कल्पोक्त नवदुर्गापूजाविधिः
जय जय शङ्कर !
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः !
ॐ दुर्गा त्वार्या भगवती कुमारी अम्बिका तथा ।
महिषोन्मर्दिनी चैव चण्डिका च सरस्वती ।
वागीश्वरीति क्रमशः प्रोक्तास्तद्दिनदेवताः ॥
[ निर्णयसिन्धूदाहृतवचनैः अमावास्यासम्बन्ध
रहितायामुदयव्यापिन्यां आश्विनशुक्लप्रतिपदि नवरात्र
नवदुर्गा व्रतमारभेत् । तच्च नक्तव्रतत्वात् रात्रौ
कर्तव्यमित्येकः पक्षः । सम्प्रदायानुरोधेन व्यवस्था । ]
॥ प्रार्थना ॥
नवरात्रौ नक्तभोजी चरिष्येऽहं महेश्वरी ।
त्वत्प्रीत्यर्थं व्रतं देवि तदनुज्ञातुमर्हसि ॥
ॐ देवीं वाच॑मजनयन्त देवास्तां विश्वरू॑पाः पशवो॑
वदन्ति ।
सा नो॑ मन्द्रेषमूर्जं दुहा॑ना धेनुर्वागस्मानुप
सुष्टुतैतु॑ ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽंघ्रियुग्मं
स्मरामि ॥
सुमुहूर्तमस्तु । सुप्रतिष्ठितमस्तु । उत्तरे कर्मणि
नैर्विघ्न्यमस्तु ॥
करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ
गुरुपूजां गणपतिप्रार्थनां च करिष्ये ॥
॥ गुरुपूजा ॥
ॐ गुं गुरुभ्यो नमः । ॐ पं परमगुरुभ्यो नमः । ॐ पं
परमेष्ठिगुरुभ्यो नमः ॥
गोत्राचार्येभ्यो नमः । बादरायणाय नमः । श्री
शङ्करभगवत्पादाचार्याय नमः ॥
प्रार्थनां समर्पयामि ॥
॥ गणपति प्रार्थना ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१
विघ्नेश्वराय नमः ॥ श्री महागणपतये नमः ॥ प्रार्थनां
समर्पयामि । कर्मकाले नैर्विघ्न्यं कुरु ॥
॥ घण्टानादः ॥
ॐ ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता
इमे॒ ।
ध्रु॒वं विश्व॑मिदं जग॑ध्द्रु॒वो राजा॑ विशामयम् ॥
ॐ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒
द्यौअदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्तशु॑ष्मान्वृषभरान्त्स्वप्न॑स॒स्ता आ॑दि॒त्या
अनु॑मदा स्व॒स्तये॑ ॥
ॐ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑
य॒ज्ञैर्वि॑धेम॒ नम॑सा हविर्भिः॑ ।
बृह॑स्पते सुप्र॒जा वी॒रवन्॑तो व॒यं स्या॑म॒
पत॑योर॒यीणाम् ॥
ॐ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
कुर्वे घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ [ इति
घण्टानादं कृत्वा ]
॥ सङ्कल्पः : ॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
[ देशकालादौ संकीर्त्य]
ममोपात्त समस्त दुरित क्षयद्वारा श्री दुर्गापरमेश्वरी
प्रीत्यर्थं सर्वापच्छान्तिपूर्वक
दीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिवृद्धि
स्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्धर्थं
यथासम्भवद्रव्यैः यावच्छक्ति ध्यानावाहनादि
षोडशोपचारपूजां करिष्ये ॥
॥ कलशपूजनम् ॥
तदङ्गत्वेन कलशपूजनं करिष्ये ॥
[ फलपुष्पपत्रादिना मण्टपमलङ्कृत्य तन्मध्ये
तण्डुलानि स्थापयेत् । तदुपरि चित्रवर्णेन अष्टदलपद्मं
लिखित्वा तन्मध्ये प्रक्षालितं
स्वर्णरजतताम्रमृण्मयाद्यन्यतमपात्रं धूपादिना विशोध्य
संस्थाप्य वस्त्रेणाऽच्छाद्य तत्कलशान्तराले पञ्चफल
पञ्चपल्लव स्वर्णरचित दुर्गा प्रतिमां गोधूम धान्योपरि
कलशे स्थापयेत् ]
ॐ मही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षताम् ।
पि॒पृतां नो॒ भरी॑मभिः ॥ [ भूमिं स्पृष्ट्वा ]
ॐ ओष॑दयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ कृ॒णोति॑ ब्राह्मणस्तं रा॑जन् पारयाम॑सि ॥
ॐ आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ [ इति कलशमभिमन्त्र्य ]
ॐ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः
प॒थो र॑क्ष धि॒या कृ॒तान् ।
अ॒नु॒ल्ब॒णं वय॑त॒ जोगु॑वा॒मपो॒ मनु॑र्भव
ज॒नया॒ दैव्यं॒ जन॑म् ॥ [ इति सूत्रं संवेष्ट्य
ॐ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतुद्रि॒ स्तोमं॑
सचता॒ प॒रुष्ण्या ।
अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये
शृणु॒ह्या सु॒षोम॑या ॥ इति जलं सम्पूर्य
ॐ स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रमी॑महे ॥ इति पञ्चरत्नानि निधाय
ॐ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑
वस॒तिष्कृ॒ता ।
गो॒भाज इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ इति
पल्लवान् निक्षिप्य
ॐ पू॒र्णा द॑र्वी॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रापत॑ ।
व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥
इति दर्वीं निक्षिप्य
ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥
इति फलं समर्प्य
ॐ गन्ध॑द्वा॒रां दु॑राध॒र्षां नित्य॑पुष्टां
करी॒षिणी॑म् ।
ई॒श्व॒रीं॒ स॑र्वभूतानां॒ तामि॒होप॑ह्वये॒
श्रिय॑म् ॥ इति गन्धम् समर्प्य
ॐ अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधा सो॒ अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न
धृ॒ष्ण्व॑र्चत ॥ इत्यक्षतान् निक्षिप्य
ॐ आय॑ने ते प॒राय॑णे दूर्वा॑ रोहन्तु पुष्पिणीः॑ ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा
इ॒मे ॥ इति पुष्पाणि समर्पयेत्
ॐ पवित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒
पर्ये॑षि विश्वतः॑ ।
अत॑प्तनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒
इद्वह॑न्त॒स्तत्समा॑शत ॥ इति शिरःकूर्चं निधाय
ॐ तत्त्वायामीत्यस्य मन्त्रस्य शुनःशेप ऋषिः त्रिष्टुप् छन्दः
वरुणो देवता कलशे वरुणावाहने विनियोगः ॥
ॐ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते
यज॑मानोह॒विर्भिः ।
आहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शम्स॒मान॒ आयुः॒
प्रमो॑षीः ॥ इति अभिमन्त्रयेत्
अस्मिन् कलशे ॐ भूः वरुणमावाहयामि । ॐ भुवः
वरुणमावाहयामि । ॐ स्वः वरुणमावाहयामि ।
ॐ भूर्भुवस्स्वः वरुणमावाहयामि ॥
कलशस्य मुखे विष्णुः कण्ठे रुद्राः समाश्रिताः । मूले तत्र
स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ
यजुर्वेदः सामवेदोप्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र
गायत्री सावित्री शान्तिः पुष्टिकरी तथा ।
आयान्तु देवीपूजार्थं दुरितक्षयकारकाः । सर्वे समुद्राः
सरितस्तीर्थानि जलदा नदाः ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती । नर्मदे सिन्धु
कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
सितमकरनिषण्णां शुभ्रवस्त्रां त्रिनेत्रां
करधृतकलशोद्यत्सूत्पलाभीत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरचूडां भसितसितदुकूलां
जाह्नवीं तां नमामि ॥
कलशदेवताभ्यो नमः । प्रार्थनां समर्पयामि ॥
॥ शङ्ख पूजा ॥
[भूमिं प्रोक्ष्य शङ्खं प्रक्षाल्य संस्थाप्य ]
ॐ शं नो॑ दे॒वीर॒भीष्ट॑य॒ आ॑पो भवन्तु पी॒तये॑ ।
शं यो र॒भिस्र॑वन्तु नः ॥
[ इति मन्त्रेण जलं पूरयित्वा शङ्ख मुद्रां
धेनुमुद्रां च प्रदर्शयेत् ]
जातवेदस इत्यस्य मन्त्रस्य मारीचः कश्यप ऋषिः त्रिष्टुप्
चन्दः जातवेदाग्निर्देवता अग्निकलावाहने विनियोगः ॥
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥
ॐ भूः अग्निकलामावाहयामि । ॐ भुवः अग्निकलामावाहयामि ।
ॐ स्वः अग्निकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अग्निकलामावाहयामि ॥
तत्सवितुरित्यस्य मन्त्रस्य विश्वामित्र ऋषिः दैवी गायत्री
छन्दः सविता देवता सौरकलावाहने विनियोगः ॥
ॐ तत्स॑वि॒तुर्वरेण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒
यो नः॑ प्रचो॒दया॑त् ॥
ॐ भूः सौरकलामावाहयामि । ॐ भुवः
सौरकलामावाहयामि । ॐ स्वः सौरकलामावाहयामि ।
ॐ भूर्भुवस्स्वः सौरकलामावाहयामि ॥
त्र्यम्बकमिति मन्त्रस्य मैत्रावरुणिर्वसिष्ठ ऋषिः अनुष्टुप्
छन्दः त्र्यम्बक रुद्रो देवता अमृतकलावाहने विनियोगः ॥
ॐ त्र्य॑म्बकं यजामहे सुगन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व बन्ध॑ना॒त् मृत्योर्मु॑क्षीय॒
मामृता॑त् ॥
ॐ भूः अमृतकलामावाहयामि । ॐ भुवः
अमृतकलामावाहयामि । ॐ स्वः अमृतकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अमृतकलामावाहयामि ॥
ॐ पवनगर्भाय विद्महे पाञ्चजन्याय धीमहि तन्नः शङ्खः
प्रचोदयात् ॥
[ इति त्रिवारमर्घ्यम् ]
॥ अथ मण्टपध्यानम् ॥
उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।
शुद्धस्फाटिकभित्तिका विरचितैः स्तम्भैश्च हैमैः
शुभैः ॥ द्वारैश्चामर रत्न राजिखचितैः
शोभावहैर्मण्डपैः । तत्रान्यैरपि चक्रशङ्खधवलैः
प्रोद्भासितं स्वस्तिकैः ॥
मुक्ताजालविलम्बिमण्टपयुतैर्वज्रैश्च सोपानकैः ।
नानारत्नविनिर्मितैश्च कलशैरत्यन्तशोभावहम् ॥
माणिक्योज्ज्वलदीपदीप्तिरचितं लक्ष्मीविलासास्पदम् ।
ध्यायेन्मण्टपमर्चनेषु सकलेष्वेवं विधं साधकः ॥
॥ द्वारपालक पूजा ॥
ॐ क्षेत्रपालाय नमः । ॐ सिंहाय नमः । ॐ गरुडाय नमः ।
ॐ द्वारश्रियै नमः । ॐ धात्र्यै नमः ।
ॐ विधात्र्यै नमः । ॐ पूर्वद्वारश्रियै नमः । शङ्खनिधये
नमः । पुष्पनिधये नमः । दक्षिणद्वारश्रियै नमः । बलायै
नमः । प्रबलायै नमः । प्रचण्डायै नमः । पश्चिम
द्वारश्रियै नमः । जयायै नमः । विजयायै नमः । गङ्गायै
नमः । यमुनायै नमः । उत्तरद्वारश्रियै नमः । ऋग्वेदाय
नमः । यजुर्वेदाय नमः । सामवेदाय नमः । अथर्वणवेदाय
नमः । कृतयुगाय नमः । त्रेतायुगाय नमः । द्वापरयुगाय
नमः । कलियुगाय नमः । पूर्वसमुद्राय नमः ।
दक्षिणसमुद्राय नमः । पश्चिमसमुद्राय नमः ।
उत्तरसमुद्राय नमः । द्वारदेवताभ्यो नमः । द्वारपालक
पूजां समर्पयामि ॥
॥ पीठपूजा ॥
ॐ आधारशक्त्यै नमः । मूलप्रकृत्यै नमः । कूर्माय
नमः । अनन्ताय नमः । वास्त्वधिपतये ब्रह्मणे नमः ।
वास्तुपुरुषाय नमः । श्वेत द्वीपाय नमः । स्वर्णमण्डपाय
नमः । अमृतार्णवाय नमः । रत्नद्वीपाय नमः ।
नवरत्नमयमण्डपाय नमः । भद्रकमलासनायै नमः ।
गुणाधिपतये नमः । सरस्वत्यै नमः । दुर्गायै नमः ।
क्षेत्रपालाय नमः । धर्माय नमः । ज्ञानाय नमः ।
वैराग्याय नमः । ऐश्वर्याय नमः । अधर्माय नमः ।
अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ।
अव्यक्तविग्रहाय नमः । अनन्दकन्दाय नमः । आकाशबीजात्मने
बुद्धिनालाय नमः । आकाशात्मने कर्णिकायै नमः ।
वाय्वात्मने केसरेभ्यो नमः । अग्न्यात्मने दलेभ्यो नमः ।
पृथिव्यात्मने परिवेषाय नमः । अं अर्कमण्डलाय
वसुप्रदद्वादशकलातत्वात्मने नमः । उं सोममण्डलाय
वसुप्रदषोडशकलातत्वात्मने नमः । मं वह्निमण्डलाय
वसुप्रददशकलातत्वात्मने नमः । सं सत्वाय नमः । रं
रजसे नमः । तं तमसे नमः । विं विद्यायै नमः । आं
आत्मने नमः । उं परमात्मने नमः । मं अन्तरात्मने नमः । ॐ
ह्रीं ज्ञानत्मने नमः । पीठपूजां समर्पयामि ॥
॥ आवाहनम् ॥
जातवेदस इत्यस्य मन्त्रस्य कश्यप ऋषिः त्रिष्टुप् छन्दः
जातवेदाग्निर्देवता दुर्गावाहने विनियोगः ॥
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥
ॐ भूः दुर्गामावाहयामि । ॐ भुवः दुर्गामावाहयामि । ॐ
स्वः दुर्गामावाहयामि ।
ॐ भूर्भुवस्स्वः दुर्गामावाहयामि ॥
स्वामिन्यखिललोकेशी यावत्पूजावसानकम् । तावत्त्वं
प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
॥ मलापकर्षणस्नानम् ॥
ॐ अग्निमीळेत्यस्य सूक्तस्य वैश्वामित्रोमधुच्छन्दा ऋषिः
गायत्री छन्दः अग्निर्देवता ॥
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं र॒त्नधात॑मम् ॥
अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स
दे॒वाꣳ एह वक्ष॑ति ॥
अ॒ग्निना॑ र॒यिम॑ष्नव॒त् पोष॑मे॒व दि॒वे दि॑वे ।
य॒शसं॑ वी॒रवत्त्॑अमम् ॥
अग्नी॒ यं य॒ज्ञमध्व॑रं वि॒श्वतः॑ परि॒भूरसि॑ । स
इद्दे॒वेषु॑ गच्छति ॥
अ॒ग्निर्होता॑ कविक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो
दे॒वेभि॒रागमत् ॥
श्री दुर्गापरमेश्वर्यै नमः । मलापकर्षणस्नानं
समर्पयामि ॥
॥ नवशक्ति पूजा ॥
ॐ प्रभायै नमः । मायायै नमः । जयायै नमः । सूक्ष्मायै
नमः । विशुद्धायै नमः । नन्दिन्यै नमः । सुप्रभायै नमः ।
विजयायै नमः । सर्वसिद्धिप्रदायै नमः ॥
ॐ नमो भगवत्यै सकलगुणशक्तियुक्तायै
योगपद्मपीठात्मिकायै नमः । सुवर्ण महापीठं कल्पयामि ॥
स्वात्मसंस्थामजां शुद्धां त्वामद्य परमेश्वरी ।
अरण्यामिह हव्याशं मूर्तावावाहयाम्यहम् ॥
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः प्राणाः इह प्राणाः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः जीव इह स्थितः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः सर्वेन्द्रियाणि इह स्थितानि ।
पृथिव्यप्तेजोवाय्वाकाश
शब्दस्पर्शरूपरसगन्धश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण
वाक्पाणिपादपायूपस्थवचनादानविहरणविसर्गानन्द
मनोबुद्धिचित्ताहङ्कारज्ञानात्मने अन्तरात्मने परमात्मने
नमः ॥ इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥
ॐ अ॑सुनीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह
नो॑ धे॒हि भोग॑म् ।
ज्योक् प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनुमते मृ॒ळया॑ नः
स्व॒स्ति ॥
ॐ भूर्भुवस्स्वरोऽम् । सशक्तिसाङ्गसायुधसवाहनसपरिवारे
दुर्गे भगवति अत्रैवाऽगच्छाऽगच्छ आवाहयिष्ये
आवाहयामि ॥
आवाहिता भव । संस्थापिता भव । सन्निहिता भव ।
सन्निरुद्धा भव । सम्मुखा भव । अवकुण्ठितो भव । व्याप्ता
भव । सुप्रसन्ना भव । मम सर्वाभीष्ट फलप्रदा भव ॥
[ तद्दिनस्य दुर्गायाः मूलमन्त्रस्य ऋष्यादि न्यासं
विधाय ध्यात्वा मूलमन्त्रं यथा शक्ति जपेत् ]
श्री दुर्गापरमेश्वर्यै नमः । ध्यायामि ध्यानं
समर्पयामि । आवाहयामि आवाहनं समर्पयामि । अर्घ्यं
समर्पयामि । पाद्यं समर्पयामि । आचमनं समर्पयामि ।
मधुपर्कं समर्पयामि । गन्धं समर्पयामि । पुष्पं
समर्पयामि । [ इत्यादि संक्षिप्त धूप दीप नैवेद्य
नीराजनादिकं कुर्यात् ]
॥ पञ्चामृतस्नानम् ॥
क्षीरस्नानम्
ॐ आ प्या॑यस्व॒ स॑मेतु ते वि॒श्वतः॑ सोम॒ वृष्॑णियम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
श्री दुर्गापरमेश्वर्यै नमः क्षीरस्नानं समर्पयामि ॥
क्षीरस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
दधिस्नानम्
ॐ द॒धि॒क्राव्णो॑ अकारिषं
जि॒ष्णोरश्व॑स्यवा॒जिनः॑।सुर॒भि नो॒ मुखा॑कर॒त्प्रण
आयूं॑षि तारिषत्।
श्री दुर्गापरमेश्वर्यै नमः दधिस्नानं समर्पयामि ॥
दधिस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ ताम॒ग्नि॑वर्णां॒ तप॑सा ज्व॒लन्तीं वै॑रोच॒नीं
क॑र्मफ॒लेषु॒ जुष्टा॑म् ।
दु॒र्गां॒ दे॒वीं शर॑णम॒हं प्रपद्ये॑ सुत॒र॑सि
तरसे॒ नमः॑ ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
घृतस्नानम्
ॐ घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते
श्रि॒तो घृतम्व॑स्य॒धाम॑ ।
अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं
वृषभ वक्षिह॒व्यम् ॥
श्री दुर्गापरमेश्वर्यै नमः घृतस्नानं समर्पयामि ॥
घृतस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑
दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒
तन॑याय॒ शं योः ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
मधुस्नानम्
ॐ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।
मधु॒नक्त॑मु॒तोषसि॒ । मधु॑म॒त् पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
श्री दुर्गापरमेश्वर्यै नमः मधुस्नानं समर्पयामि ॥
मधुस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा
दु॑रि॒ताति॑ पर्षि ।
अग्नी॑ऽ अत्रि॒वन्नम॑सा गृणा॒नोऽऽस्माकं॑ बोध्य वि॒ता
त॒नूना॑म् ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
शर्करास्नानम्
ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य
सु॒हवी॑तुनाम्ने ।
स्वा॒दुर्मित्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒
मधु॑माꣳ अदा॑भ्यः ॥
श्री दुर्गापरमेश्वर्यै नमः शर्करास्नानं समर्पयामि ॥
शर्करास्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ पृ॒त॒ना॒ जि॒त॒गं सह॑मानमु॒ग्रमग्निं हु॑वेम
प॒रमात्स॒धस्ता॑त् ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा क्षाम॑द्दे॒वोऽति॑
दुरितात्यग्निः ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
फलोदकस्नानम्
ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥
श्री दुर्गापरमेश्वर्यै नमः फलोदकस्नानं समर्पयामि ॥
फलोदकस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥
ॐ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ऊ॒र्जे द॑धा॒तन ।
म॒हेरणा॑य चक्ष॑से यो वः॑ शि॒वतमो॒ रसः॒ ।
तस्य॑ भाजयते॒ हनः॑ उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अरङ्गमामवः॒ ।
यस्य॒क्षया॑य॒ जिन्व॑थ आपो॑ ज॒नय॑था च नः ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
अमृताभिषेकम्
[ श्रीसूक्त- दुर्गा सूक्त - रुद्राद्यैः अमृताभिषेकं
कुर्यात् ]
श्री दुर्गापरमेश्वर्यै नमः अमृताभिषेकस्नानं
समर्पयामि ॥
॥ कल्पोक्त
षोडशोपचार पूजा ॥
ध्यानम्
ॐ दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् । वाणीं
लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ।
माहिषघ्नीइं दशभुजां कुमारीं सिंहवाहिनीम् ।
दानवास्तर्जयन्ती च सर्वकामदुघां शिवाम् ॥
श्री दुर्गापरमेश्वर्यै नमः ध्यायामि ध्यानं समर्पयामि ॥
आवाहनम्
ॐ वाक् श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति ।
आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥
श्री दुर्गापरमेश्वर्यै नमः आवाहयामि आवाहनं
समर्पयामि ॥
आसनम्
ॐ भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे ।
स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥
श्री दुर्गापरमेश्वर्यै नमः आसनं समर्पयामि ॥
स्वागतम्
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । कृताञ्जलिपुटो
भक्त्या स्वागतं कल्पयाम्यहम् ॥
श्री दुर्गापरमेश्वर्यै नमः स्वागतं समर्पयामि ॥
अर्घ्यम्
ॐ महालक्ष्मि महामये महाविद्यास्वरूपिणी ।
अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरी ॥
श्री दुर्गापरमेश्वर्यै नमः अर्घ्य-पाद्य-आचमनानि
समर्पयामि ॥
मधुपर्कम्
ॐ दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् । मधुपर्कं
मया दत्तं नारायणि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः मधुपर्कं समर्पयामि ॥
पञ्चामृतस्नानम्
ॐ स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि । भक्त्या
निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः पञ्चामृतस्नानं
समर्पयामि ॥
शुद्धोदकस्नानम्
ॐ शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् । स्नानं गृहाण
देवेशि भद्रकालि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥
वस्त्रम्
ॐ वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् ।
विश्वेश्वरि महामाये नारायणि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः रत्नदुकूलवस्त्रं समर्पयामि ॥
कञ्चुकम्
ॐ गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि ।
सर्वलक्षणसंभूते दुर्गे देवि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः रत्नकञ्चुकं समर्पयामि ॥
यज्ञोपवीतम्
ॐ तक्षकानन्तकर्कोट नागयज्ञोपवीतिनि । सौवर्णं
यज्ञसूत्रं ते ददामि हरिसेविते ॥
श्री दुर्गापरमेश्वर्यै नमः स्वर्णयज्ञोपवीतं समर्पयामि ॥
आभरणम्
ॐ नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् । अलङ्कारान्
गृहाण त्वं ममाभीष्टप्रदा भव॥
श्री दुर्गापरमेश्वर्यै नमः आभरणानि समर्पयामि ॥
गन्धः
ॐ गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् । गृह्णीष्व
देवि लोकेशि जगन्मातर्नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः गन्धं समर्पयामि ॥
बिल्वगन्धः
ॐ बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे ।
बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥
श्री दुर्गापरमेश्वर्यै नमः बिल्वगन्धं समर्पयामि ॥
अक्षताः
ॐ अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् ।
प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः अक्षतान् समर्पयामि ॥
पुष्पाणि
ॐ मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् । पुष्पं गृहाण
देवेशि सर्वमङ्गलदा भव ॥
शिवपत्नि शिवे देवि शिवभक्तभयापहे । द्रोणपुष्पं मया
दत्तं गृहाण शिवदा भव ॥
श्री दुर्गापरमेश्वर्यै नमः नानाविध परिमळ पत्रपुष्पाणि
समर्पयामि ॥
॥ अथ अङ्गपूजा ॥
ॐ वाराह्यै नमः पादौ पूजयामि ।
ॐ चामुण्डायै नमः जङ्घे पूजयामि ।
ॐ माहेन्द्र्यै नमः जानुनी पूजयामि ।
ॐ वागीश्वर्यै नमः ऊरू पूजयामि ।
ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि ।
ॐ कालरात्र्यै नमः कटिं पूजयामि ।
ॐ जगन्मायायै नमः नाभिं पूजयामि ।
ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि ।
ॐ सरस्वत्यै नमः हृदयं पूजयामि ।
ॐ कात्यायन्यै नमः कण्ठं पूजयामि ।
ॐ शिवदूत्यै नमः हस्तान् पूजयामि ।
ॐ नारसिंह्यै नमः बाहून् पूजयामि ।
ॐ इन्द्राण्यै नमः मुखं पूजयामि ।
ॐ शिवायै नमः नासिकां पूजयामि ।
ॐ शताक्ष्यै नमः कर्णौ पूजयामि ।
ॐ त्रिपुरहंत्र्यै नमः नेत्रत्रयं पूजयामि ।
ॐ परमेश्वर्यै नमः ललाटं पूजयामि ।
ॐ शाकम्भर्यै नमः शिरः पूजयामि ।
ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥
॥ अथ आवरण पूजा ॥
प्रथमावरणम्
[तद्दिनदुर्गायः अङ्गन्यासमन्त्राद्यैः
प्रथमावरणमाचरेत् ]
द्वितीयावरणम्
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ प्रीत्यै नमः ।
ॐ प्रभायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ मेधायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ श्रुत्यै नमः ।
तृतीयावणम्
ॐ चक्राय नमः ।
ॐ शङ्खाय नमः ।
ॐ गदायै नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ शराय नमः ।
ॐ धनुषे नमः ।
तुरीयावरणम्
ॐ इन्द्राय सुराधिपतये पीतवर्णाय वज्रहस्ताय
ऐरावतवाहनाय शचीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ अग्नये तेजोऽधिपतये पिङ्गलवर्णाय शक्तिहस्ताय
मेषवाहनाय स्वाहादेवीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ यमाय प्रेताधिपतये कृष्णवर्णाय दण्डहस्ताय
महिषवाहनाय इलासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ निरृतये रक्षोऽधिपतये रक्तवर्णाय खड्गहस्ताय
नरवाहनाय कालिकासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वरुणाय जलाधिपतये श्वेतवर्णाय पाशहस्ताय
मकरवाहनाय पद्मिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वायवे प्राणाधिपतये धूम्रवर्णाय अङ्कुशहस्ताय
मृगवाहनाय मोहिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ सोमाय नक्षत्राधिपतये श्यामलवर्णाय गदाहस्ताय
अश्ववाहनाय चित्रिणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ईशानाय विद्याधिपतये स्फटिकवर्णाय त्रिशूलहस्ताय
वृषभवाहनाय गौरीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ब्रह्मणे लोकाधिपतये हिरण्यवर्णाय पद्महस्ताय
हंसवाहनाय वाणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
पञ्चमावरणम्
ॐ वज्राय नमः ।
ॐ शक्त्यै नमः ।
ॐ दण्डाय नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ गदायै नमः ।
ॐ शूलाय नमः ।
ॐ चक्राय नमः ।
ॐ पद्माय नमः ।
बिल्वपत्रम्
ॐ श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥
श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रं समर्पयामि ॥
॥ अथ पुष्पपूजा ॥
ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि
ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि
ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि
ॐ काल्यै नमः केतकी पुष्पं समर्पयामि
ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि
ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि
ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि
ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि
ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि
ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥
॥ अथ चतुःषष्टियोगिनी पूजा ॥
[ सर्वादौ ॐकारं योजयेत् ]
ॐ दिव्ययोगायै नमः ।
महायोगायै नमः ।
सिद्धयोगायै नमः ।
गणेश्वर्यै नमः ।
प्रेताश्यै नमः ।
डाकिन्यै नमः ।
काल्यै नमः ।
कालरात्र्यै नमः ।
निशाचर्यै नमः ।
झङ्कार्यै नमः ।
ऊर्ध्वभेताल्यै नमः ।
पिशाच्यै नमः ।
भूतडामर्यै नमः ।
ऊर्ध्वकेश्यै नमः ।
विरूपाक्ष्यै नमः ।
शुश्काङ्ग्यै नमः ।
नरभोजिन्यै नमः ।
राक्षस्यै नमः ।
घोररक्ताक्ष्यै नमः ।
विश्वरूप्यै नमः ।
भयङ्कर्यै नमः ।
भ्रामर्यै नमः ।
रुद्रभेताल्यै नमः ।
भीष्मर्यै नमः ।
त्रिपुरान्तक्यै नमः ।
भैरव्यै नमः ।
ध्वंसिन्यै नमः ।
क्रोध्यै नमः ।
दुर्मुख्यै नमः ।
प्रेतवाहिन्यै नमः ।
खट्वाङ्ग्यै नमः ।
दीर्घलम्बोष्ठ्यै नमः ।
मालिन्यै नमः ।
मन्त्रयोगिन्यै नमः ।
कौशिक्यै नमः ।
मर्दिन्यै नमः ।
यक्ष्यै नमः ।
रोमजङ्घायै नमः ।
प्रहारिण्यै नमः ।
कालाग्नये नमः ।
ग्रामण्यै नमः ।
चक्र्यै नमः ।
कङ्काल्यै नमः ।
भुवनेश्वर्यै नमः ।
यमदूत्यै नमः ।
फट्कार्यै नमः ।
वीरभद्रेश्यै नमः ।
धूम्राक्ष्यै नमः ।
कलहप्रियायै नमः ।
कण्टक्यै नमः ।
नाटक्यै नमः ।
मार्यै नमः ।
करालिन्यै नमः ।
सहस्राक्ष्यै नमः ।
कामलोलायै नमः ।
काकदंष्ट्रायै नमः ।
अधोमुख्यै नमः ।
धूर्जट्यै नमः ।
विकट्यै नमः ।
घोर्यै नमः ।
कपाल्यै नमः ।
विषलङ्घिन्यै नमः ॥ ॐ ॥
॥ अथ आश्टभैरवपूजा ॥
ॐ असिताङ्गभैरवाय नमः ।
ॐ क्रोधभैरवाय नमः ।
ॐ रुरुभैरवाय नमः ।
ॐ चण्डभैरवाय नमः ।
ॐ कपालभैरवाय नमः ।
ॐ खट्वाङ्गभैरवाय नमः ।
ॐ उन्मत्तभैरवाय नमः ।
ॐ भीषणभैरवाय नमः ।
॥ अथ अष्टोत्तरशतनाम पूजा ॥
[ अत्र तद्दिनदुर्गायाः नामावलीं स्मरेत् ]
॥ अथ धूपः ॥
ॐ सगुग्गुल्वगरूशीर गन्धादि सुमनोहरम् । धूपं गृहाण
देवेशि दुर्गे देवि नमोऽस्तुते ॥
श्री दुर्गापरमेश्वर्यै नमः धूपमाघ्रापयामि ॥
॥ अथ दीपः ॥
ॐ पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् । दीपं
ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥
श्री दुर्गापरमेश्वर्यै नमः दीपं दर्शयामि ॥
॥ अथ नैवेद्यम् ॥
ॐ जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् ।
परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥
श्री दुर्गापरमेश्वर्यै नमः महानैवेद्यं समर्पयामि ॥
॥ अथ पानीयम् ॥
ॐ गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् ।
स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥
श्री दुर्गापरमेश्वर्यै नमः अमृतपानीयं समर्पयामि ॥
॥ अथ ताम्बूलम् ॥
ॐ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्री दुर्गापरमेश्वर्यै नमः ताम्बूलं समर्पयामि ॥
॥ अथ नीराजनम् ॥
ॐ पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः ।
दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥
श्री दुर्गापरमेश्वर्यै नमः दिव्यमङ्गलनीराजनं
समर्पयामि ॥
॥ अथ मन्त्रपुष्पम् ॥
ॐ पा॒व॒का नः॒ स॑रस्वती वाजे॑भिर्वाजिनी॑वती ।
यज्ञं॒ व॑ष्टु धि॒याव॑सुः ॥
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्षत्येक॑पदी द्वि॒पदी॒ सा
चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा
पर॒मे व्यो॑मन् ॥
ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ नमो॑ व॒यं
वै॑श्रव॒णाय॑ कुर्महे ।
समे॒कामा॒न्काम॒कामा॑य॒ मह्यं॑ का॒मे॒श्व॒रो
वै॑श्रव॒णो द॑दातु ।
कुबे॒राय॑ वैश्रव॒णाय॑ महा॒रा॒जाय॒ नमः॑ ॥
ॐ गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः । महालक्ष्मि
नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥
श्री दुर्गापरमेश्वर्यै नमः वेदोक्त मन्त्रपुष्पं
समर्पयामि ॥
॥ अथ प्रदक्षिणनमस्कारः ॥
ॐ महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि । प्रदक्षिणां
करोमि त्वां प्रीयतां शिववल्लभे ॥
श्री दुर्गापरमेश्वर्यै नमः प्रदक्षिणनमस्कारान्
समर्पयामि ॥
॥ अथ प्रार्थना ॥
ॐ जय रुद्रे विरूपाक्षि जयातीते निरञ्जनी । जय
कल्याणसुखदे जय मङ्गलदे शुभे ॥
जय सिद्धमुनीन्द्रादि वन्दितांघ्रिसरोरुहे । जय विष्णुप्रिये
देवि जय भूतविभूतिदे ॥
जय रत्नप्रदीप्ताभे जय हेमविभासिते । जय बालेन्दुतिलके
त्र्यम्बके जय वृद्धिदे ॥
सर्वलक्ष्मीप्रदे देवि सर्वरक्षाप्रदा भव ।
धर्मार्थकाममोक्षाख्य चतुर्वर्गफलप्रदे ॥
शैलपुत्रि नमस्तेऽस्तु ब्रह्मचारिणि ते नमः । कालरात्रि
नमस्तेऽस्तु नारायणि नमोऽस्तुते ॥
मधुकैटभहारिण्यै नमो महिषमर्दिनी । धूम्रलोचननिर्नाशे
चण्डमुण्डविनाशिनि ॥
रक्तबीजवधे देवि निशुम्भासुरघातिनी । नमः ।
शुम्भापहारिण्यै त्र्यैलोक्यवरदे नमः ॥
देवि देहि परं रूपं देवि देहि परं सुखम् । धर्मं देहि
धनं देहि सर्वकामांश्च देहि मे ॥
सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च । देवि देहि
परं ज्ञानमिह मुक्ति सुखं कुरु ॥
श्री दुर्गापरमेश्वर्यै नमः प्रार्थनां समर्पयामि ॥
॥ अथ प्रसन्नार्घ्यम् ॥
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । बिल्वार्घ्यं च
मया दत्तं देवेशि प्रतिगृह्यताम् ॥
ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि ।
गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥
श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रार्घ्यं समर्पयामि ॥
॥ अथ पुनः पूजा ॥
ॐ कात्यायन्यै नमः ध्यानं समर्पयामि
ॐ कौमार्यै नमः आवाहनं समर्पयामि
ॐ विन्ध्यवासिन्यै नमः आसनं समर्पयामि
ॐ महेश्वर्यै नमः पाद्यं समर्पयामि
ॐ सिताम्भोजायै नमः अर्घ्यं समर्पयामि
ॐ नारसिंह्यै नमः आचमनीयं समर्पयामि
ॐ महादेव्यै नमः मधुपर्कं समर्पयामि
ॐ दयावत्यै नमः पुनराचमनीयं समर्पयामि
ॐ शाकंभर्यै नमः स्नानं समर्पयामि
ॐ दुर्गायै नमः वस्त्रं समर्पयामि
ॐ सरस्वत्यै नमः आभरणानि समर्पयामि
ॐ मेधायै नमः गन्धं समर्पयामि
ॐ सर्वविद्याप्रदायै नमः अक्षतान् समर्पयामि
ॐ सर्वसिद्धिप्रदायै नमः पुष्पाणि समर्पयामि
ॐ महाविद्यायै नमः धूपं समर्पयामि
ॐ सपत्निकायै नमः दीपं समर्पयामि
ॐ शान्त्यै नमः नैवेद्यं समर्पयामि
ॐ उमायै नमः हस्तप्रक्षाळनं समर्पयामि
ॐ चण्डिकायै नमः ताम्बूलं समर्पयामि
ॐ चामुण्डायै नमः नीराजनं समर्पयामि
ॐ माहाकाल्यै नमः मन्त्रपुष्पं समर्पयामि
ॐ शिवदूत्यै नमः प्रदक्षिणानि समर्पयामि
ॐ शिवायै नमः नमस्कारान् समर्पयामि
श्री दुर्गा परमेश्वर्यै नमः षोडशोपचार पूजां
समर्पयामि ॥
॥ अथ बिल्वपत्रार्पणम् ॥
ॐ सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये
त्र्यम्बिके गौरि नारायणि नमोऽस्तुते ॥
श्री दुर्गा परमेश्वर्यै नमः बिलवपत्रार्चनं
समर्पयामि ॥
॥ अथ पूजा समर्पणम् ॥
ॐ मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्कृतं तु मया देवि परिपूर्णं तदस्तु ते ॥
अनेन मया कृत दुर्गापूजाख्य कर्मणा श्री परमेश्वरो श्री
परदेवता च प्रीयताम् ॥
[ यथाशक्ति ब्राह्मण-दम्पति-कुमारी वर्गभोजनं
कारयेत् ]
॥ इति दुर्गापूजाविधिः सम्पूर्णः ॥
॥ प्रथम दिनस्य महादुर्गा पूजाविधिः ॥
अस्यश्री मूलदुर्गा महामन्त्रस्य नारद ऋषिः गायत्री
छन्दः श्री दुर्गा देवता ॥
[ ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलयां विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनतां च दुर्गां दूर्वानिभां
दुरितवर्गहरां नमामि ॥
मन्त्रः ॐ ह्रीं दुं दुर्गायै नमः ॥
॥ अथ श्री दुर्गाऽष्टोत्तरशतनामावलिः ॥
अस्यश्री दुर्गाऽष्टोत्तरशतनाम महामन्त्रस्य नारद ऋषिः
गायत्री छन्दः श्री दुर्गा देवता परमेश्वरीति बीजं
कृष्णानुजेति शक्तिः शाङ्करीति कीलकं
दुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
प्रकाशमध्यस्थितचित्स्वरूपां वराभये संदधतीं
त्रिनेत्राम् ।
सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥
ॐ दुर्गायै नमः ।
दारिद्र्यशमन्यै नमः ।
दुरितघ्न्यै नमः ।
लक्ष्म्यै नमः ।
लज्जायै नमः ।
महाविद्यायै नमः ।
श्रद्धायै नमः ।
पुष्ट्यै नमः ।
स्वधायै नमः ।
ध्रुवायै नमः ।
महारात्र्यै नमः ।
महामायायै नमः ।
मेधायै नमः ।
मात्रे नमः ।
सरस्वत्यै नमः ।
शिवायै नमः ।
शशिधरायै नमः ।
शान्तायै नमः ।
शाम्भव्यै नमः ।
भूतिदायिन्यै नमः ।
तामस्यै नमः ।
नियतायै नमः ।
नार्यै नमः ।
काल्यै नमः ।
नारायण्यै नमः ।
कलायै नमः ।
ब्राह्म्यै नमः ।
वीणाधरायै नमः ।
वाण्यै नमः ।
शारदायै नमः ।
हंसवाहिन्यै नमः ।
त्रिशूलिन्यै नमः ।
त्रिनेत्रायै नमः ।
ईशानायै नमः ।
त्रय्यै नमः ।
त्रयतमायै नमः ।
शुभायै नमः ।
शङ्खिन्यै नमः ।
चक्रिण्यै नमः ।
घोरायै नमः ।
कराल्यै नमः ।
मालिन्यै नमः ।
मत्यै नमः ।
माहेश्वर्यै नमः ।
महेष्वासायै नमः ।
महिषघ्न्यै नमः ।
मधुव्रतायै नमः ।
मयूरवाहिन्यै नमः ।
नीलायै नमः ।
भारत्यै नमः ।
भास्वराम्बरायै नमः ।
पीताम्बरधरायै नमः ।
पीतायै नमः ।
कौमार्यै नमः ।
पीवरस्तन्यै नमः ।
रजन्यै नमः ।
राधिन्यै नमः ।
रक्तायै नमः ।
गदिन्यै नमः ।
घण्टिन्यै नमः ।
प्रभायै नमः ।
शुम्भघ्न्यै नमः ।
सुभगायै नमः ।
सुभ्रुवे नमः ।
निशुम्भप्राणहारिण्यै नमः ।
कामाक्ष्यै नमः ।
कामुकायै नमः ।
कन्यायै नमः ।
रक्तबीजनिपातिन्यै नमः ।
सहस्रवदनायै नमः ।
सन्ध्यायै नमः ।
साक्षिण्यै नमः ।
शाङ्कर्यै नमः ।
द्युतये नमः ।
भार्गव्यै नमः ।
वारुण्यै नमः ।
विद्यायै नमः ।
धरायै नमः ।
धरासुरार्चितायै नमः ।
गायत्र्यै नमः ।
गायक्यै नमः ।
गङ्गायै नमः ।
दुर्गायै नमः ।
गीतघनस्वनायै नमः ।
छन्दोमयायै नमः ।
मह्यै नमः ।
छायायै नमः ।
चार्वाङ्ग्यै नमः ।
चन्दनप्रियायै नमः ।
जनन्यै नमः ।
जाह्नव्यै नमः ।
जातायै नमः ।
शान्ङ्कर्यै नमः ।
हतराक्षस्यै नमः ।
वल्लर्यै नमः ।
वल्लभायै नमः ।
वल्ल्यै नमः ।
वल्ल्यलङ्कृतमध्यमायै नमः ।
हरीतक्यै नमः ।
हयारूढायै नमः ।
भूत्यै नमः ।
हरिहरप्रियायै नमः ।
वज्रहस्तायै नमः ।
वरारोहायै नमः ।
सर्वसिद्ध्यै नमः ।
वरप्रदायै नमः ।
श्री दुर्गादेव्यै नमः ॥ ॐ ॥
॥ अथ द्वितीयदिनस्य आर्या पूजाविधिः ॥
अस्यश्री आर्यामहामन्त्रस्य मारीच काश्यप ऋषिः त्रिष्टुप्
छन्दः श्री आर्या दुर्गा देवता ॥
[ ॐ जातवेदसे सुनवाम - सोममरातीयतः - निदहाति
वेदः - सनः पर्षदति - दुर्गाणि विश्वा - नावेव सिन्धुं
दुरितात्यग्निः ॥ एवं न्यासमाचरेत् ]
ध्यानम्
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणाम्
कन्याभिः करवालखेटविलसत् हस्ताभिरासेविताम् ।
हस्तैश्चक्रगदाऽसिशङ्ख विशिखांश्चापं गुणं
तर्जनीम्
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
मन्त्रः- ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति
वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यग्निः ॥
॥ अथ आर्या नामावलिः ॥
ॐ आर्यायै नमः ।
कात्यायन्यै नमः ।
गौर्यै नमः ।
कुमार्यै नमः ।
विन्ध्यवासिन्यै नमः ।
वागीश्वर्यै नमः ।
महादेव्यै नमः ।
काल्यै नमः ।
कङ्कालधारिण्यै नमः ।
घोणसाभरणायै नमः ।
उग्रायै नमः ।
स्थूलजङ्घायै नमः ।
महेश्वर्यै नमः ।
खट्वाङ्गधारिण्यै नमः ।
चण्ड्यै नमः ।
भीषणायै नमः ।
महिषान्तकायै नमः ।
रक्षिण्तै नमः ।
रमण्यै नमः ।
राज्ञ्यै नमः ।
रजन्यै नमः ।
शोषिण्यै नमः ।
रत्यै नमः ।
गभस्तिन्यै नमः ।
गन्धिन्यै नमः ।
दुर्गायै नमः ।
गान्धार्यै नमः ।
कलहप्रियायै नमः ।
विकराल्यै नमः ।
महाकाल्यै नमः ।
भद्रकाल्यै नमः ।
तरङ्गिण्यै नमः ।
मालिन्यै नमः ।
दाहिन्यै नमः ।
कृष्णायै नमः ।
छेदिन्यै नमः ।
भेदिन्यै नमः ।
अग्रण्यै नमः ।
ग्रामण्यै नमः ।
निद्रायै नमः ।
विमानिन्यै नमः ।
शीघ्रगामिन्यै नमः ।
चण्डवेगायै नमः ।
महानादायै नमः ।
वज्रिण्यै नमः ।
भद्रायै नमः ।
प्रजेश्वर्यै नमः ।
कराल्यै नमः ।
भैरव्यै नमः ।
रौद्र्यै नमः ।
अट्टहासिन्यै नमः ।
कपालिन्यै व्चामुण्डायै नमः ।
रक्तचामुण्डायै नमः ।
अघोरायै नमः ।
घोररूपिण्यै नमः ।
विरूपायै नमः ।
महारूपायै नमः ।
स्वरूपायै नमः ।
सुप्रतेजस्विन्यै नमः ।
अजायै नमः ।
विजयायै नमः ।
चित्रायै नमः ।
अजितायै नमः ।
अपराजितायै नमः ।
धरण्यै नमः ।
धात्र्यै नमः ।
पवमान्यै नमः ।
वसुन्धरायै नमः ।
सुवर्णायै नमः ।
रक्ताक्ष्यै नमः ।
कपर्दिन्यै नमः ।
सिंहवाहिन्यै नमः ।
कद्रवे नमः ।
विजितायै नमः ।
सत्यवाण्यै नमः ।
अरुन्धत्यै नमः ।
कौशिक्यै नमः ।
महालक्ष्म्यै नमः ।
विद्यायै नमः ।
मेधायै नमः ।
सरस्वत्यै नमः ।
मेधायै नमः ।
त्र्यम्बकायै नमः ।
त्रिसन्ख्यायै नमः ।
त्रिमूर्त्यै नमः ।
त्रिपुरान्तकायै नमः ।
ब्राह्म्यै नमः ।
नारसिंह्यै नमः ।
वाराह्यै नमः ।
इन्द्राण्यै नमः ।
वेदमातृकायै नमः ।
पार्वत्यै नमः ।
तामस्यै नमः ।
सिद्धायै नमः ।
गुह्यायै नमः ।
इज्यायै नमः ।
उषायै नमः ।
उमायै नमः ।
अम्बिकायै नमः ।
भ्रामर्यै नमः ।
वीरायै नमः ।
हाहाहुङ्कारनादिन्यै नमः ।
नारायण्यै नमः ।
विश्वरूपायै नमः ।
मेरुमन्दिरवासिन्यै नमः ।
शरणागतदीनार्तपरित्राणपरायणायै नमः ।
आर्यायै नमः ॥ॐ॥
॥अथ तृतीयदिनस्य भगवती पूजाविधिः ॥
ॐ अस्यश्री भगवती महामन्त्रस्य दीर्घतमा ऋषिः ककुप्
छन्दः भगवती शूलिनी दुर्गा देवता ॥
[ॐ शूलिनि दुर्गे देवतासुरपूजिते नन्दिनि महायोगेश्वरि
हुं फट् - शूलिनि वरदे - विन्द्यवासिनि - असुरमर्दिनि -
देवासुरसिद्धपूजिते - युद्धप्रिये - ] इति न्यासमाचरेत् ॥
ध्यानम्
बिभ्राणा शूलबाणास्यरिसुदरगदाचापपाशान् कराब्जैः
मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिम्हस्कन्धाधिरूढा चतुसृभिरसिखेटान्विताभिः परीता
कन्याभिः भिन्नदैत्या भवतु भवभयद्वम्सिनी शूलिनी नः ॥
मन्त्रः - ॐ शूलिनि दुर्गे वरदे विन्द्यवासिनि असुरमर्दिनि
देवासुरसिद्धपूजिते युद्धप्रिये नन्दिनि रक्ष रक्ष
महायोगेश्वरि हुं फट् ॥
॥अथ भगवती नामावलिः ॥
ॐ भगवत्यै नमः ।
गौर्यै नमः ।
सुवर्णवर्णायै नमः ।
सृष्टिस्थितिसंहारकारिण्यै नमः ।
एकस्वरूपिण्यै नमः ।
अनेकस्वरूपिण्यै नमः ।
महेज्यायै नमः ।
शतबाहवे नमः ।
महाभुजायै नमः ।
भुजङ्गभूषणायै नमः ।
षट्चक्रवासिन्यै नमः ।
षट्चक्रभेदिन्यै नमः ।
श्यामायै नमः ।
कायस्थायै नमः ।
कायवर्जितायै नमः ।
सुस्थितायै नमः ।
सुमुख्यै नमः ।
क्षमायै नमः ।
मूलप्रकृत्यै नमः ।
ईश्वर्यै नमः ।
अजायै नमः ।
शुभ्रवर्णायै नमः ।
पुरुषार्थायै नमः ।
सुप्रबोधिन्यै नमः ।
रक्तायै नमः ।
नीलायै नमः ।
श्यामलायै नमः ।
कृष्णायै नमः ।
पीतायै नमः ।
कर्बुरायै नमः ।
करुणालयायै नमः ।
तृष्णायै नमः ।
जरायै नमः ।
वृद्धायै नमः ।
तरुण्यै नमः ।
करुणायै नमः ।
लयायै नमः ।
कलायै नमः ।
काष्ठायै नमः ।
मुहूर्तायै नमः ।
निमिषायै नमः ।
कालरूपिण्यै नमः ।
सुवर्णायै नमः ।
रसनायै नमः ।
चक्षुःस्पर्शवायुरसायै नमः ।
गन्धप्रियायै नमः ।
सुगन्धायै नमः ।
सुस्पर्शायै नमः ।
मनोगतायै नमः ।
मृगनाभ्यै नमः ।
मृगाक्ष्यै नमः ।
कर्पूरामोददायिन्यै नमः ।
पद्मयोन्यै नमः ।
सुकेशायै नमः ।
सुलिङ्गायै नमः ।
भगरूपिण्यै नमः ।
भूषण्यै नमः ।
योनिमुद्रायै नमः ।
खेचर्यै नमः ।
स्वर्गगामिन्यै नमः ।
मधुप्रियायै नमः ।
माधव्यै नमः ।
वल्ल्यै नमः ।
मधुमत्तायै नमः ।
मदोत्कटायै नमः ।
मातङ्ग्यै नमः ।
शुकहस्तायै नमः ।
धीरायै नमः ।
महाश्वेतायै नमः ।
वसुप्रियायै नमः ।
सुवर्णिन्यै नमः ।
पद्महस्तायै नमः ।
मुक्तायै नमः ।
हारविभूषणायै नमः ।
कर्पूरामोदायै नमः ।
निःश्वासायै नमः ।
पद्मिन्यै नमः ।
वल्लभायै नमः ।
शक्त्यै नमः ।
खड्गिन्यै नमः ।
बलहस्तायै नमः ।
भुषुण्डिपरिघायुधायै नमः ।
चापिन्यै नमः ।
चापहस्तायै नमः ।
त्रिशूलधारिण्यै नमः ।
शूरबाणायै नमः ।
शक्तिहस्तायै नमः ।
मयूरवाहिन्यै नमः ।
वरायुधायै नमः ।
धारायै नमः ।
धीरायै नमः ।
वीरपाण्यै नमः ।
वसुधारायै नमः ।
जयायै नमः ।
शाकनायै नमः ।
विजयायै नमः ।
शिवायै नमः ।
श्रियै नमः ।
भगवत्यै नमः ।
महालक्ष्म्यै नमः ।
सिद्धसेनान्यै नमः ।
आर्यायै नमः ।
मन्दरवासिन्यै नमः ।
कुमार्यै नमः ।
काल्यै नमः ।
कपाल्यै नमः ।
कपिलायै नमः ।
कृष्णायै नमः ॥ॐ॥
॥अथ चतुर्थ दिनस्य कुमारी पूजनविधिः ॥
ॐ अस्यश्री कुमारी महामन्त्रस्य ईश्वर ऋषिः बृहती
छन्दः कुमारी दुर्गा देवता ॥
[ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
गिरिराजकुमारिकां भवानीं शरणागतपालनैकदक्षाम् ।
वरदाभयचक्रशङ्खहस्तां वरदात्रीं भजतां स्मरामि
नित्यम् ॥
मन्त्रः - ॐ ह्रीं कुमार्यै नमः ॥
॥अथ श्री कुमार्याः नामावलिः॥
ॐ कौमार्यै नमः ।
सत्यमार्गप्रबोधिन्यै नमः ।
कम्बुग्रीवायै नमः ।
वसुमत्यै नमः ।
छत्रच्छायायै नमः ।
कृतालयायै नमः ।
कुण्डलिन्यै नमः ।
जगद्धात्र्यै नमः ।
जगद्गर्भायै नमः ।
भुजङ्गायै नमः ।
कालशायिन्यै नमः ।
प्रोल्लसायाइ नमः ।
सप्तपद्मायै नमः ।
नाभिनालायै नमः ।
मृणालिन्यै नमः ।
मूलाधारायै नमः ।
अनिलाधारायै नमः ।
वह्निकुण्डलकृतालयायै नमः ।
वायुकुण्डलसुखासनायै नमः ।
निराधारायै नमः ।
निराश्रयायै नमः ।
बलीन्द्रसमुच्चयायै नमः ।
षड्रसस्वादुलोलुपायै नमः ।
श्वासोच्छ्वासगतायै नमः ।
जीवायै व्ग्राहिण्यै नमः ।
वह्निसंश्रयायै नमः ।
तप्सविन्यै नमः ।
तपस्सिद्धायै नमः ।
तापसायै नमः ।
तपोनिष्ठायै नमः ।
तपोयुक्तायै नमः ।
तपस्सिद्धिदायिन्यै नमः ।
सप्तधातुमय्यै नमः ।
सुमूर्त्यै नमः ।
सप्तायै नमः ।
अनन्तरनाडिकायै नमः ।
देहपुष्ट्यै नमः ।
मनस्तुष्ट्यै नमः ।
रत्नतुष्ट्यै नमः ।
मदोद्धतायै नमः ।
दशमध्यै नमः ।
वैद्यमात्रे नमः ।
द्रवशक्त्यै नमः ।
प्रभाविन्यै नमः ।
वैद्यविद्यायै नमः ।
चिकित्सायै नमः ।
सुपथ्यायै नमः ।
रोगनाशिन्यै नमः ।
मृगयात्रायै नमः ।
मृगमाम्सायै नमः ।
मृगपद्यायै नमः ।
सुलोचनायै नमः ।
व्याघ्रचर्मणे नमः ।
बन्धुरूपायै नमः ।
बहुरूपायै नमः ।
मदोत्कटायै नमः ।
बन्धिन्यै नमः ।
बन्धुस्तुतिकरायै नमः ।
बन्धायै नमः ।
बन्धविमोचिन्यै नमः ।
श्रीबलायै नमः ।
कलभायै नमः ।
विद्युल्लतायै नमः ।
दृढविमोचिन्यै नमः ।
अम्बिकायै नमः ।
बालिकायै नमः ।
अम्बरायै नमः ।
मुख्यायै नमः ।
साधुजनार्चितायै नमः ।
कालिन्यै नमः ।
कुलविद्यायै नमः ।
सुकलायै नमः ।
कुलपूजितायै नमः ।
कुलचक्रप्रभायै नमः ।
भ्रान्तायै नमः ।
भ्रमनाशिन्यै नमः ।
वात्यालिन्यै नमः ।
सुवृष्ट्यै नमः ।
भिक्षुकायै नमः ।
सस्यवर्धिन्यै नमः ।
अकारायै नमः ।
इकारायै नमः ।
उकारायै नमः ।
एकारायै नमः ।
हुङ्कारायै नमः ।
बीजरूपयै नमः ।
क्लींकारायै नमः ।
अम्बरधारिण्यै नमः ।
सर्वाक्षरमयाशक्त्यै नमः ।
राक्षसार्णवमालिन्यै नमः ।
सिन्धूरवर्णायै नमः ।
अरुणवर्णायै नमः ।
सिन्धूरतिलकप्रियायै नमः ।
वश्यायै नमः ।
वश्यबीजायै नमः ।
लोकवश्यविधायिन्यै नमः ।
नृपवश्यायै नमः ।
नृपसेव्यायै नमः ।
नृपवश्यकरप्रियायै नमः ।
महिषीनृपमाम्सायै नमः ।
नृपज्ञायै नमः ।
नृपनन्दिन्यै नमः ।
नृपधर्मविद्यायै नमः ।
धनधान्यविवर्धिन्यै नमः ।
चतुर्वर्णमयशक्त्यै नमः ।
चतुर्वर्णैः सुपूजितायै नमः ।
सर्ववर्णमयायै नमः ॥ॐ॥
॥अथ पञ्चमदिनस्य अम्बिका पूजाविधिः॥
ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दः
अम्बिका दुर्गा देवता ॥
[ श्रां - श्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
मन्त्रः - ॐ ह्रीं श्रीं अम्बिकायै नमः ॐ ॥
॥अथ श्री अम्बिकायाः नामावलिः ॥
ॐ अम्बिकायै नमः ।
सिद्धेश्वर्यै नमः ।
चतुराश्रमवाण्यै नमः ।
ब्राह्मण्यै नमः ।
क्षत्रियायै नमः ।
वैश्यायै नमः ।
शूद्रायै नमः ।
वेदमार्गरतायै नमः ।
वज्रायै नमः ।
वेदविश्वविभागिन्यै नमः ।
अस्त्रशस्त्रमयायै नमः ।
वीर्यवत्यै नमः ।
वरशस्त्रधारिण्यै नमः ।
सुमेधसे नमः ।
भद्रकाल्यै नमः ।
अपराजितायै नमः ।
गायत्र्यै नमः ।
संकृत्यै नमः ।
सन्ध्यायै नमः ।
सावित्र्यै नमः ।
त्रिपदाश्रयायै नमः ।
त्रिसन्ध्यायै नमः ।
त्रिपद्यै नमः ।
धात्र्यै नमः ।
सुपथायै नमः ।
सामगायन्यै नमः ।
पाञ्चाल्यै नमः ।
कालिकायै नमः ।
बालायै नमः ।
बालक्रीडायै नमः ।
सनातन्यै नमः ।
गर्भाधारायै नमः ।
आधारशून्यायै नमः ।
जलाशयनिवासिन्यै नमः ।
सुरारिघातिन्यै नमः ।
कृत्यायै नमः ।
पूतनायै नमः ।
चरितोत्तमायै नमः ।
लज्जारसवत्यै नमः ।
नन्दायै नमः ।
भवायै नमः ।
पापनाशिन्यै नमः ।
पीतम्बरधरायै नमः ।
गीतसङ्गीतायै नमः ।
गानगोचरायै नमः ।
सप्तस्वरमयायै नमः ।
षद्जमध्यमधैवतायै नमः ।
मुख्यग्रामसंस्थितायै नमः ।
स्वस्थायै नमः ।
स्वस्थानवासिन्यै नमः ।
आनन्दनादिन्यै नमः ।
प्रोतायै नमः ।
प्रेतालयनिवासिन्यै नमः ।
गीतनृत्यप्रियायै नमः ।
कामिन्यै नमः ।
तुष्टिदायिन्यै नमः ।
पुष्टिदायै नमः ।
निष्ठायै नमः ।
सत्यप्रियायै नमः ।
प्रज्ञायै नमः ।
लोकेशायै नमः ।
संशोभनायै नमः ।
संविषयायै नमः ।
ज्वालिन्यै नमः ।
ज्वालायै नमः ।
विमूर्त्यै नमः ।
विषनाशिन्यै नमः ।
विषनागदम्न्यै नमः ।
कुरुकुल्लायै नमः ।
अमृतोद्भवायै नमः ।
भूतभीतिहरायै नमः ।
रक्षायै नमः ।
राक्षस्यै नमः ।
रात्र्यै नमः ।
दीर्घनिद्रायै नमः ।
दिवागतायै नमः ।
चन्द्रिकायै नमः ।
चन्द्रकान्त्यै नमः ।
सूर्यकान्त्यै नमः ।
निशाचरायै नमः ।
डाकिन्यै नमः ।
शाकिन्यै नमः ।
हाकिन्यै नमः ।
चक्रवासिन्यै नमः ।
सीतायै नमः ।
सीतप्रियायै नमः ।
शान्तायै नमः ।
सकलायै नमः ।
वनदेवतायै नमः ।
गुरुरूपधारिण्यै नमः ।
गोष्ठ्यै नमः ।
मृत्युमारणायै नमः ।
शारदायै नमः ।
महामायायै नमः ।
विनिद्रायै नमः ।
चन्द्रधरायै नमः ।
मृत्युविनाशिन्यै नमः ।
चन्द्रमण्डलसङ्काशायै नमः ।
चन्द्रमण्डलवर्तिन्यै नमः ।
अणिमाद्यै नमः ।
गुणोपेतायै नमः ।
कामरूपिण्यै नमः ।
कान्त्यै नमः ।
श्रद्धायै नमः ।
श्रीमहालक्ष्म्यै नमः ॥ॐ॥
॥अथ षष्ठ दिनस्य महिषमर्दिनी
वनदुर्गा पूजाविधिः॥
ॐ अस्यश्री महिषमर्दिनि वनदुर्गा महामन्त्रस्य आरण्यक
ऋषिः अनुष्टुप् छन्दः श्री महिषासुरमर्दिनी वनदुर्गा
देवता ॥
[ ॐ उत्तिष्ठ पुरुषि - किं स्वपिषि - भयं मे
समुपस्थितं - यदि शक्यं अशक्यं वा - तन्मे भगवति -
शमय स्वाहा ] एवं
न्यासमाचरेत् ॥
ध्यानम्
हेमप्रख्यामिन्दुखण्डात्ममौलीं शङ्खारीष्टाभीतिहस्तां
त्रिनेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां
दिव्यरूपां नमामि ॥
॥अथ श्री देव्याः नामावलिः॥
ॐ महिषमर्दिन्यै नमः ।
श्रीदेव्यै नमः ।
जगदात्मशक्त्यै नमः ।
देवगणशक्त्यै नमः ।
समूहमूर्त्यै नमः ।
अम्बिकायै नमः ।
अखिलजनपरिपालकायै नमः ।
महिषपूजितायै नमः ।
भक्तिगम्यायै नमः ।
विश्वायै नमः ।
प्रभासिन्यै नमः ।
भगवत्यै नमः ।
अनन्तमूर्त्यै नमः ।
चण्डिकायै नमः ।
जगत्परिपालिकायै नमः ।
अशुभनाशिन्यै नमः ।
शुभमतायै नमः ।
श्रियै नमः ।
सुकृत्यै नमः ।
लक्ष्म्यै नमः ।
पापनाशिन्यै नमः ।
बुद्धिरूपिण्यै नमः ।
श्रद्धारूपिण्यै नमः ।
कालरूपिण्यै नमः ।
लज्जारूपिण्यै नमः ।
अचिन्त्यरूपिण्यै नमः ।
अतिवीरायै नमः ।
असुरक्षयकारिण्यै नमः ।
भूमिरक्षिण्यै नमः ।
अपरिचितायै नमः ।
अद्भुतरूपिण्यै नमः ।
सर्वदेवतास्वरूपिण्यै नमः ।
जगदंशोद्भूतायै नमः ।
असत्कृतायै नमः ।
परमप्रकृत्यै नमः ।
समस्तसुमतस्वरूपायै नमः ।
तृप्त्यै नमः ।
सकलमुखस्वरूपिण्यै नमः ।
शब्दक्रियायै नमः ।
आनन्दसन्दोहायै नमः ।
विपुलायै नमः ।
ऋज्यजुस्सामाथर्वरूपिण्यै नमः ।
उद्गीतायै नमः ।
रम्यायै नमः ।
पदस्वरूपिण्यै नमः ।
पाठस्वरूपिण्यै नमः ।
मेधादेव्यै नमः ।
विदितायै नमः ।
अखिलशास्त्रसारायै नमः ।
दुर्गायै नमः ।
दुर्गाश्रयायै नमः ।
भवसागरनाशिन्यै नमः ।
कैटभहारिण्यै नमः ।
हृदयवासिन्यै नमः ।
गौर्यै नमः ।
शशिमौलिकृतप्रतिष्ठायै नमः ।
ईशत्सुहासायै नमः ।
अमलायै नमः ।
पूर्णचन्द्रमुख्यै नमः ।
कनकोत्तमकान्त्यै नमः ।
कान्तायै नमः ।
अत्यद्भुतायै नमः ।
प्रणतायै नमः ।
अतिरौद्रायै नमः ।
महिषासुरनाशिन्यै नमः ।
दृष्टायै नमः ।
भ्रुकुटीकरालायै नमः ।
शशाङ्कधरायै नमः ।
महिषप्राणविमोचनायै नमः ।
कुपितायै नमः ।
अन्तकस्वरूपिण्यै नमः ।
सद्योविनाशिकायै नमः ।
कोपवत्यै नमः ।
दारिद्र्यनाशिन्यै नमः ।
पापनाशिन्यै नमः ।
सहस्रभुजायै नमः ।
सहस्राक्ष्यै नमः ।
सहस्रपदायै नमः ।
श्रुत्यै नमः ।
रत्यै नमः ।
रमण्यै नमः ।
भक्त्यै नमः ।
भवसागरतारिकायै नमः ।
पुरुषोत्तमवल्लभायै नमः ।
भृगुनन्दिन्यै नमः ।
स्थूलजङ्घायै नमः ।
रक्तपादायै नमः ।
नागकुण्डलधारिण्यै नमः ।
सर्वभूषणायै नमः ।
कामेश्वर्यै नमः ।
कल्पवृक्षायै नमः ।
कस्तूरिधारिण्यै नमः ।
मन्दस्मितायै नमः ।
मदोदयायै नमः ।
सदानन्दस्वरूपिण्यै नमः ।
विरिञ्चिपूजितायै नमः ।
गोविन्दपूजितायै नमः ।
पुरन्दरपूजितायै नमः ।
महेश्वरपूजितायै नमः ।
किरीटधारिण्यै नमः ।
मणिनूपुरशोभितायै नमः ।
पाशाङ्कुशधरायै नमः ।
कमलधारिण्यै नमः ।
हरिचन्दनायै नमः ।
कस्तूरीकुङ्कुमायै नमः ।
अशोकभूषणायै नमः ।
शृङ्गारलास्यायै नमः ॥ॐ॥
॥अथ सप्तमदिनस्य चण्डिका पूजाविधिः॥
ॐ अस्यश्री महाचण्डी महामन्त्रस्य दीर्घतमा ऋषिः ककुप्
छन्दः श्री महाचण्डिका दुर्गा देवता ॥
[ ह्रां - ह्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
शशलाञ्छनसम्युतां त्रिनेत्रां
वरचक्राभयशङ्खशूलपाणिम् ।
असिखेटकधारिणीं महेशीं त्रिपुरारातिवधूं शिवां
स्मरामि ॥
मन्त्रः - ॐ ह्रीं श्च्यूं मं दुं दुर्गायै नमः ॐ ॥
॥अथ महाचण्डी नामावलिः॥
ॐ चण्डिकायै नमः ।
मङ्गलायै नमः ।
सुशीलायै नमः ।
परमार्थप्रबोधिन्यै नमः ।
दक्षिणायै नमः ।
दक्षिणामूर्त्यै नमः ।
सुदक्षिणायै नमः ।
हविःप्रियायै नमः ।
योगिन्यै नमः ।
योगाङ्गायै नमः ।
धनुःशालिन्यै नमः ।
योगपीठधरायै नमः ।
मुक्तायै नमः ।
मुक्तानां परमा गत्यै नमः ।
नारसिम्ह्यै नमः ।
सुजन्मने नमः ।
मोक्षदायै नमः ।
दूत्यै नमः ।
साक्षिण्यै नमः ।
दक्षायै नमः ।
दक्षिणायै नमः ।
सुदक्षायै नमः ।
कोटिरूपिण्यै नमः ।
क्रतुस्वरूपिण्यै नमः ।
कात्यायन्यै नमः ।
स्वस्थायै नमः ।
कविप्रियायै नमः ।
सत्यग्रामायै नमः ।
बहिःस्थितायै नमः ।
काव्यशक्त्यै नमः ।
काव्यप्रदायै नमः ।
मेनापुत्र्यै नमः ।
सत्यायै नमः ।
परित्रातायै नमः ।
मैनाकभगिन्यै नमः ।
सौदामिन्यै नमः ।
सदामायायै नमः ।
सुभगायै नमः ।
कृत्तिकायै नमः ।
कालशायिन्यै नमः ।
रक्तबीजवधायै नमः ।
दृप्तायै नमः ।
सन्तपायै नमः ।
बीजसन्तत्यै नमः ।
जगज्जीवायै नमः ।
जगद्बीजायै नमः ।
जगत्त्रयहितैषिण्यै नमः ।
स्वामिकरायै नमः ।
चन्द्रिकायै नमः ।
चन्द्रायै नमः ।
साक्षात्स्वरूपिण्यै नमः ।
षोडशकलायै नमः ।
एकपादायै नमः ।
अनुबन्धायै नमः ।
यक्षिण्यै नमः ।
धनदार्चितायै नमः ।
चित्रिण्यै नमः ।
चित्रमायायै नमः ।
विचित्रायै नमः ।
भुवनेश्वर्यै नमः ।
चामुण्डायै नमः ।
मुण्डहस्तायै नमः ।
चण्डमुण्डवधायै नमः ।
उद्धतायै नमः ।
अष्टम्यै नमः ।
एकादश्यै नमः ।
पूर्णायै नमः ।
नवम्यै नमः ।
चतुर्दश्यै नमः ।
अमावास्यै नमः ।
कलशहस्तायै नमः ।
पूर्णकुम्भधरायै नमः ।
धरित्र्यै नमः ।
अभिरामायै नमः ।
भैरव्यै नमः ।
गम्भीरायै नमः ।
भीमायै नमः ।
त्रिपुरभैरव्यै नमः ।
महचण्डायै नमः ।
महामुद्रायै नमः ।
महाभैरवपूजितायै नमः ।
अस्थिमालाधारिण्यै नमः ।
करालदर्शनायै नमः ।
कराल्यै नमः ।
घोरघर्घरनाशिन्यै नमः ।
रक्तदन्त्यै नमः ।
ऊर्ध्वकेशायै नमः ।
बन्धूककुसुमाक्षतायै नमः ।
कदम्बायै नमः ।
पलाशायै नमः ।
कुङ्कुमप्रियायै नमः ।
कान्त्यै नमः ।
बहुसुवर्णायै नमः ।
मातङ्ग्यै नमः ।
वरारोहायै नमः ।
मत्तमातङ्गगामिन्यै नमः ।
हम्सगतायै नमः ।
हम्सिन्यै नमः ।
हम्सोज्वलायै नमः ।
शङ्खचक्राङ्कितकरायै नमः ।
कुमार्यै नमः ।
कुटिलालकायै नमः ।
मृगेन्द्रवाहिन्यै नमः ।
देव्यै नमः ।
दुर्गायै नमः ।
वर्धिन्यै नमः ।
श्रीमहालक्ष्म्यै नमः ॥ॐ॥
॥अथ अष्टम दिनस्य सरस्वतीपूजा
विधिः ॥
ॐ अस्यश्री मातृकासरस्वती महामन्त्रस्य शब्द ऋषिः
लिपिगायत्री छन्दः श्री मातृका सरस्वती देवता ॥
ध्यानम्
पञ्चाषद्वर्णभेदैर्विहितवदनदोष्पादहृत्कुक्षिवक्षोदेशां
भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां
पद्मसंस्थां
अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥
मन्त्रः - अं आं इं ईं ........................ ळं
क्षं
॥अथ नामावलिः॥
ॐ सरस्वत्यै नमः ।
भगवत्यै नमः ।
कुरुक्षेत्रवासिन्यै नमः ।
अवन्तिकायै नमः ।
काश्यै नमः ।
मधुरायै नमः ।
स्वरमयायै नमः ।
अयोध्यायै नमः ।
द्वारकायै नमः ।
त्रिमेधायै नमः ।
कोशस्थायै नमः ।
कोशवासिन्यै नमः ।
कौशिक्यै नमः ।
शुभवार्तायै नमः ।
कौशाम्बरायै नमः ।
कोशवर्धिन्यै नमः ।
पद्मकोशायै नमः ।
कुसुमावासायै नमः ।
कुसुमप्रियायै नमः ।
तरलायै नमः ।
वर्तुलायै नमः ।
कोटिरूपायै नमः ।
कोटिस्थायै नमः ।
कोराश्रयायै नमः ।
स्वायम्भव्यै नमः ।
सुरूपायै नमः ।
स्मृतिरूपायै नमः ।
रूपवर्धनायै नमः ।
तेजस्विन्यै नमः ।
सुभिक्षायै नमः ।
बलायै नमः ।
बलदायिन्यै नमः ।
महाकौशिक्यै नमः ।
महागर्तायै नमः ।
बुद्धिदायै नमः ।
सदात्मिकायै नमः ।
महाग्रहहरायै नमः ।
सौम्यायै नमः ।
विशोकायै नमः ।
शोकनाशिन्यै नमः ।
सात्विकायै नमः ।
सत्यसंस्थापनायै नमः ।
राजस्यै नमः ।
रजोवृतायै नमः ।
तामस्यै नमः ।
तमोयुक्तायै नमः ।
गुणत्रयविभागिन्यै नमः ।
अव्यक्तायै नमः ।
व्यक्तरूपायै नमः ।
वेदवेद्यायै नमः ।
शाम्भव्यै नमः ।
कालरूपिण्यै नमः ।
शङ्करकल्पायै नमः ।
महासङ्कल्पसन्तत्यै नमः ।
सर्वलोकमया शक्त्यै नमः ।
सर्वश्रवणगोचरायै नमः ।
सार्वज्ञवत्यै नमः ।
वाञ्छितफलदायिन्यै नमः ।
सर्वतत्वप्रबोधिन्यै नमः ।
जाग्रतायै नमः ।
सुषुप्तायै नमः ।
स्वप्नावस्थायै नमः ।
चतुर्युगायै नमः ।
चत्वरायै नमः ।
मन्दायै नमः ।
मन्दगत्यै नमः ।
मदिरामोदमोदिन्यै नमः ।
पानप्रियायै नमः ।
पानपात्रधरायै नमः ।
पानदानकरोद्यतायै नमः ।
विद्युद्वर्णायै नमः ।
अरुणनेत्रायै नमः ।
किञ्चिद्व्यक्तभाषिण्यै नमः ।
आशापूरिण्यै नमः ।
दीक्षायै नमः ।
दक्षायै नमः ।
जनपूजितायै नमः ।
नागवल्ल्यै नमः ।
नागकर्णिकायै नमः ।
भगिन्यै नमः ।
भोगिन्यै नमः ।
भोगवल्लभायै नमः ।
सर्वशास्त्रमयायै नमः ।
विद्यायै नमः ।
स्मृत्यै नमः ।
धर्मवादिन्यै नमः ।
श्रुतिस्मृतिधरायै नमः ।
ज्येष्ठायै नमः ।
श्रेष्ठायै नमः ।
पातालवासिन्यै नमः ।
मीमाम्सायै नमः ।
तर्कविद्यायै नमः ।
सुभक्त्यै नमः ।
भक्तवत्सलायै नमः ।
सुनाभायै नमः ।
यातनालिप्त्यै नमः ।
गम्भीरभारवर्जितायै नमः ।
नागपाशधरायै नमः ।
सुमूर्त्यै नमः ।
अगाधायै नमः ।
नागकुण्डलायै नमः ।
सुचक्रायै नमः ।
चक्रमध्यस्थितायै नमः ।
चक्रकोणनिवासिन्यै नमः ।
जलदेवतायै नमः ।
महामार्यै नमः ।
श्री सरस्वत्यै नमः ॥ॐ॥
॥अथ नवमदिनस्य वागीश्वरी पूजाविधिः ॥
ॐ अस्यश्री वागीश्वरी महामन्त्रस्य कण्व ऋषिः विराट्
छन्दः श्री वागीश्वरी देवता ॥
[ ॐ वद - वद - वाक् - वादिनि - स्वाहा ] एवं
पंचाङ्गन्यासमेव समाचरेत् ॥
ध्यानम्
अमलकमलसंस्था लेखनीपुस्तकोद्यत्करयुगलसरोजा
कुन्दमन्दारगौरा ।
धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां
भङ्गिनी भारती नः ॥
मन्त्रः - ॐ वद वद वाग्वादिनि स्वाहा ॥
॥अथ वाग्वादिन्याः नामावलिः॥
ॐ वागीश्वर्यै नमः ।
सर्वमन्त्रमयायै नमः ।
विद्यायै नमः ।
सर्वमन्त्राक्षरमयायै नमः ।
वरायै नमः ।
मधुस्रवायै नमः ।
श्रवणायै नमः ।
भ्रामर्यै नमः ।
भ्रमरालयायै नमः ।
मातृमण्डलमध्यस्थायै नमः ।
मातृमण्डलवासिन्यै नमः ।
कुमारजनन्यै नमः ।
क्रूरायै नमः ।
सुमुख्यै नमः ।
ज्वरनाशिन्यै नमः ।
अतीतायै नमः ।
विद्यमानायै नमः ।
भाविन्यै नमः ।
प्रीतिमन्दिरायै नमः ।
सर्वसौख्यदात्र्यै नमः ।
अतिशक्तायै नमः ।
आहारपरिणामिन्यै नमः ।
निदानायै नमः ।
पञ्चभूतस्वरूपायै नमः ।
भवसागरतारिण्यै नमः ।
अर्भकायै नमः ।
कालभवायै नमः ।
कालवर्तिन्यै नमः ।
कलङ्करहितायै नमः ।
हरिस्वरूपायै नमः ।
चतुःषष्ट्यभ्युदयदायिन्यै नमः ।
जीर्णायै नमः ।
जीर्णवस्त्रायै नमः ।
कृतकेतनायै नमः ।
हरिवल्लभायै नमः ।
अक्षरस्वरूपायै नमः ।
रतिप्रीत्यै नमः ।
रतिरागविवर्धिन्यै नमः ।
पञ्चपातकहरायै नमः ।
भिन्नायै नमः ।
पञ्चश्रेष्ठायै नमः ।
आशाधारायै नमः ।
पऽचवित्तवातायै नमः ।
पङ्क्तिस्वरूपिण्यै नमः ।
पञ्चस्थानविभाविन्यै नमः ।
उदक्यायै नमः ।
व्रिषभाङ्कायै नमः ।
त्रिमूर्त्यै नमः ।
धूम्रकृत्यै नमः ।
प्रस्रवणायै नमः ।
बहिःस्थितायै नमः ।
रजसे नमः ।
शुक्लायै नमः ।
धराशक्त्यै नमः ।
जरायुषायै नमः ।
गर्भधारिण्यै नमः ।
त्रिकालज्ञायै नमः ।
त्रिलिङ्गायै नमः ।
त्रिमूर्त्यै नमः ।
पुरवासिन्यै नमः ।
अरागायै नमः ।
परकामतत्वायै नमः ।
रागिण्यै नमः ।
प्राच्यावाच्यायै नमः ।
प्रतीच्यायै नमः ।
उदीच्यायै नमः ।
उदग्दिशायै नमः ।
अहङ्कारात्मिकायै नमः ।
अहङ्कारायै नमः ।
बालवामायै नमः ।
प्रियायै नमः ।
स्रुक्स्रवायै नमः ।
समिध्यै नमः ।
सुश्रद्धायै नमः ।
श्राद्धदेवतायै नमः ।
मात्रे नमः ।
मातामह्यै नमः ।
तृप्तिरूपायै नमः ।
पितृमात्रे नमः ।
पितामह्यै नमः ।
स्नुषादायै नमः ।
दौहित्रदायै नमः ।
नादिन्यै नमः ।
पुत्र्यै नमः ।
श्वसायै व्प्रियायै नमः ।
स्तनदायै नमः ।
स्तनधरायै नमः ।
विश्वयोन्यै नमः ।
स्तनप्रदायै नमः ।
शिशुरूपायै नमः ।
सङ्गरूपायै नमः ।
लोकपालिन्यै नमः ।
नन्दिन्यै नमः ।
खट्वाङ्गधारिण्यै नमः ।
सखड्गायै नमः ।
सबाणायै नमः ।
भानुवर्तिन्यै नमः ।
विरुद्धाक्ष्यै नमः ।
महिषासृक्प्रियायै नमः ।
कौशिक्यै नमः ।
उमायै नमः ।
शाकम्भर्यै नमः ।
श्वेतायै नमः ।
कृष्णायै नमः ।
कैटभनाशिन्यै नमः ।
हिरण्याक्ष्यै नमः ।
शुभलक्षणायै नमः ॥ॐ॥
एवं तद्दिन दुर्गां समाराध्य यथा शक्ति
कुमारीपूजां ब्राह्मणसुवासिनीभ्यः
उपायनदानान्नदानादिकं च कृत्वा नवरात्रव्रतं
समापयेत् ॥
जय जय शङ्कर !
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः !
॥ इति हर्षानन्दनाथकृत कल्पोक्त
नवदुर्गापूजाविधेः सङ्ग्रहः ॥ ॥ शिवम् ॥
Encoded by R. Harshananda
% Text title : kalpokta navadurgaapuujaavidhiH
% File name : kalpoktanavadurgaapuujaa.itx
% itxtitle : navadurgApUjAvidhiH kalpoktA
% engtitle : kalpokta navadurgApUjAvidhiH
% Category : pUjA, devii, durgA, svara, devI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : svara
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : R. Harshananda harshanand_16 at rediffmail.com
% Indexextra : (kalpokta)
% Latest update : April 17, 2002
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
kalpokta navadurgāpūjāvidhiḥ
jaya jaya śaṅkara !
oṃ śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya
śrī candramaul̤īśvara parabrahmaṇe namaḥ !
oṃ durgā tvāryā bhagavatī kumārī ambikā tathā |
mahiṣonmardinī caiva caṇḍikā ca sarasvatī |
vāgīśvarīti kramaśaḥ proktāstaddinadevatāḥ ||
[ nirṇayasindhūdāhṛtavacanaiḥ amāvāsyāsambandha
rahitāyāmudayavyāpinyāṃ āśvinaśuklapratipadi navarātra
navadurgā vratamārabhet | tacca naktavratatvāt rātrau
kartavyamityekaḥ pakṣaḥ | sampradāyānurodhena vyavasthā | ]
|| prārthanā ||
navarātrau naktabhojī cariṣye'haṃ maheśvarī |
tvatprītyarthaṃ vrataṃ devi tadanujñātumarhasi ||
oṃ devīṃ vāca̭majanayanta devāstāṃ viśvarṷ̄pāḥ paśavo̭
vadanti |
sā no̭ mandreṣamūrjaṃ duhā̭nā dhenurvāgasmānupa
suṣṭutaitṷ ||
tadeva lagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva |
vidyābalaṃ daivabalaṃ tadeva lakṣmīpate te'ṃghriyugmaṃ
smarāmi ||
sumuhūrtamastu | supratiṣṭhitamastu | uttare karmaṇi
nairvighnyamastu ||
kariṣyamāṇasya karmaṇaḥ nirvighnena parisamāptyarthaṃ ādau
gurupūjāṃ gaṇapatiprārthanāṃ ca kariṣye ||
|| gurupūjā ||
oṃ guṃ gurubhyo namaḥ | oṃ paṃ paramagurubhyo namaḥ | oṃ paṃ
parameṣṭhigurubhyo namaḥ ||
gotrācāryebhyo namaḥ | bādarāyaṇāya namaḥ | śrī
śaṅkarabhagavatpādācāryāya namaḥ ||
prārthanāṃ samarpayāmi ||
|| gaṇapati prārthanā ||
ga॒ṇānāṃ᳚ tvā ga॒ṇapa̭tiṃ havāmahe ka॒viṃ ka̭vī॒nāmṷpa॒maśra̭vastamam |
jye॒ṣṭha॒rājaṃ॒ brahma̭ṇāṃ brahmaṇaspata॒ ā naḥ̭ śaṛ॒ṇvannū॒tibhiḥ̭ sīda॒ sāda̭nam || 2.023.01
vighneśvarāya namaḥ || śrī mahāgaṇapataye namaḥ || prārthanāṃ
samarpayāmi | karmakāle nairvighnyaṃ kuru ||
|| ghaṇṭānādaḥ ||
oṃ dhru॒vā dyaurdhru॒vā pṛ̭thi॒vī dhru॒vāsaḥ॒ parva̭tā
ime॒ |
dhru॒vaṃ viśva̭midaṃ jaga̭dhdru॒vo rājā̭ viśāmayam ||
oṃ yebhyo̭ mā॒tā madhṷma॒tpinva̭te॒ payaḥ̭ pī॒yūṣaṃ॒
dyauadi̭ti॒radri̭barhāḥ |
u॒ktaśṷṣmānvṛṣabharāntsvapna̭sa॒stā ā̭di॒tyā
anṷmadā sva॒stayḙ ||
oṃ e॒vā pi॒tre vi॒śvadḙvāya॒ vṛṣṇḙ
ya॒jñairvi̭dhema॒ nama̭sā havirbhiḥ̭ |
bṛha̭spate supra॒jā vī॒ravaṋto va॒yaṃ syā̭ma॒
pata̭yora॒yīṇām ||
oṃ āgamārthaṃ tu devānāṃ gamanārthaṃ tu rakṣasām |
kurve ghaṇṭāravaṃ tatra devatāhvānalāñchanam || [ iti
ghaṇṭānādaṃ kṛtvā ]
|| saṅkalpaḥ : ||
oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ |
prasanna vadanaṃ dhyāyet sarvavighnopaśāntaye ||
[ deśakālādau saṃkīrtya]
mamopātta samasta durita kṣayadvārā śrī durgāparameśvarī
prītyarthaṃ sarvāpacchāntipūrvaka
dīrghāyurvipuladhanadhānyaputrapautrādyanavacchinnasantativṛddhi
sthiralakṣmīkīrtilābhaśatruparājayasadabhīṣṭasiddharthaṃ
yathāsambhavadravyaiḥ yāvacchakti dhyānāvāhanādi
ṣoḍaśopacārapūjāṃ kariṣye ||
|| kalaśapūjanam ||
tadaṅgatvena kalaśapūjanaṃ kariṣye ||
[ phalapuṣpapatrādinā maṇṭapamalaṅkṛtya tanmadhye
taṇḍulāni sthāpayet | tadupari citravarṇena aṣṭadalapadmaṃ
likhitvā tanmadhye prakṣālitaṃ
svarṇarajatatāmramṛṇmayādyanyatamapātraṃ dhūpādinā viśodhya
saṃsthāpya vastreṇā'cchādya tatkalaśāntarāle pañcaphala
pañcapallava svarṇaracita durgā pratimāṃ godhūma dhānyopari
kalaśe sthāpayet ]
oṃ mahī dyauḥ pṛ̭thi॒vī ca̭ na i॒maṃ ya॒jñaṃ
mi̭mikṣatām |
pi॒pṛtāṃ no॒ bharī̭mabhiḥ || [ bhūmiṃ spṛṣṭvā ]
oṃ oṣa̭dayaḥ॒ saṃ va̭dante॒ somḙna sa॒ha rājñā̭ |
yasmai̭ kṛ॒ṇoti̭ brāhmaṇastaṃ rā̭jan pārayāma̭si ||
oṃ ā ka॒laśḙṣu dhāvati śye॒no varma॒ vi gā̭hate |
a॒bhi droṇā॒ kani̭kradat || [ iti kalaśamabhimantrya ]
oṃ tantuṃ̭ ta॒nvanraja̭so bhā॒numanvi̭hi॒ jyoti̭ṣmataḥ
pa॒tho ra̭kṣa dhi॒yā kṛ॒tān |
a॒nu॒lba॒ṇaṃ vaya̭ta॒ jogṷvā॒mapo॒ manṷrbhava
ja॒nayā॒ daivyaṃ॒ jana̭m || [ iti sūtraṃ saṃveṣṭya
oṃ i॒maṃ mḙ gaṅge yamune sarasvati॒ śutudri॒ stomaṃ̭
sacatā॒ pa॒ruṣṇyā |
a॒si॒knyā ma̭rudvṛdhe vi॒tasta॒yā''rjī̭kīye
śaṛṇu॒hyā su॒ṣoma̭yā || iti jalaṃ sampūrya
oṃ sa hi ratnā̭ni dā॒śuṣḙ su॒vāti̭ savi॒tā bhagaḥ̭ |
taṃ bhā॒gaṃ ci॒tramī̭mahe || iti pañcaratnāni nidhāya
oṃ a॒śva॒tthe vo̭ ni॒ṣada̭naṃ pa॒rṇe vo̭
vasa॒tiṣkṛ॒tā |
go॒bhāja itkilā̭satha॒ yatsa॒nava̭tha॒ pūrṷṣam || iti
pallavān nikṣipya
oṃ pū॒rṇā da̭rvī॒ parā̭ pata॒ supṷ̄rṇā॒ puna॒rāpata̭ |
va॒sneva॒ vi krī̭ṇāvahā॒ iṣa॒mūrjam̭̐ śatakrato ||
iti darvīṃ nikṣipya
oṃ yāḥ pha॒linī॒ryā a̭pha॒lā a̭pu॒ṣpā yāśca̭
puṣpiṇīḥ̭ |
bṛha॒spati̭prasūtā॒stā no̭ muñca॒tvaṃha̭saḥ ||
iti phalaṃ samarpya
oṃ gandha̭dvā॒rāṃ dṷrādha॒rṣāṃ nitya̭puṣṭāṃ
karī॒ṣiṇī̭m |
ī॒śva॒rīṃ॒ sa̭rvabhūtānāṃ॒ tāmi॒hopa̭hvaye॒
śriya̭m || iti gandham samarpya
oṃ arca̭ta॒ prārca̭ta॒ priya̭medhā so॒ arca̭ta |
arca̭ntu putra॒kā u॒ta puraṃ॒ na
dhṛ॒ṣṇva̭rcata || ityakṣatān nikṣipya
oṃ āya̭ne te pa॒rāya̭ṇe dūrvā̭ rohantu puṣpiṇīḥ̭ |
hra॒dāśca̭ pu॒ṇḍarī̭kāṇi samu॒drasya̭ gṛ॒hā
i॒me || iti puṣpāṇi samarpayet
oṃ pavitraṃ̭ te॒ vita̭taṃ brahmaṇaspate pra॒bhurgātrā̭ṇi॒
paryḙṣi viśvataḥ̭ |
ata̭ptanū॒rna tadā॒mo a̭śnute śaṛ॒tāsa॒
idvaha̭nta॒statsamā̭śata || iti śiraḥkūrcaṃ nidhāya
oṃ tattvāyāmītyasya mantrasya śunaḥśepa ṛṣiḥ triṣṭup chandaḥ
varuṇo devatā kalaśe varuṇāvāhane viniyogaḥ ||
oṃ tattvā̭ yāmi॒ brahma̭ṇā॒ vanda̭māna॒stadā śā̭ste
yaja̭mānoha॒virbhiḥ |
āhḙl̤amāno varuṇe॒ha bo॒dhyurṷśamsa॒māna॒ āyuḥ॒
pramo̭ṣīḥ || iti abhimantrayet
asmin kalaśe oṃ bhūḥ varuṇamāvāhayāmi | oṃ bhuvaḥ
varuṇamāvāhayāmi | oṃ svaḥ varuṇamāvāhayāmi |
oṃ bhūrbhuvassvaḥ varuṇamāvāhayāmi ||
kalaśasya mukhe viṣṇuḥ kaṇṭhe rudrāḥ samāśritāḥ | mūle tatra
sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||
kukṣau tu sāgarāssarve saptadvīpā vasundharā | ṛgvedo'tha
yajurvedaḥ sāmavedopyatharvaṇaḥ ||
aṅgaiśca sahitāḥ sarve kalaśaṃ tu samāśritāḥ | atra
gāyatrī sāvitrī śāntiḥ puṣṭikarī tathā |
āyāntu devīpūjārthaṃ duritakṣayakārakāḥ | sarve samudrāḥ
saritastīrthāni jaladā nadāḥ ||
gaṅge ca yamune caiva godāvarī sarasvatī | narmade sindhu
kāverī jale'smin sannidhiṃ kuru ||
sitamakaraniṣaṇṇāṃ śubhravastrāṃ trinetrāṃ
karadhṛtakalaśodyatsūtpalābhītyabhīṣṭām |
vidhiharihararūpāṃ sendukoṭīracūḍāṃ bhasitasitadukūlāṃ
jāhnavīṃ tāṃ namāmi ||
kalaśadevatābhyo namaḥ | prārthanāṃ samarpayāmi ||
|| śaṅkha pūjā ||
[bhūmiṃ prokṣya śaṅkhaṃ prakṣālya saṃsthāpya ]
oṃ śaṃ no̭ de॒vīra॒bhīṣṭa̭ya॒ ā̭po bhavantu pī॒tayḙ |
śaṃ yo ra॒bhisra̭vantu naḥ ||
[ iti mantreṇa jalaṃ pūrayitvā śaṅkha mudrāṃ
dhenumudrāṃ ca pradarśayet ]
jātavedasa ityasya mantrasya mārīcaḥ kaśyapa ṛṣiḥ triṣṭup
candaḥ jātavedāgnirdevatā agnikalāvāhane viniyogaḥ ||
oṃ jā॒tavḙdase sunavāma॒ soma̭marātīya॒to ni da̭hāti॒
vedaḥ̭ |
sa naḥ̭ parṣa॒dati̭ du॒rgāṇi॒ vi̭śvā nā॒veva॒ sindhuṃ̭
duri॒tātya॒gniḥ ||
oṃ bhūḥ agnikalāmāvāhayāmi | oṃ bhuvaḥ agnikalāmāvāhayāmi |
oṃ svaḥ agnikalāmāvāhayāmi |
oṃ bhūrbhuvassvaḥ agnikalāmāvāhayāmi ||
tatsaviturityasya mantrasya viśvāmitra ṛṣiḥ daivī gāyatrī
chandaḥ savitā devatā saurakalāvāhane viniyogaḥ ||
oṃ tatsa̭vi॒turvareṇyaṃ॒ bhargo̭ de॒vasya̭ dhīmahi | dhiyo॒
yo naḥ̭ praco॒dayā̭t ||
oṃ bhūḥ saurakalāmāvāhayāmi | oṃ bhuvaḥ
saurakalāmāvāhayāmi | oṃ svaḥ saurakalāmāvāhayāmi |
oṃ bhūrbhuvassvaḥ saurakalāmāvāhayāmi ||
tryambakamiti mantrasya maitrāvaruṇirvasiṣṭha ṛṣiḥ anuṣṭup
chandaḥ tryambaka rudro devatā amṛtakalāvāhane viniyogaḥ ||
oṃ trya̭mbakaṃ yajāmahe sugandhiṃ̭ puṣṭi॒vardha̭nam |
u॒rvā॒ru॒kami̭va bandha̭nā॒t mṛtyormṷkṣīya॒
māmṛtā̭t ||
oṃ bhūḥ amṛtakalāmāvāhayāmi | oṃ bhuvaḥ
amṛtakalāmāvāhayāmi | oṃ svaḥ amṛtakalāmāvāhayāmi |
oṃ bhūrbhuvassvaḥ amṛtakalāmāvāhayāmi ||
oṃ pavanagarbhāya vidmahe pāñcajanyāya dhīmahi tannaḥ śaṅkhaḥ
pracodayāt ||
[ iti trivāramarghyam ]
|| atha maṇṭapadhyānam ||
uttaptojjvalakāñcanena racitaṃ tuṅgāṅgaraṅgasthalam |
śuddhasphāṭikabhittikā viracitaiḥ stambhaiśca haimaiḥ
śubhaiḥ || dvāraiścāmara ratna rājikhacitaiḥ
śobhāvahairmaṇḍapaiḥ | tatrānyairapi cakraśaṅkhadhavalaiḥ
prodbhāsitaṃ svastikaiḥ ||
muktājālavilambimaṇṭapayutairvajraiśca sopānakaiḥ |
nānāratnavinirmitaiśca kalaśairatyantaśobhāvaham ||
māṇikyojjvaladīpadīptiracitaṃ lakṣmīvilāsāspadam |
dhyāyenmaṇṭapamarcaneṣu sakaleṣvevaṃ vidhaṃ sādhakaḥ ||
|| dvārapālaka pūjā ||
oṃ kṣetrapālāya namaḥ | oṃ siṃhāya namaḥ | oṃ garuḍāya namaḥ |
oṃ dvāraśriyai namaḥ | oṃ dhātryai namaḥ |
oṃ vidhātryai namaḥ | oṃ pūrvadvāraśriyai namaḥ | śaṅkhanidhaye
namaḥ | puṣpanidhaye namaḥ | dakṣiṇadvāraśriyai namaḥ | balāyai
namaḥ | prabalāyai namaḥ | pracaṇḍāyai namaḥ | paścima
dvāraśriyai namaḥ | jayāyai namaḥ | vijayāyai namaḥ | gaṅgāyai
namaḥ | yamunāyai namaḥ | uttaradvāraśriyai namaḥ | ṛgvedāya
namaḥ | yajurvedāya namaḥ | sāmavedāya namaḥ | atharvaṇavedāya
namaḥ | kṛtayugāya namaḥ | tretāyugāya namaḥ | dvāparayugāya
namaḥ | kaliyugāya namaḥ | pūrvasamudrāya namaḥ |
dakṣiṇasamudrāya namaḥ | paścimasamudrāya namaḥ |
uttarasamudrāya namaḥ | dvāradevatābhyo namaḥ | dvārapālaka
pūjāṃ samarpayāmi ||
|| pīṭhapūjā ||
oṃ ādhāraśaktyai namaḥ | mūlaprakṛtyai namaḥ | kūrmāya
namaḥ | anantāya namaḥ | vāstvadhipataye brahmaṇe namaḥ |
vāstupuruṣāya namaḥ | śveta dvīpāya namaḥ | svarṇamaṇḍapāya
namaḥ | amṛtārṇavāya namaḥ | ratnadvīpāya namaḥ |
navaratnamayamaṇḍapāya namaḥ | bhadrakamalāsanāyai namaḥ |
guṇādhipataye namaḥ | sarasvatyai namaḥ | durgāyai namaḥ |
kṣetrapālāya namaḥ | dharmāya namaḥ | jñānāya namaḥ |
vairāgyāya namaḥ | aiśvaryāya namaḥ | adharmāya namaḥ |
ajñānāya namaḥ | avairāgyāya namaḥ | anaiśvaryāya namaḥ |
avyaktavigrahāya namaḥ | anandakandāya namaḥ | ākāśabījātmane
buddhinālāya namaḥ | ākāśātmane karṇikāyai namaḥ |
vāyvātmane kesarebhyo namaḥ | agnyātmane dalebhyo namaḥ |
pṛthivyātmane pariveṣāya namaḥ | aṃ arkamaṇḍalāya
vasupradadvādaśakalātatvātmane namaḥ | uṃ somamaṇḍalāya
vasupradaṣoḍaśakalātatvātmane namaḥ | maṃ vahnimaṇḍalāya
vasupradadaśakalātatvātmane namaḥ | saṃ satvāya namaḥ | raṃ
rajase namaḥ | taṃ tamase namaḥ | viṃ vidyāyai namaḥ | āṃ
ātmane namaḥ | uṃ paramātmane namaḥ | maṃ antarātmane namaḥ | oṃ
hrīṃ jñānatmane namaḥ | pīṭhapūjāṃ samarpayāmi ||
|| āvāhanam ||
jātavedasa ityasya mantrasya kaśyapa ṛṣiḥ triṣṭup chandaḥ
jātavedāgnirdevatā durgāvāhane viniyogaḥ ||
oṃ jā॒tavḙdase sunavāma॒ soma̭marātīya॒to ni da̭hāti॒
vedaḥ̭ |
sa naḥ̭ parṣa॒dati̭ du॒rgāṇi॒ vi̭śvā nā॒veva॒ sindhuṃ̭
duri॒tātya॒gniḥ ||
oṃ bhūḥ durgāmāvāhayāmi | oṃ bhuvaḥ durgāmāvāhayāmi | oṃ
svaḥ durgāmāvāhayāmi |
oṃ bhūrbhuvassvaḥ durgāmāvāhayāmi ||
svāminyakhilalokeśī yāvatpūjāvasānakam | tāvattvaṃ
prītibhāvena bimbe'smin sannidhiṃ kuru ||
|| malāpakarṣaṇasnānam ||
oṃ agnimīl̤etyasya sūktasya vaiśvāmitromadhucchandā ṛṣiḥ
gāyatrī chandaḥ agnirdevatā ||
oṃ a॒gnimī̭l̤e pu॒rohi̭taṃ ya॒jñasya̭ de॒vamṛ॒tvija̭m |
hotā̭raṃ ra॒tnadhāta̭mam ||
a॒gniḥ pūrvḙbhi॒rṛṣi̭bhi॒rīḍyo॒ nūta̭nairu॒ta | sa
de॒vām̐ eha vakṣa̭ti ||
a॒gninā̭ ra॒yima̭ṣnava॒t poṣa̭me॒va di॒ve di̭ve |
ya॒śasaṃ̭ vī॒ravatṱamam ||
agnī॒ yaṃ ya॒jñamadhva̭raṃ vi॒śvataḥ̭ pari॒bhūrasi̭ | sa
idde॒veṣṷ gacchati ||
a॒gnirhotā̭ kavikra̭tuḥ sa॒tyaści॒traśra̭vastamaḥ | de॒vo
de॒vebhi॒rāgamat ||
śrī durgāparameśvaryai namaḥ | malāpakarṣaṇasnānaṃ
samarpayāmi ||
|| navaśakti pūjā ||
oṃ prabhāyai namaḥ | māyāyai namaḥ | jayāyai namaḥ | sūkṣmāyai
namaḥ | viśuddhāyai namaḥ | nandinyai namaḥ | suprabhāyai namaḥ |
vijayāyai namaḥ | sarvasiddhipradāyai namaḥ ||
oṃ namo bhagavatyai sakalaguṇaśaktiyuktāyai
yogapadmapīṭhātmikāyai namaḥ | suvarṇa mahāpīṭhaṃ kalpayāmi ||
svātmasaṃsthāmajāṃ śuddhāṃ tvāmadya parameśvarī |
araṇyāmiha havyāśaṃ mūrtāvāvāhayāmyaham ||
oṃ āṃ hrīṃ kroṃ yaralavaśaṣasaho'ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ prāṇāḥ iha prāṇāḥ |
oṃ āṃ hrīṃ kroṃ yaralavaśaṣasaho'ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ jīva iha sthitaḥ |
oṃ āṃ hrīṃ kroṃ yaralavaśaṣasaho'ṃ saṃ haṃsaḥ śrī
durgāparameśvaryāḥ sarvendriyāṇi iha sthitāni |
pṛthivyaptejovāyvākāśa
śabdasparśarūparasagandhaśrotratvakcakṣurjihvāghrāṇa
vākpāṇipādapāyūpasthavacanādānaviharaṇavisargānanda
manobuddhicittāhaṅkārajñānātmane antarātmane paramātmane
namaḥ || ihaivāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā ||
oṃ a̭sunīte॒ puna̭ra॒smāsu॒ cakṣuḥ॒ punaḥ̭ prā॒ṇami॒ha
no̭ dhe॒hi bhoga̭m |
jyok pa̭śyema॒ sūrya̭mu॒ccara̭nta॒manumate mṛ॒l̤ayā̭ naḥ
sva॒sti ||
oṃ bhūrbhuvassvaro'm | saśaktisāṅgasāyudhasavāhanasaparivāre
durge bhagavati atraivā'gacchā'gaccha āvāhayiṣye
āvāhayāmi ||
āvāhitā bhava | saṃsthāpitā bhava | sannihitā bhava |
sanniruddhā bhava | sammukhā bhava | avakuṇṭhito bhava | vyāptā
bhava | suprasannā bhava | mama sarvābhīṣṭa phalapradā bhava ||
[ taddinasya durgāyāḥ mūlamantrasya ṛṣyādi nyāsaṃ
vidhāya dhyātvā mūlamantraṃ yathā śakti japet ]
śrī durgāparameśvaryai namaḥ | dhyāyāmi dhyānaṃ
samarpayāmi | āvāhayāmi āvāhanaṃ samarpayāmi | arghyaṃ
samarpayāmi | pādyaṃ samarpayāmi | ācamanaṃ samarpayāmi |
madhuparkaṃ samarpayāmi | gandhaṃ samarpayāmi | puṣpaṃ
samarpayāmi | [ ityādi saṃkṣipta dhūpa dīpa naivedya
nīrājanādikaṃ kuryāt ]
|| pañcāmṛtasnānam ||
kṣīrasnānam
oṃ ā pyā̭yasva॒ sa̭metu te vi॒śvataḥ̭ soma॒ vṛṣ̭ṇiyam |
bhavā॒ vāja̭sya saṅga॒the ||
śrī durgāparameśvaryai namaḥ kṣīrasnānaṃ samarpayāmi ||
kṣīrasnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ jā॒tavḙdase sunavāma॒ soma̭marātīya॒to ni da̭hāti॒
vedaḥ̭ |
sa naḥ̭ parṣa॒dati̭ du॒rgāṇi॒ vi̭śvā nā॒veva॒ sindhuṃ̭
duri॒tātya॒gniḥ ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
dadhisnānam
oṃ da॒dhi॒krāvṇo̭ akāriṣaṃ
ji॒ṣṇoraśva̭syavā॒jinaḥ̭|sura॒bhi no॒ mukhā̭kara॒tpraṇa
āyūṃ̭ṣi tāriṣat|
śrī durgāparameśvaryai namaḥ dadhisnānaṃ samarpayāmi ||
dadhisnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ tāma॒gni̭varṇāṃ॒ tapa̭sā jva॒lantīṃ vai̭roca॒nīṃ
ka̭rmapha॒leṣu॒ juṣṭā̭m |
du॒rgāṃ॒ de॒vīṃ śara̭ṇama॒haṃ prapadyḙ suta॒ra̭si
tarase॒ namaḥ̭ ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
ghṛtasnānam
oṃ ghṛ॒taṃ mi̭mikṣe ghṛ॒tama̭sya॒ yoni̭rghṛ॒te
śri॒to ghṛtamva̭sya॒dhāma̭ |
a॒nu॒ṣva॒dhamā va̭ha mā॒daya̭sva॒ svāhā̭kṛtaṃ
vṛṣabha vakṣiha॒vyam ||
śrī durgāparameśvaryai namaḥ ghṛtasnānaṃ samarpayāmi ||
ghṛtasnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ agne॒ tvaṃ pā̭rayā॒ navyo̭ a॒smān sva॒stibhi॒rati̭
du॒rgāṇi॒ viśvā̭ |
pūśca̭ pṛ॒thvī ba̭hu॒lā na̭ u॒rvī bhavā̭ to॒kāya॒
tana̭yāya॒ śaṃ yoḥ ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
madhusnānam
oṃ madhu॒ vātā̭ ṛtāya॒te madhṷ kṣaranti॒ sindha̭vaḥ |
mādhvī̭rnaḥ sa॒ntvoṣa̭dhīḥ |
madhu॒nakta̭mu॒toṣasi॒ | madhṷma॒t pārthi̭vaṃ॒ rajaḥ̭ |
madhu॒ dyaura̭stu naḥ pi॒tā ||
madhṷmānno॒ vana॒spati॒rmadhṷmām̐ astu॒ sūryaḥ̭ |
mādhvī॒rgāvo̭ bhavantu naḥ ||
śrī durgāparameśvaryai namaḥ madhusnānaṃ samarpayāmi ||
madhusnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ viśvā̭ni no du॒rgahā̭ jātavedaḥ॒ sindhuṃ॒ na nā॒vā
dṷri॒tāti̭ parṣi |
agnī̭' atri॒vannama̭sā gṛṇā॒no''smākaṃ̭ bodhya vi॒tā
ta॒nūnā̭m ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
śarkarāsnānam
oṃ svā॒duḥ pa̭vasva di॒vyāya॒ janma̭ne svā॒durindrā̭ya
su॒havī̭tunāmne |
svā॒durmitrāya॒ varṷṇāya vā॒yave॒ bṛha॒spata̭ye॒
madhṷmām̐ adā̭bhyaḥ ||
śrī durgāparameśvaryai namaḥ śarkarāsnānaṃ samarpayāmi ||
śarkarāsnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ pṛ॒ta॒nā॒ ji॒ta॒gaṃ saha̭mānamu॒gramagniṃ hṷvema
pa॒ramātsa॒dhastā̭t |
sa naḥ̭ parṣa॒dati̭ du॒rgāṇi॒ viśvā kṣāma̭dde॒vo'ti̭
duritātyagniḥ ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
phalodakasnānam
oṃ yāḥ pha॒linī॒ryā a̭pha॒lā a̭pu॒ṣpā yāśca̭
puṣpiṇīḥ̭ |
bṛha॒spati̭prasūtā॒stā no̭ muñca॒tvaṃha̭saḥ ||
śrī durgāparameśvaryai namaḥ phalodakasnānaṃ samarpayāmi ||
phalodakasnānānantaraṃ śuddhodakena snapayiṣye ||
oṃ āpo॒hiṣṭhā ma̭yo॒bhuva॒stāna̭ū॒rje da̭dhā॒tana |
ma॒heraṇā̭ya cakṣa̭se yo vaḥ̭ śi॒vatamo॒ rasaḥ॒ |
tasya̭ bhājayate॒ hanaḥ̭ u॒śa॒tīri̭va mā॒taraḥ̭ |
tasmā॒ araṅgamāmavaḥ॒ |
yasya॒kṣayā̭ya॒ jinva̭tha āpo̭ ja॒naya̭thā ca naḥ ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
amṛtābhiṣekam
[ śrīsūkta- durgā sūkta - rudrādyaiḥ amṛtābhiṣekaṃ
kuryāt ]
śrī durgāparameśvaryai namaḥ amṛtābhiṣekasnānaṃ
samarpayāmi ||
|| kalpokta
ṣoḍaśopacāra pūjā ||
dhyānam
oṃ durgāṃ bhagavatīṃ dhyāyenmūlamantrādhidevatām | vāṇīṃ
lakṣmīṃ mahādevīṃ mahāmāyāṃ vicintayet |
māhiṣaghnīiṃ daśabhujāṃ kumārīṃ siṃhavāhinīm |
dānavāstarjayantī ca sarvakāmadughāṃ śivām ||
śrī durgāparameśvaryai namaḥ dhyāyāmi dhyānaṃ samarpayāmi ||
āvāhanam
oṃ vāk śrīdurgādirūpeṇa viśvamāvṛtya tiṣṭhati |
āvāhayāmi tvāṃ devi samyak sannihitā bhava ||
śrī durgāparameśvaryai namaḥ āvāhayāmi āvāhanaṃ
samarpayāmi ||
āsanam
oṃ bhadrakāli namaste'stu bhaktānāmīpsitārthade |
svarṇasiṃhāsanaṃ cāru prītyarthaṃ pratigṛhyatām ||
śrī durgāparameśvaryai namaḥ āsanaṃ samarpayāmi ||
svāgatam
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite | kṛtāñjalipuṭo
bhaktyā svāgataṃ kalpayāmyaham ||
śrī durgāparameśvaryai namaḥ svāgataṃ samarpayāmi ||
arghyam
oṃ mahālakṣmi mahāmaye mahāvidyāsvarūpiṇī |
arghyapādyācamān devi gṛhāṇa parameśvarī ||
śrī durgāparameśvaryai namaḥ arghya-pādya-ācamanāni
samarpayāmi ||
madhuparkam
oṃ dūrvāṅkurasamāyuktaṃ gandhādisumanoharam | madhuparkaṃ
mayā dattaṃ nārāyaṇi namo'stute ||
śrī durgāparameśvaryai namaḥ madhuparkaṃ samarpayāmi ||
pañcāmṛtasnānam
oṃ snānaṃ pañcāmṛtaṃ devi bhadrakāli jaganmayi | bhaktyā
niveditaṃ tubhyaṃ viśveśvari namo'stute ||
śrī durgāparameśvaryai namaḥ pañcāmṛtasnānaṃ
samarpayāmi ||
śuddhodakasnānam
oṃ śuddhodakasamāyuktaṃ gaṅgāsalilamuttamam | snānaṃ gṛhāṇa
deveśi bhadrakāli namo'stute ||
śrī durgāparameśvaryai namaḥ śuddhodakasnānaṃ samarpayāmi ||
vastram
oṃ vastraṃ gṛhāṇa deveśi devāṅgasadṛśaṃ navam |
viśveśvari mahāmāye nārāyaṇi namo'stute ||
śrī durgāparameśvaryai namaḥ ratnadukūlavastraṃ samarpayāmi ||
kañcukam
oṃ godāvari namastubhyaṃ sarvābhīṣṭapradāyini |
sarvalakṣaṇasaṃbhūte durge devi namo'stute ||
śrī durgāparameśvaryai namaḥ ratnakañcukaṃ samarpayāmi ||
yajñopavītam
oṃ takṣakānantakarkoṭa nāgayajñopavītini | sauvarṇaṃ
yajñasūtraṃ te dadāmi harisevite ||
śrī durgāparameśvaryai namaḥ svarṇayajñopavītaṃ samarpayāmi ||
ābharaṇam
oṃ nānāratnavicitrāḍhyān valayān sumanoharān | alaṅkārān
gṛhāṇa tvaṃ mamābhīṣṭapradā bhava||
śrī durgāparameśvaryai namaḥ ābharaṇāni samarpayāmi ||
gandhaḥ
oṃ gandhaṃ candanasaṃyuktaṃ kuṅkumādivimiśritam | gṛhṇīṣva
devi lokeśi jaganmātarnamo'stute ||
śrī durgāparameśvaryai namaḥ gandhaṃ samarpayāmi ||
bilvagandhaḥ
oṃ bilvavṛkṣakṛtāvāse bilvapatrapriye śubhe |
bilvavṛkṣasamudbhūto gandhaśca pratigṛhyatām ||
śrī durgāparameśvaryai namaḥ bilvagandhaṃ samarpayāmi ||
akṣatāḥ
oṃ akṣatān śubhadān devi haridrācūrṇamiśritān |
pratigṛhṇīṣva kaumāri durgādevi namo'stute ||
śrī durgāparameśvaryai namaḥ akṣatān samarpayāmi ||
puṣpāṇi
oṃ mālatībilvamandārakundajātivimiśritam | puṣpaṃ gṛhāṇa
deveśi sarvamaṅgaladā bhava ||
śivapatni śive devi śivabhaktabhayāpahe | droṇapuṣpaṃ mayā
dattaṃ gṛhāṇa śivadā bhava ||
śrī durgāparameśvaryai namaḥ nānāvidha parimal̤a patrapuṣpāṇi
samarpayāmi ||
|| atha aṅgapūjā ||
oṃ vārāhyai namaḥ pādau pūjayāmi |
oṃ cāmuṇḍāyai namaḥ jaṅghe pūjayāmi |
oṃ māhendryai namaḥ jānunī pūjayāmi |
oṃ vāgīśvaryai namaḥ ūrū pūjayāmi |
oṃ brahmāṇyai namaḥ guhyaṃ pūjayāmi |
oṃ kālarātryai namaḥ kaṭiṃ pūjayāmi |
oṃ jaganmāyāyai namaḥ nābhiṃ pūjayāmi |
oṃ māheśvaryai namaḥ kukṣiṃ pūjayāmi |
oṃ sarasvatyai namaḥ hṛdayaṃ pūjayāmi |
oṃ kātyāyanyai namaḥ kaṇṭhaṃ pūjayāmi |
oṃ śivadūtyai namaḥ hastān pūjayāmi |
oṃ nārasiṃhyai namaḥ bāhūn pūjayāmi |
oṃ indrāṇyai namaḥ mukhaṃ pūjayāmi |
oṃ śivāyai namaḥ nāsikāṃ pūjayāmi |
oṃ śatākṣyai namaḥ karṇau pūjayāmi |
oṃ tripurahaṃtryai namaḥ netratrayaṃ pūjayāmi |
oṃ parameśvaryai namaḥ lalāṭaṃ pūjayāmi |
oṃ śākambharyai namaḥ śiraḥ pūjayāmi |
oṃ kauśikyai namaḥ sarvāṇi aṅgāni pūjayāmi ||
|| atha āvaraṇa pūjā ||
prathamāvaraṇam
[taddinadurgāyaḥ aṅganyāsamantrādyaiḥ
prathamāvaraṇamācaret ]
dvitīyāvaraṇam
oṃ jayāyai namaḥ |
oṃ vijayāyai namaḥ |
oṃ kīrtyai namaḥ |
oṃ prītyai namaḥ |
oṃ prabhāyai namaḥ |
oṃ śraddhāyai namaḥ |
oṃ medhāyai namaḥ |
oṃ sarasvatyai namaḥ |
oṃ śrutyai namaḥ |
tṛtīyāvaṇam
oṃ cakrāya namaḥ |
oṃ śaṅkhāya namaḥ |
oṃ gadāyai namaḥ |
oṃ khaḍgāya namaḥ |
oṃ pāśāya namaḥ |
oṃ aṅkuśāya namaḥ |
oṃ śarāya namaḥ |
oṃ dhanuṣe namaḥ |
turīyāvaraṇam
oṃ indrāya surādhipataye pītavarṇāya vajrahastāya
airāvatavāhanāya śacīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ agnaye tejo'dhipataye piṅgalavarṇāya śaktihastāya
meṣavāhanāya svāhādevīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ yamāya pretādhipataye kṛṣṇavarṇāya daṇḍahastāya
mahiṣavāhanāya ilāsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ nirṛtaye rakṣo'dhipataye raktavarṇāya khaḍgahastāya
naravāhanāya kālikāsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ varuṇāya jalādhipataye śvetavarṇāya pāśahastāya
makaravāhanāya padminīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ vāyave prāṇādhipataye dhūmravarṇāya aṅkuśahastāya
mṛgavāhanāya mohinīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ somāya nakṣatrādhipataye śyāmalavarṇāya gadāhastāya
aśvavāhanāya citriṇīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ īśānāya vidyādhipataye sphaṭikavarṇāya triśūlahastāya
vṛṣabhavāhanāya gaurīsahitāya saśaktisāṅgasāyudha
savāhana saparivārāya śrī durgāpārṣadāya namaḥ |
oṃ brahmaṇe lokādhipataye hiraṇyavarṇāya padmahastāya
haṃsavāhanāya vāṇīsahitāya saśaktisāṅgasāyudha savāhana
saparivārāya śrī durgāpārṣadāya namaḥ |
pañcamāvaraṇam
oṃ vajrāya namaḥ |
oṃ śaktyai namaḥ |
oṃ daṇḍāya namaḥ |
oṃ khaḍgāya namaḥ |
oṃ pāśāya namaḥ |
oṃ aṅkuśāya namaḥ |
oṃ gadāyai namaḥ |
oṃ śūlāya namaḥ |
oṃ cakrāya namaḥ |
oṃ padmāya namaḥ |
bilvapatram
oṃ śrīvṛkṣamamṛtodbhūtaṃ mahādevī priyaṃ sadā |
bilvapatraṃ prayacchāmi pavitraṃ te sureśvarī ||
śrī durgāparameśvaryai namaḥ bilvapatraṃ samarpayāmi ||
|| atha puṣpapūjā ||
oṃ durgāyai namaḥ tulasī puṣpaṃ samarpayāmi
oṃ kātyāyanyai namaḥ campakapuṣpaṃ samarpayāmi
oṃ kaumāryai namaḥ jātī puṣpaṃ samarpayāmi
oṃ kālyai namaḥ ketakī puṣpaṃ samarpayāmi
oṃ gauryai namaḥ karavīrapuṣpaṃ samarpayāmi
oṃ lakṣmyai namaḥ utpalapuṣpaṃ samarpayāmi
oṃ sarvamaṅgalāyai namaḥ mallikāpuṣpaṃ samarpayāmi
oṃ indrāṇyai namaḥ yūthikāpuṣpaṃ samarpayāmi
oṃ sarasvatyai namaḥ kamalapuṣpaṃ samarpayāmi
oṃ śrī bhagavatyai namaḥ sarvāṇi puṣpāṇi samarpayāmi ||
|| atha catuḥṣaṣṭiyoginī pūjā ||
[ sarvādau oṃkāraṃ yojayet ]
oṃ divyayogāyai namaḥ |
mahāyogāyai namaḥ |
siddhayogāyai namaḥ |
gaṇeśvaryai namaḥ |
pretāśyai namaḥ |
ḍākinyai namaḥ |
kālyai namaḥ |
kālarātryai namaḥ |
niśācaryai namaḥ |
jhaṅkāryai namaḥ |
ūrdhvabhetālyai namaḥ |
piśācyai namaḥ |
bhūtaḍāmaryai namaḥ |
ūrdhvakeśyai namaḥ |
virūpākṣyai namaḥ |
śuśkāṅgyai namaḥ |
narabhojinyai namaḥ |
rākṣasyai namaḥ |
ghoraraktākṣyai namaḥ |
viśvarūpyai namaḥ |
bhayaṅkaryai namaḥ |
bhrāmaryai namaḥ |
rudrabhetālyai namaḥ |
bhīṣmaryai namaḥ |
tripurāntakyai namaḥ |
bhairavyai namaḥ |
dhvaṃsinyai namaḥ |
krodhyai namaḥ |
durmukhyai namaḥ |
pretavāhinyai namaḥ |
khaṭvāṅgyai namaḥ |
dīrghalamboṣṭhyai namaḥ |
mālinyai namaḥ |
mantrayoginyai namaḥ |
kauśikyai namaḥ |
mardinyai namaḥ |
yakṣyai namaḥ |
romajaṅghāyai namaḥ |
prahāriṇyai namaḥ |
kālāgnaye namaḥ |
grāmaṇyai namaḥ |
cakryai namaḥ |
kaṅkālyai namaḥ |
bhuvaneśvaryai namaḥ |
yamadūtyai namaḥ |
phaṭkāryai namaḥ |
vīrabhadreśyai namaḥ |
dhūmrākṣyai namaḥ |
kalahapriyāyai namaḥ |
kaṇṭakyai namaḥ |
nāṭakyai namaḥ |
māryai namaḥ |
karālinyai namaḥ |
sahasrākṣyai namaḥ |
kāmalolāyai namaḥ |
kākadaṃṣṭrāyai namaḥ |
adhomukhyai namaḥ |
dhūrjaṭyai namaḥ |
vikaṭyai namaḥ |
ghoryai namaḥ |
kapālyai namaḥ |
viṣalaṅghinyai namaḥ || oṃ ||
|| atha āśṭabhairavapūjā ||
oṃ asitāṅgabhairavāya namaḥ |
oṃ krodhabhairavāya namaḥ |
oṃ rurubhairavāya namaḥ |
oṃ caṇḍabhairavāya namaḥ |
oṃ kapālabhairavāya namaḥ |
oṃ khaṭvāṅgabhairavāya namaḥ |
oṃ unmattabhairavāya namaḥ |
oṃ bhīṣaṇabhairavāya namaḥ |
|| atha aṣṭottaraśatanāma pūjā ||
[ atra taddinadurgāyāḥ nāmāvalīṃ smaret ]
|| atha dhūpaḥ ||
oṃ saguggulvagarūśīra gandhādi sumanoharam | dhūpaṃ gṛhāṇa
deveśi durge devi namo'stute ||
śrī durgāparameśvaryai namaḥ dhūpamāghrāpayāmi ||
|| atha dīpaḥ ||
oṃ paṭṭasūtrollasadvarti goghṛtena samanvitam | dīpaṃ
jñānapradaṃ devi gṛhāṇa parameśvarī ||
śrī durgāparameśvaryai namaḥ dīpaṃ darśayāmi ||
|| atha naivedyam ||
oṃ juṣāṇa devi naivedyaṃ nānābhakṣyaiḥ samanvitam |
paramānnaṃ mayā dattaṃ sarvābhīṣṭaṃ prayaccha me ||
śrī durgāparameśvaryai namaḥ mahānaivedyaṃ samarpayāmi ||
|| atha pānīyam ||
oṃ gaṅgādisalilodbhūtaṃ pānīyaṃ pāvanaṃ śubham |
svādūdakaṃ mayā dattaṃ gṛhāṇa parameśvarī ||
śrī durgāparameśvaryai namaḥ amṛtapānīyaṃ samarpayāmi ||
|| atha tāmbūlam ||
oṃ pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
karpūracūrṇasaṃyuktaṃ tāmbūlaṃ pratigṛhyatām ||
śrī durgāparameśvaryai namaḥ tāmbūlaṃ samarpayāmi ||
|| atha nīrājanam ||
oṃ paṭṭisūtravicitrāḍhyaiḥ prabhāmaṇḍalamaṇḍitaiḥ |
dīpairnīrājaye devīṃ praṇavādyaiśca nāmabhiḥ ||
śrī durgāparameśvaryai namaḥ divyamaṅgalanīrājanaṃ
samarpayāmi ||
|| atha mantrapuṣpam ||
oṃ pā॒va॒kā naḥ॒ sa̭rasvatī vājḙbhirvājinī̭vatī |
yajñaṃ॒ va̭ṣṭu dhi॒yāva̭suḥ ||
gau॒rīrmi̭māya sali॒lāni॒ takṣatyeka̭padī dvi॒padī॒ sā
catṷṣpadī |
a॒ṣṭāpa̭dī॒ nava̭padī babhū॒vuṣī̭ sa॒hasrā̭kṣarā
para॒me vyo̭man ||
oṃ rā॒jā॒dhi॒rā॒jāya̭ prasahyasā॒hinḙ namo̭ va॒yaṃ
vai̭śrava॒ṇāya̭ kurmahe |
same॒kāmā॒nkāma॒kāmā̭ya॒ mahyaṃ̭ kā॒me॒śva॒ro
vai̭śrava॒ṇo da̭dātu |
kube॒rāya̭ vaiśrava॒ṇāya̭ mahā॒rā॒jāya॒ namaḥ̭ ||
oṃ gandhapuṣpākṣatairyuktamañjalīkarapūrakaiḥ | mahālakṣmi
namaste'stu mantrapuṣpaṃ gṛhāṇa bho ||
śrī durgāparameśvaryai namaḥ vedokta mantrapuṣpaṃ
samarpayāmi ||
|| atha pradakṣiṇanamaskāraḥ ||
oṃ mahādurge namaste'stu sarveṣṭaphaladāyini | pradakṣiṇāṃ
karomi tvāṃ prīyatāṃ śivavallabhe ||
śrī durgāparameśvaryai namaḥ pradakṣiṇanamaskārān
samarpayāmi ||
|| atha prārthanā ||
oṃ jaya rudre virūpākṣi jayātīte nirañjanī | jaya
kalyāṇasukhade jaya maṅgalade śubhe ||
jaya siddhamunīndrādi vanditāṃghrisaroruhe | jaya viṣṇupriye
devi jaya bhūtavibhūtide ||
jaya ratnapradīptābhe jaya hemavibhāsite | jaya bālendutilake
tryambake jaya vṛddhide ||
sarvalakṣmīprade devi sarvarakṣāpradā bhava |
dharmārthakāmamokṣākhya caturvargaphalaprade ||
śailaputri namaste'stu brahmacāriṇi te namaḥ | kālarātri
namaste'stu nārāyaṇi namo'stute ||
madhukaiṭabhahāriṇyai namo mahiṣamardinī | dhūmralocananirnāśe
caṇḍamuṇḍavināśini ||
raktabījavadhe devi niśumbhāsuraghātinī | namaḥ |
śumbhāpahāriṇyai tryailokyavarade namaḥ ||
devi dehi paraṃ rūpaṃ devi dehi paraṃ sukham | dharmaṃ dehi
dhanaṃ dehi sarvakāmāṃśca dehi me ||
suputrāṃśca paśūn kośān sukṣetrāṇi sukhāni ca | devi dehi
paraṃ jñānamiha mukti sukhaṃ kuru ||
śrī durgāparameśvaryai namaḥ prārthanāṃ samarpayāmi ||
|| atha prasannārghyam ||
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite | bilvārghyaṃ ca
mayā dattaṃ deveśi pratigṛhyatām ||
jñāneśvari gṛhāṇedaṃ sarvasaukhyavivardhini |
gṛhāṇārghyaṃ mayā dattaṃ deveśi varadā bhava ||
śrī durgāparameśvaryai namaḥ bilvapatrārghyaṃ samarpayāmi ||
|| atha punaḥ pūjā ||
oṃ kātyāyanyai namaḥ dhyānaṃ samarpayāmi
oṃ kaumāryai namaḥ āvāhanaṃ samarpayāmi
oṃ vindhyavāsinyai namaḥ āsanaṃ samarpayāmi
oṃ maheśvaryai namaḥ pādyaṃ samarpayāmi
oṃ sitāmbhojāyai namaḥ arghyaṃ samarpayāmi
oṃ nārasiṃhyai namaḥ ācamanīyaṃ samarpayāmi
oṃ mahādevyai namaḥ madhuparkaṃ samarpayāmi
oṃ dayāvatyai namaḥ punarācamanīyaṃ samarpayāmi
oṃ śākaṃbharyai namaḥ snānaṃ samarpayāmi
oṃ durgāyai namaḥ vastraṃ samarpayāmi
oṃ sarasvatyai namaḥ ābharaṇāni samarpayāmi
oṃ medhāyai namaḥ gandhaṃ samarpayāmi
oṃ sarvavidyāpradāyai namaḥ akṣatān samarpayāmi
oṃ sarvasiddhipradāyai namaḥ puṣpāṇi samarpayāmi
oṃ mahāvidyāyai namaḥ dhūpaṃ samarpayāmi
oṃ sapatnikāyai namaḥ dīpaṃ samarpayāmi
oṃ śāntyai namaḥ naivedyaṃ samarpayāmi
oṃ umāyai namaḥ hastaprakṣāl̤anaṃ samarpayāmi
oṃ caṇḍikāyai namaḥ tāmbūlaṃ samarpayāmi
oṃ cāmuṇḍāyai namaḥ nīrājanaṃ samarpayāmi
oṃ māhākālyai namaḥ mantrapuṣpaṃ samarpayāmi
oṃ śivadūtyai namaḥ pradakṣiṇāni samarpayāmi
oṃ śivāyai namaḥ namaskārān samarpayāmi
śrī durgā parameśvaryai namaḥ ṣoḍaśopacāra pūjāṃ
samarpayāmi ||
|| atha bilvapatrārpaṇam ||
oṃ siddhalakṣmīrmokṣalakṣmīrjayalakṣmīḥ sarasvatī|
śrīlakṣmīrvaralakṣmīśca prasannā mama sarvadā ||
sarvamaṅgala māṅgalye śive sarvārthasādhike | śaraṇye
tryambike gauri nārāyaṇi namo'stute ||
śrī durgā parameśvaryai namaḥ bilavapatrārcanaṃ
samarpayāmi ||
|| atha pūjā samarpaṇam ||
oṃ mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatkṛtaṃ tu mayā devi paripūrṇaṃ tadastu te ||
anena mayā kṛta durgāpūjākhya karmaṇā śrī parameśvaro śrī
paradevatā ca prīyatām ||
[ yathāśakti brāhmaṇa-dampati-kumārī vargabhojanaṃ
kārayet ]
|| iti durgāpūjāvidhiḥ sampūrṇaḥ ||
|| prathama dinasya mahādurgā pūjāvidhiḥ ||
asyaśrī mūladurgā mahāmantrasya nārada ṛṣiḥ gāyatrī
chandaḥ śrī durgā devatā ||
[ hrāṃ hrīṃ ityādinā nyāsamācaret ]
dhyānam
śaṅkhāricāpaśarabhinnakarāṃ trinetrāṃ
tigmetarāṃśukalayāṃ vilasatkirīṭām |
siṃhasthitāṃ sasurasiddhanatāṃ ca durgāṃ dūrvānibhāṃ
duritavargaharāṃ namāmi ||
mantraḥ oṃ hrīṃ duṃ durgāyai namaḥ ||
|| atha śrī durgā'ṣṭottaraśatanāmāvaliḥ ||
asyaśrī durgā'ṣṭottaraśatanāma mahāmantrasya nārada ṛṣiḥ
gāyatrī chandaḥ śrī durgā devatā parameśvarīti bījaṃ
kṛṣṇānujeti śaktiḥ śāṅkarīti kīlakaṃ
durgāprasādasiddhyarthe jape viniyogaḥ ||
dhyānam
prakāśamadhyasthitacitsvarūpāṃ varābhaye saṃdadhatīṃ
trinetrām |
sindūravarṇāmatikomalāṅgīṃ māyāmayīṃ tattvamayīṃ namāmi ||
oṃ durgāyai namaḥ |
dāridryaśamanyai namaḥ |
duritaghnyai namaḥ |
lakṣmyai namaḥ |
lajjāyai namaḥ |
mahāvidyāyai namaḥ |
śraddhāyai namaḥ |
puṣṭyai namaḥ |
svadhāyai namaḥ |
dhruvāyai namaḥ |
mahārātryai namaḥ |
mahāmāyāyai namaḥ |
medhāyai namaḥ |
mātre namaḥ |
sarasvatyai namaḥ |
śivāyai namaḥ |
śaśidharāyai namaḥ |
śāntāyai namaḥ |
śāmbhavyai namaḥ |
bhūtidāyinyai namaḥ |
tāmasyai namaḥ |
niyatāyai namaḥ |
nāryai namaḥ |
kālyai namaḥ |
nārāyaṇyai namaḥ |
kalāyai namaḥ |
brāhmyai namaḥ |
vīṇādharāyai namaḥ |
vāṇyai namaḥ |
śāradāyai namaḥ |
haṃsavāhinyai namaḥ |
triśūlinyai namaḥ |
trinetrāyai namaḥ |
īśānāyai namaḥ |
trayyai namaḥ |
trayatamāyai namaḥ |
śubhāyai namaḥ |
śaṅkhinyai namaḥ |
cakriṇyai namaḥ |
ghorāyai namaḥ |
karālyai namaḥ |
mālinyai namaḥ |
matyai namaḥ |
māheśvaryai namaḥ |
maheṣvāsāyai namaḥ |
mahiṣaghnyai namaḥ |
madhuvratāyai namaḥ |
mayūravāhinyai namaḥ |
nīlāyai namaḥ |
bhāratyai namaḥ |
bhāsvarāmbarāyai namaḥ |
pītāmbaradharāyai namaḥ |
pītāyai namaḥ |
kaumāryai namaḥ |
pīvarastanyai namaḥ |
rajanyai namaḥ |
rādhinyai namaḥ |
raktāyai namaḥ |
gadinyai namaḥ |
ghaṇṭinyai namaḥ |
prabhāyai namaḥ |
śumbhaghnyai namaḥ |
subhagāyai namaḥ |
subhruve namaḥ |
niśumbhaprāṇahāriṇyai namaḥ |
kāmākṣyai namaḥ |
kāmukāyai namaḥ |
kanyāyai namaḥ |
raktabījanipātinyai namaḥ |
sahasravadanāyai namaḥ |
sandhyāyai namaḥ |
sākṣiṇyai namaḥ |
śāṅkaryai namaḥ |
dyutaye namaḥ |
bhārgavyai namaḥ |
vāruṇyai namaḥ |
vidyāyai namaḥ |
dharāyai namaḥ |
dharāsurārcitāyai namaḥ |
gāyatryai namaḥ |
gāyakyai namaḥ |
gaṅgāyai namaḥ |
durgāyai namaḥ |
gītaghanasvanāyai namaḥ |
chandomayāyai namaḥ |
mahyai namaḥ |
chāyāyai namaḥ |
cārvāṅgyai namaḥ |
candanapriyāyai namaḥ |
jananyai namaḥ |
jāhnavyai namaḥ |
jātāyai namaḥ |
śānṅkaryai namaḥ |
hatarākṣasyai namaḥ |
vallaryai namaḥ |
vallabhāyai namaḥ |
vallyai namaḥ |
vallyalaṅkṛtamadhyamāyai namaḥ |
harītakyai namaḥ |
hayārūḍhāyai namaḥ |
bhūtyai namaḥ |
hariharapriyāyai namaḥ |
vajrahastāyai namaḥ |
varārohāyai namaḥ |
sarvasiddhyai namaḥ |
varapradāyai namaḥ |
śrī durgādevyai namaḥ || oṃ ||
|| atha dvitīyadinasya āryā pūjāvidhiḥ ||
asyaśrī āryāmahāmantrasya mārīca kāśyapa ṛṣiḥ triṣṭup
chandaḥ śrī āryā durgā devatā ||
[ oṃ jātavedase sunavāma - somamarātīyataḥ - nidahāti
vedaḥ - sanaḥ parṣadati - durgāṇi viśvā - nāveva sindhuṃ
duritātyagniḥ || evaṃ nyāsamācaret ]
dhyānam
vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇām
kanyābhiḥ karavālakheṭavilasat hastābhirāsevitām |
hastaiścakragadā'siśaṅkha viśikhāṃścāpaṃ guṇaṃ
tarjanīm
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||
mantraḥ- oṃ jātavedase sunavāma somamarātīyataḥ nidahāti
vedaḥ sanaḥ parṣadati durgāṇi viśvā nāveva sindhuṃ
duritātyagniḥ ||
|| atha āryā nāmāvaliḥ ||
oṃ āryāyai namaḥ |
kātyāyanyai namaḥ |
gauryai namaḥ |
kumāryai namaḥ |
vindhyavāsinyai namaḥ |
vāgīśvaryai namaḥ |
mahādevyai namaḥ |
kālyai namaḥ |
kaṅkāladhāriṇyai namaḥ |
ghoṇasābharaṇāyai namaḥ |
ugrāyai namaḥ |
sthūlajaṅghāyai namaḥ |
maheśvaryai namaḥ |
khaṭvāṅgadhāriṇyai namaḥ |
caṇḍyai namaḥ |
bhīṣaṇāyai namaḥ |
mahiṣāntakāyai namaḥ |
rakṣiṇtai namaḥ |
ramaṇyai namaḥ |
rājñyai namaḥ |
rajanyai namaḥ |
śoṣiṇyai namaḥ |
ratyai namaḥ |
gabhastinyai namaḥ |
gandhinyai namaḥ |
durgāyai namaḥ |
gāndhāryai namaḥ |
kalahapriyāyai namaḥ |
vikarālyai namaḥ |
mahākālyai namaḥ |
bhadrakālyai namaḥ |
taraṅgiṇyai namaḥ |
mālinyai namaḥ |
dāhinyai namaḥ |
kṛṣṇāyai namaḥ |
chedinyai namaḥ |
bhedinyai namaḥ |
agraṇyai namaḥ |
grāmaṇyai namaḥ |
nidrāyai namaḥ |
vimāninyai namaḥ |
śīghragāminyai namaḥ |
caṇḍavegāyai namaḥ |
mahānādāyai namaḥ |
vajriṇyai namaḥ |
bhadrāyai namaḥ |
prajeśvaryai namaḥ |
karālyai namaḥ |
bhairavyai namaḥ |
raudryai namaḥ |
aṭṭahāsinyai namaḥ |
kapālinyai vcāmuṇḍāyai namaḥ |
raktacāmuṇḍāyai namaḥ |
aghorāyai namaḥ |
ghorarūpiṇyai namaḥ |
virūpāyai namaḥ |
mahārūpāyai namaḥ |
svarūpāyai namaḥ |
supratejasvinyai namaḥ |
ajāyai namaḥ |
vijayāyai namaḥ |
citrāyai namaḥ |
ajitāyai namaḥ |
aparājitāyai namaḥ |
dharaṇyai namaḥ |
dhātryai namaḥ |
pavamānyai namaḥ |
vasundharāyai namaḥ |
suvarṇāyai namaḥ |
raktākṣyai namaḥ |
kapardinyai namaḥ |
siṃhavāhinyai namaḥ |
kadrave namaḥ |
vijitāyai namaḥ |
satyavāṇyai namaḥ |
arundhatyai namaḥ |
kauśikyai namaḥ |
mahālakṣmyai namaḥ |
vidyāyai namaḥ |
medhāyai namaḥ |
sarasvatyai namaḥ |
medhāyai namaḥ |
tryambakāyai namaḥ |
trisankhyāyai namaḥ |
trimūrtyai namaḥ |
tripurāntakāyai namaḥ |
brāhmyai namaḥ |
nārasiṃhyai namaḥ |
vārāhyai namaḥ |
indrāṇyai namaḥ |
vedamātṛkāyai namaḥ |
pārvatyai namaḥ |
tāmasyai namaḥ |
siddhāyai namaḥ |
guhyāyai namaḥ |
ijyāyai namaḥ |
uṣāyai namaḥ |
umāyai namaḥ |
ambikāyai namaḥ |
bhrāmaryai namaḥ |
vīrāyai namaḥ |
hāhāhuṅkāranādinyai namaḥ |
nārāyaṇyai namaḥ |
viśvarūpāyai namaḥ |
merumandiravāsinyai namaḥ |
śaraṇāgatadīnārtaparitrāṇaparāyaṇāyai namaḥ |
āryāyai namaḥ ||oṃ||
||atha tṛtīyadinasya bhagavatī pūjāvidhiḥ ||
oṃ asyaśrī bhagavatī mahāmantrasya dīrghatamā ṛṣiḥ kakup
chandaḥ bhagavatī śūlinī durgā devatā ||
[oṃ śūlini durge devatāsurapūjite nandini mahāyogeśvari
huṃ phaṭ - śūlini varade - vindyavāsini - asuramardini -
devāsurasiddhapūjite - yuddhapriye - ] iti nyāsamācaret ||
dhyānam
bibhrāṇā śūlabāṇāsyarisudaragadācāpapāśān karābjaiḥ
meghaśyāmā kirīṭollikhitajaladharā bhīṣaṇā bhūṣaṇāḍhyā |
simhaskandhādhirūḍhā catusṛbhirasikheṭānvitābhiḥ parītā
kanyābhiḥ bhinnadaityā bhavatu bhavabhayadvamsinī śūlinī naḥ ||
mantraḥ - oṃ śūlini durge varade vindyavāsini asuramardini
devāsurasiddhapūjite yuddhapriye nandini rakṣa rakṣa
mahāyogeśvari huṃ phaṭ ||
||atha bhagavatī nāmāvaliḥ ||
oṃ bhagavatyai namaḥ |
gauryai namaḥ |
suvarṇavarṇāyai namaḥ |
sṛṣṭisthitisaṃhārakāriṇyai namaḥ |
ekasvarūpiṇyai namaḥ |
anekasvarūpiṇyai namaḥ |
mahejyāyai namaḥ |
śatabāhave namaḥ |
mahābhujāyai namaḥ |
bhujaṅgabhūṣaṇāyai namaḥ |
ṣaṭcakravāsinyai namaḥ |
ṣaṭcakrabhedinyai namaḥ |
śyāmāyai namaḥ |
kāyasthāyai namaḥ |
kāyavarjitāyai namaḥ |
susthitāyai namaḥ |
sumukhyai namaḥ |
kṣamāyai namaḥ |
mūlaprakṛtyai namaḥ |
īśvaryai namaḥ |
ajāyai namaḥ |
śubhravarṇāyai namaḥ |
puruṣārthāyai namaḥ |
suprabodhinyai namaḥ |
raktāyai namaḥ |
nīlāyai namaḥ |
śyāmalāyai namaḥ |
kṛṣṇāyai namaḥ |
pītāyai namaḥ |
karburāyai namaḥ |
karuṇālayāyai namaḥ |
tṛṣṇāyai namaḥ |
jarāyai namaḥ |
vṛddhāyai namaḥ |
taruṇyai namaḥ |
karuṇāyai namaḥ |
layāyai namaḥ |
kalāyai namaḥ |
kāṣṭhāyai namaḥ |
muhūrtāyai namaḥ |
nimiṣāyai namaḥ |
kālarūpiṇyai namaḥ |
suvarṇāyai namaḥ |
rasanāyai namaḥ |
cakṣuḥsparśavāyurasāyai namaḥ |
gandhapriyāyai namaḥ |
sugandhāyai namaḥ |
susparśāyai namaḥ |
manogatāyai namaḥ |
mṛganābhyai namaḥ |
mṛgākṣyai namaḥ |
karpūrāmodadāyinyai namaḥ |
padmayonyai namaḥ |
sukeśāyai namaḥ |
suliṅgāyai namaḥ |
bhagarūpiṇyai namaḥ |
bhūṣaṇyai namaḥ |
yonimudrāyai namaḥ |
khecaryai namaḥ |
svargagāminyai namaḥ |
madhupriyāyai namaḥ |
mādhavyai namaḥ |
vallyai namaḥ |
madhumattāyai namaḥ |
madotkaṭāyai namaḥ |
mātaṅgyai namaḥ |
śukahastāyai namaḥ |
dhīrāyai namaḥ |
mahāśvetāyai namaḥ |
vasupriyāyai namaḥ |
suvarṇinyai namaḥ |
padmahastāyai namaḥ |
muktāyai namaḥ |
hāravibhūṣaṇāyai namaḥ |
karpūrāmodāyai namaḥ |
niḥśvāsāyai namaḥ |
padminyai namaḥ |
vallabhāyai namaḥ |
śaktyai namaḥ |
khaḍginyai namaḥ |
balahastāyai namaḥ |
bhuṣuṇḍiparighāyudhāyai namaḥ |
cāpinyai namaḥ |
cāpahastāyai namaḥ |
triśūladhāriṇyai namaḥ |
śūrabāṇāyai namaḥ |
śaktihastāyai namaḥ |
mayūravāhinyai namaḥ |
varāyudhāyai namaḥ |
dhārāyai namaḥ |
dhīrāyai namaḥ |
vīrapāṇyai namaḥ |
vasudhārāyai namaḥ |
jayāyai namaḥ |
śākanāyai namaḥ |
vijayāyai namaḥ |
śivāyai namaḥ |
śriyai namaḥ |
bhagavatyai namaḥ |
mahālakṣmyai namaḥ |
siddhasenānyai namaḥ |
āryāyai namaḥ |
mandaravāsinyai namaḥ |
kumāryai namaḥ |
kālyai namaḥ |
kapālyai namaḥ |
kapilāyai namaḥ |
kṛṣṇāyai namaḥ ||oṃ||
||atha caturtha dinasya kumārī pūjanavidhiḥ ||
oṃ asyaśrī kumārī mahāmantrasya īśvara ṛṣiḥ bṛhatī
chandaḥ kumārī durgā devatā ||
[hrāṃ hrīṃ ityādinā nyāsamācaret ]
dhyānam
girirājakumārikāṃ bhavānīṃ śaraṇāgatapālanaikadakṣām |
varadābhayacakraśaṅkhahastāṃ varadātrīṃ bhajatāṃ smarāmi
nityam ||
mantraḥ - oṃ hrīṃ kumāryai namaḥ ||
||atha śrī kumāryāḥ nāmāvaliḥ||
oṃ kaumāryai namaḥ |
satyamārgaprabodhinyai namaḥ |
kambugrīvāyai namaḥ |
vasumatyai namaḥ |
chatracchāyāyai namaḥ |
kṛtālayāyai namaḥ |
kuṇḍalinyai namaḥ |
jagaddhātryai namaḥ |
jagadgarbhāyai namaḥ |
bhujaṅgāyai namaḥ |
kālaśāyinyai namaḥ |
prollasāyāi namaḥ |
saptapadmāyai namaḥ |
nābhinālāyai namaḥ |
mṛṇālinyai namaḥ |
mūlādhārāyai namaḥ |
anilādhārāyai namaḥ |
vahnikuṇḍalakṛtālayāyai namaḥ |
vāyukuṇḍalasukhāsanāyai namaḥ |
nirādhārāyai namaḥ |
nirāśrayāyai namaḥ |
balīndrasamuccayāyai namaḥ |
ṣaḍrasasvādulolupāyai namaḥ |
śvāsocchvāsagatāyai namaḥ |
jīvāyai vgrāhiṇyai namaḥ |
vahnisaṃśrayāyai namaḥ |
tapsavinyai namaḥ |
tapassiddhāyai namaḥ |
tāpasāyai namaḥ |
taponiṣṭhāyai namaḥ |
tapoyuktāyai namaḥ |
tapassiddhidāyinyai namaḥ |
saptadhātumayyai namaḥ |
sumūrtyai namaḥ |
saptāyai namaḥ |
anantaranāḍikāyai namaḥ |
dehapuṣṭyai namaḥ |
manastuṣṭyai namaḥ |
ratnatuṣṭyai namaḥ |
madoddhatāyai namaḥ |
daśamadhyai namaḥ |
vaidyamātre namaḥ |
dravaśaktyai namaḥ |
prabhāvinyai namaḥ |
vaidyavidyāyai namaḥ |
cikitsāyai namaḥ |
supathyāyai namaḥ |
roganāśinyai namaḥ |
mṛgayātrāyai namaḥ |
mṛgamāmsāyai namaḥ |
mṛgapadyāyai namaḥ |
sulocanāyai namaḥ |
vyāghracarmaṇe namaḥ |
bandhurūpāyai namaḥ |
bahurūpāyai namaḥ |
madotkaṭāyai namaḥ |
bandhinyai namaḥ |
bandhustutikarāyai namaḥ |
bandhāyai namaḥ |
bandhavimocinyai namaḥ |
śrībalāyai namaḥ |
kalabhāyai namaḥ |
vidyullatāyai namaḥ |
dṛḍhavimocinyai namaḥ |
ambikāyai namaḥ |
bālikāyai namaḥ |
ambarāyai namaḥ |
mukhyāyai namaḥ |
sādhujanārcitāyai namaḥ |
kālinyai namaḥ |
kulavidyāyai namaḥ |
sukalāyai namaḥ |
kulapūjitāyai namaḥ |
kulacakraprabhāyai namaḥ |
bhrāntāyai namaḥ |
bhramanāśinyai namaḥ |
vātyālinyai namaḥ |
suvṛṣṭyai namaḥ |
bhikṣukāyai namaḥ |
sasyavardhinyai namaḥ |
akārāyai namaḥ |
ikārāyai namaḥ |
ukārāyai namaḥ |
ekārāyai namaḥ |
huṅkārāyai namaḥ |
bījarūpayai namaḥ |
klīṃkārāyai namaḥ |
ambaradhāriṇyai namaḥ |
sarvākṣaramayāśaktyai namaḥ |
rākṣasārṇavamālinyai namaḥ |
sindhūravarṇāyai namaḥ |
aruṇavarṇāyai namaḥ |
sindhūratilakapriyāyai namaḥ |
vaśyāyai namaḥ |
vaśyabījāyai namaḥ |
lokavaśyavidhāyinyai namaḥ |
nṛpavaśyāyai namaḥ |
nṛpasevyāyai namaḥ |
nṛpavaśyakarapriyāyai namaḥ |
mahiṣīnṛpamāmsāyai namaḥ |
nṛpajñāyai namaḥ |
nṛpanandinyai namaḥ |
nṛpadharmavidyāyai namaḥ |
dhanadhānyavivardhinyai namaḥ |
caturvarṇamayaśaktyai namaḥ |
caturvarṇaiḥ supūjitāyai namaḥ |
sarvavarṇamayāyai namaḥ ||oṃ||
||atha pañcamadinasya ambikā pūjāvidhiḥ||
oṃ asyaśrī ambikāmahāmantrasya mārkaṇḍeya ṛṣiḥ uṣṇik chandaḥ
ambikā durgā devatā ||
[ śrāṃ - śrīṃ ityādinā nyāsamācaret ]
dhyānam
yā sā padmāsanasthā vipulakaṭataṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śubhravastrottarīyā |
lakṣmīrdivyairgajendrairmaṇigaṇakhacitaiḥ snāpitā hemakumbhaiḥ
nityaṃ sā padmahastā mama vasatu gṛhe sarvamāṅgalyayuktā ||
mantraḥ - oṃ hrīṃ śrīṃ ambikāyai namaḥ oṃ ||
||atha śrī ambikāyāḥ nāmāvaliḥ ||
oṃ ambikāyai namaḥ |
siddheśvaryai namaḥ |
caturāśramavāṇyai namaḥ |
brāhmaṇyai namaḥ |
kṣatriyāyai namaḥ |
vaiśyāyai namaḥ |
śūdrāyai namaḥ |
vedamārgaratāyai namaḥ |
vajrāyai namaḥ |
vedaviśvavibhāginyai namaḥ |
astraśastramayāyai namaḥ |
vīryavatyai namaḥ |
varaśastradhāriṇyai namaḥ |
sumedhase namaḥ |
bhadrakālyai namaḥ |
aparājitāyai namaḥ |
gāyatryai namaḥ |
saṃkṛtyai namaḥ |
sandhyāyai namaḥ |
sāvitryai namaḥ |
tripadāśrayāyai namaḥ |
trisandhyāyai namaḥ |
tripadyai namaḥ |
dhātryai namaḥ |
supathāyai namaḥ |
sāmagāyanyai namaḥ |
pāñcālyai namaḥ |
kālikāyai namaḥ |
bālāyai namaḥ |
bālakrīḍāyai namaḥ |
sanātanyai namaḥ |
garbhādhārāyai namaḥ |
ādhāraśūnyāyai namaḥ |
jalāśayanivāsinyai namaḥ |
surārighātinyai namaḥ |
kṛtyāyai namaḥ |
pūtanāyai namaḥ |
caritottamāyai namaḥ |
lajjārasavatyai namaḥ |
nandāyai namaḥ |
bhavāyai namaḥ |
pāpanāśinyai namaḥ |
pītambaradharāyai namaḥ |
gītasaṅgītāyai namaḥ |
gānagocarāyai namaḥ |
saptasvaramayāyai namaḥ |
ṣadjamadhyamadhaivatāyai namaḥ |
mukhyagrāmasaṃsthitāyai namaḥ |
svasthāyai namaḥ |
svasthānavāsinyai namaḥ |
ānandanādinyai namaḥ |
protāyai namaḥ |
pretālayanivāsinyai namaḥ |
gītanṛtyapriyāyai namaḥ |
kāminyai namaḥ |
tuṣṭidāyinyai namaḥ |
puṣṭidāyai namaḥ |
niṣṭhāyai namaḥ |
satyapriyāyai namaḥ |
prajñāyai namaḥ |
lokeśāyai namaḥ |
saṃśobhanāyai namaḥ |
saṃviṣayāyai namaḥ |
jvālinyai namaḥ |
jvālāyai namaḥ |
vimūrtyai namaḥ |
viṣanāśinyai namaḥ |
viṣanāgadamnyai namaḥ |
kurukullāyai namaḥ |
amṛtodbhavāyai namaḥ |
bhūtabhītiharāyai namaḥ |
rakṣāyai namaḥ |
rākṣasyai namaḥ |
rātryai namaḥ |
dīrghanidrāyai namaḥ |
divāgatāyai namaḥ |
candrikāyai namaḥ |
candrakāntyai namaḥ |
sūryakāntyai namaḥ |
niśācarāyai namaḥ |
ḍākinyai namaḥ |
śākinyai namaḥ |
hākinyai namaḥ |
cakravāsinyai namaḥ |
sītāyai namaḥ |
sītapriyāyai namaḥ |
śāntāyai namaḥ |
sakalāyai namaḥ |
vanadevatāyai namaḥ |
gururūpadhāriṇyai namaḥ |
goṣṭhyai namaḥ |
mṛtyumāraṇāyai namaḥ |
śāradāyai namaḥ |
mahāmāyāyai namaḥ |
vinidrāyai namaḥ |
candradharāyai namaḥ |
mṛtyuvināśinyai namaḥ |
candramaṇḍalasaṅkāśāyai namaḥ |
candramaṇḍalavartinyai namaḥ |
aṇimādyai namaḥ |
guṇopetāyai namaḥ |
kāmarūpiṇyai namaḥ |
kāntyai namaḥ |
śraddhāyai namaḥ |
śrīmahālakṣmyai namaḥ ||oṃ||
||atha ṣaṣṭha dinasya mahiṣamardinī
vanadurgā pūjāvidhiḥ||
oṃ asyaśrī mahiṣamardini vanadurgā mahāmantrasya āraṇyaka
ṛṣiḥ anuṣṭup chandaḥ śrī mahiṣāsuramardinī vanadurgā
devatā ||
[ oṃ uttiṣṭha puruṣi - kiṃ svapiṣi - bhayaṃ me
samupasthitaṃ - yadi śakyaṃ aśakyaṃ vā - tanme bhagavati -
śamaya svāhā ] evaṃ
nyāsamācaret ||
dhyānam
hemaprakhyāmindukhaṇḍātmamaulīṃ śaṅkhārīṣṭābhītihastāṃ
trinetrām |
hemābjasthāṃ pītavastrāṃ prasannāṃ devīṃ durgāṃ
divyarūpāṃ namāmi ||
||atha śrī devyāḥ nāmāvaliḥ||
oṃ mahiṣamardinyai namaḥ |
śrīdevyai namaḥ |
jagadātmaśaktyai namaḥ |
devagaṇaśaktyai namaḥ |
samūhamūrtyai namaḥ |
ambikāyai namaḥ |
akhilajanaparipālakāyai namaḥ |
mahiṣapūjitāyai namaḥ |
bhaktigamyāyai namaḥ |
viśvāyai namaḥ |
prabhāsinyai namaḥ |
bhagavatyai namaḥ |
anantamūrtyai namaḥ |
caṇḍikāyai namaḥ |
jagatparipālikāyai namaḥ |
aśubhanāśinyai namaḥ |
śubhamatāyai namaḥ |
śriyai namaḥ |
sukṛtyai namaḥ |
lakṣmyai namaḥ |
pāpanāśinyai namaḥ |
buddhirūpiṇyai namaḥ |
śraddhārūpiṇyai namaḥ |
kālarūpiṇyai namaḥ |
lajjārūpiṇyai namaḥ |
acintyarūpiṇyai namaḥ |
ativīrāyai namaḥ |
asurakṣayakāriṇyai namaḥ |
bhūmirakṣiṇyai namaḥ |
aparicitāyai namaḥ |
adbhutarūpiṇyai namaḥ |
sarvadevatāsvarūpiṇyai namaḥ |
jagadaṃśodbhūtāyai namaḥ |
asatkṛtāyai namaḥ |
paramaprakṛtyai namaḥ |
samastasumatasvarūpāyai namaḥ |
tṛptyai namaḥ |
sakalamukhasvarūpiṇyai namaḥ |
śabdakriyāyai namaḥ |
ānandasandohāyai namaḥ |
vipulāyai namaḥ |
ṛjyajussāmātharvarūpiṇyai namaḥ |
udgītāyai namaḥ |
ramyāyai namaḥ |
padasvarūpiṇyai namaḥ |
pāṭhasvarūpiṇyai namaḥ |
medhādevyai namaḥ |
viditāyai namaḥ |
akhilaśāstrasārāyai namaḥ |
durgāyai namaḥ |
durgāśrayāyai namaḥ |
bhavasāgaranāśinyai namaḥ |
kaiṭabhahāriṇyai namaḥ |
hṛdayavāsinyai namaḥ |
gauryai namaḥ |
śaśimaulikṛtapratiṣṭhāyai namaḥ |
īśatsuhāsāyai namaḥ |
amalāyai namaḥ |
pūrṇacandramukhyai namaḥ |
kanakottamakāntyai namaḥ |
kāntāyai namaḥ |
atyadbhutāyai namaḥ |
praṇatāyai namaḥ |
atiraudrāyai namaḥ |
mahiṣāsuranāśinyai namaḥ |
dṛṣṭāyai namaḥ |
bhrukuṭīkarālāyai namaḥ |
śaśāṅkadharāyai namaḥ |
mahiṣaprāṇavimocanāyai namaḥ |
kupitāyai namaḥ |
antakasvarūpiṇyai namaḥ |
sadyovināśikāyai namaḥ |
kopavatyai namaḥ |
dāridryanāśinyai namaḥ |
pāpanāśinyai namaḥ |
sahasrabhujāyai namaḥ |
sahasrākṣyai namaḥ |
sahasrapadāyai namaḥ |
śrutyai namaḥ |
ratyai namaḥ |
ramaṇyai namaḥ |
bhaktyai namaḥ |
bhavasāgaratārikāyai namaḥ |
puruṣottamavallabhāyai namaḥ |
bhṛgunandinyai namaḥ |
sthūlajaṅghāyai namaḥ |
raktapādāyai namaḥ |
nāgakuṇḍaladhāriṇyai namaḥ |
sarvabhūṣaṇāyai namaḥ |
kāmeśvaryai namaḥ |
kalpavṛkṣāyai namaḥ |
kastūridhāriṇyai namaḥ |
mandasmitāyai namaḥ |
madodayāyai namaḥ |
sadānandasvarūpiṇyai namaḥ |
viriñcipūjitāyai namaḥ |
govindapūjitāyai namaḥ |
purandarapūjitāyai namaḥ |
maheśvarapūjitāyai namaḥ |
kirīṭadhāriṇyai namaḥ |
maṇinūpuraśobhitāyai namaḥ |
pāśāṅkuśadharāyai namaḥ |
kamaladhāriṇyai namaḥ |
haricandanāyai namaḥ |
kastūrīkuṅkumāyai namaḥ |
aśokabhūṣaṇāyai namaḥ |
śaṛṅgāralāsyāyai namaḥ ||oṃ||
||atha saptamadinasya caṇḍikā pūjāvidhiḥ||
oṃ asyaśrī mahācaṇḍī mahāmantrasya dīrghatamā ṛṣiḥ kakup
chandaḥ śrī mahācaṇḍikā durgā devatā ||
[ hrāṃ - hrīṃ ityādinā nyāsamācaret ]
dhyānam
śaśalāñchanasamyutāṃ trinetrāṃ
varacakrābhayaśaṅkhaśūlapāṇim |
asikheṭakadhāriṇīṃ maheśīṃ tripurārātivadhūṃ śivāṃ
smarāmi ||
mantraḥ - oṃ hrīṃ ścyūṃ maṃ duṃ durgāyai namaḥ oṃ ||
||atha mahācaṇḍī nāmāvaliḥ||
oṃ caṇḍikāyai namaḥ |
maṅgalāyai namaḥ |
suśīlāyai namaḥ |
paramārthaprabodhinyai namaḥ |
dakṣiṇāyai namaḥ |
dakṣiṇāmūrtyai namaḥ |
sudakṣiṇāyai namaḥ |
haviḥpriyāyai namaḥ |
yoginyai namaḥ |
yogāṅgāyai namaḥ |
dhanuḥśālinyai namaḥ |
yogapīṭhadharāyai namaḥ |
muktāyai namaḥ |
muktānāṃ paramā gatyai namaḥ |
nārasimhyai namaḥ |
sujanmane namaḥ |
mokṣadāyai namaḥ |
dūtyai namaḥ |
sākṣiṇyai namaḥ |
dakṣāyai namaḥ |
dakṣiṇāyai namaḥ |
sudakṣāyai namaḥ |
koṭirūpiṇyai namaḥ |
kratusvarūpiṇyai namaḥ |
kātyāyanyai namaḥ |
svasthāyai namaḥ |
kavipriyāyai namaḥ |
satyagrāmāyai namaḥ |
bahiḥsthitāyai namaḥ |
kāvyaśaktyai namaḥ |
kāvyapradāyai namaḥ |
menāputryai namaḥ |
satyāyai namaḥ |
paritrātāyai namaḥ |
mainākabhaginyai namaḥ |
saudāminyai namaḥ |
sadāmāyāyai namaḥ |
subhagāyai namaḥ |
kṛttikāyai namaḥ |
kālaśāyinyai namaḥ |
raktabījavadhāyai namaḥ |
dṛptāyai namaḥ |
santapāyai namaḥ |
bījasantatyai namaḥ |
jagajjīvāyai namaḥ |
jagadbījāyai namaḥ |
jagattrayahitaiṣiṇyai namaḥ |
svāmikarāyai namaḥ |
candrikāyai namaḥ |
candrāyai namaḥ |
sākṣātsvarūpiṇyai namaḥ |
ṣoḍaśakalāyai namaḥ |
ekapādāyai namaḥ |
anubandhāyai namaḥ |
yakṣiṇyai namaḥ |
dhanadārcitāyai namaḥ |
citriṇyai namaḥ |
citramāyāyai namaḥ |
vicitrāyai namaḥ |
bhuvaneśvaryai namaḥ |
cāmuṇḍāyai namaḥ |
muṇḍahastāyai namaḥ |
caṇḍamuṇḍavadhāyai namaḥ |
uddhatāyai namaḥ |
aṣṭamyai namaḥ |
ekādaśyai namaḥ |
pūrṇāyai namaḥ |
navamyai namaḥ |
caturdaśyai namaḥ |
amāvāsyai namaḥ |
kalaśahastāyai namaḥ |
pūrṇakumbhadharāyai namaḥ |
dharitryai namaḥ |
abhirāmāyai namaḥ |
bhairavyai namaḥ |
gambhīrāyai namaḥ |
bhīmāyai namaḥ |
tripurabhairavyai namaḥ |
mahacaṇḍāyai namaḥ |
mahāmudrāyai namaḥ |
mahābhairavapūjitāyai namaḥ |
asthimālādhāriṇyai namaḥ |
karāladarśanāyai namaḥ |
karālyai namaḥ |
ghoraghargharanāśinyai namaḥ |
raktadantyai namaḥ |
ūrdhvakeśāyai namaḥ |
bandhūkakusumākṣatāyai namaḥ |
kadambāyai namaḥ |
palāśāyai namaḥ |
kuṅkumapriyāyai namaḥ |
kāntyai namaḥ |
bahusuvarṇāyai namaḥ |
mātaṅgyai namaḥ |
varārohāyai namaḥ |
mattamātaṅgagāminyai namaḥ |
hamsagatāyai namaḥ |
hamsinyai namaḥ |
hamsojvalāyai namaḥ |
śaṅkhacakrāṅkitakarāyai namaḥ |
kumāryai namaḥ |
kuṭilālakāyai namaḥ |
mṛgendravāhinyai namaḥ |
devyai namaḥ |
durgāyai namaḥ |
vardhinyai namaḥ |
śrīmahālakṣmyai namaḥ ||oṃ||
||atha aṣṭama dinasya sarasvatīpūjā
vidhiḥ ||
oṃ asyaśrī mātṛkāsarasvatī mahāmantrasya śabda ṛṣiḥ
lipigāyatrī chandaḥ śrī mātṛkā sarasvatī devatā ||
dhyānam
pañcāṣadvarṇabhedairvihitavadanadoṣpādahṛtkukṣivakṣodeśāṃ
bhāsvatkapardākalitaśaśikalāmindukundāvadātām |
akṣasrakkumbhacintālikhitavarakarāṃ trīkṣaṇāṃ
padmasaṃsthāṃ
acchākalpāmatucchastanajaghanabharāṃ bhāratīṃ tāṃ namāmi ||
mantraḥ - aṃ āṃ iṃ īṃ ........................ l̤aṃ
kṣaṃ
||atha nāmāvaliḥ||
oṃ sarasvatyai namaḥ |
bhagavatyai namaḥ |
kurukṣetravāsinyai namaḥ |
avantikāyai namaḥ |
kāśyai namaḥ |
madhurāyai namaḥ |
svaramayāyai namaḥ |
ayodhyāyai namaḥ |
dvārakāyai namaḥ |
trimedhāyai namaḥ |
kośasthāyai namaḥ |
kośavāsinyai namaḥ |
kauśikyai namaḥ |
śubhavārtāyai namaḥ |
kauśāmbarāyai namaḥ |
kośavardhinyai namaḥ |
padmakośāyai namaḥ |
kusumāvāsāyai namaḥ |
kusumapriyāyai namaḥ |
taralāyai namaḥ |
vartulāyai namaḥ |
koṭirūpāyai namaḥ |
koṭisthāyai namaḥ |
korāśrayāyai namaḥ |
svāyambhavyai namaḥ |
surūpāyai namaḥ |
smṛtirūpāyai namaḥ |
rūpavardhanāyai namaḥ |
tejasvinyai namaḥ |
subhikṣāyai namaḥ |
balāyai namaḥ |
baladāyinyai namaḥ |
mahākauśikyai namaḥ |
mahāgartāyai namaḥ |
buddhidāyai namaḥ |
sadātmikāyai namaḥ |
mahāgrahaharāyai namaḥ |
saumyāyai namaḥ |
viśokāyai namaḥ |
śokanāśinyai namaḥ |
sātvikāyai namaḥ |
satyasaṃsthāpanāyai namaḥ |
rājasyai namaḥ |
rajovṛtāyai namaḥ |
tāmasyai namaḥ |
tamoyuktāyai namaḥ |
guṇatrayavibhāginyai namaḥ |
avyaktāyai namaḥ |
vyaktarūpāyai namaḥ |
vedavedyāyai namaḥ |
śāmbhavyai namaḥ |
kālarūpiṇyai namaḥ |
śaṅkarakalpāyai namaḥ |
mahāsaṅkalpasantatyai namaḥ |
sarvalokamayā śaktyai namaḥ |
sarvaśravaṇagocarāyai namaḥ |
sārvajñavatyai namaḥ |
vāñchitaphaladāyinyai namaḥ |
sarvatatvaprabodhinyai namaḥ |
jāgratāyai namaḥ |
suṣuptāyai namaḥ |
svapnāvasthāyai namaḥ |
caturyugāyai namaḥ |
catvarāyai namaḥ |
mandāyai namaḥ |
mandagatyai namaḥ |
madirāmodamodinyai namaḥ |
pānapriyāyai namaḥ |
pānapātradharāyai namaḥ |
pānadānakarodyatāyai namaḥ |
vidyudvarṇāyai namaḥ |
aruṇanetrāyai namaḥ |
kiñcidvyaktabhāṣiṇyai namaḥ |
āśāpūriṇyai namaḥ |
dīkṣāyai namaḥ |
dakṣāyai namaḥ |
janapūjitāyai namaḥ |
nāgavallyai namaḥ |
nāgakarṇikāyai namaḥ |
bhaginyai namaḥ |
bhoginyai namaḥ |
bhogavallabhāyai namaḥ |
sarvaśāstramayāyai namaḥ |
vidyāyai namaḥ |
smṛtyai namaḥ |
dharmavādinyai namaḥ |
śrutismṛtidharāyai namaḥ |
jyeṣṭhāyai namaḥ |
śreṣṭhāyai namaḥ |
pātālavāsinyai namaḥ |
mīmāmsāyai namaḥ |
tarkavidyāyai namaḥ |
subhaktyai namaḥ |
bhaktavatsalāyai namaḥ |
sunābhāyai namaḥ |
yātanāliptyai namaḥ |
gambhīrabhāravarjitāyai namaḥ |
nāgapāśadharāyai namaḥ |
sumūrtyai namaḥ |
agādhāyai namaḥ |
nāgakuṇḍalāyai namaḥ |
sucakrāyai namaḥ |
cakramadhyasthitāyai namaḥ |
cakrakoṇanivāsinyai namaḥ |
jaladevatāyai namaḥ |
mahāmāryai namaḥ |
śrī sarasvatyai namaḥ ||oṃ||
||atha navamadinasya vāgīśvarī pūjāvidhiḥ ||
oṃ asyaśrī vāgīśvarī mahāmantrasya kaṇva ṛṣiḥ virāṭ
chandaḥ śrī vāgīśvarī devatā ||
[ oṃ vada - vada - vāk - vādini - svāhā ] evaṃ
paṃcāṅganyāsameva samācaret ||
dhyānam
amalakamalasaṃsthā lekhanīpustakodyatkarayugalasarojā
kundamandāragaurā |
dhṛtaśaśadharakhaṇḍollāsikoṭīracūḍā bhavatu bhavabhayānāṃ
bhaṅginī bhāratī naḥ ||
mantraḥ - oṃ vada vada vāgvādini svāhā ||
||atha vāgvādinyāḥ nāmāvaliḥ||
oṃ vāgīśvaryai namaḥ |
sarvamantramayāyai namaḥ |
vidyāyai namaḥ |
sarvamantrākṣaramayāyai namaḥ |
varāyai namaḥ |
madhusravāyai namaḥ |
śravaṇāyai namaḥ |
bhrāmaryai namaḥ |
bhramarālayāyai namaḥ |
mātṛmaṇḍalamadhyasthāyai namaḥ |
mātṛmaṇḍalavāsinyai namaḥ |
kumārajananyai namaḥ |
krūrāyai namaḥ |
sumukhyai namaḥ |
jvaranāśinyai namaḥ |
atītāyai namaḥ |
vidyamānāyai namaḥ |
bhāvinyai namaḥ |
prītimandirāyai namaḥ |
sarvasaukhyadātryai namaḥ |
atiśaktāyai namaḥ |
āhārapariṇāminyai namaḥ |
nidānāyai namaḥ |
pañcabhūtasvarūpāyai namaḥ |
bhavasāgaratāriṇyai namaḥ |
arbhakāyai namaḥ |
kālabhavāyai namaḥ |
kālavartinyai namaḥ |
kalaṅkarahitāyai namaḥ |
harisvarūpāyai namaḥ |
catuḥṣaṣṭyabhyudayadāyinyai namaḥ |
jīrṇāyai namaḥ |
jīrṇavastrāyai namaḥ |
kṛtaketanāyai namaḥ |
harivallabhāyai namaḥ |
akṣarasvarūpāyai namaḥ |
ratiprītyai namaḥ |
ratirāgavivardhinyai namaḥ |
pañcapātakaharāyai namaḥ |
bhinnāyai namaḥ |
pañcaśreṣṭhāyai namaḥ |
āśādhārāyai namaḥ |
pa'cavittavātāyai namaḥ |
paṅktisvarūpiṇyai namaḥ |
pañcasthānavibhāvinyai namaḥ |
udakyāyai namaḥ |
vriṣabhāṅkāyai namaḥ |
trimūrtyai namaḥ |
dhūmrakṛtyai namaḥ |
prasravaṇāyai namaḥ |
bahiḥsthitāyai namaḥ |
rajase namaḥ |
śuklāyai namaḥ |
dharāśaktyai namaḥ |
jarāyuṣāyai namaḥ |
garbhadhāriṇyai namaḥ |
trikālajñāyai namaḥ |
triliṅgāyai namaḥ |
trimūrtyai namaḥ |
puravāsinyai namaḥ |
arāgāyai namaḥ |
parakāmatatvāyai namaḥ |
rāgiṇyai namaḥ |
prācyāvācyāyai namaḥ |
pratīcyāyai namaḥ |
udīcyāyai namaḥ |
udagdiśāyai namaḥ |
ahaṅkārātmikāyai namaḥ |
ahaṅkārāyai namaḥ |
bālavāmāyai namaḥ |
priyāyai namaḥ |
sruksravāyai namaḥ |
samidhyai namaḥ |
suśraddhāyai namaḥ |
śrāddhadevatāyai namaḥ |
mātre namaḥ |
mātāmahyai namaḥ |
tṛptirūpāyai namaḥ |
pitṛmātre namaḥ |
pitāmahyai namaḥ |
snuṣādāyai namaḥ |
dauhitradāyai namaḥ |
nādinyai namaḥ |
putryai namaḥ |
śvasāyai vpriyāyai namaḥ |
stanadāyai namaḥ |
stanadharāyai namaḥ |
viśvayonyai namaḥ |
stanapradāyai namaḥ |
śiśurūpāyai namaḥ |
saṅgarūpāyai namaḥ |
lokapālinyai namaḥ |
nandinyai namaḥ |
khaṭvāṅgadhāriṇyai namaḥ |
sakhaḍgāyai namaḥ |
sabāṇāyai namaḥ |
bhānuvartinyai namaḥ |
viruddhākṣyai namaḥ |
mahiṣāsṛkpriyāyai namaḥ |
kauśikyai namaḥ |
umāyai namaḥ |
śākambharyai namaḥ |
śvetāyai namaḥ |
kṛṣṇāyai namaḥ |
kaiṭabhanāśinyai namaḥ |
hiraṇyākṣyai namaḥ |
śubhalakṣaṇāyai namaḥ ||oṃ||
evaṃ taddina durgāṃ samārādhya yathā śakti
kumārīpūjāṃ brāhmaṇasuvāsinībhyaḥ
upāyanadānānnadānādikaṃ ca kṛtvā navarātravrataṃ
samāpayet ||
jaya jaya śaṅkara !
oṃ śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya
śrī candramaul̤īśvara parabrahmaṇe namaḥ !
|| iti harṣānandanāthakṛta kalpokta
navadurgāpūjāvidheḥ saṅgrahaḥ || || śivam ||
Encoded by R. Harshananda
% Text title : kalpokta navadurgaapuujaavidhiH
% File name : kalpoktanavadurgaapuujaa.itx
% itxtitle : navadurgApUjAvidhiH kalpoktA
% engtitle : kalpokta navadurgApUjAvidhiH
% Category : pUjA, devii, durgA, svara, devI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : svara
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : R. Harshananda harshanand_16 at rediffmail.com
% Indexextra : (kalpokta)
% Latest update : April 17, 2002
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
కల్పోక్త నవదుర్గాపూజావిధిః
జయ జయ శఙ్కర !
ఓం శ్రీ లలితా మహాత్రిపురసున్దరీ పరాభట్టారికా సమేతాయ
శ్రీ చన్ద్రమౌళీశ్వర పరబ్రహ్మణే నమః !
ఓం దుర్గా త్వార్యా భగవతీ కుమారీ అమ్బికా తథా ।
మహిషోన్మర్దినీ చైవ చణ్డికా చ సరస్వతీ ।
వాగీశ్వరీతి క్రమశః ప్రోక్తాస్తద్దినదేవతాః ॥
[ నిర్ణయసిన్ధూదాహృతవచనైః అమావాస్యాసమ్బన్ధ
రహితాయాముదయవ్యాపిన్యాం ఆశ్వినశుక్లప్రతిపది నవరాత్ర
నవదుర్గా వ్రతమారభేత్ । తచ్చ నక్తవ్రతత్వాత్ రాత్రౌ
కర్తవ్యమిత్యేకః పక్షః । సమ్ప్రదాయానురోధేన వ్యవస్థా । ]
॥ ప్రార్థనా ॥
నవరాత్రౌ నక్తభోజీ చరిష్యేఽహం మహేశ్వరీ ।
త్వత్ప్రీత్యర్థం వ్రతం దేవి తదనుజ్ఞాతుమర్హసి ॥
ఓం దేవీం వాచ॑మజనయన్త దేవాస్తాం విశ్వరూ॑పాః పశవో॑
వదన్తి ।
సా నో॑ మన్ద్రేషమూర్జం దుహా॑నా ధేనుర్వాగస్మానుప
సుష్టుతైతు॑ ॥
తదేవ లగ్నం సుదినం తదేవ తారాబలం చన్ద్రబలం తదేవ ।
విద్యాబలం దైవబలం తదేవ లక్ష్మీపతే తేఽంఘ్రియుగ్మం
స్మరామి ॥
సుముహూర్తమస్తు । సుప్రతిష్ఠితమస్తు । ఉత్తరే కర్మణి
నైర్విఘ్న్యమస్తు ॥
కరిష్యమాణస్య కర్మణః నిర్విఘ్నేన పరిసమాప్త్యర్థం ఆదౌ
గురుపూజాం గణపతిప్రార్థనాం చ కరిష్యే ॥
॥ గురుపూజా ॥
ఓం గుం గురుభ్యో నమః । ఓం పం పరమగురుభ్యో నమః । ఓం పం
పరమేష్ఠిగురుభ్యో నమః ॥
గోత్రాచార్యేభ్యో నమః । బాదరాయణాయ నమః । శ్రీ
శఙ్కరభగవత్పాదాచార్యాయ నమః ॥
ప్రార్థనాం సమర్పయామి ॥
॥ గణపతి ప్రార్థనా ॥
గ॒ణానాం᳚ త్వా గ॒ణప॑తిం హవామహే క॒విం క॑వీ॒నాము॑ప॒మశ్ర॑వస్తమమ్ ।
జ్యే॒ష్ఠ॒రాజం॒ బ్రహ్మ॑ణాం బ్రహ్మణస్పత॒ ఆ నః॑ శృ॒ణ్వన్నూ॒తిభిః॑ సీద॒ సాద॑నమ్ ॥ ౨.౦౨౩.౦౧
విఘ్నేశ్వరాయ నమః ॥ శ్రీ మహాగణపతయే నమః ॥ ప్రార్థనాం
సమర్పయామి । కర్మకాలే నైర్విఘ్న్యం కురు ॥
॥ ఘణ్టానాదః ॥
ఓం ధ్రు॒వా ద్యౌర్ధ్రు॒వా పృ॑థి॒వీ ధ్రు॒వాసః॒ పర్వ॑తా
ఇమే॒ ।
ధ్రు॒వం విశ్వ॑మిదం జగ॑ధ్ద్రు॒వో రాజా॑ విశామయమ్ ॥
ఓం యేభ్యో॑ మా॒తా మధు॑మ॒త్పిన్వ॑తే॒ పయః॑ పీ॒యూషం॒
ద్యౌఅది॑తి॒రద్రి॑బర్హాః ।
ఉ॒క్తశు॑ష్మాన్వృషభరాన్త్స్వప్న॑స॒స్తా ఆ॑ది॒త్యా
అను॑మదా స్వ॒స్తయే॑ ॥
ఓం ఏ॒వా పి॒త్రే వి॒శ్వదే॑వాయ॒ వృష్ణే॑
య॒జ్ఞైర్వి॑ధేమ॒ నమ॑సా హవిర్భిః॑ ।
బృహ॑స్పతే సుప్ర॒జా వీ॒రవన్॑తో వ॒యం స్యా॑మ॒
పత॑యోర॒యీణామ్ ॥
ఓం ఆగమార్థం తు దేవానాం గమనార్థం తు రక్షసామ్ ।
కుర్వే ఘణ్టారవం తత్ర దేవతాహ్వానలాఞ్ఛనమ్ ॥ [ ఇతి
ఘణ్టానాదం కృత్వా ]
॥ సఙ్కల్పః : ॥
ఓం శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజం ।
ప్రసన్న వదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే ॥
[ దేశకాలాదౌ సంకీర్త్య]
మమోపాత్త సమస్త దురిత క్షయద్వారా శ్రీ దుర్గాపరమేశ్వరీ
ప్రీత్యర్థం సర్వాపచ్ఛాన్తిపూర్వక
దీర్ఘాయుర్విపులధనధాన్యపుత్రపౌత్రాద్యనవచ్ఛిన్నసన్తతివృద్ధి
స్థిరలక్ష్మీకీర్తిలాభశత్రుపరాజయసదభీష్టసిద్ధర్థం
యథాసమ్భవద్రవ్యైః యావచ్ఛక్తి ధ్యానావాహనాది
షోడశోపచారపూజాం కరిష్యే ॥
॥ కలశపూజనమ్ ॥
తదఙ్గత్వేన కలశపూజనం కరిష్యే ॥
[ ఫలపుష్పపత్రాదినా మణ్టపమలఙ్కృత్య తన్మధ్యే
తణ్డులాని స్థాపయేత్ । తదుపరి చిత్రవర్ణేన అష్టదలపద్మం
లిఖిత్వా తన్మధ్యే ప్రక్షాలితం
స్వర్ణరజతతామ్రమృణ్మయాద్యన్యతమపాత్రం ధూపాదినా విశోధ్య
సంస్థాప్య వస్త్రేణాఽచ్ఛాద్య తత్కలశాన్తరాలే పఞ్చఫల
పఞ్చపల్లవ స్వర్ణరచిత దుర్గా ప్రతిమాం గోధూమ ధాన్యోపరి
కలశే స్థాపయేత్ ]
ఓం మహీ ద్యౌః పృ॑థి॒వీ చ॑ న ఇ॒మం య॒జ్ఞం
మి॑మిక్షతామ్ ।
పి॒పృతాం నో॒ భరీ॑మభిః ॥ [ భూమిం స్పృష్ట్వా ]
ఓం ఓష॑దయః॒ సం వ॑దన్తే॒ సోమే॑న స॒హ రాజ్ఞా॑ ।
యస్మై॑ కృ॒ణోతి॑ బ్రాహ్మణస్తం రా॑జన్ పారయామ॑సి ॥
ఓం ఆ క॒లశే॑షు ధావతి శ్యే॒నో వర్మ॒ వి గా॑హతే ।
అ॒భి ద్రోణా॒ కని॑క్రదత్ ॥ [ ఇతి కలశమభిమన్త్ర్య ]
ఓం తన్తుం॑ త॒న్వన్రజ॑సో భా॒నుమన్వి॑హి॒ జ్యోతి॑ష్మతః
ప॒థో ర॑క్ష ధి॒యా కృ॒తాన్ ।
అ॒ను॒ల్బ॒ణం వయ॑త॒ జోగు॑వా॒మపో॒ మను॑ర్భవ
జ॒నయా॒ దైవ్యం॒ జన॑మ్ ॥ [ ఇతి సూత్రం సంవేష్ట్య
ఓం ఇ॒మం మే॑ గఙ్గే యమునే సరస్వతి॒ శుతుద్రి॒ స్తోమం॑
సచతా॒ ప॒రుష్ణ్యా ।
అ॒సి॒క్న్యా మ॑రుద్వృధే వి॒తస్త॒యాఽఽర్జీ॑కీయే
శృణు॒హ్యా సు॒షోమ॑యా ॥ ఇతి జలం సమ్పూర్య
ఓం స హి రత్నా॑ని దా॒శుషే॑ సు॒వాతి॑ సవి॒తా భగః॑ ।
తం భా॒గం చి॒త్రమీ॑మహే ॥ ఇతి పఞ్చరత్నాని నిధాయ
ఓం అ॒శ్వ॒త్థే వో॑ ని॒షద॑నం ప॒ర్ణే వో॑
వస॒తిష్కృ॒తా ।
గో॒భాజ ఇత్కిలా॑సథ॒ యత్స॒నవ॑థ॒ పూరు॑షమ్ ॥ ఇతి
పల్లవాన్ నిక్షిప్య
ఓం పూ॒ర్ణా ద॑ర్వీ॒ పరా॑ పత॒ సుపూ॑ర్ణా॒ పున॒రాపత॑ ।
వ॒స్నేవ॒ వి క్రీ॑ణావహా॒ ఇష॒మూర్జꣳ॑ శతక్రతో ॥
ఇతి దర్వీం నిక్షిప్య
ఓం యాః ఫ॒లినీ॒ర్యా అ॑ఫ॒లా అ॑పు॒ష్పా యాశ్చ॑
పుష్పిణీః॑ ।
బృహ॒స్పతి॑ప్రసూతా॒స్తా నో॑ ముఞ్చ॒త్వంహ॑సః ॥
ఇతి ఫలం సమర్ప్య
ఓం గన్ధ॑ద్వా॒రాం దు॑రాధ॒ర్షాం నిత్య॑పుష్టాం
కరీ॒షిణీ॑మ్ ।
ఈ॒శ్వ॒రీం॒ స॑ర్వభూతానాం॒ తామి॒హోప॑హ్వయే॒
శ్రియ॑మ్ ॥ ఇతి గన్ధమ్ సమర్ప్య
ఓం అర్చ॑త॒ ప్రార్చ॑త॒ ప్రియ॑మేధా సో॒ అర్చ॑త ।
అర్చ॑న్తు పుత్ర॒కా ఉ॒త పురం॒ న
ధృ॒ష్ణ్వ॑ర్చత ॥ ఇత్యక్షతాన్ నిక్షిప్య
ఓం ఆయ॑నే తే ప॒రాయ॑ణే దూర్వా॑ రోహన్తు పుష్పిణీః॑ ।
హ్ర॒దాశ్చ॑ పు॒ణ్డరీ॑కాణి సము॒ద్రస్య॑ గృ॒హా
ఇ॒మే ॥ ఇతి పుష్పాణి సమర్పయేత్
ఓం పవిత్రం॑ తే॒ విత॑తం బ్రహ్మణస్పతే ప్ర॒భుర్గాత్రా॑ణి॒
పర్యే॑షి విశ్వతః॑ ।
అత॑ప్తనూ॒ర్న తదా॒మో అ॑శ్నుతే శృ॒తాస॒
ఇద్వహ॑న్త॒స్తత్సమా॑శత ॥ ఇతి శిరఃకూర్చం నిధాయ
ఓం తత్త్వాయామీత్యస్య మన్త్రస్య శునఃశేప ఋషిః త్రిష్టుప్ ఛన్దః
వరుణో దేవతా కలశే వరుణావాహనే వినియోగః ॥
ఓం తత్త్వా॑ యామి॒ బ్రహ్మ॑ణా॒ వన్ద॑మాన॒స్తదా శా॑స్తే
యజ॑మానోహ॒విర్భిః ।
ఆహే॑ళమానో వరుణే॒హ బో॒ధ్యురు॑శమ్స॒మాన॒ ఆయుః॒
ప్రమో॑షీః ॥ ఇతి అభిమన్త్రయేత్
అస్మిన్ కలశే ఓం భూః వరుణమావాహయామి । ఓం భువః
వరుణమావాహయామి । ఓం స్వః వరుణమావాహయామి ।
ఓం భూర్భువస్స్వః వరుణమావాహయామి ॥
కలశస్య ముఖే విష్ణుః కణ్ఠే రుద్రాః సమాశ్రితాః । మూలే తత్ర
స్థితో బ్రహ్మా మధ్యే మాతృగణాః స్మృతాః ॥
కుక్షౌ తు సాగరాస్సర్వే సప్తద్వీపా వసున్ధరా । ఋగ్వేదోఽథ
యజుర్వేదః సామవేదోప్యథర్వణః ॥
అఙ్గైశ్చ సహితాః సర్వే కలశం తు సమాశ్రితాః । అత్ర
గాయత్రీ సావిత్రీ శాన్తిః పుష్టికరీ తథా ।
ఆయాన్తు దేవీపూజార్థం దురితక్షయకారకాః । సర్వే సముద్రాః
సరితస్తీర్థాని జలదా నదాః ॥
గఙ్గే చ యమునే చైవ గోదావరీ సరస్వతీ । నర్మదే సిన్ధు
కావేరీ జలేఽస్మిన్ సన్నిధిం కురు ॥
సితమకరనిషణ్ణాం శుభ్రవస్త్రాం త్రినేత్రాం
కరధృతకలశోద్యత్సూత్పలాభీత్యభీష్టామ్ ।
విధిహరిహరరూపాం సేన్దుకోటీరచూడాం భసితసితదుకూలాం
జాహ్నవీం తాం నమామి ॥
కలశదేవతాభ్యో నమః । ప్రార్థనాం సమర్పయామి ॥
॥ శఙ్ఖ పూజా ॥
[భూమిం ప్రోక్ష్య శఙ్ఖం ప్రక్షాల్య సంస్థాప్య ]
ఓం శం నో॑ దే॒వీర॒భీష్ట॑య॒ ఆ॑పో భవన్తు పీ॒తయే॑ ।
శం యో ర॒భిస్ర॑వన్తు నః ॥
[ ఇతి మన్త్రేణ జలం పూరయిత్వా శఙ్ఖ ముద్రాం
ధేనుముద్రాం చ ప్రదర్శయేత్ ]
జాతవేదస ఇత్యస్య మన్త్రస్య మారీచః కశ్యప ఋషిః త్రిష్టుప్
చన్దః జాతవేదాగ్నిర్దేవతా అగ్నికలావాహనే వినియోగః ॥
ఓం జా॒తవే॑దసే సునవామ॒ సోమ॑మరాతీయ॒తో ని ద॑హాతి॒
వేదః॑ ।
స నః॑ పర్ష॒దతి॑ దు॒ర్గాణి॒ వి॑శ్వా నా॒వేవ॒ సిన్ధుం॑
దురి॒తాత్య॒గ్నిః ॥
ఓం భూః అగ్నికలామావాహయామి । ఓం భువః అగ్నికలామావాహయామి ।
ఓం స్వః అగ్నికలామావాహయామి ।
ఓం భూర్భువస్స్వః అగ్నికలామావాహయామి ॥
తత్సవితురిత్యస్య మన్త్రస్య విశ్వామిత్ర ఋషిః దైవీ గాయత్రీ
ఛన్దః సవితా దేవతా సౌరకలావాహనే వినియోగః ॥
ఓం తత్స॑వి॒తుర్వరేణ్యం॒ భర్గో॑ దే॒వస్య॑ ధీమహి । ధియో॒
యో నః॑ ప్రచో॒దయా॑త్ ॥
ఓం భూః సౌరకలామావాహయామి । ఓం భువః
సౌరకలామావాహయామి । ఓం స్వః సౌరకలామావాహయామి ।
ఓం భూర్భువస్స్వః సౌరకలామావాహయామి ॥
త్ర్యమ్బకమితి మన్త్రస్య మైత్రావరుణిర్వసిష్ఠ ఋషిః అనుష్టుప్
ఛన్దః త్ర్యమ్బక రుద్రో దేవతా అమృతకలావాహనే వినియోగః ॥
ఓం త్ర్య॑మ్బకం యజామహే సుగన్ధిం॑ పుష్టి॒వర్ధ॑నమ్ ।
ఉ॒ర్వా॒రు॒కమి॑వ బన్ధ॑నా॒త్ మృత్యోర్ము॑క్షీయ॒
మామృతా॑త్ ॥
ఓం భూః అమృతకలామావాహయామి । ఓం భువః
అమృతకలామావాహయామి । ఓం స్వః అమృతకలామావాహయామి ।
ఓం భూర్భువస్స్వః అమృతకలామావాహయామి ॥
ఓం పవనగర్భాయ విద్మహే పాఞ్చజన్యాయ ధీమహి తన్నః శఙ్ఖః
ప్రచోదయాత్ ॥
[ ఇతి త్రివారమర్ఘ్యమ్ ]
॥ అథ మణ్టపధ్యానమ్ ॥
ఉత్తప్తోజ్జ్వలకాఞ్చనేన రచితం తుఙ్గాఙ్గరఙ్గస్థలమ్ ।
శుద్ధస్ఫాటికభిత్తికా విరచితైః స్తమ్భైశ్చ హైమైః
శుభైః ॥ ద్వారైశ్చామర రత్న రాజిఖచితైః
శోభావహైర్మణ్డపైః । తత్రాన్యైరపి చక్రశఙ్ఖధవలైః
ప్రోద్భాసితం స్వస్తికైః ॥
ముక్తాజాలవిలమ్బిమణ్టపయుతైర్వజ్రైశ్చ సోపానకైః ।
నానారత్నవినిర్మితైశ్చ కలశైరత్యన్తశోభావహమ్ ॥
మాణిక్యోజ్జ్వలదీపదీప్తిరచితం లక్ష్మీవిలాసాస్పదమ్ ।
ధ్యాయేన్మణ్టపమర్చనేషు సకలేష్వేవం విధం సాధకః ॥
॥ ద్వారపాలక పూజా ॥
ఓం క్షేత్రపాలాయ నమః । ఓం సింహాయ నమః । ఓం గరుడాయ నమః ।
ఓం ద్వారశ్రియై నమః । ఓం ధాత్ర్యై నమః ।
ఓం విధాత్ర్యై నమః । ఓం పూర్వద్వారశ్రియై నమః । శఙ్ఖనిధయే
నమః । పుష్పనిధయే నమః । దక్షిణద్వారశ్రియై నమః । బలాయై
నమః । ప్రబలాయై నమః । ప్రచణ్డాయై నమః । పశ్చిమ
ద్వారశ్రియై నమః । జయాయై నమః । విజయాయై నమః । గఙ్గాయై
నమః । యమునాయై నమః । ఉత్తరద్వారశ్రియై నమః । ఋగ్వేదాయ
నమః । యజుర్వేదాయ నమః । సామవేదాయ నమః । అథర్వణవేదాయ
నమః । కృతయుగాయ నమః । త్రేతాయుగాయ నమః । ద్వాపరయుగాయ
నమః । కలియుగాయ నమః । పూర్వసముద్రాయ నమః ।
దక్షిణసముద్రాయ నమః । పశ్చిమసముద్రాయ నమః ।
ఉత్తరసముద్రాయ నమః । ద్వారదేవతాభ్యో నమః । ద్వారపాలక
పూజాం సమర్పయామి ॥
॥ పీఠపూజా ॥
ఓం ఆధారశక్త్యై నమః । మూలప్రకృత్యై నమః । కూర్మాయ
నమః । అనన్తాయ నమః । వాస్త్వధిపతయే బ్రహ్మణే నమః ।
వాస్తుపురుషాయ నమః । శ్వేత ద్వీపాయ నమః । స్వర్ణమణ్డపాయ
నమః । అమృతార్ణవాయ నమః । రత్నద్వీపాయ నమః ।
నవరత్నమయమణ్డపాయ నమః । భద్రకమలాసనాయై నమః ।
గుణాధిపతయే నమః । సరస్వత్యై నమః । దుర్గాయై నమః ।
క్షేత్రపాలాయ నమః । ధర్మాయ నమః । జ్ఞానాయ నమః ।
వైరాగ్యాయ నమః । ఐశ్వర్యాయ నమః । అధర్మాయ నమః ।
అజ్ఞానాయ నమః । అవైరాగ్యాయ నమః । అనైశ్వర్యాయ నమః ।
అవ్యక్తవిగ్రహాయ నమః । అనన్దకన్దాయ నమః । ఆకాశబీజాత్మనే
బుద్ధినాలాయ నమః । ఆకాశాత్మనే కర్ణికాయై నమః ।
వాయ్వాత్మనే కేసరేభ్యో నమః । అగ్న్యాత్మనే దలేభ్యో నమః ।
పృథివ్యాత్మనే పరివేషాయ నమః । అం అర్కమణ్డలాయ
వసుప్రదద్వాదశకలాతత్వాత్మనే నమః । ఉం సోమమణ్డలాయ
వసుప్రదషోడశకలాతత్వాత్మనే నమః । మం వహ్నిమణ్డలాయ
వసుప్రదదశకలాతత్వాత్మనే నమః । సం సత్వాయ నమః । రం
రజసే నమః । తం తమసే నమః । విం విద్యాయై నమః । ఆం
ఆత్మనే నమః । ఉం పరమాత్మనే నమః । మం అన్తరాత్మనే నమః । ఓం
హ్రీం జ్ఞానత్మనే నమః । పీఠపూజాం సమర్పయామి ॥
॥ ఆవాహనమ్ ॥
జాతవేదస ఇత్యస్య మన్త్రస్య కశ్యప ఋషిః త్రిష్టుప్ ఛన్దః
జాతవేదాగ్నిర్దేవతా దుర్గావాహనే వినియోగః ॥
ఓం జా॒తవే॑దసే సునవామ॒ సోమ॑మరాతీయ॒తో ని ద॑హాతి॒
వేదః॑ ।
స నః॑ పర్ష॒దతి॑ దు॒ర్గాణి॒ వి॑శ్వా నా॒వేవ॒ సిన్ధుం॑
దురి॒తాత్య॒గ్నిః ॥
ఓం భూః దుర్గామావాహయామి । ఓం భువః దుర్గామావాహయామి । ఓం
స్వః దుర్గామావాహయామి ।
ఓం భూర్భువస్స్వః దుర్గామావాహయామి ॥
స్వామిన్యఖిలలోకేశీ యావత్పూజావసానకమ్ । తావత్త్వం
ప్రీతిభావేన బిమ్బేఽస్మిన్ సన్నిధిం కురు ॥
॥ మలాపకర్షణస్నానమ్ ॥
ఓం అగ్నిమీళేత్యస్య సూక్తస్య వైశ్వామిత్రోమధుచ్ఛన్దా ఋషిః
గాయత్రీ ఛన్దః అగ్నిర్దేవతా ॥
ఓం అ॒గ్నిమీ॑ళే పు॒రోహి॑తం య॒జ్ఞస్య॑ దే॒వమృ॒త్విజ॑మ్ ।
హోతా॑రం ర॒త్నధాత॑మమ్ ॥
అ॒గ్నిః పూర్వే॑భి॒రృషి॑భి॒రీడ్యో॒ నూత॑నైరు॒త । స
దే॒వాꣳ ఏహ వక్ష॑తి ॥
అ॒గ్నినా॑ ర॒యిమ॑ష్నవ॒త్ పోష॑మే॒వ ది॒వే ది॑వే ।
య॒శసం॑ వీ॒రవత్త్॑అమమ్ ॥
అగ్నీ॒ యం య॒జ్ఞమధ్వ॑రం వి॒శ్వతః॑ పరి॒భూరసి॑ । స
ఇద్దే॒వేషు॑ గచ్ఛతి ॥
అ॒గ్నిర్హోతా॑ కవిక్ర॑తుః స॒త్యశ్చి॒త్రశ్ర॑వస్తమః । దే॒వో
దే॒వేభి॒రాగమత్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః । మలాపకర్షణస్నానం
సమర్పయామి ॥
॥ నవశక్తి పూజా ॥
ఓం ప్రభాయై నమః । మాయాయై నమః । జయాయై నమః । సూక్ష్మాయై
నమః । విశుద్ధాయై నమః । నన్దిన్యై నమః । సుప్రభాయై నమః ।
విజయాయై నమః । సర్వసిద్ధిప్రదాయై నమః ॥
ఓం నమో భగవత్యై సకలగుణశక్తియుక్తాయై
యోగపద్మపీఠాత్మికాయై నమః । సువర్ణ మహాపీఠం కల్పయామి ॥
స్వాత్మసంస్థామజాం శుద్ధాం త్వామద్య పరమేశ్వరీ ।
అరణ్యామిహ హవ్యాశం మూర్తావావాహయామ్యహమ్ ॥
ఓం ఆం హ్రీం క్రోం యరలవశషసహోఽం సం హంసః శ్రీ
దుర్గాపరమేశ్వర్యాః ప్రాణాః ఇహ ప్రాణాః ।
ఓం ఆం హ్రీం క్రోం యరలవశషసహోఽం సం హంసః శ్రీ
దుర్గాపరమేశ్వర్యాః జీవ ఇహ స్థితః ।
ఓం ఆం హ్రీం క్రోం యరలవశషసహోఽం సం హంసః శ్రీ
దుర్గాపరమేశ్వర్యాః సర్వేన్ద్రియాణి ఇహ స్థితాని ।
పృథివ్యప్తేజోవాయ్వాకాశ
శబ్దస్పర్శరూపరసగన్ధశ్రోత్రత్వక్చక్షుర్జిహ్వాఘ్రాణ
వాక్పాణిపాదపాయూపస్థవచనాదానవిహరణవిసర్గానన్ద
మనోబుద్ధిచిత్తాహఙ్కారజ్ఞానాత్మనే అన్తరాత్మనే పరమాత్మనే
నమః ॥ ఇహైవాగత్య సుఖం చిరం తిష్ఠన్తు స్వాహా ॥
ఓం అ॑సునీతే॒ పున॑ర॒స్మాసు॒ చక్షుః॒ పునః॑ ప్రా॒ణమి॒హ
నో॑ ధే॒హి భోగ॑మ్ ।
జ్యోక్ ప॑శ్యేమ॒ సూర్య॑ము॒చ్చర॑న్త॒మనుమతే మృ॒ళయా॑ నః
స్వ॒స్తి ॥
ఓం భూర్భువస్స్వరోఽమ్ । సశక్తిసాఙ్గసాయుధసవాహనసపరివారే
దుర్గే భగవతి అత్రైవాఽగచ్ఛాఽగచ్ఛ ఆవాహయిష్యే
ఆవాహయామి ॥
ఆవాహితా భవ । సంస్థాపితా భవ । సన్నిహితా భవ ।
సన్నిరుద్ధా భవ । సమ్ముఖా భవ । అవకుణ్ఠితో భవ । వ్యాప్తా
భవ । సుప్రసన్నా భవ । మమ సర్వాభీష్ట ఫలప్రదా భవ ॥
[ తద్దినస్య దుర్గాయాః మూలమన్త్రస్య ఋష్యాది న్యాసం
విధాయ ధ్యాత్వా మూలమన్త్రం యథా శక్తి జపేత్ ]
శ్రీ దుర్గాపరమేశ్వర్యై నమః । ధ్యాయామి ధ్యానం
సమర్పయామి । ఆవాహయామి ఆవాహనం సమర్పయామి । అర్ఘ్యం
సమర్పయామి । పాద్యం సమర్పయామి । ఆచమనం సమర్పయామి ।
మధుపర్కం సమర్పయామి । గన్ధం సమర్పయామి । పుష్పం
సమర్పయామి । [ ఇత్యాది సంక్షిప్త ధూప దీప నైవేద్య
నీరాజనాదికం కుర్యాత్ ]
॥ పఞ్చామృతస్నానమ్ ॥
క్షీరస్నానమ్
ఓం ఆ ప్యా॑యస్వ॒ స॑మేతు తే వి॒శ్వతః॑ సోమ॒ వృష్॑ణియమ్ ।
భవా॒ వాజ॑స్య సఙ్గ॒థే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః క్షీరస్నానం సమర్పయామి ॥
క్షీరస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం జా॒తవే॑దసే సునవామ॒ సోమ॑మరాతీయ॒తో ని ద॑హాతి॒
వేదః॑ ।
స నః॑ పర్ష॒దతి॑ దు॒ర్గాణి॒ వి॑శ్వా నా॒వేవ॒ సిన్ధుం॑
దురి॒తాత్య॒గ్నిః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
దధిస్నానమ్
ఓం ద॒ధి॒క్రావ్ణో॑ అకారిషం
జి॒ష్ణోరశ్వ॑స్యవా॒జినః॑।సుర॒భి నో॒ ముఖా॑కర॒త్ప్రణ
ఆయూం॑షి తారిషత్।
శ్రీ దుర్గాపరమేశ్వర్యై నమః దధిస్నానం సమర్పయామి ॥
దధిస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం తామ॒గ్ని॑వర్ణాం॒ తప॑సా జ్వ॒లన్తీం వై॑రోచ॒నీం
క॑ర్మఫ॒లేషు॒ జుష్టా॑మ్ ।
దు॒ర్గాం॒ దే॒వీం శర॑ణమ॒హం ప్రపద్యే॑ సుత॒ర॑సి
తరసే॒ నమః॑ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
ఘృతస్నానమ్
ఓం ఘృ॒తం మి॑మిక్షే ఘృ॒తమ॑స్య॒ యోని॑ర్ఘృ॒తే
శ్రి॒తో ఘృతమ్వ॑స్య॒ధామ॑ ।
అ॒ను॒ష్వ॒ధమా వ॑హ మా॒దయ॑స్వ॒ స్వాహా॑కృతం
వృషభ వక్షిహ॒వ్యమ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ఘృతస్నానం సమర్పయామి ॥
ఘృతస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం అగ్నే॒ త్వం పా॑రయా॒ నవ్యో॑ అ॒స్మాన్ స్వ॒స్తిభి॒రతి॑
దు॒ర్గాణి॒ విశ్వా॑ ।
పూశ్చ॑ పృ॒థ్వీ బ॑హు॒లా న॑ ఉ॒ర్వీ భవా॑ తో॒కాయ॒
తన॑యాయ॒ శం యోః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
మధుస్నానమ్
ఓం మధు॒ వాతా॑ ఋతాయ॒తే మధు॑ క్షరన్తి॒ సిన్ధ॑వః ।
మాధ్వీ॑ర్నః స॒న్త్వోష॑ధీః ।
మధు॒నక్త॑ము॒తోషసి॒ । మధు॑మ॒త్ పార్థి॑వం॒ రజః॑ ।
మధు॒ ద్యౌర॑స్తు నః పి॒తా ॥
మధు॑మాన్నో॒ వన॒స్పతి॒ర్మధు॑మాꣳ అస్తు॒ సూర్యః॑ ।
మాధ్వీ॒ర్గావో॑ భవన్తు నః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః మధుస్నానం సమర్పయామి ॥
మధుస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం విశ్వా॑ని నో దు॒ర్గహా॑ జాతవేదః॒ సిన్ధుం॒ న నా॒వా
దు॑రి॒తాతి॑ పర్షి ।
అగ్నీ॑ఽ అత్రి॒వన్నమ॑సా గృణా॒నోఽఽస్మాకం॑ బోధ్య వి॒తా
త॒నూనా॑మ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
శర్కరాస్నానమ్
ఓం స్వా॒దుః ప॑వస్వ ది॒వ్యాయ॒ జన్మ॑నే స్వా॒దురిన్ద్రా॑య
సు॒హవీ॑తునామ్నే ।
స్వా॒దుర్మిత్రాయ॒ వరు॑ణాయ వా॒యవే॒ బృహ॒స్పత॑యే॒
మధు॑మాꣳ అదా॑భ్యః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శర్కరాస్నానం సమర్పయామి ॥
శర్కరాస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం పృ॒త॒నా॒ జి॒త॒గం సహ॑మానము॒గ్రమగ్నిం హు॑వేమ
ప॒రమాత్స॒ధస్తా॑త్ ।
స నః॑ పర్ష॒దతి॑ దు॒ర్గాణి॒ విశ్వా క్షామ॑ద్దే॒వోఽతి॑
దురితాత్యగ్నిః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
ఫలోదకస్నానమ్
ఓం యాః ఫ॒లినీ॒ర్యా అ॑ఫ॒లా అ॑పు॒ష్పా యాశ్చ॑
పుష్పిణీః॑ ।
బృహ॒స్పతి॑ప్రసూతా॒స్తా నో॑ ముఞ్చ॒త్వంహ॑సః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ఫలోదకస్నానం సమర్పయామి ॥
ఫలోదకస్నానానన్తరం శుద్ధోదకేన స్నపయిష్యే ॥
ఓం ఆపో॒హిష్ఠా మ॑యో॒భువ॒స్తాన॑ఊ॒ర్జే ద॑ధా॒తన ।
మ॒హేరణా॑య చక్ష॑సే యో వః॑ శి॒వతమో॒ రసః॒ ।
తస్య॑ భాజయతే॒ హనః॑ ఉ॒శ॒తీరి॑వ మా॒తరః॑ ।
తస్మా॒ అరఙ్గమామవః॒ ।
యస్య॒క్షయా॑య॒ జిన్వ॑థ ఆపో॑ జ॒నయ॑థా చ నః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
అమృతాభిషేకమ్
[ శ్రీసూక్త- దుర్గా సూక్త - రుద్రాద్యైః అమృతాభిషేకం
కుర్యాత్ ]
శ్రీ దుర్గాపరమేశ్వర్యై నమః అమృతాభిషేకస్నానం
సమర్పయామి ॥
॥ కల్పోక్త
షోడశోపచార పూజా ॥
ధ్యానమ్
ఓం దుర్గాం భగవతీం ధ్యాయేన్మూలమన్త్రాధిదేవతామ్ । వాణీం
లక్ష్మీం మహాదేవీం మహామాయాం విచిన్తయేత్ ।
మాహిషఘ్నీఇం దశభుజాం కుమారీం సింహవాహినీమ్ ।
దానవాస్తర్జయన్తీ చ సర్వకామదుఘాం శివామ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ధ్యాయామి ధ్యానం సమర్పయామి ॥
ఆవాహనమ్
ఓం వాక్ శ్రీదుర్గాదిరూపేణ విశ్వమావృత్య తిష్ఠతి ।
ఆవాహయామి త్వాం దేవి సమ్యక్ సన్నిహితా భవ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ఆవాహయామి ఆవాహనం
సమర్పయామి ॥
ఆసనమ్
ఓం భద్రకాలి నమస్తేఽస్తు భక్తానామీప్సితార్థదే ।
స్వర్ణసింహాసనం చారు ప్రీత్యర్థం ప్రతిగృహ్యతామ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ఆసనం సమర్పయామి ॥
స్వాగతమ్
ఓం సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే । కృతాఞ్జలిపుటో
భక్త్యా స్వాగతం కల్పయామ్యహమ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః స్వాగతం సమర్పయామి ॥
అర్ఘ్యమ్
ఓం మహాలక్ష్మి మహామయే మహావిద్యాస్వరూపిణీ ।
అర్ఘ్యపాద్యాచమాన్ దేవి గృహాణ పరమేశ్వరీ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః అర్ఘ్య-పాద్య-ఆచమనాని
సమర్పయామి ॥
మధుపర్కమ్
ఓం దూర్వాఙ్కురసమాయుక్తం గన్ధాదిసుమనోహరమ్ । మధుపర్కం
మయా దత్తం నారాయణి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః మధుపర్కం సమర్పయామి ॥
పఞ్చామృతస్నానమ్
ఓం స్నానం పఞ్చామృతం దేవి భద్రకాలి జగన్మయి । భక్త్యా
నివేదితం తుభ్యం విశ్వేశ్వరి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః పఞ్చామృతస్నానం
సమర్పయామి ॥
శుద్ధోదకస్నానమ్
ఓం శుద్ధోదకసమాయుక్తం గఙ్గాసలిలముత్తమమ్ । స్నానం గృహాణ
దేవేశి భద్రకాలి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః శుద్ధోదకస్నానం సమర్పయామి ॥
వస్త్రమ్
ఓం వస్త్రం గృహాణ దేవేశి దేవాఙ్గసదృశం నవమ్ ।
విశ్వేశ్వరి మహామాయే నారాయణి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః రత్నదుకూలవస్త్రం సమర్పయామి ॥
కఞ్చుకమ్
ఓం గోదావరి నమస్తుభ్యం సర్వాభీష్టప్రదాయిని ।
సర్వలక్షణసంభూతే దుర్గే దేవి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః రత్నకఞ్చుకం సమర్పయామి ॥
యజ్ఞోపవీతమ్
ఓం తక్షకానన్తకర్కోట నాగయజ్ఞోపవీతిని । సౌవర్ణం
యజ్ఞసూత్రం తే దదామి హరిసేవితే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః స్వర్ణయజ్ఞోపవీతం సమర్పయామి ॥
ఆభరణమ్
ఓం నానారత్నవిచిత్రాఢ్యాన్ వలయాన్ సుమనోహరాన్ । అలఙ్కారాన్
గృహాణ త్వం మమాభీష్టప్రదా భవ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ఆభరణాని సమర్పయామి ॥
గన్ధః
ఓం గన్ధం చన్దనసంయుక్తం కుఙ్కుమాదివిమిశ్రితమ్ । గృహ్ణీష్వ
దేవి లోకేశి జగన్మాతర్నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః గన్ధం సమర్పయామి ॥
బిల్వగన్ధః
ఓం బిల్వవృక్షకృతావాసే బిల్వపత్రప్రియే శుభే ।
బిల్వవృక్షసముద్భూతో గన్ధశ్చ ప్రతిగృహ్యతామ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః బిల్వగన్ధం సమర్పయామి ॥
అక్షతాః
ఓం అక్షతాన్ శుభదాన్ దేవి హరిద్రాచూర్ణమిశ్రితాన్ ।
ప్రతిగృహ్ణీష్వ కౌమారి దుర్గాదేవి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః అక్షతాన్ సమర్పయామి ॥
పుష్పాణి
ఓం మాలతీబిల్వమన్దారకున్దజాతివిమిశ్రితమ్ । పుష్పం గృహాణ
దేవేశి సర్వమఙ్గలదా భవ ॥
శివపత్ని శివే దేవి శివభక్తభయాపహే । ద్రోణపుష్పం మయా
దత్తం గృహాణ శివదా భవ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః నానావిధ పరిమళ పత్రపుష్పాణి
సమర్పయామి ॥
॥ అథ అఙ్గపూజా ॥
ఓం వారాహ్యై నమః పాదౌ పూజయామి ।
ఓం చాముణ్డాయై నమః జఙ్ఘే పూజయామి ।
ఓం మాహేన్ద్ర్యై నమః జానునీ పూజయామి ।
ఓం వాగీశ్వర్యై నమః ఊరూ పూజయామి ।
ఓం బ్రహ్మాణ్యై నమః గుహ్యం పూజయామి ।
ఓం కాలరాత్ర్యై నమః కటిం పూజయామి ।
ఓం జగన్మాయాయై నమః నాభిం పూజయామి ।
ఓం మాహేశ్వర్యై నమః కుక్షిం పూజయామి ।
ఓం సరస్వత్యై నమః హృదయం పూజయామి ।
ఓం కాత్యాయన్యై నమః కణ్ఠం పూజయామి ।
ఓం శివదూత్యై నమః హస్తాన్ పూజయామి ।
ఓం నారసింహ్యై నమః బాహూన్ పూజయామి ।
ఓం ఇన్ద్రాణ్యై నమః ముఖం పూజయామి ।
ఓం శివాయై నమః నాసికాం పూజయామి ।
ఓం శతాక్ష్యై నమః కర్ణౌ పూజయామి ।
ఓం త్రిపురహంత్ర్యై నమః నేత్రత్రయం పూజయామి ।
ఓం పరమేశ్వర్యై నమః లలాటం పూజయామి ।
ఓం శాకమ్భర్యై నమః శిరః పూజయామి ।
ఓం కౌశిక్యై నమః సర్వాణి అఙ్గాని పూజయామి ॥
॥ అథ ఆవరణ పూజా ॥
ప్రథమావరణమ్
[తద్దినదుర్గాయః అఙ్గన్యాసమన్త్రాద్యైః
ప్రథమావరణమాచరేత్ ]
ద్వితీయావరణమ్
ఓం జయాయై నమః ।
ఓం విజయాయై నమః ।
ఓం కీర్త్యై నమః ।
ఓం ప్రీత్యై నమః ।
ఓం ప్రభాయై నమః ।
ఓం శ్రద్ధాయై నమః ।
ఓం మేధాయై నమః ।
ఓం సరస్వత్యై నమః ।
ఓం శ్రుత్యై నమః ।
తృతీయావణమ్
ఓం చక్రాయ నమః ।
ఓం శఙ్ఖాయ నమః ।
ఓం గదాయై నమః ।
ఓం ఖడ్గాయ నమః ।
ఓం పాశాయ నమః ।
ఓం అఙ్కుశాయ నమః ।
ఓం శరాయ నమః ।
ఓం ధనుషే నమః ।
తురీయావరణమ్
ఓం ఇన్ద్రాయ సురాధిపతయే పీతవర్ణాయ వజ్రహస్తాయ
ఐరావతవాహనాయ శచీసహితాయ సశక్తిసాఙ్గసాయుధ
సవాహన సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం అగ్నయే తేజోఽధిపతయే పిఙ్గలవర్ణాయ శక్తిహస్తాయ
మేషవాహనాయ స్వాహాదేవీసహితాయ సశక్తిసాఙ్గసాయుధ
సవాహన సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం యమాయ ప్రేతాధిపతయే కృష్ణవర్ణాయ దణ్డహస్తాయ
మహిషవాహనాయ ఇలాసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం నిరృతయే రక్షోఽధిపతయే రక్తవర్ణాయ ఖడ్గహస్తాయ
నరవాహనాయ కాలికాసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం వరుణాయ జలాధిపతయే శ్వేతవర్ణాయ పాశహస్తాయ
మకరవాహనాయ పద్మినీసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం వాయవే ప్రాణాధిపతయే ధూమ్రవర్ణాయ అఙ్కుశహస్తాయ
మృగవాహనాయ మోహినీసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం సోమాయ నక్షత్రాధిపతయే శ్యామలవర్ణాయ గదాహస్తాయ
అశ్వవాహనాయ చిత్రిణీసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం ఈశానాయ విద్యాధిపతయే స్ఫటికవర్ణాయ త్రిశూలహస్తాయ
వృషభవాహనాయ గౌరీసహితాయ సశక్తిసాఙ్గసాయుధ
సవాహన సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
ఓం బ్రహ్మణే లోకాధిపతయే హిరణ్యవర్ణాయ పద్మహస్తాయ
హంసవాహనాయ వాణీసహితాయ సశక్తిసాఙ్గసాయుధ సవాహన
సపరివారాయ శ్రీ దుర్గాపార్షదాయ నమః ।
పఞ్చమావరణమ్
ఓం వజ్రాయ నమః ।
ఓం శక్త్యై నమః ।
ఓం దణ్డాయ నమః ।
ఓం ఖడ్గాయ నమః ।
ఓం పాశాయ నమః ।
ఓం అఙ్కుశాయ నమః ।
ఓం గదాయై నమః ।
ఓం శూలాయ నమః ।
ఓం చక్రాయ నమః ।
ఓం పద్మాయ నమః ।
బిల్వపత్రమ్
ఓం శ్రీవృక్షమమృతోద్భూతం మహాదేవీ ప్రియం సదా ।
బిల్వపత్రం ప్రయచ్ఛామి పవిత్రం తే సురేశ్వరీ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః బిల్వపత్రం సమర్పయామి ॥
॥ అథ పుష్పపూజా ॥
ఓం దుర్గాయై నమః తులసీ పుష్పం సమర్పయామి
ఓం కాత్యాయన్యై నమః చమ్పకపుష్పం సమర్పయామి
ఓం కౌమార్యై నమః జాతీ పుష్పం సమర్పయామి
ఓం కాల్యై నమః కేతకీ పుష్పం సమర్పయామి
ఓం గౌర్యై నమః కరవీరపుష్పం సమర్పయామి
ఓం లక్ష్మ్యై నమః ఉత్పలపుష్పం సమర్పయామి
ఓం సర్వమఙ్గలాయై నమః మల్లికాపుష్పం సమర్పయామి
ఓం ఇన్ద్రాణ్యై నమః యూథికాపుష్పం సమర్పయామి
ఓం సరస్వత్యై నమః కమలపుష్పం సమర్పయామి
ఓం శ్రీ భగవత్యై నమః సర్వాణి పుష్పాణి సమర్పయామి ॥
॥ అథ చతుఃషష్టియోగినీ పూజా ॥
[ సర్వాదౌ ఓంకారం యోజయేత్ ]
ఓం దివ్యయోగాయై నమః ।
మహాయోగాయై నమః ।
సిద్ధయోగాయై నమః ।
గణేశ్వర్యై నమః ।
ప్రేతాశ్యై నమః ।
డాకిన్యై నమః ।
కాల్యై నమః ।
కాలరాత్ర్యై నమః ।
నిశాచర్యై నమః ।
ఝఙ్కార్యై నమః ।
ఊర్ధ్వభేతాల్యై నమః ।
పిశాచ్యై నమః ।
భూతడామర్యై నమః ।
ఊర్ధ్వకేశ్యై నమః ।
విరూపాక్ష్యై నమః ।
శుశ్కాఙ్గ్యై నమః ।
నరభోజిన్యై నమః ।
రాక్షస్యై నమః ।
ఘోరరక్తాక్ష్యై నమః ।
విశ్వరూప్యై నమః ।
భయఙ్కర్యై నమః ।
భ్రామర్యై నమః ।
రుద్రభేతాల్యై నమః ।
భీష్మర్యై నమః ।
త్రిపురాన్తక్యై నమః ।
భైరవ్యై నమః ।
ధ్వంసిన్యై నమః ।
క్రోధ్యై నమః ।
దుర్ముఖ్యై నమః ।
ప్రేతవాహిన్యై నమః ।
ఖట్వాఙ్గ్యై నమః ।
దీర్ఘలమ్బోష్ఠ్యై నమః ।
మాలిన్యై నమః ।
మన్త్రయోగిన్యై నమః ।
కౌశిక్యై నమః ।
మర్దిన్యై నమః ।
యక్ష్యై నమః ।
రోమజఙ్ఘాయై నమః ।
ప్రహారిణ్యై నమః ।
కాలాగ్నయే నమః ।
గ్రామణ్యై నమః ।
చక్ర్యై నమః ।
కఙ్కాల్యై నమః ।
భువనేశ్వర్యై నమః ।
యమదూత్యై నమః ।
ఫట్కార్యై నమః ।
వీరభద్రేశ్యై నమః ।
ధూమ్రాక్ష్యై నమః ।
కలహప్రియాయై నమః ।
కణ్టక్యై నమః ।
నాటక్యై నమః ।
మార్యై నమః ।
కరాలిన్యై నమః ।
సహస్రాక్ష్యై నమః ।
కామలోలాయై నమః ।
కాకదంష్ట్రాయై నమః ।
అధోముఖ్యై నమః ।
ధూర్జట్యై నమః ।
వికట్యై నమః ।
ఘోర్యై నమః ।
కపాల్యై నమః ।
విషలఙ్ఘిన్యై నమః ॥ ఓం ॥
॥ అథ ఆశ్టభైరవపూజా ॥
ఓం అసితాఙ్గభైరవాయ నమః ।
ఓం క్రోధభైరవాయ నమః ।
ఓం రురుభైరవాయ నమః ।
ఓం చణ్డభైరవాయ నమః ।
ఓం కపాలభైరవాయ నమః ।
ఓం ఖట్వాఙ్గభైరవాయ నమః ।
ఓం ఉన్మత్తభైరవాయ నమః ।
ఓం భీషణభైరవాయ నమః ।
॥ అథ అష్టోత్తరశతనామ పూజా ॥
[ అత్ర తద్దినదుర్గాయాః నామావలీం స్మరేత్ ]
॥ అథ ధూపః ॥
ఓం సగుగ్గుల్వగరూశీర గన్ధాది సుమనోహరమ్ । ధూపం గృహాణ
దేవేశి దుర్గే దేవి నమోఽస్తుతే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ధూపమాఘ్రాపయామి ॥
॥ అథ దీపః ॥
ఓం పట్టసూత్రోల్లసద్వర్తి గోఘృతేన సమన్వితమ్ । దీపం
జ్ఞానప్రదం దేవి గృహాణ పరమేశ్వరీ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః దీపం దర్శయామి ॥
॥ అథ నైవేద్యమ్ ॥
ఓం జుషాణ దేవి నైవేద్యం నానాభక్ష్యైః సమన్వితమ్ ।
పరమాన్నం మయా దత్తం సర్వాభీష్టం ప్రయచ్ఛ మే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః మహానైవేద్యం సమర్పయామి ॥
॥ అథ పానీయమ్ ॥
ఓం గఙ్గాదిసలిలోద్భూతం పానీయం పావనం శుభమ్ ।
స్వాదూదకం మయా దత్తం గృహాణ పరమేశ్వరీ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః అమృతపానీయం సమర్పయామి ॥
॥ అథ తామ్బూలమ్ ॥
ఓం పూగీఫలసమాయుక్తం నాగవల్లీదలైర్యుతమ్ ।
కర్పూరచూర్ణసంయుక్తం తామ్బూలం ప్రతిగృహ్యతామ్ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః తామ్బూలం సమర్పయామి ॥
॥ అథ నీరాజనమ్ ॥
ఓం పట్టిసూత్రవిచిత్రాఢ్యైః ప్రభామణ్డలమణ్డితైః ।
దీపైర్నీరాజయే దేవీం ప్రణవాద్యైశ్చ నామభిః ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః దివ్యమఙ్గలనీరాజనం
సమర్పయామి ॥
॥ అథ మన్త్రపుష్పమ్ ॥
ఓం పా॒వ॒కా నః॒ స॑రస్వతీ వాజే॑భిర్వాజినీ॑వతీ ।
యజ్ఞం॒ వ॑ష్టు ధి॒యావ॑సుః ॥
గౌ॒రీర్మి॑మాయ సలి॒లాని॒ తక్షత్యేక॑పదీ ద్వి॒పదీ॒ సా
చతు॑ష్పదీ ।
అ॒ష్టాప॑దీ॒ నవ॑పదీ బభూ॒వుషీ॑ స॒హస్రా॑క్షరా
పర॒మే వ్యో॑మన్ ॥
ఓం రా॒జా॒ధి॒రా॒జాయ॑ ప్రసహ్యసా॒హినే॑ నమో॑ వ॒యం
వై॑శ్రవ॒ణాయ॑ కుర్మహే ।
సమే॒కామా॒న్కామ॒కామా॑య॒ మహ్యం॑ కా॒మే॒శ్వ॒రో
వై॑శ్రవ॒ణో ద॑దాతు ।
కుబే॒రాయ॑ వైశ్రవ॒ణాయ॑ మహా॒రా॒జాయ॒ నమః॑ ॥
ఓం గన్ధపుష్పాక్షతైర్యుక్తమఞ్జలీకరపూరకైః । మహాలక్ష్మి
నమస్తేఽస్తు మన్త్రపుష్పం గృహాణ భో ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః వేదోక్త మన్త్రపుష్పం
సమర్పయామి ॥
॥ అథ ప్రదక్షిణనమస్కారః ॥
ఓం మహాదుర్గే నమస్తేఽస్తు సర్వేష్టఫలదాయిని । ప్రదక్షిణాం
కరోమి త్వాం ప్రీయతాం శివవల్లభే ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ప్రదక్షిణనమస్కారాన్
సమర్పయామి ॥
॥ అథ ప్రార్థనా ॥
ఓం జయ రుద్రే విరూపాక్షి జయాతీతే నిరఞ్జనీ । జయ
కల్యాణసుఖదే జయ మఙ్గలదే శుభే ॥
జయ సిద్ధమునీన్ద్రాది వన్దితాంఘ్రిసరోరుహే । జయ విష్ణుప్రియే
దేవి జయ భూతవిభూతిదే ॥
జయ రత్నప్రదీప్తాభే జయ హేమవిభాసితే । జయ బాలేన్దుతిలకే
త్ర్యమ్బకే జయ వృద్ధిదే ॥
సర్వలక్ష్మీప్రదే దేవి సర్వరక్షాప్రదా భవ ।
ధర్మార్థకామమోక్షాఖ్య చతుర్వర్గఫలప్రదే ॥
శైలపుత్రి నమస్తేఽస్తు బ్రహ్మచారిణి తే నమః । కాలరాత్రి
నమస్తేఽస్తు నారాయణి నమోఽస్తుతే ॥
మధుకైటభహారిణ్యై నమో మహిషమర్దినీ । ధూమ్రలోచననిర్నాశే
చణ్డముణ్డవినాశిని ॥
రక్తబీజవధే దేవి నిశుమ్భాసురఘాతినీ । నమః ।
శుమ్భాపహారిణ్యై త్ర్యైలోక్యవరదే నమః ॥
దేవి దేహి పరం రూపం దేవి దేహి పరం సుఖమ్ । ధర్మం దేహి
ధనం దేహి సర్వకామాంశ్చ దేహి మే ॥
సుపుత్రాంశ్చ పశూన్ కోశాన్ సుక్షేత్రాణి సుఖాని చ । దేవి దేహి
పరం జ్ఞానమిహ ముక్తి సుఖం కురు ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః ప్రార్థనాం సమర్పయామి ॥
॥ అథ ప్రసన్నార్ఘ్యమ్ ॥
ఓం సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే । బిల్వార్ఘ్యం చ
మయా దత్తం దేవేశి ప్రతిగృహ్యతామ్ ॥
జ్ఞానేశ్వరి గృహాణేదం సర్వసౌఖ్యవివర్ధిని ।
గృహాణార్ఘ్యం మయా దత్తం దేవేశి వరదా భవ ॥
శ్రీ దుర్గాపరమేశ్వర్యై నమః బిల్వపత్రార్ఘ్యం సమర్పయామి ॥
॥ అథ పునః పూజా ॥
ఓం కాత్యాయన్యై నమః ధ్యానం సమర్పయామి
ఓం కౌమార్యై నమః ఆవాహనం సమర్పయామి
ఓం విన్ధ్యవాసిన్యై నమః ఆసనం సమర్పయామి
ఓం మహేశ్వర్యై నమః పాద్యం సమర్పయామి
ఓం సితామ్భోజాయై నమః అర్ఘ్యం సమర్పయామి
ఓం నారసింహ్యై నమః ఆచమనీయం సమర్పయామి
ఓం మహాదేవ్యై నమః మధుపర్కం సమర్పయామి
ఓం దయావత్యై నమః పునరాచమనీయం సమర్పయామి
ఓం శాకంభర్యై నమః స్నానం సమర్పయామి
ఓం దుర్గాయై నమః వస్త్రం సమర్పయామి
ఓం సరస్వత్యై నమః ఆభరణాని సమర్పయామి
ఓం మేధాయై నమః గన్ధం సమర్పయామి
ఓం సర్వవిద్యాప్రదాయై నమః అక్షతాన్ సమర్పయామి
ఓం సర్వసిద్ధిప్రదాయై నమః పుష్పాణి సమర్పయామి
ఓం మహావిద్యాయై నమః ధూపం సమర్పయామి
ఓం సపత్నికాయై నమః దీపం సమర్పయామి
ఓం శాన్త్యై నమః నైవేద్యం సమర్పయామి
ఓం ఉమాయై నమః హస్తప్రక్షాళనం సమర్పయామి
ఓం చణ్డికాయై నమః తామ్బూలం సమర్పయామి
ఓం చాముణ్డాయై నమః నీరాజనం సమర్పయామి
ఓం మాహాకాల్యై నమః మన్త్రపుష్పం సమర్పయామి
ఓం శివదూత్యై నమః ప్రదక్షిణాని సమర్పయామి
ఓం శివాయై నమః నమస్కారాన్ సమర్పయామి
శ్రీ దుర్గా పరమేశ్వర్యై నమః షోడశోపచార పూజాం
సమర్పయామి ॥
॥ అథ బిల్వపత్రార్పణమ్ ॥
ఓం సిద్ధలక్ష్మీర్మోక్షలక్ష్మీర్జయలక్ష్మీః సరస్వతీ।
శ్రీలక్ష్మీర్వరలక్ష్మీశ్చ ప్రసన్నా మమ సర్వదా ॥
సర్వమఙ్గల మాఙ్గల్యే శివే సర్వార్థసాధికే । శరణ్యే
త్ర్యమ్బికే గౌరి నారాయణి నమోఽస్తుతే ॥
శ్రీ దుర్గా పరమేశ్వర్యై నమః బిలవపత్రార్చనం
సమర్పయామి ॥
॥ అథ పూజా సమర్పణమ్ ॥
ఓం మన్త్రహీనం క్రియాహీనం భక్తిహీనం మహేశ్వరీ ।
యత్కృతం తు మయా దేవి పరిపూర్ణం తదస్తు తే ॥
అనేన మయా కృత దుర్గాపూజాఖ్య కర్మణా శ్రీ పరమేశ్వరో శ్రీ
పరదేవతా చ ప్రీయతామ్ ॥
[ యథాశక్తి బ్రాహ్మణ-దమ్పతి-కుమారీ వర్గభోజనం
కారయేత్ ]
॥ ఇతి దుర్గాపూజావిధిః సమ్పూర్ణః ॥
॥ ప్రథమ దినస్య మహాదుర్గా పూజావిధిః ॥
అస్యశ్రీ మూలదుర్గా మహామన్త్రస్య నారద ఋషిః గాయత్రీ
ఛన్దః శ్రీ దుర్గా దేవతా ॥
[ హ్రాం హ్రీం ఇత్యాదినా న్యాసమాచరేత్ ]
ధ్యానమ్
శఙ్ఖారిచాపశరభిన్నకరాం త్రినేత్రాం
తిగ్మేతరాంశుకలయాం విలసత్కిరీటామ్ ।
సింహస్థితాం ససురసిద్ధనతాం చ దుర్గాం దూర్వానిభాం
దురితవర్గహరాం నమామి ॥
మన్త్రః ఓం హ్రీం దుం దుర్గాయై నమః ॥
॥ అథ శ్రీ దుర్గాఽష్టోత్తరశతనామావలిః ॥
అస్యశ్రీ దుర్గాఽష్టోత్తరశతనామ మహామన్త్రస్య నారద ఋషిః
గాయత్రీ ఛన్దః శ్రీ దుర్గా దేవతా పరమేశ్వరీతి బీజం
కృష్ణానుజేతి శక్తిః శాఙ్కరీతి కీలకం
దుర్గాప్రసాదసిద్ధ్యర్థే జపే వినియోగః ॥
ధ్యానమ్
ప్రకాశమధ్యస్థితచిత్స్వరూపాం వరాభయే సందధతీం
త్రినేత్రామ్ ।
సిన్దూరవర్ణామతికోమలాఙ్గీం మాయామయీం తత్త్వమయీం నమామి ॥
ఓం దుర్గాయై నమః ।
దారిద్ర్యశమన్యై నమః ।
దురితఘ్న్యై నమః ।
లక్ష్మ్యై నమః ।
లజ్జాయై నమః ।
మహావిద్యాయై నమః ।
శ్రద్ధాయై నమః ।
పుష్ట్యై నమః ।
స్వధాయై నమః ।
ధ్రువాయై నమః ।
మహారాత్ర్యై నమః ।
మహామాయాయై నమః ।
మేధాయై నమః ।
మాత్రే నమః ।
సరస్వత్యై నమః ।
శివాయై నమః ।
శశిధరాయై నమః ।
శాన్తాయై నమః ।
శామ్భవ్యై నమః ।
భూతిదాయిన్యై నమః ।
తామస్యై నమః ।
నియతాయై నమః ।
నార్యై నమః ।
కాల్యై నమః ।
నారాయణ్యై నమః ।
కలాయై నమః ।
బ్రాహ్మ్యై నమః ।
వీణాధరాయై నమః ।
వాణ్యై నమః ।
శారదాయై నమః ।
హంసవాహిన్యై నమః ।
త్రిశూలిన్యై నమః ।
త్రినేత్రాయై నమః ।
ఈశానాయై నమః ।
త్రయ్యై నమః ।
త్రయతమాయై నమః ।
శుభాయై నమః ।
శఙ్ఖిన్యై నమః ।
చక్రిణ్యై నమః ।
ఘోరాయై నమః ।
కరాల్యై నమః ।
మాలిన్యై నమః ।
మత్యై నమః ।
మాహేశ్వర్యై నమః ।
మహేష్వాసాయై నమః ।
మహిషఘ్న్యై నమః ।
మధువ్రతాయై నమః ।
మయూరవాహిన్యై నమః ।
నీలాయై నమః ।
భారత్యై నమః ।
భాస్వరామ్బరాయై నమః ।
పీతామ్బరధరాయై నమః ।
పీతాయై నమః ।
కౌమార్యై నమః ।
పీవరస్తన్యై నమః ।
రజన్యై నమః ।
రాధిన్యై నమః ।
రక్తాయై నమః ।
గదిన్యై నమః ।
ఘణ్టిన్యై నమః ।
ప్రభాయై నమః ।
శుమ్భఘ్న్యై నమః ।
సుభగాయై నమః ।
సుభ్రువే నమః ।
నిశుమ్భప్రాణహారిణ్యై నమః ।
కామాక్ష్యై నమః ।
కాముకాయై నమః ।
కన్యాయై నమః ।
రక్తబీజనిపాతిన్యై నమః ।
సహస్రవదనాయై నమః ।
సన్ధ్యాయై నమః ।
సాక్షిణ్యై నమః ।
శాఙ్కర్యై నమః ।
ద్యుతయే నమః ।
భార్గవ్యై నమః ।
వారుణ్యై నమః ।
విద్యాయై నమః ।
ధరాయై నమః ।
ధరాసురార్చితాయై నమః ।
గాయత్ర్యై నమః ।
గాయక్యై నమః ।
గఙ్గాయై నమః ।
దుర్గాయై నమః ।
గీతఘనస్వనాయై నమః ।
ఛన్దోమయాయై నమః ।
మహ్యై నమః ।
ఛాయాయై నమః ।
చార్వాఙ్గ్యై నమః ।
చన్దనప్రియాయై నమః ।
జనన్యై నమః ।
జాహ్నవ్యై నమః ।
జాతాయై నమః ।
శాన్ఙ్కర్యై నమః ।
హతరాక్షస్యై నమః ।
వల్లర్యై నమః ।
వల్లభాయై నమః ।
వల్ల్యై నమః ।
వల్ల్యలఙ్కృతమధ్యమాయై నమః ।
హరీతక్యై నమః ।
హయారూఢాయై నమః ।
భూత్యై నమః ।
హరిహరప్రియాయై నమః ।
వజ్రహస్తాయై నమః ।
వరారోహాయై నమః ।
సర్వసిద్ధ్యై నమః ।
వరప్రదాయై నమః ।
శ్రీ దుర్గాదేవ్యై నమః ॥ ఓం ॥
॥ అథ ద్వితీయదినస్య ఆర్యా పూజావిధిః ॥
అస్యశ్రీ ఆర్యామహామన్త్రస్య మారీచ కాశ్యప ఋషిః త్రిష్టుప్
ఛన్దః శ్రీ ఆర్యా దుర్గా దేవతా ॥
[ ఓం జాతవేదసే సునవామ - సోమమరాతీయతః - నిదహాతి
వేదః - సనః పర్షదతి - దుర్గాణి విశ్వా - నావేవ సిన్ధుం
దురితాత్యగ్నిః ॥ ఏవం న్యాసమాచరేత్ ]
ధ్యానమ్
విద్యుద్దామసమప్రభాం మృగపతిస్కన్ధస్థితాం భీషణామ్
కన్యాభిః కరవాలఖేటవిలసత్ హస్తాభిరాసేవితామ్ ।
హస్తైశ్చక్రగదాఽసిశఙ్ఖ విశిఖాంశ్చాపం గుణం
తర్జనీమ్
బిభ్రాణామనలాత్మికాం శశిధరాం దుర్గాం త్రినేత్రాం భజే ॥
మన్త్రః- ఓం జాతవేదసే సునవామ సోమమరాతీయతః నిదహాతి
వేదః సనః పర్షదతి దుర్గాణి విశ్వా నావేవ సిన్ధుం
దురితాత్యగ్నిః ॥
॥ అథ ఆర్యా నామావలిః ॥
ఓం ఆర్యాయై నమః ।
కాత్యాయన్యై నమః ।
గౌర్యై నమః ।
కుమార్యై నమః ।
విన్ధ్యవాసిన్యై నమః ।
వాగీశ్వర్యై నమః ।
మహాదేవ్యై నమః ।
కాల్యై నమః ।
కఙ్కాలధారిణ్యై నమః ।
ఘోణసాభరణాయై నమః ।
ఉగ్రాయై నమః ।
స్థూలజఙ్ఘాయై నమః ।
మహేశ్వర్యై నమః ।
ఖట్వాఙ్గధారిణ్యై నమః ।
చణ్డ్యై నమః ।
భీషణాయై నమః ।
మహిషాన్తకాయై నమః ।
రక్షిణ్తై నమః ।
రమణ్యై నమః ।
రాజ్ఞ్యై నమః ।
రజన్యై నమః ।
శోషిణ్యై నమః ।
రత్యై నమః ।
గభస్తిన్యై నమః ।
గన్ధిన్యై నమః ।
దుర్గాయై నమః ।
గాన్ధార్యై నమః ।
కలహప్రియాయై నమః ।
వికరాల్యై నమః ।
మహాకాల్యై నమః ।
భద్రకాల్యై నమః ।
తరఙ్గిణ్యై నమః ।
మాలిన్యై నమః ।
దాహిన్యై నమః ।
కృష్ణాయై నమః ।
ఛేదిన్యై నమః ।
భేదిన్యై నమః ।
అగ్రణ్యై నమః ।
గ్రామణ్యై నమః ।
నిద్రాయై నమః ।
విమానిన్యై నమః ।
శీఘ్రగామిన్యై నమః ।
చణ్డవేగాయై నమః ।
మహానాదాయై నమః ।
వజ్రిణ్యై నమః ।
భద్రాయై నమః ।
ప్రజేశ్వర్యై నమః ।
కరాల్యై నమః ।
భైరవ్యై నమః ।
రౌద్ర్యై నమః ।
అట్టహాసిన్యై నమః ।
కపాలిన్యై వ్చాముణ్డాయై నమః ।
రక్తచాముణ్డాయై నమః ।
అఘోరాయై నమః ।
ఘోరరూపిణ్యై నమః ।
విరూపాయై నమః ।
మహారూపాయై నమః ।
స్వరూపాయై నమః ।
సుప్రతేజస్విన్యై నమః ।
అజాయై నమః ।
విజయాయై నమః ।
చిత్రాయై నమః ।
అజితాయై నమః ।
అపరాజితాయై నమః ।
ధరణ్యై నమః ।
ధాత్ర్యై నమః ।
పవమాన్యై నమః ।
వసున్ధరాయై నమః ।
సువర్ణాయై నమః ।
రక్తాక్ష్యై నమః ।
కపర్దిన్యై నమః ।
సింహవాహిన్యై నమః ।
కద్రవే నమః ।
విజితాయై నమః ।
సత్యవాణ్యై నమః ।
అరున్ధత్యై నమః ।
కౌశిక్యై నమః ।
మహాలక్ష్మ్యై నమః ।
విద్యాయై నమః ।
మేధాయై నమః ।
సరస్వత్యై నమః ।
మేధాయై నమః ।
త్ర్యమ్బకాయై నమః ।
త్రిసన్ఖ్యాయై నమః ।
త్రిమూర్త్యై నమః ।
త్రిపురాన్తకాయై నమః ।
బ్రాహ్మ్యై నమః ।
నారసింహ్యై నమః ।
వారాహ్యై నమః ।
ఇన్ద్రాణ్యై నమః ।
వేదమాతృకాయై నమః ।
పార్వత్యై నమః ।
తామస్యై నమః ।
సిద్ధాయై నమః ।
గుహ్యాయై నమః ।
ఇజ్యాయై నమః ।
ఉషాయై నమః ।
ఉమాయై నమః ।
అమ్బికాయై నమః ।
భ్రామర్యై నమః ।
వీరాయై నమః ।
హాహాహుఙ్కారనాదిన్యై నమః ।
నారాయణ్యై నమః ।
విశ్వరూపాయై నమః ।
మేరుమన్దిరవాసిన్యై నమః ।
శరణాగతదీనార్తపరిత్రాణపరాయణాయై నమః ।
ఆర్యాయై నమః ॥ఓం॥
॥అథ తృతీయదినస్య భగవతీ పూజావిధిః ॥
ఓం అస్యశ్రీ భగవతీ మహామన్త్రస్య దీర్ఘతమా ఋషిః కకుప్
ఛన్దః భగవతీ శూలినీ దుర్గా దేవతా ॥
[ఓం శూలిని దుర్గే దేవతాసురపూజితే నన్దిని మహాయోగేశ్వరి
హుం ఫట్ - శూలిని వరదే - విన్ద్యవాసిని - అసురమర్దిని -
దేవాసురసిద్ధపూజితే - యుద్ధప్రియే - ] ఇతి న్యాసమాచరేత్ ॥
ధ్యానమ్
బిభ్రాణా శూలబాణాస్యరిసుదరగదాచాపపాశాన్ కరాబ్జైః
మేఘశ్యామా కిరీటోల్లిఖితజలధరా భీషణా భూషణాఢ్యా ।
సిమ్హస్కన్ధాధిరూఢా చతుసృభిరసిఖేటాన్వితాభిః పరీతా
కన్యాభిః భిన్నదైత్యా భవతు భవభయద్వమ్సినీ శూలినీ నః ॥
మన్త్రః - ఓం శూలిని దుర్గే వరదే విన్ద్యవాసిని అసురమర్దిని
దేవాసురసిద్ధపూజితే యుద్ధప్రియే నన్దిని రక్ష రక్ష
మహాయోగేశ్వరి హుం ఫట్ ॥
॥అథ భగవతీ నామావలిః ॥
ఓం భగవత్యై నమః ।
గౌర్యై నమః ।
సువర్ణవర్ణాయై నమః ।
సృష్టిస్థితిసంహారకారిణ్యై నమః ।
ఏకస్వరూపిణ్యై నమః ।
అనేకస్వరూపిణ్యై నమః ।
మహేజ్యాయై నమః ।
శతబాహవే నమః ।
మహాభుజాయై నమః ।
భుజఙ్గభూషణాయై నమః ।
షట్చక్రవాసిన్యై నమః ।
షట్చక్రభేదిన్యై నమః ।
శ్యామాయై నమః ।
కాయస్థాయై నమః ।
కాయవర్జితాయై నమః ।
సుస్థితాయై నమః ।
సుముఖ్యై నమః ।
క్షమాయై నమః ।
మూలప్రకృత్యై నమః ।
ఈశ్వర్యై నమః ।
అజాయై నమః ।
శుభ్రవర్ణాయై నమః ।
పురుషార్థాయై నమః ।
సుప్రబోధిన్యై నమః ।
రక్తాయై నమః ।
నీలాయై నమః ।
శ్యామలాయై నమః ।
కృష్ణాయై నమః ।
పీతాయై నమః ।
కర్బురాయై నమః ।
కరుణాలయాయై నమః ।
తృష్ణాయై నమః ।
జరాయై నమః ।
వృద్ధాయై నమః ।
తరుణ్యై నమః ।
కరుణాయై నమః ।
లయాయై నమః ।
కలాయై నమః ।
కాష్ఠాయై నమః ।
ముహూర్తాయై నమః ।
నిమిషాయై నమః ।
కాలరూపిణ్యై నమః ।
సువర్ణాయై నమః ।
రసనాయై నమః ।
చక్షుఃస్పర్శవాయురసాయై నమః ।
గన్ధప్రియాయై నమః ।
సుగన్ధాయై నమః ।
సుస్పర్శాయై నమః ।
మనోగతాయై నమః ।
మృగనాభ్యై నమః ।
మృగాక్ష్యై నమః ।
కర్పూరామోదదాయిన్యై నమః ।
పద్మయోన్యై నమః ।
సుకేశాయై నమః ।
సులిఙ్గాయై నమః ।
భగరూపిణ్యై నమః ।
భూషణ్యై నమః ।
యోనిముద్రాయై నమః ।
ఖేచర్యై నమః ।
స్వర్గగామిన్యై నమః ।
మధుప్రియాయై నమః ।
మాధవ్యై నమః ।
వల్ల్యై నమః ।
మధుమత్తాయై నమః ।
మదోత్కటాయై నమః ।
మాతఙ్గ్యై నమః ।
శుకహస్తాయై నమః ।
ధీరాయై నమః ।
మహాశ్వేతాయై నమః ।
వసుప్రియాయై నమః ।
సువర్ణిన్యై నమః ।
పద్మహస్తాయై నమః ।
ముక్తాయై నమః ।
హారవిభూషణాయై నమః ।
కర్పూరామోదాయై నమః ।
నిఃశ్వాసాయై నమః ।
పద్మిన్యై నమః ।
వల్లభాయై నమః ।
శక్త్యై నమః ।
ఖడ్గిన్యై నమః ।
బలహస్తాయై నమః ।
భుషుణ్డిపరిఘాయుధాయై నమః ।
చాపిన్యై నమః ।
చాపహస్తాయై నమః ।
త్రిశూలధారిణ్యై నమః ।
శూరబాణాయై నమః ।
శక్తిహస్తాయై నమః ।
మయూరవాహిన్యై నమః ।
వరాయుధాయై నమః ।
ధారాయై నమః ।
ధీరాయై నమః ।
వీరపాణ్యై నమః ।
వసుధారాయై నమః ।
జయాయై నమః ।
శాకనాయై నమః ।
విజయాయై నమః ।
శివాయై నమః ।
శ్రియై నమః ।
భగవత్యై నమః ।
మహాలక్ష్మ్యై నమః ।
సిద్ధసేనాన్యై నమః ।
ఆర్యాయై నమః ।
మన్దరవాసిన్యై నమః ।
కుమార్యై నమః ।
కాల్యై నమః ।
కపాల్యై నమః ।
కపిలాయై నమః ।
కృష్ణాయై నమః ॥ఓం॥
॥అథ చతుర్థ దినస్య కుమారీ పూజనవిధిః ॥
ఓం అస్యశ్రీ కుమారీ మహామన్త్రస్య ఈశ్వర ఋషిః బృహతీ
ఛన్దః కుమారీ దుర్గా దేవతా ॥
[హ్రాం హ్రీం ఇత్యాదినా న్యాసమాచరేత్ ]
ధ్యానమ్
గిరిరాజకుమారికాం భవానీం శరణాగతపాలనైకదక్షామ్ ।
వరదాభయచక్రశఙ్ఖహస్తాం వరదాత్రీం భజతాం స్మరామి
నిత్యమ్ ॥
మన్త్రః - ఓం హ్రీం కుమార్యై నమః ॥
॥అథ శ్రీ కుమార్యాః నామావలిః॥
ఓం కౌమార్యై నమః ।
సత్యమార్గప్రబోధిన్యై నమః ।
కమ్బుగ్రీవాయై నమః ।
వసుమత్యై నమః ।
ఛత్రచ్ఛాయాయై నమః ।
కృతాలయాయై నమః ।
కుణ్డలిన్యై నమః ।
జగద్ధాత్ర్యై నమః ।
జగద్గర్భాయై నమః ।
భుజఙ్గాయై నమః ।
కాలశాయిన్యై నమః ।
ప్రోల్లసాయాఇ నమః ।
సప్తపద్మాయై నమః ।
నాభినాలాయై నమః ।
మృణాలిన్యై నమః ।
మూలాధారాయై నమః ।
అనిలాధారాయై నమః ।
వహ్నికుణ్డలకృతాలయాయై నమః ।
వాయుకుణ్డలసుఖాసనాయై నమః ।
నిరాధారాయై నమః ।
నిరాశ్రయాయై నమః ।
బలీన్ద్రసముచ్చయాయై నమః ।
షడ్రసస్వాదులోలుపాయై నమః ।
శ్వాసోచ్ఛ్వాసగతాయై నమః ।
జీవాయై వ్గ్రాహిణ్యై నమః ।
వహ్నిసంశ్రయాయై నమః ।
తప్సవిన్యై నమః ।
తపస్సిద్ధాయై నమః ।
తాపసాయై నమః ।
తపోనిష్ఠాయై నమః ।
తపోయుక్తాయై నమః ।
తపస్సిద్ధిదాయిన్యై నమః ।
సప్తధాతుమయ్యై నమః ।
సుమూర్త్యై నమః ।
సప్తాయై నమః ।
అనన్తరనాడికాయై నమః ।
దేహపుష్ట్యై నమః ।
మనస్తుష్ట్యై నమః ।
రత్నతుష్ట్యై నమః ।
మదోద్ధతాయై నమః ।
దశమధ్యై నమః ।
వైద్యమాత్రే నమః ।
ద్రవశక్త్యై నమః ।
ప్రభావిన్యై నమః ।
వైద్యవిద్యాయై నమః ।
చికిత్సాయై నమః ।
సుపథ్యాయై నమః ।
రోగనాశిన్యై నమః ।
మృగయాత్రాయై నమః ।
మృగమామ్సాయై నమః ।
మృగపద్యాయై నమః ।
సులోచనాయై నమః ।
వ్యాఘ్రచర్మణే నమః ।
బన్ధురూపాయై నమః ।
బహురూపాయై నమః ।
మదోత్కటాయై నమః ।
బన్ధిన్యై నమః ।
బన్ధుస్తుతికరాయై నమః ।
బన్ధాయై నమః ।
బన్ధవిమోచిన్యై నమః ।
శ్రీబలాయై నమః ।
కలభాయై నమః ।
విద్యుల్లతాయై నమః ।
దృఢవిమోచిన్యై నమః ।
అమ్బికాయై నమః ।
బాలికాయై నమః ।
అమ్బరాయై నమః ।
ముఖ్యాయై నమః ।
సాధుజనార్చితాయై నమః ।
కాలిన్యై నమః ।
కులవిద్యాయై నమః ।
సుకలాయై నమః ।
కులపూజితాయై నమః ।
కులచక్రప్రభాయై నమః ।
భ్రాన్తాయై నమః ।
భ్రమనాశిన్యై నమః ।
వాత్యాలిన్యై నమః ।
సువృష్ట్యై నమః ।
భిక్షుకాయై నమః ।
సస్యవర్ధిన్యై నమః ।
అకారాయై నమః ।
ఇకారాయై నమః ।
ఉకారాయై నమః ।
ఏకారాయై నమః ।
హుఙ్కారాయై నమః ।
బీజరూపయై నమః ।
క్లీంకారాయై నమః ।
అమ్బరధారిణ్యై నమః ।
సర్వాక్షరమయాశక్త్యై నమః ।
రాక్షసార్ణవమాలిన్యై నమః ।
సిన్ధూరవర్ణాయై నమః ।
అరుణవర్ణాయై నమః ।
సిన్ధూరతిలకప్రియాయై నమః ।
వశ్యాయై నమః ।
వశ్యబీజాయై నమః ।
లోకవశ్యవిధాయిన్యై నమః ।
నృపవశ్యాయై నమః ।
నృపసేవ్యాయై నమః ।
నృపవశ్యకరప్రియాయై నమః ।
మహిషీనృపమామ్సాయై నమః ।
నృపజ్ఞాయై నమః ।
నృపనన్దిన్యై నమః ।
నృపధర్మవిద్యాయై నమః ।
ధనధాన్యవివర్ధిన్యై నమః ।
చతుర్వర్ణమయశక్త్యై నమః ।
చతుర్వర్ణైః సుపూజితాయై నమః ।
సర్వవర్ణమయాయై నమః ॥ఓం॥
॥అథ పఞ్చమదినస్య అమ్బికా పూజావిధిః॥
ఓం అస్యశ్రీ అమ్బికామహామన్త్రస్య మార్కణ్డేయ ఋషిః ఉష్ణిక్ ఛన్దః
అమ్బికా దుర్గా దేవతా ॥
[ శ్రాం - శ్రీం ఇత్యాదినా న్యాసమాచరేత్ ]
ధ్యానమ్
యా సా పద్మాసనస్థా విపులకటతటీ పద్మపత్రాయతాక్షీ
గమ్భీరావర్తనాభిః స్తనభరనమితా శుభ్రవస్త్రోత్తరీయా ।
లక్ష్మీర్దివ్యైర్గజేన్ద్రైర్మణిగణఖచితైః స్నాపితా హేమకుమ్భైః
నిత్యం సా పద్మహస్తా మమ వసతు గృహే సర్వమాఙ్గల్యయుక్తా ॥
మన్త్రః - ఓం హ్రీం శ్రీం అమ్బికాయై నమః ఓం ॥
॥అథ శ్రీ అమ్బికాయాః నామావలిః ॥
ఓం అమ్బికాయై నమః ।
సిద్ధేశ్వర్యై నమః ।
చతురాశ్రమవాణ్యై నమః ।
బ్రాహ్మణ్యై నమః ।
క్షత్రియాయై నమః ।
వైశ్యాయై నమః ।
శూద్రాయై నమః ।
వేదమార్గరతాయై నమః ।
వజ్రాయై నమః ।
వేదవిశ్వవిభాగిన్యై నమః ।
అస్త్రశస్త్రమయాయై నమః ।
వీర్యవత్యై నమః ।
వరశస్త్రధారిణ్యై నమః ।
సుమేధసే నమః ।
భద్రకాల్యై నమః ।
అపరాజితాయై నమః ।
గాయత్ర్యై నమః ।
సంకృత్యై నమః ।
సన్ధ్యాయై నమః ।
సావిత్ర్యై నమః ।
త్రిపదాశ్రయాయై నమః ।
త్రిసన్ధ్యాయై నమః ।
త్రిపద్యై నమః ।
ధాత్ర్యై నమః ।
సుపథాయై నమః ।
సామగాయన్యై నమః ।
పాఞ్చాల్యై నమః ।
కాలికాయై నమః ।
బాలాయై నమః ।
బాలక్రీడాయై నమః ।
సనాతన్యై నమః ।
గర్భాధారాయై నమః ।
ఆధారశూన్యాయై నమః ।
జలాశయనివాసిన్యై నమః ।
సురారిఘాతిన్యై నమః ।
కృత్యాయై నమః ।
పూతనాయై నమః ।
చరితోత్తమాయై నమః ।
లజ్జారసవత్యై నమః ।
నన్దాయై నమః ।
భవాయై నమః ।
పాపనాశిన్యై నమః ।
పీతమ్బరధరాయై నమః ।
గీతసఙ్గీతాయై నమః ।
గానగోచరాయై నమః ।
సప్తస్వరమయాయై నమః ।
షద్జమధ్యమధైవతాయై నమః ।
ముఖ్యగ్రామసంస్థితాయై నమః ।
స్వస్థాయై నమః ।
స్వస్థానవాసిన్యై నమః ।
ఆనన్దనాదిన్యై నమః ।
ప్రోతాయై నమః ।
ప్రేతాలయనివాసిన్యై నమః ।
గీతనృత్యప్రియాయై నమః ।
కామిన్యై నమః ।
తుష్టిదాయిన్యై నమః ।
పుష్టిదాయై నమః ।
నిష్ఠాయై నమః ।
సత్యప్రియాయై నమః ।
ప్రజ్ఞాయై నమః ।
లోకేశాయై నమః ।
సంశోభనాయై నమః ।
సంవిషయాయై నమః ।
జ్వాలిన్యై నమః ।
జ్వాలాయై నమః ।
విమూర్త్యై నమః ।
విషనాశిన్యై నమః ।
విషనాగదమ్న్యై నమః ।
కురుకుల్లాయై నమః ।
అమృతోద్భవాయై నమః ।
భూతభీతిహరాయై నమః ।
రక్షాయై నమః ।
రాక్షస్యై నమః ।
రాత్ర్యై నమః ।
దీర్ఘనిద్రాయై నమః ।
దివాగతాయై నమః ।
చన్ద్రికాయై నమః ।
చన్ద్రకాన్త్యై నమః ।
సూర్యకాన్త్యై నమః ।
నిశాచరాయై నమః ।
డాకిన్యై నమః ।
శాకిన్యై నమః ।
హాకిన్యై నమః ।
చక్రవాసిన్యై నమః ।
సీతాయై నమః ।
సీతప్రియాయై నమః ।
శాన్తాయై నమః ।
సకలాయై నమః ।
వనదేవతాయై నమః ।
గురురూపధారిణ్యై నమః ।
గోష్ఠ్యై నమః ।
మృత్యుమారణాయై నమః ।
శారదాయై నమః ।
మహామాయాయై నమః ।
వినిద్రాయై నమః ।
చన్ద్రధరాయై నమః ।
మృత్యువినాశిన్యై నమః ।
చన్ద్రమణ్డలసఙ్కాశాయై నమః ।
చన్ద్రమణ్డలవర్తిన్యై నమః ।
అణిమాద్యై నమః ।
గుణోపేతాయై నమః ।
కామరూపిణ్యై నమః ।
కాన్త్యై నమః ।
శ్రద్ధాయై నమః ।
శ్రీమహాలక్ష్మ్యై నమః ॥ఓం॥
॥అథ షష్ఠ దినస్య మహిషమర్దినీ
వనదుర్గా పూజావిధిః॥
ఓం అస్యశ్రీ మహిషమర్దిని వనదుర్గా మహామన్త్రస్య ఆరణ్యక
ఋషిః అనుష్టుప్ ఛన్దః శ్రీ మహిషాసురమర్దినీ వనదుర్గా
దేవతా ॥
[ ఓం ఉత్తిష్ఠ పురుషి - కిం స్వపిషి - భయం మే
సముపస్థితం - యది శక్యం అశక్యం వా - తన్మే భగవతి -
శమయ స్వాహా ] ఏవం
న్యాసమాచరేత్ ॥
ధ్యానమ్
హేమప్రఖ్యామిన్దుఖణ్డాత్మమౌలీం శఙ్ఖారీష్టాభీతిహస్తాం
త్రినేత్రామ్ ।
హేమాబ్జస్థాం పీతవస్త్రాం ప్రసన్నాం దేవీం దుర్గాం
దివ్యరూపాం నమామి ॥
॥అథ శ్రీ దేవ్యాః నామావలిః॥
ఓం మహిషమర్దిన్యై నమః ।
శ్రీదేవ్యై నమః ।
జగదాత్మశక్త్యై నమః ।
దేవగణశక్త్యై నమః ।
సమూహమూర్త్యై నమః ।
అమ్బికాయై నమః ।
అఖిలజనపరిపాలకాయై నమః ।
మహిషపూజితాయై నమః ।
భక్తిగమ్యాయై నమః ।
విశ్వాయై నమః ।
ప్రభాసిన్యై నమః ।
భగవత్యై నమః ।
అనన్తమూర్త్యై నమః ।
చణ్డికాయై నమః ।
జగత్పరిపాలికాయై నమః ।
అశుభనాశిన్యై నమః ।
శుభమతాయై నమః ।
శ్రియై నమః ।
సుకృత్యై నమః ।
లక్ష్మ్యై నమః ।
పాపనాశిన్యై నమః ।
బుద్ధిరూపిణ్యై నమః ।
శ్రద్ధారూపిణ్యై నమః ।
కాలరూపిణ్యై నమః ।
లజ్జారూపిణ్యై నమః ।
అచిన్త్యరూపిణ్యై నమః ।
అతివీరాయై నమః ।
అసురక్షయకారిణ్యై నమః ।
భూమిరక్షిణ్యై నమః ।
అపరిచితాయై నమః ।
అద్భుతరూపిణ్యై నమః ।
సర్వదేవతాస్వరూపిణ్యై నమః ।
జగదంశోద్భూతాయై నమః ।
అసత్కృతాయై నమః ।
పరమప్రకృత్యై నమః ।
సమస్తసుమతస్వరూపాయై నమః ।
తృప్త్యై నమః ।
సకలముఖస్వరూపిణ్యై నమః ।
శబ్దక్రియాయై నమః ।
ఆనన్దసన్దోహాయై నమః ।
విపులాయై నమః ।
ఋజ్యజుస్సామాథర్వరూపిణ్యై నమః ।
ఉద్గీతాయై నమః ।
రమ్యాయై నమః ।
పదస్వరూపిణ్యై నమః ।
పాఠస్వరూపిణ్యై నమః ।
మేధాదేవ్యై నమః ।
విదితాయై నమః ।
అఖిలశాస్త్రసారాయై నమః ।
దుర్గాయై నమః ।
దుర్గాశ్రయాయై నమః ।
భవసాగరనాశిన్యై నమః ।
కైటభహారిణ్యై నమః ।
హృదయవాసిన్యై నమః ।
గౌర్యై నమః ।
శశిమౌలికృతప్రతిష్ఠాయై నమః ।
ఈశత్సుహాసాయై నమః ।
అమలాయై నమః ।
పూర్ణచన్ద్రముఖ్యై నమః ।
కనకోత్తమకాన్త్యై నమః ।
కాన్తాయై నమః ।
అత్యద్భుతాయై నమః ।
ప్రణతాయై నమః ।
అతిరౌద్రాయై నమః ।
మహిషాసురనాశిన్యై నమః ।
దృష్టాయై నమః ।
భ్రుకుటీకరాలాయై నమః ।
శశాఙ్కధరాయై నమః ।
మహిషప్రాణవిమోచనాయై నమః ।
కుపితాయై నమః ।
అన్తకస్వరూపిణ్యై నమః ।
సద్యోవినాశికాయై నమః ।
కోపవత్యై నమః ।
దారిద్ర్యనాశిన్యై నమః ।
పాపనాశిన్యై నమః ।
సహస్రభుజాయై నమః ।
సహస్రాక్ష్యై నమః ।
సహస్రపదాయై నమః ।
శ్రుత్యై నమః ।
రత్యై నమః ।
రమణ్యై నమః ।
భక్త్యై నమః ।
భవసాగరతారికాయై నమః ।
పురుషోత్తమవల్లభాయై నమః ।
భృగునన్దిన్యై నమః ।
స్థూలజఙ్ఘాయై నమః ।
రక్తపాదాయై నమః ।
నాగకుణ్డలధారిణ్యై నమః ।
సర్వభూషణాయై నమః ।
కామేశ్వర్యై నమః ।
కల్పవృక్షాయై నమః ।
కస్తూరిధారిణ్యై నమః ।
మన్దస్మితాయై నమః ।
మదోదయాయై నమః ।
సదానన్దస్వరూపిణ్యై నమః ।
విరిఞ్చిపూజితాయై నమః ।
గోవిన్దపూజితాయై నమః ।
పురన్దరపూజితాయై నమః ।
మహేశ్వరపూజితాయై నమః ।
కిరీటధారిణ్యై నమః ।
మణినూపురశోభితాయై నమః ।
పాశాఙ్కుశధరాయై నమః ।
కమలధారిణ్యై నమః ।
హరిచన్దనాయై నమః ।
కస్తూరీకుఙ్కుమాయై నమః ।
అశోకభూషణాయై నమః ।
శృఙ్గారలాస్యాయై నమః ॥ఓం॥
॥అథ సప్తమదినస్య చణ్డికా పూజావిధిః॥
ఓం అస్యశ్రీ మహాచణ్డీ మహామన్త్రస్య దీర్ఘతమా ఋషిః కకుప్
ఛన్దః శ్రీ మహాచణ్డికా దుర్గా దేవతా ॥
[ హ్రాం - హ్రీం ఇత్యాదినా న్యాసమాచరేత్ ]
ధ్యానమ్
శశలాఞ్ఛనసమ్యుతాం త్రినేత్రాం
వరచక్రాభయశఙ్ఖశూలపాణిమ్ ।
అసిఖేటకధారిణీం మహేశీం త్రిపురారాతివధూం శివాం
స్మరామి ॥
మన్త్రః - ఓం హ్రీం శ్చ్యూం మం దుం దుర్గాయై నమః ఓం ॥
॥అథ మహాచణ్డీ నామావలిః॥
ఓం చణ్డికాయై నమః ।
మఙ్గలాయై నమః ।
సుశీలాయై నమః ।
పరమార్థప్రబోధిన్యై నమః ।
దక్షిణాయై నమః ।
దక్షిణామూర్త్యై నమః ।
సుదక్షిణాయై నమః ।
హవిఃప్రియాయై నమః ।
యోగిన్యై నమః ।
యోగాఙ్గాయై నమః ।
ధనుఃశాలిన్యై నమః ।
యోగపీఠధరాయై నమః ।
ముక్తాయై నమః ।
ముక్తానాం పరమా గత్యై నమః ।
నారసిమ్హ్యై నమః ।
సుజన్మనే నమః ।
మోక్షదాయై నమః ।
దూత్యై నమః ।
సాక్షిణ్యై నమః ।
దక్షాయై నమః ।
దక్షిణాయై నమః ।
సుదక్షాయై నమః ।
కోటిరూపిణ్యై నమః ।
క్రతుస్వరూపిణ్యై నమః ।
కాత్యాయన్యై నమః ।
స్వస్థాయై నమః ।
కవిప్రియాయై నమః ।
సత్యగ్రామాయై నమః ।
బహిఃస్థితాయై నమః ।
కావ్యశక్త్యై నమః ।
కావ్యప్రదాయై నమః ।
మేనాపుత్ర్యై నమః ।
సత్యాయై నమః ।
పరిత్రాతాయై నమః ।
మైనాకభగిన్యై నమః ।
సౌదామిన్యై నమః ।
సదామాయాయై నమః ।
సుభగాయై నమః ।
కృత్తికాయై నమః ।
కాలశాయిన్యై నమః ।
రక్తబీజవధాయై నమః ।
దృప్తాయై నమః ।
సన్తపాయై నమః ।
బీజసన్తత్యై నమః ।
జగజ్జీవాయై నమః ।
జగద్బీజాయై నమః ।
జగత్త్రయహితైషిణ్యై నమః ।
స్వామికరాయై నమః ।
చన్ద్రికాయై నమః ।
చన్ద్రాయై నమః ।
సాక్షాత్స్వరూపిణ్యై నమః ।
షోడశకలాయై నమః ।
ఏకపాదాయై నమః ।
అనుబన్ధాయై నమః ।
యక్షిణ్యై నమః ।
ధనదార్చితాయై నమః ।
చిత్రిణ్యై నమః ।
చిత్రమాయాయై నమః ।
విచిత్రాయై నమః ।
భువనేశ్వర్యై నమః ।
చాముణ్డాయై నమః ।
ముణ్డహస్తాయై నమః ।
చణ్డముణ్డవధాయై నమః ।
ఉద్ధతాయై నమః ।
అష్టమ్యై నమః ।
ఏకాదశ్యై నమః ।
పూర్ణాయై నమః ।
నవమ్యై నమః ।
చతుర్దశ్యై నమః ।
అమావాస్యై నమః ।
కలశహస్తాయై నమః ।
పూర్ణకుమ్భధరాయై నమః ।
ధరిత్ర్యై నమః ।
అభిరామాయై నమః ।
భైరవ్యై నమః ।
గమ్భీరాయై నమః ।
భీమాయై నమః ।
త్రిపురభైరవ్యై నమః ।
మహచణ్డాయై నమః ।
మహాముద్రాయై నమః ।
మహాభైరవపూజితాయై నమః ।
అస్థిమాలాధారిణ్యై నమః ।
కరాలదర్శనాయై నమః ।
కరాల్యై నమః ।
ఘోరఘర్ఘరనాశిన్యై నమః ।
రక్తదన్త్యై నమః ।
ఊర్ధ్వకేశాయై నమః ।
బన్ధూకకుసుమాక్షతాయై నమః ।
కదమ్బాయై నమః ।
పలాశాయై నమః ।
కుఙ్కుమప్రియాయై నమః ।
కాన్త్యై నమః ।
బహుసువర్ణాయై నమః ।
మాతఙ్గ్యై నమః ।
వరారోహాయై నమః ।
మత్తమాతఙ్గగామిన్యై నమః ।
హమ్సగతాయై నమః ।
హమ్సిన్యై నమః ।
హమ్సోజ్వలాయై నమః ।
శఙ్ఖచక్రాఙ్కితకరాయై నమః ।
కుమార్యై నమః ।
కుటిలాలకాయై నమః ।
మృగేన్ద్రవాహిన్యై నమః ।
దేవ్యై నమః ।
దుర్గాయై నమః ।
వర్ధిన్యై నమః ।
శ్రీమహాలక్ష్మ్యై నమః ॥ఓం॥
॥అథ అష్టమ దినస్య సరస్వతీపూజా
విధిః ॥
ఓం అస్యశ్రీ మాతృకాసరస్వతీ మహామన్త్రస్య శబ్ద ఋషిః
లిపిగాయత్రీ ఛన్దః శ్రీ మాతృకా సరస్వతీ దేవతా ॥
ధ్యానమ్
పఞ్చాషద్వర్ణభేదైర్విహితవదనదోష్పాదహృత్కుక్షివక్షోదేశాం
భాస్వత్కపర్దాకలితశశికలామిన్దుకున్దావదాతామ్ ।
అక్షస్రక్కుమ్భచిన్తాలిఖితవరకరాం త్రీక్షణాం
పద్మసంస్థాం
అచ్ఛాకల్పామతుచ్ఛస్తనజఘనభరాం భారతీం తాం నమామి ॥
మన్త్రః - అం ఆం ఇం ఈం ........................ ళం
క్షం
॥అథ నామావలిః॥
ఓం సరస్వత్యై నమః ।
భగవత్యై నమః ।
కురుక్షేత్రవాసిన్యై నమః ।
అవన్తికాయై నమః ।
కాశ్యై నమః ।
మధురాయై నమః ।
స్వరమయాయై నమః ।
అయోధ్యాయై నమః ।
ద్వారకాయై నమః ।
త్రిమేధాయై నమః ।
కోశస్థాయై నమః ।
కోశవాసిన్యై నమః ।
కౌశిక్యై నమః ।
శుభవార్తాయై నమః ।
కౌశామ్బరాయై నమః ।
కోశవర్ధిన్యై నమః ।
పద్మకోశాయై నమః ।
కుసుమావాసాయై నమః ।
కుసుమప్రియాయై నమః ।
తరలాయై నమః ।
వర్తులాయై నమః ।
కోటిరూపాయై నమః ।
కోటిస్థాయై నమః ।
కోరాశ్రయాయై నమః ।
స్వాయమ్భవ్యై నమః ।
సురూపాయై నమః ।
స్మృతిరూపాయై నమః ।
రూపవర్ధనాయై నమః ।
తేజస్విన్యై నమః ।
సుభిక్షాయై నమః ।
బలాయై నమః ।
బలదాయిన్యై నమః ।
మహాకౌశిక్యై నమః ।
మహాగర్తాయై నమః ।
బుద్ధిదాయై నమః ।
సదాత్మికాయై నమః ।
మహాగ్రహహరాయై నమః ।
సౌమ్యాయై నమః ।
విశోకాయై నమః ।
శోకనాశిన్యై నమః ।
సాత్వికాయై నమః ।
సత్యసంస్థాపనాయై నమః ।
రాజస్యై నమః ।
రజోవృతాయై నమః ।
తామస్యై నమః ।
తమోయుక్తాయై నమః ।
గుణత్రయవిభాగిన్యై నమః ।
అవ్యక్తాయై నమః ।
వ్యక్తరూపాయై నమః ।
వేదవేద్యాయై నమః ।
శామ్భవ్యై నమః ।
కాలరూపిణ్యై నమః ।
శఙ్కరకల్పాయై నమః ।
మహాసఙ్కల్పసన్తత్యై నమః ।
సర్వలోకమయా శక్త్యై నమః ।
సర్వశ్రవణగోచరాయై నమః ।
సార్వజ్ఞవత్యై నమః ।
వాఞ్ఛితఫలదాయిన్యై నమః ।
సర్వతత్వప్రబోధిన్యై నమః ।
జాగ్రతాయై నమః ।
సుషుప్తాయై నమః ।
స్వప్నావస్థాయై నమః ।
చతుర్యుగాయై నమః ।
చత్వరాయై నమః ।
మన్దాయై నమః ।
మన్దగత్యై నమః ।
మదిరామోదమోదిన్యై నమః ।
పానప్రియాయై నమః ।
పానపాత్రధరాయై నమః ।
పానదానకరోద్యతాయై నమః ।
విద్యుద్వర్ణాయై నమః ।
అరుణనేత్రాయై నమః ।
కిఞ్చిద్వ్యక్తభాషిణ్యై నమః ।
ఆశాపూరిణ్యై నమః ।
దీక్షాయై నమః ।
దక్షాయై నమః ।
జనపూజితాయై నమః ।
నాగవల్ల్యై నమః ।
నాగకర్ణికాయై నమః ।
భగిన్యై నమః ।
భోగిన్యై నమః ।
భోగవల్లభాయై నమః ।
సర్వశాస్త్రమయాయై నమః ।
విద్యాయై నమః ।
స్మృత్యై నమః ।
ధర్మవాదిన్యై నమః ।
శ్రుతిస్మృతిధరాయై నమః ।
జ్యేష్ఠాయై నమః ।
శ్రేష్ఠాయై నమః ।
పాతాలవాసిన్యై నమః ।
మీమామ్సాయై నమః ।
తర్కవిద్యాయై నమః ।
సుభక్త్యై నమః ।
భక్తవత్సలాయై నమః ।
సునాభాయై నమః ।
యాతనాలిప్త్యై నమః ।
గమ్భీరభారవర్జితాయై నమః ।
నాగపాశధరాయై నమః ।
సుమూర్త్యై నమః ।
అగాధాయై నమః ।
నాగకుణ్డలాయై నమః ।
సుచక్రాయై నమః ।
చక్రమధ్యస్థితాయై నమః ।
చక్రకోణనివాసిన్యై నమః ।
జలదేవతాయై నమః ।
మహామార్యై నమః ।
శ్రీ సరస్వత్యై నమః ॥ఓం॥
॥అథ నవమదినస్య వాగీశ్వరీ పూజావిధిః ॥
ఓం అస్యశ్రీ వాగీశ్వరీ మహామన్త్రస్య కణ్వ ఋషిః విరాట్
ఛన్దః శ్రీ వాగీశ్వరీ దేవతా ॥
[ ఓం వద - వద - వాక్ - వాదిని - స్వాహా ] ఏవం
పంచాఙ్గన్యాసమేవ సమాచరేత్ ॥
ధ్యానమ్
అమలకమలసంస్థా లేఖనీపుస్తకోద్యత్కరయుగలసరోజా
కున్దమన్దారగౌరా ।
ధృతశశధరఖణ్డోల్లాసికోటీరచూడా భవతు భవభయానాం
భఙ్గినీ భారతీ నః ॥
మన్త్రః - ఓం వద వద వాగ్వాదిని స్వాహా ॥
॥అథ వాగ్వాదిన్యాః నామావలిః॥
ఓం వాగీశ్వర్యై నమః ।
సర్వమన్త్రమయాయై నమః ।
విద్యాయై నమః ।
సర్వమన్త్రాక్షరమయాయై నమః ।
వరాయై నమః ।
మధుస్రవాయై నమః ।
శ్రవణాయై నమః ।
భ్రామర్యై నమః ।
భ్రమరాలయాయై నమః ।
మాతృమణ్డలమధ్యస్థాయై నమః ।
మాతృమణ్డలవాసిన్యై నమః ।
కుమారజనన్యై నమః ।
క్రూరాయై నమః ।
సుముఖ్యై నమః ।
జ్వరనాశిన్యై నమః ।
అతీతాయై నమః ।
విద్యమానాయై నమః ।
భావిన్యై నమః ।
ప్రీతిమన్దిరాయై నమః ।
సర్వసౌఖ్యదాత్ర్యై నమః ।
అతిశక్తాయై నమః ।
ఆహారపరిణామిన్యై నమః ।
నిదానాయై నమః ।
పఞ్చభూతస్వరూపాయై నమః ।
భవసాగరతారిణ్యై నమః ।
అర్భకాయై నమః ।
కాలభవాయై నమః ।
కాలవర్తిన్యై నమః ।
కలఙ్కరహితాయై నమః ।
హరిస్వరూపాయై నమః ।
చతుఃషష్ట్యభ్యుదయదాయిన్యై నమః ।
జీర్ణాయై నమః ।
జీర్ణవస్త్రాయై నమః ।
కృతకేతనాయై నమః ।
హరివల్లభాయై నమః ।
అక్షరస్వరూపాయై నమః ।
రతిప్రీత్యై నమః ।
రతిరాగవివర్ధిన్యై నమః ।
పఞ్చపాతకహరాయై నమః ।
భిన్నాయై నమః ।
పఞ్చశ్రేష్ఠాయై నమః ।
ఆశాధారాయై నమః ।
పఽచవిత్తవాతాయై నమః ।
పఙ్క్తిస్వరూపిణ్యై నమః ।
పఞ్చస్థానవిభావిన్యై నమః ।
ఉదక్యాయై నమః ।
వ్రిషభాఙ్కాయై నమః ।
త్రిమూర్త్యై నమః ।
ధూమ్రకృత్యై నమః ।
ప్రస్రవణాయై నమః ।
బహిఃస్థితాయై నమః ।
రజసే నమః ।
శుక్లాయై నమః ।
ధరాశక్త్యై నమః ।
జరాయుషాయై నమః ।
గర్భధారిణ్యై నమః ।
త్రికాలజ్ఞాయై నమః ।
త్రిలిఙ్గాయై నమః ।
త్రిమూర్త్యై నమః ।
పురవాసిన్యై నమః ।
అరాగాయై నమః ।
పరకామతత్వాయై నమః ।
రాగిణ్యై నమః ।
ప్రాచ్యావాచ్యాయై నమః ।
ప్రతీచ్యాయై నమః ।
ఉదీచ్యాయై నమః ।
ఉదగ్దిశాయై నమః ।
అహఙ్కారాత్మికాయై నమః ।
అహఙ్కారాయై నమః ।
బాలవామాయై నమః ।
ప్రియాయై నమః ।
స్రుక్స్రవాయై నమః ।
సమిధ్యై నమః ।
సుశ్రద్ధాయై నమః ।
శ్రాద్ధదేవతాయై నమః ।
మాత్రే నమః ।
మాతామహ్యై నమః ।
తృప్తిరూపాయై నమః ।
పితృమాత్రే నమః ।
పితామహ్యై నమః ।
స్నుషాదాయై నమః ।
దౌహిత్రదాయై నమః ।
నాదిన్యై నమః ।
పుత్ర్యై నమః ।
శ్వసాయై వ్ప్రియాయై నమః ।
స్తనదాయై నమః ।
స్తనధరాయై నమః ।
విశ్వయోన్యై నమః ।
స్తనప్రదాయై నమః ।
శిశురూపాయై నమః ।
సఙ్గరూపాయై నమః ।
లోకపాలిన్యై నమః ।
నన్దిన్యై నమః ।
ఖట్వాఙ్గధారిణ్యై నమః ।
సఖడ్గాయై నమః ।
సబాణాయై నమః ।
భానువర్తిన్యై నమః ।
విరుద్ధాక్ష్యై నమః ।
మహిషాసృక్ప్రియాయై నమః ।
కౌశిక్యై నమః ।
ఉమాయై నమః ।
శాకమ్భర్యై నమః ।
శ్వేతాయై నమః ।
కృష్ణాయై నమః ।
కైటభనాశిన్యై నమః ।
హిరణ్యాక్ష్యై నమః ।
శుభలక్షణాయై నమః ॥ఓం॥
ఏవం తద్దిన దుర్గాం సమారాధ్య యథా శక్తి
కుమారీపూజాం బ్రాహ్మణసువాసినీభ్యః
ఉపాయనదానాన్నదానాదికం చ కృత్వా నవరాత్రవ్రతం
సమాపయేత్ ॥
జయ జయ శఙ్కర !
ఓం శ్రీ లలితా మహాత్రిపురసున్దరీ పరాభట్టారికా సమేతాయ
శ్రీ చన్ద్రమౌళీశ్వర పరబ్రహ్మణే నమః !
॥ ఇతి హర్షానన్దనాథకృత కల్పోక్త
నవదుర్గాపూజావిధేః సఙ్గ్రహః ॥ ॥ శివమ్ ॥
Encoded by R. Harshananda
% Text title : kalpokta navadurgaapuujaavidhiH
% File name : kalpoktanavadurgaapuujaa.itx
% itxtitle : navadurgApUjAvidhiH kalpoktA
% engtitle : kalpokta navadurgApUjAvidhiH
% Category : pUjA, devii, durgA, svara, devI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : svara
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : R. Harshananda harshanand_16 at rediffmail.com
% Indexextra : (kalpokta)
% Latest update : April 17, 2002
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org