अथ श्री राम सहस्रनाम स्तोत्रम्
ध्यानम्
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् १
अग्रे वाचयति प्रपञ्जनसुते तत्त्वं मुनिव्यत्परम्
व्याख्यातं परतादिविः परिवृतं रामं भजे श्यामलम् २
वामे भूमिसुतापुरश्च हनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वनलयोर्वाय्वादिकोणेषु च ३
सुग्रीवश्च विभीषणश्च युवराड् दारासुतो जाम्बवान्
मध्ये नीलसरोजको मररुचिं रामं भजे श्यामलम् ४
राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः
रामभद्र ः\! सदाचारो राजेन्द्रो जानकीपतिः १
अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः
जनार्दनो जितामित्रः परार्थैकप्रयोजनः २
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ३
ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ४
द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः
विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ५
ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः
विपुलांसो महोरस्कः परमेष्ठी परायणः ६
सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः
लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः ७
अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ८
ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ९
सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः १०
भव्यो जितारिषड्वर्गो महोदरोऽघनाशनः
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ११
अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः
स्मितभाषी निवृत्तात्मा स्मृतिमान्वीर्यवान्प्रभुः १२
धीरो दान्तो घनश्यामः सर्वायुधविशारदः
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः १३
सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः १४
वर्णाश्रमकरो वर्णी शत्रुजित्पुरुषोत्तमः
विभीषणप्रतिष्ठाता परमात्मा परात्परः १५
प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः १६
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः
अभिवन्द्यो महाकायो विश्वकर्मा विशारदः १७
विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः १८
अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः
लोकाध्यक्षो महामायो विभीषणवरप्रदः १९
आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः
भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः २०
सुखदः कारणं कर्ता भवबन्धविमोचनः
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः २१
संसारोत्तारको रामः सर्वदुःखविमोक्षकृत्
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् २२
नित्यो नियतकल्याणः सीताशोकविनाशकृत्
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः २३
मारीचमथनो रामो विराधवधपण्डितः
दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः २४
महाधनुर्महाकायो भीमो भीमपराक्रमः
तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः २५
भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा २६
स्वभावभद्र ः\! शत्रुघ्नः केशवः स्थाणुरीश्वरः
भूतादिः शम्भुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः २७
कवची कुण्डली चक्री खड्गी भक्तजनप्रियः
अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः २८
अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः
समः समात्मा समगो जटामुकुटमण्डितः २९
अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ३०
सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ३१
धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः
हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः ३२
व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ३३
सम्भवोऽतीन्द्रि यो वेद्योऽनिर्देशो जाम्बवत्प्रभुः
मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ३४
नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ३५
जितक्रोधो जितारातिः प्लवगाधिपराज्यदः
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ३६
चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ३७
सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक्
वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ३८
अतुलः सात्त्विको धीरः शरासनविशारदः
ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ३९
वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ४०
कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः
मायावी व्यापको व्यापी रैणुकेयबलापहः ४१
पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः
लोकत्रयाश्रयो लोकचरितो भरताग्रजः ४२
श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः
मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ४३
यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः
तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ४४
चाणूरमर्दनो दिव्यः शान्तो भरतवन्दितः
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः ४५
लोकगर्भः शेषशायी क्षीराब्धिनिलयोऽमलः
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् ४६
अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः
त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती ४७
पर्जन्यः कुमुदो भूतावासः कमललोचनः
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ४८
लोकाभिरामो लोकारिमर्दनः सेवकप्रियः
सनातनतमो मेघश्यामलो राक्षसान्तकृत् ४९
दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रि यः
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ५०
उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ५१
दामोदरोऽच्युतः शार्ङ्गी वामनो मधुराधिपः
देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ५२
सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः
कालस्वरूपी कालात्मा कालः कल्याणदः कविः ५३
संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः
अनादिनिधनः सर्वलोकपूज्यो निरामयः ५४
रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः
सर्वदुःखातिगो विद्याराशिः परमगोचरः ५५
शेषो विशेषो विगतकल्मषो रघुनायकः
वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ५६
कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः
देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ५७
सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः
मनो बुद्धिरहङ्कारः प्रकृतिः पुरुषोऽव्ययः ५८
अहल्यापावनः स्वामी पितृभक्तो वरप्रदः
न्यायो न्यायी नयी श्रीमान्नयो नगधरो ध्रुवः ५९
लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः
वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ६०
देवाग्रणीः शिवध्यानतत्परः परमः परः
सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिः सुलोचनः ६१
पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ६२
अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी
कलानिधिः कलानाथो कमलानन्दवर्धनः ६३
जयी जितारिः सर्वादिः शमनो भवभञ्जनः
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ६४
आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः
निःशब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ६५
आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात्
सनातनतमः स्रग्वी पेशलो जविनां वरः ६६
शक्तिमाञ्शङ्खभृन्नाथो गदापद्मरथाङ्गभृत्
निरोहो निर्विकल्पश्च चिद्रू पो वीतसाध्वसः ६७
शताननः सहस्राक्षः शतमूर्तिर्घनप्रभः
हृत्पुण्डरीकशयनः कठिनो द्र व एव च ६८
उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः
अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ६९
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः
हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ७०
शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी
नरो नारायणः श्यामः कपर्दीनीललोहितः ७१
रुद्र ः\! पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः
मातामहो मातरिश्वा विरिञ्चोविष्टरश्रवाः ७२
अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः
वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ७३
निदाघस्तपनोऽमोघः श्लक्ष्णः परबलापहृत्
कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ७४
शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः
असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ७५
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः
रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः ७६
पवित्रपादः पापारिर्मणिपूरो नभोगतिः
उत्तारणो दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ७७
अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः
भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ७८
उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ७९
चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः
निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ८०
श्रीवल्लभः शिवारम्भः शान्तिर्भद्र ः\! समञ्जसः
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ८१
अकायो भक्तकायस्थः कालज्ञानी महावटुः
परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ८२
स्वभावभद्रो मध्यस्थः संसारभयनाशनः
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ८३
सुरेन्द्र ः\! करणं कर्म कर्मकृत्कर्म्यधोक्षजः
ध्येयो धुर्यो धराधीशः सङ्कल्पः शर्वरीपतिः ८४
परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः
विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः ८५
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः
केशवः केशिहा काव्यः कविः कारणकारणम् ८६
कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः
आदिकर्ता वराहश्च माधवो मधुसूदनः ८७
नारायणो नरो हंसो विष्वक्सेनो जनार्दनः
विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ८८
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः
नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ८९
आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ९०
पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ९१
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः
भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ९२
कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः
सन्न्यासी शास्त्रतत्त्वज्ञो मन्दराद्रि निकेतनः ९३
बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः
भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ९४
तपोवासो मुदावासः सत्यवासः सनातनः
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ९५
पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली ९६
किरीटी कुण्डली हारी मेखली कवची ध्वजी
योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ९७
शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ९८
पवनः संहतः शक्तिः सम्पूर्णाङ्गः समृद्धिमान्
स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ९९
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः
सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः १००
सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः
सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः १०१
अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः १०२
सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः
अधिकारी विभुर्नित्यः परमात्मा सनातनः १०३
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः १०४
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः
सत्यवान्गुणसम्पन्नः स्वयन्तेजाः सुदीप्तिमान् १०५
कालात्मा भगवान् कालः कालचक्रप्रवर्तकः
नारायणः परञ्ज्योतिः परमात्मा सनातनः १०६
विश्वधृग्विश्वगोप्ता च विश्वभोक्ता च शाश्वतः
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः १०७
सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः
सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः १०८
सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः
अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः १०९
अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः
नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी ११०
जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः
कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः १११
सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः
पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात् ११२
तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ११३
परञ्ज्योतिः परन्धामः पराकाशः परात्परः
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ११४
नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः
हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः ११५
रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः
तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ११६
अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान्
सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ११७
स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान्
नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी ११८
कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम्
श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ११९
श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् १२०
इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम्
Reference:
êr´ RŒma SahasranŒma Stotram, (Gorakhpur: G´tŒ Press).
అథ శ్రీ రామ సహస్రనామ స్తోత్రమ్
ధ్యానమ్
వైదేహీసహితం సురద్రుమతలే హైమే మహామణ్డపే
మధ్యే పుష్పకమాసనే మణిమయే వీరాసనే సుస్థితమ్ ౧
అగ్రే వాచయతి ప్రపఞ్జనసుతే తత్త్వం మునివ్యత్పరమ్
వ్యాఖ్యాతం పరతాదివిః పరివృతం రామం భజే శ్యామలమ్ ౨
వామే భూమిసుతాపురశ్చ హనుమాన్ పశ్చాత్సుమిత్రాసుతః
శత్రుఘ్నో భరతశ్చ పార్శ్వనలయోర్వాయ్వాదికోణేషు చ ౩
సుగ్రీవశ్చ విభీషణశ్చ యువరాడ్ దారాసుతో జామ్బవాన్
మధ్యే నీలసరోజకో మరరుచిం రామం భజే శ్యామలమ్ ౪
రాజీవలోచనః శ్రీమాన్ శ్రీరామో రఘుపుఙ్గవః
రామభద్ర ః\! సదాచారో రాజేన్ద్రో జానకీపతిః ౧
అగ్రగణ్యో వరేణ్యశ్చ వరదః పరమేశ్వరః
జనార్దనో జితామిత్రః పరార్థైకప్రయోజనః ౨
విశ్వామిత్రప్రియో దాన్తః శత్రుజిచ్ఛత్రుతాపనః
సర్వజ్ఞః సర్వదేవాదిః శరణ్యో వాలిమర్దనః ౩
జ్ఞానభావ్యోఽపరిచ్ఛేద్యో వాగ్మీ సత్యవ్రతః శుచిః
జ్ఞానగమ్యో దృఢప్రజ్ఞః ఖరధ్వంసీ ప్రతాపవాన్ ౪
ద్యుతిమానాత్మవాన్ వీరో జితక్రోధోఽరిమర్దనః
విశ్వరూపో విశాలాక్షః ప్రభుః పరివృఢో దృఢః ౫
ఈశః ఖడ్గధరః శ్రీమాన్ కౌసలేయోఽనసూయకః
విపులాంసో మహోరస్కః పరమేష్ఠీ పరాయణః ౬
సత్యవ్రతః సత్యసన్ధో గురుః పరమధార్మికః
లోకజ్ఞో లోకవన్ద్యశ్చ లోకాత్మా లోకకృత్పరః ౭
అనాదిర్భగవాన్ సేవ్యో జితమాయో రఘూద్వహః
రామో దయాకరో దక్షః సర్వజ్ఞః సర్వపావనః ౮
బ్రహ్మణ్యో నీతిమాన్ గోప్తా సర్వదేవమయో హరిః
సున్దరః పీతవాసాశ్చ సూత్రకారః పురాతనః ౯
సౌమ్యో మహర్షిః కోదణ్డీ సర్వజ్ఞః సర్వకోవిదః
కవిః సుగ్రీవవరదః సర్వపుణ్యాధికప్రదః ౧౦
భవ్యో జితారిషడ్వర్గో మహోదరోఽఘనాశనః
సుకీర్తిరాదిపురుషః కాన్తః పుణ్యకృతాగమః ౧౧
అకల్మషశ్చతుర్బాహుః సర్వావాసో దురాసదః
స్మితభాషీ నివృత్తాత్మా స్మృతిమాన్వీర్యవాన్ప్రభుః ౧౨
ధీరో దాన్తో ఘనశ్యామః సర్వాయుధవిశారదః
అధ్యాత్మయోగనిలయః సుమనా లక్ష్మణాగ్రజః ౧౩
సర్వతీర్థమయః శూరః సర్వయజ్ఞఫలప్రదః
యజ్ఞస్వరూపీ యజ్ఞేశో జరామరణవర్జితః ౧౪
వర్ణాశ్రమకరో వర్ణీ శత్రుజిత్పురుషోత్తమః
విభీషణప్రతిష్ఠాతా పరమాత్మా పరాత్పరః ౧౫
ప్రమాణభూతో దుర్జ్ఞేయః పూర్ణః పరపురఞ్జయః
అనన్తదృష్టిరానన్దో ధనుర్వేదో ధనుర్ధరః ౧౬
గుణాకరో గుణశ్రేష్ఠః సచ్చిదానన్దవిగ్రహః
అభివన్ద్యో మహాకాయో విశ్వకర్మా విశారదః ౧౭
వినీతాత్మా వీతరాగస్తపస్వీశో జనేశ్వరః
కల్యాణప్రకృతిః కల్పః సర్వేశః సర్వకామదః ౧౮
అక్షయః పురుషః సాక్షీ కేశవః పురుషోత్తమః
లోకాధ్యక్షో మహామాయో విభీషణవరప్రదః ౧౯
ఆనన్దవిగ్రహో జ్యోతిర్హనుమత్ప్రభురవ్యయః
భ్రాజిష్ణుః సహనో భోక్తా సత్యవాదీ బహుశ్రుతః ౨౦
సుఖదః కారణం కర్తా భవబన్ధవిమోచనః
దేవచూడామణిర్నేతా బ్రహ్మణ్యో బ్రహ్మవర్ధనః ౨౧
సంసారోత్తారకో రామః సర్వదుఃఖవిమోక్షకృత్
విద్వత్తమో విశ్వకర్తా విశ్వహర్తా చ విశ్వకృత్ ౨౨
నిత్యో నియతకల్యాణః సీతాశోకవినాశకృత్
కాకుత్స్థః పుణ్డరీకాక్షో విశ్వామిత్రభయాపహః ౨౩
మారీచమథనో రామో విరాధవధపణ్డితః
దుఃస్వప్ననాశనో రమ్యః కిరీటీ త్రిదశాధిపః ౨౪
మహాధనుర్మహాకాయో భీమో భీమపరాక్రమః
తత్త్వస్వరూపీ తత్త్వజ్ఞస్తత్త్వవాదీ సువిక్రమః ౨౫
భూతాత్మా భూతకృత్స్వామీ కాలజ్ఞానీ మహాపటుః
అనిర్విణ్ణో గుణగ్రాహీ నిష్కలఙ్కః కలఙ్కహా ౨౬
స్వభావభద్ర ః\! శత్రుఘ్నః కేశవః స్థాణురీశ్వరః
భూతాదిః శమ్భురాదిత్యః స్థవిష్ఠః శాశ్వతో ధ్రువః ౨౭
కవచీ కుణ్డలీ చక్రీ ఖడ్గీ భక్తజనప్రియః
అమృత్యుర్జన్మరహితః సర్వజిత్సర్వగోచరః ౨౮
అనుత్తమోఽప్రమేయాత్మా సర్వాదిర్గుణసాగరః
సమః సమాత్మా సమగో జటాముకుటమణ్డితః ౨౯
అజేయః సర్వభూతాత్మా విష్వక్సేనో మహాతపాః
లోకాధ్యక్షో మహాబాహురమృతో వేదవిత్తమః ౩౦
సహిష్ణుః సద్గతిః శాస్తా విశ్వయోనిర్మహాద్యుతిః
అతీన్ద్ర ఊర్జితః ప్రాంశురుపేన్ద్రో వామనో బలీ ౩౧
ధనుర్వేదో విధాతా చ బ్రహ్మా విష్ణుశ్చ శఙ్కరః
హంసో మరీచిర్గోవిన్దో రత్నగర్భో మహామతిః ౩౨
వ్యాసో వాచస్పతిః సర్వదర్పితాసురమర్దనః
జానకీవల్లభః పూజ్యః ప్రకటః ప్రీతివర్ధనః ౩౩
సమ్భవోఽతీన్ద్రి యో వేద్యోఽనిర్దేశో జామ్బవత్ప్రభుః
మదనో మథనో వ్యాపీ విశ్వరూపో నిరఞ్జనః ౩౪
నారాయణోఽగ్రణీః సాధుర్జటాయుప్రీతివర్ధనః
నైకరూపో జగన్నాథః సురకార్యహితః స్వభూః ౩౫
జితక్రోధో జితారాతిః ప్లవగాధిపరాజ్యదః
వసుదః సుభుజో నైకమాయో భవ్యప్రమోదనః ౩౬
చణ్డాంశుః సిద్ధిదః కల్పః శరణాగతవత్సలః
అగదో రోగహర్తా చ మన్త్రజ్ఞో మన్త్రభావనః ౩౭
సౌమిత్రివత్సలో ధుర్యో వ్యక్తావ్యక్తస్వరూపధృక్
వసిష్ఠో గ్రామణీః శ్రీమాననుకూలః ప్రియంవదః ౩౮
అతులః సాత్త్వికో ధీరః శరాసనవిశారదః
జ్యేష్ఠః సర్వగుణోపేతః శక్తిమాంస్తాటకాన్తకః ౩౯
వైకుణ్ఠః ప్రాణినాం ప్రాణః కమఠః కమలాపతిః
గోవర్ధనధరో మత్స్యరూపః కారుణ్యసాగరః ౪౦
కుమ్భకర్ణప్రభేత్తా చ గోపిగోపాలసంవృతః
మాయావీ వ్యాపకో వ్యాపీ రైణుకేయబలాపహః ౪౧
పినాకమథనో వన్ద్యః సమర్థో గరుడధ్వజః
లోకత్రయాశ్రయో లోకచరితో భరతాగ్రజః ౪౨
శ్రీధరః సద్గతిర్లోకసాక్షీ నారాయణో బుధః
మనోవేగీ మనోరూపీ పూర్ణః పురుషపుఙ్గవః ౪౩
యదుశ్రేష్ఠో యదుపతిర్భూతావాసః సువిక్రమః
తేజోధరో ధరాధారశ్చతుర్మూర్తిర్మహానిధిః ౪౪
చాణూరమర్దనో దివ్యః శాన్తో భరతవన్దితః
శబ్దాతిగో గభీరాత్మా కోమలాఙ్గః ప్రజాగరః ౪౫
లోకగర్భః శేషశాయీ క్షీరాబ్ధినిలయోఽమలః
ఆత్మయోనిరదీనాత్మా సహస్రాక్షః సహస్రపాత్ ౪౬
అమృతాంశుర్మహాగర్భో నివృత్తవిషయస్పృహః
త్రికాలజ్ఞో మునిః సాక్షీ విహాయసగతిః కృతీ ౪౭
పర్జన్యః కుముదో భూతావాసః కమలలోచనః
శ్రీవత్సవక్షాః శ్రీవాసో వీరహా లక్ష్మణాగ్రజః ౪౮
లోకాభిరామో లోకారిమర్దనః సేవకప్రియః
సనాతనతమో మేఘశ్యామలో రాక్షసాన్తకృత్ ౪౯
దివ్యాయుధధరః శ్రీమానప్రమేయో జితేన్ద్రి యః
భూదేవవన్ద్యో జనకప్రియకృత్ప్రపితామహః ౫౦
ఉత్తమః సాత్త్వికః సత్యః సత్యసన్ధస్త్రివిక్రమః
సువ్రతః సులభః సూక్ష్మః సుఘోషః సుఖదః సుధీః ౫౧
దామోదరోఽచ్యుతః శార్ఙ్గీ వామనో మధురాధిపః
దేవకీనన్దనః శౌరిః శూరః కైటభమర్దనః ౫౨
సప్తతాలప్రభేత్తా చ మిత్రవంశప్రవర్ధనః
కాలస్వరూపీ కాలాత్మా కాలః కల్యాణదః కవిః ౫౩
సంవత్సర ఋతుః పక్షో హ్యయనం దివసో యుగః
స్తవ్యో వివిక్తో నిర్లేపః సర్వవ్యాపీ నిరాకులః
అనాదినిధనః సర్వలోకపూజ్యో నిరామయః ౫౪
రసో రసజ్ఞః సారజ్ఞో లోకసారో రసాత్మకః
సర్వదుఃఖాతిగో విద్యారాశిః పరమగోచరః ౫౫
శేషో విశేషో విగతకల్మషో రఘునాయకః
వర్ణశ్రేష్ఠో వర్ణవాహ్యో వర్ణ్యో వర్ణ్యగుణోజ్జ్వలః ౫౬
కర్మసాక్ష్యమరశ్రేష్ఠో దేవదేవః సుఖప్రదః
దేవాధిదేవో దేవర్షిర్దేవాసురనమస్కృతః ౫౭
సర్వదేవమయశ్చక్రీ శార్ఙ్గపాణీ రఘూత్తమః
మనో బుద్ధిరహఙ్కారః ప్రకృతిః పురుషోఽవ్యయః ౫౮
అహల్యాపావనః స్వామీ పితృభక్తో వరప్రదః
న్యాయో న్యాయీ నయీ శ్రీమాన్నయో నగధరో ధ్రువః ౫౯
లక్ష్మీవిశ్వమ్భరాభర్తా దేవేన్ద్రో బలిమర్దనః
వాణారిమర్దనో యజ్వానుత్తమో మునిసేవితః ౬౦
దేవాగ్రణీః శివధ్యానతత్పరః పరమః పరః
సామగేయః ప్రియోఽక్రూరః పుణ్యకీర్తిః సులోచనః ౬౧
పుణ్యః పుణ్యాధికః పూర్వః పూర్ణః పూరయితా రవిః
జటిలః కల్మషధ్వాన్తప్రభఞ్జనవిభావసుః ౬౨
అవ్యక్తలక్షణోఽవ్యక్తో దశాస్యద్విపకేసరీ
కలానిధిః కలానాథో కమలానన్దవర్ధనః ౬౩
జయీ జితారిః సర్వాదిః శమనో భవభఞ్జనః
అలఙ్కరిష్ణురచలో రోచిష్ణుర్విక్రమోత్తమః ౬౪
ఆశుః శబ్దపతిః శబ్దాగోచరో రఞ్జనో రఘుః
నిఃశబ్దః ప్రణవో మాలీ స్థూలః సూక్ష్మో విలక్షణః ౬౫
ఆత్మయోనిరయోనిశ్చ సప్తజిహ్వః సహస్రపాత్
సనాతనతమః స్రగ్వీ పేశలో జవినాం వరః ౬౬
శక్తిమాఞ్శఙ్ఖభృన్నాథో గదాపద్మరథాఙ్గభృత్
నిరోహో నిర్వికల్పశ్చ చిద్రూ పో వీతసాధ్వసః ౬౭
శతాననః సహస్రాక్షః శతమూర్తిర్ఘనప్రభః
హృత్పుణ్డరీకశయనః కఠినో ద్ర వ ఏవ చ ౬౮
ఉగ్రో గ్రహపతిః శ్రీమాన్ సమర్థోఽనర్థనాశనః
అధర్మశత్రూ రక్షోఘ్నః పురుహూతః పురుష్టుతః ౬౯
బ్రహ్మగర్భో బృహద్గర్భో ధర్మధేనుర్ధనాగమః
హిరణ్యగర్భో జ్యోతిష్మాన్ సులలాటః సువిక్రమః ౭౦
శివపూజారతః శ్రీమాన్ భవానీప్రియకృద్వశీ
నరో నారాయణః శ్యామః కపర్దీనీలలోహితః ౭౧
రుద్ర ః\! పశుపతిః స్థాణుర్విశ్వామిత్రో ద్విజేశ్వరః
మాతామహో మాతరిశ్వా విరిఞ్చోవిష్టరశ్రవాః ౭౨
అక్షోభ్యః సర్వభూతానాం చణ్డః సత్యపరాక్రమః
వాలఖిల్యో మహాకల్పః కల్పవృక్షః కలాధరః ౭౩
నిదాఘస్తపనోఽమోఘః శ్లక్ష్ణః పరబలాపహృత్
కబన్ధమథనో దివ్యః కమ్బుగ్రీవశివప్రియః ౭౪
శఙ్ఖోఽనిలః సునిష్పన్నః సులభః శిశిరాత్మకః
అసంసృష్టోఽతిథిః శూరః ప్రమాథీ పాపనాశకృత్ ౭౫
వసుశ్రవాః కవ్యవాహః ప్రతప్తో విశ్వభోజనః
రామో నీలోత్పలశ్యామో జ్ఞానస్కన్ధో మహాద్యుతిః ౭౬
పవిత్రపాదః పాపారిర్మణిపూరో నభోగతిః
ఉత్తారణో దుష్కృతిహా దుర్ధర్షో దుఃసహోఽభయః ౭౭
అమృతేశోఽమృతవపుర్ధర్మీ ధర్మః కృపాకరః
భర్గో వివస్వానాదిత్యో యోగాచార్యో దివస్పతిః ౭౮
ఉదారకీర్తిరుద్యోగీ వాఙ్మయః సదసన్మయః
నక్షత్రమాలీ నాకేశః స్వాధిష్ఠానః షడాశ్రయః ౭౯
చతుర్వర్గఫలో వర్ణీ శక్తిత్రయఫలం నిధిః
నిధానగర్భో నిర్వ్యాజో గిరీశో వ్యాలమర్దనః ౮౦
శ్రీవల్లభః శివారమ్భః శాన్తిర్భద్ర ః\! సమఞ్జసః
భూశయో భూతికృద్భూతిర్భూషణో భూతవాహనః ౮౧
అకాయో భక్తకాయస్థః కాలజ్ఞానీ మహావటుః
పరార్థవృత్తిరచలో వివిక్తః శ్రుతిసాగరః ౮౨
స్వభావభద్రో మధ్యస్థః సంసారభయనాశనః
వేద్యో వైద్యో వియద్గోప్తా సర్వామరమునీశ్వరః ౮౩
సురేన్ద్ర ః\! కరణం కర్మ కర్మకృత్కర్మ్యధోక్షజః
ధ్యేయో ధుర్యో ధరాధీశః సఙ్కల్పః శర్వరీపతిః ౮౪
పరమార్థగురుర్వృద్ధః శుచిరాశ్రితవత్సలః
విష్ణుర్జిష్ణుర్విభుర్వన్ద్యో యజ్ఞేశో యజ్ఞపాలకః ౮౫
ప్రభవిష్ణుర్గ్రసిష్ణుశ్చ లోకాత్మా లోకభావనః
కేశవః కేశిహా కావ్యః కవిః కారణకారణమ్ ౮౬
కాలకర్తా కాలశేషో వాసుదేవః పురుష్టుతః
ఆదికర్తా వరాహశ్చ మాధవో మధుసూదనః ౮౭
నారాయణో నరో హంసో విష్వక్సేనో జనార్దనః
విశ్వకర్తా మహాయజ్ఞో జ్యోతిష్మాన్ పురుషోత్తమః ౮౮
వైకుణ్ఠః పుణ్డరీకాక్షః కృష్ణః సూర్యః సురార్చితః
నారసింహో మహాభీమో వక్రదంష్ట్రో నఖాయుధః ౮౯
ఆదిదేవో జగత్కర్తా యోగీశో గరుడధ్వజః
గోవిన్దో గోపతిర్గోప్తా భూపతిర్భువనేశ్వరః ౯౦
పద్మనాభో హృషీకేశో ధాతా దామోదరః ప్రభుః
త్రివిక్రమస్త్రిలోకేశో బ్రహ్మేశః ప్రీతివర్ధనః ౯౧
వామనో దుష్టదమనో గోవిన్దో గోపవల్లభః
భక్తప్రియోఽచ్యుతః సత్యః సత్యకీర్తిర్ధృతిః స్మృతిః ౯౨
కారుణ్యం కరుణో వ్యాసః పాపహా శాన్తివర్ధనః
సన్న్యాసీ శాస్త్రతత్త్వజ్ఞో మన్దరాద్రి నికేతనః ౯౩
బదరీనిలయః శాన్తస్తపస్వీ వైద్యుతప్రభః
భూతావాసో గుహావాసః శ్రీనివాసః శ్రియః పతిః ౯౪
తపోవాసో ముదావాసః సత్యవాసః సనాతనః
పురుషః పుష్కరః పుణ్యః పుష్కరాక్షో మహేశ్వరః ౯౫
పూర్ణమూర్తిః పురాణజ్ఞః పుణ్యదః ప్రీతివర్ధనః
శఙ్ఖీ చక్రీ గదీ శార్ఙ్గీ లాఙ్గలీ ముసలీ హలీ ౯౬
కిరీటీ కుణ్డలీ హారీ మేఖలీ కవచీ ధ్వజీ
యోద్ధా జేతా మహావీర్యః శత్రుజిచ్ఛత్రుతాపనః ౯౭
శాస్తా శాస్త్రకరః శాస్త్రం శఙ్కరః శఙ్కరస్తుతః
సారథిః సాత్త్వికః స్వామీ సామవేదప్రియః సమః ౯౮
పవనః సంహతః శక్తిః సమ్పూర్ణాఙ్గః సమృద్ధిమాన్
స్వర్గదః కామదః శ్రీదః కీర్తిదోఽకీర్తినాశనః ౯౯
మోక్షదః పుణ్డరీకాక్షః క్షీరాబ్ధికృతకేతనః
సర్వాత్మా సర్వలోకేశః ప్రేరకః పాపనాశనః ౧౦౦
సర్వవ్యాపీ జగన్నాథః సర్వలోకమహేశ్వరః
సర్గస్థిత్యన్తకృద్దేవః సర్వలోకసుఖావహః ౧౦౧
అక్షయ్యః శాశ్వతోఽనన్తః క్షయవృద్ధివివర్జితః
నిర్లేపో నిర్గుణః సూక్ష్మో నిర్వికారో నిరఞ్జనః ౧౦౨
సర్వోపాధివినిర్ముక్తః సత్తామాత్రవ్యవస్థితః
అధికారీ విభుర్నిత్యః పరమాత్మా సనాతనః ౧౦౩
అచలో నిర్మలో వ్యాపీ నిత్యతృప్తో నిరాశ్రయః
శ్యామో యువా లోహితాక్షో దీప్తాస్యో మితభాషణః ౧౦౪
ఆజానుబాహుః సుముఖః సింహస్కన్ధో మహాభుజః
సత్యవాన్గుణసమ్పన్నః స్వయన్తేజాః సుదీప్తిమాన్ ౧౦౫
కాలాత్మా భగవాన్ కాలః కాలచక్రప్రవర్తకః
నారాయణః పరఞ్జ్యోతిః పరమాత్మా సనాతనః ౧౦౬
విశ్వధృగ్విశ్వగోప్తా చ విశ్వభోక్తా చ శాశ్వతః
విశ్వేశ్వరో విశ్వమూర్తిర్విశ్వాత్మా విశ్వభావనః ౧౦౭
సర్వభూతసుహృచ్ఛాన్తః సర్వభూతానుకమ్పనః
సర్వేశ్వరేశ్వరః సర్వః శ్రీమానాశ్రితవత్సలః ౧౦౮
సర్వగః సర్వభూతేశః సర్వభూతాశయస్థితః
అభ్యన్తరస్థస్తమసశ్ఛేత్తా నారాయణః పరః ౧౦౯
అనాదినిధనః స్రష్టా ప్రజాపతిపతిర్హరిః
నరసింహో హృషీకేశః సర్వాత్మా సర్వదృగ్వశీ ౧౧౦
జగతస్తస్థుషశ్చైవ ప్రభుర్నేతా సనాతనః
కర్తా ధాతా విధాతా చ సర్వేషాం ప్రభురీశ్వరః ౧౧౧
సహస్రమూర్తిర్విశ్వాత్మా విష్ణుర్విశ్వదృగవ్యయః
పురాణపురుషః స్రష్టా సహస్రాక్షః సహస్రపాత్ ౧౧౨
తత్త్వం నారాయణో విష్ణుర్వాసుదేవః సనాతనః
పరమాత్మా పరం బ్రహ్మ సచ్చిదానన్దవిగ్రహః ౧౧౩
పరఞ్జ్యోతిః పరన్ధామః పరాకాశః పరాత్పరః
అచ్యుతః పురుషః కృష్ణః శాశ్వతః శివ ఈశ్వరః ౧౧౪
నిత్యః సర్వగతః స్థాణురుగ్రః సాక్షీ ప్రజాపతిః
హిరణ్యగర్భః సవితా లోకకృల్లోకభృద్విభుః ౧౧౫
రామః శ్రీమాన్ మహావిష్ణుర్జిష్ణుర్దేవహితావహః
తత్త్వాత్మా తారకం బ్రహ్మ శాశ్వతః సర్వసిద్ధిదః ౧౧౬
అకారవాచ్యో భగవాన్ శ్రీర్భూలీలాపతిః పుమాన్
సర్వలోకేశ్వరః శ్రీమాన్ సర్వజ్ఞః సర్వతోముఖః ౧౧౭
స్వామీ సుశీలః సులభః సర్వజ్ఞః సర్వశక్తిమాన్
నిత్యః సమ్పూర్ణకామశ్చ నైసర్గికసుహృత్సుఖీ ౧౧౮
కృపాపీయూషజలధిః శరణ్యః సర్వదేహినామ్
శ్రీమాన్నారాయణః స్వామీ జగతాం పతిరీశ్వరః ౧౧౯
శ్రీశః శరణ్యో భూతానాం సంశ్రితాభీష్టదాయకః
అనన్తః శ్రీపతీ రామో గుణభృన్నిర్గుణో మహాన్ ౧౨౦
ఇతి శ్రీరామసహస్రనామస్తోత్రం సమ్పూర్ణమ్
Reference:
êr´ RŒma SahasranŒma Stotram, (Gorakhpur: G´tŒ Press).
atha śrī rāma sahasranāma stotram
dhyānam
vaidehīsahitaṃ suradrumatale haime mahāmaṇḍape
madhye puṣpakamāsane maṇimaye vīrāsane susthitam 1
agre vācayati prapañjanasute tattvaṃ munivyatparam
vyākhyātaṃ paratādiviḥ parivṛtaṃ rāmaṃ bhaje śyāmalam 2
vāme bhūmisutāpuraśca hanumān paścātsumitrāsutaḥ
śatrughno bharataśca pārśvanalayorvāyvādikoṇeṣu ca 3
sugrīvaśca vibhīṣaṇaśca yuvarāḍ dārāsuto jāmbavān
madhye nīlasarojako mararuciṃ rāmaṃ bhaje śyāmalam 4
rājīvalocanaḥ śrīmān śrīrāmo raghupuṅgavaḥ
rāmabhadra ḥ\! sadācāro rājendro jānakīpatiḥ 1
agragaṇyo vareṇyaśca varadaḥ parameśvaraḥ
janārdano jitāmitraḥ parārthaikaprayojanaḥ 2
viśvāmitrapriyo dāntaḥ śatrujicchatrutāpanaḥ
sarvajñaḥ sarvadevādiḥ śaraṇyo vālimardanaḥ 3
jñānabhāvyo'paricchedyo vāgmī satyavrataḥ śuciḥ
jñānagamyo dṛḍhaprajñaḥ kharadhvaṃsī pratāpavān 4
dyutimānātmavān vīro jitakrodho'rimardanaḥ
viśvarūpo viśālākṣaḥ prabhuḥ parivṛḍho dṛḍhaḥ 5
īśaḥ khaḍgadharaḥ śrīmān kausaleyo'nasūyakaḥ
vipulāṃso mahoraskaḥ parameṣṭhī parāyaṇaḥ 6
satyavrataḥ satyasandho guruḥ paramadhārmikaḥ
lokajño lokavandyaśca lokātmā lokakṛtparaḥ 7
anādirbhagavān sevyo jitamāyo raghūdvahaḥ
rāmo dayākaro dakṣaḥ sarvajñaḥ sarvapāvanaḥ 8
brahmaṇyo nītimān goptā sarvadevamayo hariḥ
sundaraḥ pītavāsāśca sūtrakāraḥ purātanaḥ 9
saumyo maharṣiḥ kodaṇḍī sarvajñaḥ sarvakovidaḥ
kaviḥ sugrīvavaradaḥ sarvapuṇyādhikapradaḥ 10
bhavyo jitāriṣaḍvargo mahodaro'ghanāśanaḥ
sukīrtirādipuruṣaḥ kāntaḥ puṇyakṛtāgamaḥ 11
akalmaṣaścaturbāhuḥ sarvāvāso durāsadaḥ
smitabhāṣī nivṛttātmā smṛtimānvīryavānprabhuḥ 12
dhīro dānto ghanaśyāmaḥ sarvāyudhaviśāradaḥ
adhyātmayoganilayaḥ sumanā lakṣmaṇāgrajaḥ 13
sarvatīrthamayaḥ śūraḥ sarvayajñaphalapradaḥ
yajñasvarūpī yajñeśo jarāmaraṇavarjitaḥ 14
varṇāśramakaro varṇī śatrujitpuruṣottamaḥ
vibhīṣaṇapratiṣṭhātā paramātmā parātparaḥ 15
pramāṇabhūto durjñeyaḥ pūrṇaḥ parapurañjayaḥ
anantadṛṣṭirānando dhanurvedo dhanurdharaḥ 16
guṇākaro guṇaśreṣṭhaḥ saccidānandavigrahaḥ
abhivandyo mahākāyo viśvakarmā viśāradaḥ 17
vinītātmā vītarāgastapasvīśo janeśvaraḥ
kalyāṇaprakṛtiḥ kalpaḥ sarveśaḥ sarvakāmadaḥ 18
akṣayaḥ puruṣaḥ sākṣī keśavaḥ puruṣottamaḥ
lokādhyakṣo mahāmāyo vibhīṣaṇavarapradaḥ 19
ānandavigraho jyotirhanumatprabhuravyayaḥ
bhrājiṣṇuḥ sahano bhoktā satyavādī bahuśrutaḥ 20
sukhadaḥ kāraṇaṃ kartā bhavabandhavimocanaḥ
devacūḍāmaṇirnetā brahmaṇyo brahmavardhanaḥ 21
saṃsārottārako rāmaḥ sarvaduḥkhavimokṣakṛt
vidvattamo viśvakartā viśvahartā ca viśvakṛt 22
nityo niyatakalyāṇaḥ sītāśokavināśakṛt
kākutsthaḥ puṇḍarīkākṣo viśvāmitrabhayāpahaḥ 23
mārīcamathano rāmo virādhavadhapaṇḍitaḥ
duḥsvapnanāśano ramyaḥ kirīṭī tridaśādhipaḥ 24
mahādhanurmahākāyo bhīmo bhīmaparākramaḥ
tattvasvarūpī tattvajñastattvavādī suvikramaḥ 25
bhūtātmā bhūtakṛtsvāmī kālajñānī mahāpaṭuḥ
anirviṇṇo guṇagrāhī niṣkalaṅkaḥ kalaṅkahā 26
svabhāvabhadra ḥ\! śatrughnaḥ keśavaḥ sthāṇurīśvaraḥ
bhūtādiḥ śambhurādityaḥ sthaviṣṭhaḥ śāśvato dhruvaḥ 27
kavacī kuṇḍalī cakrī khaḍgī bhaktajanapriyaḥ
amṛtyurjanmarahitaḥ sarvajitsarvagocaraḥ 28
anuttamo'prameyātmā sarvādirguṇasāgaraḥ
samaḥ samātmā samago jaṭāmukuṭamaṇḍitaḥ 29
ajeyaḥ sarvabhūtātmā viṣvakseno mahātapāḥ
lokādhyakṣo mahābāhuramṛto vedavittamaḥ 30
sahiṣṇuḥ sadgatiḥ śāstā viśvayonirmahādyutiḥ
atīndra ūrjitaḥ prāṃśurupendro vāmano balī 31
dhanurvedo vidhātā ca brahmā viṣṇuśca śaṅkaraḥ
haṃso marīcirgovindo ratnagarbho mahāmatiḥ 32
vyāso vācaspatiḥ sarvadarpitāsuramardanaḥ
jānakīvallabhaḥ pūjyaḥ prakaṭaḥ prītivardhanaḥ 33
sambhavo'tīndri yo vedyo'nirdeśo jāmbavatprabhuḥ
madano mathano vyāpī viśvarūpo nirañjanaḥ 34
nārāyaṇo'graṇīḥ sādhurjaṭāyuprītivardhanaḥ
naikarūpo jagannāthaḥ surakāryahitaḥ svabhūḥ 35
jitakrodho jitārātiḥ plavagādhiparājyadaḥ
vasudaḥ subhujo naikamāyo bhavyapramodanaḥ 36
caṇḍāṃśuḥ siddhidaḥ kalpaḥ śaraṇāgatavatsalaḥ
agado rogahartā ca mantrajño mantrabhāvanaḥ 37
saumitrivatsalo dhuryo vyaktāvyaktasvarūpadhṛk
vasiṣṭho grāmaṇīḥ śrīmānanukūlaḥ priyaṃvadaḥ 38
atulaḥ sāttviko dhīraḥ śarāsanaviśāradaḥ
jyeṣṭhaḥ sarvaguṇopetaḥ śaktimāṃstāṭakāntakaḥ 39
vaikuṇṭhaḥ prāṇināṃ prāṇaḥ kamaṭhaḥ kamalāpatiḥ
govardhanadharo matsyarūpaḥ kāruṇyasāgaraḥ 40
kumbhakarṇaprabhettā ca gopigopālasaṃvṛtaḥ
māyāvī vyāpako vyāpī raiṇukeyabalāpahaḥ 41
pinākamathano vandyaḥ samartho garuḍadhvajaḥ
lokatrayāśrayo lokacarito bharatāgrajaḥ 42
śrīdharaḥ sadgatirlokasākṣī nārāyaṇo budhaḥ
manovegī manorūpī pūrṇaḥ puruṣapuṅgavaḥ 43
yaduśreṣṭho yadupatirbhūtāvāsaḥ suvikramaḥ
tejodharo dharādhāraścaturmūrtirmahānidhiḥ 44
cāṇūramardano divyaḥ śānto bharatavanditaḥ
śabdātigo gabhīrātmā komalāṅgaḥ prajāgaraḥ 45
lokagarbhaḥ śeṣaśāyī kṣīrābdhinilayo'malaḥ
ātmayoniradīnātmā sahasrākṣaḥ sahasrapāt 46
amṛtāṃśurmahāgarbho nivṛttaviṣayaspṛhaḥ
trikālajño muniḥ sākṣī vihāyasagatiḥ kṛtī 47
parjanyaḥ kumudo bhūtāvāsaḥ kamalalocanaḥ
śrīvatsavakṣāḥ śrīvāso vīrahā lakṣmaṇāgrajaḥ 48
lokābhirāmo lokārimardanaḥ sevakapriyaḥ
sanātanatamo meghaśyāmalo rākṣasāntakṛt 49
divyāyudhadharaḥ śrīmānaprameyo jitendri yaḥ
bhūdevavandyo janakapriyakṛtprapitāmahaḥ 50
uttamaḥ sāttvikaḥ satyaḥ satyasandhastrivikramaḥ
suvrataḥ sulabhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ sudhīḥ 51
dāmodaro'cyutaḥ śārṅgī vāmano madhurādhipaḥ
devakīnandanaḥ śauriḥ śūraḥ kaiṭabhamardanaḥ 52
saptatālaprabhettā ca mitravaṃśapravardhanaḥ
kālasvarūpī kālātmā kālaḥ kalyāṇadaḥ kaviḥ 53
saṃvatsara ṛtuḥ pakṣo hyayanaṃ divaso yugaḥ
stavyo vivikto nirlepaḥ sarvavyāpī nirākulaḥ
anādinidhanaḥ sarvalokapūjyo nirāmayaḥ 54
raso rasajñaḥ sārajño lokasāro rasātmakaḥ
sarvaduḥkhātigo vidyārāśiḥ paramagocaraḥ 55
śeṣo viśeṣo vigatakalmaṣo raghunāyakaḥ
varṇaśreṣṭho varṇavāhyo varṇyo varṇyaguṇojjvalaḥ 56
karmasākṣyamaraśreṣṭho devadevaḥ sukhapradaḥ
devādhidevo devarṣirdevāsuranamaskṛtaḥ 57
sarvadevamayaścakrī śārṅgapāṇī raghūttamaḥ
mano buddhirahaṅkāraḥ prakṛtiḥ puruṣo'vyayaḥ 58
ahalyāpāvanaḥ svāmī pitṛbhakto varapradaḥ
nyāyo nyāyī nayī śrīmānnayo nagadharo dhruvaḥ 59
lakṣmīviśvambharābhartā devendro balimardanaḥ
vāṇārimardano yajvānuttamo munisevitaḥ 60
devāgraṇīḥ śivadhyānatatparaḥ paramaḥ paraḥ
sāmageyaḥ priyo'krūraḥ puṇyakīrtiḥ sulocanaḥ 61
puṇyaḥ puṇyādhikaḥ pūrvaḥ pūrṇaḥ pūrayitā raviḥ
jaṭilaḥ kalmaṣadhvāntaprabhañjanavibhāvasuḥ 62
avyaktalakṣaṇo'vyakto daśāsyadvipakesarī
kalānidhiḥ kalānātho kamalānandavardhanaḥ 63
jayī jitāriḥ sarvādiḥ śamano bhavabhañjanaḥ
alaṅkariṣṇuracalo rociṣṇurvikramottamaḥ 64
āśuḥ śabdapatiḥ śabdāgocaro rañjano raghuḥ
niḥśabdaḥ praṇavo mālī sthūlaḥ sūkṣmo vilakṣaṇaḥ 65
ātmayonirayoniśca saptajihvaḥ sahasrapāt
sanātanatamaḥ sragvī peśalo javināṃ varaḥ 66
śaktimāñśaṅkhabhṛnnātho gadāpadmarathāṅgabhṛt
niroho nirvikalpaśca cidrū po vītasādhvasaḥ 67
śatānanaḥ sahasrākṣaḥ śatamūrtirghanaprabhaḥ
hṛtpuṇḍarīkaśayanaḥ kaṭhino dra va eva ca 68
ugro grahapatiḥ śrīmān samartho'narthanāśanaḥ
adharmaśatrū rakṣoghnaḥ puruhūtaḥ puruṣṭutaḥ 69
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ
hiraṇyagarbho jyotiṣmān sulalāṭaḥ suvikramaḥ 70
śivapūjārataḥ śrīmān bhavānīpriyakṛdvaśī
naro nārāyaṇaḥ śyāmaḥ kapardīnīlalohitaḥ 71
rudra ḥ\! paśupatiḥ sthāṇurviśvāmitro dvijeśvaraḥ
mātāmaho mātariśvā viriñcoviṣṭaraśravāḥ 72
akṣobhyaḥ sarvabhūtānāṃ caṇḍaḥ satyaparākramaḥ
vālakhilyo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ 73
nidāghastapano'moghaḥ ślakṣṇaḥ parabalāpahṛt
kabandhamathano divyaḥ kambugrīvaśivapriyaḥ 74
śaṅkho'nilaḥ suniṣpannaḥ sulabhaḥ śiśirātmakaḥ
asaṃsṛṣṭo'tithiḥ śūraḥ pramāthī pāpanāśakṛt 75
vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ
rāmo nīlotpalaśyāmo jñānaskandho mahādyutiḥ 76
pavitrapādaḥ pāpārirmaṇipūro nabhogatiḥ
uttāraṇo duṣkṛtihā durdharṣo duḥsaho'bhayaḥ 77
amṛteśo'mṛtavapurdharmī dharmaḥ kṛpākaraḥ
bhargo vivasvānādityo yogācāryo divaspatiḥ 78
udārakīrtirudyogī vāṅmayaḥ sadasanmayaḥ
nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ 79
caturvargaphalo varṇī śaktitrayaphalaṃ nidhiḥ
nidhānagarbho nirvyājo girīśo vyālamardanaḥ 80
śrīvallabhaḥ śivārambhaḥ śāntirbhadra ḥ\! samañjasaḥ
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ 81
akāyo bhaktakāyasthaḥ kālajñānī mahāvaṭuḥ
parārthavṛttiracalo viviktaḥ śrutisāgaraḥ 82
svabhāvabhadro madhyasthaḥ saṃsārabhayanāśanaḥ
vedyo vaidyo viyadgoptā sarvāmaramunīśvaraḥ 83
surendra ḥ\! karaṇaṃ karma karmakṛtkarmyadhokṣajaḥ
dhyeyo dhuryo dharādhīśaḥ saṅkalpaḥ śarvarīpatiḥ 84
paramārthagururvṛddhaḥ śucirāśritavatsalaḥ
viṣṇurjiṣṇurvibhurvandyo yajñeśo yajñapālakaḥ 85
prabhaviṣṇurgrasiṣṇuśca lokātmā lokabhāvanaḥ
keśavaḥ keśihā kāvyaḥ kaviḥ kāraṇakāraṇam 86
kālakartā kālaśeṣo vāsudevaḥ puruṣṭutaḥ
ādikartā varāhaśca mādhavo madhusūdanaḥ 87
nārāyaṇo naro haṃso viṣvakseno janārdanaḥ
viśvakartā mahāyajño jyotiṣmān puruṣottamaḥ 88
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kṛṣṇaḥ sūryaḥ surārcitaḥ
nārasiṃho mahābhīmo vakradaṃṣṭro nakhāyudhaḥ 89
ādidevo jagatkartā yogīśo garuḍadhvajaḥ
govindo gopatirgoptā bhūpatirbhuvaneśvaraḥ 90
padmanābho hṛṣīkeśo dhātā dāmodaraḥ prabhuḥ
trivikramastrilokeśo brahmeśaḥ prītivardhanaḥ 91
vāmano duṣṭadamano govindo gopavallabhaḥ
bhaktapriyo'cyutaḥ satyaḥ satyakīrtirdhṛtiḥ smṛtiḥ 92
kāruṇyaṃ karuṇo vyāsaḥ pāpahā śāntivardhanaḥ
sannyāsī śāstratattvajño mandarādri niketanaḥ 93
badarīnilayaḥ śāntastapasvī vaidyutaprabhaḥ
bhūtāvāso guhāvāsaḥ śrīnivāsaḥ śriyaḥ patiḥ 94
tapovāso mudāvāsaḥ satyavāsaḥ sanātanaḥ
puruṣaḥ puṣkaraḥ puṇyaḥ puṣkarākṣo maheśvaraḥ 95
pūrṇamūrtiḥ purāṇajñaḥ puṇyadaḥ prītivardhanaḥ
śaṅkhī cakrī gadī śārṅgī lāṅgalī musalī halī 96
kirīṭī kuṇḍalī hārī mekhalī kavacī dhvajī
yoddhā jetā mahāvīryaḥ śatrujicchatrutāpanaḥ 97
śāstā śāstrakaraḥ śāstraṃ śaṅkaraḥ śaṅkarastutaḥ
sārathiḥ sāttvikaḥ svāmī sāmavedapriyaḥ samaḥ 98
pavanaḥ saṃhataḥ śaktiḥ sampūrṇāṅgaḥ samṛddhimān
svargadaḥ kāmadaḥ śrīdaḥ kīrtido'kīrtināśanaḥ 99
mokṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikṛtaketanaḥ
sarvātmā sarvalokeśaḥ prerakaḥ pāpanāśanaḥ 100
sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ
sargasthityantakṛddevaḥ sarvalokasukhāvahaḥ 101
akṣayyaḥ śāśvato'nantaḥ kṣayavṛddhivivarjitaḥ
nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ 102
sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ
adhikārī vibhurnityaḥ paramātmā sanātanaḥ 103
acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ
śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣaṇaḥ 104
ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ
satyavānguṇasampannaḥ svayantejāḥ sudīptimān 105
kālātmā bhagavān kālaḥ kālacakrapravartakaḥ
nārāyaṇaḥ parañjyotiḥ paramātmā sanātanaḥ 106
viśvadhṛgviśvagoptā ca viśvabhoktā ca śāśvataḥ
viśveśvaro viśvamūrtirviśvātmā viśvabhāvanaḥ 107
sarvabhūtasuhṛcchāntaḥ sarvabhūtānukampanaḥ
sarveśvareśvaraḥ sarvaḥ śrīmānāśritavatsalaḥ 108
sarvagaḥ sarvabhūteśaḥ sarvabhūtāśayasthitaḥ
abhyantarasthastamasaśchettā nārāyaṇaḥ paraḥ 109
anādinidhanaḥ sraṣṭā prajāpatipatirhariḥ
narasiṃho hṛṣīkeśaḥ sarvātmā sarvadṛgvaśī 110
jagatastasthuṣaścaiva prabhurnetā sanātanaḥ
kartā dhātā vidhātā ca sarveṣāṃ prabhurīśvaraḥ 111
sahasramūrtirviśvātmā viṣṇurviśvadṛgavyayaḥ
purāṇapuruṣaḥ sraṣṭā sahasrākṣaḥ sahasrapāt 112
tattvaṃ nārāyaṇo viṣṇurvāsudevaḥ sanātanaḥ
paramātmā paraṃ brahma saccidānandavigrahaḥ 113
parañjyotiḥ parandhāmaḥ parākāśaḥ parātparaḥ
acyutaḥ puruṣaḥ kṛṣṇaḥ śāśvataḥ śiva īśvaraḥ 114
nityaḥ sarvagataḥ sthāṇurugraḥ sākṣī prajāpatiḥ
hiraṇyagarbhaḥ savitā lokakṛllokabhṛdvibhuḥ 115
rāmaḥ śrīmān mahāviṣṇurjiṣṇurdevahitāvahaḥ
tattvātmā tārakaṃ brahma śāśvataḥ sarvasiddhidaḥ 116
akāravācyo bhagavān śrīrbhūlīlāpatiḥ pumān
sarvalokeśvaraḥ śrīmān sarvajñaḥ sarvatomukhaḥ 117
svāmī suśīlaḥ sulabhaḥ sarvajñaḥ sarvaśaktimān
nityaḥ sampūrṇakāmaśca naisargikasuhṛtsukhī 118
kṛpāpīyūṣajaladhiḥ śaraṇyaḥ sarvadehinām
śrīmānnārāyaṇaḥ svāmī jagatāṃ patirīśvaraḥ 119
śrīśaḥ śaraṇyo bhūtānāṃ saṃśritābhīṣṭadāyakaḥ
anantaḥ śrīpatī rāmo guṇabhṛnnirguṇo mahān 120
iti śrīrāmasahasranāmastotraṃ sampūrṇam
Reference:
êr´ RŒma SahasranŒma Stotram, (Gorakhpur: G´tŒ Press).