देवी माहात्म्यम् वा दुर्गासप्तशती
॥ देवी माहात्म्यम् ॥
॥ श्री ॥
॥ श्रीचण्डिकाध्यानम् ॥
ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥
त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।
अथवा
या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥
॥ अथ अर्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः,
अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता,
श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥
मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥
महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥
धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥
निशुम्भशुम्भनिर्नाशि त्रैलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥
तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥
॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥
॥ अथ कीलकस्तोत्रम् ॥
ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥ ३॥
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥ ४॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥ ६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥ ९॥
न चैवापाटवं तस्य भयं क्वापि न जायते ।
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ॥ ११॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥ १५॥
अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥ १६॥
॥ इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ॥
॥ अथ देवी कवचम् ॥
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः ,
चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् ,
दिग्बन्धदेवतास्तत्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥
अग्निना दह्यमानास्तु शत्रुमध्यगता रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६।
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् ॥ ७॥
यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः ॥ ८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
नारसिंही महावीर्या शिवदूती महाबला ।
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ १०॥
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ।
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥ ११॥
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ १२॥
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ।
श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥ १३॥
इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः ।
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ १४॥
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।
खेटकं तोमरं चैव परशुं पाशमेव च ॥ १५॥
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ।
दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १६॥
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ।
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ १७॥
महाबले महोत्साहे महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १८॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ॥ १९॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।
उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ २०॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ २१॥
जया मामग्रतः पातु विजया पातु पृष्ठतः ।
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ २२॥
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ २३॥
नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके ।
त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २४॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी ॥ २५॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २६॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २७॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २८॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २९॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥ ३०॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ ३१॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३२॥
कट्यां भगवती रक्षेदूरू मे मेघवाहना ।
जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३३॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी ।
पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३४॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३५॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३६॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३७॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३८॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३९॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ४०॥
आयू रक्षतु वाराही धर्मं रक्षतु पार्वती ।
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ४१॥
गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४२॥
धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा ।
पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥ ४३॥
राजद्वारे महालक्ष्मीर्विजया सतत स्थिता ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ४४॥
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ।
सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥ ४५॥
इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् ।
पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः ॥ ४६॥
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।
तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः ॥ ४७॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४८॥
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४९॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ५०॥
दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः ।
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ५१॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ॥ ५२॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥ ५३॥
सहजा कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥ ५४॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५५॥
नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः ।
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिः परा भवेत् ॥ ५६॥
यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते ।
तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥ ५७॥
जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥ ५८॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५९॥
देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ६०॥
तत्र गच्छति गत्वासौ पुनश्चागमनं नहि ।
लभते परमं स्थानं शिवेन समतां व्रजेत् ॥ ६१॥
॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं
देवीकवचं समाप्तम् ॥
॥ देवी माहात्म्यम् ॥
%
॥ श्रीदुर्गायै नमः ॥
॥ अथ श्रीदुर्गासप्तशती ॥
॥ १. मधुकैटभवधो नाम प्रथमोऽध्यायः ॥
विनियोगः
अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः ।
महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः ।
रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् ।
ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे
प्रथमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
ॐ नमश्चण्डिकायै ॥
ॐ ऐं मार्कण्डेय उवाच ॥ १.१॥
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ १.२॥
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ १.३॥
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ १.४॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ १.५॥
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ १.६॥
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ १.७॥
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ १.८॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥ १.९॥
स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १.१०॥
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ १.११॥
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १.१२॥
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।
न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १.१३॥
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १.१४॥
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १.१५॥
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १.१६॥
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १.१७॥
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ १.१८॥
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १.१९॥
वैश्य उवाच ॥ १.२०॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ १.२१॥
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ १.२२॥
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ १.२३॥
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ १.२४॥
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ १.२५॥
राजोवाच ॥ १.२६॥
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ १.२७॥
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ १.२८॥
वैश्य उवाच ॥ १.२९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ १.३०॥
किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ १.३१॥
पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥ १.३२॥
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ १.३३॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ १.३४॥
मार्कण्डेय उवाच ॥ १.३५॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ १.३६॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ १.३७॥
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ १.३८॥
राजोवाच ॥ १.३९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ १.४०॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ १.४१॥
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ १.४२॥
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ १.४३॥
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ १.४४॥
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ १.४५॥
ऋषिरुवाच ॥ १.४६॥
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ १.४७॥
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ १.४८॥
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ १.४९॥
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ १.५०॥
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ १.५१॥
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ १.५२॥
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ १.५३॥
महामायाप्रभावेण संसारस्थितिकारिणा ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ १.५४॥
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ १.५५॥
बलादाकृष्य मोहाय महामाया प्रयच्छति ।
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ १.५६॥
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ १.५७॥
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ १.५८॥
राजोवाच ॥ १.५९॥
भगवन् का हि सा देवी महामायेति यां भवान् ॥ १.६०॥
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ १.६१॥
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ १.६२॥
ऋषिरुवाच ॥ १.६३॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ १.६४॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ १.६५॥
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ १.६६॥
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ १.६७॥
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ १.६८॥
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ १.६९॥
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥
ब्रह्मोवाच ॥ १.७२॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.७९॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥
परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥
ऋषिरुवाच ॥ १.८८॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ १.८९॥
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १.९०॥
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ १.९१॥
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ १.९२॥
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ १.९३॥
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ १.९४॥
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ १.९५॥
श्रीभगवानुवाच ॥ १.९६॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ १.९७॥
किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ १.९८॥
ऋषिरुवाच ॥ १.९९॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १.१००॥
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १.१०१॥
ऋषिरुवाच ॥ १.१०२॥
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १.१०३॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १.१०४॥
। ऐं ॐ ।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६, एवमादितः ॥ १०४॥
॥ २. महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥
विनियोगः
अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः ।
श्रीमहालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
ॐ ह्रीं ऋषिरुवाच ॥ २.१॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २.२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ २.३॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ २.४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ २.५॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ २.६॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ २.७॥
एतद्वः कथितं सर्वममरारिविचेष्टितम् ।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ २.८॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः ।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ २.९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ २.१०॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ २.११॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ २.१२॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ २.१३॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ २.१४॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ २.१५॥
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ २.१६॥
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ २.१७॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ २.१८॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ २.१९॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २.२०॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २.२१॥
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २.२२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २.२३॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।
कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २.२४॥
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २.२५॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २.२६॥
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २.२७॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २.२८॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।
हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २.२९॥
ददावशून्यं सुरया पानपात्रं धनाधिपः ।
शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २.३०॥
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ २.३१॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ २.३२॥
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ २.३३॥
चचाल वसुधा चेलुः सकलाश्च महीधराः ।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ २.३४॥
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ २.३५॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ २.३६॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ २.३७॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ २.३८॥
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ २.३९॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ २.४०॥
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ २.४१॥
अयुध्यतायुतानां च सहस्रेण महाहनुः ।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ २.४२॥
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ २.४३॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ २.४४॥
युयुधे संयुगे तत्र रथानां परिवारितः ।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ २.४५॥
युयुधुः संयुगे देव्या सह तत्र महासुराः ।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ २.४६॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ २.४७॥
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ २.४८॥
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ २.४९॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ २.५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ २.५१॥
चचारासुरसैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ २.५२॥
त एव सद्यः सम्भूता गणाः शतसहस्रशः ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ २.५३॥
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ २.५४॥
मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ २.५५॥
खड्गादिभिश्च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ २.५६॥
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ २.५७॥
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ २.५८॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ २.५९॥
श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।
केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ २.६०॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ २.६१॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ २.६२॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ २.६३॥
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ २.६४॥
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ २.६५॥
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ २.६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ २.६७॥
स च सिंहो महानादमुत्सृजन् धुतकेसरः ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ २.६८॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ २.६९॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥
उवाच १, अर्धश्लोकाः ६८, श्लोकाः ६९, एवमादितः ॥ १७३॥
॥ ३. महिषासुरवधो नाम तृतीयोऽध्यायः ॥
। ध्यानम् ।
ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ।
ॐ ऋषिरुवाच ॥ ३.१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ३.२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।
यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ३.३॥
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ३.४॥
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ३.५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ३.६॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ३.७॥
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ३.८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ३.९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।
तेन तच्छतधा नीतं शूलं स च महासुरः ॥ ३.१०॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ३.११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ३.१२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ३.१३॥
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ३.१४॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ३.१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ ३.१६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।
दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ३.१७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ३.१८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ३.१९॥
बिडालस्यासिना कायात् पातयामास वै शिरः ।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ ३.२०॥
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ३.२१॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ ३.२२॥
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।
निःश्वासपवनेनान्यान्पातयामास भूतले ॥ ३.२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ३.२४॥
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ ३.२५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ३.२६॥
धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ३.२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ३.२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ३.२९॥
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।
छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३.३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३.३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३.३२॥
ततो महासुरो भूयो माहिषं वपुरास्थितः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३.३३॥
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३.३४॥
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३.३५॥
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३.३६॥
देव्युवाच ॥ ३.३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३.३८॥
ऋषिरुवाच ॥ ३.३९॥
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ३.४०॥
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ३.४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ३.४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ३.४३॥
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३.४४॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥
उवाच ३, अर्धश्लोकाः ४१, श्लोकाः ४४, एवमादितः ॥ २१७॥
॥ ४. शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥
। ध्यानम् ।
ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
ॐ ऋषिरुवाच ॥ ४.१॥
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ ४.२॥
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ४.३॥
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥ ४.४॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ४.५॥
किं वर्णयाम तव रूपमचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ४.६॥
हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ४.७॥
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ४.८॥
या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ॥ ४.९॥
शब्दात्मिका सुविमलर्ग्यजुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवि त्रयी भगवती भवभावनाय
वार्तासि सर्वजगतां परमार्तिहन्त्री ॥ ४.१०॥
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ४.११॥
ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ ४.१२॥
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ ४.१३॥
देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ॥ ४.१४॥
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥ ४.१५॥
धर्म्याणि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ ४.१६॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४.१७॥
एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥ ४.१८॥
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ॥ ४.१९॥
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ॥ ४.२०॥
दुर्वृत्तवृत्तशमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ ४.२१॥
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ ४.२२॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अस्माकमुन्मदसुरारिभवं नमस्ते ॥ ४.२३॥
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ ४.२४॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ ४.२५॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥
ऋषिरुवाच ॥ ४.२८॥
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ ४.२९॥
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ४.३०॥
देव्युवाच ॥ ४.३१॥
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ ४.३२॥
देवा ऊचुः ॥ ४.३३॥
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ॥ ४.३४॥
यदयं निहतः शत्रुरस्माकं महिषासुरः ।
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ ४.३५॥
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ४.३६॥
तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ४.३७॥
ऋषिरुवाच ॥ ४.३८॥
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ४.३९॥
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४.४०॥
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४.४१॥
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४.४२॥
। ह्रीं ॐ ।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४॥
उवाच ५, अर्धश्लोकौ २, श्लोकाः ३५, एवमादितः ॥ २५९॥
॥ ५. देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥
विनियोगः
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ।
श्रीमहासरस्वती देवता ।
अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् ।
सूर्यस्तत्त्वम् ।
सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे
उत्तरचरित्रपाठे विनियोगः ।
। ध्यानम् ।
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
ॐ क्लीं ऋषिरुवाच ॥ ५.१॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ ५.२॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ५.३॥
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ५.४॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५.५॥
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५.६॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ५.७॥
देवा ऊचुः ॥ ५.८॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥
स्तुता सुरैः पूर्वमभीष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥
ऋषिरुवाच ॥ ५.८३॥
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ५.९०॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ५.९१॥
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ५.९२॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ५.९३॥
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ॥ ५.९४॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ५.९५॥
निधिरेष महापद्मः समानीतो धनेश्वरात् ।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ५.९६॥
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ५.९७॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ५.९८॥
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।
वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ५.९९॥
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ५.१००॥
ऋषिरुवाच ॥ ५.१०१॥
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ ५.१०२॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ ५.१०३॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ५.१०४॥
दूत उवाच ॥ ५.१०५॥
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ ५.१०६॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ ५.१०७॥
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ ५.१०८॥
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ ५.१०९॥
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥ ५.११०॥
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ५.१११॥
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ५.११२॥
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ५.११३॥
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ५.११४॥
ऋषिरुवाच ॥ ५.११५॥
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ५.११६॥
देव्युवाच ॥ ५.११७॥
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ५.११८॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ५.११९॥
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ५.१२०॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ ५.१२१॥
दूत उवाच ॥ ५.१२२॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ ५.१२३॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥ ५.१२४॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ ५.१२५॥
सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ ५.१२६॥
देव्युवाच ॥ ५.१२७॥
एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ ५.१२८॥
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ॥ ५.१२९॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥ ५॥
उवाच ९, त्रिपान्मन्त्राः ६६, श्लोकाः ५४, एवमादितः ॥ ३८८॥
॥ ६. शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥
। ध्यानम् ।
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरु रत्नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्गनिलयां पद्मावतीं चिन्तये ॥
ॐ ऋषिरुवाच ॥ ६.१॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ ६.२॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ६.३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ६.४॥
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ६.५॥
ऋषिरुवाच ॥ ६.६॥
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ ६.७॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ६.८॥
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ६.९॥
देव्युवाच ॥ ६.१०॥
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ६.११॥
ऋषिरुवाच ॥ ६.१२॥
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ ६.१३॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ ६.१४॥
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ ६.१५॥
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ॥ ६.१६॥
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ॥ ६.१७॥
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ ६.१८॥
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ ६.१९॥
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥ ६.२०॥
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ ६.२१॥
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ ६.२२॥
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ ६.२३॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ ६.२४॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥ ६॥
उवाच ४, श्लोकाः २४, एवमादितः ॥ ४१२॥
॥ ७. चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥
। ध्यानम् ।
ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकांघ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कल्हाराबद्धमालां नियमितविलसच्चोलिकां रत्नवस्त्रां
मातङ्गी शङ्कपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
ॐ ऋषिरुवाच ॥ ७.१॥
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ ७.२॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ७.३॥
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ ७.४॥
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ७.५॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ७.६॥
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ७.७॥
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ७.८॥
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥ ७.९॥
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ ७.१०॥
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ७.११॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ ७.१२॥
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ ७.१३॥
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥ ७.१४॥
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ ७.१५॥
क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ ७.१६॥
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ ७.१७॥
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ ७.१८॥
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवदना दुर्दर्शदशनोज्ज्वला ॥ ७.१९॥
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ ७.२०॥
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ ७.२१॥
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ ७.२२॥
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ ७.२३॥
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ ७.२४॥
ऋषिरुवाच ॥ ७.२५॥
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ ७.२६॥
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ ७.२७॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥ ७॥
उवाच २, श्लोकाः २५, एवमादितः ॥ ४३९॥
॥ ८. रक्तबीजवधो नामाष्टमोऽध्यायः ॥
। ध्यानम् ।
ॐ अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशबाणाचापहस्ताम् ।
अणिमादिभिरावृतां मयूखै-
रहमित्येव विभावये भवानीम् ॥
ॐ ऋषिरुवाच ॥ ८.१॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ ८.२॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८.३॥
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ८.४॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ८.५॥
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ८.६॥
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ८.७॥
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८.८॥
ततः सिंहो महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ८.९॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ ८.१०॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ८.११॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहानामतिवीर्यबलान्विताः ॥ ८.१२॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ ८.१३॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥ ८.१४॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥ ८.१५॥
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥ ८.१६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ ८.१७॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ ८.१८॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ ८.१९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ ८.२०॥
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ८.२१॥
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ८.२२॥
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ ८.२३॥
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ ८.२४॥
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ ८.२५॥
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ८.२६॥
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ ८.२७॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ ८.२८॥
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ ८.२९॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ८.३०॥
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ८.३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ८.३२॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ८.३३॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ८.३४॥
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ८.३५॥
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ८.३६॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ८.३७॥
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ८.३८॥
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ८.३९॥
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ८.४०॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ८.४१॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ८.४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ८.४३॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ८.४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥ ८.४५॥
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ८.४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ८.४७॥
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ८.४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ८.४९॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ८.५०॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ८.५१॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ८.५२॥
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ८.५३॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ८.५४॥
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति ॥ ८.५५॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ८.५६॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ ८.५७॥
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ८.५८॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ ८.५९॥
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।
देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः ॥ ८.६०॥
जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ ८.६१॥
नीरक्तश्च महीपाल रक्तबीजो महासुरः ।
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ ८.६२॥
तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ८.६३॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
रक्तबीजवधो नामाष्टमोऽध्यायः ॥ ८॥
उवाच १, अर्धश्लोकः १, श्लोकाः ६१, एवमादितः ॥ ५०२॥
॥ ९. निशुम्भवधो नाम नवमोऽध्यायः ॥
। ध्यानम् ।
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धांबिकेशमनिशं वपुराश्रयामि ॥
ॐ राजोवाच ॥ ९.१॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ ९.२॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ९.३॥
ऋषिरुवाच ॥ ९.४॥
चकार कोपमतुलं रक्तबीजे निपातिते ।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ९.५॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ९.६॥
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ।
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ९.७॥
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ९.८॥
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९.९॥
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ ९.१०॥
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् ।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ९.११॥
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ ९.१२॥
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः ।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ ९.१३॥
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।
आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ ९.१४॥
आविद्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ ९.१५॥
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।
आहत्य देवी बाणौघैरपातयत भूतले ॥ ९.१६॥
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ ९.१७॥
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।
भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ ९.१८॥
तमायान्तं समालोक्य देवी शङ्खमवादयत् ।
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ ९.१९॥
पूरयामास ककुभो निजघण्टास्वनेन च ।
समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ ९.२०॥
ततः सिंहो महानादैस्त्याजितेभमहामदैः ।
पूरयामास गगनं गां तथैव दिशो दश ॥ ९.२१॥
ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ ९.२२॥
अट्टाट्टहासमशिवं शिवदूती चकार ह ।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ ९.२३॥
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ ९.२४॥
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ ९.२५॥
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।
निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ ९.२६॥
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् ।
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥ ९.२७॥
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ ९.२८॥
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।
आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ ९.२९॥
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ।
चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ९.३०॥
ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ९.३१॥
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।
अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ९.३२॥
तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।
खड्गेन शितधारेण स च शूलं समाददे ॥ ९.३३॥
शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ९.३४॥
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ९.३५॥
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ९.३६॥
ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ९.३७॥
कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ९.३८॥
माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।
वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ९.३९॥
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ९.४०॥
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ९.४१॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥
उवाच २, अर्धश्लोकाः ३९, श्लोकाः ४१, एवमादितः ॥ ५४३॥
॥ १०. शुम्भवधो नाम दशमोऽध्यायः ॥
। ध्यानम् ।
ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-
नेत्रां धनुश्शरयुताङ्कुशपाशशूलम् ।
रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॥
ॐ ऋषिरुवाच ॥ १०.१॥
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ १०.२॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ १०.३॥
देव्युवाच ॥ १०.४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ १०.५॥
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ १०.६॥
देव्युवाच ॥ १०.७॥
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ १०.८॥
ऋषिरुवाच ॥ १०.९॥
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०.१०॥
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।
तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ १०.११॥
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १०.१२॥
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।
बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १०.१३॥
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १०.१४॥
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १०.१५॥
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १०.१६॥
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
अश्वांश्च पातयामास रथं सारथिना सह ॥ १०.१७॥
हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १०.१८॥
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १०.१९॥
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ १०.२०॥
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ १०.२१॥
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ १०.२२॥
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ १०.२३॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ १०.२४॥
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ १०.२५॥
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ १०.२६॥
स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ १०.२७॥
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ १०.२८॥
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ १०.२९॥
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ १०.३०॥
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ १०.३१॥
जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ १०.३२॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥
॥ नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥
। ध्यानम् ।
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
ॐ ऋषिरुवाच ॥ ११.१॥
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः ॥ ११.२॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥ ११.३॥
आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ११.४॥
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ११.५॥
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ११.६॥
सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ११.७॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ११.८॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ११.९॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११.१०॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११.११॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११.१२॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ११.१३॥
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ ११.१४॥
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ११.१५॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ११.१६॥
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ ११.१७॥
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ११.१८॥
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ ११.१९॥
शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ ११.२०॥
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ ११.२१॥
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ ११.२२॥
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ ११.२३॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ११.२४॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ ११.२५॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ११.२६॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ११.२७॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ११.२८॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११.२९॥
एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिं
कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ११.३०॥
विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम् ॥ ११.३१॥
रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम् ॥ ११.३२॥
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ११.३३॥
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥ ११.३४॥
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ११.३५॥
देव्युवाच ॥ ११.३६॥
वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ११.३७॥
देवा ऊचुः ॥ ११.३८॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११.३९॥
देव्युवाच ॥ ११.४०॥
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ११.४१॥
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ११.४२॥
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ११.४३॥
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ११.४४॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ११.४५॥
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ११.४६॥
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ११.४७॥
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ११.४८॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ११.४९॥
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ११.५०॥
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ११.५१॥
भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ११.५२॥
तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ११.५३॥
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ११.५४॥
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ११.५५॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥
उवाच ४, अर्धश्लोकः १, श्लोकाः ५०, एवमादितः ॥ ६३०॥
॥ १२. भगवती वाक्यं द्वादशोऽध्यायः ॥
। ध्यानम् ।
ॐ विद्युद्धामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवाळखेटविलसधस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
ॐ देव्युवाच ॥ १२.१॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ १२.२॥
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ १२.३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ १२.४॥
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ १२.५॥
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ १२.६॥
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १२.७॥
उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ १२.८॥
यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ॥ १२.९॥
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १२.१०॥
जानताजानता वापि बलिपूजां यथा कृताम् ।
प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ १२.११॥
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२.१२॥
सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १२.१३॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १२.१४॥
रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १२.१५॥
शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १२.१६॥
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १२.१७॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १२.१८॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १२.१९॥
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ १२.२०॥
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ १२.२१॥
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ १२.२२॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ १२.२३॥
तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ १२.२४॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ १२.२५॥
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ १२.२६॥
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ १२.२७॥
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ १२.२८॥
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ १२.२९॥
दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ १२.३०॥
ऋषिरुवाच ॥ १२.३१॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ १२.३२॥
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ १२.३३॥
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ १२.३४॥
जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ १२.३५॥
एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम् ॥ १२.३६॥
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ १२.३७॥
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
महादेव्या महाकाली महामारीस्वरूपया ॥ १२.३८॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥ १२.३९॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ १२.४०॥
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ १२.४१॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥
उवाच २, अर्धश्लोकौ २, श्लोकाः ३७, एवमादितः ॥ ६७१॥
॥ १३. सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥
। ध्यानम् ।
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ॥
ॐ ऋषिरुवाच ॥ १३.१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ १३.२॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ १३.३॥
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीम् ॥ १३.४॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ १३.५॥
मार्कण्डेय उवाच ॥ १३.६॥
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ १३.७॥
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ १३.८॥
जगाम सद्यस्तपसे स च वैश्यो महामुने ।
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ १३.९॥
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १३.१०॥
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ १३.११॥
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १३.१२॥
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३.१३॥
देव्युवाच ॥ १३.१४॥
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १३.१५॥
मार्कण्डेय उवाच ॥ १३.१६॥
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १३.१७॥
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १३.१८॥
देव्युवाच ॥ १३.१९॥
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ १३.२०॥
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ १३.२१॥
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ १३.२२॥
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ १३.२३॥
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ १३.२४॥
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ १३.२५॥
मार्कण्डेय उवाच ॥ १३.२६॥
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ १३.२७॥
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ १३.२८॥
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.२९॥
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ क्लीं ॐ ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥
उवाच ६, अर्धश्लोकाः ११, श्लोकाः १२, एवमादितः ॥ ७००॥
समस्ता उवाचमन्त्राः ५७, अर्धश्लोकाः ४२, श्लोकाः ५३५, अवदानानि ६६ ॥
॥ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॥
॥ ॐ तत् सत् ॐ ॥
॥ अथ अपराधक्षमापणस्तोत्रम् ॥
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥
सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥
यदत्र पाठे जगदम्बिके मया
विसर्गबिन्द्वक्षरहीनमीरितम् ।
तदस्तु सम्पूर्णतमं प्रसादतः
सङ्कल्पसिद्धिश्च सदैव जायताम् ॥ ७॥
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ।
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥
॥ इति अपराधक्षमापणस्तोत्रं समाप्तम् ॥
॥ अथ देवीसूक्तम् ॥
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यह-
मादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यह-
मिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं
त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते
सुप्राव्ये यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सङ्गमनी वसूनां
चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा
भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥
मया सो अन्नमत्ति यो विपश्यति
यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति
श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं
देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि
तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरा तनोमि
ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं
द्यावापृथिवी आ विवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन्
मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो-
तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥
अहमेव वात इव प्र वाम्या-
रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै-
तावती महिना सं बभूव ॥ ८॥
॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
॥ ॐ तत् सत् ॐ ॥
Encoded by Smt. K. Shankaran and
reencoded by Kirk Wortman kirkwort@hotmail.com
Proofread by Sunder Hattangadi
and Kirk Wortman kirkwort@hotmail.com
% Text title : Devi Mahatmyam / Durga Saptashati
% File name : durga700.itx
% itxtitle : devI mAhAtmyam athavA durgAsaptashatI
% engtitle : devI mAhAtmyam or durgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Transliterated by : K. Shankaran, Kirk Wortman, Dhruba Chakroborty, Ahto Jarve
% Proofread by : Sunder Hattangadi, Kirk Wortman (kirkwort at hotmail.com)
% Description-comments : 700 shlokas regarding devi durga
% Indexextra : (1, 2, Bengali chanting, meanings, Sanskrit bhAShya, audio, Italian and English, English, Compilation, Tamil, mArakeNDeya purANa)
% Latest update : February 26, 2024
% Site access : https://sanskritdocuments.org
devī māhātmyam vā durgāsaptaśatī
|| devī māhātmyam ||
|| śrī ||
|| śrīcaṇḍikādhyānam ||
oṃ bandhūkakusumābhāsāṃ pañcamuṇḍādhivāsinīm |
sphuraccandrakalāratnamukuṭāṃ muṇḍamālinīm ||
trinetrāṃ raktavasanāṃ pīnonnataghaṭastanīm |
pustakaṃ cākṣamālāṃ ca varaṃ cābhayakaṃ kramāt ||
dadhatīṃ saṃsmarennityamuttarāmnāyamānitām |
athavā
yā caṇḍī madhukaiṭabhādidaityadalanī yā māhiṣonmūlinī
yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī |
śaktiḥ śumbhaniśumbhadaityadalanī yā siddhidātrī parā
sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī ||
|| atha argalāstotram ||
oṃ asya śrīargalāstotramantrasya viṣṇurṛṣiḥ,
anuṣṭup chandaḥ, śrīmahālakṣmīrdevatā,
śrījagadambāprītaye saptaśatipāṭhāṅgatvena jape viniyogaḥ |
oṃ namaścaṇḍikāyai |
mārkaṇḍeya uvāca |
oṃ jaya tvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi |
jaya sarvagate devi kālarātri namo'stu te || 1||
jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā śivā kṣamā dhātrī svāhā svadhā namo'stu te || 2||
madhukaiṭabhavidhvaṃsi vidhātṛvarade namaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 3||
mahiṣāsuranirnāśi bhaktānāṃ sukhade namaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 4||
dhūmranetravadhe devi dharmakāmārthadāyini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 5||
raktabījavadhe devi caṇḍamuṇḍavināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 6||
niśumbhaśumbhanirnāśi trailokyaśubhade namaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 7||
vanditāṅghriyuge devi sarvasaubhāgyadāyini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 8||
acintyarūpacarite sarvaśatruvināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 9||
natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 10||
stuvadbhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 11||
caṇḍike satataṃ yuddhe jayanti pāpanāśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 12||
dehi saubhāgyamārogyaṃ dehi devi paraṃ sukham |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 13||
vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyam |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 14||
vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 15||
surāsuraśiroratnanighṛṣṭacaraṇe'mbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 16||
vidyāvantaṃ yaśasvantaṃ lakṣmīvantañca māṃ kuru |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 17||
devi pracaṇḍadordaṇḍadaityadarpaniṣūdini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 18||
pracaṇḍadaityadarpaghne caṇḍike praṇatāya me |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 19||
caturbhuje caturvaktrasaṃstute parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 20||
kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 21||
himācalasutānāthasaṃstute parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 22||
indrāṇīpatisadbhāvapūjite parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 23||
devi bhaktajanoddāmadattānandodaye'mbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 24||
bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīm |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 25||
tāriṇi durgasaṃsārasāgarasyācalodbhave |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 26||
idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ |
saptaśatīṃ samārādhya varamāpnoti durlabham || 27||
|| iti śrīmārkaṇḍeyapurāṇe argalāstotraṃ samāptam ||
|| atha kīlakastotram ||
oṃ asya śrīkīlakamantrasya śivaṛṣiḥ, anuṣṭup chandaḥ,
śrīmahāsarasvatī devatā, śrījagadambāprītyarthaṃ
saptaśatīpāṭhāṅgatvena jape viniyogaḥ |
oṃ namaścaṇḍikāyai |
mārkaṇḍeya uvāca |
oṃ viśuddhajñānadehāya trivedīdivyacakṣuṣe |
śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe || 1||
sarvametadvijānīyānmantrāṇāmapi kīlakam |
so'pi kṣemamavāpnoti satataṃ japyatatparaḥ || 2||
siddhyantyuccāṭanādīni karmāṇi sakalānyapi |
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ || 3||
na mantro nauṣadhaṃ tasya na kiñcidapi vidyate |
vinā japyena siddhyettu sarvamuccāṭanādikam || 4||
samagrāṇyapi setsyanti lokaśaṅkāmimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham || 5||
stotraṃ vai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ |
samāpnoti sa puṇyena tāṃ yathāvannimantraṇām || 6||
so'pi kṣemamavāpnoti sarvameva na saṃśayaḥ |
kṛṣṇāyāṃ vā caturdaśyāmaṣṭamyāṃ vā samāhitaḥ || 7||
dadāti pratigṛhṇāti nānyathaiṣā prasīdati |
itthaṃ rūpeṇa kīlena mahādevena kīlitam || 8||
yo niṣkīlāṃ vidhāyaināṃ caṇḍīṃ japati nityaśaḥ |
sa siddhaḥ sa gaṇaḥ so'tha gandharvo jāyate dhruvam || 9||
na caivāpāṭavaṃ tasya bhayaṃ kvāpi na jāyate |
nāpamṛtyuvaśaṃ yāti mṛte ca mokṣamāpnuyāt || 10||
jñātvā prārabhya kurvīta hyakurvāṇo vinaśyati |
tato jñātvaiva sampūrṇamidaṃ prārabhyate budhaiḥ || 11||
saubhāgyādi ca yatkiñcid dṛśyate lalanājane |
tatsarvaṃ tatprasādena tena japyamidaṃ śubham || 12||
śanaistu japyamāne'smin stotre sampattiruccakaiḥ |
bhavatyeva samagrāpi tataḥ prārabhyameva tat || 13||
aiśvaryaṃ tatprasādena saubhāgyārogyameva ca |
śatruhāniḥ paro mokṣaḥ stūyate sā na kiṃ janaiḥ || 14||
caṇḍikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ |
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset || 15||
agrato'muṃ mahādevakṛtaṃ kīlakavāraṇam |
niṣkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ || 16||
|| iti śrībhagavatyāḥ kīlakastotraṃ samāptam ||
|| atha devī kavacam ||
asya śrīcaṇḍīkavacasya brahmā ṛṣiḥ , anuṣṭup chandaḥ ,
cāmuṇḍā devatā , aṅganyāsoktamātaro bījam ,
digbandhadevatāstatvam , śrījagadambāprītyarthe jape viniyogaḥ |
oṃ namaścaṇḍikāyai |
mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1||
brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2||
prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3||
pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanī tathā |
saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam || 4||
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5||
agninā dahyamānāstu śatrumadhyagatā raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6|
na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
āpadaṃ na ca paśyanti śokaduḥkhabhayaṅkarīm || 7||
yaistu bhaktyā smṛtā nityaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣasi tānna saṃśayaḥ || 8||
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9||
nārasiṃhī mahāvīryā śivadūtī mahābalā |
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā || 10||
lakṣmīḥ padmāsanā devī padmahastā haripriyā |
śvetarūpadharā devī īśvarī vṛṣavāhanā || 11||
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā |
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ || 12||
nānābharaṇaśobhāḍhyā nānāratnopaśobhitāḥ |
śraiṣṭhaiśca mauktikaiḥ sarvā divyahārapralambibhiḥ || 13||
indranīlairmahānīlaiḥ padmarāgaiḥ suśobhanaiḥ |
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ || 14||
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham |
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca || 15||
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam |
daityānāṃ dehanāśāya bhaktānāmabhayāya ca || 16||
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai |
namaste'stu mahāraudre mahāghoraparākrame || 17||
mahābale mahotsāhe mahābhayavināśini |
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini || 18||
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā |
dakṣiṇe'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī || 19||
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī |
udīcyāṃ pātu kauberī īśānyāṃ śūladhāriṇī || 20||
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā |
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā || 21||
jayā māmagrataḥ pātu vijayā pātu pṛṣṭhataḥ |
ajitā vāmapārśve tu dakṣiṇe cāparājitā || 22||
śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā |
mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī || 23||
netrayościtranetrā ca yamaghaṇṭā tu pārśvake |
trinetrā ca triśūlena bhruvormadhye ca caṇḍikā || 24||
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣet karṇamūle tu śaṅkarī || 25||
nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtābālā jihvāyāṃ ca sarasvatī || 26||
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 27||
kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā |
grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī || 28||
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī || 29||
hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣet kukṣau rakṣennareśvarī || 30||
stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 31||
nābhau ca kāminī rakṣed guhyaṃ guhyeśvarī tathā |
meḍhraṃ rakṣatu durgandhā pāyuṃ me guhyavāhinī || 32||
kaṭyāṃ bhagavatī rakṣedūrū me meghavāhanā |
jaṅghe mahābalā rakṣet jānū mādhavanāyikā || 33||
gulphayornārasiṃhī ca pādapṛṣṭhe tu kauśikī |
pādāṅgulīḥ śrīdharī ca talaṃ pātālavāsinī || 34||
nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kaumārī tvacaṃ yogīśvarī tathā || 35||
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 36||
padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 37||
śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 38||
prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣet prāṇān kalyāṇaśobhanā || 39||
rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 40||
āyū rakṣatu vārāhī dharmaṃ rakṣatu pārvatī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca sadā rakṣatu vaiṣṇavī || 41||
gotramindrāṇī me rakṣet paśūn rakṣecca caṇḍikā |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 42||
dhaneśvarī dhanaṃ rakṣet kaumārī kanyakāṃ tathā |
panthānaṃ supathā rakṣenmārgaṃ kṣemaṅkarī tathā || 43||
rājadvāre mahālakṣmīrvijayā satata sthitā |
rakṣāhīnaṃ tu yat sthānaṃ varjitaṃ kavacena tu || 44||
tatsarvaṃ rakṣa me devi jayantī pāpanāśinī |
sarvarakṣākaraṃ puṇyaṃ kavacaṃ sarvadā japet || 45||
idaṃ rahasyaṃ viprarṣe bhaktyā tava mayoditam |
pādamekaṃ na gacchet tu yadīcchecchubhamātmanaḥ || 46||
kavacenāvṛto nityaṃ yatra yatraiva gacchati |
tatra tatrārthalābhaśva vijayaḥ sārvakālikaḥ || 47||
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam |
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān || 48||
nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ |
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān || 49||
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham |
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ || 50||
daivīkalā bhavettasya trailokye cāparājitaḥ |
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ || 51||
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ |
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam || 52||
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale |
bhūcarāḥ khecarāścaiva kulajāścaupadeśikāḥ || 53||
sahajā kulajā mālā ḍākinī śākinī tathā |
antarikṣacarā ghorā ḍākinyaśca mahāravāḥ || 54||
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ |
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ || 55||
naśyanti darśanāttasya kavacenāvṛto hi yaḥ |
mānonnatirbhavedrājñastejovṛddhiḥ parā bhavet || 56||
yaśovṛddhirbhavet puṃsāṃ kīrtivṛddhiśca jāyate |
tasmāt japet sadā bhaktaḥ kavacaṃ kāmadaṃ mune || 57||
japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
nirvighnena bhavet siddhiścaṇḍījapasamudbhavā || 58||
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam |
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī || 59||
dehānte paramaṃ sthānaṃ surairapi sudurlabham |
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ || 60||
tatra gacchati gatvāsau punaścāgamanaṃ nahi |
labhate paramaṃ sthānaṃ śivena samatāṃ vrajet || 61||
|| iti śrīmārkaṇḍeyapurāṇe hariharabrahmaviracitaṃ
devīkavacaṃ samāptam ||
|| devī māhātmyam ||
%
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| 1. madhukaiṭabhavadho nāma prathamo'dhyāyaḥ ||
viniyogaḥ
asya śrī prathamacaritrasya | brahmā ṛṣiḥ |
mahākālī devatā | gāyatrī chandaḥ | nandā śaktiḥ |
raktadantikā bījam | agnistattvam |
ṛgvedaḥ svarūpam | śrīmahākālīprītyarthe
prathamacaritrajape viniyogaḥ |
| dhyānam |
oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ kaiṭabham ||
oṃ namaścaṇḍikāyai ||
oṃ aiṃ mārkaṇḍeya uvāca || 1.1||
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ |
niśāmaya tadutpattiṃ vistarādgadato mama || 1.2||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ || 1.3||
svārociṣe'ntare pūrvaṃ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūtsamaste kṣitimaṇḍale || 1.4||
tasya pālayataḥ samyak prajāḥ putrānivaurasān |
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā || 1.5||
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ |
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ || 1.6||
tataḥ svapuramāyāto nijadeśādhipo'bhavat |
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ || 1.7||
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ |
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ || 1.8||
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ |
ekākī hayamāruhya jagāma gahanaṃ vanam || 1.9||
sa tatrāśramamadrākṣīddvijavaryasya medhasaḥ |
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam || 1.10||
tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ |
itaścetaśca vicaraṃstasmin munivarāśrame || 1.11||
so'cintayattadā tatra mamatvākṛṣṭamānasaḥ |
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat || 1.12||
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā |
na jāne sa pradhāno me śūro hastī sadāmadaḥ || 1.13||
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate |
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ || 1.14||
anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām |
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam || 1.15||
sañcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati |
etaccānyacca satataṃ cintayāmāsa pārthivaḥ || 1.16||
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ |
sa pṛṣṭastena kastvaṃ bho hetuścāgamane'tra kaḥ || 1.17||
saśoka iva kasmāttvaṃ durmanā iva lakṣyase |
ityākarṇya vacastasya bhūpateḥ praṇayoditam || 1.18||
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam || 1.19||
vaiśya uvāca || 1.20||
samādhirnāma vaiśyo'hamutpanno dhanināṃ kule || 1.21||
putradārairnirastaśca dhanalobhādasādhubhiḥ |
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam || 1.22||
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ |
so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām || 1.23||
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ |
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam || 1.24||
kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ || 1.25||
rājovāca || 1.26||
yairnirasto bhavā~llubdhaiḥ putradārādibhirdhanaiḥ || 1.27||
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam || 1.28||
vaiśya uvāca || 1.29||
evametadyathā prāha bhavānasmadgataṃ vacaḥ || 1.30||
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ |
yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ || 1.31||
patisvajanahārdaṃ ca hārditeṣveva me manaḥ |
kimetannābhijānāmi jānannapi mahāmate || 1.32||
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu |
teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate || 1.33||
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram || 1.34||
mārkaṇḍeya uvāca || 1.35||
tatastau sahitau vipra taṃ muniṃ samupasthitau || 1.36||
samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ |
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam || 1.37||
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau || 1.38||
rājovāca || 1.39||
bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat || 1.40||
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā |
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi || 1.41||
jānato'pi yathājñasya kimetanmunisattama |
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ || 1.42||
svajanena ca santyaktasteṣu hārdī tathāpyati |
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau || 1.43||
dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau |
tatkimetanmahābhāga yanmoho jñāninorapi || 1.44||
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā || 1.45||
ṛṣiruvāca || 1.46||
jñānamasti samastasya jantorviṣayagocare || 1.47||
viṣayāśca mahābhāga yānti caivaṃ pṛthakpṛthak |
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare || 1.48||
keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ |
jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam || 1.49||
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ |
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām || 1.50||
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ |
jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu || 1.51||
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā |
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati || 1.52||
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi |
tathāpi mamatāvartte mohagarte nipātitāḥ || 1.53||
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā |
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ || 1.54||
mahāmāyā hareścaiṣā tayā sammohyate jagat |
jñānināmapi cetāṃsi devī bhagavatī hi sā || 1.55||
balādākṛṣya mohāya mahāmāyā prayacchati |
tayā visṛjyate viśvaṃ jagadetaccarācaram || 1.56||
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye |
sā vidyā paramā mukterhetubhūtā sanātanī || 1.57||
saṃsārabandhahetuśca saiva sarveśvareśvarī || 1.58||
rājovāca || 1.59||
bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān || 1.60||
bravīti kathamutpannā sā karmāsyāśca kiṃ dvija |
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā || 1.61||
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara || 1.62||
ṛṣiruvāca || 1.63||
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam || 1.64||
tathāpi tatsamutpattirbahudhā śrūyatāṃ mama |
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā || 1.65||
utpanneti tadā loke sā nityāpyabhidhīyate |
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte || 1.66||
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ |
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau || 1.67||
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau |
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ || 1.68||
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam |
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ || 1.69||
vibodhanārthāya harerharinetrakṛtālayām |
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm || 1.70||
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ || 1.71||
brahmovāca || 1.72||
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā || 1.73||
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā |
ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ || 1.74||
tvameva sandhyā sāvitrī tvaṃ devi jananī parā |
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat || 1.75||
tvayaitat pālyate devi tvamatsyante ca sarvadā |
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane || 1.76||
tathā saṃhṛtirūpānte jagato'sya jaganmaye |
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ || 1.77||
mahāmohā ca bhavatī mahādevī maheśvarī |
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī || 1.78||
kālarātrirmahārātrirmoharātriśca dāruṇā |
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā || 1.79||
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca |
khaḍginī śūlinī ghorā gadinī cakriṇī tathā || 1.80||
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā |
saumyā saumyatarāśeṣasaumyebhyastvatisundarī || 1.81||
parāparāṇāṃ paramā tvameva parameśvarī |
yacca kiñcitkvacidvastu sadasadvākhilātmike || 1.82||
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā |
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat || 1.83||
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ |
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca || 1.84||
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet |
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā || 1.85||
mohayaitau durādharṣāvasurau madhukaiṭabhau |
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu || 1.86||
bodhaśca kriyatāmasya hantumetau mahāsurau || 1.87||
ṛṣiruvāca || 1.88||
evaṃ stutā tadā devī tāmasī tatra vedhasā || 1.89||
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau |
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ || 1.90||
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ |
uttasthau ca jagannāthastayā mukto janārdanaḥ || 1.91||
ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau |
madhukaiṭabhau durātmānāvativīryaparākramau || 1.92||
krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau |
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ || 1.93||
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ |
tāvapyatibalonmattau mahāmāyāvimohitau || 1.94||
uktavantau varo'smatto vriyatāmiti keśavam || 1.95||
śrībhagavānuvāca || 1.96||
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi || 1.97||
kimanyena vareṇātra etāvaddhi vṛtaṃ mayā || 1.98||
ṛṣiruvāca || 1.99||
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat || 1.100||
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ |
āvāṃ jahi na yatrorvī salilena pariplutā || 1.101||
ṛṣiruvāca || 1.102||
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā |
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ || 1.103||
evameṣā samutpannā brahmaṇā saṃstutā svayam |
prabhāvamasyā devyāstu bhūyaḥ śaṛṇu vadāmi te || 1.104||
| aiṃ oṃ |
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
madhukaiṭabhavadho nāma prathamo'dhyāyaḥ || 1||
uvāca 14, ardhaślokāḥ 24, ślokāḥ 66, evamāditaḥ || 104||
|| 2. mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ ||
viniyogaḥ
asya śrī madhyamacaritrasya viṣṇurṛṣiḥ |
śrīmahālakṣmīrdevatā |
uṣṇik chandaḥ | śākambharī śaktiḥ | durgā bījam |
vāyustattvam |
yajurvedaḥ svarūpam | śrīmahālakṣmīprītyarthe
madhyamacaritrajape viniyogaḥ |
| dhyānam |
oṃ akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||
oṃ hrīṃ ṛṣiruvāca || 2.1||
devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā |
mahiṣe'surāṇāmadhipe devānāṃ ca purandare || 2.2||
tatrāsurairmahāvīryairdevasainyaṃ parājitam |
jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ || 2.3||
tataḥ parājitā devāḥ padmayoniṃ prajāpatim |
puraskṛtya gatāstatra yatreśagaruḍadhvajau || 2.4||
yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam |
tridaśāḥ kathayāmāsurdevābhibhavavistaram || 2.5||
sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca |
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭhati || 2.6||
svargānnirākṛtāḥ sarve tena devagaṇā bhuvi |
vicaranti yathā martyā mahiṣeṇa durātmanā || 2.7||
etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam |
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām || 2.8||
itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ |
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau || 2.9||
tato'tikopapūrṇasya cakriṇo vadanāttataḥ |
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca || 2.10||
anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ |
nirgataṃ sumahattejastaccaikyaṃ samagacchata || 2.11||
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam |
dadṛśuste surāstatra jvālāvyāptadigantaram || 2.12||
atulaṃ tatra tattejaḥ sarvadevaśarīrajam |
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā || 2.13||
yadabhūcchāmbhavaṃ tejastenājāyata tanmukham |
yāmyena cābhavan keśā bāhavo viṣṇutejasā || 2.14||
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat |
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ || 2.15||
brahmaṇastejasā pādau tadaṅgulyo'rkatejasā |
vasūnāṃ ca karāṅgulyaḥ kaubereṇa ca nāsikā || 2.16||
tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā |
nayanatritayaṃ jajñe tathā pāvakatejasā || 2.17||
bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca |
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā || 2.18||
tataḥ samastadevānāṃ tejorāśisamudbhavām |
tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ |
tato devā dadustasyai svāni svānyāyudhāni ca || 2.19||
śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk |
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ || 2.20||
śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ |
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī || 2.21||
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt || 2.22||
kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau |
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum || 2.23||
samastaromakūpeṣu nijaraśmīn divākaraḥ |
kālaśca dattavān khaḍgaṃ tasyai carma ca nirmalam || 2.24||
kṣīrodaścāmalaṃ hāramajare ca tathāmbare |
cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca || 2.25||
ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu |
nūpurau vimalau tadvad graiveyakamanuttamam || 2.26||
aṅgulīyakaratnāni samastāsvaṅgulīṣu ca |
viśvakarmā dadau tasyai paraśuṃ cātinirmalam || 2.27||
astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam |
amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām || 2.28||
adadajjaladhistasyai paṅkajaṃ cātiśobhanam |
himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca || 2.29||
dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ |
śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam || 2.30||
nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām |
anyairapi surairdevī bhūṣaṇairāyudhaistathā || 2.31||
sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ |
tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ || 2.32||
amāyatātimahatā pratiśabdo mahānabhūt |
cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire || 2.33||
cacāla vasudhā celuḥ sakalāśca mahīdharāḥ |
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm || 2.34||
tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ |
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyamamarārayaḥ || 2.35||
sannaddhākhilasainyāste samuttasthurudāyudhāḥ |
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ || 2.36||
abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ |
sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā || 2.37||
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām |
kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām || 2.38||
diśo bhujasahasreṇa samantādvyāpya saṃsthitām |
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām || 2.39||
śastrāstrairbahudhā muktairādīpitadigantaram |
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ || 2.40||
yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ |
rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ || 2.41||
ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ |
pañcāśadbhiśca niyutairasilomā mahāsuraḥ || 2.42||
ayutānāṃ śataiḥ ṣaḍbhirbāṣkalo yuyudhe raṇe |
gajavājisahasraughairanekaiḥ parivāritaḥ || 2.43||
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata |
biḍālākhyo'yutānāṃ ca pañcāśadbhirathāyutaiḥ || 2.44||
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ |
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ || 2.45||
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ |
koṭikoṭisahasraistu rathānāṃ dantināṃ tathā || 2.46||
hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ |
tomarairbhindipālaiśca śaktibhirmusalaistathā || 2.47||
yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ |
kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare || 2.48||
devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ |
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā || 2.49||
līlayaiva praciccheda nijaśastrāstravarṣiṇī |
anāyastānanā devī stūyamānā surarṣibhiḥ || 2.50||
mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī |
so'pi kruddho dhutasaṭo devyā vāhanakesarī || 2.51||
cacārāsurasainyeṣu vaneṣviva hutāśanaḥ |
niḥśvāsān mumuce yāṃśca yudhyamānā raṇe'mbikā || 2.52||
ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ |
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ || 2.53||
nāśayanto'suragaṇān devīśaktyupabṛṃhitāḥ |
avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare || 2.54||
mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave |
tato devī triśūlena gadayā śaktivṛṣṭibhiḥ || 2.55||
khaḍgādibhiśca śataśo nijaghāna mahāsurān |
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān || 2.56||
asurān bhuvi pāśena baddhvā cānyānakarṣayat |
kecid dvidhākṛtāstīkṣṇaiḥ khaḍgapātaistathāpare || 2.57||
vipothitā nipātena gadayā bhuvi śerate |
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ || 2.58||
kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi |
nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire || 2.59||
śyenānukāriṇaḥ prāṇān mumucustridaśārdanāḥ |
keṣāñcid bāhavaśchinnāśchinnagrīvāstathāpare || 2.60||
śirāṃsi peturanyeṣāmanye madhye vidāritāḥ |
vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ || 2.61||
ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ |
chinne'pi cānye śirasi patitāḥ punarutthitāḥ || 2.62||
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ |
nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ || 2.63||
kabandhāśchinnaśirasaḥ khaḍgaśaktyṛṣṭipāṇayaḥ |
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ || 2.64||
pātitai rathanāgāśvairasuraiśca vasundharā |
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ || 2.65||
śoṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ |
madhye cāsurasainyasya vāraṇāsuravājinām || 2.66||
kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā |
ninye kṣayaṃ yathā vahnistṛṇadārumahācayam || 2.67||
sa ca siṃho mahānādamutsṛjan dhutakesaraḥ |
śarīrebhyo'marārīṇāmasūniva vicinvati || 2.68||
devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ |
yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi || 2.69||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ || 2||
uvāca 1, ardhaślokāḥ 68, ślokāḥ 69, evamāditaḥ || 173||
|| 3. mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ ||
| dhyānam |
oṃ udyadbhānusahasrakāntimaruṇakṣaumāṃ śiromālikāṃ
raktāliptapayodharāṃ japavaṭīṃ vidyāmabhītiṃ varam |
hastābjairdadhatīṃ trinetravilasadvaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamukuṭāṃ vande'ravindasthitām |
oṃ ṛṣiruvāca || 3.1||
nihanyamānaṃ tatsainyamavalokya mahāsuraḥ |
senānīścikṣuraḥ kopādyayau yoddhumathāmbikām || 3.2||
sa devīṃ śaravarṣeṇa vavarṣa samare'suraḥ |
yathā merugireḥ śaṛṅgaṃ toyavarṣeṇa toyadaḥ || 3.3||
tasya chitvā tato devī līlayaiva śarotkarān |
jaghāna turagānbāṇairyantāraṃ caiva vājinām || 3.4||
ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchṛtam |
vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ || 3.5||
sacchinnadhanvā viratho hatāśvo hatasārathiḥ |
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo'suraḥ || 3.6||
siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani |
ājaghāna bhuje savye devīmapyativegavān || 3.7||
tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana |
tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ || 3.8||
cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ |
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt || 3.9||
dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata |
tena tacchatadhā nītaṃ śūlaṃ sa ca mahāsuraḥ || 3.10||
hate tasminmahāvīrye mahiṣasya camūpatau |
ājagāma gajārūḍhaścāmarastridaśārdanaḥ || 3.11||
so'pi śaktiṃ mumocātha devyāstāmambikā drutam |
huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām || 3.12||
bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ |
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat || 3.13||
tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ |
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā || 3.14||
yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau |
yuyudhāte'tisaṃrabdhau prahārairatidāruṇaiḥ || 3.15||
tato vegāt khamutpatya nipatya ca mṛgāriṇā |
karaprahāreṇa śiraścāmarasya pṛthak kṛtam || 3.16||
udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ |
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ || 3.17||
devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam |
bāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam || 3.18||
ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum |
trinetrā ca triśūlena jaghāna parameśvarī || 3.19||
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ |
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam || 3.20||
evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ |
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān || 3.21||
kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān |
lāṅgūlatāḍitāṃścānyān śaṛṅgābhyāṃ ca vidāritān || 3.22||
vegena kāṃścidaparānnādena bhramaṇena ca |
niḥśvāsapavanenānyānpātayāmāsa bhūtale || 3.23||
nipātya pramathānīkamabhyadhāvata so'suraḥ |
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato'mbikā || 3.24||
so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ |
śaṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca || 3.25||
vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata |
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ || 3.26||
dhutaśaṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ |
śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ || 3.27||
iti krodhasamādhmātamāpatantaṃ mahāsuram |
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot || 3.28||
sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram |
tatyāja māhiṣaṃ rūpaṃ so'pi baddho mahāmṛdhe || 3.29||
tataḥ siṃho'bhavatsadyo yāvattasyāmbikā śiraḥ |
chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata || 3.30||
tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ |
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so'bhūnmahāgajaḥ || 3.31||
kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca |
karṣatastu karaṃ devī khaḍgena nirakṛntata || 3.32||
tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ |
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram || 3.33||
tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam |
papau punaḥ punaścaiva jahāsāruṇalocanā || 3.34||
nanarda cāsuraḥ so'pi balavīryamadoddhataḥ |
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ prati bhūdharān || 3.35||
sā ca tānprahitāṃstena cūrṇayantī śarotkaraiḥ |
uvāca taṃ madoddhūtamukharāgākulākṣaram || 3.36||
devyuvāca || 3.37||
garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham |
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ || 3.38||
ṛṣiruvāca || 3.39||
evamuktvā samutpatya sārūḍhā taṃ mahāsuram |
pādenākramya kaṇṭhe ca śūlenainamatāḍayat || 3.40||
tataḥ so'pi padākrāntastayā nijamukhāttadā |
ardhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ || 3.41||
ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśchittvā nipātitaḥ || 3.42||
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat |
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ || 3.43||
tuṣṭuvustāṃ surā devīṃ sahadivyairmaharṣibhiḥ |
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ || 3.44||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ || 3||
uvāca 3, ardhaślokāḥ 41, ślokāḥ 44, evamāditaḥ || 217||
|| 4. śakrādistutirnāma caturtho'dhyāyaḥ ||
| dhyānam |
oṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyeddurgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||
oṃ ṛṣiruvāca || 4.1||
śakrādayaḥ suragaṇā nihate'tivīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ || 4.2||
devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ || 4.3||
yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca na hi vaktumalaṃ balaṃ ca |
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu || 4.4||
yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śraddhā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam || 4.5||
kiṃ varṇayāma tava rūpamacintyametat
kiñcātivīryamasurakṣayakāri bhūri |
kiṃ cāhaveṣu caritāni tavāti yāni
sarveṣu devyasuradevagaṇādikeṣu || 4.6||
hetuḥ samastajagatāṃ triguṇāpi doṣai-
rna jñāyase hariharādibhirapyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūta-
mavyākṛtā hi paramā prakṛtistvamādyā || 4.7||
yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛgaṇasya ca tṛptihetu-
ruccāryase tvamata eva janaiḥ svadhā ca || 4.8||
yā muktiheturavicintyamahāvratā tvaṃ
abhyasyase suniyatendriyatattvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai-
rvidyāsi sā bhagavatī paramā hi devi || 4.9||
śabdātmikā suvimalargyajuṣāṃ nidhāna-
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devi trayī bhagavatī bhavabhāvanāya
vārtāsi sarvajagatāṃ paramārtihantrī || 4.10||
medhāsi devi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā |
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā || 4.11||
īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa || 4.12||
dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarāla-
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena || 4.13||
devi prasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
vijñātametadadhunaiva yadastameta-
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya || 4.14||
te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati bandhuvargaḥ |
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā || 4.15||
dharmyāṇi devi sakalāni sadaiva karmā-
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā-
llokatraye'pi phaladā nanu devi tena || 4.16||
durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā || 4.17||
ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitānvinihaṃsi devi || 4.18||
dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvahiteṣusādhvī || 4.19||
khaḍgaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat || 4.20||
durvṛttavṛttaśamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham || 4.21||
kenopamā bhavatu te'sya parākramasya
rūpaṃ ca śatrubhayakāryatihāri kutra |
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi || 4.22||
trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstam
asmākamunmadasurāribhavaṃ namaste || 4.23||
śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca || 4.24||
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari || 4.25||
saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvam || 4.26||
khaḍgaśūlagadādīni yāni cāstrāni te'mbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ || 4.27||
ṛṣiruvāca || 4.28||
evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ || 4.29||
bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān || 4.30||
devyuvāca || 4.31||
vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam || 4.32||
devā ūcuḥ || 4.33||
bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate || 4.34||
yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ |
yadi cāpi varo deyastvayāsmākaṃ maheśvari || 4.35||
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ |
yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane || 4.36||
tasya vittarddhivibhavairdhanadārādisampadām |
vṛddhaye'smatprasannā tvaṃ bhavethāḥ sarvadāmbike || 4.37||
ṛṣiruvāca || 4.38||
iti prasāditā devairjagato'rthe tathātmanaḥ |
tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa || 4.39||
ityetatkathitaṃ bhūpa sambhūtā sā yathā purā |
devī devaśarīrebhyo jagattrayahitaiṣiṇī || 4.40||
punaśca gaurīdehātsā samudbhūtā yathābhavat |
vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ || 4.41||
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |
tacchṛṇuṣva mayākhyātaṃ yathāvatkathayāmi te || 4.42||
| hrīṃ oṃ |
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śakrādistutirnāma caturtho'dhyāyaḥ || 4||
uvāca 5, ardhaślokau 2, ślokāḥ 35, evamāditaḥ || 259||
|| 5. devyā dūtasaṃvādo nāma pañcamo'dhyāyaḥ ||
viniyogaḥ
asya śrī uttaracaritrasya rudra ṛṣiḥ |
śrīmahāsarasvatī devatā |
anuṣṭup chandaḥ | bhīmā śaktiḥ | bhrāmarī bījam |
sūryastattvam |
sāmavedaḥ svarūpam | śrīmahāsarasvatīprītyarthe
uttaracaritrapāṭhe viniyogaḥ |
| dhyānam |
ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||
oṃ klīṃ ṛṣiruvāca || 5.1||
purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ |
trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt || 5.2||
tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam |
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca || 5.3||
tāveva pavanarddhiṃ ca cakraturvahnikarma ca |
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 5.4||
hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ |
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām || 5.5||
tayāsmākaṃ varo datto yathāpatsu smṛtākhilāḥ |
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 5.6||
iti kṛtvā matiṃ devā himavantaṃ nageśvaram |
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ || 5.7||
devā ūcuḥ || 5.8||
namo devyai mahādevyai śivāyai satataṃ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 5.9||
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ || 5.10||
kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ |
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ || 5.11||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ || 5.12||
atisaumyātiraudrāyai natāstasyai namo namaḥ |
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ || 5.13||
yā devī sarvabhūteṣu viṣṇumāyeti śabditā |
namastasyai namastasyai namastasyai namo namaḥ || 5.14-16||
yā devī sarvabhūteṣu cetanetyabhidhīyate |
namastasyai namastasyai namastasyai namo namaḥ || 5.17-19||
yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.20-22||
yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.23-25||
yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.26-28||
yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.29-31||
yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.32-34||
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.35-37||
yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.38-40||
yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.41-43||
yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.44-46||
yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.47-49||
yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.50-52||
yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.53-55||
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.56-58||
yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.59-61||
yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.62-64||
yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.65-67||
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.68-70||
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.71-73||
yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.74-76||
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā |
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ || 5.77||
citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat |
namastasyai namastasyai namastasyai namo namaḥ || 5.78-80||
stutā suraiḥ pūrvamabhīṣṭasaṃśrayā-
ttathā surendreṇa dineṣu sevitā |
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 5.81||
yā sāmprataṃ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate |
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ || 5.82||
ṛṣiruvāca || 5.83||
evaṃ stavābhiyuktānāṃ devānāṃ tatra pārvatī |
snātumabhyāyayau toye jāhnavyā nṛpanandana || 5.84||
sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā |
śarīrakośataścāsyāḥ samudbhūtābravīcchivā || 5.85||
stotraṃ mamaitatkriyate śumbhadaityanirākṛtaiḥ |
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ || 5.86||
śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā |
kauśikīti samasteṣu tato lokeṣu gīyate || 5.87||
tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī |
kāliketi samākhyātā himācalakṛtāśrayā || 5.88||
tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ || 5.89||
tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā |
kāpyāste strī mahārāja bhāsayantī himācalam || 5.90||
naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam |
jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara || 5.91||
strīratnamaticārvaṅgī dyotayantī diśastviṣā |
sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati || 5.92||
yāni ratnāni maṇayo gajāśvādīni vai prabho |
trailokye tu samastāni sāmprataṃ bhānti te gṛhe || 5.93||
airāvataḥ samānīto gajaratnaṃ purandarāt |
pārijātataruścāyaṃ tathaivoccaiḥśravā hayaḥ || 5.94||
vimānaṃ haṃsasaṃyuktametattiṣṭhati te'ṅgaṇe |
ratnabhūtamihānītaṃ yadāsīdvedhaso'dbhutam || 5.95||
nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt |
kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām || 5.96||
chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭhati |
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ || 5.97||
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā |
pāśaḥ salilarājasya bhrātustava parigrahe || 5.98||
niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśauce ca vāsasī || 5.99||
evaṃ daityendra ratnāni samastānyāhṛtāni te |
strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate || 5.100||
ṛṣiruvāca || 5.101||
niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ |
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuram || 5.102||
iti ceti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu || 5.103||
sa tatra gatvā yatrāste śailoddeśe'tiśobhane |
tāṃ ca devīṃ tataḥ prāha ślakṣṇaṃ madhurayā girā || 5.104||
dūta uvāca || 5.105||
devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ |
dūto'haṃ preṣitastena tvatsakāśamihāgataḥ || 5.106||
avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu |
nirjitākhiladaityāriḥ sa yadāha śaṛṇuṣva tat || 5.107||
mama trailokyamakhilaṃ mama devā vaśānugāḥ |
yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak || 5.108||
trailokye vararatnāni mama vaśyānyaśeṣataḥ |
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanam || 5.109||
kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ |
uccaiḥśravasasaṃjñaṃ tatpraṇipatya samarpitam || 5.110||
yāni cānyāni deveṣu gandharveṣūrageṣu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane || 5.111||
strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam |
sā tvamasmānupāgaccha yato ratnabhujo vayam || 5.112||
māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam |
bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 5.113||
paramaiśvaryamatulaṃ prāpsyase matparigrahāt |
etadbuddhyā samālocya matparigrahatāṃ vraja || 5.114||
ṛṣiruvāca || 5.115||
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat || 5.116||
devyuvāca || 5.117||
satyamuktaṃ tvayā nātra mithyā kiñcittvayoditam |
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ || 5.118||
kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham |
śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā || 5.119||
yo māṃ jayati saṅgrāme yo me darpaṃ vyapohati |
yo me pratibalo loke sa me bhartā bhaviṣyati || 5.120||
tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ |
māṃ jitvā kiṃ cireṇātra pāṇiṃ gṛhṇātu me laghu || 5.121||
dūta uvāca || 5.122||
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ |
trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ || 5.123||
anyeṣāmapi daityānāṃ sarve devā na vai yudhi |
tiṣṭhanti sammukhe devi kiṃ punaḥ strī tvamekikā || 5.124||
indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge |
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham || 5.125||
sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ |
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 5.126||
devyuvāca || 5.127||
evametad balī śumbho niśumbhaścāpitādṛśaḥ |
kiṃ karomi pratijñā me yadanālocitā purā || 5.128||
sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ |
tadācakṣvāsurendrāya sa ca yuktaṃ karotu yat || 5.129||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
devyā dūtasaṃvādo nāma pañcamo'dhyāyaḥ || 5||
uvāca 9, tripānmantrāḥ 66, ślokāḥ 54, evamāditaḥ || 388||
|| 6. śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ ||
| dhyānam |
oṃ nāgādhīśvaraviṣṭarāṃ phaṇiphaṇottaṃsoru ratnāvalī-
bhāsvaddehalatāṃ divākaranibhāṃ netratrayodbhāsitām |
mālākumbhakapālanīrajakarāṃ candrārdhacūḍāṃ parāṃ
sarvajñeśvarabhairavāṅganilayāṃ padmāvatīṃ cintaye ||
oṃ ṛṣiruvāca || 6.1||
ityākarṇya vaco devyāḥ sa dūto'marṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 6.2||
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam || 6.3||
he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ |
tāmānaya balādduṣṭāṃ keśākarṣaṇavihvalām || 6.4||
tatparitrāṇadaḥ kaścidyadi vottiṣṭhate'paraḥ |
sa hantavyo'maro vāpi yakṣo gandharva eva vā || 6.5||
ṛṣiruvāca || 6.6||
tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ |
vṛtaḥ ṣaṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayau || 6.7||
sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām |
jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ || 6.8||
na cetprītyādya bhavatī madbhartāramupaiṣyati |
tato balānnayāmyeṣa keśākarṣaṇavihvalām || 6.9||
devyuvāca || 6.10||
daityeśvareṇa prahito balavānbalasaṃvṛtaḥ |
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham || 6.11||
ṛṣiruvāca || 6.12||
ityuktaḥ so'bhyadhāvattāmasuro dhūmralocanaḥ |
huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā || 6.13||
atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā |
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ || 6.14||
tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam |
papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ || 6.15||
kāṃścitkaraprahāreṇa daityānāsyena cāparān |
ākrāntyā cādhareṇānyān jaghāna sa mahāsurān || 6.16||
keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī |
tathā talaprahāreṇa śirāṃsi kṛtavānpṛthak || 6.17||
vicchinnabāhuśirasaḥ kṛtāstena tathāpare |
papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ || 6.18||
kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā |
tena kesariṇā devyā vāhanenātikopinā || 6.19||
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam |
balaṃ ca kṣayitaṃ kṛtsnaṃ devīkesariṇā tataḥ || 6.20||
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ |
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau || 6.21||
he caṇḍa he muṇḍa balairbahubhiḥ parivāritau |
tatra gacchata gatvā ca sā samānīyatāṃ laghu || 6.22||
keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi |
tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām || 6.23||
tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite |
śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām || 6.24||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ || 6||
uvāca 4, ślokāḥ 24, evamāditaḥ || 412||
|| 7. caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ ||
| dhyānam |
oṃ dhyāyeyaṃ ratnapīṭhe śukakalapaṭhitaṃ śaṛṇvatīṃ śyāmalāṅgīṃ
nyastaikāṃghriṃ saroje śaśiśakaladharāṃ vallakīṃ vādayantīm |
kalhārābaddhamālāṃ niyamitavilasaccolikāṃ ratnavastrāṃ
mātaṅgī śaṅkapātrāṃ madhuramadhumadāṃ citrakodbhāsibhālām ||
oṃ ṛṣiruvāca || 7.1||
ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ |
caturaṅgabalopetā yayurabhyudyatāyudhāḥ || 7.2||
dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām |
siṃhasyopari śailendraśaṛṅge mahati kāñcane || 7.3||
te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ |
ākṛṣṭacāpāsidharāstathānye tatsamīpagāḥ || 7.4||
tataḥ kopaṃ cakāroccairambikā tānarīnprati |
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā || 7.5||
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam |
kālī karālavadanā viniṣkrāntāsipāśinī || 7.6||
vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā |
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā || 7.7||
ativistāravadanā jihvālalanabhīṣaṇā |
nimagnāraktanayanā nādāpūritadiṅmukhā || 7.8||
sā vegenābhipatitā ghātayantī mahāsurān |
sainye tatra surārīṇāmabhakṣayata tadbalam || 7.9||
pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān |
samādāyaikahastena mukhe cikṣepa vāraṇān || 7.10||
tathaiva yodhaṃ turagai rathaṃ sārathinā saha |
nikṣipya vaktre daśanaiścarvayantyatibhairavam || 7.11||
ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam |
pādenākramya caivānyamurasānyamapothayat || 7.12||
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhena jagrāha ruṣā daśanairmathitānyapi || 7.13||
balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām |
mamardābhakṣayaccānyānanyāṃścātāḍayattadā || 7.14||
asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ |
jagmurvināśamasurā dantāgrābhihatāstathā || 7.15||
kṣaṇena tadbalaṃ sarvamasurāṇāṃ nipātitam |
dṛṣṭvā caṇḍo'bhidudrāva tāṃ kālīmatibhīṣaṇām || 7.16||
śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ |
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 7.17||
tāni cakrāṇyanekāni viśamānāni tanmukham |
babhuryathārkabimbāni subahūni ghanodaram || 7.18||
tato jahāsātiruṣā bhīmaṃ bhairavanādinī |
kālī karālavadanā durdarśadaśanojjvalā || 7.19||
utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata |
gṛhītvā cāsya keśeṣu śirastenāsinācchinat || 7.20||
atha muṇḍo'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam |
tamapyapātayadbhūmau sā khaḍgābhihataṃ ruṣā || 7.21||
hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam |
muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam || 7.22||
śiraścaṇḍasya kālī ca gṛhītvā muṇḍameva ca |
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām || 7.23||
mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū |
yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi || 7.24||
ṛṣiruvāca || 7.25||
tāvānītau tato dṛṣṭvā caṇḍamuṇḍau mahāsurau |
uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ || 7.26||
yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā |
cāmuṇḍeti tato loke khyātā devī bhaviṣyasi || 7.27||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ || 7||
uvāca 2, ślokāḥ 25, evamāditaḥ || 439||
|| 8. raktabījavadho nāmāṣṭamo'dhyāyaḥ ||
| dhyānam |
oṃ aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśabāṇācāpahastām |
aṇimādibhirāvṛtāṃ mayūkhai-
rahamityeva vibhāvaye bhavānīm ||
oṃ ṛṣiruvāca || 8.1||
caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ || 8.2||
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha || 8.3||
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ || 8.4||
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā || 8.5||
kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu ājñayā tvaritā mama || 8.6||
ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ || 8.7||
āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram || 8.8||
tataḥ siṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat || 8.9||
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā || 8.10||
taṃ ninādamupaśrutya daityasainyaiścaturdiśam |
devī siṃhastathā kālī saroṣaiḥ parivāritāḥ || 8.11||
etasminnantare bhūpa vināśāya suradviṣām |
bhavāyāmarasiṃhānāmativīryabalānvitāḥ || 8.12||
brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ || 8.13||
yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam |
tadvadeva hi tacchaktirasurānyoddhumāyayau || 8.14||
haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ |
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyate || 8.15||
māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptā candrarekhāvibhūṣaṇā || 8.16||
kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī || 8.17||
tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau || 8.18||
yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum || 8.19||
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ || 8.20||
vajrahastā tathaivaindrī gajarājopari sthitā |
prāptā sahasranayanā yathā śakrastathaiva sā || 8.21||
tataḥ parivṛtastābhirīśāno devaśaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikām || 8.22||
tato devīśarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī || 8.23||
sā cāha dhūmrajaṭilamīśānamaparājitā |
dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ || 8.24||
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ || 8.25||
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha || 8.26||
balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ |
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ || 8.27||
yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti loke'smiṃstataḥ sā khyātimāgatā || 8.28||
te'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā || 8.29||
tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ |
vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ || 8.30||
sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān |
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ || 8.31||
tasyāgratastathā kālī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvatī vyacarattadā || 8.32||
kamaṇḍalujalākṣepahatavīryān hataujasaḥ |
brahmāṇī cākarocchatrūnyena yena sma dhāvati || 8.33||
māheśvarī triśūlena tathā cakreṇa vaiṣṇavī |
daityāñjaghāna kaumārī tathā śaktyātikopanā || 8.34||
aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ || 8.35||
tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ || 8.36||
nakhairvidāritāṃścānyān bhakṣayantī mahāsurān |
nārasiṃhī cacārājau nādāpūrṇadigambarā || 8.37||
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā || 8.38||
iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān |
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ || 8.39||
palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ || 8.40||
raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ || 8.41||
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat || 8.42||
kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrūpāstatparākramāḥ || 8.43||
yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ || 8.44||
te cāpi yuyudhustatra puruṣā raktasambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇam || 8.45||
punaśca vajrapātena kṣatamasya śiro yadā |
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ || 8.46||
vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram || 8.47||
vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ || 8.48||
śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram || 8.49||
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ || 8.50||
tasyāhatasya bahudhā śaktiśūlādibhirbhuvi |
papāta yo vai raktaughastenāsañchataśo'surāḥ || 8.51||
taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam || 8.52||
tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram |
uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru || 8.53||
macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā || 8.54||
bhakṣayantī cara raṇe tadutpannānmahāsurān |
evameṣa kṣayaṃ daityaḥ kṣeṇarakto gamiṣyati || 8.55||
bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam || 8.56||
mukhena kālī jagṛhe raktabījasya śoṇitam |
tato'sāvājaghānātha gadayā tatra caṇḍikām || 8.57||
na cāsyā vedanāṃ cakre gadāpāto'lpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam || 8.58||
yatastatastadvaktreṇa cāmuṇḍā sampratīcchati |
mukhe samudgatā ye'syā raktapātānmahāsurāḥ || 8.59||
tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam |
devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ || 8.60||
jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam |
sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ || 8.61||
nīraktaśca mahīpāla raktabījo mahāsuraḥ |
tataste harṣamatulamavāpustridaśā nṛpa || 8.62||
teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ || 8.63||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
raktabījavadho nāmāṣṭamo'dhyāyaḥ || 8||
uvāca 1, ardhaślokaḥ 1, ślokāḥ 61, evamāditaḥ || 502||
|| 9. niśumbhavadho nāma navamo'dhyāyaḥ ||
| dhyānam |
oṃ bandhūkakāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇaminduśakalābharaṇaṃ trinetra-
mardhāṃbikeśamaniśaṃ vapurāśrayāmi ||
oṃ rājovāca || 9.1||
vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ raktabījavadhāśritam || 9.2||
bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ || 9.3||
ṛṣiruvāca || 9.4||
cakāra kopamatulaṃ raktabīje nipātite |
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave || 9.5||
hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan |
abhyadhāvanniśumbho'tha mukhyayāsurasenayā || 9.6||
tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ |
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ || 9.7||
ājagāma mahāvīryaḥ śumbho'pi svabalairvṛtaḥ |
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddhaṃ tu mātṛbhiḥ || 9.8||
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ |
śaravarṣamatīvograṃ meghayoriva varṣatoḥ || 9.9||
cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ |
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau || 9.10||
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham |
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam || 9.11||
tāḍite vāhane devī kṣurapreṇāsimuttamam |
niśumbhasyāśu ciccheda carma cāpyaṣṭacandrakam || 9.12||
chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so'suraḥ |
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām || 9.13||
kopādhmāto niśumbho'tha śūlaṃ jagrāha dānavaḥ |
āyātaṃ muṣṭipātena devī taccāpyacūrṇayat || 9.14||
āvidyātha gadāṃ so'pi cikṣepa caṇḍikāṃ prati |
sāpi devyās triśūlena bhinnā bhasmatvamāgatā || 9.15||
tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavam |
āhatya devī bāṇaughairapātayata bhūtale || 9.16||
tasminnipatite bhūmau niśumbhe bhīmavikrame |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām || 9.17||
sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ |
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ || 9.18||
tamāyāntaṃ samālokya devī śaṅkhamavādayat |
jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥsaham || 9.19||
pūrayāmāsa kakubho nijaghaṇṭāsvanena ca |
samastadaityasainyānāṃ tejovadhavidhāyinā || 9.20||
tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ |
pūrayāmāsa gaganaṃ gāṃ tathaiva diśo daśa || 9.21||
tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat |
karābhyāṃ tanninādena prāksvanāste tirohitāḥ || 9.22||
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha |
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau || 9.23||
durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā |
tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ || 9.24||
śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā |
āyāntī vahnikūṭābhā sā nirastā maholkayā || 9.25||
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram |
nirghātaniḥsvano ghoro jitavānavanīpate || 9.26||
śumbhamuktāñcharāndevī śumbhastatprahitāñcharān |
ciccheda svaśarairugraiḥ śataśo'tha sahasraśaḥ || 9.27||
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam |
sa tadābhihato bhūmau mūrcchito nipapāta ha || 9.28||
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ |
ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā || 9.29||
punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ |
cakrāyudhena ditijaśchādayāmāsa caṇḍikām || 9.30||
tato bhagavatī kruddhā durgā durgārtināśinī |
ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān || 9.31||
tato niśumbho vegena gadāmādāya caṇḍikām |
abhyadhāvata vai hantuṃ daityasainyasamāvṛtaḥ || 9.32||
tasyāpatata evāśu gadāṃ ciccheda caṇḍikā |
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade || 9.33||
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam |
hṛdi vivyādha śūlena vegāviddhena caṇḍikā || 9.34||
bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ |
mahābalo mahāvīryastiṣṭheti puruṣo vadan || 9.35||
tasya niṣkrāmato devī prahasya svanavattataḥ |
śiraściccheda khaḍgena tato'sāvapatadbhuvi || 9.36||
tataḥ siṃhaścakhādogradaṃṣṭrākṣuṇṇaśirodharān |
asurāṃstāṃstathā kālī śivadūtī tathāparān || 9.37||
kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ |
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ || 9.38||
māheśvarītriśūlena bhinnāḥ petustathāpare |
vārāhītuṇḍaghātena keciccūrṇīkṛtā bhuvi || 9.39||
khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ |
vajreṇa caindrīhastāgravimuktena tathāpare || 9.40||
kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt |
bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ || 9.41||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
niśumbhavadho nāma navamo'dhyāyaḥ || 9||
uvāca 2, ardhaślokāḥ 39, ślokāḥ 41, evamāditaḥ || 543||
|| 10. śumbhavadho nāma daśamo'dhyāyaḥ ||
| dhyānam |
oṃ uttaptahemarucirāṃ ravicandravahni-
netrāṃ dhanuśśarayutāṅkuśapāśaśūlam |
ramyairbhujaiśca dadhatīṃ śivaśaktirūpāṃ
kāmeśvarīṃ hṛdi bhajāmi dhṛtendulekhām ||
oṃ ṛṣiruvāca || 10.1||
niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasammitam |
hanyamānaṃ balaṃ caiva śumbhaḥ kruddho'bravīdvacaḥ || 10.2||
balāvalepaduṣṭe tvaṃ mā durge garvamāvaha |
anyāsāṃ balamāśritya yuddhyase cātimāninī || 10.3||
devyuvāca || 10.4||
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā |
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ || 10.5||
tataḥ samastāstā devyo brahmāṇīpramukhā layam |
tasyā devyāstanau jagmurekaivāsīttadāmbikā || 10.6||
devyuvāca || 10.7||
ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā |
tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava || 10.8||
ṛṣiruvāca || 10.9||
tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ |
paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam || 10.10||
śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ |
tayoryuddhamabhūdbhūyaḥ sarvalokabhayaṅkaram || 10.11||
divyānyastrāṇi śataśo mumuce yānyathāmbikā |
babhañja tāni daityendrastatpratīghātakartṛbhiḥ || 10.12||
muktāni tena cāstrāṇi divyāni parameśvarī |
babhañja līlayaivograhuṅkāroccāraṇādibhiḥ || 10.13||
tataḥ śaraśatairdevīmācchādayata so'suraḥ |
sāpi tatkupitā devī dhanuściccheda ceṣubhiḥ || 10.14||
chinne dhanuṣi daityendrastathā śaktimathādade |
ciccheda devī cakreṇa tāmapyasya kare sthitām || 10.15||
tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat |
abhyadhā vata tāṃ devīṃ daityānāmadhipeśvaraḥ || 10.16||
tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā |
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam |
aśvāṃśca pātayāmāsa rathaṃ sārathinā saha || 10.17||
hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ |
jagrāha mudgaraṃ ghoramambikānidhanodyataḥ || 10.18||
cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ |
tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān || 10.19||
sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ |
devyāstaṃ cāpi sā devī talenorasyatāḍayat || 10.20||
talaprahārābhihato nipapāta mahītale |
sa daityarājaḥ sahasā punareva tathotthitaḥ || 10.21||
utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ |
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā || 10.22||
niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam |
cakratuḥ prathamaṃ siddhamunivismayakārakam || 10.23||
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha |
utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale || 10.24||
sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegavān |
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā || 10.25||
tamāyāntaṃ tato devī sarvadaityajaneśvaram |
jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi || 10.26||
sa gatāsuḥ papātorvyāṃ devī śūlāgravikṣataḥ |
cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām || 10.27||
tataḥ prasannamakhilaṃ hate tasmin durātmani |
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ || 10.28||
utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ |
sarito mārgavāhinyastathāsaṃstatra pātite || 10.29||
tato devagaṇāḥ sarve harṣanirbharamānasāḥ |
babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ || 10.30||
avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ |
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ || 10.31||
jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ || 10.32||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śumbhavadho nāma daśamo'dhyāyaḥ || 10||
|| nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ ||
| dhyānam |
oṃ bālaravidyutimindukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśābhītikarāṃ prabhaje bhuvaneśīm ||
oṃ ṛṣiruvāca || 11.1||
devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām |
kātyāyanīṃ tuṣṭuvuriṣṭalābhād
vikāśivaktrābjavikāśitāśāḥ || 11.2||
devi prapannārtihare prasīda
prasīda mātarjagato'khilasya |
prasīda viśveśvari pāhi viśvaṃ
tvamīśvarī devi carācarasya || 11.3||
ādhārabhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi |
apāṃ svarūpasthitayā tvayaita-
dāpyāyate kṛtsnamalaṅghyavīrye || 11.4||
tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā |
sammohitaṃ devi samastametat
tvaṃ vai prasannā bhuvi muktihetuḥ || 11.5||
vidyāḥ samastāstava devi bhedāḥ
striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūritamambayaitat
kā te stutiḥ stavyaparāparoktiḥ || 11.6||
sarvabhūtā yadā devī bhuktimuktipradāyinī |
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ || 11.7||
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite |
svargāpavargade devi nārāyaṇi namo'stu te || 11.8||
kalākāṣṭhādirūpeṇa pariṇāmapradāyini |
viśvasyoparatau śakte nārāyaṇi namo'stu te || 11.9||
sarvamaṅgalamāṅgalye śive sarvārthasādhike |
śaraṇye tryambake gauri nārāyaṇi namo'stu te || 11.10||
sṛṣṭisthitivināśānāṃ śaktibhūte sanātani |
guṇāśraye guṇamaye nārāyaṇi namo'stu te || 11.11||
śaraṇāgatadīnārtaparitrāṇaparāyaṇe |
sarvasyārtihare devi nārāyaṇi namo'stu te || 11.12||
haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarike devi nārāyaṇi namo'stu te || 11.13||
triśūlacandrāhidhare mahāvṛṣabhavāhini |
māheśvarīsvarūpeṇa nārāyaṇi namo'stute || 11.14||
mayūrakukkuṭavṛte mahāśaktidhare'naghe |
kaumārīrūpasaṃsthāne nārāyaṇi namo'stu te || 11.15||
śaṅkhacakragadāśārṅgagṛhītaparamāyudhe |
prasīda vaiṣṇavīrūpe nārāyaṇi namo'stu te || 11.16||
gṛhītogramahācakre daṃṣṭroddhṛtavasundhare |
varāharūpiṇi śive nārāyaṇi namo'stu te || 11.17||
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame |
trailokyatrāṇasahite nārāyaṇi namo'stu te || 11.18||
kirīṭini mahāvajre sahasranayanojjvale |
vṛtraprāṇahare caindri nārāyaṇi namo'stu te || 11.19||
śivadūtīsvarūpeṇa hatadaityamahābale |
ghorarūpe mahārāve nārāyaṇi namo'stu te || 11.20||
daṃṣṭrākarālavadane śiromālāvibhūṣaṇe |
cāmuṇḍe muṇḍamathane nārāyaṇi namo'stu te || 11.21||
lakṣmi lajje mahāvidye śraddhe puṣṭi svadhe dhruve |
mahārātri mahāmāye nārāyaṇi namo'stu te || 11.22||
medhe sarasvati vare bhūti bābhravi tāmasi |
niyate tvaṃ prasīdeśe nārāyaṇi namo'stute || 11.23||
sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge devi namo'stu te || 11.24||
etatte vadanaṃ saumyaṃ locanatrayabhūṣitam |
pātu naḥ sarvabhūtebhyaḥ kātyāyani namo'stu te || 11.25||
jvālākarālamatyugramaśeṣāsurasūdanam |
triśūlaṃ pātu no bhīterbhadrakāli namo'stu te || 11.26||
hinasti daityatejāṃsi svanenāpūrya yā jagat |
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva || 11.27||
asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ |
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam || 11.28||
rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti || 11.29||
etatkṛtaṃ yatkadanaṃ tvayādya
dharmadviṣāṃ devi mahāsurāṇām |
rūpairanekairbahudhātmamūrtiṃ
kṛtvāmbike tatprakaroti kānyā || 11.30||
vidyāsu śāstreṣu vivekadīpe-
ṣvādyeṣu vākyeṣu ca kā tvadanyā |
mamatvagarte'timahāndhakāre
vibhrāmayatyetadatīva viśvam || 11.31||
rakṣāṃsi yatrograviṣāśca nāgā
yatrārayo dasyubalāni yatra |
dāvānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam || 11.32||
viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīha viśvam |
viśveśavandyā bhavatī bhavanti
viśvāśrayā ye tvayi bhaktinamrāḥ || 11.33||
devi prasīda paripālaya no'ribhīte-
rnityaṃ yathāsuravadhādadhunaiva sadyaḥ |
pāpāni sarvajagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān || 11.34||
praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇi |
trailokyavāsināmīḍye lokānāṃ varadā bhava || 11.35||
devyuvāca || 11.36||
varadāhaṃ suragaṇā varaṃ yanmanasecchatha |
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam || 11.37||
devā ūcuḥ || 11.38||
sarvābādhāpraśamanaṃ trailokyasyākhileśvari |
evameva tvayā kāryamasmadvairivināśanam || 11.39||
devyuvāca || 11.40||
vaivasvate'ntare prāpte aṣṭāviṃśatime yuge |
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau || 11.41||
nandagopagṛhe jātā yaśodāgarbhasambhavā |
tatastau nāśayiṣyāmi vindhyācalanivāsinī || 11.42||
punarapyatiraudreṇa rūpeṇa pṛthivītale |
avatīrya haniṣyāmi vaipracittāṃśca dānavān || 11.43||
bhakṣayantyāśca tānugrān vaipracittān mahāsurān |
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ || 11.44||
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ |
stuvanto vyāhariṣyanti satataṃ raktadantikām || 11.45||
bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi |
munibhiḥ saṃsmṛtā bhūmau sambhaviṣyāmyayonijā || 11.46||
tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn |
kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ || 11.47||
tato'hamakhilaṃ lokamātmadehasamudbhavaiḥ |
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ || 11.48||
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi |
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram || 11.49||
durgādevīti vikhyātaṃ tanme nāma bhaviṣyati |
punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale || 11.50||
rakṣāṃsi bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt |
tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ || 11.51||
bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati |
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati || 11.52||
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṅkhyeyaṣaṭpadam |
trailokyasya hitārthāya vadhiṣyāmi mahāsuram || 11.53||
bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ |
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati || 11.54||
tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam || 11.55||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ || 11||
uvāca 4, ardhaślokaḥ 1, ślokāḥ 50, evamāditaḥ || 630||
|| 12. bhagavatī vākyaṃ dvādaśo'dhyāyaḥ ||
| dhyānam |
oṃ vidyuddhāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavāl̤akheṭavilasadhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||
oṃ devyuvāca || 12.1||
ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ |
tasyāhaṃ sakalāṃ bādhāṃ śamayiṣyāmyasaṃśayam || 12.2||
madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam |
kīrtayiṣyanti ye tadvadvadhaṃ śumbhaniśumbhayoḥ || 12.3||
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ |
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam || 12.4||
na teṣāṃ duṣkṛtaṃ kiñcidduṣkṛtotthā na cāpadaḥ |
bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam || 12.5||
śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ |
na śastrānalatoyaughāt kadācit sambhaviṣyati || 12.6||
tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ |
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ mahat || 12.7||
upasargānaśeṣāṃstu mahāmārīsamudbhavān |
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama || 12.8||
yatraitatpaṭhyate samyaṅnityamāyatane mama |
sadā na tadvimokṣyāmi sānnidhyaṃ tatra me sthitam || 12.9||
balipradāne pūjāyāmagnikārye mahotsave |
sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyameva ca || 12.10||
jānatājānatā vāpi balipūjāṃ yathā kṛtām |
pratīkṣiṣyāmyahaṃ prītyā vahnihomaṃ tathākṛtam || 12.11||
śaratkāle mahāpūjā kriyate yā ca vārṣikī |
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ || 12.12||
sarvābādhāvinirmukto dhanadhānyasamanvitaḥ |
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ || 12.13||
śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ |
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān || 12.14||
ripavaḥ saṅkṣayaṃ yānti kalyāṇaṃ copapadyate |
nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śaṛṇvatām || 12.15||
śāntikarmaṇi sarvatra tathā duḥsvapnadarśane |
grahapīḍāsu cogrāsu māhātmyaṃ śaṛṇuyānmama || 12.16||
upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ |
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate || 12.17||
bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam |
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam || 12.18||
durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param |
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam || 12.19||
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam |
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ || 12.20||
viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam |
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā || 12.21||
prītirme kriyate sāsmin sakṛduccarite śrute |
śrutaṃ harati pāpāni tathārogyaṃ prayacchati || 12.22||
rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama |
yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam || 12.23||
tasmiñchrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate |
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ || 12.24||
brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim |
araṇye prāntare vāpi dāvāgniparivāritaḥ || 12.25||
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ |
siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ || 12.26||
rājñā kruddhena cājñapto vadhyo bandhagato'pi vā |
āghūrṇito vā vātena sthitaḥ pote mahārṇave || 12.27||
patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe |
sarvābādhāsu ghorāsu vedanābhyardito'pi vā || 12.28||
smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt |
mama prabhāvātsiṃhādyā dasyavo vairiṇastathā || 12.29||
dūrādeva palāyante smarataścaritaṃ mama || 12.30||
ṛṣiruvāca || 12.31||
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā || 12.32||
paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata |
te'pi devā nirātaṅkāḥ svādhikārānyathā purā || 12.33||
yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ |
daityāśca devyā nihate śumbhe devaripau yudhi || 12.34||
jagadvidhvaṃsake tasmin mahogre'tulavikrame |
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ || 12.35||
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ |
sambhūya kurute bhūpa jagataḥ paripālanam || 12.36||
tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate |
sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati || 12.37||
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara |
mahādevyā mahākālī mahāmārīsvarūpayā || 12.38||
saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā |
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī || 12.39||
bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe |
saivābhāve tathālakṣmīrvināśāyopajāyate || 12.40||
stutā sampūjitā puṣpairgandhadhūpādibhistathā |
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām || 12.41||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
bhagavatī vākyaṃ dvādaśo'dhyāyaḥ || 12||
uvāca 2, ardhaślokau 2, ślokāḥ 37, evamāditaḥ || 671||
|| 13. surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ ||
| dhyānam |
oṃ bālārkamaṇḍalābhāsāṃ caturbāhuṃ trilocanām |
pāśāṅkuśavarābhītirdhārayantīṃ śivāṃ bhaje ||
oṃ ṛṣiruvāca || 13.1||
etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evaṃ prabhāvā sā devī yayedaṃ dhāryate jagat || 13.2||
vidyā tathaiva kriyate bhagavadviṣṇumāyayā |
tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ || 13.3||
mohyante mohitāścaiva mohameṣyanti cāpare |
tāmupaihi mahārāja śaraṇaṃ parameśvarīm || 13.4||
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā || 13.5||
mārkaṇḍeya uvāca || 13.6||
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ || 13.7||
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam |
nirviṇṇo'timamatvena rājyāpaharaṇena ca || 13.8||
jagāma sadyastapase sa ca vaiśyo mahāmune |
sandarśanārthamambāyā nadīpulinamāsthitaḥ || 13.9||
sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan |
tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm || 13.10||
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ |
nirāhārau yatātmānau tanmanaskau samāhitau || 13.11||
dadatustau baliṃ caiva nijagātrāsṛgukṣitam |
evaṃ samārādhayatostribhirvarṣairyatātmanoḥ || 13.12||
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā || 13.13||
devyuvāca || 13.14||
yatprārthyate tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite || 13.15||
mārkaṇḍeya uvāca || 13.16||
tato vavre nṛpo rājyamavibhraṃśyanyajanmani |
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt || 13.17||
so'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ |
mametyahamiti prājñaḥ saṅgavicyutikārakam || 13.18||
devyuvāca || 13.19||
svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān || 13.20||
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati || 13.21||
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ || 13.22||
sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati || 13.23||
vaiśyavarya tvayā yaśca varo'smatto'bhivāñchitaḥ || 13.24||
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati || 13.25||
mārkaṇḍeya uvāca || 13.26||
iti dattvā tayordevī yathābhilaṣitaṃ varam || 13.27||
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā |
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 13.28||
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 13.29||
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ |
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || klīṃ oṃ ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ || 13||
uvāca 6, ardhaślokāḥ 11, ślokāḥ 12, evamāditaḥ || 700||
samastā uvācamantrāḥ 57, ardhaślokāḥ 42, ślokāḥ 535, avadānāni 66 ||
|| śrīsaptaśatīdevīmāhātmyaṃ samāptam ||
|| oṃ tat sat oṃ ||
|| atha aparādhakṣamāpaṇastotram ||
oṃ aparādhaśataṃ kṛtvā jagadambeti coccaret |
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ || 1||
sāparādho'smi śaraṇaṃ prāptastvāṃ jagadambike |
idānīmanukampyo'haṃ yathecchasi tathā kuru || 2||
ajñānādvismṛterbhrāntyā yannyūnamadhikaṃ kṛtam |
tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari || 3||
kāmeśvari jaganmātaḥ saccidānandavigrahe |
gṛhāṇārcāmimāṃ prītyā prasīda parameśvari || 4||
sarvarūpamayī devī sarvaṃ devīmayaṃ jagat |
ato'haṃ viśvarūpāṃ tvāṃ namāmi parameśvarīm || 5||
yadakṣaraṃ paribhraṣṭaṃ mātrāhīnañca yadbhavet |
pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvari || 6||
yadatra pāṭhe jagadambike mayā
visargabindvakṣarahīnamīritam |
tadastu sampūrṇatamaṃ prasādataḥ
saṅkalpasiddhiśca sadaiva jāyatām || 7||
yanmātrābindubindudvitayapadapadadvandvavarṇādihīnaṃ
bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba |
mohādajñānato vā paṭhitamapaṭhitaṃ sāmprataṃ te stave'smin
tat sarvaṃ sāṅgamāstāṃ bhagavati varade tvatprasādāt prasīda || 8||
prasīda bhagavatyamba prasīda bhaktavatsale |
prasādaṃ kuru me devi durge devi namo'stu te || 9||
|| iti aparādhakṣamāpaṇastotraṃ samāptam ||
|| atha devīsūktam ||
oṃ ahaṃ rudrebhirvasubhiścarāmyaha-
mādityairuta viśvadevaiḥ |
ahaṃ mitrāvaruṇobhā bibharmyaha-
mindrāgnī ahamaśvinobhā || 1||
ahaṃ somamāhanasaṃ bibharmyahaṃ
tvaṣṭāramuta pūṣaṇaṃ bhagam |
ahaṃ dadhāmi draviṇaṃ haviṣmate
suprāvye yajamānāya sunvate || 2||
ahaṃ rāṣṭrī saṅgamanī vasūnāṃ
cikituṣī prathamā yajñiyānām |
tāṃ mā devā vyadadhuḥ purutrā
bhūristhātrāṃ bhūryāveśayantīm || 3||
mayā so annamatti yo vipaśyati
yaḥ prāṇiti ya īṃ śaṛṇotyuktam |
amantavo māṃ ta upakṣiyanti
śrudhi śruta śraddhivaṃ te vadāmi || 4||
ahameva svayamidaṃ vadāmi juṣṭaṃ
devebhiruta mānuṣebhiḥ |
yaṃ kāmaye taṃ tamugraṃ kṛṇomi
taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām || 5||
ahaṃ rudrāya dhanurā tanomi
brahmadviṣe śarave hantavā u |
ahaṃ janāya samadaṃ kṛṇomyahaṃ
dyāvāpṛthivī ā viveśa || 6||
ahaṃ suve pitaramasya mūrdhan
mama yonirapsvantaḥ samudre |
tato vi tiṣṭhe bhuvanānu viśvo-
tāmūṃ dyāṃ varṣmaṇopa spṛśāmi || 7||
ahameva vāta iva pra vāmyā-
rabhamāṇā bhuvanāni viśvā |
paro divā para enā pṛthivyai-
tāvatī mahinā saṃ babhūva || 8||
|| iti ṛgvedoktaṃ devīsūktaṃ samāptam ||
|| oṃ tat sat oṃ ||
Encoded by Smt. K. Shankaran and
reencoded by Kirk Wortman kirkwort@hotmail.com
Proofread by Sunder Hattangadi
and Kirk Wortman kirkwort@hotmail.com
% Text title : Devi Mahatmyam / Durga Saptashati
% File name : durga700.itx
% itxtitle : devI mAhAtmyam athavA durgAsaptashatI
% engtitle : devI mAhAtmyam or durgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Transliterated by : K. Shankaran, Kirk Wortman, Dhruba Chakroborty, Ahto Jarve
% Proofread by : Sunder Hattangadi, Kirk Wortman (kirkwort at hotmail.com)
% Description-comments : 700 shlokas regarding devi durga
% Indexextra : (1, 2, Bengali chanting, meanings, Sanskrit bhAShya, audio, Italian and English, English, Compilation, Tamil, mArakeNDeya purANa)
% Latest update : February 26, 2024
% Site access : https://sanskritdocuments.org
దేవీ మాహాత్మ్యమ్ వా దుర్గాసప్తశతీ
॥ దేవీ మాహాత్మ్యమ్ ॥
॥ శ్రీ ॥
॥ శ్రీచణ్డికాధ్యానమ్ ॥
ఓం బన్ధూకకుసుమాభాసాం పఞ్చముణ్డాధివాసినీమ్ ।
స్ఫురచ్చన్ద్రకలారత్నముకుటాం ముణ్డమాలినీమ్ ॥
త్రినేత్రాం రక్తవసనాం పీనోన్నతఘటస్తనీమ్ ।
పుస్తకం చాక్షమాలాం చ వరం చాభయకం క్రమాత్ ॥
దధతీం సంస్మరేన్నిత్యముత్తరామ్నాయమానితామ్ ।
అథవా
యా చణ్డీ మధుకైటభాదిదైత్యదలనీ యా మాహిషోన్మూలినీ
యా ధూమ్రేక్షణచణ్డముణ్డమథనీ యా రక్తబీజాశనీ ।
శక్తిః శుమ్భనిశుమ్భదైత్యదలనీ యా సిద్ధిదాత్రీ పరా
సా దేవీ నవకోటిమూర్తిసహితా మాం పాతు విశ్వేశ్వరీ ॥
॥ అథ అర్గలాస్తోత్రమ్ ॥
ఓం అస్య శ్రీఅర్గలాస్తోత్రమన్త్రస్య విష్ణురృషిః,
అనుష్టుప్ ఛన్దః, శ్రీమహాలక్ష్మీర్దేవతా,
శ్రీజగదమ్బాప్రీతయే సప్తశతిపాఠాఙ్గత్వేన జపే వినియోగః ।
ఓం నమశ్చణ్డికాయై ।
మార్కణ్డేయ ఉవాచ ।
ఓం జయ త్వం దేవి చాముణ్డే జయ భూతాపహారిణి ।
జయ సర్వగతే దేవి కాలరాత్రి నమోఽస్తు తే ॥ ౧॥
జయన్తీ మఙ్గలా కాలీ భద్రకాలీ కపాలినీ ।
దుర్గా శివా క్షమా ధాత్రీ స్వాహా స్వధా నమోఽస్తు తే ॥ ౨॥
మధుకైటభవిధ్వంసి విధాతృవరదే నమః ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౩॥
మహిషాసురనిర్నాశి భక్తానాం సుఖదే నమః ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౪॥
ధూమ్రనేత్రవధే దేవి ధర్మకామార్థదాయిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౫॥
రక్తబీజవధే దేవి చణ్డముణ్డవినాశిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౬॥
నిశుమ్భశుమ్భనిర్నాశి త్రైలోక్యశుభదే నమః ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౭॥
వన్దితాఙ్ఘ్రియుగే దేవి సర్వసౌభాగ్యదాయిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౮॥
అచిన్త్యరూపచరితే సర్వశత్రువినాశిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౯॥
నతేభ్యః సర్వదా భక్త్యా చాపర్ణే దురితాపహే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౦॥
స్తువద్భ్యో భక్తిపూర్వం త్వాం చణ్డికే వ్యాధినాశిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౧॥
చణ్డికే సతతం యుద్ధే జయన్తి పాపనాశిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౨॥
దేహి సౌభాగ్యమారోగ్యం దేహి దేవి పరం సుఖమ్ ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౩॥
విధేహి దేవి కల్యాణం విధేహి విపులాం శ్రియమ్ ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౪॥
విధేహి ద్విషతాం నాశం విధేహి బలముచ్చకైః ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౫॥
సురాసురశిరోరత్ననిఘృష్టచరణేఽమ్బికే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౬॥
విద్యావన్తం యశస్వన్తం లక్ష్మీవన్తఞ్చ మాం కురు ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౭॥
దేవి ప్రచణ్డదోర్దణ్డదైత్యదర్పనిషూదిని ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౮॥
ప్రచణ్డదైత్యదర్పఘ్నే చణ్డికే ప్రణతాయ మే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౧౯॥
చతుర్భుజే చతుర్వక్త్రసంస్తుతే పరమేశ్వరి ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౦॥
కృష్ణేన సంస్తుతే దేవి శశ్వద్భక్త్యా సదామ్బికే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౧॥
హిమాచలసుతానాథసంస్తుతే పరమేశ్వరి ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౨॥
ఇన్ద్రాణీపతిసద్భావపూజితే పరమేశ్వరి ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౩॥
దేవి భక్తజనోద్దామదత్తానన్దోదయేఽమ్బికే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౪॥
భార్యాం మనోరమాం దేహి మనోవృత్తానుసారిణీమ్ ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౫॥
తారిణి దుర్గసంసారసాగరస్యాచలోద్భవే ।
రూపం దేహి జయం దేహి యశో దేహి ద్విషో జహి ॥ ౨౬॥
ఇదం స్తోత్రం పఠిత్వా తు మహాస్తోత్రం పఠేన్నరః ।
సప్తశతీం సమారాధ్య వరమాప్నోతి దుర్లభమ్ ॥ ౨౭॥
॥ ఇతి శ్రీమార్కణ్డేయపురాణే అర్గలాస్తోత్రం సమాప్తమ్ ॥
॥ అథ కీలకస్తోత్రమ్ ॥
ఓం అస్య శ్రీకీలకమన్త్రస్య శివఋషిః, అనుష్టుప్ ఛన్దః,
శ్రీమహాసరస్వతీ దేవతా, శ్రీజగదమ్బాప్రీత్యర్థం
సప్తశతీపాఠాఙ్గత్వేన జపే వినియోగః ।
ఓం నమశ్చణ్డికాయై ।
మార్కణ్డేయ ఉవాచ ।
ఓం విశుద్ధజ్ఞానదేహాయ త్రివేదీదివ్యచక్షుషే ।
శ్రేయఃప్రాప్తినిమిత్తాయ నమః సోమార్ధధారిణే ॥ ౧॥
సర్వమేతద్విజానీయాన్మన్త్రాణామపి కీలకమ్ ।
సోఽపి క్షేమమవాప్నోతి సతతం జప్యతత్పరః ॥ ౨॥
సిద్ధ్యన్త్యుచ్చాటనాదీని కర్మాణి సకలాన్యపి ।
ఏతేన స్తువతాం దేవీం స్తోత్రవృన్దేన భక్తితః ॥ ౩॥
న మన్త్రో నౌషధం తస్య న కిఞ్చిదపి విద్యతే ।
వినా జప్యేన సిద్ధ్యేత్తు సర్వముచ్చాటనాదికమ్ ॥ ౪॥
సమగ్రాణ్యపి సేత్స్యన్తి లోకశఙ్కామిమాం హరః ।
కృత్వా నిమన్త్రయామాస సర్వమేవమిదం శుభమ్ ॥ ౫॥
స్తోత్రం వై చణ్డికాయాస్తు తచ్చ గుహ్యం చకార సః ।
సమాప్నోతి స పుణ్యేన తాం యథావన్నిమన్త్రణామ్ ॥ ౬॥
సోఽపి క్షేమమవాప్నోతి సర్వమేవ న సంశయః ।
కృష్ణాయాం వా చతుర్దశ్యామష్టమ్యాం వా సమాహితః ॥ ౭॥
దదాతి ప్రతిగృహ్ణాతి నాన్యథైషా ప్రసీదతి ।
ఇత్థం రూపేణ కీలేన మహాదేవేన కీలితమ్ ॥ ౮॥
యో నిష్కీలాం విధాయైనాం చణ్డీం జపతి నిత్యశః ।
స సిద్ధః స గణః సోఽథ గన్ధర్వో జాయతే ధ్రువమ్ ॥ ౯॥
న చైవాపాటవం తస్య భయం క్వాపి న జాయతే ।
నాపమృత్యువశం యాతి మృతే చ మోక్షమాప్నుయాత్ ॥ ౧౦॥
జ్ఞాత్వా ప్రారభ్య కుర్వీత హ్యకుర్వాణో వినశ్యతి ।
తతో జ్ఞాత్వైవ సమ్పూర్ణమిదం ప్రారభ్యతే బుధైః ॥ ౧౧॥
సౌభాగ్యాది చ యత్కిఞ్చిద్ దృశ్యతే లలనాజనే ।
తత్సర్వం తత్ప్రసాదేన తేన జప్యమిదం శుభమ్ ॥ ౧౨॥
శనైస్తు జప్యమానేఽస్మిన్ స్తోత్రే సమ్పత్తిరుచ్చకైః ।
భవత్యేవ సమగ్రాపి తతః ప్రారభ్యమేవ తత్ ॥ ౧౩॥
ఐశ్వర్యం తత్ప్రసాదేన సౌభాగ్యారోగ్యమేవ చ ।
శత్రుహానిః పరో మోక్షః స్తూయతే సా న కిం జనైః ॥ ౧౪॥
చణ్డికాం హృదయేనాపి యః స్మరేత్ సతతం నరః ।
హృద్యం కామమవాప్నోతి హృది దేవీ సదా వసేత్ ॥ ౧౫॥
అగ్రతోఽముం మహాదేవకృతం కీలకవారణమ్ ।
నిష్కీలఞ్చ తథా కృత్వా పఠితవ్యం సమాహితైః ॥ ౧౬॥
॥ ఇతి శ్రీభగవత్యాః కీలకస్తోత్రం సమాప్తమ్ ॥
॥ అథ దేవీ కవచమ్ ॥
అస్య శ్రీచణ్డీకవచస్య బ్రహ్మా ఋషిః , అనుష్టుప్ ఛన్దః ,
చాముణ్డా దేవతా , అఙ్గన్యాసోక్తమాతరో బీజమ్ ,
దిగ్బన్ధదేవతాస్తత్వమ్ , శ్రీజగదమ్బాప్రీత్యర్థే జపే వినియోగః ।
ఓం నమశ్చణ్డికాయై ।
మార్కణ్డేయ ఉవాచ ।
ఓం యద్గుహ్యం పరమం లోకే సర్వరక్షాకరం నృణామ్ ।
యన్న కస్యచిదాఖ్యాతం తన్మే బ్రూహి పితామహ ॥ ౧॥
బ్రహ్మోవాచ ।
అస్తి గుహ్యతమం విప్ర సర్వభూతోపకారకమ్ ।
దేవ్యాస్తు కవచం పుణ్యం తచ్ఛృణుష్వ మహామునే ॥ ౨॥
ప్రథమం శైలపుత్రీతి ద్వితీయం బ్రహ్మచారిణీ ।
తృతీయం చన్ద్రఘణ్టేతి కూష్మాణ్డేతి చతుర్థకమ్ ॥ ౩॥
పఞ్చమం స్కన్దమాతేతి షష్ఠం కాత్యాయనీ తథా ।
సప్తమం కాలరాత్రిశ్చ మహాగౌరీతి చాష్టమమ్ ॥ ౪॥
నవమం సిద్ధిదాత్రీ చ నవదుర్గాః ప్రకీర్తితాః ।
ఉక్తాన్యేతాని నామాని బ్రహ్మణైవ మహాత్మనా ॥ ౫॥
అగ్నినా దహ్యమానాస్తు శత్రుమధ్యగతా రణే ।
విషమే దుర్గమే చైవ భయార్తాః శరణం గతాః ॥ ౬।
న తేషాం జాయతే కిఞ్చిదశుభం రణసఙ్కటే ।
ఆపదం న చ పశ్యన్తి శోకదుఃఖభయఙ్కరీమ్ ॥ ౭॥
యైస్తు భక్త్యా స్మృతా నిత్యం తేషాం వృద్ధిః ప్రజాయతే ।
యే త్వాం స్మరన్తి దేవేశి రక్షసి తాన్న సంశయః ॥ ౮॥
ప్రేతసంస్థా తు చాముణ్డా వారాహీ మహిషాసనా ।
ఐన్ద్రీ గజసమారూఢా వైష్ణవీ గరుడాసనా ॥ ౯॥
నారసింహీ మహావీర్యా శివదూతీ మహాబలా ।
మాహేశ్వరీ వృషారూఢా కౌమారీ శిఖివాహనా ॥ ౧౦॥
లక్ష్మీః పద్మాసనా దేవీ పద్మహస్తా హరిప్రియా ।
శ్వేతరూపధరా దేవీ ఈశ్వరీ వృషవాహనా ॥ ౧౧॥
బ్రాహ్మీ హంససమారూఢా సర్వాభరణభూషితా ।
ఇత్యేతా మాతరః సర్వాః సర్వయోగసమన్వితాః ॥ ౧౨॥
నానాభరణశోభాఢ్యా నానారత్నోపశోభితాః ।
శ్రైష్ఠైశ్చ మౌక్తికైః సర్వా దివ్యహారప్రలమ్బిభిః ॥ ౧౩॥
ఇన్ద్రనీలైర్మహానీలైః పద్మరాగైః సుశోభనైః ।
దృశ్యన్తే రథమారూఢా దేవ్యః క్రోధసమాకులాః ॥ ౧౪॥
శఙ్ఖం చక్రం గదాం శక్తిం హలం చ ముసలాయుధమ్ ।
ఖేటకం తోమరం చైవ పరశుం పాశమేవ చ ॥ ౧౫॥
కున్తాయుధం త్రిశూలం చ శార్ఙ్గమాయుధముత్తమమ్ ।
దైత్యానాం దేహనాశాయ భక్తానామభయాయ చ ॥ ౧౬॥
ధారయన్త్యాయుధానీత్థం దేవానాం చ హితాయ వై ।
నమస్తేఽస్తు మహారౌద్రే మహాఘోరపరాక్రమే ॥ ౧౭॥
మహాబలే మహోత్సాహే మహాభయవినాశిని ।
త్రాహి మాం దేవి దుష్ప్రేక్ష్యే శత్రూణాం భయవర్ధిని ॥ ౧౮॥
ప్రాచ్యాం రక్షతు మామైన్ద్రీ ఆగ్నేయ్యామగ్నిదేవతా ।
దక్షిణేఽవతు వారాహీ నైరృత్యాం ఖడ్గధారిణీ ॥ ౧౯॥
ప్రతీచ్యాం వారుణీ రక్షేద్వాయవ్యాం మృగవాహినీ ।
ఉదీచ్యాం పాతు కౌబేరీ ఈశాన్యాం శూలధారిణీ ॥ ౨౦॥
ఊర్ధ్వం బ్రహ్మాణీ మే రక్షేదధస్తాద్వైష్ణవీ తథా ।
ఏవం దశ దిశో రక్షేచ్చాముణ్డా శవవాహనా ॥ ౨౧॥
జయా మామగ్రతః పాతు విజయా పాతు పృష్ఠతః ।
అజితా వామపార్శ్వే తు దక్షిణే చాపరాజితా ॥ ౨౨॥
శిఖాం మే ద్యోతినీ రక్షేదుమా మూర్ధ్ని వ్యవస్థితా ।
మాలాధరీ లలాటే చ భ్రువౌ రక్షేద్యశస్వినీ ॥ ౨౩॥
నేత్రయోశ్చిత్రనేత్రా చ యమఘణ్టా తు పార్శ్వకే ।
త్రినేత్రా చ త్రిశూలేన భ్రువోర్మధ్యే చ చణ్డికా ॥ ౨౪॥
శఙ్ఖినీ చక్షుషోర్మధ్యే శ్రోత్రయోర్ద్వారవాసినీ ।
కపోలౌ కాలికా రక్షేత్ కర్ణమూలే తు శఙ్కరీ ॥ ౨౫॥
నాసికాయాం సుగన్ధా చ ఉత్తరోష్ఠే చ చర్చికా ।
అధరే చామృతాబాలా జిహ్వాయాం చ సరస్వతీ ॥ ౨౬॥
దన్తాన్ రక్షతు కౌమారీ కణ్ఠదేశే తు చణ్డికా ।
ఘణ్టికాం చిత్రఘణ్టా చ మహామాయా చ తాలుకే ॥ ౨౭॥
కామాక్షీ చిబుకం రక్షేద్వాచం మే సర్వమఙ్గలా ।
గ్రీవాయాం భద్రకాలీ చ పృష్ఠవంశే ధనుర్ధరీ ॥ ౨౮॥
నీలగ్రీవా బహిః కణ్ఠే నలికాం నలకూబరీ ।
స్కన్ధయోః ఖడ్గినీ రక్షేద్ బాహూ మే వజ్రధారిణీ ॥ ౨౯॥
హస్తయోర్దణ్డినీ రక్షేదమ్బికా చాఙ్గులీషు చ ।
నఖాఞ్ఛూలేశ్వరీ రక్షేత్ కుక్షౌ రక్షేన్నరేశ్వరీ ॥ ౩౦॥
స్తనౌ రక్షేన్మహాదేవీ మనఃశోకవినాశినీ ।
హృదయే లలితా దేవీ ఉదరే శూలధారిణీ ॥ ౩౧॥
నాభౌ చ కామినీ రక్షేద్ గుహ్యం గుహ్యేశ్వరీ తథా ।
మేఢ్రం రక్షతు దుర్గన్ధా పాయుం మే గుహ్యవాహినీ ॥ ౩౨॥
కట్యాం భగవతీ రక్షేదూరూ మే మేఘవాహనా ।
జఙ్ఘే మహాబలా రక్షేత్ జానూ మాధవనాయికా ॥ ౩౩॥
గుల్ఫయోర్నారసింహీ చ పాదపృష్ఠే తు కౌశికీ ।
పాదాఙ్గులీః శ్రీధరీ చ తలం పాతాలవాసినీ ॥ ౩౪॥
నఖాన్ దంష్ట్రకరాలీ చ కేశాంశ్చైవోర్ధ్వకేశినీ ।
రోమకూపేషు కౌమారీ త్వచం యోగీశ్వరీ తథా ॥ ౩౫॥
రక్తమజ్జావసామాంసాన్యస్థిమేదాంసి పార్వతీ ।
అన్త్రాణి కాలరాత్రిశ్చ పిత్తం చ ముకుటేశ్వరీ ॥ ౩౬॥
పద్మావతీ పద్మకోశే కఫే చూడామణిస్తథా ।
జ్వాలాముఖీ నఖజ్వాలామభేద్యా సర్వసన్ధిషు ॥ ౩౭॥
శుక్రం బ్రహ్మాణీ మే రక్షేచ్ఛాయాం ఛత్రేశ్వరీ తథా ।
అహఙ్కారం మనో బుద్ధిం రక్షేన్మే ధర్మధారిణీ ॥ ౩౮॥
ప్రాణాపానౌ తథా వ్యానముదానం చ సమానకమ్ ।
వజ్రహస్తా చ మే రక్షేత్ ప్రాణాన్ కల్యాణశోభనా ॥ ౩౯॥
రసే రూపే చ గన్ధే చ శబ్దే స్పర్శే చ యోగినీ ।
సత్త్వం రజస్తమశ్చైవ రక్షేన్నారాయణీ సదా ॥ ౪౦॥
ఆయూ రక్షతు వారాహీ ధర్మం రక్షతు పార్వతీ ।
యశః కీర్తిం చ లక్ష్మీం చ సదా రక్షతు వైష్ణవీ ॥ ౪౧॥
గోత్రమిన్ద్రాణీ మే రక్షేత్ పశూన్ రక్షేచ్చ చణ్డికా ।
పుత్రాన్ రక్షేన్మహాలక్ష్మీర్భార్యాం రక్షతు భైరవీ ॥ ౪౨॥
ధనేశ్వరీ ధనం రక్షేత్ కౌమారీ కన్యకాం తథా ।
పన్థానం సుపథా రక్షేన్మార్గం క్షేమఙ్కరీ తథా ॥ ౪౩॥
రాజద్వారే మహాలక్ష్మీర్విజయా సతత స్థితా ।
రక్షాహీనం తు యత్ స్థానం వర్జితం కవచేన తు ॥ ౪౪॥
తత్సర్వం రక్ష మే దేవి జయన్తీ పాపనాశినీ ।
సర్వరక్షాకరం పుణ్యం కవచం సర్వదా జపేత్ ॥ ౪౫॥
ఇదం రహస్యం విప్రర్షే భక్త్యా తవ మయోదితమ్ ।
పాదమేకం న గచ్ఛేత్ తు యదీచ్ఛేచ్ఛుభమాత్మనః ॥ ౪౬॥
కవచేనావృతో నిత్యం యత్ర యత్రైవ గచ్ఛతి ।
తత్ర తత్రార్థలాభశ్వ విజయః సార్వకాలికః ॥ ౪౭॥
యం యం చిన్తయతే కామం తం తం ప్రాప్నోతి నిశ్చితమ్ ।
పరమైశ్వర్యమతులం ప్రాప్స్యతే భూతలే పుమాన్ ॥ ౪౮॥
నిర్భయో జాయతే మర్త్యః సఙ్గ్రామేష్వపరాజితః ।
త్రైలోక్యే తు భవేత్పూజ్యః కవచేనావృతః పుమాన్ ॥ ౪౯॥
ఇదం తు దేవ్యాః కవచం దేవానామపి దుర్లభమ్ ।
యః పఠేత్ప్రయతో నిత్యం త్రిసన్ధ్యం శ్రద్ధయాన్వితః ॥ ౫౦॥
దైవీకలా భవేత్తస్య త్రైలోక్యే చాపరాజితః ।
జీవేద్వర్షశతం సాగ్రమపమృత్యువివర్జితః ॥ ౫౧॥
నశ్యన్తి వ్యాధయః సర్వే లూతావిస్ఫోటకాదయః ।
స్థావరం జఙ్గమం చైవ కృత్రిమం చైవ యద్విషమ్ ॥ ౫౨॥
అభిచారాణి సర్వాణి మన్త్రయన్త్రాణి భూతలే ।
భూచరాః ఖేచరాశ్చైవ కులజాశ్చౌపదేశికాః ॥ ౫౩॥
సహజా కులజా మాలా డాకినీ శాకినీ తథా ।
అన్తరిక్షచరా ఘోరా డాకిన్యశ్చ మహారవాః ॥ ౫౪॥
గ్రహభూతపిశాచాశ్చ యక్షగన్ధర్వరాక్షసాః ।
బ్రహ్మరాక్షసవేతాలాః కూష్మాణ్డా భైరవాదయః ॥ ౫౫॥
నశ్యన్తి దర్శనాత్తస్య కవచేనావృతో హి యః ।
మానోన్నతిర్భవేద్రాజ్ఞస్తేజోవృద్ధిః పరా భవేత్ ॥ ౫౬॥
యశోవృద్ధిర్భవేత్ పుంసాం కీర్తివృద్ధిశ్చ జాయతే ।
తస్మాత్ జపేత్ సదా భక్తః కవచం కామదం మునే ॥ ౫౭॥
జపేత్ సప్తశతీం చణ్డీం కృత్వా తు కవచం పురా ।
నిర్విఘ్నేన భవేత్ సిద్ధిశ్చణ్డీజపసముద్భవా ॥ ౫౮॥
యావద్భూమణ్డలం ధత్తే సశైలవనకాననమ్ ।
తావత్తిష్ఠతి మేదిన్యాం సన్తతిః పుత్రపౌత్రికీ ॥ ౫౯॥
దేహాన్తే పరమం స్థానం సురైరపి సుదుర్లభమ్ ।
ప్రాప్నోతి పురుషో నిత్యం మహామాయాప్రసాదతః ॥ ౬౦॥
తత్ర గచ్ఛతి గత్వాసౌ పునశ్చాగమనం నహి ।
లభతే పరమం స్థానం శివేన సమతాం వ్రజేత్ ॥ ౬౧॥
॥ ఇతి శ్రీమార్కణ్డేయపురాణే హరిహరబ్రహ్మవిరచితం
దేవీకవచం సమాప్తమ్ ॥
॥ దేవీ మాహాత్మ్యమ్ ॥
%
॥ శ్రీదుర్గాయై నమః ॥
॥ అథ శ్రీదుర్గాసప్తశతీ ॥
॥ ౧. మధుకైటభవధో నామ ప్రథమోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ ప్రథమచరిత్రస్య । బ్రహ్మా ఋషిః ।
మహాకాలీ దేవతా । గాయత్రీ ఛన్దః । నన్దా శక్తిః ।
రక్తదన్తికా బీజమ్ । అగ్నిస్తత్త్వమ్ ।
ఋగ్వేదః స్వరూపమ్ । శ్రీమహాకాలీప్రీత్యర్థే
ప్రథమచరిత్రజపే వినియోగః ।
। ధ్యానమ్ ।
ఓం ఖడ్గం చక్రగదేషుచాపపరిఘాఞ్ఛూలం భుశుణ్డీం శిరః
శఙ్ఖం సన్దధతీం కరైస్త్రినయనాం సర్వాఙ్గభూషావృతామ్ ।
నీలాశ్మద్యుతిమాస్యపాదదశకాం సేవే మహాకాలికాం
యామస్తౌత్స్వపితే హరౌ కమలజో హన్తుం మధుం కైటభమ్ ॥
ఓం నమశ్చణ్డికాయై ॥
ఓం ఐం మార్కణ్డేయ ఉవాచ ॥ ౧.౧॥
సావర్ణిః సూర్యతనయో యో మనుః కథ్యతేఽష్టమః ।
నిశామయ తదుత్పత్తిం విస్తరాద్గదతో మమ ॥ ౧.౨॥
మహామాయానుభావేన యథా మన్వన్తరాధిపః ।
స బభూవ మహాభాగః సావర్ణిస్తనయో రవేః ॥ ౧.౩॥
స్వారోచిషేఽన్తరే పూర్వం చైత్రవంశసముద్భవః ।
సురథో నామ రాజాభూత్సమస్తే క్షితిమణ్డలే ॥ ౧.౪॥
తస్య పాలయతః సమ్యక్ ప్రజాః పుత్రానివౌరసాన్ ।
బభూవుః శత్రవో భూపాః కోలావిధ్వంసినస్తదా ॥ ౧.౫॥
తస్య తైరభవద్ యుద్ధమతిప్రబలదణ్డినః ।
న్యూనైరపి స తైర్యుద్ధే కోలావిధ్వంసిభిర్జితః ॥ ౧.౬॥
తతః స్వపురమాయాతో నిజదేశాధిపోఽభవత్ ।
ఆక్రాన్తః స మహాభాగస్తైస్తదా ప్రబలారిభిః ॥ ౧.౭॥
అమాత్యైర్బలిభిర్దుష్టైర్దుర్బలస్య దురాత్మభిః ।
కోశో బలం చాపహృతం తత్రాపి స్వపురే తతః ॥ ౧.౮॥
తతో మృగయావ్యాజేన హృతస్వామ్యః స భూపతిః ।
ఏకాకీ హయమారుహ్య జగామ గహనం వనమ్ ॥ ౧.౯॥
స తత్రాశ్రమమద్రాక్షీద్ద్విజవర్యస్య మేధసః ।
ప్రశాన్తశ్వాపదాకీర్ణం మునిశిష్యోపశోభితమ్ ॥ ౧.౧౦॥
తస్థౌ కఞ్చిత్స కాలం చ మునినా తేన సత్కృతః ।
ఇతశ్చేతశ్చ విచరంస్తస్మిన్ మునివరాశ్రమే ॥ ౧.౧౧॥
సోఽచిన్తయత్తదా తత్ర మమత్వాకృష్టమానసః ।
మత్పూర్వైః పాలితం పూర్వం మయా హీనం పురం హి తత్ ॥ ౧.౧౨॥
మద్భృత్యైస్తైరసద్వృత్తైర్ధర్మతః పాల్యతే న వా ।
న జానే స ప్రధానో మే శూరో హస్తీ సదామదః ॥ ౧.౧౩॥
మమ వైరివశం యాతః కాన్ భోగానుపలప్స్యతే ।
యే మమానుగతా నిత్యం ప్రసాదధనభోజనైః ॥ ౧.౧౪॥
అనువృత్తిం ధ్రువం తేఽద్య కుర్వన్త్యన్యమహీభృతామ్ ।
అసమ్యగ్వ్యయశీలైస్తైః కుర్వద్భిః సతతం వ్యయమ్ ॥ ౧.౧౫॥
సఞ్చితః సోఽతిదుఃఖేన క్షయం కోశో గమిష్యతి ।
ఏతచ్చాన్యచ్చ సతతం చిన్తయామాస పార్థివః ॥ ౧.౧౬॥
తత్ర విప్రాశ్రమాభ్యాశే వైశ్యమేకం దదర్శ సః ।
స పృష్టస్తేన కస్త్వం భో హేతుశ్చాగమనేఽత్ర కః ॥ ౧.౧౭॥
సశోక ఇవ కస్మాత్త్వం దుర్మనా ఇవ లక్ష్యసే ।
ఇత్యాకర్ణ్య వచస్తస్య భూపతేః ప్రణయోదితమ్ ॥ ౧.౧౮॥
ప్రత్యువాచ స తం వైశ్యః ప్రశ్రయావనతో నృపమ్ ॥ ౧.౧౯॥
వైశ్య ఉవాచ ॥ ౧.౨౦॥
సమాధిర్నామ వైశ్యోఽహముత్పన్నో ధనినాం కులే ॥ ౧.౨౧॥
పుత్రదారైర్నిరస్తశ్చ ధనలోభాదసాధుభిః ।
విహీనశ్చ ధనైర్దారైః పుత్రైరాదాయ మే ధనమ్ ॥ ౧.౨౨॥
వనమభ్యాగతో దుఃఖీ నిరస్తశ్చాప్తబన్ధుభిః ।
సోఽహం న వేద్మి పుత్రాణాం కుశలాకుశలాత్మికామ్ ॥ ౧.౨౩॥
ప్రవృత్తిం స్వజనానాం చ దారాణాం చాత్ర సంస్థితః ।
కిం ను తేషాం గృహే క్షేమమక్షేమం కిం ను సామ్ప్రతమ్ ॥ ౧.౨౪॥
కథం తే కిం ను సద్వృత్తా దుర్వృత్తాః కిం ను మే సుతాః ॥ ౧.౨౫॥
రాజోవాచ ॥ ౧.౨౬॥
యైర్నిరస్తో భవాఁల్లుబ్ధైః పుత్రదారాదిభిర్ధనైః ॥ ౧.౨౭॥
తేషు కిం భవతః స్నేహమనుబధ్నాతి మానసమ్ ॥ ౧.౨౮॥
వైశ్య ఉవాచ ॥ ౧.౨౯॥
ఏవమేతద్యథా ప్రాహ భవానస్మద్గతం వచః ॥ ౧.౩౦॥
కిం కరోమి న బధ్నాతి మమ నిష్ఠురతాం మనః ।
యైః సన్త్యజ్య పితృస్నేహం ధనలుబ్ధైర్నిరాకృతః ॥ ౧.౩౧॥
పతిస్వజనహార్దం చ హార్దితేష్వేవ మే మనః ।
కిమేతన్నాభిజానామి జానన్నపి మహామతే ॥ ౧.౩౨॥
యత్ప్రేమప్రవణం చిత్తం విగుణేష్వపి బన్ధుషు ।
తేషాం కృతే మే నిఃశ్వాసో దౌర్మనస్యం చ జాయతే ॥ ౧.౩౩॥
కరోమి కిం యన్న మనస్తేష్వప్రీతిషు నిష్ఠురమ్ ॥ ౧.౩౪॥
మార్కణ్డేయ ఉవాచ ॥ ౧.౩౫॥
తతస్తౌ సహితౌ విప్ర తం మునిం సముపస్థితౌ ॥ ౧.౩౬॥
సమాధిర్నామ వైశ్యోఽసౌ స చ పార్థివసత్తమః ।
కృత్వా తు తౌ యథాన్యాయం యథార్హం తేన సంవిదమ్ ॥ ౧.౩౭॥
ఉపవిష్టౌ కథాః కాశ్చిచ్చక్రతుర్వైశ్యపార్థివౌ ॥ ౧.౩౮॥
రాజోవాచ ॥ ౧.౩౯॥
భగవంస్త్వామహం ప్రష్టుమిచ్ఛామ్యేకం వదస్వ తత్ ॥ ౧.౪౦॥
దుఃఖాయ యన్మే మనసః స్వచిత్తాయత్తతాం వినా ।
మమత్వం గతరాజ్యస్య రాజ్యాఙ్గేష్వఖిలేష్వపి ॥ ౧.౪౧॥
జానతోఽపి యథాజ్ఞస్య కిమేతన్మునిసత్తమ ।
అయం చ నికృతః పుత్రైర్దారైర్భృత్యైస్తథోజ్ఝితః ॥ ౧.౪౨॥
స్వజనేన చ సన్త్యక్తస్తేషు హార్దీ తథాప్యతి ।
ఏవమేష తథాహం చ ద్వావప్యత్యన్తదుఃఖితౌ ॥ ౧.౪౩॥
దృష్టదోషేఽపి విషయే మమత్వాకృష్టమానసౌ ।
తత్కిమేతన్మహాభాగ యన్మోహో జ్ఞానినోరపి ॥ ౧.౪౪॥
మమాస్య చ భవత్యేషా వివేకాన్ధస్య మూఢతా ॥ ౧.౪౫॥
ఋషిరువాచ ॥ ౧.౪౬॥
జ్ఞానమస్తి సమస్తస్య జన్తోర్విషయగోచరే ॥ ౧.౪౭॥
విషయాశ్చ మహాభాగ యాన్తి చైవం పృథక్పృథక్ ।
దివాన్ధాః ప్రాణినః కేచిద్రాత్రావన్ధాస్తథాపరే ॥ ౧.౪౮॥
కేచిద్దివా తథా రాత్రౌ ప్రాణినస్తుల్యదృష్టయః ।
జ్ఞానినో మనుజాః సత్యం కిం తు తే న హి కేవలమ్ ॥ ౧.౪౯॥
యతో హి జ్ఞానినః సర్వే పశుపక్షిమృగాదయః ।
జ్ఞానం చ తన్మనుష్యాణాం యత్తేషాం మృగపక్షిణామ్ ॥ ౧.౫౦॥
మనుష్యాణాం చ యత్తేషాం తుల్యమన్యత్తథోభయోః ।
జ్ఞానేఽపి సతి పశ్యైతాన్ పతఙ్గాఞ్ఛావచఞ్చుషు ॥ ౧.౫౧॥
కణమోక్షాదృతాన్ మోహాత్పీడ్యమానానపి క్షుధా ।
మానుషా మనుజవ్యాఘ్ర సాభిలాషాః సుతాన్ ప్రతి ॥ ౧.౫౨॥
లోభాత్ ప్రత్యుపకారాయ నన్వేతాన్ కిం న పశ్యసి ।
తథాపి మమతావర్త్తే మోహగర్తే నిపాతితాః ॥ ౧.౫౩॥
మహామాయాప్రభావేణ సంసారస్థితికారిణా ।
తన్నాత్ర విస్మయః కార్యో యోగనిద్రా జగత్పతేః ॥ ౧.౫౪॥
మహామాయా హరేశ్చైషా తయా సమ్మోహ్యతే జగత్ ।
జ్ఞానినామపి చేతాంసి దేవీ భగవతీ హి సా ॥ ౧.౫౫॥
బలాదాకృష్య మోహాయ మహామాయా ప్రయచ్ఛతి ।
తయా విసృజ్యతే విశ్వం జగదేతచ్చరాచరమ్ ॥ ౧.౫౬॥
సైషా ప్రసన్నా వరదా నృణాం భవతి ముక్తయే ।
సా విద్యా పరమా ముక్తేర్హేతుభూతా సనాతనీ ॥ ౧.౫౭॥
సంసారబన్ధహేతుశ్చ సైవ సర్వేశ్వరేశ్వరీ ॥ ౧.౫౮॥
రాజోవాచ ॥ ౧.౫౯॥
భగవన్ కా హి సా దేవీ మహామాయేతి యాం భవాన్ ॥ ౧.౬౦॥
బ్రవీతి కథముత్పన్నా సా కర్మాస్యాశ్చ కిం ద్విజ ।
యత్ప్రభావా చ సా దేవీ యత్స్వరూపా యదుద్భవా ॥ ౧.౬౧॥
తత్సర్వం శ్రోతుమిచ్ఛామి త్వత్తో బ్రహ్మవిదాం వర ॥ ౧.౬౨॥
ఋషిరువాచ ॥ ౧.౬౩॥
నిత్యైవ సా జగన్మూర్తిస్తయా సర్వమిదం తతమ్ ॥ ౧.౬౪॥
తథాపి తత్సముత్పత్తిర్బహుధా శ్రూయతాం మమ ।
దేవానాం కార్యసిద్ధ్యర్థమావిర్భవతి సా యదా ॥ ౧.౬౫॥
ఉత్పన్నేతి తదా లోకే సా నిత్యాప్యభిధీయతే ।
యోగనిద్రాం యదా విష్ణుర్జగత్యేకార్ణవీకృతే ॥ ౧.౬౬॥
ఆస్తీర్య శేషమభజత్ కల్పాన్తే భగవాన్ ప్రభుః ।
తదా ద్వావసురౌ ఘోరౌ విఖ్యాతౌ మధుకైటభౌ ॥ ౧.౬౭॥
విష్ణుకర్ణమలోద్భూతౌ హన్తుం బ్రహ్మాణముద్యతౌ ।
స నాభికమలే విష్ణోః స్థితో బ్రహ్మా ప్రజాపతిః ॥ ౧.౬౮॥
దృష్ట్వా తావసురౌ చోగ్రౌ ప్రసుప్తం చ జనార్దనమ్ ।
తుష్టావ యోగనిద్రాం తామేకాగ్రహృదయః స్థితః ॥ ౧.౬౯॥
విబోధనార్థాయ హరేర్హరినేత్రకృతాలయామ్ ।
విశ్వేశ్వరీం జగద్ధాత్రీం స్థితిసంహారకారిణీమ్ ॥ ౧.౭౦॥
నిద్రాం భగవతీం విష్ణోరతులాం తేజసః ప్రభుః ॥ ౧.౭౧॥
బ్రహ్మోవాచ ॥ ౧.౭౨॥
త్వం స్వాహా త్వం స్వధా త్వం హి వషట్కారః స్వరాత్మికా ॥ ౧.౭౩॥
సుధా త్వమక్షరే నిత్యే త్రిధా మాత్రాత్మికా స్థితా ।
అర్ధమాత్రా స్థితా నిత్యా యానుచ్చార్యావిశేషతః ॥ ౧.౭౪॥
త్వమేవ సన్ధ్యా సావిత్రీ త్వం దేవి జననీ పరా ।
త్వయైతద్ధార్యతే విశ్వం త్వయైతత్ సృజ్యతే జగత్ ॥ ౧.౭౫॥
త్వయైతత్ పాల్యతే దేవి త్వమత్స్యన్తే చ సర్వదా ।
విసృష్టౌ సృష్టిరూపా త్వం స్థితిరూపా చ పాలనే ॥ ౧.౭౬॥
తథా సంహృతిరూపాన్తే జగతోఽస్య జగన్మయే ।
మహావిద్యా మహామాయా మహామేధా మహాస్మృతిః ॥ ౧.౭౭॥
మహామోహా చ భవతీ మహాదేవీ మహేశ్వరీ ।
ప్రకృతిస్త్వం చ సర్వస్య గుణత్రయవిభావినీ ॥ ౧.౭౮॥
కాలరాత్రిర్మహారాత్రిర్మోహరాత్రిశ్చ దారుణా ।
త్వం శ్రీస్త్వమీశ్వరీ త్వం హ్రీస్త్వం బుద్ధిర్బోధలక్షణా ॥ ౧.౭౯॥
లజ్జా పుష్టిస్తథా తుష్టిస్త్వం శాన్తిః క్షాన్తిరేవ చ ।
ఖడ్గినీ శూలినీ ఘోరా గదినీ చక్రిణీ తథా ॥ ౧.౮౦॥
శఙ్ఖినీ చాపినీ బాణభుశుణ్డీపరిఘాయుధా ।
సౌమ్యా సౌమ్యతరాశేషసౌమ్యేభ్యస్త్వతిసున్దరీ ॥ ౧.౮౧॥
పరాపరాణాం పరమా త్వమేవ పరమేశ్వరీ ।
యచ్చ కిఞ్చిత్క్వచిద్వస్తు సదసద్వాఖిలాత్మికే ॥ ౧.౮౨॥
తస్య సర్వస్య యా శక్తిః సా త్వం కిం స్తూయసే మయా ।
యయా త్వయా జగత్స్రష్టా జగత్పాత్యత్తి యో జగత్ ॥ ౧.౮౩॥
సోఽపి నిద్రావశం నీతః కస్త్వాం స్తోతుమిహేశ్వరః ।
విష్ణుః శరీరగ్రహణమహమీశాన ఏవ చ ॥ ౧.౮౪॥
కారితాస్తే యతోఽతస్త్వాం కః స్తోతుం శక్తిమాన్ భవేత్ ।
సా త్వమిత్థం ప్రభావైః స్వైరుదారైర్దేవి సంస్తుతా ॥ ౧.౮౫॥
మోహయైతౌ దురాధర్షావసురౌ మధుకైటభౌ ।
ప్రబోధం చ జగత్స్వామీ నీయతామచ్యుతో లఘు ॥ ౧.౮౬॥
బోధశ్చ క్రియతామస్య హన్తుమేతౌ మహాసురౌ ॥ ౧.౮౭॥
ఋషిరువాచ ॥ ౧.౮౮॥
ఏవం స్తుతా తదా దేవీ తామసీ తత్ర వేధసా ॥ ౧.౮౯॥
విష్ణోః ప్రబోధనార్థాయ నిహన్తుం మధుకైటభౌ ।
నేత్రాస్యనాసికాబాహుహృదయేభ్యస్తథోరసః ॥ ౧.౯౦॥
నిర్గమ్య దర్శనే తస్థౌ బ్రహ్మణోఽవ్యక్తజన్మనః ।
ఉత్తస్థౌ చ జగన్నాథస్తయా ముక్తో జనార్దనః ॥ ౧.౯౧॥
ఏకార్ణవేఽహిశయనాత్తతః స దదృశే చ తౌ ।
మధుకైటభౌ దురాత్మానావతివీర్యపరాక్రమౌ ॥ ౧.౯౨॥
క్రోధరక్తేక్షణావత్తుం బ్రహ్మాణం జనితోద్యమౌ ।
సముత్థాయ తతస్తాభ్యాం యుయుధే భగవాన్ హరిః ॥ ౧.౯౩॥
పఞ్చవర్షసహస్రాణి బాహుప్రహరణో విభుః ।
తావప్యతిబలోన్మత్తౌ మహామాయావిమోహితౌ ॥ ౧.౯౪॥
ఉక్తవన్తౌ వరోఽస్మత్తో వ్రియతామితి కేశవమ్ ॥ ౧.౯౫॥
శ్రీభగవానువాచ ॥ ౧.౯౬॥
భవేతామద్య మే తుష్టౌ మమ వధ్యావుభావపి ॥ ౧.౯౭॥
కిమన్యేన వరేణాత్ర ఏతావద్ధి వృతం మయా ॥ ౧.౯౮॥
ఋషిరువాచ ॥ ౧.౯౯॥
వఞ్చితాభ్యామితి తదా సర్వమాపోమయం జగత్ ॥ ౧.౧౦౦॥
విలోక్య తాభ్యాం గదితో భగవాన్ కమలేక్షణః ।
ఆవాం జహి న యత్రోర్వీ సలిలేన పరిప్లుతా ॥ ౧.౧౦౧॥
ఋషిరువాచ ॥ ౧.౧౦౨॥
తథేత్యుక్త్వా భగవతా శఙ్ఖచక్రగదాభృతా ।
కృత్వా చక్రేణ వై ఛిన్నే జఘనే శిరసీ తయోః ॥ ౧.౧౦౩॥
ఏవమేషా సముత్పన్నా బ్రహ్మణా సంస్తుతా స్వయమ్ ।
ప్రభావమస్యా దేవ్యాస్తు భూయః శృణు వదామి తే ॥ ౧.౧౦౪॥
। ఐం ఓం ।
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మధుకైటభవధో నామ ప్రథమోఽధ్యాయః ॥ ౧॥
ఉవాచ ౧౪, అర్ధశ్లోకాః ౨౪, శ్లోకాః ౬౬, ఏవమాదితః ॥ ౧౦౪॥
॥ ౨. మహిషాసురసైన్యవధో నామ ద్వితీయోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ మధ్యమచరిత్రస్య విష్ణురృషిః ।
శ్రీమహాలక్ష్మీర్దేవతా ।
ఉష్ణిక్ ఛన్దః । శాకమ్భరీ శక్తిః । దుర్గా బీజమ్ ।
వాయుస్తత్త్వమ్ ।
యజుర్వేదః స్వరూపమ్ । శ్రీమహాలక్ష్మీప్రీత్యర్థే
మధ్యమచరిత్రజపే వినియోగః ।
। ధ్యానమ్ ।
ఓం అక్షస్రక్పరశూ గదేషుకులిశం పద్మం ధనుః కుణ్డికాం
దణ్డం శక్తిమసిం చ చర్మ జలజం ఘణ్టాం సురాభాజనమ్ ।
శూలం పాశసుదర్శనే చ దధతీం హస్తైః ప్రవాలప్రభాం
సేవే సైరిభమర్దినీమిహ మహాలక్ష్మీం సరోజస్థితామ్ ॥
ఓం హ్రీం ఋషిరువాచ ॥ ౨.౧॥
దేవాసురమభూద్యుద్ధం పూర్ణమబ్దశతం పురా ।
మహిషేఽసురాణామధిపే దేవానాం చ పురన్దరే ॥ ౨.౨॥
తత్రాసురైర్మహావీర్యైర్దేవసైన్యం పరాజితమ్ ।
జిత్వా చ సకలాన్ దేవానిన్ద్రోఽభూన్మహిషాసురః ॥ ౨.౩॥
తతః పరాజితా దేవాః పద్మయోనిం ప్రజాపతిమ్ ।
పురస్కృత్య గతాస్తత్ర యత్రేశగరుడధ్వజౌ ॥ ౨.౪॥
యథావృత్తం తయోస్తద్వన్మహిషాసురచేష్టితమ్ ।
త్రిదశాః కథయామాసుర్దేవాభిభవవిస్తరమ్ ॥ ౨.౫॥
సూర్యేన్ద్రాగ్న్యనిలేన్దూనాం యమస్య వరుణస్య చ ।
అన్యేషాం చాధికారాన్స స్వయమేవాధితిష్ఠతి ॥ ౨.౬॥
స్వర్గాన్నిరాకృతాః సర్వే తేన దేవగణా భువి ।
విచరన్తి యథా మర్త్యా మహిషేణ దురాత్మనా ॥ ౨.౭॥
ఏతద్వః కథితం సర్వమమరారివిచేష్టితమ్ ।
శరణం వః ప్రపన్నాః స్మో వధస్తస్య విచిన్త్యతామ్ ॥ ౨.౮॥
ఇత్థం నిశమ్య దేవానాం వచాంసి మధుసూదనః ।
చకార కోపం శమ్భుశ్చ భ్రుకుటీకుటిలాననౌ ॥ ౨.౯॥
తతోఽతికోపపూర్ణస్య చక్రిణో వదనాత్తతః ।
నిశ్చక్రామ మహత్తేజో బ్రహ్మణః శఙ్కరస్య చ ॥ ౨.౧౦॥
అన్యేషాం చైవ దేవానాం శక్రాదీనాం శరీరతః ।
నిర్గతం సుమహత్తేజస్తచ్చైక్యం సమగచ్ఛత ॥ ౨.౧౧॥
అతీవ తేజసః కూటం జ్వలన్తమివ పర్వతమ్ ।
దదృశుస్తే సురాస్తత్ర జ్వాలావ్యాప్తదిగన్తరమ్ ॥ ౨.౧౨॥
అతులం తత్ర తత్తేజః సర్వదేవశరీరజమ్ ।
ఏకస్థం తదభూన్నారీ వ్యాప్తలోకత్రయం త్విషా ॥ ౨.౧౩॥
యదభూచ్ఛామ్భవం తేజస్తేనాజాయత తన్ముఖమ్ ।
యామ్యేన చాభవన్ కేశా బాహవో విష్ణుతేజసా ॥ ౨.౧౪॥
సౌమ్యేన స్తనయోర్యుగ్మం మధ్యం చైన్ద్రేణ చాభవత్ ।
వారుణేన చ జఙ్ఘోరూ నితమ్బస్తేజసా భువః ॥ ౨.౧౫॥
బ్రహ్మణస్తేజసా పాదౌ తదఙ్గుల్యోఽర్కతేజసా ।
వసూనాం చ కరాఙ్గుల్యః కౌబేరేణ చ నాసికా ॥ ౨.౧౬॥
తస్యాస్తు దన్తాః సమ్భూతాః ప్రాజాపత్యేన తేజసా ।
నయనత్రితయం జజ్ఞే తథా పావకతేజసా ॥ ౨.౧౭॥
భ్రువౌ చ సన్ధ్యయోస్తేజః శ్రవణావనిలస్య చ ।
అన్యేషాం చైవ దేవానాం సమ్భవస్తేజసాం శివా ॥ ౨.౧౮॥
తతః సమస్తదేవానాం తేజోరాశిసముద్భవామ్ ।
తాం విలోక్య ముదం ప్రాపురమరా మహిషార్దితాః ।
తతో దేవా దదుస్తస్యై స్వాని స్వాన్యాయుధాని చ ॥ ౨.౧౯॥
శూలం శూలాద్వినిష్కృష్య దదౌ తస్యై పినాకధృక్ ।
చక్రం చ దత్తవాన్ కృష్ణః సముత్పాట్య స్వచక్రతః ॥ ౨.౨౦॥
శఙ్ఖం చ వరుణః శక్తిం దదౌ తస్యై హుతాశనః ।
మారుతో దత్తవాంశ్చాపం బాణపూర్ణే తథేషుధీ ॥ ౨.౨౧॥
వజ్రమిన్ద్రః సముత్పాట్య కులిశాదమరాధిపః ।
దదౌ తస్యై సహస్రాక్షో ఘణ్టామైరావతాద్గజాత్ ॥ ౨.౨౨॥
కాలదణ్డాద్యమో దణ్డం పాశం చామ్బుపతిర్దదౌ ।
ప్రజాపతిశ్చాక్షమాలాం దదౌ బ్రహ్మా కమణ్డలుమ్ ॥ ౨.౨౩॥
సమస్తరోమకూపేషు నిజరశ్మీన్ దివాకరః ।
కాలశ్చ దత్తవాన్ ఖడ్గం తస్యై చర్మ చ నిర్మలమ్ ॥ ౨.౨౪॥
క్షీరోదశ్చామలం హారమజరే చ తథామ్బరే ।
చూడామణిం తథా దివ్యం కుణ్డలే కటకాని చ ॥ ౨.౨౫॥
అర్ధచన్ద్రం తథా శుభ్రం కేయూరాన్ సర్వబాహుషు ।
నూపురౌ విమలౌ తద్వద్ గ్రైవేయకమనుత్తమమ్ ॥ ౨.౨౬॥
అఙ్గులీయకరత్నాని సమస్తాస్వఙ్గులీషు చ ।
విశ్వకర్మా దదౌ తస్యై పరశుం చాతినిర్మలమ్ ॥ ౨.౨౭॥
అస్త్రాణ్యనేకరూపాణి తథాభేద్యం చ దంశనమ్ ।
అమ్లానపఙ్కజాం మాలాం శిరస్యురసి చాపరామ్ ॥ ౨.౨౮॥
అదదజ్జలధిస్తస్యై పఙ్కజం చాతిశోభనమ్ ।
హిమవాన్ వాహనం సింహం రత్నాని వివిధాని చ ॥ ౨.౨౯॥
దదావశూన్యం సురయా పానపాత్రం ధనాధిపః ।
శేషశ్చ సర్వనాగేశో మహామణివిభూషితమ్ ॥ ౨.౩౦॥
నాగహారం దదౌ తస్యై ధత్తే యః పృథివీమిమామ్ ।
అన్యైరపి సురైర్దేవీ భూషణైరాయుధైస్తథా ॥ ౨.౩౧॥
సమ్మానితా ననాదోచ్చైః సాట్టహాసం ముహుర్ముహుః ।
తస్యా నాదేన ఘోరేణ కృత్స్నమాపూరితం నభః ॥ ౨.౩౨॥
అమాయతాతిమహతా ప్రతిశబ్దో మహానభూత్ ।
చుక్షుభుః సకలా లోకాః సముద్రాశ్చ చకమ్పిరే ॥ ౨.౩౩॥
చచాల వసుధా చేలుః సకలాశ్చ మహీధరాః ।
జయేతి దేవాశ్చ ముదా తామూచుః సింహవాహినీమ్ ॥ ౨.౩౪॥
తుష్టువుర్మునయశ్చైనాం భక్తినమ్రాత్మమూర్తయః ।
దృష్ట్వా సమస్తం సఙ్క్షుబ్ధం త్రైలోక్యమమరారయః ॥ ౨.౩౫॥
సన్నద్ధాఖిలసైన్యాస్తే సముత్తస్థురుదాయుధాః ।
ఆః కిమేతదితి క్రోధాదాభాష్య మహిషాసురః ॥ ౨.౩౬॥
అభ్యధావత తం శబ్దమశేషైరసురైర్వృతః ।
స దదర్శ తతో దేవీం వ్యాప్తలోకత్రయాం త్విషా ॥ ౨.౩౭॥
పాదాక్రాన్త్యా నతభువం కిరీటోల్లిఖితామ్బరామ్ ।
క్షోభితాశేషపాతాలాం ధనుర్జ్యానిఃస్వనేన తామ్ ॥ ౨.౩౮॥
దిశో భుజసహస్రేణ సమన్తాద్వ్యాప్య సంస్థితామ్ ।
తతః ప్రవవృతే యుద్ధం తయా దేవ్యా సురద్విషామ్ ॥ ౨.౩౯॥
శస్త్రాస్త్రైర్బహుధా ముక్తైరాదీపితదిగన్తరమ్ ।
మహిషాసురసేనానీశ్చిక్షురాఖ్యో మహాసురః ॥ ౨.౪౦॥
యుయుధే చామరశ్చాన్యైశ్చతురఙ్గబలాన్వితః ।
రథానామయుతైః షడ్భిరుదగ్రాఖ్యో మహాసురః ॥ ౨.౪౧॥
అయుధ్యతాయుతానాం చ సహస్రేణ మహాహనుః ।
పఞ్చాశద్భిశ్చ నియుతైరసిలోమా మహాసురః ॥ ౨.౪౨॥
అయుతానాం శతైః షడ్భిర్బాష్కలో యుయుధే రణే ।
గజవాజిసహస్రౌఘైరనేకైః పరివారితః ॥ ౨.౪౩॥
వృతో రథానాం కోట్యా చ యుద్ధే తస్మిన్నయుధ్యత ।
బిడాలాఖ్యోఽయుతానాం చ పఞ్చాశద్భిరథాయుతైః ॥ ౨.౪౪॥
యుయుధే సంయుగే తత్ర రథానాం పరివారితః ।
అన్యే చ తత్రాయుతశో రథనాగహయైర్వృతాః ॥ ౨.౪౫॥
యుయుధుః సంయుగే దేవ్యా సహ తత్ర మహాసురాః ।
కోటికోటిసహస్రైస్తు రథానాం దన్తినాం తథా ॥ ౨.౪౬॥
హయానాం చ వృతో యుద్ధే తత్రాభూన్మహిషాసురః ।
తోమరైర్భిన్దిపాలైశ్చ శక్తిభిర్ముసలైస్తథా ॥ ౨.౪౭॥
యుయుధుః సంయుగే దేవ్యా ఖడ్గైః పరశుపట్టిశైః ।
కేచిచ్చ చిక్షిపుః శక్తీః కేచిత్ పాశాంస్తథాపరే ॥ ౨.౪౮॥
దేవీం ఖడ్గప్రహారైస్తు తే తాం హన్తుం ప్రచక్రముః ।
సాపి దేవీ తతస్తాని శస్త్రాణ్యస్త్రాణి చణ్డికా ॥ ౨.౪౯॥
లీలయైవ ప్రచిచ్ఛేద నిజశస్త్రాస్త్రవర్షిణీ ।
అనాయస్తాననా దేవీ స్తూయమానా సురర్షిభిః ॥ ౨.౫౦॥
ముమోచాసురదేహేషు శస్త్రాణ్యస్త్రాణి చేశ్వరీ ।
సోఽపి క్రుద్ధో ధుతసటో దేవ్యా వాహనకేసరీ ॥ ౨.౫౧॥
చచారాసురసైన్యేషు వనేష్వివ హుతాశనః ।
నిఃశ్వాసాన్ ముముచే యాంశ్చ యుధ్యమానా రణేఽమ్బికా ॥ ౨.౫౨॥
త ఏవ సద్యః సమ్భూతా గణాః శతసహస్రశః ।
యుయుధుస్తే పరశుభిర్భిన్దిపాలాసిపట్టిశైః ॥ ౨.౫౩॥
నాశయన్తోఽసురగణాన్ దేవీశక్త్యుపబృంహితాః ।
అవాదయన్త పటహాన్ గణాః శఙ్ఖాంస్తథాపరే ॥ ౨.౫౪॥
మృదఙ్గాంశ్చ తథైవాన్యే తస్మిన్ యుద్ధమహోత్సవే ।
తతో దేవీ త్రిశూలేన గదయా శక్తివృష్టిభిః ॥ ౨.౫౫॥
ఖడ్గాదిభిశ్చ శతశో నిజఘాన మహాసురాన్ ।
పాతయామాస చైవాన్యాన్ ఘణ్టాస్వనవిమోహితాన్ ॥ ౨.౫౬॥
అసురాన్ భువి పాశేన బద్ధ్వా చాన్యానకర్షయత్ ।
కేచిద్ ద్విధాకృతాస్తీక్ష్ణైః ఖడ్గపాతైస్తథాపరే ॥ ౨.౫౭॥
విపోథితా నిపాతేన గదయా భువి శేరతే ।
వేముశ్చ కేచిద్రుధిరం ముసలేన భృశం హతాః ॥ ౨.౫౮॥
కేచిన్నిపతితా భూమౌ భిన్నాః శూలేన వక్షసి ।
నిరన్తరాః శరౌఘేణ కృతాః కేచిద్రణాజిరే ॥ ౨.౫౯॥
శ్యేనానుకారిణః ప్రాణాన్ ముముచుస్త్రిదశార్దనాః ।
కేషాఞ్చిద్ బాహవశ్ఛిన్నాశ్ఛిన్నగ్రీవాస్తథాపరే ॥ ౨.౬౦॥
శిరాంసి పేతురన్యేషామన్యే మధ్యే విదారితాః ।
విచ్ఛిన్నజఙ్ఘాస్త్వపరే పేతురుర్వ్యాం మహాసురాః ॥ ౨.౬౧॥
ఏకబాహ్వక్షిచరణాః కేచిద్దేవ్యా ద్విధాకృతాః ।
ఛిన్నేఽపి చాన్యే శిరసి పతితాః పునరుత్థితాః ॥ ౨.౬౨॥
కబన్ధా యుయుధుర్దేవ్యా గృహీతపరమాయుధాః ।
ననృతుశ్చాపరే తత్ర యుద్ధే తూర్యలయాశ్రితాః ॥ ౨.౬౩॥
కబన్ధాశ్ఛిన్నశిరసః ఖడ్గశక్త్యృష్టిపాణయః ।
తిష్ఠ తిష్ఠేతి భాషన్తో దేవీమన్యే మహాసురాః ॥ ౨.౬౪॥
పాతితై రథనాగాశ్వైరసురైశ్చ వసున్ధరా ।
అగమ్యా సాభవత్తత్ర యత్రాభూత్ స మహారణః ॥ ౨.౬౫॥
శోణితౌఘా మహానద్యః సద్యస్తత్ర ప్రసుస్రువుః ।
మధ్యే చాసురసైన్యస్య వారణాసురవాజినామ్ ॥ ౨.౬౬॥
క్షణేన తన్మహాసైన్యమసురాణాం తథామ్బికా ।
నిన్యే క్షయం యథా వహ్నిస్తృణదారుమహాచయమ్ ॥ ౨.౬౭॥
స చ సింహో మహానాదముత్సృజన్ ధుతకేసరః ।
శరీరేభ్యోఽమరారీణామసూనివ విచిన్వతి ॥ ౨.౬౮॥
దేవ్యా గణైశ్చ తైస్తత్ర కృతం యుద్ధం తథాసురైః ।
యథైషాం తుతుషుర్దేవాః పుష్పవృష్టిముచో దివి ॥ ౨.౬౯॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మహిషాసురసైన్యవధో నామ ద్వితీయోఽధ్యాయః ॥ ౨॥
ఉవాచ ౧, అర్ధశ్లోకాః ౬౮, శ్లోకాః ౬౯, ఏవమాదితః ॥ ౧౭౩॥
॥ ౩. మహిషాసురవధో నామ తృతీయోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం ఉద్యద్భానుసహస్రకాన్తిమరుణక్షౌమాం శిరోమాలికాం
రక్తాలిప్తపయోధరాం జపవటీం విద్యామభీతిం వరమ్ ।
హస్తాబ్జైర్దధతీం త్రినేత్రవిలసద్వక్త్రారవిన్దశ్రియం
దేవీం బద్ధహిమాంశురత్నముకుటాం వన్దేఽరవిన్దస్థితామ్ ।
ఓం ఋషిరువాచ ॥ ౩.౧॥
నిహన్యమానం తత్సైన్యమవలోక్య మహాసురః ।
సేనానీశ్చిక్షురః కోపాద్యయౌ యోద్ధుమథామ్బికామ్ ॥ ౩.౨॥
స దేవీం శరవర్షేణ వవర్ష సమరేఽసురః ।
యథా మేరుగిరేః శృఙ్గం తోయవర్షేణ తోయదః ॥ ౩.౩॥
తస్య ఛిత్వా తతో దేవీ లీలయైవ శరోత్కరాన్ ।
జఘాన తురగాన్బాణైర్యన్తారం చైవ వాజినామ్ ॥ ౩.౪॥
చిచ్ఛేద చ ధనుః సద్యో ధ్వజం చాతిసముచ్ఛృతమ్ ।
వివ్యాధ చైవ గాత్రేషు ఛిన్నధన్వానమాశుగైః ॥ ౩.౫॥
సచ్ఛిన్నధన్వా విరథో హతాశ్వో హతసారథిః ।
అభ్యధావత తాం దేవీం ఖడ్గచర్మధరోఽసురః ॥ ౩.౬॥
సింహమాహత్య ఖడ్గేన తీక్ష్ణధారేణ మూర్ధని ।
ఆజఘాన భుజే సవ్యే దేవీమప్యతివేగవాన్ ॥ ౩.౭॥
తస్యాః ఖడ్గో భుజం ప్రాప్య పఫాల నృపనన్దన ।
తతో జగ్రాహ శూలం స కోపాదరుణలోచనః ॥ ౩.౮॥
చిక్షేప చ తతస్తత్తు భద్రకాల్యాం మహాసురః ।
జాజ్వల్యమానం తేజోభీ రవిబిమ్బమివామ్బరాత్ ॥ ౩.౯॥
దృష్ట్వా తదాపతచ్ఛూలం దేవీ శూలమముఞ్చత ।
తేన తచ్ఛతధా నీతం శూలం స చ మహాసురః ॥ ౩.౧౦॥
హతే తస్మిన్మహావీర్యే మహిషస్య చమూపతౌ ।
ఆజగామ గజారూఢశ్చామరస్త్రిదశార్దనః ॥ ౩.౧౧॥
సోఽపి శక్తిం ముమోచాథ దేవ్యాస్తామమ్బికా ద్రుతమ్ ।
హుఙ్కారాభిహతాం భూమౌ పాతయామాస నిష్ప్రభామ్ ॥ ౩.౧౨॥
భగ్నాం శక్తిం నిపతితాం దృష్ట్వా క్రోధసమన్వితః ।
చిక్షేప చామరః శూలం బాణైస్తదపి సాచ్ఛినత్ ॥ ౩.౧౩॥
తతః సింహః సముత్పత్య గజకుమ్భాన్తరే స్థితః ।
బాహుయుద్ధేన యుయుధే తేనోచ్చైస్త్రిదశారిణా ॥ ౩.౧౪॥
యుధ్యమానౌ తతస్తౌ తు తస్మాన్నాగాన్మహీం గతౌ ।
యుయుధాతేఽతిసంరబ్ధౌ ప్రహారైరతిదారుణైః ॥ ౩.౧౫॥
తతో వేగాత్ ఖముత్పత్య నిపత్య చ మృగారిణా ।
కరప్రహారేణ శిరశ్చామరస్య పృథక్ కృతమ్ ॥ ౩.౧౬॥
ఉదగ్రశ్చ రణే దేవ్యా శిలావృక్షాదిభిర్హతః ।
దన్తముష్టితలైశ్చైవ కరాలశ్చ నిపాతితః ॥ ౩.౧౭॥
దేవీ క్రుద్ధా గదాపాతైశ్చూర్ణయామాస చోద్ధతమ్ ।
బాష్కలం భిన్దిపాలేన బాణైస్తామ్రం తథాన్ధకమ్ ॥ ౩.౧౮॥
ఉగ్రాస్యముగ్రవీర్యం చ తథైవ చ మహాహనుమ్ ।
త్రినేత్రా చ త్రిశూలేన జఘాన పరమేశ్వరీ ॥ ౩.౧౯॥
బిడాలస్యాసినా కాయాత్ పాతయామాస వై శిరః ।
దుర్ధరం దుర్ముఖం చోభౌ శరైర్నిన్యే యమక్షయమ్ ॥ ౩.౨౦॥
ఏవం సఙ్క్షీయమాణే తు స్వసైన్యే మహిషాసురః ।
మాహిషేణ స్వరూపేణ త్రాసయామాస తాన్ గణాన్ ॥ ౩.౨౧॥
కాంశ్చిత్తుణ్డప్రహారేణ ఖురక్షేపైస్తథాపరాన్ ।
లాఙ్గూలతాడితాంశ్చాన్యాన్ శృఙ్గాభ్యాం చ విదారితాన్ ॥ ౩.౨౨॥
వేగేన కాంశ్చిదపరాన్నాదేన భ్రమణేన చ ।
నిఃశ్వాసపవనేనాన్యాన్పాతయామాస భూతలే ॥ ౩.౨౩॥
నిపాత్య ప్రమథానీకమభ్యధావత సోఽసురః ।
సింహం హన్తుం మహాదేవ్యాః కోపం చక్రే తతోఽమ్బికా ॥ ౩.౨౪॥
సోఽపి కోపాన్మహావీర్యః ఖురక్షుణ్ణమహీతలః ।
శృఙ్గాభ్యాం పర్వతానుచ్చాంశ్చిక్షేప చ ననాద చ ॥ ౩.౨౫॥
వేగభ్రమణవిక్షుణ్ణా మహీ తస్య వ్యశీర్యత ।
లాఙ్గూలేనాహతశ్చాబ్ధిః ప్లావయామాస సర్వతః ॥ ౩.౨౬॥
ధుతశృఙ్గవిభిన్నాశ్చ ఖణ్డం ఖణ్డం యయుర్ఘనాః ।
శ్వాసానిలాస్తాః శతశో నిపేతుర్నభసోఽచలాః ॥ ౩.౨౭॥
ఇతి క్రోధసమాధ్మాతమాపతన్తం మహాసురమ్ ।
దృష్ట్వా సా చణ్డికా కోపం తద్వధాయ తదాకరోత్ ॥ ౩.౨౮॥
సా క్షిప్త్వా తస్య వై పాశం తం బబన్ధ మహాసురమ్ ।
తత్యాజ మాహిషం రూపం సోఽపి బద్ధో మహామృధే ॥ ౩.౨౯॥
తతః సింహోఽభవత్సద్యో యావత్తస్యామ్బికా శిరః ।
ఛినత్తి తావత్ పురుషః ఖడ్గపాణిరదృశ్యత ॥ ౩.౩౦॥
తత ఏవాశు పురుషం దేవీ చిచ్ఛేద సాయకైః ।
తం ఖడ్గచర్మణా సార్ధం తతః సోఽభూన్మహాగజః ॥ ౩.౩౧॥
కరేణ చ మహాసింహం తం చకర్ష జగర్జ చ ।
కర్షతస్తు కరం దేవీ ఖడ్గేన నిరకృన్తత ॥ ౩.౩౨॥
తతో మహాసురో భూయో మాహిషం వపురాస్థితః ।
తథైవ క్షోభయామాస త్రైలోక్యం సచరాచరమ్ ॥ ౩.౩౩॥
తతః క్రుద్ధా జగన్మాతా చణ్డికా పానముత్తమమ్ ।
పపౌ పునః పునశ్చైవ జహాసారుణలోచనా ॥ ౩.౩౪॥
ననర్ద చాసురః సోఽపి బలవీర్యమదోద్ధతః ।
విషాణాభ్యాం చ చిక్షేప చణ్డికాం ప్రతి భూధరాన్ ॥ ౩.౩౫॥
సా చ తాన్ప్రహితాంస్తేన చూర్ణయన్తీ శరోత్కరైః ।
ఉవాచ తం మదోద్ధూతముఖరాగాకులాక్షరమ్ ॥ ౩.౩౬॥
దేవ్యువాచ ॥ ౩.౩౭॥
గర్జ గర్జ క్షణం మూఢ మధు యావత్పిబామ్యహమ్ ।
మయా త్వయి హతేఽత్రైవ గర్జిష్యన్త్యాశు దేవతాః ॥ ౩.౩౮॥
ఋషిరువాచ ॥ ౩.౩౯॥
ఏవముక్త్వా సముత్పత్య సారూఢా తం మహాసురమ్ ।
పాదేనాక్రమ్య కణ్ఠే చ శూలేనైనమతాడయత్ ॥ ౩.౪౦॥
తతః సోఽపి పదాక్రాన్తస్తయా నిజముఖాత్తదా ।
అర్ధనిష్క్రాన్త ఏవాసీద్దేవ్యా వీర్యేణ సంవృతః ॥ ౩.౪౧॥
అర్ధనిష్క్రాన్త ఏవాసౌ యుధ్యమానో మహాసురః ।
తయా మహాసినా దేవ్యా శిరశ్ఛిత్త్వా నిపాతితః ॥ ౩.౪౨॥
తతో హాహాకృతం సర్వం దైత్యసైన్యం ననాశ తత్ ।
ప్రహర్షం చ పరం జగ్ముః సకలా దేవతాగణాః ॥ ౩.౪౩॥
తుష్టువుస్తాం సురా దేవీం సహదివ్యైర్మహర్షిభిః ।
జగుర్గన్ధర్వపతయో ననృతుశ్చాప్సరోగణాః ॥ ౩.౪౪॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మహిషాసురవధో నామ తృతీయోఽధ్యాయః ॥ ౩॥
ఉవాచ ౩, అర్ధశ్లోకాః ౪౧, శ్లోకాః ౪౪, ఏవమాదితః ॥ ౨౧౭॥
॥ ౪. శక్రాదిస్తుతిర్నామ చతుర్థోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం కాలాభ్రాభాం కటాక్షైరరికులభయదాం మౌలిబద్ధేన్దురేఖాం
శఙ్ఖం చక్రం కృపాణం త్రిశిఖమపి కరైరుద్వహన్తీం త్రినేత్రామ్ ।
సింహస్కన్ధాధిరూఢాం త్రిభువనమఖిలం తేజసా పూరయన్తీం
ధ్యాయేద్దుర్గాం జయాఖ్యాం త్రిదశపరివృతాం సేవితాం సిద్ధికామైః ॥
ఓం ఋషిరువాచ ॥ ౪.౧॥
శక్రాదయః సురగణా నిహతేఽతివీర్యే
తస్మిన్దురాత్మని సురారిబలే చ దేవ్యా ।
తాం తుష్టువుః ప్రణతినమ్రశిరోధరాంసా
వాగ్భిః ప్రహర్షపులకోద్గమచారుదేహాః ॥ ౪.౨॥
దేవ్యా యయా తతమిదం జగదాత్మశక్త్యా
నిఃశేషదేవగణశక్తిసమూహమూర్త్యా ।
తామమ్బికామఖిలదేవమహర్షిపూజ్యాం
భక్త్యా నతాః స్మ విదధాతు శుభాని సా నః ॥ ౪.౩॥
యస్యాః ప్రభావమతులం భగవాననన్తో
బ్రహ్మా హరశ్చ న హి వక్తుమలం బలం చ ।
సా చణ్డికాఖిలజగత్పరిపాలనాయ
నాశాయ చాశుభభయస్య మతిం కరోతు ॥ ౪.౪॥
యా శ్రీః స్వయం సుకృతినాం భవనేష్వలక్ష్మీః
పాపాత్మనాం కృతధియాం హృదయేషు బుద్ధిః ।
శ్రద్ధా సతాం కులజనప్రభవస్య లజ్జా
తాం త్వాం నతాః స్మ పరిపాలయ దేవి విశ్వమ్ ॥ ౪.౫॥
కిం వర్ణయామ తవ రూపమచిన్త్యమేతత్
కిఞ్చాతివీర్యమసురక్షయకారి భూరి ।
కిం చాహవేషు చరితాని తవాతి యాని
సర్వేషు దేవ్యసురదేవగణాదికేషు ॥ ౪.౬॥
హేతుః సమస్తజగతాం త్రిగుణాపి దోషై-
ర్న జ్ఞాయసే హరిహరాదిభిరప్యపారా ।
సర్వాశ్రయాఖిలమిదం జగదంశభూత-
మవ్యాకృతా హి పరమా ప్రకృతిస్త్వమాద్యా ॥ ౪.౭॥
యస్యాః సమస్తసురతా సముదీరణేన
తృప్తిం ప్రయాతి సకలేషు మఖేషు దేవి ।
స్వాహాసి వై పితృగణస్య చ తృప్తిహేతు-
రుచ్చార్యసే త్వమత ఏవ జనైః స్వధా చ ॥ ౪.౮॥
యా ముక్తిహేతురవిచిన్త్యమహావ్రతా త్వం
అభ్యస్యసే సునియతేన్ద్రియతత్త్వసారైః ।
మోక్షార్థిభిర్మునిభిరస్తసమస్తదోషై-
ర్విద్యాసి సా భగవతీ పరమా హి దేవి ॥ ౪.౯॥
శబ్దాత్మికా సువిమలర్గ్యజుషాం నిధాన-
ముద్గీథరమ్యపదపాఠవతాం చ సామ్నామ్ ।
దేవి త్రయీ భగవతీ భవభావనాయ
వార్తాసి సర్వజగతాం పరమార్తిహన్త్రీ ॥ ౪.౧౦॥
మేధాసి దేవి విదితాఖిలశాస్త్రసారా
దుర్గాసి దుర్గభవసాగరనౌరసఙ్గా ।
శ్రీః కైటభారిహృదయైకకృతాధివాసా
గౌరీ త్వమేవ శశిమౌలికృతప్రతిష్ఠా ॥ ౪.౧౧॥
ఈషత్సహాసమమలం పరిపూర్ణచన్ద్ర-
బిమ్బానుకారి కనకోత్తమకాన్తికాన్తమ్ ।
అత్యద్భుతం ప్రహృతమాత్తరుషా తథాపి
వక్త్రం విలోక్య సహసా మహిషాసురేణ ॥ ౪.౧౨॥
దృష్ట్వా తు దేవి కుపితం భ్రుకుటీకరాల-
ముద్యచ్ఛశాఙ్కసదృశచ్ఛవి యన్న సద్యః ।
ప్రాణాన్ ముమోచ మహిషస్తదతీవ చిత్రం
కైర్జీవ్యతే హి కుపితాన్తకదర్శనేన ॥ ౪.౧౩॥
దేవి ప్రసీద పరమా భవతీ భవాయ
సద్యో వినాశయసి కోపవతీ కులాని ।
విజ్ఞాతమేతదధునైవ యదస్తమేత-
న్నీతం బలం సువిపులం మహిషాసురస్య ॥ ౪.౧౪॥
తే సమ్మతా జనపదేషు ధనాని తేషాం
తేషాం యశాంసి న చ సీదతి బన్ధువర్గః ।
ధన్యాస్త ఏవ నిభృతాత్మజభృత్యదారా
యేషాం సదాభ్యుదయదా భవతీ ప్రసన్నా ॥ ౪.౧౫॥
ధర్మ్యాణి దేవి సకలాని సదైవ కర్మా-
ణ్యత్యాదృతః ప్రతిదినం సుకృతీ కరోతి ।
స్వర్గం ప్రయాతి చ తతో భవతీ ప్రసాదా-
ల్లోకత్రయేఽపి ఫలదా నను దేవి తేన ॥ ౪.౧౬॥
దుర్గే స్మృతా హరసి భీతిమశేషజన్తోః
స్వస్థైః స్మృతా మతిమతీవ శుభాం దదాసి ।
దారిద్ర్యదుఃఖభయహారిణి కా త్వదన్యా
సర్వోపకారకరణాయ సదార్ద్రచిత్తా ॥ ౪.౧౭॥
ఏభిర్హతైర్జగదుపైతి సుఖం తథైతే
కుర్వన్తు నామ నరకాయ చిరాయ పాపమ్ ।
సఙ్గ్రామమృత్యుమధిగమ్య దివం ప్రయాన్తు
మత్వేతి నూనమహితాన్వినిహంసి దేవి ॥ ౪.౧౮॥
దృష్ట్వైవ కిం న భవతీ ప్రకరోతి భస్మ
సర్వాసురానరిషు యత్ప్రహిణోషి శస్త్రమ్ ।
లోకాన్ప్రయాన్తు రిపవోఽపి హి శస్త్రపూతా
ఇత్థం మతిర్భవతి తేష్వహితేషుసాధ్వీ ॥ ౪.౧౯॥
ఖడ్గప్రభానికరవిస్ఫురణైస్తథోగ్రైః
శూలాగ్రకాన్తినివహేన దృశోఽసురాణామ్ ।
యన్నాగతా విలయమంశుమదిన్దుఖణ్డ-
యోగ్యాననం తవ విలోకయతాం తదేతత్ ॥ ౪.౨౦॥
దుర్వృత్తవృత్తశమనం తవ దేవి శీలం
రూపం తథైతదవిచిన్త్యమతుల్యమన్యైః ।
వీర్యం చ హన్తృ హృతదేవపరాక్రమాణాం
వైరిష్వపి ప్రకటితైవ దయా త్వయేత్థమ్ ॥ ౪.౨౧॥
కేనోపమా భవతు తేఽస్య పరాక్రమస్య
రూపం చ శత్రుభయకార్యతిహారి కుత్ర ।
చిత్తే కృపా సమరనిష్ఠురతా చ దృష్టా
త్వయ్యేవ దేవి వరదే భువనత్రయేఽపి ॥ ౪.౨౨॥
త్రైలోక్యమేతదఖిలం రిపునాశనేన
త్రాతం త్వయా సమరమూర్ధని తేఽపి హత్వా ।
నీతా దివం రిపుగణా భయమప్యపాస్తమ్
అస్మాకమున్మదసురారిభవం నమస్తే ॥ ౪.౨౩॥
శూలేన పాహి నో దేవి పాహి ఖడ్గేన చామ్బికే ।
ఘణ్టాస్వనేన నః పాహి చాపజ్యానిఃస్వనేన చ ॥ ౪.౨౪॥
ప్రాచ్యాం రక్ష ప్రతీచ్యాం చ చణ్డికే రక్ష దక్షిణే ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాం తథేశ్వరి ॥ ౪.౨౫॥
సౌమ్యాని యాని రూపాణి త్రైలోక్యే విచరన్తి తే ।
యాని చాత్యన్తఘోరాణి తై రక్షాస్మాంస్తథా భువమ్ ॥ ౪.౨౬॥
ఖడ్గశూలగదాదీని యాని చాస్త్రాని తేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్రక్ష సర్వతః ॥ ౪.౨౭॥
ఋషిరువాచ ॥ ౪.౨౮॥
ఏవం స్తుతా సురైర్దివ్యైః కుసుమైర్నన్దనోద్భవైః ।
అర్చితా జగతాం ధాత్రీ తథా గన్ధానులేపనైః ॥ ౪.౨౯॥
భక్త్యా సమస్తైస్త్రిదశైర్దివ్యైర్ధూపైః సుధూపితా ।
ప్రాహ ప్రసాదసుముఖీ సమస్తాన్ ప్రణతాన్ సురాన్ ॥ ౪.౩౦॥
దేవ్యువాచ ॥ ౪.౩౧॥
వ్రియతాం త్రిదశాః సర్వే యదస్మత్తోఽభివాఞ్ఛితమ్ ॥ ౪.౩౨॥
దేవా ఊచుః ॥ ౪.౩౩॥
భగవత్యా కృతం సర్వం న కిఞ్చిదవశిష్యతే ॥ ౪.౩౪॥
యదయం నిహతః శత్రురస్మాకం మహిషాసురః ।
యది చాపి వరో దేయస్త్వయాస్మాకం మహేశ్వరి ॥ ౪.౩౫॥
సంస్మృతా సంస్మృతా త్వం నో హింసేథాః పరమాపదః ।
యశ్చ మర్త్యః స్తవైరేభిస్త్వాం స్తోష్యత్యమలాననే ॥ ౪.౩౬॥
తస్య విత్తర్ద్ధివిభవైర్ధనదారాదిసమ్పదామ్ ।
వృద్ధయేఽస్మత్ప్రసన్నా త్వం భవేథాః సర్వదామ్బికే ॥ ౪.౩౭॥
ఋషిరువాచ ॥ ౪.౩౮॥
ఇతి ప్రసాదితా దేవైర్జగతోఽర్థే తథాత్మనః ।
తథేత్యుక్త్వా భద్రకాలీ బభూవాన్తర్హితా నృప ॥ ౪.౩౯॥
ఇత్యేతత్కథితం భూప సమ్భూతా సా యథా పురా ।
దేవీ దేవశరీరేభ్యో జగత్త్రయహితైషిణీ ॥ ౪.౪౦॥
పునశ్చ గౌరీదేహాత్సా సముద్భూతా యథాభవత్ ।
వధాయ దుష్టదైత్యానాం తథా శుమ్భనిశుమ్భయోః ॥ ౪.౪౧॥
రక్షణాయ చ లోకానాం దేవానాముపకారిణీ ।
తచ్ఛృణుష్వ మయాఖ్యాతం యథావత్కథయామి తే ॥ ౪.౪౨॥
। హ్రీం ఓం ।
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే
దేవీమాహాత్మ్యే శక్రాదిస్తుతిర్నామ చతుర్థోఽధ్యాయః ॥ ౪॥
ఉవాచ ౫, అర్ధశ్లోకౌ ౨, శ్లోకాః ౩౫, ఏవమాదితః ॥ ౨౫౯॥
॥ ౫. దేవ్యా దూతసంవాదో నామ పఞ్చమోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ ఉత్తరచరిత్రస్య రుద్ర ఋషిః ।
శ్రీమహాసరస్వతీ దేవతా ।
అనుష్టుప్ ఛన్దః । భీమా శక్తిః । భ్రామరీ బీజమ్ ।
సూర్యస్తత్త్వమ్ ।
సామవేదః స్వరూపమ్ । శ్రీమహాసరస్వతీప్రీత్యర్థే
ఉత్తరచరిత్రపాఠే వినియోగః ।
। ధ్యానమ్ ।
ఘణ్టాశూలహలాని శఙ్ఖముసలే చక్రం ధనుః సాయకం
హస్తాబ్జైర్దధతీం ఘనాన్తవిలసచ్ఛీతాంశుతుల్యప్రభామ్ ।
గౌరీదేహసముద్భవాం త్రిజగతామాధారభూతాం మహా-
పూర్వామత్ర సరస్వతీమనుభజే శుమ్భాదిదైత్యార్దినీమ్ ॥
ఓం క్లీం ఋషిరువాచ ॥ ౫.౧॥
పురా శుమ్భనిశుమ్భాభ్యామసురాభ్యాం శచీపతేః ।
త్రైలోక్యం యజ్ఞభాగాశ్చ హృతా మదబలాశ్రయాత్ ॥ ౫.౨॥
తావేవ సూర్యతాం తద్వదధికారం తథైన్దవమ్ ।
కౌబేరమథ యామ్యం చ చక్రాతే వరుణస్య చ ॥ ౫.౩॥
తావేవ పవనర్ద్ధిం చ చక్రతుర్వహ్నికర్మ చ ।
తతో దేవా వినిర్ధూతా భ్రష్టరాజ్యాః పరాజితాః ॥ ౫.౪॥
హృతాధికారాస్త్రిదశాస్తాభ్యాం సర్వే నిరాకృతాః ।
మహాసురాభ్యాం తాం దేవీం సంస్మరన్త్యపరాజితామ్ ॥ ౫.౫॥
తయాస్మాకం వరో దత్తో యథాపత్సు స్మృతాఖిలాః ।
భవతాం నాశయిష్యామి తత్క్షణాత్పరమాపదః ॥ ౫.౬॥
ఇతి కృత్వా మతిం దేవా హిమవన్తం నగేశ్వరమ్ ।
జగ్ముస్తత్ర తతో దేవీం విష్ణుమాయాం ప్రతుష్టువుః ॥ ౫.౭॥
దేవా ఊచుః ॥ ౫.౮॥
నమో దేవ్యై మహాదేవ్యై శివాయై సతతం నమః ।
నమః ప్రకృత్యై భద్రాయై నియతాః ప్రణతాః స్మ తామ్ ॥ ౫.౯॥
రౌద్రాయై నమో నిత్యాయై గౌర్యై ధాత్ర్యై నమో నమః ।
జ్యోత్స్నాయై చేన్దురూపిణ్యై సుఖాయై సతతం నమః ॥ ౫.౧౦॥
కల్యాణ్యై ప్రణతాం వృద్ధ్యై సిద్ధ్యై కుర్మో నమో నమః ।
నైరృత్యై భూభృతాం లక్ష్మ్యై శర్వాణ్యై తే నమో నమః ॥ ౫.౧౧॥
దుర్గాయై దుర్గపారాయై సారాయై సర్వకారిణ్యై ।
ఖ్యాత్యై తథైవ కృష్ణాయై ధూమ్రాయై సతతం నమః ॥ ౫.౧౨॥
అతిసౌమ్యాతిరౌద్రాయై నతాస్తస్యై నమో నమః ।
నమో జగత్ప్రతిష్ఠాయై దేవ్యై కృత్యై నమో నమః ॥ ౫.౧౩॥
యా దేవీ సర్వభూతేషు విష్ణుమాయేతి శబ్దితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౪-౧౬॥
యా దేవీ సర్వభూతేషు చేతనేత్యభిధీయతే ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౭-౧౯॥
యా దేవీ సర్వభూతేషు బుద్ధిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౦-౨౨॥
యా దేవీ సర్వభూతేషు నిద్రారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౩-౨౫॥
యా దేవీ సర్వభూతేషు క్షుధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౬-౨౮॥
యా దేవీ సర్వభూతేషు ఛాయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౯-౩౧॥
యా దేవీ సర్వభూతేషు శక్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౨-౩౪॥
యా దేవీ సర్వభూతేషు తృష్ణారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౫-౩౭॥
యా దేవీ సర్వభూతేషు క్షాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౮-౪౦॥
యా దేవీ సర్వభూతేషు జాతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౧-౪౩॥
యా దేవీ సర్వభూతేషు లజ్జారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౪-౪౬॥
యా దేవీ సర్వభూతేషు శాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౭-౪౯॥
యా దేవీ సర్వభూతేషు శ్రద్ధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౦-౫౨॥
యా దేవీ సర్వభూతేషు కాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౩-౫౫॥
యా దేవీ సర్వభూతేషు లక్ష్మీరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౬-౫౮॥
యా దేవీ సర్వభూతేషు వృత్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౯-౬౧॥
యా దేవీ సర్వభూతేషు స్మృతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౨-౬౪॥
యా దేవీ సర్వభూతేషు దయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౫-౬౭॥
యా దేవీ సర్వభూతేషు తుష్టిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౮-౭౦॥
యా దేవీ సర్వభూతేషు మాతృరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౧-౭౩॥
యా దేవీ సర్వభూతేషు భ్రాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౪-౭౬॥
ఇన్ద్రియాణామధిష్ఠాత్రీ భూతానాం చాఖిలేషు యా ।
భూతేషు సతతం తస్యై వ్యాప్త్యై దేవ్యై నమో నమః ॥ ౫.౭౭॥
చితిరూపేణ యా కృత్స్నమేతద్ వ్యాప్య స్థితా జగత్ ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౮-౮౦॥
స్తుతా సురైః పూర్వమభీష్టసంశ్రయా-
త్తథా సురేన్ద్రేణ దినేషు సేవితా ।
కరోతు సా నః శుభహేతురీశ్వరీ
శుభాని భద్రాణ్యభిహన్తు చాపదః ॥ ౫.౮౧॥
యా సామ్ప్రతం చోద్ధతదైత్యతాపితై-
రస్మాభిరీశా చ సురైర్నమస్యతే ।
యా చ స్మృతా తత్క్షణమేవ హన్తి నః
సర్వాపదో భక్తివినమ్రమూర్తిభిః ॥ ౫.౮౨॥
ఋషిరువాచ ॥ ౫.౮౩॥
ఏవం స్తవాభియుక్తానాం దేవానాం తత్ర పార్వతీ ।
స్నాతుమభ్యాయయౌ తోయే జాహ్నవ్యా నృపనన్దన ॥ ౫.౮౪॥
సాబ్రవీత్తాన్ సురాన్ సుభ్రూర్భవద్భిః స్తూయతేఽత్ర కా ।
శరీరకోశతశ్చాస్యాః సముద్భూతాబ్రవీచ్ఛివా ॥ ౫.౮౫॥
స్తోత్రం మమైతత్క్రియతే శుమ్భదైత్యనిరాకృతైః ।
దేవైః సమేతైః సమరే నిశుమ్భేన పరాజితైః ॥ ౫.౮౬॥
శరీరకోశాద్యత్తస్యాః పార్వత్యా నిఃసృతామ్బికా ।
కౌశికీతి సమస్తేషు తతో లోకేషు గీయతే ॥ ౫.౮౭॥
తస్యాం వినిర్గతాయాం తు కృష్ణాభూత్సాపి పార్వతీ ।
కాలికేతి సమాఖ్యాతా హిమాచలకృతాశ్రయా ॥ ౫.౮౮॥
తతోఽమ్బికాం పరం రూపం బిభ్రాణాం సుమనోహరమ్ ।
దదర్శ చణ్డో ముణ్డశ్చ భృత్యౌ శుమ్భనిశుమ్భయోః ॥ ౫.౮౯॥
తాభ్యాం శుమ్భాయ చాఖ్యాతా సాతీవ సుమనోహరా ।
కాప్యాస్తే స్త్రీ మహారాజ భాసయన్తీ హిమాచలమ్ ॥ ౫.౯౦॥
నైవ తాదృక్ క్వచిద్రూపం దృష్టం కేనచిదుత్తమమ్ ।
జ్ఞాయతాం కాప్యసౌ దేవీ గృహ్యతాం చాసురేశ్వర ॥ ౫.౯౧॥
స్త్రీరత్నమతిచార్వఙ్గీ ద్యోతయన్తీ దిశస్త్విషా ।
సా తు తిష్ఠతి దైత్యేన్ద్ర తాం భవాన్ ద్రష్టుమర్హతి ॥ ౫.౯౨॥
యాని రత్నాని మణయో గజాశ్వాదీని వై ప్రభో ।
త్రైలోక్యే తు సమస్తాని సామ్ప్రతం భాన్తి తే గృహే ॥ ౫.౯౩॥
ఐరావతః సమానీతో గజరత్నం పురన్దరాత్ ।
పారిజాతతరుశ్చాయం తథైవోచ్చైఃశ్రవా హయః ॥ ౫.౯౪॥
విమానం హంససంయుక్తమేతత్తిష్ఠతి తేఽఙ్గణే ।
రత్నభూతమిహానీతం యదాసీద్వేధసోఽద్భుతమ్ ॥ ౫.౯౫॥
నిధిరేష మహాపద్మః సమానీతో ధనేశ్వరాత్ ।
కిఞ్జల్కినీం దదౌ చాబ్ధిర్మాలామమ్లానపఙ్కజామ్ ॥ ౫.౯౬॥
ఛత్రం తే వారుణం గేహే కాఞ్చనస్రావి తిష్ఠతి ।
తథాయం స్యన్దనవరో యః పురాసీత్ప్రజాపతేః ॥ ౫.౯౭॥
మృత్యోరుత్క్రాన్తిదా నామ శక్తిరీశ త్వయా హృతా ।
పాశః సలిలరాజస్య భ్రాతుస్తవ పరిగ్రహే ॥ ౫.౯౮॥
నిశుమ్భస్యాబ్ధిజాతాశ్చ సమస్తా రత్నజాతయః ।
వహ్నిరపి దదౌ తుభ్యమగ్నిశౌచే చ వాససీ ॥ ౫.౯౯॥
ఏవం దైత్యేన్ద్ర రత్నాని సమస్తాన్యాహృతాని తే ।
స్త్రీరత్నమేషా కల్యాణీ త్వయా కస్మాన్న గృహ్యతే ॥ ౫.౧౦౦॥
ఋషిరువాచ ॥ ౫.౧౦౧॥
నిశమ్యేతి వచః శుమ్భః స తదా చణ్డముణ్డయోః ।
ప్రేషయామాస సుగ్రీవం దూతం దేవ్యా మహాసురమ్ ॥ ౫.౧౦౨॥
ఇతి చేతి చ వక్తవ్యా సా గత్వా వచనాన్మమ ।
యథా చాభ్యేతి సమ్ప్రీత్యా తథా కార్యం త్వయా లఘు ॥ ౫.౧౦౩॥
స తత్ర గత్వా యత్రాస్తే శైలోద్దేశేఽతిశోభనే ।
తాం చ దేవీం తతః ప్రాహ శ్లక్ష్ణం మధురయా గిరా ॥ ౫.౧౦౪॥
దూత ఉవాచ ॥ ౫.౧౦౫॥
దేవి దైత్యేశ్వరః శుమ్భస్త్రైలోక్యే పరమేశ్వరః ।
దూతోఽహం ప్రేషితస్తేన త్వత్సకాశమిహాగతః ॥ ౫.౧౦౬॥
అవ్యాహతాజ్ఞః సర్వాసు యః సదా దేవయోనిషు ।
నిర్జితాఖిలదైత్యారిః స యదాహ శృణుష్వ తత్ ॥ ౫.౧౦౭॥
మమ త్రైలోక్యమఖిలం మమ దేవా వశానుగాః ।
యజ్ఞభాగానహం సర్వానుపాశ్నామి పృథక్ పృథక్ ॥ ౫.౧౦౮॥
త్రైలోక్యే వరరత్నాని మమ వశ్యాన్యశేషతః ।
తథైవ గజరత్నం చ హృతం దేవేన్ద్రవాహనమ్ ॥ ౫.౧౦౯॥
క్షీరోదమథనోద్భూతమశ్వరత్నం మమామరైః ।
ఉచ్చైఃశ్రవససంజ్ఞం తత్ప్రణిపత్య సమర్పితమ్ ॥ ౫.౧౧౦॥
యాని చాన్యాని దేవేషు గన్ధర్వేషూరగేషు చ ।
రత్నభూతాని భూతాని తాని మయ్యేవ శోభనే ॥ ౫.౧౧౧॥
స్త్రీరత్నభూతాం త్వాం దేవి లోకే మన్యామహే వయమ్ ।
సా త్వమస్మానుపాగచ్ఛ యతో రత్నభుజో వయమ్ ॥ ౫.౧౧౨॥
మాం వా మమానుజం వాపి నిశుమ్భమురువిక్రమమ్ ।
భజ త్వం చఞ్చలాపాఙ్గి రత్నభూతాసి వై యతః ॥ ౫.౧౧౩॥
పరమైశ్వర్యమతులం ప్రాప్స్యసే మత్పరిగ్రహాత్ ।
ఏతద్బుద్ధ్యా సమాలోచ్య మత్పరిగ్రహతాం వ్రజ ॥ ౫.౧౧౪॥
ఋషిరువాచ ॥ ౫.౧౧౫॥
ఇత్యుక్తా సా తదా దేవీ గమ్భీరాన్తఃస్మితా జగౌ ।
దుర్గా భగవతీ భద్రా యయేదం ధార్యతే జగత్ ॥ ౫.౧౧౬॥
దేవ్యువాచ ॥ ౫.౧౧౭॥
సత్యముక్తం త్వయా నాత్ర మిథ్యా కిఞ్చిత్త్వయోదితమ్ ।
త్రైలోక్యాధిపతిః శుమ్భో నిశుమ్భశ్చాపి తాదృశః ॥ ౫.౧౧౮॥
కిం త్వత్ర యత్ప్రతిజ్ఞాతం మిథ్యా తత్క్రియతే కథమ్ ।
శ్రూయతామల్పబుద్ధిత్వాత్ప్రతిజ్ఞా యా కృతా పురా ॥ ౫.౧౧౯॥
యో మాం జయతి సఙ్గ్రామే యో మే దర్పం వ్యపోహతి ।
యో మే ప్రతిబలో లోకే స మే భర్తా భవిష్యతి ॥ ౫.౧౨౦॥
తదాగచ్ఛతు శుమ్భోఽత్ర నిశుమ్భో వా మహాబలః ।
మాం జిత్వా కిం చిరేణాత్ర పాణిం గృహ్ణాతు మే లఘు ॥ ౫.౧౨౧॥
దూత ఉవాచ ॥ ౫.౧౨౨॥
అవలిప్తాసి మైవం త్వం దేవి బ్రూహి మమాగ్రతః ।
త్రైలోక్యే కః పుమాంస్తిష్ఠేదగ్రే శుమ్భనిశుమ్భయోః ॥ ౫.౧౨౩॥
అన్యేషామపి దైత్యానాం సర్వే దేవా న వై యుధి ।
తిష్ఠన్తి సమ్ముఖే దేవి కిం పునః స్త్రీ త్వమేకికా ॥ ౫.౧౨౪॥
ఇన్ద్రాద్యాః సకలా దేవాస్తస్థుర్యేషాం న సంయుగే ।
శుమ్భాదీనాం కథం తేషాం స్త్రీ ప్రయాస్యసి సమ్ముఖమ్ ॥ ౫.౧౨౫॥
సా త్వం గచ్ఛ మయైవోక్తా పార్శ్వం శుమ్భనిశుమ్భయోః ।
కేశాకర్షణనిర్ధూతగౌరవా మా గమిష్యసి ॥ ౫.౧౨౬॥
దేవ్యువాచ ॥ ౫.౧౨౭॥
ఏవమేతద్ బలీ శుమ్భో నిశుమ్భశ్చాపితాదృశః ।
కిం కరోమి ప్రతిజ్ఞా మే యదనాలోచితా పురా ॥ ౫.౧౨౮॥
స త్వం గచ్ఛ మయోక్తం తే యదేతత్సర్వమాదృతః ।
తదాచక్ష్వాసురేన్ద్రాయ స చ యుక్తం కరోతు యత్ ॥ ౫.౧౨౯॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
దేవ్యా దూతసంవాదో నామ పఞ్చమోఽధ్యాయః ॥ ౫॥
ఉవాచ ౯, త్రిపాన్మన్త్రాః ౬౬, శ్లోకాః ౫౪, ఏవమాదితః ॥ ౩౮౮॥
॥ ౬. శుమ్భనిశుమ్భసేనానీధూమ్రలోచనవధో నామ షష్ఠోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం నాగాధీశ్వరవిష్టరాం ఫణిఫణోత్తంసోరు రత్నావలీ-
భాస్వద్దేహలతాం దివాకరనిభాం నేత్రత్రయోద్భాసితామ్ ।
మాలాకుమ్భకపాలనీరజకరాం చన్ద్రార్ధచూడాం పరాం
సర్వజ్ఞేశ్వరభైరవాఙ్గనిలయాం పద్మావతీం చిన్తయే ॥
ఓం ఋషిరువాచ ॥ ౬.౧॥
ఇత్యాకర్ణ్య వచో దేవ్యాః స దూతోఽమర్షపూరితః ।
సమాచష్ట సమాగమ్య దైత్యరాజాయ విస్తరాత్ ॥ ౬.౨॥
తస్య దూతస్య తద్వాక్యమాకర్ణ్యాసురరాట్ తతః ।
సక్రోధః ప్రాహ దైత్యానామధిపం ధూమ్రలోచనమ్ ॥ ౬.౩॥
హే ధూమ్రలోచనాశు త్వం స్వసైన్యపరివారితః ।
తామానయ బలాద్దుష్టాం కేశాకర్షణవిహ్వలామ్ ॥ ౬.౪॥
తత్పరిత్రాణదః కశ్చిద్యది వోత్తిష్ఠతేఽపరః ।
స హన్తవ్యోఽమరో వాపి యక్షో గన్ధర్వ ఏవ వా ॥ ౬.౫॥
ఋషిరువాచ ॥ ౬.౬॥
తేనాజ్ఞప్తస్తతః శీఘ్రం స దైత్యో ధూమ్రలోచనః ।
వృతః షష్ట్యా సహస్రాణామసురాణాం ద్రుతం యయౌ ॥ ౬.౭॥
స దృష్ట్వా తాం తతో దేవీం తుహినాచలసంస్థితామ్ ।
జగాదోచ్చైః ప్రయాహీతి మూలం శుమ్భనిశుమ్భయోః ॥ ౬.౮॥
న చేత్ప్రీత్యాద్య భవతీ మద్భర్తారముపైష్యతి ।
తతో బలాన్నయామ్యేష కేశాకర్షణవిహ్వలామ్ ॥ ౬.౯॥
దేవ్యువాచ ॥ ౬.౧౦॥
దైత్యేశ్వరేణ ప్రహితో బలవాన్బలసంవృతః ।
బలాన్నయసి మామేవం తతః కిం తే కరోమ్యహమ్ ॥ ౬.౧౧॥
ఋషిరువాచ ॥ ౬.౧౨॥
ఇత్యుక్తః సోఽభ్యధావత్తామసురో ధూమ్రలోచనః ।
హుఙ్కారేణైవ తం భస్మ సా చకారామ్బికా తదా ॥ ౬.౧౩॥
అథ క్రుద్ధం మహాసైన్యమసురాణాం తథామ్బికా ।
వవర్ష సాయకైస్తీక్ష్ణైస్తథా శక్తిపరశ్వధైః ॥ ౬.౧౪॥
తతో ధుతసటః కోపాత్కృత్వా నాదం సుభైరవమ్ ।
పపాతాసురసేనాయాం సింహో దేవ్యాః స్వవాహనః ॥ ౬.౧౫॥
కాంశ్చిత్కరప్రహారేణ దైత్యానాస్యేన చాపరాన్ ।
ఆక్రాన్త్యా చాధరేణాన్యాన్ జఘాన స మహాసురాన్ ॥ ౬.౧౬॥
కేషాఞ్చిత్పాటయామాస నఖైః కోష్ఠాని కేసరీ ।
తథా తలప్రహారేణ శిరాంసి కృతవాన్పృథక్ ॥ ౬.౧౭॥
విచ్ఛిన్నబాహుశిరసః కృతాస్తేన తథాపరే ।
పపౌ చ రుధిరం కోష్ఠాదన్యేషాం ధుతకేసరః ॥ ౬.౧౮॥
క్షణేన తద్బలం సర్వం క్షయం నీతం మహాత్మనా ।
తేన కేసరిణా దేవ్యా వాహనేనాతికోపినా ॥ ౬.౧౯॥
శ్రుత్వా తమసురం దేవ్యా నిహతం ధూమ్రలోచనమ్ ।
బలం చ క్షయితం కృత్స్నం దేవీకేసరిణా తతః ॥ ౬.౨౦॥
చుకోప దైత్యాధిపతిః శుమ్భః ప్రస్ఫురితాధరః ।
ఆజ్ఞాపయామాస చ తౌ చణ్డముణ్డౌ మహాసురౌ ॥ ౬.౨౧॥
హే చణ్డ హే ముణ్డ బలైర్బహుభిః పరివారితౌ ।
తత్ర గచ్ఛత గత్వా చ సా సమానీయతాం లఘు ॥ ౬.౨౨॥
కేశేష్వాకృష్య బద్ధ్వా వా యది వః సంశయో యుధి ।
తదాశేషాయుధైః సర్వైరసురైర్వినిహన్యతామ్ ॥ ౬.౨౩॥
తస్యాం హతాయాం దుష్టాయాం సింహే చ వినిపాతితే ।
శీఘ్రమాగమ్యతాం బద్ధ్వా గృహీత్వా తామథామ్బికామ్ ॥ ౬.౨౪॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
శుమ్భనిశుమ్భసేనానీధూమ్రలోచనవధో నామ షష్ఠోఽధ్యాయః ॥ ౬॥
ఉవాచ ౪, శ్లోకాః ౨౪, ఏవమాదితః ॥ ౪౧౨॥
॥ ౭. చణ్డముణ్డవధో నామ సప్తమోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం ధ్యాయేయం రత్నపీఠే శుకకలపఠితం శృణ్వతీం శ్యామలాఙ్గీం
న్యస్తైకాంఘ్రిం సరోజే శశిశకలధరాం వల్లకీం వాదయన్తీమ్ ।
కల్హారాబద్ధమాలాం నియమితవిలసచ్చోలికాం రత్నవస్త్రాం
మాతఙ్గీ శఙ్కపాత్రాం మధురమధుమదాం చిత్రకోద్భాసిభాలామ్ ॥
ఓం ఋషిరువాచ ॥ ౭.౧॥
ఆజ్ఞప్తాస్తే తతో దైత్యాశ్చణ్డముణ్డపురోగమాః ।
చతురఙ్గబలోపేతా యయురభ్యుద్యతాయుధాః ॥ ౭.౨॥
దదృశుస్తే తతో దేవీమీషద్ధాసాం వ్యవస్థితామ్ ।
సింహస్యోపరి శైలేన్ద్రశృఙ్గే మహతి కాఞ్చనే ॥ ౭.౩॥
తే దృష్ట్వా తాం సమాదాతుముద్యమం చక్రురుద్యతాః ।
ఆకృష్టచాపాసిధరాస్తథాన్యే తత్సమీపగాః ॥ ౭.౪॥
తతః కోపం చకారోచ్చైరమ్బికా తానరీన్ప్రతి ।
కోపేన చాస్యా వదనం మషీవర్ణమభూత్తదా ॥ ౭.౫॥
భ్రుకుటీకుటిలాత్తస్యా లలాటఫలకాద్ద్రుతమ్ ।
కాలీ కరాలవదనా వినిష్క్రాన్తాసిపాశినీ ॥ ౭.౬॥
విచిత్రఖట్వాఙ్గధరా నరమాలావిభూషణా ।
ద్వీపిచర్మపరీధానా శుష్కమాంసాతిభైరవా ॥ ౭.౭॥
అతివిస్తారవదనా జిహ్వాలలనభీషణా ।
నిమగ్నారక్తనయనా నాదాపూరితదిఙ్ముఖా ॥ ౭.౮॥
సా వేగేనాభిపతితా ఘాతయన్తీ మహాసురాన్ ।
సైన్యే తత్ర సురారీణామభక్షయత తద్బలమ్ ॥ ౭.౯॥
పార్ష్ణిగ్రాహాఙ్కుశగ్రాహయోధఘణ్టాసమన్వితాన్ ।
సమాదాయైకహస్తేన ముఖే చిక్షేప వారణాన్ ॥ ౭.౧౦॥
తథైవ యోధం తురగై రథం సారథినా సహ ।
నిక్షిప్య వక్త్రే దశనైశ్చర్వయన్త్యతిభైరవమ్ ॥ ౭.౧౧॥
ఏకం జగ్రాహ కేశేషు గ్రీవాయామథ చాపరమ్ ।
పాదేనాక్రమ్య చైవాన్యమురసాన్యమపోథయత్ ॥ ౭.౧౨॥
తైర్ముక్తాని చ శస్త్రాణి మహాస్త్రాణి తథాసురైః ।
ముఖేన జగ్రాహ రుషా దశనైర్మథితాన్యపి ॥ ౭.౧౩॥
బలినాం తద్బలం సర్వమసురాణాం దురాత్మనామ్ ।
మమర్దాభక్షయచ్చాన్యానన్యాంశ్చాతాడయత్తదా ॥ ౭.౧౪॥
అసినా నిహతాః కేచిత్కేచిత్ఖట్వాఙ్గతాడితాః ।
జగ్ముర్వినాశమసురా దన్తాగ్రాభిహతాస్తథా ॥ ౭.౧౫॥
క్షణేన తద్బలం సర్వమసురాణాం నిపాతితమ్ ।
దృష్ట్వా చణ్డోఽభిదుద్రావ తాం కాలీమతిభీషణామ్ ॥ ౭.౧౬॥
శరవర్షైర్మహాభీమైర్భీమాక్షీం తాం మహాసురః ।
ఛాదయామాస చక్రైశ్చ ముణ్డః క్షిప్తైః సహస్రశః ॥ ౭.౧౭॥
తాని చక్రాణ్యనేకాని విశమానాని తన్ముఖమ్ ।
బభుర్యథార్కబిమ్బాని సుబహూని ఘనోదరమ్ ॥ ౭.౧౮॥
తతో జహాసాతిరుషా భీమం భైరవనాదినీ ।
కాలీ కరాలవదనా దుర్దర్శదశనోజ్జ్వలా ॥ ౭.౧౯॥
ఉత్థాయ చ మహాసింహం దేవీ చణ్డమధావత ।
గృహీత్వా చాస్య కేశేషు శిరస్తేనాసినాచ్ఛినత్ ॥ ౭.౨౦॥
అథ ముణ్డోఽభ్యధావత్తాం దృష్ట్వా చణ్డం నిపాతితమ్ ।
తమప్యపాతయద్భూమౌ సా ఖడ్గాభిహతం రుషా ॥ ౭.౨౧॥
హతశేషం తతః సైన్యం దృష్ట్వా చణ్డం నిపాతితమ్ ।
ముణ్డం చ సుమహావీర్యం దిశో భేజే భయాతురమ్ ॥ ౭.౨౨॥
శిరశ్చణ్డస్య కాలీ చ గృహీత్వా ముణ్డమేవ చ ।
ప్రాహ ప్రచణ్డాట్టహాసమిశ్రమభ్యేత్య చణ్డికామ్ ॥ ౭.౨౩॥
మయా తవాత్రోపహృతౌ చణ్డముణ్డౌ మహాపశూ ।
యుద్ధయజ్ఞే స్వయం శుమ్భం నిశుమ్భం చ హనిష్యసి ॥ ౭.౨౪॥
ఋషిరువాచ ॥ ౭.౨౫॥
తావానీతౌ తతో దృష్ట్వా చణ్డముణ్డౌ మహాసురౌ ।
ఉవాచ కాలీం కల్యాణీ లలితం చణ్డికా వచః ॥ ౭.౨౬॥
యస్మాచ్చణ్డం చ ముణ్డం చ గృహీత్వా త్వముపాగతా ।
చాముణ్డేతి తతో లోకే ఖ్యాతా దేవీ భవిష్యసి ॥ ౭.౨౭॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
చణ్డముణ్డవధో నామ సప్తమోఽధ్యాయః ॥ ౭॥
ఉవాచ ౨, శ్లోకాః ౨౫, ఏవమాదితః ॥ ౪౩౯॥
॥ ౮. రక్తబీజవధో నామాష్టమోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం అరుణాం కరుణాతరఙ్గితాక్షీం
ధృతపాశాఙ్కుశబాణాచాపహస్తామ్ ।
అణిమాదిభిరావృతాం మయూఖై-
రహమిత్యేవ విభావయే భవానీమ్ ॥
ఓం ఋషిరువాచ ॥ ౮.౧॥
చణ్డే చ నిహతే దైత్యే ముణ్డే చ వినిపాతితే ।
బహులేషు చ సైన్యేషు క్షయితేష్వసురేశ్వరః ॥ ౮.౨॥
తతః కోపపరాధీనచేతాః శుమ్భః ప్రతాపవాన్ ।
ఉద్యోగం సర్వసైన్యానాం దైత్యానామాదిదేశ హ ॥ ౮.౩॥
అద్య సర్వబలైర్దైత్యాః షడశీతిరుదాయుధాః ।
కమ్బూనాం చతురశీతిర్నిర్యాన్తు స్వబలైర్వృతాః ॥ ౮.౪॥
కోటివీర్యాణి పఞ్చాశదసురాణాం కులాని వై ।
శతం కులాని ధౌమ్రాణాం నిర్గచ్ఛన్తు మమాజ్ఞయా ॥ ౮.౫॥
కాలకా దౌర్హృదా మౌర్వాః కాలికేయాస్తథాసురాః ।
యుద్ధాయ సజ్జా నిర్యాన్తు ఆజ్ఞయా త్వరితా మమ ॥ ౮.౬॥
ఇత్యాజ్ఞాప్యాసురపతిః శుమ్భో భైరవశాసనః ।
నిర్జగామ మహాసైన్యసహస్రైర్బహుభిర్వృతః ॥ ౮.౭॥
ఆయాన్తం చణ్డికా దృష్ట్వా తత్సైన్యమతిభీషణమ్ ।
జ్యాస్వనైః పూరయామాస ధరణీగగనాన్తరమ్ ॥ ౮.౮॥
తతః సింహో మహానాదమతీవ కృతవాన్నృప ।
ఘణ్టాస్వనేన తాన్నాదానమ్బికా చోపబృంహయత్ ॥ ౮.౯॥
ధనుర్జ్యాసింహఘణ్టానాం నాదాపూరితదిఙ్ముఖా ।
నినాదైర్భీషణైః కాలీ జిగ్యే విస్తారితాననా ॥ ౮.౧౦॥
తం నినాదముపశ్రుత్య దైత్యసైన్యైశ్చతుర్దిశమ్ ।
దేవీ సింహస్తథా కాలీ సరోషైః పరివారితాః ॥ ౮.౧౧॥
ఏతస్మిన్నన్తరే భూప వినాశాయ సురద్విషామ్ ।
భవాయామరసింహానామతివీర్యబలాన్వితాః ॥ ౮.౧౨॥
బ్రహ్మేశగుహవిష్ణూనాం తథేన్ద్రస్య చ శక్తయః ।
శరీరేభ్యో వినిష్క్రమ్య తద్రూపైశ్చణ్డికాం యయుః ॥ ౮.౧౩॥
యస్య దేవస్య యద్రూపం యథా భూషణవాహనమ్ ।
తద్వదేవ హి తచ్ఛక్తిరసురాన్యోద్ధుమాయయౌ ॥ ౮.౧౪॥
హంసయుక్తవిమానాగ్రే సాక్షసూత్రకమణ్డలుః ।
ఆయాతా బ్రహ్మణః శక్తిర్బ్రహ్మాణీత్యభిధీయతే ॥ ౮.౧౫॥
మాహేశ్వరీ వృషారూఢా త్రిశూలవరధారిణీ ।
మహాహివలయా ప్రాప్తా చన్ద్రరేఖావిభూషణా ॥ ౮.౧౬॥
కౌమారీ శక్తిహస్తా చ మయూరవరవాహనా ।
యోద్ధుమభ్యాయయౌ దైత్యానమ్బికా గుహరూపిణీ ॥ ౮.౧౭॥
తథైవ వైష్ణవీ శక్తిర్గరుడోపరి సంస్థితా ।
శఙ్ఖచక్రగదాశార్ఙ్గఖడ్గహస్తాభ్యుపాయయౌ ॥ ౮.౧౮॥
యజ్ఞవారాహమతులం రూపం యా బిభ్రతో హరేః ।
శక్తిః సాప్యాయయౌ తత్ర వారాహీం బిభ్రతీ తనుమ్ ॥ ౮.౧౯॥
నారసింహీ నృసింహస్య బిభ్రతీ సదృశం వపుః ।
ప్రాప్తా తత్ర సటాక్షేపక్షిప్తనక్షత్రసంహతిః ॥ ౮.౨౦॥
వజ్రహస్తా తథైవైన్ద్రీ గజరాజోపరి స్థితా ।
ప్రాప్తా సహస్రనయనా యథా శక్రస్తథైవ సా ॥ ౮.౨౧॥
తతః పరివృతస్తాభిరీశానో దేవశక్తిభిః ।
హన్యన్తామసురాః శీఘ్రం మమ ప్రీత్యాహ చణ్డికామ్ ॥ ౮.౨౨॥
తతో దేవీశరీరాత్తు వినిష్క్రాన్తాతిభీషణా ।
చణ్డికా శక్తిరత్యుగ్రా శివాశతనినాదినీ ॥ ౮.౨౩॥
సా చాహ ధూమ్రజటిలమీశానమపరాజితా ।
దూత త్వం గచ్ఛ భగవన్ పార్శ్వం శుమ్భనిశుమ్భయోః ॥ ౮.౨౪॥
బ్రూహి శుమ్భం నిశుమ్భం చ దానవావతిగర్వితౌ ।
యే చాన్యే దానవాస్తత్ర యుద్ధాయ సముపస్థితాః ॥ ౮.౨౫॥
త్రైలోక్యమిన్ద్రో లభతాం దేవాః సన్తు హవిర్భుజః ।
యూయం ప్రయాత పాతాలం యది జీవితుమిచ్ఛథ ॥ ౮.౨౬॥
బలావలేపాదథ చేద్భవన్తో యుద్ధకాఙ్క్షిణః ।
తదాగచ్ఛత తృప్యన్తు మచ్ఛివాః పిశితేన వః ॥ ౮.౨౭॥
యతో నియుక్తో దౌత్యేన తయా దేవ్యా శివః స్వయమ్ ।
శివదూతీతి లోకేఽస్మింస్తతః సా ఖ్యాతిమాగతా ॥ ౮.౨౮॥
తేఽపి శ్రుత్వా వచో దేవ్యాః శర్వాఖ్యాతం మహాసురాః ।
అమర్షాపూరితా జగ్ముర్యత్ర కాత్యాయనీ స్థితా ॥ ౮.౨౯॥
తతః ప్రథమమేవాగ్రే శరశక్త్యృష్టివృష్టిభిః ।
వవర్షురుద్ధతామర్షాస్తాం దేవీమమరారయః ॥ ౮.౩౦॥
సా చ తాన్ ప్రహితాన్ బాణాఞ్ఛూలశక్తిపరశ్వధాన్ ।
చిచ్ఛేద లీలయాధ్మాతధనుర్ముక్తైర్మహేషుభిః ॥ ౮.౩౧॥
తస్యాగ్రతస్తథా కాలీ శూలపాతవిదారితాన్ ।
ఖట్వాఙ్గపోథితాంశ్చారీన్కుర్వతీ వ్యచరత్తదా ॥ ౮.౩౨॥
కమణ్డలుజలాక్షేపహతవీర్యాన్ హతౌజసః ।
బ్రహ్మాణీ చాకరోచ్ఛత్రూన్యేన యేన స్మ ధావతి ॥ ౮.౩౩॥
మాహేశ్వరీ త్రిశూలేన తథా చక్రేణ వైష్ణవీ ।
దైత్యాఞ్జఘాన కౌమారీ తథా శక్త్యాతికోపనా ॥ ౮.౩౪॥
ఐన్ద్రీ కులిశపాతేన శతశో దైత్యదానవాః ।
పేతుర్విదారితాః పృథ్వ్యాం రుధిరౌఘప్రవర్షిణః ॥ ౮.౩౫॥
తుణ్డప్రహారవిధ్వస్తా దంష్ట్రాగ్రక్షతవక్షసః ।
వారాహమూర్త్యా న్యపతంశ్చక్రేణ చ విదారితాః ॥ ౮.౩౬॥
నఖైర్విదారితాంశ్చాన్యాన్ భక్షయన్తీ మహాసురాన్ ।
నారసింహీ చచారాజౌ నాదాపూర్ణదిగమ్బరా ॥ ౮.౩౭॥
చణ్డాట్టహాసైరసురాః శివదూత్యభిదూషితాః ।
పేతుః పృథివ్యాం పతితాంస్తాంశ్చఖాదాథ సా తదా ॥ ౮.౩౮॥
ఇతి మాతృగణం క్రుద్ధం మర్దయన్తం మహాసురాన్ ।
దృష్ట్వాభ్యుపాయైర్వివిధైర్నేశుర్దేవారిసైనికాః ॥ ౮.౩౯॥
పలాయనపరాన్దృష్ట్వా దైత్యాన్మాతృగణార్దితాన్ ।
యోద్ధుమభ్యాయయౌ క్రుద్ధో రక్తబీజో మహాసురః ॥ ౮.౪౦॥
రక్తబిన్దుర్యదా భూమౌ పతత్యస్య శరీరతః ।
సముత్పతతి మేదిన్యాం తత్ప్రమాణో మహాసురః ॥ ౮.౪౧॥
యుయుధే స గదాపాణిరిన్ద్రశక్త్యా మహాసురః ।
తతశ్చైన్ద్రీ స్వవజ్రేణ రక్తబీజమతాడయత్ ॥ ౮.౪౨॥
కులిశేనాహతస్యాశు బహు సుస్రావ శోణితమ్ ।
సముత్తస్థుస్తతో యోధాస్తద్రూపాస్తత్పరాక్రమాః ॥ ౮.౪౩॥
యావన్తః పతితాస్తస్య శరీరాద్రక్తబిన్దవః ।
తావన్తః పురుషా జాతాస్తద్వీర్యబలవిక్రమాః ॥ ౮.౪౪॥
తే చాపి యుయుధుస్తత్ర పురుషా రక్తసమ్భవాః ।
సమం మాతృభిరత్యుగ్రశస్త్రపాతాతిభీషణమ్ ॥ ౮.౪౫॥
పునశ్చ వజ్రపాతేన క్షతమస్య శిరో యదా ।
వవాహ రక్తం పురుషాస్తతో జాతాః సహస్రశః ॥ ౮.౪౬॥
వైష్ణవీ సమరే చైనం చక్రేణాభిజఘాన హ ।
గదయా తాడయామాస ఐన్ద్రీ తమసురేశ్వరమ్ ॥ ౮.౪౭॥
వైష్ణవీచక్రభిన్నస్య రుధిరస్రావసమ్భవైః ।
సహస్రశో జగద్వ్యాప్తం తత్ప్రమాణైర్మహాసురైః ॥ ౮.౪౮॥
శక్త్యా జఘాన కౌమారీ వారాహీ చ తథాసినా ।
మాహేశ్వరీ త్రిశూలేన రక్తబీజం మహాసురమ్ ॥ ౮.౪౯॥
స చాపి గదయా దైత్యః సర్వా ఏవాహనత్ పృథక్ ।
మాతౄః కోపసమావిష్టో రక్తబీజో మహాసురః ॥ ౮.౫౦॥
తస్యాహతస్య బహుధా శక్తిశూలాదిభిర్భువి ।
పపాత యో వై రక్తౌఘస్తేనాసఞ్ఛతశోఽసురాః ॥ ౮.౫౧॥
తైశ్చాసురాసృక్సమ్భూతైరసురైః సకలం జగత్ ।
వ్యాప్తమాసీత్తతో దేవా భయమాజగ్మురుత్తమమ్ ॥ ౮.౫౨॥
తాన్ విషణ్ణాన్ సురాన్ దృష్ట్వా చణ్డికా ప్రాహసత్వరమ్ ।
ఉవాచ కాలీం చాముణ్డే విస్తీర్ణం వదనం కురు ॥ ౮.౫౩॥
మచ్ఛస్త్రపాతసమ్భూతాన్ రక్తబిన్దూన్ మహాసురాన్ ।
రక్తబిన్దోః ప్రతీచ్ఛ త్వం వక్త్రేణానేన వేగినా ॥ ౮.౫౪॥
భక్షయన్తీ చర రణే తదుత్పన్నాన్మహాసురాన్ ।
ఏవమేష క్షయం దైత్యః క్షేణరక్తో గమిష్యతి ॥ ౮.౫౫॥
భక్ష్యమాణాస్త్వయా చోగ్రా న చోత్పత్స్యన్తి చాపరే ।
ఇత్యుక్త్వా తాం తతో దేవీ శూలేనాభిజఘాన తమ్ ॥ ౮.౫౬॥
ముఖేన కాలీ జగృహే రక్తబీజస్య శోణితమ్ ।
తతోఽసావాజఘానాథ గదయా తత్ర చణ్డికామ్ ॥ ౮.౫౭॥
న చాస్యా వేదనాం చక్రే గదాపాతోఽల్పికామపి ।
తస్యాహతస్య దేహాత్తు బహు సుస్రావ శోణితమ్ ॥ ౮.౫౮॥
యతస్తతస్తద్వక్త్రేణ చాముణ్డా సమ్ప్రతీచ్ఛతి ।
ముఖే సముద్గతా యేఽస్యా రక్తపాతాన్మహాసురాః ॥ ౮.౫౯॥
తాంశ్చఖాదాథ చాముణ్డా పపౌ తస్య చ శోణితమ్ ।
దేవీ శూలేన వజ్రేణ బాణైరసిభిరృష్టిభిః ॥ ౮.౬౦॥
జఘాన రక్తబీజం తం చాముణ్డాపీతశోణితమ్ ।
స పపాత మహీపృష్ఠే శస్త్రసఙ్ఘసమాహతః ॥ ౮.౬౧॥
నీరక్తశ్చ మహీపాల రక్తబీజో మహాసురః ।
తతస్తే హర్షమతులమవాపుస్త్రిదశా నృప ॥ ౮.౬౨॥
తేషాం మాతృగణో జాతో ననర్తాసృఙ్మదోద్ధతః ॥ ౮.౬౩॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
రక్తబీజవధో నామాష్టమోఽధ్యాయః ॥ ౮॥
ఉవాచ ౧, అర్ధశ్లోకః ౧, శ్లోకాః ౬౧, ఏవమాదితః ॥ ౫౦౨॥
॥ ౯. నిశుమ్భవధో నామ నవమోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం బన్ధూకకాఞ్చననిభం రుచిరాక్షమాలాం
పాశాఙ్కుశౌ చ వరదాం నిజబాహుదణ్డైః ।
బిభ్రాణమిన్దుశకలాభరణం త్రినేత్ర-
మర్ధాంబికేశమనిశం వపురాశ్రయామి ॥
ఓం రాజోవాచ ॥ ౯.౧॥
విచిత్రమిదమాఖ్యాతం భగవన్ భవతా మమ ।
దేవ్యాశ్చరితమాహాత్మ్యం రక్తబీజవధాశ్రితమ్ ॥ ౯.౨॥
భూయశ్చేచ్ఛామ్యహం శ్రోతుం రక్తబీజే నిపాతితే ।
చకార శుమ్భో యత్కర్మ నిశుమ్భశ్చాతికోపనః ॥ ౯.౩॥
ఋషిరువాచ ॥ ౯.౪॥
చకార కోపమతులం రక్తబీజే నిపాతితే ।
శుమ్భాసురో నిశుమ్భశ్చ హతేష్వన్యేషు చాహవే ॥ ౯.౫॥
హన్యమానం మహాసైన్యం విలోక్యామర్షముద్వహన్ ।
అభ్యధావన్నిశుమ్భోఽథ ముఖ్యయాసురసేనయా ॥ ౯.౬॥
తస్యాగ్రతస్తథా పృష్ఠే పార్శ్వయోశ్చ మహాసురాః ।
సన్దష్టౌష్ఠపుటాః క్రుద్ధా హన్తుం దేవీముపాయయుః ॥ ౯.౭॥
ఆజగామ మహావీర్యః శుమ్భోఽపి స్వబలైర్వృతః ।
నిహన్తుం చణ్డికాం కోపాత్కృత్వా యుద్ధం తు మాతృభిః ॥ ౯.౮॥
తతో యుద్ధమతీవాసీద్దేవ్యా శుమ్భనిశుమ్భయోః ।
శరవర్షమతీవోగ్రం మేఘయోరివ వర్షతోః ॥ ౯.౯॥
చిచ్ఛేదాస్తాఞ్ఛరాంస్తాభ్యాం చణ్డికా స్వశరోత్కరైః ।
తాడయామాస చాఙ్గేషు శస్త్రౌఘైరసురేశ్వరౌ ॥ ౯.౧౦॥
నిశుమ్భో నిశితం ఖడ్గం చర్మ చాదాయ సుప్రభమ్ ।
అతాడయన్మూర్ధ్ని సింహం దేవ్యా వాహనముత్తమమ్ ॥ ౯.౧౧॥
తాడితే వాహనే దేవీ క్షురప్రేణాసిముత్తమమ్ ।
నిశుమ్భస్యాశు చిచ్ఛేద చర్మ చాప్యష్టచన్ద్రకమ్ ॥ ౯.౧౨॥
ఛిన్నే చర్మణి ఖడ్గే చ శక్తిం చిక్షేప సోఽసురః ।
తామప్యస్య ద్విధా చక్రే చక్రేణాభిముఖాగతామ్ ॥ ౯.౧౩॥
కోపాధ్మాతో నిశుమ్భోఽథ శూలం జగ్రాహ దానవః ।
ఆయాతం ముష్టిపాతేన దేవీ తచ్చాప్యచూర్ణయత్ ॥ ౯.౧౪॥
ఆవిద్యాథ గదాం సోఽపి చిక్షేప చణ్డికాం ప్రతి ।
సాపి దేవ్యాస్ త్రిశూలేన భిన్నా భస్మత్వమాగతా ॥ ౯.౧౫॥
తతః పరశుహస్తం తమాయాన్తం దైత్యపుఙ్గవమ్ ।
ఆహత్య దేవీ బాణౌఘైరపాతయత భూతలే ॥ ౯.౧౬॥
తస్మిన్నిపతితే భూమౌ నిశుమ్భే భీమవిక్రమే ।
భ్రాతర్యతీవ సఙ్క్రుద్ధః ప్రయయౌ హన్తుమమ్బికామ్ ॥ ౯.౧౭॥
స రథస్థస్తథాత్యుచ్చైర్గృహీతపరమాయుధైః ।
భుజైరష్టాభిరతులైర్వ్యాప్యాశేషం బభౌ నభః ॥ ౯.౧౮॥
తమాయాన్తం సమాలోక్య దేవీ శఙ్ఖమవాదయత్ ।
జ్యాశబ్దం చాపి ధనుషశ్చకారాతీవ దుఃసహమ్ ॥ ౯.౧౯॥
పూరయామాస కకుభో నిజఘణ్టాస్వనేన చ ।
సమస్తదైత్యసైన్యానాం తేజోవధవిధాయినా ॥ ౯.౨౦॥
తతః సింహో మహానాదైస్త్యాజితేభమహామదైః ।
పూరయామాస గగనం గాం తథైవ దిశో దశ ॥ ౯.౨౧॥
తతః కాలీ సముత్పత్య గగనం క్ష్మామతాడయత్ ।
కరాభ్యాం తన్నినాదేన ప్రాక్స్వనాస్తే తిరోహితాః ॥ ౯.౨౨॥
అట్టాట్టహాసమశివం శివదూతీ చకార హ ।
వైః శబ్దైరసురాస్త్రేసుః శుమ్భః కోపం పరం యయౌ ॥ ౯.౨౩॥
దురాత్మంస్తిష్ఠ తిష్ఠేతి వ్యాజహారామ్బికా యదా ।
తదా జయేత్యభిహితం దేవైరాకాశసంస్థితైః ॥ ౯.౨౪॥
శుమ్భేనాగత్య యా శక్తిర్ముక్తా జ్వాలాతిభీషణా ।
ఆయాన్తీ వహ్నికూటాభా సా నిరస్తా మహోల్కయా ॥ ౯.౨౫॥
సింహనాదేన శుమ్భస్య వ్యాప్తం లోకత్రయాన్తరమ్ ।
నిర్ఘాతనిఃస్వనో ఘోరో జితవానవనీపతే ॥ ౯.౨౬॥
శుమ్భముక్తాఞ్ఛరాన్దేవీ శుమ్భస్తత్ప్రహితాఞ్ఛరాన్ ।
చిచ్ఛేద స్వశరైరుగ్రైః శతశోఽథ సహస్రశః ॥ ౯.౨౭॥
తతః సా చణ్డికా క్రుద్ధా శూలేనాభిజఘాన తమ్ ।
స తదాభిహతో భూమౌ మూర్చ్ఛితో నిపపాత హ ॥ ౯.౨౮॥
తతో నిశుమ్భః సమ్ప్రాప్య చేతనామాత్తకార్ముకః ।
ఆజఘాన శరైర్దేవీం కాలీం కేసరిణం తథా ॥ ౯.౨౯॥
పునశ్చ కృత్వా బాహూనామయుతం దనుజేశ్వరః ।
చక్రాయుధేన దితిజశ్ఛాదయామాస చణ్డికామ్ ॥ ౯.౩౦॥
తతో భగవతీ క్రుద్ధా దుర్గా దుర్గార్తినాశినీ ।
చిచ్ఛేద దేవీ చక్రాణి స్వశరైః సాయకాంశ్చ తాన్ ॥ ౯.౩౧॥
తతో నిశుమ్భో వేగేన గదామాదాయ చణ్డికామ్ ।
అభ్యధావత వై హన్తుం దైత్యసైన్యసమావృతః ॥ ౯.౩౨॥
తస్యాపతత ఏవాశు గదాం చిచ్ఛేద చణ్డికా ।
ఖడ్గేన శితధారేణ స చ శూలం సమాదదే ॥ ౯.౩౩॥
శూలహస్తం సమాయాన్తం నిశుమ్భమమరార్దనమ్ ।
హృది వివ్యాధ శూలేన వేగావిద్ధేన చణ్డికా ॥ ౯.౩౪॥
భిన్నస్య తస్య శూలేన హృదయాన్నిఃసృతోఽపరః ।
మహాబలో మహావీర్యస్తిష్ఠేతి పురుషో వదన్ ॥ ౯.౩౫॥
తస్య నిష్క్రామతో దేవీ ప్రహస్య స్వనవత్తతః ।
శిరశ్చిచ్ఛేద ఖడ్గేన తతోఽసావపతద్భువి ॥ ౯.౩౬॥
తతః సింహశ్చఖాదోగ్రదంష్ట్రాక్షుణ్ణశిరోధరాన్ ।
అసురాంస్తాంస్తథా కాలీ శివదూతీ తథాపరాన్ ॥ ౯.౩౭॥
కౌమారీశక్తినిర్భిన్నాః కేచిన్నేశుర్మహాసురాః ।
బ్రహ్మాణీమన్త్రపూతేన తోయేనాన్యే నిరాకృతాః ॥ ౯.౩౮॥
మాహేశ్వరీత్రిశూలేన భిన్నాః పేతుస్తథాపరే ।
వారాహీతుణ్డఘాతేన కేచిచ్చూర్ణీకృతా భువి ॥ ౯.౩౯॥
ఖణ్డం ఖణ్డం చ చక్రేణ వైష్ణవ్యా దానవాః కృతాః ।
వజ్రేణ చైన్ద్రీహస్తాగ్రవిముక్తేన తథాపరే ॥ ౯.౪౦॥
కేచిద్వినేశురసురాః కేచిన్నష్టా మహాహవాత్ ।
భక్షితాశ్చాపరే కాలీశివదూతీమృగాధిపైః ॥ ౯.౪౧॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
నిశుమ్భవధో నామ నవమోఽధ్యాయః ॥ ౯॥
ఉవాచ ౨, అర్ధశ్లోకాః ౩౯, శ్లోకాః ౪౧, ఏవమాదితః ॥ ౫౪౩॥
॥ ౧౦. శుమ్భవధో నామ దశమోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం ఉత్తప్తహేమరుచిరాం రవిచన్ద్రవహ్ని-
నేత్రాం ధనుశ్శరయుతాఙ్కుశపాశశూలమ్ ।
రమ్యైర్భుజైశ్చ దధతీం శివశక్తిరూపాం
కామేశ్వరీం హృది భజామి ధృతేన్దులేఖామ్ ॥
ఓం ఋషిరువాచ ॥ ౧౦.౧॥
నిశుమ్భం నిహతం దృష్ట్వా భ్రాతరం ప్రాణసమ్మితమ్ ।
హన్యమానం బలం చైవ శుమ్భః క్రుద్ధోఽబ్రవీద్వచః ॥ ౧౦.౨॥
బలావలేపదుష్టే త్వం మా దుర్గే గర్వమావహ ।
అన్యాసాం బలమాశ్రిత్య యుద్ధ్యసే చాతిమానినీ ॥ ౧౦.౩॥
దేవ్యువాచ ॥ ౧౦.౪॥
ఏకైవాహం జగత్యత్ర ద్వితీయా కా మమాపరా ।
పశ్యైతా దుష్ట మయ్యేవ విశన్త్యో మద్విభూతయః ॥ ౧౦.౫॥
తతః సమస్తాస్తా దేవ్యో బ్రహ్మాణీప్రముఖా లయమ్ ।
తస్యా దేవ్యాస్తనౌ జగ్మురేకైవాసీత్తదామ్బికా ॥ ౧౦.౬॥
దేవ్యువాచ ॥ ౧౦.౭॥
అహం విభూత్యా బహుభిరిహ రూపైర్యదాస్థితా ।
తత్సంహృతం మయైకైవ తిష్ఠామ్యాజౌ స్థిరో భవ ॥ ౧౦.౮॥
ఋషిరువాచ ॥ ౧౦.౯॥
తతః ప్రవవృతే యుద్ధం దేవ్యాః శుమ్భస్య చోభయోః ।
పశ్యతాం సర్వదేవానామసురాణాం చ దారుణమ్ ॥ ౧౦.౧౦॥
శరవర్షైః శితైః శస్త్రైస్తథా చాస్త్రైః సుదారుణైః ।
తయోర్యుద్ధమభూద్భూయః సర్వలోకభయఙ్కరమ్ ॥ ౧౦.౧౧॥
దివ్యాన్యస్త్రాణి శతశో ముముచే యాన్యథామ్బికా ।
బభఞ్జ తాని దైత్యేన్ద్రస్తత్ప్రతీఘాతకర్తృభిః ॥ ౧౦.౧౨॥
ముక్తాని తేన చాస్త్రాణి దివ్యాని పరమేశ్వరీ ।
బభఞ్జ లీలయైవోగ్రహుఙ్కారోచ్చారణాదిభిః ॥ ౧౦.౧౩॥
తతః శరశతైర్దేవీమాచ్ఛాదయత సోఽసురః ।
సాపి తత్కుపితా దేవీ ధనుశ్చిచ్ఛేద చేషుభిః ॥ ౧౦.౧౪॥
ఛిన్నే ధనుషి దైత్యేన్ద్రస్తథా శక్తిమథాదదే ।
చిచ్ఛేద దేవీ చక్రేణ తామప్యస్య కరే స్థితామ్ ॥ ౧౦.౧౫॥
తతః ఖడ్గముపాదాయ శతచన్ద్రం చ భానుమత్ ।
అభ్యధా వత తాం దేవీం దైత్యానామధిపేశ్వరః ॥ ౧౦.౧౬॥
తస్యాపతత ఏవాశు ఖడ్గం చిచ్ఛేద చణ్డికా ।
ధనుర్ముక్తైః శితైర్బాణైశ్చర్మ చార్కకరామలమ్ ।
అశ్వాంశ్చ పాతయామాస రథం సారథినా సహ ॥ ౧౦.౧౭॥
హతాశ్వః స తదా దైత్యశ్ఛిన్నధన్వా విసారథిః ।
జగ్రాహ ముద్గరం ఘోరమమ్బికానిధనోద్యతః ॥ ౧౦.౧౮॥
చిచ్ఛేదాపతతస్తస్య ముద్గరం నిశితైః శరైః ।
తథాపి సోఽభ్యధావత్తాం ముష్టిముద్యమ్య వేగవాన్ ॥ ౧౦.౧౯॥
స ముష్టిం పాతయామాస హృదయే దైత్యపుఙ్గవః ।
దేవ్యాస్తం చాపి సా దేవీ తలేనోరస్యతాడయత్ ॥ ౧౦.౨౦॥
తలప్రహారాభిహతో నిపపాత మహీతలే ।
స దైత్యరాజః సహసా పునరేవ తథోత్థితః ॥ ౧౦.౨౧॥
ఉత్పత్య చ ప్రగృహ్యోచ్చైర్దేవీం గగనమాస్థితః ।
తత్రాపి సా నిరాధారా యుయుధే తేన చణ్డికా ॥ ౧౦.౨౨॥
నియుద్ధం ఖే తదా దైత్యశ్చణ్డికా చ పరస్పరమ్ ।
చక్రతుః ప్రథమం సిద్ధమునివిస్మయకారకమ్ ॥ ౧౦.౨౩॥
తతో నియుద్ధం సుచిరం కృత్వా తేనామ్బికా సహ ।
ఉత్పాట్య భ్రామయామాస చిక్షేప ధరణీతలే ॥ ౧౦.౨౪॥
స క్షిప్తో ధరణీం ప్రాప్య ముష్టిముద్యమ్య వేగవాన్ ।
అభ్యధావత దుష్టాత్మా చణ్డికానిధనేచ్ఛయా ॥ ౧౦.౨౫॥
తమాయాన్తం తతో దేవీ సర్వదైత్యజనేశ్వరమ్ ।
జగత్యాం పాతయామాస భిత్త్వా శూలేన వక్షసి ॥ ౧౦.౨౬॥
స గతాసుః పపాతోర్వ్యాం దేవీ శూలాగ్రవిక్షతః ।
చాలయన్ సకలాం పృథ్వీం సాబ్ధిద్వీపాం సపర్వతామ్ ॥ ౧౦.౨౭॥
తతః ప్రసన్నమఖిలం హతే తస్మిన్ దురాత్మని ।
జగత్స్వాస్థ్యమతీవాప నిర్మలం చాభవన్నభః ॥ ౧౦.౨౮॥
ఉత్పాతమేఘాః సోల్కా యే ప్రాగాసంస్తే శమం యయుః ।
సరితో మార్గవాహిన్యస్తథాసంస్తత్ర పాతితే ॥ ౧౦.౨౯॥
తతో దేవగణాః సర్వే హర్షనిర్భరమానసాః ।
బభూవుర్నిహతే తస్మిన్ గన్ధర్వా లలితం జగుః ॥ ౧౦.౩౦॥
అవాదయంస్తథైవాన్యే ననృతుశ్చాప్సరోగణాః ।
వవుః పుణ్యాస్తథా వాతాః సుప్రభోఽభూద్దివాకరః ॥ ౧౦.౩౧॥
జజ్వలుశ్చాగ్నయః శాన్తాః శాన్తా దిగ్జనితస్వనాః ॥ ౧౦.౩౨॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే
దేవీమాహాత్మ్యే శుమ్భవధో నామ దశమోఽధ్యాయః ॥ ౧౦॥
॥ నారాయణీస్తుతిర్నామైకాదశోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం బాలరవిద్యుతిమిన్దుకిరీటాం తుఙ్గకుచాం నయనత్రయయుక్తామ్ ।
స్మేరముఖీం వరదాఙ్కుశపాశాభీతికరాం ప్రభజే భువనేశీమ్ ॥
ఓం ఋషిరువాచ ॥ ౧౧.౧॥
దేవ్యా హతే తత్ర మహాసురేన్ద్రే
సేన్ద్రాః సురా వహ్నిపురోగమాస్తామ్ ।
కాత్యాయనీం తుష్టువురిష్టలాభాద్
వికాశివక్త్రాబ్జవికాశితాశాః ॥ ౧౧.౨॥
దేవి ప్రపన్నార్తిహరే ప్రసీద
ప్రసీద మాతర్జగతోఽఖిలస్య ।
ప్రసీద విశ్వేశ్వరి పాహి విశ్వం
త్వమీశ్వరీ దేవి చరాచరస్య ॥ ౧౧.౩॥
ఆధారభూతా జగతస్త్వమేకా
మహీస్వరూపేణ యతః స్థితాసి ।
అపాం స్వరూపస్థితయా త్వయైత-
దాప్యాయతే కృత్స్నమలఙ్ఘ్యవీర్యే ॥ ౧౧.౪॥
త్వం వైష్ణవీశక్తిరనన్తవీర్యా
విశ్వస్య బీజం పరమాసి మాయా ।
సమ్మోహితం దేవి సమస్తమేతత్
త్వం వై ప్రసన్నా భువి ముక్తిహేతుః ॥ ౧౧.౫॥
విద్యాః సమస్తాస్తవ దేవి భేదాః
స్త్రియః సమస్తాః సకలా జగత్సు ।
త్వయైకయా పూరితమమ్బయైతత్
కా తే స్తుతిః స్తవ్యపరాపరోక్తిః ॥ ౧౧.౬॥
సర్వభూతా యదా దేవీ భుక్తిముక్తిప్రదాయినీ ।
త్వం స్తుతా స్తుతయే కా వా భవన్తు పరమోక్తయః ॥ ౧౧.౭॥
సర్వస్య బుద్ధిరూపేణ జనస్య హృది సంస్థితే ।
స్వర్గాపవర్గదే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౮॥
కలాకాష్ఠాదిరూపేణ పరిణామప్రదాయిని ।
విశ్వస్యోపరతౌ శక్తే నారాయణి నమోఽస్తు తే ॥ ౧౧.౯॥
సర్వమఙ్గలమాఙ్గల్యే శివే సర్వార్థసాధికే ।
శరణ్యే త్ర్యమ్బకే గౌరి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౦॥
సృష్టిస్థితివినాశానాం శక్తిభూతే సనాతని ।
గుణాశ్రయే గుణమయే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౧॥
శరణాగతదీనార్తపరిత్రాణపరాయణే ।
సర్వస్యార్తిహరే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౨॥
హంసయుక్తవిమానస్థే బ్రహ్మాణీరూపధారిణి ।
కౌశామ్భఃక్షరికే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౩॥
త్రిశూలచన్ద్రాహిధరే మహావృషభవాహిని ।
మాహేశ్వరీస్వరూపేణ నారాయణి నమోఽస్తుతే ॥ ౧౧.౧౪॥
మయూరకుక్కుటవృతే మహాశక్తిధరేఽనఘే ।
కౌమారీరూపసంస్థానే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౫॥
శఙ్ఖచక్రగదాశార్ఙ్గగృహీతపరమాయుధే ।
ప్రసీద వైష్ణవీరూపే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౬॥
గృహీతోగ్రమహాచక్రే దంష్ట్రోద్ధృతవసున్ధరే ।
వరాహరూపిణి శివే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౭॥
నృసింహరూపేణోగ్రేణ హన్తుం దైత్యాన్ కృతోద్యమే ।
త్రైలోక్యత్రాణసహితే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౮॥
కిరీటిని మహావజ్రే సహస్రనయనోజ్జ్వలే ।
వృత్రప్రాణహరే చైన్ద్రి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౯॥
శివదూతీస్వరూపేణ హతదైత్యమహాబలే ।
ఘోరరూపే మహారావే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౦॥
దంష్ట్రాకరాలవదనే శిరోమాలావిభూషణే ।
చాముణ్డే ముణ్డమథనే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౧॥
లక్ష్మి లజ్జే మహావిద్యే శ్రద్ధే పుష్టి స్వధే ధ్రువే ।
మహారాత్రి మహామాయే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౨॥
మేధే సరస్వతి వరే భూతి బాభ్రవి తామసి ।
నియతే త్వం ప్రసీదేశే నారాయణి నమోఽస్తుతే ॥ ౧౧.౨౩॥
సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే ।
భయేభ్యస్త్రాహి నో దేవి దుర్గే దేవి నమోఽస్తు తే ॥ ౧౧.౨౪॥
ఏతత్తే వదనం సౌమ్యం లోచనత్రయభూషితమ్ ।
పాతు నః సర్వభూతేభ్యః కాత్యాయని నమోఽస్తు తే ॥ ౧౧.౨౫॥
జ్వాలాకరాలమత్యుగ్రమశేషాసురసూదనమ్ ।
త్రిశూలం పాతు నో భీతేర్భద్రకాలి నమోఽస్తు తే ॥ ౧౧.౨౬॥
హినస్తి దైత్యతేజాంసి స్వనేనాపూర్య యా జగత్ ।
సా ఘణ్టా పాతు నో దేవి పాపేభ్యో నః సుతానివ ॥ ౧౧.౨౭॥
అసురాసృగ్వసాపఙ్కచర్చితస్తే కరోజ్జ్వలః ।
శుభాయ ఖడ్గో భవతు చణ్డికే త్వాం నతా వయమ్ ॥ ౧౧.౨౮॥
రోగానశేషానపహంసి తుష్టా
రుష్టా తు కామాన్ సకలానభీష్టాన్ ।
త్వామాశ్రితానాం న విపన్నరాణాం
త్వామాశ్రితా హ్యాశ్రయతాం ప్రయాన్తి ॥ ౧౧.౨౯॥
ఏతత్కృతం యత్కదనం త్వయాద్య
ధర్మద్విషాం దేవి మహాసురాణామ్ ।
రూపైరనేకైర్బహుధాత్మమూర్తిం
కృత్వామ్బికే తత్ప్రకరోతి కాన్యా ॥ ౧౧.౩౦॥
విద్యాసు శాస్త్రేషు వివేకదీపే-
ష్వాద్యేషు వాక్యేషు చ కా త్వదన్యా ।
మమత్వగర్తేఽతిమహాన్ధకారే
విభ్రామయత్యేతదతీవ విశ్వమ్ ॥ ౧౧.౩౧॥
రక్షాంసి యత్రోగ్రవిషాశ్చ నాగా
యత్రారయో దస్యుబలాని యత్ర ।
దావానలో యత్ర తథాబ్ధిమధ్యే
తత్ర స్థితా త్వం పరిపాసి విశ్వమ్ ॥ ౧౧.౩౨॥
విశ్వేశ్వరి త్వం పరిపాసి విశ్వం
విశ్వాత్మికా ధారయసీహ విశ్వమ్ ।
విశ్వేశవన్ద్యా భవతీ భవన్తి
విశ్వాశ్రయా యే త్వయి భక్తినమ్రాః ॥ ౧౧.౩౩॥
దేవి ప్రసీద పరిపాలయ నోఽరిభీతే-
ర్నిత్యం యథాసురవధాదధునైవ సద్యః ।
పాపాని సర్వజగతాం ప్రశమం నయాశు
ఉత్పాతపాకజనితాంశ్చ మహోపసర్గాన్ ॥ ౧౧.౩౪॥
ప్రణతానాం ప్రసీద త్వం దేవి విశ్వార్తిహారిణి ।
త్రైలోక్యవాసినామీడ్యే లోకానాం వరదా భవ ॥ ౧౧.౩౫॥
దేవ్యువాచ ॥ ౧౧.౩౬॥
వరదాహం సురగణా వరం యన్మనసేచ్ఛథ ।
తం వృణుధ్వం ప్రయచ్ఛామి జగతాముపకారకమ్ ॥ ౧౧.౩౭॥
దేవా ఊచుః ॥ ౧౧.౩౮॥
సర్వాబాధాప్రశమనం త్రైలోక్యస్యాఖిలేశ్వరి ।
ఏవమేవ త్వయా కార్యమస్మద్వైరివినాశనమ్ ॥ ౧౧.౩౯॥
దేవ్యువాచ ॥ ౧౧.౪౦॥
వైవస్వతేఽన్తరే ప్రాప్తే అష్టావింశతిమే యుగే ।
శుమ్భో నిశుమ్భశ్చైవాన్యావుత్పత్స్యేతే మహాసురౌ ॥ ౧౧.౪౧॥
నన్దగోపగృహే జాతా యశోదాగర్భసమ్భవా ।
తతస్తౌ నాశయిష్యామి విన్ధ్యాచలనివాసినీ ॥ ౧౧.౪౨॥
పునరప్యతిరౌద్రేణ రూపేణ పృథివీతలే ।
అవతీర్య హనిష్యామి వైప్రచిత్తాంశ్చ దానవాన్ ॥ ౧౧.౪౩॥
భక్షయన్త్యాశ్చ తానుగ్రాన్ వైప్రచిత్తాన్ మహాసురాన్ ।
రక్తా దన్తా భవిష్యన్తి దాడిమీకుసుమోపమాః ॥ ౧౧.౪౪॥
తతో మాం దేవతాః స్వర్గే మర్త్యలోకే చ మానవాః ।
స్తువన్తో వ్యాహరిష్యన్తి సతతం రక్తదన్తికామ్ ॥ ౧౧.౪౫॥
భూయశ్చ శతవార్షిక్యామనావృష్ట్యామనమ్భసి ।
మునిభిః సంస్మృతా భూమౌ సమ్భవిష్యామ్యయోనిజా ॥ ౧౧.౪౬॥
తతః శతేన నేత్రాణాం నిరీక్షిష్యామ్యహం మునీన్ ।
కీర్తయిష్యన్తి మనుజాః శతాక్షీమితి మాం తతః ॥ ౧౧.౪౭॥
తతోఽహమఖిలం లోకమాత్మదేహసముద్భవైః ।
భరిష్యామి సురాః శాకైరావృష్టేః ప్రాణధారకైః ॥ ౧౧.౪౮॥
శాకమ్భరీతి విఖ్యాతిం తదా యాస్యామ్యహం భువి ।
తత్రైవ చ వధిష్యామి దుర్గమాఖ్యం మహాసురమ్ ॥ ౧౧.౪౯॥
దుర్గాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి ।
పునశ్చాహం యదా భీమం రూపం కృత్వా హిమాచలే ॥ ౧౧.౫౦॥
రక్షాంసి భక్షయిష్యామి మునీనాం త్రాణకారణాత్ ।
తదా మాం మునయః సర్వే స్తోష్యన్త్యానమ్రమూర్తయః ॥ ౧౧.౫౧॥
భీమాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి ।
యదారుణాఖ్యస్త్రైలోక్యే మహాబాధాం కరిష్యతి ॥ ౧౧.౫౨॥
తదాహం భ్రామరం రూపం కృత్వాసఙ్ఖ్యేయషట్పదమ్ ।
త్రైలోక్యస్య హితార్థాయ వధిష్యామి మహాసురమ్ ॥ ౧౧.౫౩॥
భ్రామరీతి చ మాం లోకాస్తదా స్తోష్యన్తి సర్వతః ।
ఇత్థం యదా యదా బాధా దానవోత్థా భవిష్యతి ॥ ౧౧.౫౪॥
తదా తదావతీర్యాహం కరిష్యామ్యరిసఙ్క్షయమ్ ॥ ౧౧.౫౫॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
నారాయణీస్తుతిర్నామైకాదశోఽధ్యాయః ॥ ౧౧॥
ఉవాచ ౪, అర్ధశ్లోకః ౧, శ్లోకాః ౫౦, ఏవమాదితః ॥ ౬౩౦॥
॥ ౧౨. భగవతీ వాక్యం ద్వాదశోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం విద్యుద్ధామసమప్రభాం మృగపతిస్కన్ధస్థితాం భీషణాం
కన్యాభిః కరవాళఖేటవిలసధస్తాభిరాసేవితామ్ ।
హస్తైశ్చక్రగదాసిఖేటవిశిఖాంశ్చాపం గుణం తర్జనీం
బిభ్రాణామనలాత్మికాం శశిధరాం దుర్గాం త్రినేత్రాం భజే ॥
ఓం దేవ్యువాచ ॥ ౧౨.౧॥
ఏభిః స్తవైశ్చ మాం నిత్యం స్తోష్యతే యః సమాహితః ।
తస్యాహం సకలాం బాధాం శమయిష్యామ్యసంశయమ్ ॥ ౧౨.౨॥
మధుకైటభనాశం చ మహిషాసురఘాతనమ్ ।
కీర్తయిష్యన్తి యే తద్వద్వధం శుమ్భనిశుమ్భయోః ॥ ౧౨.౩॥
అష్టమ్యాం చ చతుర్దశ్యాం నవమ్యాం చైకచేతసః ।
శ్రోష్యన్తి చైవ యే భక్త్యా మమ మాహాత్మ్యముత్తమమ్ ॥ ౧౨.౪॥
న తేషాం దుష్కృతం కిఞ్చిద్దుష్కృతోత్థా న చాపదః ।
భవిష్యతి న దారిద్ర్యం న చైవేష్టవియోజనమ్ ॥ ౧౨.౫॥
శత్రుభ్యో న భయం తస్య దస్యుతో వా న రాజతః ।
న శస్త్రానలతోయౌఘాత్ కదాచిత్ సమ్భవిష్యతి ॥ ౧౨.౬॥
తస్మాన్మమైతన్మాహాత్మ్యం పఠితవ్యం సమాహితైః ।
శ్రోతవ్యం చ సదా భక్త్యా పరం స్వస్త్యయనం మహత్ ॥ ౧౨.౭॥
ఉపసర్గానశేషాంస్తు మహామారీసముద్భవాన్ ।
తథా త్రివిధముత్పాతం మాహాత్మ్యం శమయేన్మమ ॥ ౧౨.౮॥
యత్రైతత్పఠ్యతే సమ్యఙ్నిత్యమాయతనే మమ ।
సదా న తద్విమోక్ష్యామి సాన్నిధ్యం తత్ర మే స్థితమ్ ॥ ౧౨.౯॥
బలిప్రదానే పూజాయామగ్నికార్యే మహోత్సవే ।
సర్వం మమైతన్మాహాత్మ్యమ్ ఉచ్చార్యం శ్రావ్యమేవ చ ॥ ౧౨.౧౦॥
జానతాజానతా వాపి బలిపూజాం యథా కృతామ్ ।
ప్రతీక్షిష్యామ్యహం ప్రీత్యా వహ్నిహోమం తథాకృతమ్ ॥ ౧౨.౧౧॥
శరత్కాలే మహాపూజా క్రియతే యా చ వార్షికీ ।
తస్యాం మమైతన్మాహాత్మ్యం శ్రుత్వా భక్తిసమన్వితః ॥ ౧౨.౧౨॥
సర్వాబాధావినిర్ముక్తో ధనధాన్యసమన్వితః ।
మనుష్యో మత్ప్రసాదేన భవిష్యతి న సంశయః ॥ ౧౨.౧౩॥
శ్రుత్వా మమైతన్మాహాత్మ్యం తథా చోత్పత్తయః శుభాః ।
పరాక్రమం చ యుద్ధేషు జాయతే నిర్భయః పుమాన్ ॥ ౧౨.౧౪॥
రిపవః సఙ్క్షయం యాన్తి కల్యాణం చోపపద్యతే ।
నన్దతే చ కులం పుంసాం మాహాత్మ్యం మమ శృణ్వతామ్ ॥ ౧౨.౧౫॥
శాన్తికర్మణి సర్వత్ర తథా దుఃస్వప్నదర్శనే ।
గ్రహపీడాసు చోగ్రాసు మాహాత్మ్యం శృణుయాన్మమ ॥ ౧౨.౧౬॥
ఉపసర్గాః శమం యాన్తి గ్రహపీడాశ్చ దారుణాః ।
దుఃస్వప్నం చ నృభిర్దృష్టం సుస్వప్నముపజాయతే ॥ ౧౨.౧౭॥
బాలగ్రహాభిభూతానాం బాలానాం శాన్తికారకమ్ ।
సఙ్ఘాతభేదే చ నృణాం మైత్రీకరణముత్తమమ్ ॥ ౧౨.౧౮॥
దుర్వృత్తానామశేషాణాం బలహానికరం పరమ్ ।
రక్షోభూతపిశాచానాం పఠనాదేవ నాశనమ్ ॥ ౧౨.౧౯॥
సర్వం మమైతన్మాహాత్మ్యం మమ సన్నిధికారకమ్ ।
పశుపుష్పార్ఘ్యధూపైశ్చ గన్ధదీపైస్తథోత్తమైః ॥ ౧౨.౨౦॥
విప్రాణాం భోజనైర్హోమైః ప్రోక్షణీయైరహర్నిశమ్ ।
అన్యైశ్చ వివిధైర్భోగైః ప్రదానైర్వత్సరేణ యా ॥ ౧౨.౨౧॥
ప్రీతిర్మే క్రియతే సాస్మిన్ సకృదుచ్చరితే శ్రుతే ।
శ్రుతం హరతి పాపాని తథారోగ్యం ప్రయచ్ఛతి ॥ ౧౨.౨౨॥
రక్షాం కరోతి భూతేభ్యో జన్మనాం కీర్తనం మమ ।
యుద్ధేషు చరితం యన్మే దుష్టదైత్యనిబర్హణమ్ ॥ ౧౨.౨౩॥
తస్మిఞ్ఛ్రుతే వైరికృతం భయం పుంసాం న జాయతే ।
యుష్మాభిః స్తుతయో యాశ్చ యాశ్చ బ్రహ్మర్షిభిః కృతాః ॥ ౧౨.౨౪॥
బ్రహ్మణా చ కృతాస్తాస్తు ప్రయచ్ఛన్తు శుభాం మతిమ్ ।
అరణ్యే ప్రాన్తరే వాపి దావాగ్నిపరివారితః ॥ ౧౨.౨౫॥
దస్యుభిర్వా వృతః శూన్యే గృహీతో వాపి శత్రుభిః ।
సింహవ్యాఘ్రానుయాతో వా వనే వా వనహస్తిభిః ॥ ౧౨.౨౬॥
రాజ్ఞా క్రుద్ధేన చాజ్ఞప్తో వధ్యో బన్ధగతోఽపి వా ।
ఆఘూర్ణితో వా వాతేన స్థితః పోతే మహార్ణవే ॥ ౧౨.౨౭॥
పతత్సు చాపి శస్త్రేషు సఙ్గ్రామే భృశదారుణే ।
సర్వాబాధాసు ఘోరాసు వేదనాభ్యర్దితోఽపి వా ॥ ౧౨.౨౮॥
స్మరన్ మమైతచ్చరితం నరో ముచ్యేత సఙ్కటాత్ ।
మమ ప్రభావాత్సింహాద్యా దస్యవో వైరిణస్తథా ॥ ౧౨.౨౯॥
దూరాదేవ పలాయన్తే స్మరతశ్చరితం మమ ॥ ౧౨.౩౦॥
ఋషిరువాచ ॥ ౧౨.౩౧॥
ఇత్యుక్త్వా సా భగవతీ చణ్డికా చణ్డవిక్రమా ॥ ౧౨.౩౨॥
పశ్యతాం సర్వదేవానాం తత్రైవాన్తరధీయత ।
తేఽపి దేవా నిరాతఙ్కాః స్వాధికారాన్యథా పురా ॥ ౧౨.౩౩॥
యజ్ఞభాగభుజః సర్వే చక్రుర్వినిహతారయః ।
దైత్యాశ్చ దేవ్యా నిహతే శుమ్భే దేవరిపౌ యుధి ॥ ౧౨.౩౪॥
జగద్విధ్వంసకే తస్మిన్ మహోగ్రేఽతులవిక్రమే ।
నిశుమ్భే చ మహావీర్యే శేషాః పాతాలమాయయుః ॥ ౧౨.౩౫॥
ఏవం భగవతీ దేవీ సా నిత్యాపి పునః పునః ।
సమ్భూయ కురుతే భూప జగతః పరిపాలనమ్ ॥ ౧౨.౩౬॥
తయైతన్మోహ్యతే విశ్వం సైవ విశ్వం ప్రసూయతే ।
సా యాచితా చ విజ్ఞానం తుష్టా ఋద్ధిం ప్రయచ్ఛతి ॥ ౧౨.౩౭॥
వ్యాప్తం తయైతత్సకలం బ్రహ్మాణ్డం మనుజేశ్వర ।
మహాదేవ్యా మహాకాలీ మహామారీస్వరూపయా ॥ ౧౨.౩౮॥
సైవ కాలే మహామారీ సైవ సృష్టిర్భవత్యజా ।
స్థితిం కరోతి భూతానాం సైవ కాలే సనాతనీ ॥ ౧౨.౩౯॥
భవకాలే నృణాం సైవ లక్ష్మీర్వృద్ధిప్రదా గృహే ।
సైవాభావే తథాలక్ష్మీర్వినాశాయోపజాయతే ॥ ౧౨.౪౦॥
స్తుతా సమ్పూజితా పుష్పైర్గన్ధధూపాదిభిస్తథా ।
దదాతి విత్తం పుత్రాంశ్చ మతిం ధర్మే గతిం శుభామ్ ॥ ౧౨.౪౧॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
భగవతీ వాక్యం ద్వాదశోఽధ్యాయః ॥ ౧౨॥
ఉవాచ ౨, అర్ధశ్లోకౌ ౨, శ్లోకాః ౩౭, ఏవమాదితః ॥ ౬౭౧॥
॥ ౧౩. సురథవైశ్యయోర్వరప్రదానం నామ త్రయోదశోఽధ్యాయః ॥
। ధ్యానమ్ ।
ఓం బాలార్కమణ్డలాభాసాం చతుర్బాహుం త్రిలోచనామ్ ।
పాశాఙ్కుశవరాభీతిర్ధారయన్తీం శివాం భజే ॥
ఓం ఋషిరువాచ ॥ ౧౩.౧॥
ఏతత్తే కథితం భూప దేవీమాహాత్మ్యముత్తమమ్ ।
ఏవం ప్రభావా సా దేవీ యయేదం ధార్యతే జగత్ ॥ ౧౩.౨॥
విద్యా తథైవ క్రియతే భగవద్విష్ణుమాయయా ।
తయా త్వమేష వైశ్యశ్చ తథైవాన్యే వివేకినః ॥ ౧౩.౩॥
మోహ్యన్తే మోహితాశ్చైవ మోహమేష్యన్తి చాపరే ।
తాముపైహి మహారాజ శరణం పరమేశ్వరీమ్ ॥ ౧౩.౪॥
ఆరాధితా సైవ నృణాం భోగస్వర్గాపవర్గదా ॥ ౧౩.౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౬॥
ఇతి తస్య వచః శ్రుత్వా సురథః స నరాధిపః ॥ ౧౩.౭॥
ప్రణిపత్య మహాభాగం తమృషిం సంశితవ్రతమ్ ।
నిర్విణ్ణోఽతిమమత్వేన రాజ్యాపహరణేన చ ॥ ౧౩.౮॥
జగామ సద్యస్తపసే స చ వైశ్యో మహామునే ।
సన్దర్శనార్థమమ్బాయా నదీపులినమాస్థితః ॥ ౧౩.౯॥
స చ వైశ్యస్తపస్తేపే దేవీసూక్తం పరం జపన్ ।
తౌ తస్మిన్ పులినే దేవ్యాః కృత్వా మూర్తిం మహీమయీమ్ ॥ ౧౩.౧౦॥
అర్హణాం చక్రతుస్తస్యాః పుష్పధూపాగ్నితర్పణైః ।
నిరాహారౌ యతాత్మానౌ తన్మనస్కౌ సమాహితౌ ॥ ౧౩.౧౧॥
దదతుస్తౌ బలిం చైవ నిజగాత్రాసృగుక్షితమ్ ।
ఏవం సమారాధయతోస్త్రిభిర్వర్షైర్యతాత్మనోః ॥ ౧౩.౧౨॥
పరితుష్టా జగద్ధాత్రీ ప్రత్యక్షం ప్రాహ చణ్డికా ॥ ౧౩.౧౩॥
దేవ్యువాచ ॥ ౧౩.౧౪॥
యత్ప్రార్థ్యతే త్వయా భూప త్వయా చ కులనన్దన ।
మత్తస్తత్ప్రాప్యతాం సర్వం పరితుష్టా దదామితే ॥ ౧౩.౧౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౧౬॥
తతో వవ్రే నృపో రాజ్యమవిభ్రంశ్యన్యజన్మని ।
అత్రైవ చ నిజం రాజ్యం హతశత్రుబలం బలాత్ ॥ ౧౩.౧౭॥
సోఽపి వైశ్యస్తతో జ్ఞానం వవ్రే నిర్విణ్ణమానసః ।
మమేత్యహమితి ప్రాజ్ఞః సఙ్గవిచ్యుతికారకమ్ ॥ ౧౩.౧౮॥
దేవ్యువాచ ॥ ౧౩.౧౯॥
స్వల్పైరహోభిర్నృపతే స్వం రాజ్యం ప్రాప్స్యతే భవాన్ ॥ ౧౩.౨౦॥
హత్వా రిపూనస్ఖలితం తవ తత్ర భవిష్యతి ॥ ౧౩.౨౧॥
మృతశ్చ భూయః సమ్ప్రాప్య జన్మ దేవాద్వివస్వతః ॥ ౧౩.౨౨॥
సావర్ణికో మనుర్నామ భవాన్భువి భవిష్యతి ॥ ౧౩.౨౩॥
వైశ్యవర్య త్వయా యశ్చ వరోఽస్మత్తోఽభివాఞ్ఛితః ॥ ౧౩.౨౪॥
తం ప్రయచ్ఛామి సంసిద్ధ్యై తవ జ్ఞానం భవిష్యతి ॥ ౧౩.౨౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౨౬॥
ఇతి దత్త్వా తయోర్దేవీ యథాభిలషితం వరమ్ ॥ ౧౩.౨౭॥
బభూవాన్తర్హితా సద్యో భక్త్యా తాభ్యామభిష్టుతా ।
ఏవం దేవ్యా వరం లబ్ధ్వా సురథః క్షత్రియర్షభః ॥ ౧౩.౨౮॥
సూర్యాజ్జన్మ సమాసాద్య సావర్ణిర్భవితా మనుః ॥ ౧౩.౨౯॥
ఏవం దేవ్యా వరం లబ్ధ్వా సురథః క్షత్రియర్షభః ।
సూర్యాజ్జన్మ సమాసాద్య సావర్ణిర్భవితా మనుః ॥ క్లీం ఓం ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
సురథవైశ్యయోర్వరప్రదానం నామ త్రయోదశోఽధ్యాయః ॥ ౧౩॥
ఉవాచ ౬, అర్ధశ్లోకాః ౧౧, శ్లోకాః ౧౨, ఏవమాదితః ॥ ౭౦౦॥
సమస్తా ఉవాచమన్త్రాః ౫౭, అర్ధశ్లోకాః ౪౨, శ్లోకాః ౫౩౫, అవదానాని ౬౬ ॥
॥ శ్రీసప్తశతీదేవీమాహాత్మ్యం సమాప్తమ్ ॥
॥ ఓం తత్ సత్ ఓం ॥
॥ అథ అపరాధక్షమాపణస్తోత్రమ్ ॥
ఓం అపరాధశతం కృత్వా జగదమ్బేతి చోచ్చరేత్ ।
యాం గతిం సమవాప్నోతి న తాం బ్రహ్మాదయః సురాః ॥ ౧॥
సాపరాధోఽస్మి శరణం ప్రాప్తస్త్వాం జగదమ్బికే ।
ఇదానీమనుకమ్ప్యోఽహం యథేచ్ఛసి తథా కురు ॥ ౨॥
అజ్ఞానాద్విస్మృతేర్భ్రాన్త్యా యన్న్యూనమధికం కృతమ్ ।
తత్సర్వం క్షమ్యతాం దేవి ప్రసీద పరమేశ్వరి ॥ ౩॥
కామేశ్వరి జగన్మాతః సచ్చిదానన్దవిగ్రహే ।
గృహాణార్చామిమాం ప్రీత్యా ప్రసీద పరమేశ్వరి ॥ ౪॥
సర్వరూపమయీ దేవీ సర్వం దేవీమయం జగత్ ।
అతోఽహం విశ్వరూపాం త్వాం నమామి పరమేశ్వరీమ్ ॥ ౫॥
యదక్షరం పరిభ్రష్టం మాత్రాహీనఞ్చ యద్భవేత్ ।
పూర్ణం భవతు తత్ సర్వం త్వత్ప్రసాదాన్మహేశ్వరి ॥ ౬॥
యదత్ర పాఠే జగదమ్బికే మయా
విసర్గబిన్ద్వక్షరహీనమీరితమ్ ।
తదస్తు సమ్పూర్ణతమం ప్రసాదతః
సఙ్కల్పసిద్ధిశ్చ సదైవ జాయతామ్ ॥ ౭॥
యన్మాత్రాబిన్దుబిన్దుద్వితయపదపదద్వన్ద్వవర్ణాదిహీనం
భక్త్యాభక్త్యానుపూర్వం ప్రసభకృతివశాత్ వ్యక్తమవ్యక్తమమ్బ ।
మోహాదజ్ఞానతో వా పఠితమపఠితం సామ్ప్రతం తే స్తవేఽస్మిన్
తత్ సర్వం సాఙ్గమాస్తాం భగవతి వరదే త్వత్ప్రసాదాత్ ప్రసీద ॥ ౮॥
ప్రసీద భగవత్యమ్బ ప్రసీద భక్తవత్సలే ।
ప్రసాదం కురు మే దేవి దుర్గే దేవి నమోఽస్తు తే ॥ ౯॥
॥ ఇతి అపరాధక్షమాపణస్తోత్రం సమాప్తమ్ ॥
॥ అథ దేవీసూక్తమ్ ॥
ఓం అహం రుద్రేభిర్వసుభిశ్చరామ్యహ-
మాదిత్యైరుత విశ్వదేవైః ।
అహం మిత్రావరుణోభా బిభర్మ్యహ-
మిన్ద్రాగ్నీ అహమశ్వినోభా ॥ ౧॥
అహం సోమమాహనసం బిభర్మ్యహం
త్వష్టారముత పూషణం భగమ్ ।
అహం దధామి ద్రవిణం హవిష్మతే
సుప్రావ్యే యజమానాయ సున్వతే ॥ ౨॥
అహం రాష్ట్రీ సఙ్గమనీ వసూనాం
చికితుషీ ప్రథమా యజ్ఞియానామ్ ।
తాం మా దేవా వ్యదధుః పురుత్రా
భూరిస్థాత్రాం భూర్యావేశయన్తీమ్ ॥ ౩॥
మయా సో అన్నమత్తి యో విపశ్యతి
యః ప్రాణితి య ఈం శృణోత్యుక్తమ్ ।
అమన్తవో మాం త ఉపక్షియన్తి
శ్రుధి శ్రుత శ్రద్ధివం తే వదామి ॥ ౪॥
అహమేవ స్వయమిదం వదామి జుష్టం
దేవేభిరుత మానుషేభిః ।
యం కామయే తం తముగ్రం కృణోమి
తం బ్రహ్మాణం తమృషిం తం సుమేధామ్ ॥ ౫॥
అహం రుద్రాయ ధనురా తనోమి
బ్రహ్మద్విషే శరవే హన్తవా ఉ ।
అహం జనాయ సమదం కృణోమ్యహం
ద్యావాపృథివీ ఆ వివేశ ॥ ౬॥
అహం సువే పితరమస్య మూర్ధన్
మమ యోనిరప్స్వన్తః సముద్రే ।
తతో వి తిష్ఠే భువనాను విశ్వో-
తామూం ద్యాం వర్ష్మణోప స్పృశామి ॥ ౭॥
అహమేవ వాత ఇవ ప్ర వామ్యా-
రభమాణా భువనాని విశ్వా ।
పరో దివా పర ఏనా పృథివ్యై-
తావతీ మహినా సం బభూవ ॥ ౮॥
॥ ఇతి ఋగ్వేదోక్తం దేవీసూక్తం సమాప్తమ్ ॥
॥ ఓం తత్ సత్ ఓం ॥
Encoded by Smt. K. Shankaran and
reencoded by Kirk Wortman kirkwort@hotmail.com
Proofread by Sunder Hattangadi
and Kirk Wortman kirkwort@hotmail.com
% Text title : Devi Mahatmyam / Durga Saptashati
% File name : durga700.itx
% itxtitle : devI mAhAtmyam athavA durgAsaptashatI
% engtitle : devI mAhAtmyam or durgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Transliterated by : K. Shankaran, Kirk Wortman, Dhruba Chakroborty, Ahto Jarve
% Proofread by : Sunder Hattangadi, Kirk Wortman (kirkwort at hotmail.com)
% Description-comments : 700 shlokas regarding devi durga
% Indexextra : (1, 2, Bengali chanting, meanings, Sanskrit bhAShya, audio, Italian and English, English, Compilation, Tamil, mArakeNDeya purANa)
% Latest update : February 26, 2024
% Site access : https://sanskritdocuments.org