीमातृभूत शिव पालय मां नमस्ते
हेमस्फुरत्तनुतरङ्गितकान्तिधारा-
सम्प्लाव्यमानमणिभूषणदिव्यभासम्
मन्ये भवन्तमुमया मणिहेमपीठे
श्रीमातृभूत शिव पालय मां नमस्ते
स्वानन्दबिन्दुलव सम्प्लवमानसर्व-
ब्रह्माण्डमण्डलमखण्डितवैभवं त्वाम्
कस्तोषयेत्तदपि तुष्य परिभ्रमैर्मे
श्रीमातृभूत शिव पालय मां नमस्ते
कारुण्यनिर्भरसुधारसशीतलाभिः
काले कदा तव कटाक्षपरम्पराभिः
कष्टां दशामुपजहानि दृढोपगूढः
श्रीमातृभूत शिव पालय मां नमस्ते
भक्ताभिभूत्यसहनो भवसि प्रतीतो
भक्तोऽस्म्यहं त्वदभिधाग्रहणप्रसक्तः
तस्यास्य ते मयि कृपा न कथं विषण्णे
श्रीमातृभूत शिव पालय मां नमस्ते
दृक्केलयस्तव कृपारसशीकराङ्काः
यास्तासु तत्तदवनप्रवणासु चेत् स्यात्
एका पुनर्मदवनप्रवणा क्षतिः का
श्रीमातृभूत शिव पालय मां नमस्ते
श्रेयो रुणद्धि यदि पापगणस्तदा त्वां
त्वन्नामकीर्तनमघक्षपणक्षमं मे
किन्नास्ति किं न दयसे मयि हन्त खिन्ने
श्रीमातृभूत शिव पालय मां नमस्ते
तातप्रसूतनयदार सुहृद्भिरेवम्
अर्थोपपत्तिविरहादहहावसीदन्
नेतुं क्षणं न निपुणोऽस्मि ततः प्रसीद
श्रीमातृभूत शिव पालय मां नमस्ते
श्रीशैलराजसुतया शिशिरैः कटाक्षैः
मां वीक्ष्यमाणमसकृन्मधुरस्मितेन
सम्भावयन्मयि कदा नु दयिष्यसे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते
पारे भवाख्यजलधेर्भगवन् कृपाकू-
पारे भवत्यवतरिष्यति मे कदा वा
प्रेम्णा तृणीकृतपदं सकलं वितन्वन्
श्रीमातृभूत शिव पालय मां नमस्ते
निर्धूतदुस्तिमिरमस्तसमस्ततत्तद्-
दुर्वासनं हृदयमेतदये वितन्वन्
अस्मिन् भविष्यसि कदा नु सुखं निषण्णः
श्रीमातृभूत शिव पालय मां नमस्ते
मद्वर्णनैस्तव कदाऽस्तु मनः प्रसादो
मद्दृक्पथेऽस्तु च कदा तव दिव्यमूर्तिः
मत्कर्णगं तव वचोऽस्तु कदेति साशं
श्रीमातृभूत शिव पालय मां नमस्ते
कालेऽर्कनन्दन लुलायकटुस्वनोद्य-
त्कर्णज्वरापनयनैर्भवदुक्षजैर्मे
ध्वानामृतैः किमपि शर्म विनिर्मिमाणः
श्रीमातृभूत शिव पालय मां नमस्ते
यं ते दया स्पृशति तन्नयनान्तदासाः
ब्रह्मादयो जगति दीनजनास्पदा सा
दीनाग्रणीरहमतः पुनरुक्तिरेषा
श्रीमातृभूत शिव पालय मां नमस्ते
अन्यन्न मेऽभिमतमीश तदर्प्यतां वा
मा वेप्सितं तु तदिदं भवताऽर्पणीयम्
यत्सर्वदा निभृतवृत्त्यभिधानमित्थं
श्रीमातृभूत शिव पालय मां नमस्ते
हे शङ्कर स्मरहर प्रमथाधिनाथ
मन्नाथ साम्ब शशिचूड शिव त्रिशूलिन्
श्रीचित्सभेश करुणाकर फालनेत्र
श्रीमातृभूत शिव पालय मां नमस्ते
एवं स्तवं प्रपठतां उपशृण्वताञ्चा-
रोग्यायुरच्छशिवभक्ति धनर्द्धि विद्याः
दद्याः सुतानपि यशश्च विमुक्तिमन्ते
श्रीमातृभूत शिव पालय मां नमस्ते
श्रीमातृभूत शिव चन्दनसान्द्रलिप्तां
सङ्क्ऌप्तहेमतिलकां श्रितपुष्पमाल्याम्
अक्ष्णाऽमुना तव तनुं पिबतोऽक्ष्युदन्या
स्यान्मे यथाशु फलिनीश तथा दयेथाः
मनो मे विक्रीतं तव चरणसेवां कलयितुं
कृपामूल्यं लब्धं सुरभिचिकुरे सम्प्रति मया
न जाने तद्दुष्टं निवसति च वा धावति च वा
कृतं भूयो भूयः करतलयुगास्फालनमुमे
॥इति श्रीश्रीधरवेङ्कटेशार्यविरचितं मातृभूतशतकं सम्पूर्णम्।
మాతృభూతశతకమ్
శ్రేయాంసి యం సకృదనుస్మరతాం జనానా-
మావిర్భవన్తి సుమహాన్త్యనపాయవన్తి
తం త్వామనన్యశరణశ్శరణం భజామి
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఆనన్ద సచ్చిదమలాత్మని శఙ్కరే త్వయ్-
యన్తర్నిషీదతి భవన్తమహో విహాయ
భ్రామ్యామి మోహవివశో భవశోకఖిన్నః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మద్దాససూనురయమిత్యనుకమ్పనీయే
మయ్యర్భకే సమధిరోప్య వృథాఽపరాధాన్
యుక్తం కిమేవమధిగన్తుముదాసికాం తే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సౌశీల్యఘస్మరధనస్మయనష్టసంజ్ఞాన్
అజ్ఞో విషీదతి యదేష వృథానుధావన్
తత్పశ్యతస్తవ దయా న కథం దయాలో
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
భక్తిం త్వయి శ్రితవతాం వద కః ప్రహీణః
సా వా తవాహమితి కిం న సకృత్ప్రపత్తిః
కిం తద్వతామనవితాసి కుతోఽస్మ్యుపేక్ష్యః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దాసస్తవాహమితి యః సకృదప్యుపైతి
రక్ష్యః స ఏష ఇతి తే విధృతవ్రతస్య
రక్షోఽహమస్మ్యథ కియానఫలో విలమ్బః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఆజ్ఞాపయేః కథమయే తవ గర్భవాసం
దుఃఖాపవర్గిణి గిరీశ సమాశ్రయేయమ్
ఆస్తాం సహస్రమపి నానుగుణం త్విదం తే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సర్వజ్ఞ శఙ్కరమహేశదయాలు శబ్దాః
కిం పారిభాషికతయోపగతా భవన్తమ్
విజ్ఞాపితే విలపితేఽపి కిమిత్యుదాస్సే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
హీనైః సదాధికృతికైరపి ధృష్యమాణే
సావజ్ఞమేవమపదే మయి దృశ్యమానే
నేదం క్షణం క్షణముపేక్షణమాశ్రయేథాః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఆలస్యదుర్విషయసక్త్యపలాపనిద్రా-
పద్మామదాధిగదనీచసమాగమాదీన్
విఘ్నాన్ ధునీహి ఘటయ త్వయి మేఽభిలాషం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
క్వాసావనన్యసులభా భవదీయతా మే
భూయిష్ఠనిష్ఠుర విపద్విషమా క్వ వృత్తిః
ఏతన్న కిం తవ యశోభరభఙ్గభీతం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సమ్ఫుల్లచమ్పకలసన్నవమల్లికాది-
హృద్యోపచార రుచిరం భవదర్చనం మే
పాణ్యోస్తరఙ్గయ నిరన్తరమన్తరాత్మన్
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దారైః సుతైశ్శుభతమైర్ద్రవిణైః ప్రశాన్తైః
స్వర్గాపవర్గఫలసిద్ధిభిరభ్యుపేతాః
నన్దన్తి తే కరుణయా కిమసాధ్యమస్యాః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కాలం కియన్తమఘదన్తురమన్తరఙ్గం
త్వచ్చిన్తనం తనితుమక్షమమీక్షసే త్వమ్
త్వద్భక్తయే స్పృహయతశ్శివ మే దయస్వ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
విత్తస్మయాన్ధ గృహకానన సమ్ప్రచార
ధౌరేయభావమవధూయ కదా మదఙ్ఘ్రీ
స్తాం త్వత్ప్రదక్షిణవిధౌ కరుణావశాత్తే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
స్యాత్త్వత్పదం విదలదమ్బుజసౌరభశ్రీ-
విశ్రామసీమభిరుదఞ్చితవాక్ప్రపఞ్చైః
స్తోత్రైర్విభో మమ కదా ను సదానుబన్ధి
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
పాదౌ ప్రదక్షిణవిధౌ భవదర్చనేషు
పాణీ స్తవేషు ఫణితీరపి మేఽన్తరాత్మన్
ధ్యానే మనశ్చ వినియుఙ్క్ష్వ దయస్వ మఙ్క్షు
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మూఢోఽపటుర్భవదుపశ్రయణక్రమేషు
రూఢోపతాపవితతిర్విపదాం కదమ్బైః
సీమా తృషామహమతోఽస్మి తవానుకమ్ప్యః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అమ్బేయమప్రతిహతప్రతిపత్తిశక్తిః
సర్వజ్ఞతా చ భవతో భువనే నిరూఢా
భూతిశ్చ వాం నిరవధిస్తనయస్తు సోఽహం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
పుత్రాదయో న సుఖయన్తి హి భావభేదాత్
సోపాధికప్రణయసమ్భ్రమిభిః కిమేతైః
మాతా పితా చ నిరుపాధికృపానిధిస్త్వం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఉద్గద్గదస్వనగలం గలదమ్బునేత్రం
రోమాఞ్చకఞ్చుకితమఞ్చితఘర్మబిన్దు
త్వన్నామని శ్రవణగామిని కల్పయాఙ్గం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దుర్లభ్యదుర్విపరిణత్యసుఖానుబన్ధి-
విప్లావితేషు విషయేషు వృథా నిపాత్య
మాం ఖేదయన్న కథముద్వహసేఽనుకమ్పాం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కన్దర్పకోటిశతసున్దరమిన్దురేఖా-
చూడం దరస్మితపరిస్ఫురదాననేన్దుమ్
కాన్తం నగేన్ద్రసుతయా కలయే భవన్తం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సృష్టౌ స్థితావపి లయేఽస్తి తవ ప్రభుత్వం
దుఃఖే తు మే ద్వితయగోచరమేవ దృశ్యమ్
వ్యఙ్క్తుం తదన్తవిషయం తవ కో విలమ్బః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మన్దస్మితైర్దిశి దిశి స్ఫురదిన్దుచూడైః
గౌరీసఖైః స్ఫటికగౌర మనోహరాఙ్గైః
త్వద్విగ్రహైః కబలయావిరతం మనో మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ప్రేమాతిరేకశిశిరాం త్వదపాఙ్గధారామ్
ఆనన్దసిన్ధువలమానతరఙ్గరేఖామ్
సఞ్చారయన్మయి సహామ్బికయా దయేథాః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
భ్రూకిఙ్కరాస్తవ విరిఞ్చపురన్దరాద్యాః
కస్త్వాం విరోత్స్యతి నిరోత్స్యతి కిం మమైనః
దైన్యం తతో న బలవత్ కిము దీనబన్ధో
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అన్వేతి శఙ్కర న యం కరుణాఙ్కురస్తే
కస్తం విలోకయతు జల్పతు కో ధినోతు
కేయం విభో విముఖతా మయి కిఙ్కరేఽస్మిన్
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
భాన్తం భవన్తమనఘం మణిభూషణౌఘైః
భాన్త్యోమయా విమలవిద్రుమపాటలాఙ్గ్యా
శృఙ్గారితాఙ్కముపయామి శశాఙ్కగౌరం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మన్దస్మితైః కరుణయా శిశిరైః కటాక్షైః
ప్రేమాతిరేకమధురైరపి చాభిలాపైః
ఆనన్దయిష్యసి కదా ను సహామ్బయా త్వం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
గోపాయితేతి కులదైవతమిత్యజస్రం
విస్రమ్భతోఽర్పితభరం త్వయి దీనబన్ధో
మామీక్షసే న కృపయా యది కిం కరోమి
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఏకం సకృద్యదలసో న పురాఽభజం త్వాం
నానాదురీశసతతాశ్రయదుర్విపాకః
తస్యై న సోఽయమధునాఽతిధునాతి చేతః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఏషా సుగన్ధిచికురా జననీ పితా త్వం
కా తే సుతే మయి విభో కరుణా ప్రహాణిః
కిఞ్చాపి సా న ఖలు సార్ద్రహృదో జనన్యాః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వత్సంవిదా తరతి శోకమితి శ్రుతీనాం
భావో భవోన్నతివిధాయి తవాభిధానమ్
శోకాపహం తదహమీశ సమాశ్రయామి
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వన్నామకీర్తనమఘాపహమాశయేన
శంసన్ పురాణనికరో న కిలార్థవాదః
తత్సంశ్రయోఽహమకృపాస్పదమస్మి కిం తే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కర్మానురోధి ఫలమిత్యవగమ్యమానే
హ్యేనోహృతౌ శుభవిధౌ చ పటీయసస్తే
కర్మేతి కం ప్రతి తు వఞ్చనచాతురీయం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఉత్సఙ్గసీమని సుగన్ధికచాం నిషణ్ణామ్
ఉల్లాసయన్ కుచతటీనఖరావమర్శైః
ఆభాసి శఙ్కర నిరన్తరమన్తరఙ్గే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మన్దేతరైరఖిలమాన్తరమన్ధకారం
మాణిక్యభూషణమహోర్మిభిరంశుజాలైః
ధున్వన్వపుస్తవ విభాసయ మానసే మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అన్తర్వసద్భవదుదారపదారవిన్ద
సన్దర్శనాయ మమ తత్ప్రతిరోధకం ద్రాక్
అంహః కవాటపటలం విఘటయ్య దేవ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
చేతో మమ త్వదనుచిన్తనబద్ధతృష్ణం
ముష్ణన్తి తచ్చ విషయా ముహురేధితార్థాః
విఘ్నాన్ జహి త్వయి విజృమ్భయ భక్తియోగం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దృక్కూణితేన జగతః ఖలు సృష్టిరేషా
తేనైవ తేఽవనలయౌ భువనే నిరూఢౌ
తేనైవ సంహర మమాఘతతిం దయాలో
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అఙ్గం శిరీషమృదులం పరుషైర్మమాశ్మ-
ప్రాయైర్వచోభిరభిపీడితమీడనార్థే
యత్తావకం తమపరాధమిమం సహస్వ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మన్దస్మితైర్భ్రుకుటిభిర్మధురైః కటాక్షైః
వామభ్రువాం నవనవైశ్చ వపుర్విలాసైః
త్వాం నోఽభజం తరలితస్తదిదం సహస్వ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మన్దస్మితం మదనసున్దరమిన్దుచూడమ్
ఉత్సఙ్గవిస్ఫురదుమోరసిజస్పృశం త్వామ్
ధ్యాయన్వసాని దివసాని నయన్ కదా వా
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
పాటీరసారలహరీం తుహినాంశుధారాం
సౌధాకరీమపి ఝరీమవమన్యమానః
త్వచ్చిన్తనప్రభవనిర్వృతిభిః కదా స్యాం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వామస్మ్యసావజముపాసితుమక్షమోఽహం
మోహాన్ధయా బత ధియా న యదేతదేనః
హార్యా త్వయైవ కృపయా మమ దుర్దశేయం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
విత్తార్జనస్య సకలః కిమసావనేహా
నేహ స్థితేః ఫలమహో భవతో ధనేహా
ఇత్థం దురీశ్వరగిరాం పదమస్మి దీనః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సాంసారికానవధిఖేదపరమ్పరాసూ-
న్మజ్జన్నిమజ్జదివ సీదతి మానసం మే
ఆశ్వాసయాశు కృపయా న కిమీక్షసే త్వం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
లక్ష్మీపతిస్తవ పదాభరణే స శేతే
భిక్షాటనేన వద కం ప్రతివిప్రలమ్భః
జానామ్యహం న కిమశేషజగత్పతిం త్వాం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సంసృత్యుదన్వతి వితన్వతి దుఃఖమోహ-
గ్రాహైర్వ్యథామహహ మే దృఢమజ్జనేన
త్వం క్రీడసీతి సదృశం తవ కిం దయాలో
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మాత్రా సుగన్ధికచయా భవతా చ పిత్రా
యుక్తః ప్రసూజనకహీన ఇవావసీదన్
అస్మీతి వాం జగదధీశ్వరయోరయుక్తం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మౌఢ్యాదపాటవభరాదపి పూజనం తే
నాహం తనోమి తదహం వ్యథితో భవామి
విఘ్నానపాస్య వితర త్వదుపాసనాం మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వద్వన్దనం నను జగత్త్రయవన్ద్యతాయై
త్వత్పూజనం తు భువనత్రయపూజ్యతాయై
పుణ్యోచ్చయేన తదిదం భవదీయతా మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అల్పం మహచ్చ సకలం ఫలమర్పణీయం
దేవ త్వయైవ ఖలు తత్కిమపీహమానః
త్వామాశ్రయామ్యగతికో వద కిం తవాగః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కన్దర్పదర్పహరసున్దరరూపధేయే
మన్దస్మితే భువనమఙ్గలనామధేయే
ఖేదాపహే భవతి ఖేలయ మానసం మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సూర్యోదయే తిమిరజాలమివార్తిజాలం
ధావన్న కిం మమ విభో యది దృక్పథే స్యాః
కిం మే తథా న దయసేఽనుచితో విలమ్బః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వం త్రాయసే యది నివారయితుం క్షమః కో
లభ్యం కిమస్తి తవ మయ్యవసీదతీత్థమ్
కిం హీయతే మదవనే తవ కిం విలమ్బైః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
చన్ద్రోపలామలభవత్కమనీయమూర్తి-
సమ్పూజనం సుదృఢభక్త్యనఘోపచారైః
ఈహే సదా రచయితుం ఘటయాశు తన్మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సంసారసిన్ధుసముదిత్వరఖేదమోద-
వీచీపరిభ్రమపరిశ్రమనోదనం మే
ఆకల్పయ త్వదభిరాధనహర్షభూతం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
భక్తిస్పృశో భవతి తస్య న శర్మ తేన
త్రాణవ్రతాశ్రుతిషు వా న సకృత్ ప్రపన్నః
కస్మాత్ కరోషి కరుణాం న మయి ప్రపన్నే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
యన్మాం న పాలయసి తత్త్వదపాటవాద్వా
యద్వా మదీయదురితాద్వద నాథ నాద్యః
సర్వేశ్వరో నను భవానత ఏవ నాన్త్యః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
విశ్వాధినేతరి విపన్నజనావనస్థే
నాథే సతి త్వయి న యన్మమ ఖేదభఙ్గః
తత్తే యశోహరమతో వినివేదయామి
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అస్యోద్యతః సముపరోద్ధుమనాత్మనీనం
సత్యం భవానఘఫలార్త్యనుభావనాసు
నేశస్తు సోఢుమియదస్మ్యహమార్తబన్ధౌ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఆమజ్జతః ప్రతిపదం విపదమ్బురాశౌ
దృప్తం మమ శ్వసితుమప్యనధీశ్వరస్య
కిం పశ్యతస్తవ దయా న కియాన్ విలమ్బః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
స్వర్ధేనవో న కతి నో కతి కల్పవృక్షాః
భ్రూవశ్యతాం న కతి యాన్త్యపరేఽప్యుదారాః
భక్తిస్పృశాం త్వయి భజే తమహం భవన్తం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఏనాముపప్లవభరైర్జటిలామవస్థాం
ప్రాప్తం హి మాం పరిహసన్తి నితాన్తమన్యే
త్వఞ్చేన్న పశ్యసి దయార్ద్రదృశా గతిః కా
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శ్రీశశ్శరః కనకభూమిశరశ్శరాసో
వాసస్తు రూప్యశిఖరీ ధనదః సఖా తే
త్వామాశ్రితస్య మమ కిన్న ధునోషి దైన్యం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అత్యఙ్కురార్ణముఖఖేదమహార్ణవేఽస్మిన్
మగ్నస్య శఙ్కర మమోత్తరణం ప్రకల్ప్య
త్వద్పూజనం ఘటయ సఙ్క్షపితాన్తరాయం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
లోకేఽతివర్తితుమలం తవ శాసనం కః
పద్మాసనో భవతు పద్మవిలోచనో వా
తద్దుర్లిపిం విధికృతామపి మే విలుమ్ప
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
నిఃసారతామపి విదన్విషయేష్వమీషు
నిఃసీమసక్తిరహమేషు హి గాఢమూఢః
రక్ష్యస్త్వయైవ కరుణానిధినా ప్రసహ్య
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మఞ్చే తరఙ్గితమణిత్విషి పుష్పకఌప్తే
మన్దస్మితం సహ కదాఽమ్బికయా భవన్తమ్
పశ్యామి పశ్చిమతనూపహితోపబర్హం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మయ్యాత్మనీనవిముఖే మలినస్వభావే
నిర్వేదసాగరనిమజ్జనవిప్లవేఽస్మిన్
కస్మాద్ భవస్యకరుణః కరుణానిధే త్వం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
రుద్రాక్షభృద్భసితభూషణధన్యమూర్తిః
భావం వహన్ ప్రముదితం భవదేకతానమ్
కాలం క్షిపేయమితి సాధయ కామనాం మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వం చిద్ఘనోఽస్యహమసౌ జడిమైకసీమా
దుఃఖాకరః పునరహం సుఖశేవధిస్త్వమ్
యుక్తా న తే స్థితిరియం తవ గర్భవాసే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఖేదం హరిష్యసి కదా శిశిరైః కటాక్షైః
మోదం కరిష్యసి కదా మృదుభిర్వచోభిః
ఇత్యుత్సుకోఽస్మి కరుణాం కురు కిఙ్కరేఽస్మిన్
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
పాతి ప్రసహ్య న కిమర్భకమాత్మనీనం
సంయోజకైర్గురుజనః స్మర తం క్రమం త్వమ్
భక్తిం బలాద్భవతి కల్పయ మే దయాలో
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
సోఽహం న కిఞ్చిదపి సాధు కరోమి పాపః
తుఙ్గం పదం త్వభిలషామి తదప్యలజ్జః
త్వద్దాతృతాసదయతాగరిమావమర్శీ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శక్తో న కశ్చిదపి శాసనమన్తరా తే
కః సేవ్యతాం త్వదితరః కిమితః ఫలం వా
స్వామిన్నుపైమి శరణం కరణైస్త్రిభిస్త్వాం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మృత్యుఞ్జయోఽసి కమలాపతివల్లభోఽసి
తన్మృత్యుదైన్యవిపదోరపదం త్వదీయమ్
త్వామాశ్రితస్య మమ కిం సదృశీ దశేయం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కిం జామితా న భవతో మమ దుఃఖధారా-
నిర్మాతురస్మృతిపదం కిముపాంశుయాజః
కస్మాత్ప్రభో కిమపి శర్మ న కిం విధత్సే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
క్వాహం క్వ చోన్నతపదస్పృహయాలుతేయ-
మాత్మైవ మామపహసత్యధునా తథాఽపి
త్వత్సంశ్రయే సతి కిమస్తి దురాపమీశ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కస్యాగ్రతః ప్రకటయానిరదానకాణ్డే
కం హర్షయాణి నుతిభిః కముపాశ్రయాణి
మోఘః శ్రమేషు నిపతేయమతో దయేథాః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కిం విద్యయా కిము ధనేన కిమాత్మజైర్వా
కిం జాయయా కిమితరైస్త్వయి చేన్న చేతః
ఆనన్దశేవధిమతస్త్వయి దేహి భక్తిం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దాసోఽస్మి దైన్యవివశస్త్వయి సర్వలోక-
సామ్రాజ్యసమ్పదమకమ్పితమశ్నువానే
యత్తన్న తే సముచితం విమృశ ప్రసీద
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
త్వామాశ్రితస్త్వదితరాశ్రయదైన్యభఙ్గమ్
అఙ్గీకరోమి జగదీశ కథం కథం వా
త్వాం నాయశః స్పృశతు తత్త్యజ మయ్యుపేక్షాం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శ్రాన్తం వపుర్దురధిపాశ్రయధావనాన్మే
శ్రాన్తం వచో దురధిపస్తుతిధోరణీభిః
క్రాన్తం మనో దురధిపాశ్రయచిన్తయైవ
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
హేమస్ఫురత్తనుతరఙ్గితకాన్తిధారా-
సమ్ప్లావ్యమానమణిభూషణదివ్యభాసమ్
మన్యే భవన్తముమయా మణిహేమపీఠే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
స్వానన్దబిన్దులవ సమ్ప్లవమానసర్వ-
బ్రహ్మాణ్డమణ్డలమఖణ్డితవైభవం త్వామ్
కస్తోషయేత్తదపి తుష్య పరిభ్రమైర్మే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కారుణ్యనిర్భరసుధారసశీతలాభిః
కాలే కదా తవ కటాక్షపరమ్పరాభిః
కష్టాం దశాముపజహాని దృఢోపగూఢః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
భక్తాభిభూత్యసహనో భవసి ప్రతీతో
భక్తోఽస్మ్యహం త్వదభిధాగ్రహణప్రసక్తః
తస్యాస్య తే మయి కృపా న కథం విషణ్ణే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
దృక్కేలయస్తవ కృపారసశీకరాఙ్కాః
యాస్తాసు తత్తదవనప్రవణాసు చేత్ స్యాత్
ఏకా పునర్మదవనప్రవణా క్షతిః కా
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శ్రేయో రుణద్ధి యది పాపగణస్తదా త్వాం
త్వన్నామకీర్తనమఘక్షపణక్షమం మే
కిన్నాస్తి కిం న దయసే మయి హన్త ఖిన్నే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
తాతప్రసూతనయదార సుహృద్భిరేవమ్
అర్థోపపత్తివిరహాదహహావసీదన్
నేతుం క్షణం న నిపుణోఽస్మి తతః ప్రసీద
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శ్రీశైలరాజసుతయా శిశిరైః కటాక్షైః
మాం వీక్ష్యమాణమసకృన్మధురస్మితేన
సమ్భావయన్మయి కదా ను దయిష్యసే త్వం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
పారే భవాఖ్యజలధేర్భగవన్ కృపాకూ-
పారే భవత్యవతరిష్యతి మే కదా వా
ప్రేమ్ణా తృణీకృతపదం సకలం వితన్వన్
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
నిర్ధూతదుస్తిమిరమస్తసమస్తతత్తద్-
దుర్వాసనం హృదయమేతదయే వితన్వన్
అస్మిన్ భవిష్యసి కదా ను సుఖం నిషణ్ణః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
మద్వర్ణనైస్తవ కదాఽస్తు మనః ప్రసాదో
మద్దృక్పథేఽస్తు చ కదా తవ దివ్యమూర్తిః
మత్కర్ణగం తవ వచోఽస్తు కదేతి సాశం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
కాలేఽర్కనన్దన లులాయకటుస్వనోద్య-
త్కర్ణజ్వరాపనయనైర్భవదుక్షజైర్మే
ధ్వానామృతైః కిమపి శర్మ వినిర్మిమాణః
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
యం తే దయా స్పృశతి తన్నయనాన్తదాసాః
బ్రహ్మాదయో జగతి దీనజనాస్పదా సా
దీనాగ్రణీరహమతః పునరుక్తిరేషా
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
అన్యన్న మేఽభిమతమీశ తదర్ప్యతాం వా
మా వేప్సితం తు తదిదం భవతాఽర్పణీయమ్
యత్సర్వదా నిభృతవృత్త్యభిధానమిత్థం
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
హే శఙ్కర స్మరహర ప్రమథాధినాథ
మన్నాథ సామ్బ శశిచూడ శివ త్రిశూలిన్
శ్రీచిత్సభేశ కరుణాకర ఫాలనేత్ర
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
ఏవం స్తవం ప్రపఠతాం ఉపశృణ్వతాఞ్చా-
రోగ్యాయురచ్ఛశివభక్తి ధనర్ద్ధి విద్యాః
దద్యాః సుతానపి యశశ్చ విముక్తిమన్తే
శ్రీమాతృభూత శివ పాలయ మాం నమస్తే
శ్రీమాతృభూత శివ చన్దనసాన్ద్రలిప్తాం
సఙ్క్ఌప్తహేమతిలకాం శ్రితపుష్పమాల్యామ్
అక్ష్ణాఽమునా తవ తనుం పిబతోఽక్ష్యుదన్యా
స్యాన్మే యథాశు ఫలినీశ తథా దయేథాః
మనో మే విక్రీతం తవ చరణసేవాం కలయితుం
కృపామూల్యం లబ్ధం సురభిచికురే సమ్ప్రతి మయా
న జానే తద్దుష్టం నివసతి చ వా ధావతి చ వా
కృతం భూయో భూయః కరతలయుగాస్ఫాలనముమే
॥ఇతి శ్రీశ్రీధరవేఙ్కటేశార్యవిరచితం మాతృభూతశతకం సమ్పూర్ణమ్।
mātṛbhūtaśatakam
śreyāṃsi yaṃ sakṛdanusmaratāṃ janānā-
māvirbhavanti sumahāntyanapāyavanti
taṃ tvāmananyaśaraṇaśśaraṇaṃ bhajāmi
śrīmātṛbhūta śiva pālaya māṃ namaste
ānanda saccidamalātmani śaṅkare tvay-
yantarniṣīdati bhavantamaho vihāya
bhrāmyāmi mohavivaśo bhavaśokakhinnaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
maddāsasūnurayamityanukampanīye
mayyarbhake samadhiropya vṛthā'parādhān
yuktaṃ kimevamadhigantumudāsikāṃ te
śrīmātṛbhūta śiva pālaya māṃ namaste
sauśīlyaghasmaradhanasmayanaṣṭasaṃjñān
ajño viṣīdati yadeṣa vṛthānudhāvan
tatpaśyatastava dayā na kathaṃ dayālo
śrīmātṛbhūta śiva pālaya māṃ namaste
bhaktiṃ tvayi śritavatāṃ vada kaḥ prahīṇaḥ
sā vā tavāhamiti kiṃ na sakṛtprapattiḥ
kiṃ tadvatāmanavitāsi kuto'smyupekṣyaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
dāsastavāhamiti yaḥ sakṛdapyupaiti
rakṣyaḥ sa eṣa iti te vidhṛtavratasya
rakṣo'hamasmyatha kiyānaphalo vilambaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
ājñāpayeḥ kathamaye tava garbhavāsaṃ
duḥkhāpavargiṇi girīśa samāśrayeyam
āstāṃ sahasramapi nānuguṇaṃ tvidaṃ te
śrīmātṛbhūta śiva pālaya māṃ namaste
sarvajña śaṅkaramaheśadayālu śabdāḥ
kiṃ pāribhāṣikatayopagatā bhavantam
vijñāpite vilapite'pi kimityudāsse
śrīmātṛbhūta śiva pālaya māṃ namaste
hīnaiḥ sadādhikṛtikairapi dhṛṣyamāṇe
sāvajñamevamapade mayi dṛśyamāne
nedaṃ kṣaṇaṃ kṣaṇamupekṣaṇamāśrayethāḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
ālasyadurviṣayasaktyapalāpanidrā-
padmāmadādhigadanīcasamāgamādīn
vighnān dhunīhi ghaṭaya tvayi me'bhilāṣaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
kvāsāvananyasulabhā bhavadīyatā me
bhūyiṣṭhaniṣṭhura vipadviṣamā kva vṛttiḥ
etanna kiṃ tava yaśobharabhaṅgabhītaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
samphullacampakalasannavamallikādi-
hṛdyopacāra ruciraṃ bhavadarcanaṃ me
pāṇyostaraṅgaya nirantaramantarātman
śrīmātṛbhūta śiva pālaya māṃ namaste
dāraiḥ sutaiśśubhatamairdraviṇaiḥ praśāntaiḥ
svargāpavargaphalasiddhibhirabhyupetāḥ
nandanti te karuṇayā kimasādhyamasyāḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
kālaṃ kiyantamaghadanturamantaraṅgaṃ
tvaccintanaṃ tanitumakṣamamīkṣase tvam
tvadbhaktaye spṛhayataśśiva me dayasva
śrīmātṛbhūta śiva pālaya māṃ namaste
vittasmayāndha gṛhakānana sampracāra
dhaureyabhāvamavadhūya kadā madaṅghrī
stāṃ tvatpradakṣiṇavidhau karuṇāvaśātte
śrīmātṛbhūta śiva pālaya māṃ namaste
syāttvatpadaṃ vidaladambujasaurabhaśrī-
viśrāmasīmabhirudañcitavākprapañcaiḥ
stotrairvibho mama kadā nu sadānubandhi
śrīmātṛbhūta śiva pālaya māṃ namaste
pādau pradakṣiṇavidhau bhavadarcaneṣu
pāṇī staveṣu phaṇitīrapi me'ntarātman
dhyāne manaśca viniyuṅkṣva dayasva maṅkṣu
śrīmātṛbhūta śiva pālaya māṃ namaste
mūḍho'paṭurbhavadupaśrayaṇakrameṣu
rūḍhopatāpavitatirvipadāṃ kadambaiḥ
sīmā tṛṣāmahamato'smi tavānukampyaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
ambeyamapratihatapratipattiśaktiḥ
sarvajñatā ca bhavato bhuvane nirūḍhā
bhūtiśca vāṃ niravadhistanayastu so'haṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
putrādayo na sukhayanti hi bhāvabhedāt
sopādhikapraṇayasambhramibhiḥ kimetaiḥ
mātā pitā ca nirupādhikṛpānidhistvaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
udgadgadasvanagalaṃ galadambunetraṃ
romāñcakañcukitamañcitagharmabindu
tvannāmani śravaṇagāmini kalpayāṅgaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
durlabhyadurvipariṇatyasukhānubandhi-
viplāviteṣu viṣayeṣu vṛthā nipātya
māṃ khedayanna kathamudvahase'nukampāṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
kandarpakoṭiśatasundaramindurekhā-
cūḍaṃ darasmitaparisphuradānanendum
kāntaṃ nagendrasutayā kalaye bhavantaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
sṛṣṭau sthitāvapi laye'sti tava prabhutvaṃ
duḥkhe tu me dvitayagocarameva dṛśyam
vyaṅktuṃ tadantaviṣayaṃ tava ko vilambaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
mandasmitairdiśi diśi sphuradinducūḍaiḥ
gaurīsakhaiḥ sphaṭikagaura manoharāṅgaiḥ
tvadvigrahaiḥ kabalayāvirataṃ mano me
śrīmātṛbhūta śiva pālaya māṃ namaste
premātirekaśiśirāṃ tvadapāṅgadhārām
ānandasindhuvalamānataraṅgarekhām
sañcārayanmayi sahāmbikayā dayethāḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
bhrūkiṅkarāstava viriñcapurandarādyāḥ
kastvāṃ virotsyati nirotsyati kiṃ mamainaḥ
dainyaṃ tato na balavat kimu dīnabandho
śrīmātṛbhūta śiva pālaya māṃ namaste
anveti śaṅkara na yaṃ karuṇāṅkuraste
kastaṃ vilokayatu jalpatu ko dhinotu
keyaṃ vibho vimukhatā mayi kiṅkare'smin
śrīmātṛbhūta śiva pālaya māṃ namaste
bhāntaṃ bhavantamanaghaṃ maṇibhūṣaṇaughaiḥ
bhāntyomayā vimalavidrumapāṭalāṅgyā
śaṛṅgāritāṅkamupayāmi śaśāṅkagauraṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
mandasmitaiḥ karuṇayā śiśiraiḥ kaṭākṣaiḥ
premātirekamadhurairapi cābhilāpaiḥ
ānandayiṣyasi kadā nu sahāmbayā tvaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
gopāyiteti kuladaivatamityajasraṃ
visrambhato'rpitabharaṃ tvayi dīnabandho
māmīkṣase na kṛpayā yadi kiṃ karomi
śrīmātṛbhūta śiva pālaya māṃ namaste
ekaṃ sakṛdyadalaso na purā'bhajaṃ tvāṃ
nānādurīśasatatāśrayadurvipākaḥ
tasyai na so'yamadhunā'tidhunāti cetaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
eṣā sugandhicikurā jananī pitā tvaṃ
kā te sute mayi vibho karuṇā prahāṇiḥ
kiñcāpi sā na khalu sārdrahṛdo jananyāḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
tvatsaṃvidā tarati śokamiti śrutīnāṃ
bhāvo bhavonnatividhāyi tavābhidhānam
śokāpahaṃ tadahamīśa samāśrayāmi
śrīmātṛbhūta śiva pālaya māṃ namaste
tvannāmakīrtanamaghāpahamāśayena
śaṃsan purāṇanikaro na kilārthavādaḥ
tatsaṃśrayo'hamakṛpāspadamasmi kiṃ te
śrīmātṛbhūta śiva pālaya māṃ namaste
karmānurodhi phalamityavagamyamāne
hyenohṛtau śubhavidhau ca paṭīyasaste
karmeti kaṃ prati tu vañcanacāturīyaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
utsaṅgasīmani sugandhikacāṃ niṣaṇṇām
ullāsayan kucataṭīnakharāvamarśaiḥ
ābhāsi śaṅkara nirantaramantaraṅge
śrīmātṛbhūta śiva pālaya māṃ namaste
mandetarairakhilamāntaramandhakāraṃ
māṇikyabhūṣaṇamahormibhiraṃśujālaiḥ
dhunvanvapustava vibhāsaya mānase me
śrīmātṛbhūta śiva pālaya māṃ namaste
antarvasadbhavadudārapadāravinda
sandarśanāya mama tatpratirodhakaṃ drāk
aṃhaḥ kavāṭapaṭalaṃ vighaṭayya deva
śrīmātṛbhūta śiva pālaya māṃ namaste
ceto mama tvadanucintanabaddhatṛṣṇaṃ
muṣṇanti tacca viṣayā muhuredhitārthāḥ
vighnān jahi tvayi vijṛmbhaya bhaktiyogaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
dṛkkūṇitena jagataḥ khalu sṛṣṭireṣā
tenaiva te'vanalayau bhuvane nirūḍhau
tenaiva saṃhara mamāghatatiṃ dayālo
śrīmātṛbhūta śiva pālaya māṃ namaste
aṅgaṃ śirīṣamṛdulaṃ paruṣairmamāśma-
prāyairvacobhirabhipīḍitamīḍanārthe
yattāvakaṃ tamaparādhamimaṃ sahasva
śrīmātṛbhūta śiva pālaya māṃ namaste
mandasmitairbhrukuṭibhirmadhuraiḥ kaṭākṣaiḥ
vāmabhruvāṃ navanavaiśca vapurvilāsaiḥ
tvāṃ no'bhajaṃ taralitastadidaṃ sahasva
śrīmātṛbhūta śiva pālaya māṃ namaste
mandasmitaṃ madanasundaraminducūḍam
utsaṅgavisphuradumorasijaspṛśaṃ tvām
dhyāyanvasāni divasāni nayan kadā vā
śrīmātṛbhūta śiva pālaya māṃ namaste
pāṭīrasāralaharīṃ tuhināṃśudhārāṃ
saudhākarīmapi jharīmavamanyamānaḥ
tvaccintanaprabhavanirvṛtibhiḥ kadā syāṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
tvāmasmyasāvajamupāsitumakṣamo'haṃ
mohāndhayā bata dhiyā na yadetadenaḥ
hāryā tvayaiva kṛpayā mama durdaśeyaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
vittārjanasya sakalaḥ kimasāvanehā
neha sthiteḥ phalamaho bhavato dhanehā
itthaṃ durīśvaragirāṃ padamasmi dīnaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
sāṃsārikānavadhikhedaparamparāsū-
nmajjannimajjadiva sīdati mānasaṃ me
āśvāsayāśu kṛpayā na kimīkṣase tvaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
lakṣmīpatistava padābharaṇe sa śete
bhikṣāṭanena vada kaṃ prativipralambhaḥ
jānāmyahaṃ na kimaśeṣajagatpatiṃ tvāṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
saṃsṛtyudanvati vitanvati duḥkhamoha-
grāhairvyathāmahaha me dṛḍhamajjanena
tvaṃ krīḍasīti sadṛśaṃ tava kiṃ dayālo
śrīmātṛbhūta śiva pālaya māṃ namaste
mātrā sugandhikacayā bhavatā ca pitrā
yuktaḥ prasūjanakahīna ivāvasīdan
asmīti vāṃ jagadadhīśvarayorayuktaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
mauḍhyādapāṭavabharādapi pūjanaṃ te
nāhaṃ tanomi tadahaṃ vyathito bhavāmi
vighnānapāsya vitara tvadupāsanāṃ me
śrīmātṛbhūta śiva pālaya māṃ namaste
tvadvandanaṃ nanu jagattrayavandyatāyai
tvatpūjanaṃ tu bhuvanatrayapūjyatāyai
puṇyoccayena tadidaṃ bhavadīyatā me
śrīmātṛbhūta śiva pālaya māṃ namaste
alpaṃ mahacca sakalaṃ phalamarpaṇīyaṃ
deva tvayaiva khalu tatkimapīhamānaḥ
tvāmāśrayāmyagatiko vada kiṃ tavāgaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
kandarpadarpaharasundararūpadheye
mandasmite bhuvanamaṅgalanāmadheye
khedāpahe bhavati khelaya mānasaṃ me
śrīmātṛbhūta śiva pālaya māṃ namaste
sūryodaye timirajālamivārtijālaṃ
dhāvanna kiṃ mama vibho yadi dṛkpathe syāḥ
kiṃ me tathā na dayase'nucito vilambaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
tvaṃ trāyase yadi nivārayituṃ kṣamaḥ ko
labhyaṃ kimasti tava mayyavasīdatīttham
kiṃ hīyate madavane tava kiṃ vilambaiḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
candropalāmalabhavatkamanīyamūrti-
sampūjanaṃ sudṛḍhabhaktyanaghopacāraiḥ
īhe sadā racayituṃ ghaṭayāśu tanme
śrīmātṛbhūta śiva pālaya māṃ namaste
saṃsārasindhusamuditvarakhedamoda-
vīcīparibhramapariśramanodanaṃ me
ākalpaya tvadabhirādhanaharṣabhūtaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
bhaktispṛśo bhavati tasya na śarma tena
trāṇavratāśrutiṣu vā na sakṛt prapannaḥ
kasmāt karoṣi karuṇāṃ na mayi prapanne
śrīmātṛbhūta śiva pālaya māṃ namaste
yanmāṃ na pālayasi tattvadapāṭavādvā
yadvā madīyaduritādvada nātha nādyaḥ
sarveśvaro nanu bhavānata eva nāntyaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
viśvādhinetari vipannajanāvanasthe
nāthe sati tvayi na yanmama khedabhaṅgaḥ
tatte yaśoharamato vinivedayāmi
śrīmātṛbhūta śiva pālaya māṃ namaste
asyodyataḥ samuparoddhumanātmanīnaṃ
satyaṃ bhavānaghaphalārtyanubhāvanāsu
neśastu soḍhumiyadasmyahamārtabandhau
śrīmātṛbhūta śiva pālaya māṃ namaste
āmajjataḥ pratipadaṃ vipadamburāśau
dṛptaṃ mama śvasitumapyanadhīśvarasya
kiṃ paśyatastava dayā na kiyān vilambaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
svardhenavo na kati no kati kalpavṛkṣāḥ
bhrūvaśyatāṃ na kati yāntyapare'pyudārāḥ
bhaktispṛśāṃ tvayi bhaje tamahaṃ bhavantaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
enāmupaplavabharairjaṭilāmavasthāṃ
prāptaṃ hi māṃ parihasanti nitāntamanye
tvañcenna paśyasi dayārdradṛśā gatiḥ kā
śrīmātṛbhūta śiva pālaya māṃ namaste
śrīśaśśaraḥ kanakabhūmiśaraśśarāso
vāsastu rūpyaśikharī dhanadaḥ sakhā te
tvāmāśritasya mama kinna dhunoṣi dainyaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
atyaṅkurārṇamukhakhedamahārṇave'smin
magnasya śaṅkara mamottaraṇaṃ prakalpya
tvadpūjanaṃ ghaṭaya saṅkṣapitāntarāyaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
loke'tivartitumalaṃ tava śāsanaṃ kaḥ
padmāsano bhavatu padmavilocano vā
taddurlipiṃ vidhikṛtāmapi me vilumpa
śrīmātṛbhūta śiva pālaya māṃ namaste
niḥsāratāmapi vidanviṣayeṣvamīṣu
niḥsīmasaktirahameṣu hi gāḍhamūḍhaḥ
rakṣyastvayaiva karuṇānidhinā prasahya
śrīmātṛbhūta śiva pālaya māṃ namaste
mañce taraṅgitamaṇitviṣi puṣpakaḷpte
mandasmitaṃ saha kadā'mbikayā bhavantam
paśyāmi paścimatanūpahitopabarhaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
mayyātmanīnavimukhe malinasvabhāve
nirvedasāgaranimajjanaviplave'smin
kasmād bhavasyakaruṇaḥ karuṇānidhe tvaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
rudrākṣabhṛdbhasitabhūṣaṇadhanyamūrtiḥ
bhāvaṃ vahan pramuditaṃ bhavadekatānam
kālaṃ kṣipeyamiti sādhaya kāmanāṃ me
śrīmātṛbhūta śiva pālaya māṃ namaste
tvaṃ cidghano'syahamasau jaḍimaikasīmā
duḥkhākaraḥ punarahaṃ sukhaśevadhistvam
yuktā na te sthitiriyaṃ tava garbhavāse
śrīmātṛbhūta śiva pālaya māṃ namaste
khedaṃ hariṣyasi kadā śiśiraiḥ kaṭākṣaiḥ
modaṃ kariṣyasi kadā mṛdubhirvacobhiḥ
ityutsuko'smi karuṇāṃ kuru kiṅkare'smin
śrīmātṛbhūta śiva pālaya māṃ namaste
pāti prasahya na kimarbhakamātmanīnaṃ
saṃyojakairgurujanaḥ smara taṃ kramaṃ tvam
bhaktiṃ balādbhavati kalpaya me dayālo
śrīmātṛbhūta śiva pālaya māṃ namaste
so'haṃ na kiñcidapi sādhu karomi pāpaḥ
tuṅgaṃ padaṃ tvabhilaṣāmi tadapyalajjaḥ
tvaddātṛtāsadayatāgarimāvamarśī
śrīmātṛbhūta śiva pālaya māṃ namaste
śakto na kaścidapi śāsanamantarā te
kaḥ sevyatāṃ tvaditaraḥ kimitaḥ phalaṃ vā
svāminnupaimi śaraṇaṃ karaṇaistribhistvāṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
mṛtyuñjayo'si kamalāpativallabho'si
tanmṛtyudainyavipadorapadaṃ tvadīyam
tvāmāśritasya mama kiṃ sadṛśī daśeyaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
kiṃ jāmitā na bhavato mama duḥkhadhārā-
nirmāturasmṛtipadaṃ kimupāṃśuyājaḥ
kasmātprabho kimapi śarma na kiṃ vidhatse
śrīmātṛbhūta śiva pālaya māṃ namaste
kvāhaṃ kva connatapadaspṛhayāluteya-
mātmaiva māmapahasatyadhunā tathā'pi
tvatsaṃśraye sati kimasti durāpamīśa
śrīmātṛbhūta śiva pālaya māṃ namaste
kasyāgrataḥ prakaṭayāniradānakāṇḍe
kaṃ harṣayāṇi nutibhiḥ kamupāśrayāṇi
moghaḥ śrameṣu nipateyamato dayethāḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
kiṃ vidyayā kimu dhanena kimātmajairvā
kiṃ jāyayā kimitaraistvayi cenna cetaḥ
ānandaśevadhimatastvayi dehi bhaktiṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
dāso'smi dainyavivaśastvayi sarvaloka-
sāmrājyasampadamakampitamaśnuvāne
yattanna te samucitaṃ vimṛśa prasīda
śrīmātṛbhūta śiva pālaya māṃ namaste
tvāmāśritastvaditarāśrayadainyabhaṅgam
aṅgīkaromi jagadīśa kathaṃ kathaṃ vā
tvāṃ nāyaśaḥ spṛśatu tattyaja mayyupekṣāṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
śrāntaṃ vapurduradhipāśrayadhāvanānme
śrāntaṃ vaco duradhipastutidhoraṇībhiḥ
krāntaṃ mano duradhipāśrayacintayaiva
śrīmātṛbhūta śiva pālaya māṃ namaste
hemasphurattanutaraṅgitakāntidhārā-
samplāvyamānamaṇibhūṣaṇadivyabhāsam
manye bhavantamumayā maṇihemapīṭhe
śrīmātṛbhūta śiva pālaya māṃ namaste
svānandabindulava samplavamānasarva-
brahmāṇḍamaṇḍalamakhaṇḍitavaibhavaṃ tvām
kastoṣayettadapi tuṣya paribhramairme
śrīmātṛbhūta śiva pālaya māṃ namaste
kāruṇyanirbharasudhārasaśītalābhiḥ
kāle kadā tava kaṭākṣaparamparābhiḥ
kaṣṭāṃ daśāmupajahāni dṛḍhopagūḍhaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
bhaktābhibhūtyasahano bhavasi pratīto
bhakto'smyahaṃ tvadabhidhāgrahaṇaprasaktaḥ
tasyāsya te mayi kṛpā na kathaṃ viṣaṇṇe
śrīmātṛbhūta śiva pālaya māṃ namaste
dṛkkelayastava kṛpārasaśīkarāṅkāḥ
yāstāsu tattadavanapravaṇāsu cet syāt
ekā punarmadavanapravaṇā kṣatiḥ kā
śrīmātṛbhūta śiva pālaya māṃ namaste
śreyo ruṇaddhi yadi pāpagaṇastadā tvāṃ
tvannāmakīrtanamaghakṣapaṇakṣamaṃ me
kinnāsti kiṃ na dayase mayi hanta khinne
śrīmātṛbhūta śiva pālaya māṃ namaste
tātaprasūtanayadāra suhṛdbhirevam
arthopapattivirahādahahāvasīdan
netuṃ kṣaṇaṃ na nipuṇo'smi tataḥ prasīda
śrīmātṛbhūta śiva pālaya māṃ namaste
śrīśailarājasutayā śiśiraiḥ kaṭākṣaiḥ
māṃ vīkṣyamāṇamasakṛnmadhurasmitena
sambhāvayanmayi kadā nu dayiṣyase tvaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
pāre bhavākhyajaladherbhagavan kṛpākū-
pāre bhavatyavatariṣyati me kadā vā
premṇā tṛṇīkṛtapadaṃ sakalaṃ vitanvan
śrīmātṛbhūta śiva pālaya māṃ namaste
nirdhūtadustimiramastasamastatattad-
durvāsanaṃ hṛdayametadaye vitanvan
asmin bhaviṣyasi kadā nu sukhaṃ niṣaṇṇaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
madvarṇanaistava kadā'stu manaḥ prasādo
maddṛkpathe'stu ca kadā tava divyamūrtiḥ
matkarṇagaṃ tava vaco'stu kadeti sāśaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
kāle'rkanandana lulāyakaṭusvanodya-
tkarṇajvarāpanayanairbhavadukṣajairme
dhvānāmṛtaiḥ kimapi śarma vinirmimāṇaḥ
śrīmātṛbhūta śiva pālaya māṃ namaste
yaṃ te dayā spṛśati tannayanāntadāsāḥ
brahmādayo jagati dīnajanāspadā sā
dīnāgraṇīrahamataḥ punaruktireṣā
śrīmātṛbhūta śiva pālaya māṃ namaste
anyanna me'bhimatamīśa tadarpyatāṃ vā
mā vepsitaṃ tu tadidaṃ bhavatā'rpaṇīyam
yatsarvadā nibhṛtavṛttyabhidhānamitthaṃ
śrīmātṛbhūta śiva pālaya māṃ namaste
he śaṅkara smarahara pramathādhinātha
mannātha sāmba śaśicūḍa śiva triśūlin
śrīcitsabheśa karuṇākara phālanetra
śrīmātṛbhūta śiva pālaya māṃ namaste
evaṃ stavaṃ prapaṭhatāṃ upaśaṛṇvatāñcā-
rogyāyuracchaśivabhakti dhanarddhi vidyāḥ
dadyāḥ sutānapi yaśaśca vimuktimante
śrīmātṛbhūta śiva pālaya māṃ namaste
śrīmātṛbhūta śiva candanasāndraliptāṃ
saṅkḷptahematilakāṃ śritapuṣpamālyām
akṣṇā'munā tava tanuṃ pibato'kṣyudanyā
syānme yathāśu phalinīśa tathā dayethāḥ
mano me vikrītaṃ tava caraṇasevāṃ kalayituṃ
kṛpāmūlyaṃ labdhaṃ surabhicikure samprati mayā
na jāne tadduṣṭaṃ nivasati ca vā dhāvati ca vā
kṛtaṃ bhūyo bhūyaḥ karatalayugāsphālanamume
||iti śrīśrīdharaveṅkaṭeśāryaviracitaṃ mātṛbhūtaśatakaṃ sampūrṇam|