बीजात्मक तन्त्र दुर्गा सप्तशती
॥ ॐ श्रीगणेशाय नमः ॥
यदत्रस्खलितङ्किञ्चित् प्रमादेन भ्रमेण वा ।
तत्सर्वं शोधयन्त्वार्यां कस्यनस्खलितम्मनः ॥ १॥
गच्छतस्खलनङ्क्वापि भवत्येव प्रमादतः ।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ २॥
विनीत- शिवदत्त शास्त्री
प्रसङ्गवशश्रीदुर्गासप्तशती के पाठ में आवश्यक सङ्केत-
कवच, अर्गला, कीलक के पूर्व शापोद्वारौत्कीलनं तथा मृत सञ्जीवनी विद्या का जप का विधान है, किन्तु विद्वत्परम्परा का सिद्धान्त यह है कि यदि श्री दुर्गासप्तशती का षडङ्ग ( कवच, अर्गला, कीलक तथा त्रयोदशाध्याय के बाद रहस्यत्रय) सहित पाठ कर लिया जाय तो श्रीदुर्गासप्तशती में शापोद्धारादि की कोई भी आवश्यकता नहीं है । वस्तुतः यही मत हमारी भी गुरुपरम्परा का है । अथवा जैसा विद्वद्वन्द निर्णय करें वैसा स्वेच्छानुसार करें । यह निर्णय दुर्गासप्तशती के पाठ ही का है तन्त्र दुर्गासप्तशती के पाठ में पडङ्ग पाठ भी नहीं करना चाहिये ।
शापोद्धार मन्त्रः-
शापोद्धार के लिए नीचे वर्णित मन्त्र का सात बार आदि व अन्त में जप करना चाहिये ।
``ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेव्यै शापनाशानुग्रहं कुरु कुरु स्वाहा''
उत्कीलन मन्त्रः-
शापोद्धार के बाद उत्कीलन-मन्त्र का २१ बार आदि व अन्त में जप करना चाहिये ।
``ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा''
मृतसञ्जीवनी मन्त्रः-
उत्कीलन के उपरान्त मृतसञ्जीवनी मन्त्र का सात बार आदि व अन्त में पाठ करना चाहिये ।
``ॐ ह्रीं ह्रीं वं वं ऐं ऐं मृतसञ्जीवनि विद्ये मृतमुत्थापयोत्थापय क्रीं ह्रीं ह्रीं वं स्वाहा''
श्रीदुर्गासप्तशती में कवच
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ ४.२४॥ ॐ ऐं फ्रें नमः ॥ २४॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ४.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥ ॐ ऐं म्लूं नमः ॥ २६॥
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥ ॐ ऐं घ्रें नमः ॥ २७॥
कवच के तन्त्र रूप में क्रमशः मन्त्र दिये गये है ।
॥ आदिशक्तयेनमः ॥
॥ श्रीतन्त्रदुर्गासप्तशती ॥
विश्वेश्वरींविश्वमयींविरूपा-
मज्ञानहन्त्रींविमलस्वरूपाम् ।
शंश्वत्प्रसन्नाङ्करुणावतारान्-
तन्त्रस्वरूपाञ्चनमामिदुर्गाम् ॥ १॥
चिदानन्दरूपे हरीशादिवन्द्ये-
सदामन्दहासे जगद्भीतिनाशे ।
चिदानन्ददेत्वञ्च तन्त्रस्वरूपे-
जनं पाहिदीनन्तवार्चाविहीनम् ॥ २॥
नजानातिविष्णुःशिवोनैववेत्ति-
स्वयम्भूः स्वयन्नैवजानातिमातः ।
चरित्रन्दयाधारिकेतेविचित्रङ्-
कथन्मन्दबुद्धिर्जनःस्यात्समर्थ ॥ ३॥
तथाप्यम्बलोकोपकारायलोके-
चरित्रंवदाम्यत्रकिञ्चित्प्रसिद्धम् ।
तबप्रेरणैवाभवधतुभूता-
मदीयेहृदब्जेमहादेविदुर्गे ॥ ४॥
॥ पाठविधि ॥
साधक स्नान करके पवित्र हो, आसन शुद्धि की क्रिया सम्पन्न करके पूर्वाभमुख हो शुद्ध आसान पर बैठे साथ में शुद्ध जल (गङ्गाजल आदि ) पूजन सामग्री और श्री तन्त्रदुर्गा सप्तशती की पुस्तक रखे । मस्तक में अपने रुचि के अनुसार भस्म, चन्दन, रोली अथवा सेन्दुर लगा लें । शिखा बान्ध लें । तत्व शुद्धि के लिए चार बार आचमन करें । तत्पश्चात् प्राणायाम करके गणेश आदि देवताओं एवं गुरुजनों को प्रणाम करें । कुश की पवित्री धारण करके हाथ में लाल फूल, चावल और जल लेकर निम्नाङ्कित रूप से सङ्कल्प करे ।
ॐ विष्णुर्विष्णुर्विष्णुः । ॐ नमः परमात्मने, श्री पुराण पुरुषोत्तमस्य विष्णोराज्ञया प्रवर्तमानस्याद्य श्री ब्राह्मणोऽह्नि द्वितीयपरार्द्धेश्रीश्वेतवाराहकल्पेवैवस्वतमन्वन्तरेऽष्टाविंशतितमेकलियुगे कलिप्रथमचरणेजम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तान्तर्गत ब्रह्मावर्तैकदेशे पुण्यक्षेत्रे बौद्धावतारे वर्तमाने यथानाम संवत्सरे अमुकायने अमुकमाङ्गल्यप्रदे मासानामुत्तमे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरान्वितायाम् अमुकनक्षत्रे अमुकराशिस्थिते सूर्यै अमुकराशिस्थितेषु चन्द्रभौमबुधगुरुशुक्रशनिषु सत्सु शुभे योगे शुभकरणे एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ सकलशास्त्र श्रुतिस्मृतिपुराणोक्त फलप्राप्तिकामः अमुकगोत्रोत्पन्नः अमुक शर्माहं ममात्मनः सपुत्रवान्धवस्य श्रीनवदुर्गानुग्रहतो ग्रहकृत राजकृतादि सर्वविधपीडानिवृत्तिपूर्वकन्नैरुज्यदीर्घायुः पुष्टि धनधान्यसमृद्ध्यर्थं श्रीनवदुर्गाम्प्रसादेन सर्वापन्निवृत्ति सर्वाभीष्ट फलावाप्ति धर्मार्थ काममोक्षचतुर्विधपुरुषार्थसिद्धि द्वारा श्रीमहाकाली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थं तन्त्रोक्तरात्रिसूक्त पाठन्यास विधि सहित नवार्णजप तान्त्रिकसप्तशती न्यासध्यान पूर्वकञ्च ``ॐ ऐं श्रीं नमः ॐ ऐं ह्रीं नमः । इत्याद्यारभ्य ॐ ऐं ओं नमः इत्यन्तन्तन्त्ररूपेण परिणतं श्रीतन्त्रदुर्गासप्तशती पाठं तदन्ते च न्यास विधिसहित नवार्णजपतान्त्रिक सप्तशती न्यासध्यान पूर्वकं तान्त्रिक देवीसूक्त पाठञ्च करिष्ये ।''
(यदि दूसरे से पाठादि करवाना हो तो कारयिष्ये, कहना चाहिये)
इस प्रकार सङ्कल्प करके भगवती श्री दुर्गादेवी का ध्यान करते हुए पञ्चोपचार विधि से पुस्तक की पूजा करें । यदि ज्ञात हो तो योनिमुद्रा प्रदर्शित करके भगवती को प्रणाम करें । पश्चात् नवार्णमन्त्र से पीठ में आधारशक्ति की स्थापना करके उसके ऊपर पुस्तक को विराजमान करें । पश्चात् यदि ज्ञात हो अन्तर्मातृका बहिर्मातृका आदिन्यास करे अन्यथा नहीं । पश्चात् भगवती का ध्यान व पूजन आगे लिखित श्री दुर्गा पूजायन्त्र में करें ।
॥ अथषोडशोपचार दुर्गापूजनविधिः ॥
सङ्कल्पः -
ॐ अद्येत्यादिमम 'अमुकगोत्रोत्पन्नयजमानस्य' इह जन्मनिसर्वाम्पच्छान्तिपूर्वकन्दीर्घायुर्विपुल पुत्रपौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मी कीर्तिलाभशत्रुपराजय प्रमुख-प्रमुखचतुर्विधपुरुषार्थसिद्धये श्रीदुर्गापूजन महङ्करिष्ये (कारयिष्ये)।
ध्यानम् -
ॐ विद्युद्दामसमप्रभाम्मृगपतिस्कन्धस्थिताम्भीषणां
कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुण तर्जनीं
विभ्राणामनलात्मिकांशशिधरान्दुर्गा त्रिनेत्राम्भजे ॥
अर्थः - मैं भगवती दुर्गादेवी का ध्यान करता हूँ - जो तीन नेत्र वाली हैं जिनके अंङ्गों की प्रभा बिजली के समान हैं । सिंह के कन्धे पर भयङ्कर प्रतीत होती हैं, अनेक कन्यायें जिनकी सेवा में लगी हैं । जिनके हाथों में चक्र, गदा, तलवार, ढाल, बाण, धनुष, पाश और तर्जनीमुद्गर शोभायमान हैं । जो अग्निमय हैं तथा जो अपने माथे पर चन्द्रमा का मुकुट धारण करती हैं ।
१. आवाहनम् -
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥
२. आसनम् -
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥
३. पाद्यम् -
गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम् ।
तोयमेतत् सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥
४. अर्घ्यम् -
गन्धपुष्पाक्षतै र्युक्तमर्ध्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
५. आचमनम् -
आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
६. स्नानम् -
जाह्नवीतोयमानीतं शुभं कर्पूरसंयुतम् ।
स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् ॥
पञ्चामृतस्नानम् -
पयोदधिघृतं क्षौद्रं सितया च समन्वितम् ।
पञ्चामृतमनेनाद्य कुरु स्नानं महेश्वरि ॥
शुद्धोदकस्नानम् -
परमानन्दबोधाब्धिनिमग्नानिजमूर्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयामि सुरेश्वरि ॥
७. वस्त्रम् -
वस्त्रं च सोमदैवत्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥
उपवस्त्रम् -
यामाश्रित्यमहामाया जगत्सम्मोहिनीसदा ।
तस्यैवैपर मेशापैकल्पयाम्युत्तरीयकम् ॥
मधुपकेम् -
दधिमध्वाज्यसंयुक्त पात्र युग्मसमन्वितम् ।
मधुपर्कगृहाणत्वं वरदा भवशोभने ॥
गन्धम् -
परमानन्द सौभाग्यपरिपूर्णदिगन्तरे ।
गृहाण परमं गन्धं कृपया परमेश्वरि ॥
कुङ्कुमम् -
कुङ्कुमङ्कान्तिदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिते देवि प्रसीदपरमेश्वरि ॥
८. आभूषणम् -
हारकङ्कणकेयूरमेखलाकुण्डलादिकम् ।
रत्नाढ्यं कुण्डलोपेतं भूषणं प्रतिगृह्यताम् ॥
सिन्दूरम् -
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
पूजितासि मया देवि प्रसीद परमेश्वरि ॥
कज्जलम् -
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारके ।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥
सौभाग्यद्रव्यम् -
सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुते ।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥
सुगन्धितैलम् -
चन्दनागरुकर्पूरकुङ्कुमं रोचनं तथा ।
कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥
परिमलद्रव्यम् -
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।
तस्मात् त्वां पूजयाम्यद्यसुखं शान्ति प्रयच्छ मे ॥
अक्षतान् -
रञ्जिताः कुङ्कुमौघेन अक्षताश्चातिशोभनाः ।
मामेषां देवि दानेन प्रसन्ना भव शोभने ॥
पुष्पाणि -
मन्दारपारिजातादि पाटलीकेतकानि च ।
जातीचम्पकपुष्पाणि गृहाणेमानि शोभने ॥
पुष्पमालाम् -
सुरभिपुष्पनिचयैर्ग्रथिताम्पुष्पमालिकाम् ।
ददामितवशोभार्थङ्गृहाणपरमेश्वरि ॥
बिल्वपत्रम् -
अमृतोद्भवश्रीवृक्षो महादेवि प्रियः सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥
९. धूपम् -
दशाङ्गगुग्गुलन्धूपञ्चन्दनागरुसंयुतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥
१०. दीपम् -
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलम् ।
दीपं ददामि देवेशि सुप्रीता भव सर्वदा ॥
११. नैवेद्यम् -
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥ (ह्रचलां)
ऋतुफलम् -
द्राक्षाखर्जूरकदलीपनसाम्रकपित्थकम् ।
नारिकेलेक्षुजम्ब्वादिफलानिप्रतिगुह्यताम् ॥
आचमनम् -
कामारिवल्लभेदेविकुर्वाचमनमम्बिके ।
निरन्तरमहं वन्देचरणौतत्र चण्डिके ॥
अखण्ड-ऋतुफलम् -
नारिकेलञ्चनारङ्गङ्कलिङ्गमञ्जिरन्तथा ।
उर्वारुकञ्चदेविशिफलान्यैतानिगृह्नताम् ॥
ताम्बूलपूगीफलानि -
एलालवङ्गकस्तूरीकर्पूरैः पुष्पवासिताम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥
१२. दक्षिणा -
पूजाफलसमद्ध्यर्थं तवाग्रेस्वर्णमीश्वरि ।
स्थातिन्तेनमेप्रीतापूर्णान्कुरुमनोरथान् ॥
प्रार्थना (नमस्कारम्) -
सर्वस्वरूपेसर्वेशे सर्वशक्तिस्वरूपिणि ।
पूजाङ्गृहाणकौमारिजगन्मातनमोऽस्तुते ॥
१३. आरतिकम् -
नीराजनंसुमाङ्गल्यङ्कर्पूरेणसमन्वितम् ।
चन्द्रार्कवह्निसदृशं महादेविनमोऽस्तुते ॥
पुष्पाञ्जलि: -
दुर्गेस्मृताहरसिभीतिमशेषजन्तो:
स्वस्थै:स्मृतामतिमतीवशुभान्ददासि ।
दारिद्यदु:खभयहारिणिकात्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥
१४. प्रदक्षिणा -
नमस्तेदेविदेवेशि नमस्तेईप्सितप्रदे ।
नमस्तेजगतान्धात्रि नमस्तेभक्तवत्सले ॥
साष्टाङ्गप्रणामः -
नमःसर्वहितार्थायै जगदाधारहेतवे ।
साष्टाङ्गोऽयम्प्रणाम स्तुप्रयत्नेनमयाकृतः ॥
१५. प्रार्थना -
पुत्रान्देहिधनं देहि सौभाग्यं देहिमङ्गले ।
अन्यांश्चसर्वकामांश्च देहिदेवि नमोऽस्तुते ॥
१६. विसर्जनम् -
इमाम्पूजाम्मयादेवियथाशक्त्या महेश्वरि ।
रक्षार्थन्त्वंसमादायव्रजस्थानंयथोत्तमम् ॥
For the illustration of the yantra interested readers may refer the link of the book given at the bottom end of this page. The textual part is given below.
॥ यन्त्रविवरणम् ॥
त्रिकोणे - ३ ।
त्रिकोणाद्बाह्ये - १० ।
षट्कोणेषु - ६ ।
अष्टपत्रेषु - २४ ।
चतुर्विंशतिदलेषु - २४ ।
तद्यथा -
१ - विष्णुमाया ।
२ - चेतना ।
३ - वृद्धिः ।
४ - निद्रा ।
५ - क्षुधा ।
६ - छाया ।
७ - शक्तिः ।
८ - तृष्णा ।
९ - क्षान्तिः ।
१० - जातिः ।
११ - लज्जा ।
१२ - शान्तिः ।
१३ - श्रद्धा ।
१४ - कान्तिः ।
१५ - लक्ष्मी ।
१६ - धृतिः ।
१७ - वृत्तिः ।
१८ - स्मृतिः ।
१९ - दया ।
२० - तुष्टिः ।
२१ - पुष्टिः ।
२२ - मातृ ।
२३ - भ्रान्तिः ।
२४ - चितिः ।
चतुर्विंशतिदलेभ्योबाह्ये १० - ततोदिक्पालायुधवाहनादि १० । ततोभूपुरबाह्ये ४ ।
``यन्त्रस्थदेवता परिचयः''
१ - त्रिकोणेबिन्दुमध्ये ह्रीं
२ - त्रिकोणमध्ये
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ मं मङ्गलायै नमः ।
१० - त्रिकोणाद्बाह्ये
पू० कोणे - १ - ॐ ब्रह्मणे नमः । २ - ॐ सरस्वत्यै नमः ।
नै०कोणे - ३ - ॐ विष्णवे नमः । ४ - ॐ श्रियै नमः ।
वा०कोणे - ५- ॐ शिवाय नमः । ६ - ॐ उमायै नमः ।
दक्षिणे - ७ - ॐ मं महिषाय नमः । ८ - कां कालाय नमः ।
उत्तरे - ९ - ॐ सिं सिंहाय नमः । १० - ॐ मृं मृत्यवे नमः ।
६- षट्कोणमध्ये पूर्वादिक्रमेण-
१ - ॐ नं नन्दजायै नमः । २ - ॐ रं रक्तदन्तिकायै नमः ।
३ - ॐ शां शाकम्भर्य्यै नमः । ४ - ॐ दुं दुर्गायै नमः ।
५ - ॐ भीं भीमायै नमः । ६ - ॐ भ्रां भ्रामर्यै नमः ।
४ - षट्कोणबाह्ये (वाहनादीनि)
केचिन्मतेऽत्रैवमहिषादीनांस्थापनादि
दक्षिणे - ॐ मं महिषाय नमः । ॐ कां कालाय नमः । उत्तरे - ॐ सिं सिंहाय नमः । ॐ मृं मृत्यवे नमः ।
२४ - अष्टपत्रेषु पूर्वादिक्रमेण -
पूर्वे - ॐ जं जयायै नमः । ॐ ब्रां ब्राह्मयै नमः । ॐ अं असिताङ्गभैरवाय नमः ।
दक्षिणे - ॐ अं अजितायै नमः । ॐ मां माहेश्वर्य्यै नमः । ॐ चं चण्डभैरवाय नमः ।
पश्चिमे - ॐ निं नित्यायै नमः । ॐ कौं कौमार्य्यै नमः । ॐ उं उन्मत्तभैरवाय नमः ।
उत्तरे - ॐ विं विजयायै नमः । ॐ वैं वैष्णव्यै नमः । ॐ रुं रुरुभैरवाय नमः ।
अ० कोणे - ॐ द्रों द्रोध्र्यै (द्रोग्ध्र्यै) नमः । ॐ वां वाराह्यै नमः । ॐ भीं भीषणभैरवाय नमः ।
नै० कोणे - ॐ अं अघोरायै नमः । ॐ नां नारसिंह्यै नमः । ॐ सं संहारभैरवाय नमः ।
वा० कोणे - ॐ विलासिन्यै नमः । ॐ अं अपराजितायै (ऐं ऐन्द्र्यै) नमः । ॐ कं कपालभैरवाय नमः ।
ई० कोणे - ॐ अं अपराजितायै नमः । ॐ चां चामुण्डायै नमः । ॐ क्रों क्रोधभैरवाय नमः ।
२४ - ततश्चतुर्विंशतिदलेषु पूर्वादिक्रमेण -
ॐ विं विष्णुमायायै नमः ॥ १॥
ॐ चें चेतनायै नमः ॥ २॥
ॐ वुं वुद्ध्यै (बुं बुद्ध्यै) नमः ॥ ३॥
ॐ निं निद्रायै नमः ॥ ४॥
ॐ क्षुं क्षुधायै नमः ॥ ५॥
ॐ छां छायायै नमः ॥ ६॥
ॐ शं शक्तयै नमः ॥ ७॥
ॐ तृं तृष्णायै नमः ॥ ८॥
ॐ क्षां क्षान्त्यै नमः ॥ ९॥
ॐ जां जात्यै नमः ॥ १०॥
ॐ लं लज्जायै नमः ॥ ११॥
ॐ शां शान्त्यै नमः ॥ १२॥
ॐ श्रं श्रद्धायै नमः ॥ १३॥
ॐ कां कान्त्यै नमः ॥ १४॥
ॐ लं लक्ष्म्यै नमः ॥ १५॥
ॐ धृं धृत्यै नमः ॥ १६॥
ॐ स्मृं स्मृत्यै नमः ॥ १७॥ (वृं वृत्यै)
ॐ वृं वृत्यै नमः ॥ १८॥ (स्मृं स्मृत्यै)
ॐ तुं तुष्ट्यै नमः ॥ १९॥ (दं दयायै)
ॐ पुं पुष्टयै नमः ॥ २०॥ (तुं तुष्ट्यै)
ॐ दं दयायै नमः ॥ २१॥ (पुं पुष्टयै)
ॐ मां मात्रे नमः ॥ २२॥
ॐ भ्रां भ्रान्त्यै नमः ॥ २३॥
ॐ चिं चित्यै नमः ॥ २४॥
१० - ततश्चतुर्विंशतिदलेभ्योबाह्ये-
लं इन्द्राय नमः ॥ १॥
रं अग्नये नमः ॥ २॥
मं यमाय नमः ॥ ३॥
क्षं निरृतये नमः ॥ ४॥
वं वरुणाय नमः ॥ ५॥
यं वायवे नमः ॥ ६॥
सं सोमाय नमः ॥ ७॥
ईं (हं) ईशानाय नमः ॥ ८॥
ईशानपूर्वयोर्मध्ये - अं ब्राह्मणे (ब्रह्मणे) नमः ॥ ९॥
पश्चिमनिरृतयोर्मध्ये - ह्रीं अनन्ताय नमः ॥ १०॥
१०-ततोदिक्पालायुधावाहनादि-यथा-
ॐ वं वज्राय नमः ॥ १॥
ॐ शं शक्तये नमः ॥ २॥
ॐ दं दण्डाय नमः ॥ ३॥
ॐ खं खड्गाय नमः ॥ ४॥
ॐ पां पाशाय नमः ॥ ५॥
ॐ अं अङ्कुशाय नमः ॥ ६॥
ॐ गं गदायै नमः ॥ ७॥
ॐ शं त्रिशूलाय नमः ॥ ८॥ var (ॐ त्रिं त्रिशूलाय नमः)
ॐ पं पद्माय नमः ॥ ९॥
ॐ चं चक्राय नमः ॥ १०॥
४ - ततोभूपुरबाह्ये चतुष्कोणेषु-
ऐशान्याम् - गं गणपतये नमः ॥ १॥
आग्नेय्याम् - क्षं क्षेत्रपालाय नमः ॥ २॥
नैरृत्याम् - वं वटुकाय नमः ॥ ३॥
वायव्ये - यों योगिनीभ्यो नमः ॥ ४॥
॥ इतिपूर्वोक्तप्रकारेणसर्वान्देवानाबाह्यपूजयेत् ॥
॥ यन्त्रपूजन सङ्केत ॥
यन्त्र में लिखे अङ्कानुसार देवताओं का आवाहनादि पूजनविधान विधिवत् कर के यन्त्र पर घट स्थापन आदि कार्यक्रम करे । पश्चात् श्री दुर्गादेवी की मूर्ति स्वर्ण आदि किसी भी धातु की हो उसमें प्राणाप्रतिष्ठापर्यन्त सभी संस्कार करके षोडशोपचार पूजन करे । अथवा चित्ररख करके पूजनादि करके श्री तन्त्रमयी अर्थात् बीजमयी श्री तन्त्र दुर्गा सप्तशतीका पाठ करे ॥ पाठारम्भ से पूर्व तन्त्ररूप-रात्रि सूक्त का पाठ-पश्चात् नवार्णमन्त्रजप न्यासदि सहित तथा तन्त्र सप्तशती का भी न्यासवध्यान आवश्यक है ।
तन्त्रोक्तं रात्रिसूक्तम्
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥ ॐ ऐं ब्लूं नमः ॥ १॥
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥ ॐ ऐं ठां नमः ॥ २॥
ब्रह्मोवाच ॥ १.७२॥ ॐ ऐं ह्रीं नमः ॥ ३॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥ ॐ ऐं स्रां (स्त्रां) नमः ॥ ४॥
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥ ॐ ऐं स्लूं नमः ॥ ५॥
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥ ॐ ऐं क्रैं नमः ॥ ६॥
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥ ॐ ऐं त्रां नमः ॥ ७॥
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥ ॐ ऐं फ्रां नमः ॥ ८॥
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥ ॐ ऐं जीं नमः ॥ ९॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.९॥ ॐ ऐं लूं नमः ॥ १०॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥ ॐ ऐं स्लूं नमः ॥ ११॥
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥ ॐ ऐं नों नमः ॥ १२॥
परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥ ॐ ऐं स्त्रीं नमः ॥ १३॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥ ॐ ऐं प्रूं नमः ॥ १४॥
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥ ॐ ऐं स्रूं (सूं) नमः ॥ १५॥
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥ ॐ ऐं जां नमः ॥ १६॥
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥ ॐ ऐं वौं (बौं) नमः ॥ १७॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥ ॐ ऐं ओं नमः ॥ १८॥
॥ अथ नवार्ण जप विधिः ॥
इस प्रकार तन्त्र रूप में परिणत रात्रिसूक्ति का पाठ करने के पश्चात् निम्नाङ्कित रूप से नवार्णमन्त्र के विनियोग न्यास और ध्यान करे ॥
नवार्ण मन्त्र का विनियोग - न्यासादि
॥ विनियोगः ॥
श्रीगणपतिर्जयति ।
ॐ नवार्णमन्त्रस्य ब्रह्मविष्णुरुद्राऋषयः,
गायत्र्युष्णिगनुष्टुभश्छदांसि,
श्रीमहाकाली महालक्ष्मी महासरस्वत्योदेवता,
ऐं बीजम्,
ह्रीं शक्तिः,
क्लीं कीलकम्,
श्रीमहाकाली महालक्ष्मी महासरस्वतीप्रीत्यर्थे जपे विनियोगः ।
पूर्वोक्त पढ़कर जल गिरावे ।
तत्पश्चात् मन्त्रों द्वारा इस भावना से शरीर के समस्त अङ्गों में मन्त्ररूप से देवताओं का वास हो रहा है, न्यास करें । ऐसा करने से पाठ या जप करने वाला व्यक्ति मन्त्रमय हो जाता है तथा मन्त्र में अधिष्ठित देवता उसकी रक्षा करते हैं । इसके अतिरिक्त न्यास द्वारा उसके बाहर-भीतर की शुद्धि होती है और साधना निर्विघ्न पूर्ण होती है ।
निम्नलिखित न्यास वाक्यों से एक एक का उच्चारण करके दाहिने हाथ की अङ्गुलियों से क्रमशः शिर-मुख-हृदय-गुदा-दोनों चरण और नाभि इस अङ्गों का स्पर्श करे ।
॥ ऋष्यादिन्यासः ॥
ब्रह्मविष्णुरुद्रॠषिभ्यो नमः, शिरसि ।
गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः, मुखे ।
महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः, हृदि ।
ऐं बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः ।
क्लीं कीलकाय नमः, नाभौ ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे, सर्वाङ्गे, इस मूलमन्त्र से हाथों की शुद्धि करके करन्यास करें ।
॥ करन्यासः ॥
करन्यास में हाथ की विभिन्न अङ्गुलियों हथेलियों और हाथ के पृष्ठ भाग में मन्त्रों का न्यास (स्थापित) किया जाता है । इसी प्रकार अङ्गन्यास में हृदयादि अङ्गों में मन्त्रों की स्थापना होती है मन्त्रों को चेतन और मूर्तिमान् मानकर उन उन अङ्गों का नाम लेकर उन मन्त्रमय देवताओं का ही स्पर्श और वन्दन किया जाता है । ऐसा करने से पाठ या जप करने वाला स्वयं मन्त्रमय होकर मन्त्र देवताओं द्वारा सर्वथा सुरक्षित हो जाता हैं । उसके बाहर भीतर की शुद्धि होती है । दिव्यबल प्राप्त होता है और साधना निर्विघ्नता पूर्वक पूर्ण तथा परम लाभदायक होती है ।
ॐ ऐं अङ्गुष्ठाभ्यां नमः । (दोनों हाथों के तर्जनी अँगुलियों से दोनों अँगुठों का स्पर्श)
ॐ ह्रीं तर्जनीभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों तर्जनी अँगुलियों का स्पर्श)
ॐ क्लीं मध्यमाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों माध्यमा अँगुलियों का स्पर्श)
ॐ चामुण्डायै अनामिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों अनामिका अँगुलियों का स्पर्श)
ॐ विच्चे कनिष्ठिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों कनिष्ठका अँगुलियों का स्पर्श)
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतल करपृष्ठाभ्यां नमः । (हथेलिंयों और उनके पृष्ठ भागों का परस्पर स्पर्श)
॥ हृदयादिन्यासः ॥
इसमें दाहिने हाथ की पाँचों अँगुलियों से हृदय आदि अङ्गों का स्पर्श किया जाता है ।
ॐ ऐं हृदयाय नमः । (दाहिने हाथ की पाँचों अँगुलियों से हृदय का स्पर्श)
ॐ ह्रीं शिरसे स्वाहा । (सिर का स्पर्श)
ॐ क्लीं शिखायै वषट् । (शिखा का स्पर्श)
ॐ चामुण्डायै कवचाय हुम् । (दाहिने हाथ की अँगुलियों से बायें कन्धे का और बाँयें हाथ की अङ्गुलियों से दाहिने कन्धे का साथ ही स्पर्श)
ॐ विच्चे नेत्रत्रयाय वौषट् । (दाहिने हाथ की अँगुलियों के अग्र भाग से दोनों नेत्रों और ललाट के मध्य भाग का स्पर्श)
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । (यह वाक्य पढ़कर दाहिने हाथ को सिर के उपर से बाँयी ओर से पीछे की ओर ले जाकर दाहिनी ओर से आगे की ओर ले आये और तर्जन्नी तथा मध्यमा अँगुलियों से बायें हाथ की हथेली पर ताल बजावें ।
॥ अक्षरन्यासः ॥
निम्नाङ्कित वाक्यों को पढ़कर क्रमशः शिखा आदि का दाहिने हाथ की अङ्गुलियों से स्पर्श करे ।
ॐ ऐं नमः शिखायाम् ।
ॐ ह्रीं नमः दक्षिणनेत्रे ।
ॐ क्लीं नमः वामनेत्रे ।
ॐ चां नमः दक्षिणकर्णे ।
ॐ मुं नमः वामकर्णे ।
ॐ डां नमः दक्षिणनासापुटे ।
ॐ यैं नमः वामनासापुटे ।
ॐ विं नमः मुखे ।
ॐ च्चें नमः गुह्ये ।
एवं विन्यस्य ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'' इति नवार्णमन्त्रेण अष्टवारं व्यापकं कुर्यात् ।
इस प्रकार न्यास करके ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'', इस मन्त्र से आठ बार व्यापक (दोनों हाथों द्वारा) सिर से लेकर पैर तक के सब अङ्गों का स्पर्श करें । बाद में प्रत्यक दिशा में चुट्की बजाते हुये न्यास करें ।
॥ दिङ्न्यासः ॥
ॐ ऐं प्राच्यै नमः ।
ॐ ऐं आग्नेय्यै नमः ।
ॐ ह्रीं दक्षिणायै नमः ।
ॐ ह्रीं नैॠत्यै नमः ।
ॐ क्लीं प्रतीच्यै नमः ।
ॐ क्लीं वायव्यै नमः ।
ॐ चामुण्डायै उदीच्यै नमः ।
ॐ चामुण्डायै ऐशान्यै नमः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।
॥ ध्यानं ॥
महाकाली -
खड्गञ्चक्रगदेषु चापपरिघाञ्छूलम्भुशुण्डीं शिरः
शङ्खंसन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौकमलजो हन्तुम्मधुङ्कैटभम् ॥ १॥
महालक्ष्मी -
अक्षस्रक्परशुं गदेषुकुलिशं पद्मन्धनुष्कुण्डिकां (पद्मन्धनुःकुण्डिकां)
दण्डंशक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २॥
महासरस्वती -
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३॥
माला प्रार्थना
फिर ``ऐं ह्रीं अक्षमालिकायै नमः'' इस मन्त्र से माला की पूजा करके प्रार्थना करें-
ॐ मां माले महामाये सर्वशक्ति स्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणेःकरे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥
इसके पश्चात
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ॥
इसके बाद ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'' इस मन्त्र का १०८ बार जप करें और-
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान् महेश्वरि ॥
इस श्लोक को पढ़कर देवी के वामहस्त में जप निवेदन करें ।
॥ इतिनवार्णजपविधिः ॥
नवार्ण विधि में अनुसार जप करने के बाद सप्तशती के विनियोग न्यास और ध्यान करने चाहिये । पूर्वाङ्कित क्रमानुसार न्यासादि करें ।
अथ बीजात्मक श्रीतन्त्र दुर्गा सप्तशती विनियोग-न्यास-ध्यानादि ।
विनियोगः-
प्रथममध्यमोत्तरचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः,
श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः,
गायत्र्युष्णिगनुष्टुभश्छन्दांसि,
नन्दाशाकम्भरीभीमाः शक्तयः,
रक्तदन्तिका दुर्गाभ्रामर्यो बीजानि,
अग्नि वायु सूर्यास्तत्त्वानि,
ऋग्यजुः सामवेदा ध्यानानि,
सकलकामनासिद्धये श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः ।
इसे पढकर जल गिरायें ।
॥ करन्यास ॥
खड्गनी शूलिनी घोरा गदिनी चक्रिणी तथा । (खड्गिनी)
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
ॐ ऐं स्लूं अङ्गुष्ठाभ्यां नमः ।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टा स्वनेन नः पाहि चापज्यानिस्वनेन च ॥ (चापज्यानिःस्वनेन)
ॐ ऐं फ्रें तर्जनीभ्यां नमः ।
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥
ॐ ऐं क्रीं मध्यमाभ्यां नमः ।
ॐ सौम्यानियानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तैः रक्षास्मांस्तथा भुवम् ॥
ॐ ऐं म्लूं अनामिकाभ्यां नमः ।
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
ॐ ऐं घैं (घ्नैं, घ्रें) कनिष्ठिकाभ्यां नमः ।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥
ॐ ऐं श्रूं करतलकरपृष्ठाभ्यां नमः ॥
॥ ऋष्यादिन्यासः ॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
ॐ ऐं स्लूं नमः हृदयाय नमः ।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टा स्वनेन नः पाहि चापज्यानिस्वनेन च ॥ (चापज्यानिःस्वनेन)
ॐ ऐं फ्रें नमः शिरसे स्वाहा ।
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥
ॐ ऐं क्रीं नमः शिखायै वषट् ।
ॐ सौम्यानियानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तैः रक्षास्मांस्तथा भुवम् ॥
ॐ ऐं म्लूं नमः कवचाय हुम् ।
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
ॐ ऐं घैं (घ्नैं, घ्रें) नमः नेत्रत्रयाय वौषट् ।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥
ॐ ऐं श्रूं नमः अस्त्राय फट् ॥
॥ ध्यानमन्त्रः ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् ॥
हस्तैश्चक्रगदासिखेटविशिखां श्चापं गुणं तर्जनीं
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
अर्थ - जिनके अङ्गों की शोभा बिजली के समान हैं, जो सिंह की सवरी पर बैठीं हुईं भयङ्कर प्रतीत होती है, हाथों में तलवार व ढाल लिये ऐसी अनेक कन्यायें जिनकी सेवा में खड़ी हैं, जो अपने हाथों में चक्र-गदा-तलवार-ढाल-बाण-धनुष-पाश और तर्जनीमुद्रा धारण किये हुये हैं, जिनका स्वरूप अग्निमय हैं, तथा जिनके माथे पर चन्द्रमा का मुकुट शोभा पा रहा है, ऐसी तीन नेत्रवाली श्री दुर्गा देवी का ध्यान करता (या करती) हूँ । इस प्रकार भगवती दुर्गा देवी का ध्यान करके श्री तन्त्र दुर्गा सप्तशती का पाठ आरम्भ करें ।
variation for dhyAnamantraH
या चण्डी मधुकैटभादि दैत्यदलनी या महिषोन्मूलिनी,
या धूम्रेक्षणचण्डमुण्ड मथनी या रक्तबीजाशिनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धि लक्ष्मीः परा,
सा दुर्गा नवकोटि मूर्तिसहिता मां पातु विश्वेश्वरी ॥
इतिश्रीतन्त्रदुर्गासप्तशती-विनियोग-न्यास ध्यानादि ॥
सङ्केत - क्रमानुसार ये बीजमन्त्र जपने से सकल कामनाप्रद निश्चित हैं । एवमेव सर्वत्र अति प्रचलित दुर्गा सप्तशती के मन्त्रों में सम्पुटित करने से भी शीघ्र सिद्ध होनी है ।
॥ अथ बीजात्मक श्री तन्त्र दुर्गा सप्तशती पाठारम्भः ॥
॥ ॐ श्रीगणेशाय नमः ॥
॥ श्रीदुर्गायै नमः ॥
॥ १. मधुकैटभवधो नाम प्रथमोऽध्यायः ॥
विनियोगः
अस्य श्री प्रथमचरित्रस्य ।
ब्रह्मा ऋषिः ।
महाकाली देवता ।
गायत्री छन्दः ।
नन्दा शक्तिः ।
रक्तदन्तिका बीजम् ।
अग्निस्तत्त्वम् ।
ऋग्वेदः स्वरूपम् ।
श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे (पाठे) विनियोगः ।
ध्यानम् ।
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डी शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौ त्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ बीजत्रयायै विद्महे तत्प्रधानायै धीमहि । तन्नः शक्तिः प्रचोदयात् ।
ॐ ऐं श्रीं नमः ।१।
ॐ ऐं ह्रीं नमः ।२।
ॐ नमश्चण्डिकायै ॥
ॐ ऐं मार्कण्डेय उवाच ॥ १.१॥ ॐ ऐं श्रीं नमः ॥ १॥
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ १.२॥ ॐ ऐं ह्रीं नमः ॥ २॥
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ १.३॥ ॐ ऐं क्लीं नमः ॥ ३॥
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ १.४॥ ॐ ऐं श्रीं नमः ॥ ४॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ १.५॥ ॐ ऐं प्रीं नमः ॥ ५॥
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ १.६॥ ॐ ऐं ह्रां नमः ॥ ६॥
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ १.७॥ ॐ ऐं ह्रीं नमः ॥ ७॥
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ १.८॥ ॐ ऐं स्रौं नमः ॥ ८॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥ १.९॥ ॐ ऐं प्रें नमः ॥ ९॥
स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १.१०॥ ॐ ऐं म्रीं नमः ॥ १०॥
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ १.११॥ ॐ ऐं ह्लीं नमः ॥ ११॥
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १.१२॥ ॐ ऐं म्लीं नमः ॥ १२॥
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।
न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १.१३॥ ॐ ऐं स्त्रीं नमः ॥ १३॥
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १.१४॥ ॐ ऐं क्रां नमः ॥ १४॥
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १.१५॥ ॐ ऐं ह्स्लीं नमः ॥ १५॥
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १.१६॥ ॐ ऐं क्रीं नमः ॥ १६॥
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १.१७॥ ॐ ऐं चां नमः ॥ १७॥
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ १.१८॥ ॐ ऐं भें नमः ॥ १८॥
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १.१९॥ ॐ ऐं क्रीं नमः ॥ १९॥
वैश्य उवाच ॥ १.२०॥ ॐ ऐं वैं नमः ॥ २०॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ १.२१॥ ॐ ऐं ह्रौं नमः ॥ २१॥
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ १.२२॥ ॐ ऐं युं नमः ॥ २२॥
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ १.२३॥ ॐ ऐं जुं नमः ॥ २३॥
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ १.२४॥ ॐ ऐं हं नमः ॥ २४॥
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ १.२५॥ ॐ ऐं शं नमः ॥ २५॥
राजोवाच ॥ १.२६॥ ॐ ऐं रौं नमः ॥ २६॥
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ १.२७॥ ॐ ऐं यं नमः ॥ २७॥
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ १.२८॥ ॐ ऐं विं नमः ॥ २८॥
वैश्य उवाच ॥ १.२९॥ ॐ ऐं वैं नमः ॥ २९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ १.३०॥ ॐ ऐं चें नमः ॥ ३०॥
किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ १.३१॥ ॐ ऐं ह्रीं नमः ॥ ३१॥
पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥ १.३२॥ ॐ ऐं क्रूं नमः ॥ ३२॥
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ १.३३॥ ॐ ऐं सं नमः ॥ ३३॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ १.३४॥ ॐ ऐं कं नमः ॥ ३४॥
मार्कण्डेय उवाच ॥ १.३५॥ ॐ ऐं श्रीं नमः ॥ ३५॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ १.३६॥ ॐ ऐं त्रों नमः ॥ ३६॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ १.३७॥ ॐ ऐं स्त्रां नमः ॥ ३७॥
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ १.३८॥ ॐ ऐं ज्यं नमः ॥ ३८॥
राजोवाच ॥ १.३९॥ ॐ ऐं रौं नमः ॥ ३९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ १.४०॥ ॐ ऐं द्रां नमः ॥ ४०॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ १.४१॥ ॐ ऐं ह्रां (द्रीं, द्रों) नमः ॥ ४१॥
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ १.४२॥ ॐ ऐं ह्रां नमः ॥ ४२॥
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ १.४३॥ ॐ ऐं द्रूं नमः ॥ ४३॥
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ १.४४॥ ॐ ऐं शां नमः ॥ ४४॥
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ १.४५॥ ॐ ऐं क्रीं (म्रीं, मीं) नमः ॥ ४५॥
ऋषिरुवाच ॥ १.४६॥ ॐ ऐं श्रौं नमः ॥ ४६॥
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ १.४७॥ ॐ ऐं जुं नमः ॥ ४७॥
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ १.४८॥ ॐ ऐं ह्ल्रूं नमः ॥ ४८॥
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ १.४९॥ ॐ ऐं श्रूं नमः ॥ ४९॥
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ १.५०॥ ॐ ऐं प्रीं नमः ॥ ५०॥
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ १.५१॥ ॐ ऐं रं नमः ॥ ५१॥
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ १.५२॥ ॐ ऐं वं नमः ॥ ५२॥
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ १.५३॥ ॐ ऐं ब्रों (व्रीं) नमः ॥ ५३॥
महामायाप्रभावेण संसारस्थितिकारिणा ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ १.५४॥ ॐ ऐं ब्लं (ब्लूं) नमः ॥ ५४॥
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ १.५५॥ ॐ ऐं स्रां (स्त्रां, स्त्रौं) नमः ॥ ५५॥
बलादाकृष्य मोहाय महामाया प्रयच्छति ।
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ १.५६॥ ॐ ऐं ल्वां (व्लां) नमः ॥ ५६॥
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ १.५७॥ ॐ ऐं लूं नमः ॥ ५७॥
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ १.५८॥
राजोवाच ॥ १.५९॥ ॐ ऐं सां नमः ॥ ५८॥
भगवन् का हि सा देवी महामायेति यां भवान् ॥ १.६०॥ ॐ ऐं रौं नमः ॥ ५९॥
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज । ॐ ऐं स्हौं (शौं) नमः ॥ ६०॥
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ १.६१॥ ॐ ऐं क्रूं नमः ॥ ६१॥
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ १.६२॥ ॐ ऐं शौं नमः ॥ ६२॥
ऋषिरुवाच ॥ १.६३॥ ॐ ऐं श्रौं नमः ॥ ६३॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ १.६४॥ ॐ ऐं वं नमः ॥ ६४॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ १.६५॥ ॐ ऐं त्रूं नमः ॥ ६५॥
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ १.६६॥ ॐ ऐं क्रौं नमः ॥ ६६॥
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ १.६७॥ ॐ ऐं क्लूं नमः ॥ ६७॥
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ १.६८॥ ॐ ऐं क्लीं नमः ॥ ६८॥
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ १.६९॥ ॐ ऐं श्रीं नमः ॥ ६९॥
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥ ॐ ऐं ब्लूं नमः ॥ ७०॥
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥ ॐ ऐं ठां नमः ॥ ७१॥
ब्रह्मोवाच ॥ १.७२॥ ॐ ऐं ह्रीं (ठ्रीं) नमः ॥ ७२॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥ ॐ ऐं स्त्रां नमः ॥ ७३॥
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥ ॐ ऐं स्लूं नमः ॥ ७४॥
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥ ॐ ऐं क्रैं नमः ॥ ७५॥
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥ ॐ ऐं त्रां (च्रां) नमः ॥ ७६॥
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥ ॐ ऐं फ्रां नमः ॥ ७७॥
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥ ॐ ऐं जीं नमः ॥ ७८॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.७९॥ ॐ ऐं लूं नमः ॥ ७९॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥ ॐ ऐं स्लूं नमः ॥ ८०॥
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥ ॐ ऐं नों नमः ॥ ८१॥
परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥ ॐ ऐं स्त्रीं नमः ॥ ८२॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥ ॐ ऐं प्रूं नमः ॥ ८३॥
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥ ॐ ऐं सूं (स्रूं, स्रं) नमः ॥ ८४॥
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥ ॐ ऐं ज्रां नमः ॥ ८५॥
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥ ॐ ऐं बौं नमः ॥ ८६॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥ ॐ ऐं ओं नमः ॥ ८७॥
ऋषिरुवाच ॥ १.८८॥ ॐ ऐं श्रौं नमः ॥ ८८॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ १.८९॥ ॐ ऐं ऋं नमः ॥ ८९॥
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १.९०॥ ॐ ऐं रूं नमः ॥ ९०॥
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ १.९१॥ ॐ ऐं क्लीं नमः ॥ ९१॥
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ १.९२॥ ॐ ऐं दुं नमः ॥ ९२॥
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ १.९३॥ ॐ ऐं ह्रीं नमः ॥ ९३॥
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ १.९४॥ ॐ ऐं गूं नमः ॥ ९४॥
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ १.९५॥ ॐ ऐं लां नमः ॥ ९५॥
श्रीभगवानुवाच ॥ १.९६॥ ॐ ऐं ह्रां नमः ॥ ९६॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ १.९७॥ ॐ ऐं गं नमः ॥ ९७॥
किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ १.९८॥ ॐ ऐं ऐं नमः ॥ ९८॥
ऋषिरुवाच ॥ १.९९॥ ॐ ऐं श्रौं नमः ॥ ९९॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १.१००॥ ॐ ऐं जूं नमः ॥ १००॥
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १.१०१॥ ॐ ऐं डें नमः ॥ १०१॥
ऋषिरुवाच ॥ १.१०२॥ ॐ ऐं श्रौं नमः ॥ १०२॥
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १.१०३॥ ॐ ऐं छां (छ्रां) नमः ॥ १०३॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १.१०४॥ ॐ ऐं क्लीं नमः ॥ १०४॥
। ऐं ॐ ॥
``ॐ श्रीं क्लीं ह्रीं ह्रीं फट् स्वाहा ॥१॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां कांपीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
वाग्भवबीजाधिष्ठात्र्यै महाकाल्यै महाहुतिं समर्पयामि नमः स्वाहा ॥
Variation shloka
बीजात्मक तन्त्र दुर्गा सप्तशती के प्रत्येक बीज मन्त्र के अन्त में स्वाहा लगाकर हवन करें तथा प्रथम अध्याय के अन्त में निम्न मन्त्र से हवन करें-
ॐ ऐं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
वाग्बीजाधिष्ठात्र्यै महाकालिकायै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६, एवमादितः ॥ १०४॥
॥ २. महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥
विनियोगः
अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः ।
श्रीमहालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे (पाठे) विनियोगः ।
ध्यानम् ।
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां (धनुष्कुण्डिकां)
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां (प्रसन्नाननां)
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
ॐ ह्रीं ऋषिरुवाच ॥ २.१॥ ॐ ऐं श्रौं नमः ॥ १॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २.२॥ ॐ ऐं श्रीं नमः ॥ २॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ २.३॥ ॐ ऐं ह्सूं नमः ॥ ३॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ २.४॥ ॐ ऐं हौं नमः ॥ ४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ २.५॥ ॐ ऐं ह्रीं नमः ॥ ५॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ २.६॥ ॐ ऐं अं नमः ॥ ६॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ २.७॥ ॐ ऐं क्लीं नमः ॥ ७॥
एतद्वः कथितं सर्वममरारिविचेष्टितम् ।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ २.८॥ ॐ ऐं चां नमः ॥ ८॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः ।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ २.९॥ ॐ ऐं मुं नमः ॥ ९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ २.१०॥ ॐ ऐं डां नमः ॥ १०॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ २.११॥ ॐ ऐं यैं नमः ॥ ११॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ २.१२॥ ॐ ऐं विं नमः ॥ १२॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ २.१३॥ ॐ ऐं च्चें नमः ॥ १३॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ २.१४॥ ॐ ऐं ईं नमः ॥ १४॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ २.१५॥ ॐ ऐं सौं नमः ॥ १५॥
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ २.१६॥ ॐ ऐं गं नमः ॥ १६॥
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ २.१७॥ ॐ ऐं त्रौं नमः ॥ १७॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ २.१८॥ ॐ ऐं लूं नमः ॥ १८॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ २.१९॥ ॐ ऐं वं नमः ॥ १९॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २.२०॥ ॐ ऐं ह्रां नमः ॥ २०॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २.२१॥ ॐ ऐं क्रीं नमः ॥ २१॥
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २.२२॥ ॐ ऐं सौं नमः ॥ २२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २.२३॥ ॐ ऐं यं नमः ॥ २३॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।
कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २.२४॥ ॐ ऐं ऐं नमः ॥ २४॥
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २.२५॥ ॐ ऐं मूं नमः ॥ २५॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २.२६॥ ॐ ऐं सं नमः ॥ २६॥
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २.२७॥ ॐ ऐं हं नमः ॥ २७॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २.२८॥ ॐ ऐं सं नमः ॥ २८॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।
हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २.२९॥ ॐ ऐं सों नमः ॥ २९॥
ददावशून्यं सुरया पानपात्रं धनाधिपः ।
शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २.३०॥ ॐ ऐं शं नमः ॥ ३०॥
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ २.३१॥ ॐ ऐं हं नमः ॥ ३१॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ २.३२॥ ॐ ऐं ह्रौं नमः ॥ ३२॥
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ २.३३॥ ॐ ऐं म्लीं नमः ॥ ३३॥
चचाल वसुधा चेलुः सकलाश्च महीधराः ।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ २.३४॥ ॐ ऐं यूं (यं) नमः ॥ ३४॥
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ २.३५॥ ॐ ऐं त्रूं नमः ॥ ३५॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ २.३६॥ ॐ ऐं स्त्रीं नमः ॥ ३६॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ २.३७॥ ॐ ऐं आं नमः ॥ ३७॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ २.३८॥ ॐ ऐं प्रें नमः ॥ ३८॥
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ २.३९॥ ॐ ऐं शं नमः ॥ ३९॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ २.४०॥ ॐ ऐं ह्रां नमः ॥ ४०॥
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ २.४१॥ ॐ ऐं स्मूं नमः ॥ ४१॥
अयुध्यतायुतानां च सहस्रेण महाहनुः ।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ २.४२॥ ॐ ऐं ऊं नमः ॥ ४२॥
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ २.४३॥ ॐ ऐं गूं नमः ॥ ४३॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ २.४४॥ ॐ ऐं व्यं नमः ॥ ४४॥
युयुधे संयुगे तत्र रथानां परिवारितः ।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ २.४५॥ ॐ ऐं ह्रं नमः ॥ ४५॥
युयुधुः संयुगे देव्या सह तत्र महासुराः ।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ २.४६॥ ॐ ऐं भैं नमः ॥ ४६॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ २.४७॥ ॐ ऐं ह्रां नमः ॥ ४७॥
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ २.४८॥ ॐ ऐं क्रूं नमः ॥ ४८॥
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ २.४९॥ ॐ ऐं मूं नमः ॥ ४९॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ २.५०॥ ॐ ऐं ल्रीं नमः ॥ ५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ २.५१॥ ॐ ऐं श्रां नमः ॥ ५१॥
चचारासुरसैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ २.५२॥ ॐ ऐं द्रूं नमः ॥ ५२॥
त एव सद्यः सम्भूता गणाः शतसहस्रशः ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ २.५३॥ ॐ ऐं ह्नूं (ह्रूं) नमः ॥ ५३॥
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ २.५४॥ ॐ ऐं ह्सौं नमः ॥ ५४॥
मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ २.५५॥ ॐ ऐं क्रां नमः ॥ ५५॥
खड्गादिभिश्च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ २.५६॥ ॐ ऐं स्हौं नमः ॥ ५६॥
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ २.५७॥ ॐ ऐं म्लूं नमः ॥ ५७॥
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ २.५८॥ ॐ ऐं श्रीं नमः ॥ ५८॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ २.५९॥ ॐ ऐं गैं नमः ॥ ५९॥
श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।
केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ २.६०॥ ॐ ऐं क्रीं नमः ॥ ६०॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ २.६१॥ ॐ ऐं त्रीं नमः ॥ ६१॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ २.६२॥ ॐ ऐं क्सीं नमः ॥ ६२॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ २.६३॥ ॐ ऐं फ्रों (कं) नमः ॥ ६३॥
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ २.६४॥ ॐ ऐं फ्रों (फ्रौं) नमः ॥ ६४॥
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ २.६५॥ ॐ ऐं ह्रीं नमः ॥ ६५॥
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ २.६६॥ ॐ ऐं शां नमः ॥ ६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ २.६७॥ ॐ ऐं क्ष्म्रीं नमः ॥ ६७॥
स च सिंहो महानादमुत्सृजन् धुतकेसरः ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ २.६८॥ ॐ ऐं रों नमः ॥ ६८॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ २.६९॥ ॐ ऐं डूं (ङूं, ङुं) नमः ॥ ६९॥
``ॐ ऐं क्रीं क्रां सौं सः फट् स्वाहा ॥ २॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥
उवाच १, अर्धश्लोकाः ६८, श्लोकाः ६९, एवमादितः ॥ १७३॥
॥ ३. महिषासुरवधो नाम तृतीयोऽध्यायः ॥
ध्यानम् ।
ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ।
ॐ ऋषिरुवाच ॥ ३.१॥ ॐ ऐं श्रीं (श्रौं, श्रों) नमः ॥ १॥
निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ३.२॥ ॐ ऐं क्लीं नमः ॥ २॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।
यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ३.३॥ ॐ ऐं सां नमः ॥ ३॥
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ३.४॥ ॐ ऐं त्रों नमः ॥ ४॥
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ३.५॥ ॐ ऐं प्रूं नमः ॥ ५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ३.६॥ ॐ ऐं म्लीं नमः ॥ ६॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ३.७॥ ॐ ऐं क्रौं नमः ॥ ७॥
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ३.८॥ ॐ ऐं व्रीं नमः ॥ ८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ३.९॥ ॐ ऐं स्लीं नमः ॥ ९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।
तेन तच्छतधा नीतं शूलं स च महासुरः ॥ ३.१०॥ ॐ ऐं ह्रीं नमः ॥ १०॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ३.११॥ ॐ ऐं हौं नमः ॥ ११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ३.१२॥ ॐ ऐं श्रां नमः ॥ १२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ३.१३॥ ॐ ऐं ग्रों नमः ॥ १३॥
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ३.१४॥ ॐ ऐं क्रूं नमः ॥ १४॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ३.१५॥ ॐ ऐं क्रीं नमः ॥ १५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ ३.१६॥ ॐ ऐं यां नमः ॥ १६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।
दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ३.१७॥ ॐ ऐं द्लूं नमः ॥ १७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ३.१८॥ ॐ ऐं द्रूं नमः ॥ १८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ३.१९॥ ॐ ऐं क्षं नमः ॥ १९॥
बिडालस्यासिना कायात् पातयामास वै शिरः ।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ ३.२०॥ ॐ ऐं ओं नमः ॥ २०॥
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ३.२१॥ ॐ ऐं क्रौं नमः ॥ २१॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ ३.२२॥ ॐ ऐं क्ष्म्क्ल्रीं नमः ॥ २२॥
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।
निःश्वासपवनेनान्यान्पातयामास भूतले ॥ ३.२३॥ ॐ ऐं वां नमः ॥ २३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ३.२४॥ ॐ ऐं श्रूं नमः ॥ २४॥
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ ३.२५॥ ॐ ऐं ब्लूं नमः ॥ २५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ३.२६॥ ॐ ऐं ल्रीं नमः ॥ २६॥
धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ३.२७॥ ॐ ऐं प्रें नमः ॥ २७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ३.२८॥ ॐ ऐं हूं नमः ॥ २८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ३.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।
छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३.३०॥ ॐ ऐं दें नमः ॥ ३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३.३१॥ ॐ ऐं नूं नमः ॥ ३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३.३२॥ ॐ ऐं आं नमः ॥ ३२॥
ततो महासुरो भूयो माहिषं वपुरास्थितः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३.३३॥ ॐ ऐं फ्रां नमः ॥ ३३॥
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३.३४॥ ॐ ऐं प्रीं नमः ॥ ३४॥
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३.३५॥ ॐ ऐं दूं नमः ॥ ३५॥
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३.३६॥ ॐ ऐं फ्रीं नमः ॥ ३६॥
देव्युवाच ॥ ३.३७॥ ॐ ऐं ह्रीं नमः ॥ ३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३.३८॥ ॐ ऐं गूं नमः ॥ ३८॥
ऋषिरुवाच ॥ ३.३९॥ ॐ ऐं श्रौं नमः ॥ ३९॥
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ३.४०॥ ॐ ऐं सां नमः ॥ ४०॥
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ३.४१॥ ॐ ऐं श्रीं नमः ॥ ४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ३.४२॥ ॐ ऐं जुं नमः ॥ ४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ३.४३॥ ॐ ऐं हं नमः ॥ ४३॥
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३.४४॥ ॐ ऐं सं नमः ॥ ४४॥
``ॐ ह्रीं श्रीं कुं फट् स्वाहा ॥ ३॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥
उवाच ३, अर्धश्लोकाः ४१, श्लोकाः ४४, एवमादितः ॥ २१७॥
॥ ४. शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥
ध्यानम् ।
ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
ॐ ऋषिरुवाच ॥ ४.१॥ ॐ ऐं श्रौं नमः ॥ १॥
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ ४.२॥ ॐ ऐं सौं नमः ॥ २॥
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ४.३॥ ॐ ऐं दिं (दों) नमः ॥ ३॥
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥ ४.४॥ ॐ ऐं प्रें नमः ॥ ४॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ४.५॥ ॐ ऐं यां नमः ॥ ५॥
किं वर्णयाम तव रूपमचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ४.६॥ ॐ ऐं रूं नमः ॥ ६॥
हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ४.७॥ ॐ ऐं भं नमः ॥ ७॥
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ४.८॥ ॐ ऐं सूं नमः ॥ ८॥
या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ॥ ४.९॥ ॐ ऐं श्रां नमः ॥ ९॥
शब्दात्मिका सुविमलर्ग्यजुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवि त्रयी भगवती भवभावनाय
वार्तासि सर्वजगतां परमार्तिहन्त्री ॥ ४.१०॥ ॐ ऐं औं नमः ॥ १०॥
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ४.११॥ ॐ ऐं लूं नमः ॥ ११॥
ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ ४.१२॥ ॐ ऐं डूं नमः ॥ १२॥
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ ४.१३॥ ॐ ऐं जूं नमः ॥ १३॥
देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ॥ ४.१४॥ ॐ ऐं धूं नमः ॥ १४॥
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥ ४.१५॥ ॐ ऐं त्रें नमः ॥ १५॥
धर्म्याणि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ ४.१६॥ ॐ ऐं ह्रीं नमः ॥ १६॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥
एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥ ४.१८॥ ॐ ऐं ईं नमः ॥ १८॥
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ॥ ४.१९॥ ॐ ऐं ह्रां नमः ॥ १९॥
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ॥ ४.२०॥ ॐ ऐं ह्लरूं नमः ॥ २०॥
दुर्वृत्तवृत्तशमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ ४.२१॥ ॐ ऐं क्लूं नमः ॥ २१॥
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ ४.२२॥ ॐ ऐं क्रां नमः ॥ २२॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अस्माकमुन्मदसुरारिभवं नमस्ते ॥ ४.२३॥ ॐ ऐं ल्लूं नमः ॥ २३॥
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ ४.२४॥ ॐ ऐं फ्रें नमः ॥ २४॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ४.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥ ॐ ऐं म्लूं नमः ॥ २६॥
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥ ॐ ऐं घ्रें नमः ॥ २७॥
ऋषिरुवाच ॥ ४.२८॥ ॐ ऐं श्रौं नमः ॥ २८॥
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ ४.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ४.३०॥ ॐ ऐं व्रीं नमः ॥ ३०॥
देव्युवाच ॥ ४.३१॥ ॐ ऐं ह्रीं नमः ॥ ३१॥
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ ४.३२॥ ॐ ऐं त्रौं नमः ॥ ३२॥
देवा ऊचुः ॥ ४.३३॥ ॐ ऐं ह्ल्लौं (हसौं) नमः ॥ ३३॥
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ॥ ४.३४॥ ॐ ऐं गीं नमः ॥ ३४॥
यदयं निहतः शत्रुरस्माकं महिषासुरः ।
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ ४.३५॥ ॐ ऐं यूं नमः ॥ ३५॥
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ४.३६॥ ॐ ऐं ह्लीं नमः ॥ ३६॥
तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ४.३७॥ ॐ ऐं ह्लूं नमः ॥ ३७॥
ऋषिरुवाच ॥ ४.३८॥ ॐ ऐं श्रौं नमः ॥ ३८॥
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ४.३९॥ ॐ ऐं ओं नमः ॥ ३९॥
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४.४०॥ ॐ ऐं अं नमः ॥ ४०॥
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४.४१॥ ॐ ऐं म्हौं नमः ॥ ४१॥
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४.४२॥ ॐ ऐं प्रीं नमः ॥ ४२॥
ह्रीं ॐ ।
``ॐ अं ह्रीं श्रीं हंसः फट् स्वाहा ॥ ४॥(ॐ अं ह्रीं हंसः फट् स्वाहा)''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४॥
उवाच ५, अर्धश्लोकौ २, श्लोकाः ३५, एवमादितः ॥ २५९॥
॥ ५. देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥
विनियोगः
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ।
श्रीमहासरस्वती देवता ।
अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् ।
सूर्यस्तत्त्वम् ।
सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे
उत्तरचरित्रपाठे विनियोगः ।
ध्यानम् ।
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
ॐ क्लीं ऋषिरुवाच ॥ ५.१॥ ॐ ऐं श्रौं नमः ॥ १॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ ५.२॥ ॐ ऐं प्रीं नमः ॥ २॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ५.३॥ ॐ ऐं आं नमः ॥ ३॥
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ५.४॥ ॐ ऐं ह्रीं नमः ॥ ४॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५.५॥ ॐ ऐं ल्रीं नमः ॥ ५॥
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५.६॥ ॐ ऐं त्रों नमः ॥ ६॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ५.७॥ ॐ ऐं क्रीं नमः ॥ ७॥
देवा ऊचुः ॥ ५.८॥ ॐ ऐं ह्सौं नमः ॥ ८॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥ ॐ ऐं ह्रीं नमः ॥ ९॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥ ॐ ऐं श्रीं नमः ॥ १०॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥ ॐ ऐं हूं नमः ॥ ११॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥ ॐ ऐं क्लीं नमः ॥ १२॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥ ॐ ऐं रौं नमः ॥ १३॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥ ॐ ऐं स्त्रीं नमः ॥ १४॥ ॐ ऐं म्लीं नमः ॥ १५॥ ॐ ऐं प्लूं नमः ॥ १६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥ ॐ ऐं स्हां नमः ॥ १७॥ ॐ ऐं स्त्रीं नमः ॥ १८॥ ॐ ऐं ग्लूं नमः ॥ १९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥ ॐ ऐं व्रीं नमः ॥ २०॥ ॐ ऐं सौं नमः ॥ २१॥ ॐ ऐं लूं नमः ॥ २२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥ ॐ ऐं ल्लूं नमः ॥ २३॥ ॐ ऐं द्रां नमः ॥ २४॥ ॐ ऐं क्सां नमः ॥ २५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥ ॐ ऐं क्ष्म्रीं नमः ॥ २६॥ ॐ ऐं ग्लौं नमः ॥ २७॥ ॐ ऐं स्कूँ (स्कूं, स्कं) नमः ॥ २८॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥ ॐ ऐं त्रूं नमः ॥ २९॥ ॐ ऐं स्क्लूं नमः ॥ ३०॥ ॐ ऐं क्रौं नमः ॥ ३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥ ॐ ऐं छ्रीं नमः ॥ ३२॥ ॐ ऐं म्लूं नमः ॥ ३३॥ ॐ ऐं क्लूं नमः ॥ ३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥ ॐ ऐं शां नमः ॥ ३५॥ ॐ ऐं ल्हीं नमः ॥ ३६॥ ॐ ऐं स्त्रूं नमः ॥ ३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥ ॐ ऐं ल्लीं नमः ॥ ३८॥ ॐ ऐं लीं नमः ॥ ३९॥ ॐ ऐं सं नमः ॥ ४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥ ॐ ऐं लूं नमः ४१॥ ॐ ऐं ह्सूं नमः ॥ ४२॥ ॐ ऐं श्रूं नमः ॥ ४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥ ॐ ऐं जूं नमः ॥ ४४॥ ॐ ऐं ह्स्ल्रीं नमः ॥ ४५॥ ॐ ऐं स्कीं नमः ॥ ४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥ ॐ ऐं क्लां नमः ॥ ४७॥ ॐ ऐं श्रूं नमः ॥ ४८॥ ॐ ऐं हं नमः ॥ ४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥ ॐ ऐं ह्लीं नमः ॥ ५०॥ ॐ ऐं क्स्रूं नमः ॥ ५१॥ ॐ ऐं द्रौं नमः ॥ ५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥ ॐ ऐं क्लूं नमः ॥ ५३॥ ॐ ऐं गां नमः ॥ ५४॥ ॐ ऐं सं नमः ॥ ५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥ ॐ ऐं ल्स्रां नमः ॥ ५६॥ ॐ ऐं फ्रीं नमः ॥ ५७॥ ॐ ऐं स्लां नमः ॥ ५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥ ॐ ऐं ल्लूं नमः ॥ ५९॥ ॐ ऐं फ्रें नमः ॥ ६०॥ ॐ ऐं ओं नमः ॥ ६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥ ॐ ऐं स्मलीं (स्म्लीं) नमः ॥ ६२॥ ॐ ऐं ह्रां नमः ॥ ६३॥ ॐ ऐं ॐ (ओं, ऊं) नमः ॥ ६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥ ॐ ऐं ह्लूं नमः ॥ ६५॥ ॐ ऐं हूँ (हूं) नमः ॥ ६६॥ ॐ ऐं नं नमः ॥ ६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥ ॐ ऐं स्रां नमः ॥ ६८॥ ॐ ऐं वं नमः ॥ ६९॥ ॐ ऐं मं नमः ॥ ७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥ ॐ ऐं म्क्लीं नमः ॥ ७१॥ ॐ ऐं शां नमः ॥ ७२॥ ॐ ऐं लं नमः ॥ ७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥ ॐ ऐं भैं नमः ॥ ७४॥ ॐ ऐं ल्लूं नमः ॥ ७५॥ ॐ ऐं हौं नमः ॥ ७६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥ ॐ ऐं ईं नमः ॥ ७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥ ॐ ऐं चें नमः ॥ ७८॥ ॐ ऐं ल्क्रीं नमः ॥ ७९॥ ॐ ऐं ह्ल्रीं नमः ॥ ८०॥
स्तुता सुरैः पूर्वमभीष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥ॐ ऐं क्ष्म्ल्रीं नमः ॥ ८१॥
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥ॐ ऐं यूं नमः ॥ ८२॥
ऋषिरुवाच ॥ ५.८३॥ ॐ ऐं श्रौं नमः ॥ ८३॥
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥ ॐ ऐं ह्रौं नमः ॥ ८४॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥ ॐ ऐं भ्रूं नमः ॥ ८५॥
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥ ॐ ऐं क्स्त्रीं नमः ॥ ८६॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥ ॐ ऐं आं नमः ॥ ८७॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥ ॐ ऐं क्रूं नमः ॥ ८८॥
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥ ॐ ऐं त्रूं नमः ॥ ८९॥
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ५.९०॥ ॐ ऐं डूं नमः ॥ ९०॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ५.९१॥ ॐ ऐं जां नमः ॥ ९१॥
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ५.९२॥ ॐ ऐं ह्लरूं (ह्ल्रूं) नमः ॥ ९२॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ५.९३॥ ॐ ऐं फ्रौं नमः ॥ ९३॥
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ॥ ५.९४॥ ॐ ऐं क्रौं नमः ॥ ९४॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ५.९५॥ ॐ ऐं किं नमः ॥ ९५॥
निधिरेष महापद्मः समानीतो धनेश्वरात् ।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ५.९६॥ ॐ ऐं ग्लूं नमः ॥ ९६॥
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ५.९७॥ ॐ ऐं छ्र्क्लीं नमः ॥ ९७॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ५.९८॥ ॐ ऐं रं नमः ॥ ९८॥
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।
वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ५.९९॥ ॐ ऐं क्सैं नमः ॥ ९९॥
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ५.१००॥ ॐ ऐं स्हुं नमः ॥ १००॥
ऋषिरुवाच ॥ ५.१०१॥ ॐ ऐं श्रौं नमः ॥ १०१॥
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ ५.१०२॥ ॐ ऐं ह्श्रीं नमः ॥ १०२॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ ५.१०३॥ ॐ ऐं ओं नमः ॥ १०३॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ५.१०४॥ ॐ ऐं लूं नमः ॥ १०४॥
दूत उवाच ॥ ५.१०५॥ ॐ ऐं ल्हूं नमः ॥ १०५॥
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ ५.१०६॥ ॐ ऐं र्ल्लूं (ल्लूं) नमः ॥ १०६॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ ५.१०७॥ ॐ ऐं स्क्रीं नमः ॥ १०७॥
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ ५.१०८॥ ॐ ऐं स्स्रौं नमः ॥ १०८॥
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ ५.१०९॥ ॐ ऐं स्श्रूं नमः ॥ १०९॥
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितम् ॥ ५.११०॥ ॐ ऐं क्ष्म्क्लीं नमः ॥ ११०॥
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ५.१११॥ ॐ ऐं व्रीं नमः ॥ १११॥
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ५.११२॥ ॐ ऐं सीं नमः ॥ ११२॥
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ५.११३॥ ॐ ऐं भ्रूं नमः ॥ ११३॥
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ५.११४॥ ॐ ऐं लां नमः ॥ ११४॥
ऋषिरुवाच ॥ ५.११५॥ ॐ ऐं श्रौं नमः ॥ ११५॥
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ५.११६॥ ॐ ऐं स्हैं नमः ॥ ११६॥
देव्युवाच ॥ ५.११७॥ ॐ ऐं ह्रीं नमः ॥ ११७॥
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ५.११८॥ ॐ ऐं श्रीं नमः ॥ ११८॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ५.११९॥ ॐ ऐं फ्रें नमः ॥ ११९॥
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ५.१२०॥ ॐ ऐं रूं नमः ॥ १२०॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ ५.१२१॥ ॐ ऐं च्छूं नमः ॥ १२१॥
दूत उवाच ॥ ५.१२२॥ ॐ ऐं ल्हूं नमः ॥ १२२॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ ५.१२३॥ ॐ ऐं कं नमः ॥ १२३॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥ ५.१२४॥ ॐ ऐं द्रें नमः ॥ १२४॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ ५.१२५॥ ॐ ऐं श्रीं नमः ॥ १२५॥
सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ ५.१२६॥ ॐ ऐं सां नमः ॥ १२६॥
देव्युवाच ॥ ५.१२७॥ ॐ ऐं ह्रीं नमः ॥ १२७॥
एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ ५.१२८॥ ॐ ऐं ऐं नमः ॥ १२८॥
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ॥ ५.१२९॥ ॐ ऐं स्क्लीं नमः ॥ १२९॥
``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे स्वाहा ॥ ५॥''
(बीजमन्त्र उपलब्ध नहीं है । अतः इस के स्थान पर नवर्णमन्त्र से हवन किया जा सकता है ।)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥ ५॥
उवाच ९, त्रिपान्मन्त्राः ६६, श्लोकाः ५४, एवमादितः ॥ ३८८॥
॥ ६. शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥
ध्यानम् ।
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरु रत्नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्गनिलयां पद्मावतीं चिन्तये ॥
ॐ ऋषिरुवाच ॥ ६.१॥ ॐ ऐं श्रौं नमः ॥ १॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ ६.२॥ ॐ ऐं ओं नमः ॥ २॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ६.३॥ ॐ ऐं त्रूं नमः ॥ ३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ६.४॥ ॐ ऐं ह्रौं नमः ॥ ४॥
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ६.५॥ ॐ ऐं क्रौं नमः ॥ ५॥
ऋषिरुवाच ॥ ६.६॥ ॐ ऐं ह्रीं (श्रौं) नमः ॥ ६॥
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ ६.७॥ ॐ ऐं त्रौं (त्रीं) नमः ॥ ७॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ६.८॥ ॐ ऐं क्लीं नमः ॥ ८॥
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ६.९॥ ॐ ऐं प्रीं नमः ॥ ९॥
देव्युवाच ॥ ६.१०॥ ॐ ऐं ह्रीं नमः ॥ १०॥
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ६.११॥ ॐ ऐं ह्रौं नमः ॥ ११॥
ऋषिरुवाच ॥ ६.१२॥ ॐ ऐं श्रौं नमः ॥ १२॥
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ ६.१३॥ ॐ ऐं ऐं नमः ॥ १३॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ ६.१४॥ ॐ ऐं ओं नमः ॥ १४॥
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ ६.१५॥ ॐ ऐं श्रीं नमः ॥ १५॥
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ॥ ६.१६॥ ॐ ऐं क्रां नमः ॥ १६॥
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ॥ ६.१७॥ ॐ ऐं हूं नमः ॥ १७॥
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ ६.१८॥ ॐ ऐं छ्रां क्लीं नमः ॥ १८॥
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ ६.१९॥ ॐ ऐं क्ष्म्क्ल्रीं नमः ॥ १९॥
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥ ६.२०॥ ॐ ऐं ल्लूं नमः ॥ २०॥
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ ६.२१॥ ॐ ऐं सौं नमः ॥ २१॥
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ ६.२२॥ ॐ ऐं ह्लौं नमः ॥ २२॥
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ ६.२३॥ ॐ ऐं क्रूं नमः ॥ २३॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ ६.२४॥ ॐ ऐं सौं नमः ॥ २४॥
``ॐ श्रीं यं ह्रीं क्लीं ह्लीं फट् स्वाहा ॥ ६॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥ ६॥
उवाच ४, श्लोकाः २४, एवमादितः ॥ ४१२॥
॥ ७. चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥
ध्यानम् ।
ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रत्नवस्त्रां
मातङ्गी शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
ॐ ऋषिरुवाच ॥ ७.१॥ ॐ ऐं श्रौं नमः ॥ १॥
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ ७.२॥ ॐ ऐं कूं नमः ॥ २॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ७.३॥ ॐ ऐं ह्लीं नमः ॥ ३॥
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ ७.४॥ ॐ ऐं ह्रं नमः ॥ ४॥
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ७.५॥ ॐ ऐं मूं नमः ॥ ५॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ७.६॥ ॐ ऐं त्रौं नमः ॥ ६॥
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ७.७॥ ॐ ऐं ह्रौं नमः ॥ ७॥
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ७.८॥ ॐ ऐं ओं नमः ॥ ८॥
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥ ७.९॥ ॐ ऐं ह्सूं नमः ॥ ९॥
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ ७.१०॥ ॐ ऐं क्लूं नमः ॥ १०॥
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ७.११॥ ॐ ऐं कैं (कें) नमः ॥ ११॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ ७.१२॥ ॐ ऐं नें नमः ॥ १२॥
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ ७.१३॥ ॐ ऐं लूं नमः ॥ १३॥
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥ ७.१४॥ ॐ ऐं ह्स्लीं नमः ॥ १४॥
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ ७.१५॥ ॐ ऐं प्लूं नमः ॥ १५॥
क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ ७.१६॥ ॐ ऐं शां नमः ॥ १६॥
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ ७.१७॥ ॐ ऐं स्लूं नमः ॥ १७॥
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ ७.१८॥ ॐ ऐं प्लीं नमः ॥ १८॥
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवदना दुर्दर्शदशनोज्ज्वला ॥ ७.१९॥ ॐ ऐं प्रैं नमः ॥ १९॥
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ ७.२०॥ ॐ ऐं अं नमः ॥ २०॥
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ ७.२१॥ ॐ ऐं औं नमः ॥ २१॥
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ ७.२२॥ ॐ ऐं म्ल्रीं नमः ॥ २२॥
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ ७.२३॥ ॐ ऐं श्रां नमः ॥ २३॥
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ ७.२४॥ ॐ ऐं सौं नमः ॥ २४॥
ऋषिरुवाच ॥ ७.२५॥ ॐ ऐं श्रौं नमः ॥ २५॥
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ ७.२६॥ ॐ ऐं प्रीं नमः ॥ २६॥
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ ७.२७॥ ॐ ऐं ह्स्व्रीं नमः ॥ २७॥
``ॐ रं रं रं कं कं कं जं जं जं चामुण्डायै फट् स्वाहा ॥ ७॥(ॐ रं रं रं कं कं जं जं चामुण्डायै फट् स्वाहा)''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥ ७॥
उवाच २, श्लोकाः २५, एवमादितः ॥ ४३९॥
॥ ८. रक्तबीजवधो नामाष्टमोऽध्यायः ॥
ध्यानम् ।
ॐ अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशबाणाचापहस्ताम् ।
अणिमादिभिरावृतां मयूखै-
रहमित्येव विभावये भवानीम् ॥
ॐ ऋषिरुवाच ॥ ८.१॥ ॐ ऐं श्रौं नमः ॥ १॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ ८.२॥ ॐ ऐं म्ह्ल्रीं नमः ॥ २॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८.३॥ ॐ ऐं प्रूं नमः ॥ ३॥
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ८.४॥ ॐ ऐं ऐं नमः ॥ ४॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ८.५॥ ॐ ऐं क्रों नमः ॥ ५॥
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ८.६॥ ॐ ऐं ईं नमः ॥ ६॥
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ८.७॥ ॐ ऐं ऐं नमः ॥ ७॥
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८.८॥ ॐ ऐं ल्रीं नमः ॥ ८॥
ततः सिंहो महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ८.९॥ ॐ ऐं फ्रौं नमः ॥ ९॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ ८.१०॥ ॐ ऐं म्लूं नमः ॥ १०॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ८.११॥ ॐ ऐं नों नमः ॥ ११॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहानामतिवीर्यबलान्विताः ॥ ८.१२॥ ॐ ऐं हूं नमः ॥ १२॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ ८.१३॥ ॐ ऐं फ्रीं नमः ॥ १३॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥ ८.१४॥ ॐ ऐं ग्लौं नमः ॥ १४॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥ ८.१५॥ ॐ ऐं स्मौं नमः ॥ १५॥
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥ ८.१६॥ ॐ ऐं सौं नमः ॥ १६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ ८.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ ८.१८॥ ॐ ऐं स्हौं नमः ॥ १८॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ ८.१९॥ ॐ ऐं ख्सें नमः ॥ १९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ ८.२०॥ ॐ ऐं क्ष्म्लीं नमः ॥ २०॥
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ८.२१॥ ॐ ऐं ह्रां नमः ॥ २१॥
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ८.२२॥ ॐ ऐं वीं नमः ॥ २२॥
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ ८.२३॥ ॐ ऐं लूं नमः ॥ २३॥
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ ८.२४॥ ॐ ऐं ल्सीं नमः ॥ २४॥
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ ८.२५॥ ॐ ऐं ब्लों नमः ॥ २५॥
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ८.२६॥ ॐ ऐं त्स्रों नमः ॥ २६॥
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ ८.२७॥ ॐ ऐं व्रूं (ब्रूं) नमः ॥ २७॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ ८.२८॥ ॐ ऐं श्ल्कीं नमः ॥ २८॥
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ ८.२९॥ ॐ ऐं श्रूं नमः ॥ २९॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ८.३०॥ ॐ ऐं ह्रीं नमः ॥ ३०॥
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ८.३१॥ ॐ ऐं शीं नमः ॥ ३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ८.३२॥ ॐ ऐं क्लीं नमः ॥ ३२॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ८.३३॥ ॐ ऐं क्लौं नमः ॥ ३३॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ८.३४॥ ॐ ऐं प्रूं नमः ॥ ३४॥
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ८.३५॥ ॐ ऐं ह्नूं (ह्रूं) नमः ॥ ३५॥
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ८.३६॥ ॐ ऐं क्लूं नमः ॥ ३६॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ८.३७॥ ॐ ऐं तौं नमः ॥ ३७॥
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ८.३८॥ ॐ ऐं म्लूं नमः ॥ ३८॥
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ८.३९॥ ॐ ऐं हं नमः ॥ ३९॥
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ८.४०॥ ॐ ऐं स्लूं नमः ॥ ४०॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ८.४१॥ ॐ ऐं औं नमः ॥ ४१॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ८.४२॥ ॐ ऐं ल्हीं नमः ॥ ४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ८.४३॥ ॐ ऐं श्ल्रीं नमः ॥ ४३॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ८.४४॥ ॐ ऐं यां नमः ॥ ४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥ ८.४५॥ ॐ ऐं थ्लीं नमः ॥ ४५॥
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ८.४६॥ ॐ ऐं ल्हीं नमः ॥ ४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ८.४७॥ ॐ ऐं ग्लौं नमः ॥ ४७॥
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ८.४८॥ ॐ ऐं ह्रौं नमः ॥ ४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ८.४९॥ ॐ ऐं प्रां नमः ॥ ४९॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ८.५०॥ ॐ ऐं क्रीं नमः ॥ ५०॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ८.५१॥ ॐ ऐं क्लीं नमः ॥ ५१॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ८.५२॥ ॐ ऐं न्स्लूं नमः ॥ ५२॥
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ८.५३॥ ॐ ऐं हीं नमः ॥ ५३॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ८.५४॥ ॐ ऐं ह्लौं नमः ॥ ५४॥
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति ॥ ८.५५॥ ॐ ऐं ह्रैं नमः ॥ ५५॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ८.५६॥ ॐ ऐं भ्रं नमः ॥ ५६॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ ८.५७॥ ॐ ऐं सौं नमः ॥ ५७॥
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ८.५८॥ ॐ ऐं श्रीं नमः ॥ ५८॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ ८.५९॥ ॐ ऐं सूं नमः ॥ ५९॥
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।
देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः ॥ ८.६०॥ ॐ ऐं द्रौं नमः ॥ ६०॥
जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ ८.६१॥ ॐ ऐं स्स्रां नमः ॥ ६१॥
नीरक्तश्च महीपाल रक्तबीजो महासुरः ।
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ ८.६२॥ ॐ ऐं ह्स्लीं नमः ॥ ६२॥
तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ८.६३॥ ॐ ऐं स्ल्ल्रीं नमः ॥ ६३॥
``ॐ शां सं श्रीं श्रं अं अः क्लीं ह्लीं फट् स्वाहा ॥ ८॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
रक्तबीजवधो नामाष्टमोऽध्यायः ॥ ८॥
उवाच १, अर्धश्लोकः १, श्लोकाः ६१, एवमादितः ॥ ५०२॥
॥ ९. निशुम्भवधो नाम नवमोऽध्यायः ॥
ध्यानम् ।
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धाम्बिकेशमनिशं वपुराश्रयामि ॥
ॐ राजोवाच ॥ ९.१॥ ॐ ऐं रौं नमः ॥ १॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ ९.२॥ ॐ ऐं क्लीं नमः ॥ २॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ९.३॥ ॐ ऐं म्लौं नमः ॥ ३॥
ऋषिरुवाच ॥ ९.४॥ ॐ ऐं श्रौं नमः ॥ ४॥
चकार कोपमतुलं रक्तबीजे निपातिते ।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ९.५॥ ॐ ऐं ग्लीं नमः ॥ ५॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ९.६॥ ॐ ऐं ह्रौं नमः ॥ ६॥
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ।
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ९.७॥ ॐ ऐं ह्सौं नमः ॥ ७॥
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ९.८॥ ॐ ऐं ईं नमः ॥ ८॥
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९.९॥ ॐ ऐं व्रूं (ब्रूं) नमः ॥ ९॥
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ ९.१०॥ ॐ ऐं श्रां नमः ॥ १०॥
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् ।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ९.११॥ ॐ ऐं लूं नमः ॥ ११॥
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ ९.१२॥ ॐ ऐं आं नमः ॥ १२॥
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः ।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ ९.१३॥ ॐ ऐं श्रीं नमः ॥ १३॥
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।
आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ ९.१४॥ ॐ ऐं क्रौं नमः ॥ १४॥
आविद्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ ९.१५॥ ॐ ऐं प्रूं नमः ॥ १५॥
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।
आहत्य देवी बाणौघैरपातयत भूतले ॥ ९.१६॥ ॐ ऐं क्लीं नमः ॥ १६॥
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ ९.१७॥ ॐ ऐं भ्रं नमः ॥ १७॥
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।
भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ ९.१८॥ ॐ ऐं ह्रौं नमः ॥ १८॥
तमायान्तं समालोक्य देवी शङ्खमवादयत् ।
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ ९.१९॥ ॐ ऐं क्रीं नमः ॥ १९॥
पूरयामास ककुभो निजघण्टास्वनेन च ।
समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ ९.२०॥ ॐ ऐं म्लीं नमः ॥ २०॥
ततः सिंहो महानादैस्त्याजितेभमहामदैः ।
पूरयामास गगनं गां तथैव दिशो दश ॥ ९.२१॥ ॐ ऐं ग्लौं नमः ॥ २१॥
ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ ९.२२॥ ॐ ऐं ह्सूं नमः ॥ २२॥
अट्टाट्टहासमशिवं शिवदूती चकार ह ।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ ९.२३॥ ॐ ऐं ल्पीं नमः ॥ २३॥
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ ९.२४॥ ॐ ऐं ह्रौं नमः ॥ २४॥
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ ९.२५॥ ॐ ऐं ह्स्रां नमः ॥ २५॥
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।
निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ ९.२६॥ ॐ ऐं स्हौं नमः ॥ २६॥
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् ।
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥ ९.२७॥ ॐ ऐं ल्लूं नमः ॥ २७॥
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ ९.२८॥ ॐ ऐं क्स्लीं नमः ॥ २८॥
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।
आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ ९.२९॥ ॐ ऐं श्रीं नमः ॥ २९॥
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ।
चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ९.३०॥ ॐ ऐं स्तूं नमः ॥ ३०॥
ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ९.३१॥ ॐ ऐं च्रें नमः ॥ ३१॥
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।
अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ९.३२॥ ॐ ऐं वीं नमः ॥ ३२॥
तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।
खड्गेन शितधारेण स च शूलं समाददे ॥ ९.३३॥ ॐ ऐं क्ष्लूं नमः ॥ ३३॥
शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ९.३४॥ ॐ ऐं श्लूं नमः ॥ ३४॥
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ९.३५॥ ॐ ऐं क्रूं नमः ॥ ३५॥
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ९.३६॥ ॐ ऐं क्रां नमः ॥ ३६॥
ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ९.३७॥ ॐ ऐं ह्रौं नमः ॥ ३७॥
कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ९.३८॥ ॐ ऐं क्रां नमः ॥ ३८॥
माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।
वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ९.३९॥ ॐ ऐं स्क्ष्लीं नमः ॥ ३९॥
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ९.४०॥ ॐ ऐं सूं नमः ॥ ४०॥
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ९.४१॥ ॐ ऐं फ्रूं नमः ॥ ४१॥
``ॐ ऐं ह्रीं श्रीं सौं फट् स्वाहा ॥ ९॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥
उवाच २, अर्धश्लोकाः ३९, श्लोकाः ४१, एवमादितः ॥ ५४३॥
॥ १०. शुम्भवधो नाम दशमोऽध्यायः ॥
ध्यानम् ।
ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-
नेत्रां धनुश्शरयुताङ्कुशपाशशूलम् ।
रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॥
ॐ ऋषिरुवाच ॥ १०.१॥ ॐ ऐं श्रौं नमः ॥ १॥
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ १०.२॥ ॐ ऐं ह्रीं नमः ॥ २॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ १०.३॥ ॐ ऐं ब्लूं नमः ॥ ३॥
देव्युवाच ॥ १०.४॥ ॐ ऐं ह्रीं नमः ॥ ४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ १०.५॥ ॐ ऐं म्लूं नमः ॥ ५॥
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ १०.६॥ ॐ ऐं श्रौं नमः ॥ ६॥
देव्युवाच ॥ १०.७॥ ॐ ऐं ह्रीं नमः ॥ ७॥
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ १०.८॥ ॐ ऐं ग्लीं नमः ॥ ८॥
ऋषिरुवाच ॥ १०.९॥ ॐ ऐं श्रौं नमः ॥ ९॥
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०.१०॥ ॐ ऐं ध्रूं नमः ॥ १०॥
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।
तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ १०.११॥ ॐ ऐं हुं नमः ॥ ११॥
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १०.१२॥ ॐ ऐं द्रौं नमः ॥ १२॥
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।
बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १०.१३॥ ॐ ऐं श्रीं नमः ॥ १३॥
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १०.१४॥ ॐ ऐं त्रूं (श्रूं) नमः ॥ १४॥
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १०.१५॥ ॐ ऐं व्रूं (ब्रूं) नमः ॥ १५॥
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १०.१६॥ ॐ ऐं फ्रें नमः ॥ १६॥
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
अश्वांश्च पातयामास रथं सारथिना सह ॥ ( missing line and not taken in count below) १०.१७॥ ॐ ऐं ह्रां नमः ॥ १७॥
हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १०.१८॥ ॐ ऐं जुं नमः ॥ १८॥
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १०.१९॥ ॐ ऐं स्रौं नमः ॥ १९॥
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ १०.२०॥ ॐ ऐं स्लूं नमः ॥ २०॥
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ १०.२१॥ ॐ ऐं प्रें नमः ॥ २१॥
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ १०.२२॥ ॐ ऐं ह्स्वां नमः ॥ २२॥
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ १०.२३॥ ॐ ऐं प्रीं नमः ॥ २३॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ (उत्पात्य) १०.२४॥ ॐ ऐं फ्रां नमः ॥ २४॥
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ १०.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ १०.२६॥ ॐ ऐं श्रीं नमः ॥ २६॥
स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ १०.२७॥ ॐ ऐं क्रां नमः ॥ २७॥
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ १०.२८॥ ॐ ऐं सः नमः ॥ २८॥
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ १०.२९॥ ॐ ऐं क्लीं नमः ॥ २९॥
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ १०.३०॥ ॐ ऐं व्रें नमः ॥ ३०॥
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ १०.३१॥ ॐ ऐं ईं नमः ॥ ३१॥
जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ १०.३२॥ ॐ ऐं ज्स्ह्ल्रां नमः ॥ ३२॥ (var includes both ॐ ऐं ज्स्ह्ल्रां नमः । ॐ ऐं ञ्स्ह्लीं नमः) ॥ ३३॥
``ॐ ऐं ह्रीं नमः क्लीं ह्रीं फट् स्वाहा ॥ १०॥(ॐ ऐं ह्रीं नमः क्लीं ह्नीं फट् स्वाहा)''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥
उवाच ४, अर्धश्लोकः १, श्लोकाः २७, एवमादितः ॥ ५७५॥
॥ नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥
ध्यानम् ।
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
ॐ ऋषिरुवाच ॥ ११.१॥ ॐ ऐं श्रौं नमः ॥ १॥
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः ॥ ११.२॥ ॐ ऐं क्रूं नमः ॥ २॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥ ११.३॥ ॐ ऐं श्रीं नमः ॥ ३॥
आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ११.४॥ ॐ ऐं ल्लीं नमः ॥ ४॥
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ११.५॥ ॐ ऐं प्रें नमः ॥ ५॥
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ११.६॥ ॐ ऐं सौं नमः ॥ ६॥
सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ११.७॥ ॐ ऐं स्हौं नमः ॥ ७॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ११.८॥ ॐ ऐं श्रूं नमः ॥ ८॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ११.९॥ ॐ ऐं क्लीं नमः ॥ ९॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११.१०॥ ॐ ऐं स्क्लीं नमः ॥ १०॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११.११॥ ॐ ऐं प्रीं नमः ॥ ११॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११.१२॥ ॐ ऐं ग्लौं नमः ॥ १२॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ११.१३॥ ॐ ऐं ह्स्ह्रीं (' ', ह्ह्रीं) नमः ॥ १३॥
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ ११.१४॥ ॐ ऐं स्तौं नमः ॥ १४॥
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ११.१५॥ ॐ ऐं क्लीं नमः ॥ १५॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ११.१६॥ ॐ ऐं म्लीं नमः ॥ १६॥
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ ११.१७॥ ॐ ऐं स्तूं नमः ॥ १७॥
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ११.१८॥ ॐ ऐं ज्स्ह्नीं (ज्स्ह्रीं) नमः ॥ १८॥
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ ११.१९॥ ॐ ऐं फ्रूं नमः ॥ १९॥
शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ ११.२०॥ ॐ ऐं क्रूं नमः ॥ २०॥
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ ११.२१॥ ॐ ऐं ह्रीं नमः ॥ २१॥
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ ११.२२॥ ॐ ऐं ल्लूं नमः ॥ २२॥
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ ११.२३॥ ॐ ऐं क्ष्म्रीं नमः ॥ २३॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ११.२४॥ ॐ ऐं श्रूं नमः ॥ २४॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ ११.२५॥ ॐ ऐं इं नमः ॥ २५॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ११.२६॥ ॐ ऐं जुं नमः ॥ २६॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ११.२७॥ ॐ ऐं त्रैं नमः ॥ २७॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ११.२८॥ ॐ ऐं द्रूं नमः ॥ २८॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥
एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिं
कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ११.३०॥ ॐ ऐं क्लीं नमः ॥ ३०॥
विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम् ॥ ११.३१॥ ॐ ऐं सूं नमः ॥ ३१॥
रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम् ॥ ११.३२॥ ॐ ऐं हौं नमः ॥ ३२॥
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ११.३३॥ ॐ ऐं म्व्रं (श्व्रं) नमः ॥ ३३॥
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥ ११.३४॥ ॐ ऐं व्रूं नमः ॥ ३४॥
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ११.३५॥ ॐ ऐं फां नमः ॥ ३५॥
देव्युवाच ॥ ११.३६॥ ॐ ऐं ह्रीं नमः ॥ ३६॥
वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ११.३७॥ ॐ ऐं लं नमः ॥ ३७॥
देवा ऊचुः ॥ ११.३८॥ ॐ ऐं ह् सौं (ह्सां) नमः ॥ ३८॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११.३९॥ ॐ ऐं सें नमः ॥ ३९॥
देव्युवाच ॥ ११.४०॥ ॐ ऐं ह्रीं नमः ॥ ४०॥
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ११.४१॥ ॐ ऐं ह्रौं नमः ॥ ४१॥
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ११.४२॥ ॐ ऐं विं नमः ॥ ४२॥
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ११.४३॥ ॐ ऐं प्लीं नमः ॥ ४३॥
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ११.४४॥ ॐ ऐं क्ष्म्क्लीं नमः ॥ ४४॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ११.४५॥ ॐ ऐं त्स्रां नमः ॥ ४५॥
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ११.४६॥ ॐ ऐं प्रं नमः ॥ ४६॥
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ११.४७॥ ॐ ऐं म्लीं नमः ॥ ४७॥
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ११.४८॥ ॐ ऐं स्रूं नमः ॥ ४८॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ११.४९॥ ॐ ऐं क्ष्मां नमः ॥ ४९॥
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ११.५०॥ ॐ ऐं स्तूं नमः ॥ ५०॥
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ११.५१॥ ॐ ऐं स्ह्रीं नमः ॥ ५१॥
भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ११.५२॥ ॐ ऐं थ्प्रीं नमः ॥ ५२॥
तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ११.५३॥ ॐ ऐं क्रौं नमः ॥ ५३॥
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ११.५४॥ ॐ ऐं श्रां नमः ॥ ५४॥
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ११.५५॥ ॐ ऐं म्लीं नमः ॥ ५५॥
``ॐ ऐं ह्रीं क्लीं श्रीं सौं नमः फट् स्वाहा ॥ ११॥(ॐ ह्रीं क्लीं श्रीं सौं नमः फट् स्वाहा)''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥
उवाच ४, अर्धश्लोकः १, श्लोकाः ५०, एवमादितः ॥ ६३०॥
॥ १२. भगवती वाक्यं द्वादशोऽध्यायः ॥
ध्यानम् ।
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
ॐ देव्युवाच ॥ १२.१॥ ॐ ऐं ह्रीं नमः ॥ १॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ १२.२॥ ॐ ऐं ओं नमः ॥ २॥
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ १२.३॥ ॐ ऐं श्रीं नमः ॥ ३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ १२.४॥ ॐ ऐं ईं नमः ॥ ४॥
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ १२.५॥ ॐ ऐं क्लीं नमः ॥ ५॥
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ १२.६॥ ॐ ऐं क्रूं नमः ॥ ६॥
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १२.७॥ ॐ ऐं श्रूं नमः ॥ ७॥
उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ १२.८॥ ॐ ऐं प्रां नमः ॥ ८॥
यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ॥ १२.९॥ ॐ ऐं क्रूं नमः ॥ ९॥
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १२.१०॥ ॐ ऐं दिं नमः ॥ १०॥
जानताजानता वापि बलिपूजां यथा कृताम् ।
प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ १२.११॥ ॐ ऐं फ्रें नमः ॥ ११॥
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२.१२॥ ॐ ऐं हं नमः ॥ १२॥
सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १२.१३॥ ॐ ऐं सः नमः ॥ १३॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १२.१४॥ ॐ ऐं चें नमः ॥ १४॥
रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १२.१५॥ ॐ ऐं सूं नमः ॥ १५॥
शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १२.१६॥ ॐ ऐं प्रीं नमः ॥ १६॥
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १२.१७॥ ॐ ऐं व्लूं नमः ॥ १७॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १२.१८॥ ॐ ऐं आं नमः ॥ १८॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १२.१९॥ ॐ ऐं औं नमः ॥ १९॥
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ १२.२०॥ ॐ ऐं ह्रीं नमः ॥ २०॥
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ १२.२१॥ ॐ ऐं क्रीं नमः ॥ २१॥
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ १२.२२॥ ॐ ऐं द्रां नमः ॥ २२॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ १२.२३॥ ॐ ऐं श्रीं नमः ॥ २३॥
तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ १२.२४॥ ॐ ऐं स्लीं नमः ॥ २४॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ १२.२५॥ ॐ ऐं क्लीं नमः ॥ २५॥
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ १२.२६॥ ॐ ऐं स्लूं नमः ॥ २६॥
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ १२.२७॥ ॐ ऐं ह्रीं नमः ॥ २७॥
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ १२.२८॥ ॐ ऐं व्लीं (ब्लीं) नमः ॥ २८॥
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ १२.२९॥ ॐ ऐं त्रों नमः ॥ २९॥
दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ १२.३०॥ ॐ ऐं ओं नमः ॥ ३०॥
ऋषिरुवाच ॥ १२.३१॥ ॐ ऐं श्रौं नमः ॥ ३१॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ १२.३२॥ ॐ ऐं ऐं नमः ॥ ३२॥
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ १२.३३॥ ॐ ऐं प्रें नमः ॥ ३३॥
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ १२.३४॥ ॐ ऐं द्रूं नमः ॥ ३४॥
जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ १२.३५॥ ॐ ऐं क्लूं नमः ॥ ३५॥
एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम् ॥ १२.३६॥ ॐ ऐं औं नमः ॥ ३६॥
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ १२.३७॥ ॐ ऐं सूं नमः ॥ ३७॥
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
महादेव्या महाकाली महामारीस्वरूपया ॥ १२.३८॥ ॐ ऐं चें नमः ॥ ३८॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥ १२.३९॥ ॐ ऐं हैं नमः ॥ ३९॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ १२.४०॥ ॐ ऐं प्लीं नमः ॥ ४०॥
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ १२.४१॥ ॐ ऐं क्षां नमः ॥ ४१॥
``ॐ यं यं यं रं रं रं ठं ठं ठं फट् स्वाहा ॥ १२॥''
(हवनमंत्र)
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥
उवाच २, अर्धश्लोकौ २, श्लोकाः ३७, एवमादितः ॥ ६७१॥
॥ १३. सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥
ध्यानम् ।
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ॥
ॐ ऋषिरुवाच ॥ १३.१॥ ॐ ऐं श्रौं नमः ॥ १॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ १३.२॥ ॐ ऐं व्रीं नमः ॥ २॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ १३.३॥ ॐ ऐं ओं नमः ॥ ३॥
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीम् ॥ १३.४॥ ॐ ऐं औं नमः ॥ ४॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ १३.५॥ ॐ ऐं ह्रां नमः ॥ ५॥
मार्कण्डेय उवाच ॥ १३.६॥ ॐ ऐं श्रीं नमः ॥ ६॥
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ १३.७॥ ॐ ऐं श्रां नमः ॥ ७॥
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ १३.८॥ ॐ ऐं ओं नमः ॥ ८॥
जगाम सद्यस्तपसे स च वैश्यो महामुने ।
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ १३.९॥ ॐ ऐं प्लीं नमः ॥ ९॥
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १३.१०॥ ॐ ऐं सौं नमः ॥ १०॥
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ १३.११॥ ॐ ऐं ह्रीं नमः ॥ ११॥
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १३.१२॥ ॐ ऐं क्रीं नमः ॥ १२॥
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३.१३॥ ॐ ऐं ल्लूं नमः ॥ १३॥
देव्युवाच ॥ १३.१४॥ ॐ ऐं क्लीं नमः ॥ १४॥
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १३.१५॥ ॐ ऐं ह्रीं नमः ॥ १५॥
मार्कण्डेय उवाच ॥ १३.१६॥ ॐ ऐं प्लीं नमः ॥ १६॥
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १३.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १३.१८॥ ॐ ऐं ल्लीं नमः ॥ १८॥
देव्युवाच ॥ १३.१९॥ ॐ ऐं श्रूं नमः ॥ १९॥
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ १३.२०॥ ॐ ऐं ह्रीं नमः ॥ २०॥
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ १३.२१॥ ॐ ऐं त्रूं नमः ॥ २१॥
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ १३.२२॥ ॐ ऐं हूँ (हूं, ह्रीं) नमः ॥ २२॥
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ १३.२३॥ ॐ ऐं ह्रां (प्रीं) नमः ॥ २३॥
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ १३.२४॥ ॐ ऐं प्रीं (ओं) नमः ॥ २४॥
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ १३.२५॥ ॐ ऐं ओं (सूं) नमः ॥ २५॥
मार्कण्डेय उवाच ॥ १३.२६॥ ॐ ऐं सूं (श्रीं) नमः ॥ २६॥
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ १३.२७॥ ॐ ऐं ह्लौं नमः ॥ २७॥
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ १३.२८॥ ॐ ऐं यौं नमः ॥ २८॥
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.२९॥ ॐ ऐं आं ल्हीं (ओं) नमः ॥ २९॥
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.३०॥ ॐ ऐं ओं नमः ॥ ३०॥
। क्लीं ॐ ।
``ऐं ह्रीं क्लीं चामुण्डायै विच्चे''
(हवन का बीजमन्त्र उपलब्ध नही है । अतः यहाँ नवार्णमन्त्र से हवन किया जा सकता है ।
ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥
ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै
कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥
Variation shloka
ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै
कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥
उवाच ६, अर्धश्लोकाः ११, श्लोकाः १२, एवमादितः ॥ ७००॥
समस्ता उवाचमन्त्राः ५७, अर्धश्लोकाः ४२, श्लोकाः ५३५, अवदानानि ६६॥
॥ इति तन्त्ररूपेणपरिणताश्रीतन्त्रदुर्गासप्तशतीदेवीमाहात्म्यं समाप्तम् ॥
॥ ॐ तत् सत् ॐ ॥
इस प्रकार श्रीतन्त्रदुर्गासप्तशती का पाठ पुरा होने पर प्रथम नवर्णमन्त्र का जप करके पश्चात् तान्त्रिक देवी सूक्त का पाठ करे । सभी कार्य नवार्ण मन्त्र के न्यास आदि तथा सप्तशती न्यास आदि पाठ आरम्भ के पूर्व की तरह होंगे ।
इति श्री बीजात्मक तन्त्र दुर्गा सप्तशती सम्पूर्णा ॥
॥ अथ नवार्णमन्त्रजपविधिः ॥
॥ विनियोगः ॥
श्रीगणपतिर्जयति ।
ॐ अस्य नवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छदांसि,
श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः,
ऐं बीजम्,
ह्रीं शक्तिः,
क्लीं कीलकम्,
श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः ।
॥ ऋष्यादिन्यासः ॥
ब्रह्मविष्णुरुद्रॠषिभ्यो नमः, शिरसि ।
गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः, मुखे ।
महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः, हृदि ।
ऐं बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः ।
क्लीं कीलकाय नमः, नाभौ ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे, सर्वाङ्गे, इति मूलेनकरौ संशोध्य....
॥ करन्यासः ॥
ॐ ऐं अङ्गुष्ठाभ्यां नमः । (दोनों हाथों के तर्जनी अँगुलियों से दोनों अँगुठों का स्पर्श)
ॐ ह्रीं तर्जनीभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों तर्जनी अँगुलियों का स्पर्श)
ॐ क्लीं मध्यमाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों माध्यमा अँगुलियों का स्पर्श)
ॐ चामुण्डायै अनामिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों अनामिका अँगुलियों का स्पर्श)
ॐ विच्चे कनिष्ठिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों कनिष्ठका अँगुलियों का स्पर्श)
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतल करपृष्ठाभ्यां नमः । (हथेलिंयों और उनके पृष्ठ भागों का परस्पर स्पर्श)
॥ हृदयादिन्यासः ॥
इसमें दाहिने हाथ की पाँचों अँगुलियों से हृदय आदि अङ्गों का स्पर्श किया जाता है ।
ॐ ऐं हृदयाय नमः । (दाहिने हाथ की पाँचों अँगुलियों से हृदय का स्पर्श)
ॐ ह्रीं शिरसे स्वाहा । (सिर का स्पर्श)
ॐ क्लीं शिखायै वषट् । (शिखा का स्पर्श)
ॐ चामुण्डायै कवचाय हुम् । (दाहिने हाथ की अँगुलियों से बायें कन्धे का और बाँयें हाथ की अङ्गुलियों से दाहिने कन्धे का साथ ही स्पर्श)
ॐ विच्चे नेत्रत्रयाय वौषट् । (दाहिने हाथ की अँगुलियों के अग्र भाग से दोनों नेत्रों और ललाट के मध्य भाग का स्पर्श)
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।
॥ अक्षरन्यासः ॥
निम्नाङ्कित वाक्यों को पढ़कर क्रमशः शिखा आदि का दाहिने हाथ की अङ्गुलियों से स्पर्श करे ।
ॐ ऐं नमः शिखायाम् ।
ॐ ह्रीं नमः दक्षिणनेत्रे ।
ॐ क्लीं नमः वामनेत्रे ।
ॐ चां नमः दक्षिणकर्णे ।
ॐ मुं नमः वामकर्णे ।
ॐ डां नमः दक्षिणनासापुटे ।
ॐ यैं नमः वामनासापुटे ।
ॐ विं नमः मुखे ।
ॐ च्चें नमः गुह्ये ।
॥ दिङ्न्यासः ॥
ॐ ऐं प्राच्यै नमः ।
ॐ ऐं आग्नेय्यै नमः ।
ॐ ह्रीं दक्षिणायै नमः ।
ॐ ह्रीं नैरॄत्यै नमः ।
ॐ क्लीं प्रतीच्यै नमः ।
ॐ क्लीं वायव्यै नमः ।
ॐ चामुण्डायै उदीच्यै नमः ।
ॐ चामुण्डायै ऐशान्यै नमः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।
॥ ध्यानं ॥
महाकाली -
खड्गञ्चक्रगदेषु चापपरिघाञ्छूलम्भुशुण्डीं शिरः
शङ्खंसन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौकमलजो हन्तुम्मधुङ्कैटभम् ॥ १॥
महालक्ष्मी -
अक्षस्रक्परशुं गदेषुकुलिशं पद्मन्धनुष्कुण्डिकां (पद्मन्धनुःकुण्डिकां)
दण्डंशक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २॥
महासरस्वती -
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३॥
सङ्केत - इस प्रकार न्यास और ध्यान करके मानसिक उपचार से देवी की पूजा करे । पश्चात् १०८ या १००८ बार नवार्ण मन्त्र का जप करना चाहिये । जप करने के पहले ही ``ऐं ह्रीं अक्षमालिकायै नमः'' इस मन्त्र से माला की पूजा करके निम्नलिखित मन्त्रों से माला की प्रार्थना करें-
ॐ मां माले महामाये सर्वशक्ति स्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणेकरे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ॥
इस प्रकार प्रार्थना करके जप आरम्भ करे । जप पूरा करके जप को भगवती को समर्पित करते हुये कहे ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान् महेश्वरि ॥
पश्चात् नीचे लिखे अनुसार सप्तशती का न्यास करे ।
॥ इतिनवार्णजपविधिः समाप्तः ॥
अथतन्त्रदुर्गासप्तशतीन्यासः
॥ करन्यासः ॥
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ चं तर्जनीभ्यां नमः ।
ॐ डिं मध्यमाभ्यां नमः ।
ॐ कां अनामिकाभ्यां नमः ।
ॐ यैं कनिष्ठकाभ्यां नमः ।
ॐ ह्रीं चण्डिकायै करतलकरपृष्ठाभ्यां नमः ।
॥ हृदयादिन्यासः ॥
ॐ ऐं स्लूं नमः खड्गिनीशूलिनीघोरा चक्रिणी गदिनीतथा ।
ॐ ऐं नों नमः शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ हृदयाय नमः ।
ॐ ऐं फ्रैं नमः ॐ शूलेनपाहि नो देवि पाहिखड्गेनचाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ शिरसे स्वाहा ।
ॐ ऐं क्रीं नमः ॐ प्राच्यांरक्ष प्रतीच्याञ्च चण्डिकेरक्ष दक्षिणें ।
भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ शिखायै वषट् ।
ॐ ऐं म्लूं नमः ॐ सौम्यानियानिरूपाणि त्रैलोक्येविचरन्तिते ।
यानि चात्यर्थघोराणि तैरक्षास्माँस्तथा भुवम् ॥ कवचायहुम् ।
ॐ ऐं घ्रें नमः ॐ खड्गशूलगदादीनि यानिचास्त्राणितेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्षसर्वतः ॥ नेत्रत्रयायवौषट् ।
ॐ ऐं श्रूं नमः ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ अस्त्राय फट् ।
॥ ध्यानं ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् ॥
हस्तैश्चक्रगदासिखेटविशिखां श्चापं गुणं तर्जनीं
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
अर्थ - जिनके अङ्गों की शोभा बिजली के समान हैं, जो सिंह की सवरी पर बैठीं हुईं भयङ्कर प्रतीत होती है, हाथों में तलवार व ढाल लिये ऐसी अनेक कन्यायें जिनकी सेवा में खड़ी हैं, जो अपने हाथों में चक्र-गदा-तलवार-ढाल-बाण-धनुष-पाश और तर्जनीमुद्रा धारण किये हुये हैं, जिनका स्वरूप अग्निमय हैं, तथा जिनके माथे पर चन्द्रमा का मुकुट शोभा पा रहा है, ऐसी तीन नेत्रवाली श्री दुर्गा देवी का ध्यान करता (या करती) हूँ ।
इस प्रकार श्री दुर्गा देवी का ध्यान करके आगे लिखा तन्त्र रूप देवी सूक्त का पाठ करें ।
॥ तन्त्ररूपदेवीसूक्तम् ॥
देवा ऊचुः ॥ ५.८॥ ॐ ऐं ह्सों (ह्सौं) नमः ॥ १॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥ ॐ ऐं ह्रीं नमः ॥ २॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥ ॐ ऐं श्रीं नमः ॥ ३॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥ ॐ ऐं हूं नमः ॥ ४॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥ ॐ ऐं क्लीं नमः ॥ ५॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥ ॐ ऐं रौं नमः ॥ ६॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥ ॐ ऐं स्त्रीं नमः ॥ ७॥ ॐ ऐं म्लीं नमः ॥ ८॥ ॐ ऐं प्लूं नमः ॥ ९॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥ ॐ ऐं स्हौं (स्हां) नमः ॥ १०॥ ॐ ऐं स्त्रीं नमः ॥ ११॥ ॐ ऐं ग्लूं नमः ॥ १२॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥ ॐ ऐं व्रीं नमः ॥ १३॥ ॐ ऐं सौं (सौं) नमः ॥ १४॥ ॐ ऐं लूं नमः ॥ १५॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥ ॐ ऐं ल्लूं नमः ॥ १६॥ ॐ ऐं द्रां नमः ॥ १७॥ ॐ ऐं क्सां नमः ॥ १८॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥ ॐ ऐं क्ष्म्रीं नमः ॥ १९॥ ॐ ऐं ग्लौं नमः ॥ २०॥ ॐ ऐं स्कें (स्कूँ, स्कूं, स्कं) नमः ॥ २१॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥ ॐ ऐं त्रूं नमः ॥ २२॥ ॐ ऐं स्क्लूं नमः ॥ २३॥ ॐ ऐं क्रौं नमः ॥ २४॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥ ॐ ऐं श्रीं (छ्रीं) नमः ॥ २५॥ ॐ ऐं म्लूं नमः ॥ २६॥ ॐ ऐं क्लूं नमः ॥ २७॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥ ॐ ऐं शां नमः ॥ २८॥ ॐ ऐं ल्हीं नमः ॥ २९॥ ॐ ऐं स्त्रूं नमः ॥ ३०॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥ ॐ ऐं ल्लीं नमः ॥ ३१॥ ॐ ऐं लीं नमः ॥ ३२॥ ॐ ऐं सं नमः ॥ ३३॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥ ॐ ऐं लूं नमः ॥ ३४॥ ॐ ऐं ह्सूं नमः ॥ ३५॥ ॐ ऐं श्रूं नमः ॥ ३६॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥ ॐ ऐं जूं नमः ॥ ३७॥ ॐ ऐं ह्स्ल्रीं नमः ॥ ३८॥ ॐ ऐं स्क्रीं (स्कीं) नमः ॥ ३९॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥ ॐ ऐं क्लां नमः ॥ ४०॥ ॐ ऐं श्रूं नमः ॥ ४१॥ ॐ ऐं हं नमः ॥ ४२॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥ ॐ ऐं ह्लीं नमः ॥ ४३॥ ॐ ऐं क्स्रूं नमः ॥ ४४॥ ॐ ऐं द्रौं नमः ॥ ४५॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥ ॐ ऐं क्लूं नमः ॥ ४६॥ ॐ ऐं गां नमः ॥ ४७॥ ॐ ऐ सं नमः ॥ ४८॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥ ॐ ऐं ल्स्रां नमः ॥ ४९॥ ॐ ऐं फ्रीं नमः ॥ ५०॥ ॐ ऐं स्लां नमः ॥ ५१॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥ ॐ ऐं ल्लूं नमः ॥ ५२॥ ॐ ऐं फ्रें नमः ॥ ५३॥ ॐ ऐं ओं नमः ॥ ५४॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥ ॐ ऐं सम्लीं नमः ॥ ५५॥ ॐ ऐं ह्रां नमः ॥ ५६॥ ॐ ऐं ओं नमः ॥ ५७॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥ ॐ ऐं ह्लूं नमः ॥ ५८॥ ॐ ऐं हूं (हूँ) नमः ॥ ५९॥ ॐ ऐं नं नमः ॥ ६०॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥ ॐ ऐं स्रां नमः ॥ ६१॥ ॐ ऐं वं नमः ॥ ६२॥ ॐ ऐं मं नमः ॥ ६३॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥ ॐ ऐं म्क्लीं नमः ॥ ६४॥ ॐ ऐं शां नमः ॥ ६५॥ ॐ ऐं लं नमः ॥ ६६॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥ ॐ ऐं भौं (भैं) नमः ॥ ६७॥ ॐ ऐं ल्लूं नमः ॥ ६८॥ ॐ ऐं हौं नमः ॥ ६९॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥ ॐ ऐं ईं नमः ॥ ७०॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥ ॐ ऐं चें नमः ॥ ७१॥ ॐ ऐं ल्क्रीं नमः ॥ ७२॥ ॐ ऐं ह्ल्रीं नमः ॥ ७३॥
स्तुता सुरैः पूर्वमभीष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥ ॐ ऐं क्ष्म्ल्रीं नमः ॥ ७४॥
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥ ॐ ऐं पूं (यूं) नमः ॥ ७५॥
ऋषिरुवाच ॥ ५.८३॥ ॐ ऐं श्रौं नमः ॥ ७६॥
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥ ॐ ऐं ह्रौं नमः ॥ ७७॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥ ॐ ऐं भ्रूं नमः ॥ ७८॥
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥ ॐ ऐं क्स्त्रीं नमः ॥ ७९॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥ ॐ ऐं आं नमः ॥ ८०॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥ ॐ ऐं क्रूं नमः ॥ ८१॥
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥ ॐ ऐं त्रूं नमः ॥ ८२॥
॥ इति तन्त्ररूपन्देवीसूक्तम् ॥
तन्त्र रुप देवी सूक्त का पाठ करने के पश्चात् भगवती की प्रार्थना करता हुआ (करती हुई) क्षमा याचना करके पाठ कार्य समाप्त करें ।
हरिविरञ्चिमहेश्वरपूजिताम्-
भगवतीं जनदुर्गतिहारिणीम् ।
सकलतन्त्रमयीं जगदीश्वरीं
सुखमयीं जगतां जननीं भजे ॥ १॥
सर्वार्थसाधनकरीं महतीमुदारां-
स्वर्गापवर्गगतिदां करुणावताराम् ।
संसारतारणपरां हृतपापभारां-
दुर्गान्नमामि शिरसाऽहमनन्तसाराम् ॥ २॥
॥ क्षमा-प्रार्थना ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मयादेवि परिपूर्णतदस्तुमे ॥ ३॥
अपराधशतं कृत्वा जगदम्बेतिचोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४॥
सापराधोऽस्मिशरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीदपरमेश्वरि ॥ ६॥
कामेश्वरिजगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ७॥
गुह्यातिगुह्यगोत्रीत्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतुमेदेवि त्वत्प्रसादान्महेश्वरि ॥ ८॥
जगदम्बा का प्रधान - नवार्ण मन्त्र
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
अर्थ - हे चित्स्वरूपिणी महासरस्वती! हे सत् स्वरूपिणी महालक्ष्मी ! हे आनन्दरूपिणी महाकाली । ब्रह्म विद्या पाने के लिए हम सब तुम्हारा ध्यान करते हैं ।
सरल अर्थ - हे महाकाली-महालक्ष्मी-महासरस्वती-स्वरूपिणी (दुर्गा देवी) मनोऽभीष्ट पूर्ण कीजिये ।
It is recommended to consult an expert to perform the sacred ceremony. The above work is a combination of the 700 śloka of Durgā Saptaśatī and its 700 tantra bīja.
Proofread and revised by Preeti Bhandare
% Text title : Bijatmak Tantra Durga Saptashati
% File name : tantradurgA700.itx
% itxtitle : tantradurgAsaptashatI bIjAtmakam
% engtitle : tantradurgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI, tantra
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Proofread by : Preeti Bhandare
% Description-comments : 700 shlokas for Devi Durga and mantra of each verse. See standard Durga saptashati mUlam
% Indexextra : (Scans 1, 2, 3, 4, 5, saptashati mUlam,
% Latest update : September 30, 2025
% Site access : https://sanskritdocuments.org
bījātmaka tantra durgā saptaśatī
|| oṃ śrīgaṇeśāya namaḥ ||
yadatraskhalitaṅkiñcit pramādena bhrameṇa vā |
tatsarvaṃ śodhayantvāryāṃ kasyanaskhalitammanaḥ || 1||
gacchataskhalanaṅkvāpi bhavatyeva pramādataḥ |
hasanti durjanāstatra samādadhati sajjanāḥ || 2||
vinīta- śivadatta śāstrī
prasaṅgavaśaśrīdurgāsaptaśatī ke pāṭha meṃ āvaśyaka saṅketa-
kavaca, argalā, kīlaka ke pūrva śāpodvārautkīlanaṃ tathā mṛta sañjīvanī vidyā kā japa kā vidhāna hai, kintu vidvatparamparā kā siddhānta yaha hai ki yadi śrī durgāsaptaśatī kā ṣaḍaṅga ( kavaca, argalā, kīlaka tathā trayodaśādhyāya ke bāda rahasyatraya) sahita pāṭha kara liyā jāya to śrīdurgāsaptaśatī meṃ śāpoddhārādi kī koī bhī āvaśyakatā nahīṃ hai | vastutaḥ yahī mata hamārī bhī guruparamparā kā hai | athavā jaisā vidvadvanda nirṇaya kareṃ vaisā svecchānusāra kareṃ | yaha nirṇaya durgāsaptaśatī ke pāṭha hī kā hai tantra durgāsaptaśatī ke pāṭha meṃ paḍaṅga pāṭha bhī nahīṃ karanā cāhiye |
śāpoddhāra mantraḥ-
śāpoddhāra ke lie nīce varṇita mantra kā sāta bāra ādi va anta meṃ japa karanā cāhiye |
``oṃ hrīṃ klīṃ śrīṃ krāṃ krīṃ caṇḍikādevyai śāpanāśānugrahaṃ kuru kuru svāhā''
utkīlana mantraḥ-
śāpoddhāra ke bāda utkīlana-mantra kā 21 bāra ādi va anta meṃ japa karanā cāhiye |
``oṃ śrīṃ klīṃ hrīṃ saptaśaticaṇḍike utkīlanaṃ kuru kuru svāhā''
mṛtasañjīvanī mantraḥ-
utkīlana ke uparānta mṛtasañjīvanī mantra kā sāta bāra ādi va anta meṃ pāṭha karanā cāhiye |
``oṃ hrīṃ hrīṃ vaṃ vaṃ aiṃ aiṃ mṛtasañjīvani vidye mṛtamutthāpayotthāpaya krīṃ hrīṃ hrīṃ vaṃ svāhā''
śrīdurgāsaptaśatī meṃ kavaca
śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca || 4.24|| oṃ aiṃ phreṃ namaḥ || 24||
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāntatheśvari || 4.25|| oṃ aiṃ krīṃ namaḥ || 25||
saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthataghorāṇi tai rakṣāsmāṃstathā bhuvam || 4.26|| oṃ aiṃ mlūṃ namaḥ || 26||
khaḍgaśūlagadādīni yāni cāstrāni te'mbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ || 4.27|| oṃ aiṃ ghreṃ namaḥ || 27||
kavaca ke tantra rūpa meṃ kramaśaḥ mantra diye gaye hai |
|| ādiśaktayenamaḥ ||
|| śrītantradurgāsaptaśatī ||
viśveśvarīṃviśvamayīṃvirūpā-
majñānahantrīṃvimalasvarūpām |
śaṃśvatprasannāṅkaruṇāvatārān-
tantrasvarūpāñcanamāmidurgām || 1||
cidānandarūpe harīśādivandye-
sadāmandahāse jagadbhītināśe |
cidānandadetvañca tantrasvarūpe-
janaṃ pāhidīnantavārcāvihīnam || 2||
najānātiviṣṇuḥśivonaivavetti-
svayambhūḥ svayannaivajānātimātaḥ |
caritrandayādhāriketevicitraṅ-
kathanmandabuddhirjanaḥsyātsamartha || 3||
tathāpyambalokopakārāyaloke-
caritraṃvadāmyatrakiñcitprasiddham |
tabapreraṇaivābhavadhatubhūtā-
madīyehṛdabjemahādevidurge || 4||
|| pāṭhavidhi ||
sādhaka snāna karake pavitra ho, āsana śuddhi kī kriyā sampanna karake pūrvābhamukha ho śuddha āsāna para baiṭhe sātha meṃ śuddha jala (gaṅgājala ādi ) pūjana sāmagrī aura śrī tantradurgā saptaśatī kī pustaka rakhe | mastaka meṃ apane ruci ke anusāra bhasma, candana, rolī athavā sendura lagā leṃ | śikhā bāndha leṃ | tatva śuddhi ke lie cāra bāra ācamana kareṃ | tatpaścāt prāṇāyāma karake gaṇeśa ādi devatāoṃ evaṃ gurujanoṃ ko praṇāma kareṃ | kuśa kī pavitrī dhāraṇa karake hātha meṃ lāla phūla, cāvala aura jala lekara nimnāṅkita rūpa se saṅkalpa kare |
oṃ viṣṇurviṣṇurviṣṇuḥ | oṃ namaḥ paramātmane, śrī purāṇa puruṣottamasya viṣṇorājñayā pravartamānasyādya śrī brāhmaṇo'hni dvitīyaparārddheśrīśvetavārāhakalpevaivasvatamanvantare'ṣṭāviṃśatitamekaliyuge kaliprathamacaraṇejambūdvīpe bharatakhaṇḍe bhāratavarṣe āryāvartāntargata brahmāvartaikadeśe puṇyakṣetre bauddhāvatāre vartamāne yathānāma saṃvatsare amukāyane amukamāṅgalyaprade māsānāmuttame amukamāse amukapakṣe amukatithau amukavāsarānvitāyām amukanakṣatre amukarāśisthite sūryai amukarāśisthiteṣu candrabhaumabudhaguruśukraśaniṣu satsu śubhe yoge śubhakaraṇe evaṃ guṇaviśeṣaṇaviśiṣṭāyāṃ śubhapuṇyatithau sakalaśāstra śrutismṛtipurāṇokta phalaprāptikāmaḥ amukagotrotpannaḥ amuka śarmāhaṃ mamātmanaḥ saputravāndhavasya śrīnavadurgānugrahato grahakṛta rājakṛtādi sarvavidhapīḍānivṛttipūrvakannairujyadīrghāyuḥ puṣṭi dhanadhānyasamṛddhyarthaṃ śrīnavadurgāmprasādena sarvāpannivṛtti sarvābhīṣṭa phalāvāpti dharmārtha kāmamokṣacaturvidhapuruṣārthasiddhi dvārā śrīmahākālī mahālakṣmī mahāsarasvatī devatāprītyarthaṃ tantroktarātrisūkta pāṭhanyāsa vidhi sahita navārṇajapa tāntrikasaptaśatī nyāsadhyāna pūrvakañca ``oṃ aiṃ śrīṃ namaḥ oṃ aiṃ hrīṃ namaḥ | ityādyārabhya oṃ aiṃ oṃ namaḥ ityantantantrarūpeṇa pariṇataṃ śrītantradurgāsaptaśatī pāṭhaṃ tadante ca nyāsa vidhisahita navārṇajapatāntrika saptaśatī nyāsadhyāna pūrvakaṃ tāntrika devīsūkta pāṭhañca kariṣye |''
(yadi dūsare se pāṭhādi karavānā ho to kārayiṣye, kahanā cāhiye)
isa prakāra saṅkalpa karake bhagavatī śrī durgādevī kā dhyāna karate hue pañcopacāra vidhi se pustaka kī pūjā kareṃ | yadi jñāta ho to yonimudrā pradarśita karake bhagavatī ko praṇāma kareṃ | paścāt navārṇamantra se pīṭha meṃ ādhāraśakti kī sthāpanā karake usake ūpara pustaka ko virājamāna kareṃ | paścāt yadi jñāta ho antarmātṛkā bahirmātṛkā ādinyāsa kare anyathā nahīṃ | paścāt bhagavatī kā dhyāna va pūjana āge likhita śrī durgā pūjāyantra meṃ kareṃ |
|| athaṣoḍaśopacāra durgāpūjanavidhiḥ ||
saṅkalpaḥ -
oṃ adyetyādimama 'amukagotrotpannayajamānasya' iha janmanisarvāmpacchāntipūrvakandīrghāyurvipula putrapautrādyavicchinnasantativṛddhisthiralakṣmī kīrtilābhaśatruparājaya pramukha-pramukhacaturvidhapuruṣārthasiddhaye śrīdurgāpūjana mahaṅkariṣye (kārayiṣye)|
dhyānam -
oṃ vidyuddāmasamaprabhāmmṛgapatiskandhasthitāmbhīṣaṇāṃ
kanyābhiḥkaravālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇa tarjanīṃ
vibhrāṇāmanalātmikāṃśaśidharāndurgā trinetrāmbhaje ||
arthaḥ - maiṃ bhagavatī durgādevī kā dhyāna karatā hū~ - jo tīna netra vālī haiṃ jinake aṃṅgoṃ kī prabhā bijalī ke samāna haiṃ | siṃha ke kandhe para bhayaṅkara pratīta hotī haiṃ, aneka kanyāyeṃ jinakī sevā meṃ lagī haiṃ | jinake hāthoṃ meṃ cakra, gadā, talavāra, ḍhāla, bāṇa, dhanuṣa, pāśa aura tarjanīmudgara śobhāyamāna haiṃ | jo agnimaya haiṃ tathā jo apane māthe para candramā kā mukuṭa dhāraṇa karatī haiṃ |
1. āvāhanam -
āgaccha varade devi daityadarpaniṣūdini |
pūjāṃ gṛhāṇa sumukhi namaste śaṅkarapriye ||
2. āsanam -
anekaratnasaṃyuktaṃ nānāmaṇigaṇānvitam |
kārtasvaramayaṃ divyamāsanaṃ pratigṛhyatām ||
3. pādyam -
gaṅgādisarvatīrthebhyo mayā prārthanayāhṛtam |
toyametat sukhasparśaṃ pādyārthaṃ pratigṛhyatām ||
4. arghyam -
gandhapuṣpākṣatai ryuktamardhyaṃ sampāditaṃ mayā |
gṛhāṇa tvaṃ mahādevi prasannā bhava sarvadā ||
5. ācamanam -
ācamyatāṃ tvayā devi bhaktiṃ me hyacalāṃ kuru |
īpsitaṃ me varaṃ dehi paratra ca parāṃ gatim ||
6. snānam -
jāhnavītoyamānītaṃ śubhaṃ karpūrasaṃyutam |
snāpayāmi suraśreṣṭhe tvāṃ putrādiphalapradām ||
pañcāmṛtasnānam -
payodadhighṛtaṃ kṣaudraṃ sitayā ca samanvitam |
pañcāmṛtamanenādya kuru snānaṃ maheśvari ||
śuddhodakasnānam -
paramānandabodhābdhinimagnānijamūrtaye |
sāṅgopāṅgamidaṃ snānaṃ kalpayāmi sureśvari ||
7. vastram -
vastraṃ ca somadaivatyaṃ lajjāyāstu nivāraṇam |
mayā niveditaṃ bhaktyā gṛhāṇa parameśvari ||
upavastram -
yāmāśrityamahāmāyā jagatsammohinīsadā |
tasyaivaipara meśāpaikalpayāmyuttarīyakam ||
madhupakem -
dadhimadhvājyasaṃyukta pātra yugmasamanvitam |
madhuparkagṛhāṇatvaṃ varadā bhavaśobhane ||
gandham -
paramānanda saubhāgyaparipūrṇadigantare |
gṛhāṇa paramaṃ gandhaṃ kṛpayā parameśvari ||
kuṅkumam -
kuṅkumaṅkāntidaṃ divyaṃ kāminīkāmasambhavam |
kuṅkumenārcite devi prasīdaparameśvari ||
8. ābhūṣaṇam -
hārakaṅkaṇakeyūramekhalākuṇḍalādikam |
ratnāḍhyaṃ kuṇḍalopetaṃ bhūṣaṇaṃ pratigṛhyatām ||
sindūram -
sindūramaruṇābhāsaṃ japākusumasannibham |
pūjitāsi mayā devi prasīda parameśvari ||
kajjalam -
cakṣurbhyāṃ kajjalaṃ ramyaṃ subhage śāntikārake |
karpūrajyotirutpannaṃ gṛhāṇa parameśvari ||
saubhāgyadravyam -
saubhāgyasūtraṃ varade suvarṇamaṇisaṃyute |
kaṇṭhe badhnāmi deveśi saubhāgyaṃ dehi me sadā ||
sugandhitailam -
candanāgarukarpūrakuṅkumaṃ rocanaṃ tathā |
kastūryādisugandhāṃśca sarvāṅgeṣu vilepanam ||
parimaladravyam -
haridrārañjite devi sukhasaubhāgyadāyini |
tasmāt tvāṃ pūjayāmyadyasukhaṃ śānti prayaccha me ||
akṣatān -
rañjitāḥ kuṅkumaughena akṣatāścātiśobhanāḥ |
māmeṣāṃ devi dānena prasannā bhava śobhane ||
puṣpāṇi -
mandārapārijātādi pāṭalīketakāni ca |
jātīcampakapuṣpāṇi gṛhāṇemāni śobhane ||
puṣpamālām -
surabhipuṣpanicayairgrathitāmpuṣpamālikām |
dadāmitavaśobhārthaṅgṛhāṇaparameśvari ||
bilvapatram -
amṛtodbhavaśrīvṛkṣo mahādevi priyaḥ sadā |
bilvapatraṃ prayacchāmi pavitraṃ te sureśvari ||
9. dhūpam -
daśāṅgaguggulandhūpañcandanāgarusaṃyutam |
samarpitaṃ mayā bhaktyā mahādevi pragṛhyatām ||
10. dīpam -
ghṛtavartisamāyuktaṃ mahātejo mahojjvalam |
dīpaṃ dadāmi deveśi suprītā bhava sarvadā ||
11. naivedyam -
annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam |
naivedyaṃ gṛhyatāṃ devi bhaktiṃ me hyacalāṃ kuru || (hracalāṃ)
ṛtuphalam -
drākṣākharjūrakadalīpanasāmrakapitthakam |
nārikelekṣujambvādiphalānipratiguhyatām ||
ācamanam -
kāmārivallabhedevikurvācamanamambike |
nirantaramahaṃ vandecaraṇautatra caṇḍike ||
akhaṇḍa-ṛtuphalam -
nārikelañcanāraṅgaṅkaliṅgamañjirantathā |
urvārukañcadeviśiphalānyaitānigṛhnatām ||
tāmbūlapūgīphalāni -
elālavaṅgakastūrīkarpūraiḥ puṣpavāsitām |
vīṭikāṃ mukhavāsārthamarpayāmi sureśvari ||
12. dakṣiṇā -
pūjāphalasamaddhyarthaṃ tavāgresvarṇamīśvari |
sthātintenameprītāpūrṇānkurumanorathān ||
prārthanā (namaskāram) -
sarvasvarūpesarveśe sarvaśaktisvarūpiṇi |
pūjāṅgṛhāṇakaumārijaganmātanamo'stute ||
13. āratikam -
nīrājanaṃsumāṅgalyaṅkarpūreṇasamanvitam |
candrārkavahnisadṛśaṃ mahādevinamo'stute ||
puṣpāñjali: -
durgesmṛtāharasibhītimaśeṣajanto:
svasthai:smṛtāmatimatīvaśubhāndadāsi |
dāridyadu:khabhayahāriṇikātvadanyā
sarvopakārakaraṇāya sadārdracittā ||
14. pradakṣiṇā -
namastedevideveśi namasteīpsitaprade |
namastejagatāndhātri namastebhaktavatsale ||
sāṣṭāṅgapraṇāmaḥ -
namaḥsarvahitārthāyai jagadādhārahetave |
sāṣṭāṅgo'yampraṇāma stuprayatnenamayākṛtaḥ ||
15. prārthanā -
putrāndehidhanaṃ dehi saubhāgyaṃ dehimaṅgale |
anyāṃścasarvakāmāṃśca dehidevi namo'stute ||
16. visarjanam -
imāmpūjāmmayādeviyathāśaktyā maheśvari |
rakṣārthantvaṃsamādāyavrajasthānaṃyathottamam ||
For the illustration of the yantra interested readers may refer the link of the book given at the bottom end of this page. The textual part is given below.
|| yantravivaraṇam ||
trikoṇe - 3 |
trikoṇādbāhye - 10 |
ṣaṭkoṇeṣu - 6 |
aṣṭapatreṣu - 24 |
caturviṃśatidaleṣu - 24 |
tadyathā -
1 - viṣṇumāyā |
2 - cetanā |
3 - vṛddhiḥ |
4 - nidrā |
5 - kṣudhā |
6 - chāyā |
7 - śaktiḥ |
8 - tṛṣṇā |
9 - kṣāntiḥ |
10 - jātiḥ |
11 - lajjā |
12 - śāntiḥ |
13 - śraddhā |
14 - kāntiḥ |
15 - lakṣmī |
16 - dhṛtiḥ |
17 - vṛttiḥ |
18 - smṛtiḥ |
19 - dayā |
20 - tuṣṭiḥ |
21 - puṣṭiḥ |
22 - mātṛ |
23 - bhrāntiḥ |
24 - citiḥ |
caturviṃśatidalebhyobāhye 10 - tatodikpālāyudhavāhanādi 10 | tatobhūpurabāhye 4 |
``yantrasthadevatā paricayaḥ''
1 - trikoṇebindumadhye hrīṃ
2 - trikoṇamadhye
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ maṃ maṅgalāyai namaḥ |
10 - trikoṇādbāhye
pū0 koṇe - 1 - oṃ brahmaṇe namaḥ | 2 - oṃ sarasvatyai namaḥ |
nai0koṇe - 3 - oṃ viṣṇave namaḥ | 4 - oṃ śriyai namaḥ |
vā0koṇe - 5- oṃ śivāya namaḥ | 6 - oṃ umāyai namaḥ |
dakṣiṇe - 7 - oṃ maṃ mahiṣāya namaḥ | 8 - kāṃ kālāya namaḥ |
uttare - 9 - oṃ siṃ siṃhāya namaḥ | 10 - oṃ mṛṃ mṛtyave namaḥ |
6- ṣaṭkoṇamadhye pūrvādikrameṇa-
1 - oṃ naṃ nandajāyai namaḥ | 2 - oṃ raṃ raktadantikāyai namaḥ |
3 - oṃ śāṃ śākambharyyai namaḥ | 4 - oṃ duṃ durgāyai namaḥ |
5 - oṃ bhīṃ bhīmāyai namaḥ | 6 - oṃ bhrāṃ bhrāmaryai namaḥ |
4 - ṣaṭkoṇabāhye (vāhanādīni)
kecinmate'traivamahiṣādīnāṃsthāpanādi
dakṣiṇe - oṃ maṃ mahiṣāya namaḥ | oṃ kāṃ kālāya namaḥ | uttare - oṃ siṃ siṃhāya namaḥ | oṃ mṛṃ mṛtyave namaḥ |
24 - aṣṭapatreṣu pūrvādikrameṇa -
pūrve - oṃ jaṃ jayāyai namaḥ | oṃ brāṃ brāhmayai namaḥ | oṃ aṃ asitāṅgabhairavāya namaḥ |
dakṣiṇe - oṃ aṃ ajitāyai namaḥ | oṃ māṃ māheśvaryyai namaḥ | oṃ caṃ caṇḍabhairavāya namaḥ |
paścime - oṃ niṃ nityāyai namaḥ | oṃ kauṃ kaumāryyai namaḥ | oṃ uṃ unmattabhairavāya namaḥ |
uttare - oṃ viṃ vijayāyai namaḥ | oṃ vaiṃ vaiṣṇavyai namaḥ | oṃ ruṃ rurubhairavāya namaḥ |
a0 koṇe - oṃ droṃ drodhryai (drogdhryai) namaḥ | oṃ vāṃ vārāhyai namaḥ | oṃ bhīṃ bhīṣaṇabhairavāya namaḥ |
nai0 koṇe - oṃ aṃ aghorāyai namaḥ | oṃ nāṃ nārasiṃhyai namaḥ | oṃ saṃ saṃhārabhairavāya namaḥ |
vā0 koṇe - oṃ vilāsinyai namaḥ | oṃ aṃ aparājitāyai (aiṃ aindryai) namaḥ | oṃ kaṃ kapālabhairavāya namaḥ |
ī0 koṇe - oṃ aṃ aparājitāyai namaḥ | oṃ cāṃ cāmuṇḍāyai namaḥ | oṃ kroṃ krodhabhairavāya namaḥ |
24 - tataścaturviṃśatidaleṣu pūrvādikrameṇa -
oṃ viṃ viṣṇumāyāyai namaḥ || 1||
oṃ ceṃ cetanāyai namaḥ || 2||
oṃ vuṃ vuddhyai (buṃ buddhyai) namaḥ || 3||
oṃ niṃ nidrāyai namaḥ || 4||
oṃ kṣuṃ kṣudhāyai namaḥ || 5||
oṃ chāṃ chāyāyai namaḥ || 6||
oṃ śaṃ śaktayai namaḥ || 7||
oṃ tṛṃ tṛṣṇāyai namaḥ || 8||
oṃ kṣāṃ kṣāntyai namaḥ || 9||
oṃ jāṃ jātyai namaḥ || 10||
oṃ laṃ lajjāyai namaḥ || 11||
oṃ śāṃ śāntyai namaḥ || 12||
oṃ śraṃ śraddhāyai namaḥ || 13||
oṃ kāṃ kāntyai namaḥ || 14||
oṃ laṃ lakṣmyai namaḥ || 15||
oṃ dhṛṃ dhṛtyai namaḥ || 16||
oṃ smṛṃ smṛtyai namaḥ || 17|| (vṛṃ vṛtyai)
oṃ vṛṃ vṛtyai namaḥ || 18|| (smṛṃ smṛtyai)
oṃ tuṃ tuṣṭyai namaḥ || 19|| (daṃ dayāyai)
oṃ puṃ puṣṭayai namaḥ || 20|| (tuṃ tuṣṭyai)
oṃ daṃ dayāyai namaḥ || 21|| (puṃ puṣṭayai)
oṃ māṃ mātre namaḥ || 22||
oṃ bhrāṃ bhrāntyai namaḥ || 23||
oṃ ciṃ cityai namaḥ || 24||
10 - tataścaturviṃśatidalebhyobāhye-
laṃ indrāya namaḥ || 1||
raṃ agnaye namaḥ || 2||
maṃ yamāya namaḥ || 3||
kṣaṃ nirṛtaye namaḥ || 4||
vaṃ varuṇāya namaḥ || 5||
yaṃ vāyave namaḥ || 6||
saṃ somāya namaḥ || 7||
īṃ (haṃ) īśānāya namaḥ || 8||
īśānapūrvayormadhye - aṃ brāhmaṇe (brahmaṇe) namaḥ || 9||
paścimanirṛtayormadhye - hrīṃ anantāya namaḥ || 10||
10-tatodikpālāyudhāvāhanādi-yathā-
oṃ vaṃ vajrāya namaḥ || 1||
oṃ śaṃ śaktaye namaḥ || 2||
oṃ daṃ daṇḍāya namaḥ || 3||
oṃ khaṃ khaḍgāya namaḥ || 4||
oṃ pāṃ pāśāya namaḥ || 5||
oṃ aṃ aṅkuśāya namaḥ || 6||
oṃ gaṃ gadāyai namaḥ || 7||
oṃ śaṃ triśūlāya namaḥ || 8|| var (oṃ triṃ triśūlāya namaḥ)
oṃ paṃ padmāya namaḥ || 9||
oṃ caṃ cakrāya namaḥ || 10||
4 - tatobhūpurabāhye catuṣkoṇeṣu-
aiśānyām - gaṃ gaṇapataye namaḥ || 1||
āgneyyām - kṣaṃ kṣetrapālāya namaḥ || 2||
nairṛtyām - vaṃ vaṭukāya namaḥ || 3||
vāyavye - yoṃ yoginībhyo namaḥ || 4||
|| itipūrvoktaprakāreṇasarvāndevānābāhyapūjayet ||
|| yantrapūjana saṅketa ||
yantra meṃ likhe aṅkānusāra devatāoṃ kā āvāhanādi pūjanavidhāna vidhivat kara ke yantra para ghaṭa sthāpana ādi kāryakrama kare | paścāt śrī durgādevī kī mūrti svarṇa ādi kisī bhī dhātu kī ho usameṃ prāṇāpratiṣṭhāparyanta sabhī saṃskāra karake ṣoḍaśopacāra pūjana kare | athavā citrarakha karake pūjanādi karake śrī tantramayī arthāt bījamayī śrī tantra durgā saptaśatīkā pāṭha kare || pāṭhārambha se pūrva tantrarūpa-rātri sūkta kā pāṭha-paścāt navārṇamantrajapa nyāsadi sahita tathā tantra saptaśatī kā bhī nyāsavadhyāna āvaśyaka hai |
tantroktaṃ rātrisūktam
vibodhanārthāya harerharinetrakṛtālayām |
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm || 1.70|| oṃ aiṃ blūṃ namaḥ || 1||
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ || 1.71|| oṃ aiṃ ṭhāṃ namaḥ || 2||
brahmovāca || 1.72|| oṃ aiṃ hrīṃ namaḥ || 3||
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā || 1.73|| oṃ aiṃ srāṃ (strāṃ) namaḥ || 4||
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā |
ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ || 1.74|| oṃ aiṃ slūṃ namaḥ || 5||
tvameva sandhyā sāvitrī tvaṃ devi jananī parā |
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat || 1.75|| oṃ aiṃ kraiṃ namaḥ || 6||
tvayaitat pālyate devi tvamatsyante ca sarvadā |
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane || 1.76|| oṃ aiṃ trāṃ namaḥ || 7||
tathā saṃhṛtirūpānte jagato'sya jaganmaye |
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ || 1.77|| oṃ aiṃ phrāṃ namaḥ || 8||
mahāmohā ca bhavatī mahādevī maheśvarī |
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī || 1.78|| oṃ aiṃ jīṃ namaḥ || 9||
kālarātrirmahārātrirmoharātriśca dāruṇā |
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā || 1.9|| oṃ aiṃ lūṃ namaḥ || 10||
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca |
khaḍginī śūlinī ghorā gadinī cakriṇī tathā || 1.80|| oṃ aiṃ slūṃ namaḥ || 11||
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā |
saumyā saumyatarāśeṣasaumyebhyastvatisundarī || 1.81|| oṃ aiṃ noṃ namaḥ || 12||
parāparāṇāṃ paramā tvameva parameśvarī |
yacca kiñcitkvacidvastu sadasadvākhilātmike || 1.82|| oṃ aiṃ strīṃ namaḥ || 13||
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā |
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat || 1.83|| oṃ aiṃ prūṃ namaḥ || 14||
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ |
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca || 1.84|| oṃ aiṃ srūṃ (sūṃ) namaḥ || 15||
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet |
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā || 1.85|| oṃ aiṃ jāṃ namaḥ || 16||
mohayaitau durādharṣāvasurau madhukaiṭabhau |
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu || 1.86|| oṃ aiṃ vauṃ (bauṃ) namaḥ || 17||
bodhaśca kriyatāmasya hantumetau mahāsurau || 1.87|| oṃ aiṃ oṃ namaḥ || 18||
|| atha navārṇa japa vidhiḥ ||
isa prakāra tantra rūpa meṃ pariṇata rātrisūkti kā pāṭha karane ke paścāt nimnāṅkita rūpa se navārṇamantra ke viniyoga nyāsa aura dhyāna kare ||
navārṇa mantra kā viniyoga - nyāsādi
|| viniyogaḥ ||
śrīgaṇapatirjayati |
oṃ navārṇamantrasya brahmaviṣṇurudrāṛṣayaḥ,
gāyatryuṣṇiganuṣṭubhaśchadāṃsi,
śrīmahākālī mahālakṣmī mahāsarasvatyodevatā,
aiṃ bījam,
hrīṃ śaktiḥ,
klīṃ kīlakam,
śrīmahākālī mahālakṣmī mahāsarasvatīprītyarthe jape viniyogaḥ |
pūrvokta paḍha़kara jala girāve |
tatpaścāt mantroṃ dvārā isa bhāvanā se śarīra ke samasta aṅgoṃ meṃ mantrarūpa se devatāoṃ kā vāsa ho rahā hai, nyāsa kareṃ | aisā karane se pāṭha yā japa karane vālā vyakti mantramaya ho jātā hai tathā mantra meṃ adhiṣṭhita devatā usakī rakṣā karate haiṃ | isake atirikta nyāsa dvārā usake bāhara-bhītara kī śuddhi hotī hai aura sādhanā nirvighna pūrṇa hotī hai |
nimnalikhita nyāsa vākyoṃ se eka eka kā uccāraṇa karake dāhine hātha kī aṅguliyoṃ se kramaśaḥ śira-mukha-hṛdaya-gudā-donoṃ caraṇa aura nābhi isa aṅgoṃ kā sparśa kare |
|| ṛṣyādinyāsaḥ ||
brahmaviṣṇurudraṝṣibhyo namaḥ, śirasi |
gāyatryuṣṇiganuṣṭupchandobhyo namaḥ, mukhe |
mahākālī mahālakṣmī mahāsarasvatī devatābhyo namaḥ, hṛdi |
aiṃ bījāya namaḥ, guhye |
hrīṃ śaktaye namaḥ, pādayoḥ |
klīṃ kīlakāya namaḥ, nābhau |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce, sarvāṅge, isa mūlamantra se hāthoṃ kī śuddhi karake karanyāsa kareṃ |
|| karanyāsaḥ ||
karanyāsa meṃ hātha kī vibhinna aṅguliyoṃ hatheliyoṃ aura hātha ke pṛṣṭha bhāga meṃ mantroṃ kā nyāsa (sthāpita) kiyā jātā hai | isī prakāra aṅganyāsa meṃ hṛdayādi aṅgoṃ meṃ mantroṃ kī sthāpanā hotī hai mantroṃ ko cetana aura mūrtimān mānakara una una aṅgoṃ kā nāma lekara una mantramaya devatāoṃ kā hī sparśa aura vandana kiyā jātā hai | aisā karane se pāṭha yā japa karane vālā svayaṃ mantramaya hokara mantra devatāoṃ dvārā sarvathā surakṣita ho jātā haiṃ | usake bāhara bhītara kī śuddhi hotī hai | divyabala prāpta hotā hai aura sādhanā nirvighnatā pūrvaka pūrṇa tathā parama lābhadāyaka hotī hai |
oṃ aiṃ aṅguṣṭhābhyāṃ namaḥ | (donoṃ hāthoṃ ke tarjanī a~guliyoṃ se donoṃ a~guṭhoṃ kā sparśa)
oṃ hrīṃ tarjanībhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ tarjanī a~guliyoṃ kā sparśa)
oṃ klīṃ madhyamābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ mādhyamā a~guliyoṃ kā sparśa)
oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ anāmikā a~guliyoṃ kā sparśa)
oṃ vicce kaniṣṭhikābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ kaniṣṭhakā a~guliyoṃ kā sparśa)
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce karatala karapṛṣṭhābhyāṃ namaḥ | (hatheliṃyoṃ aura unake pṛṣṭha bhāgoṃ kā paraspara sparśa)
|| hṛdayādinyāsaḥ ||
isameṃ dāhine hātha kī pā~coṃ a~guliyoṃ se hṛdaya ādi aṅgoṃ kā sparśa kiyā jātā hai |
oṃ aiṃ hṛdayāya namaḥ | (dāhine hātha kī pā~coṃ a~guliyoṃ se hṛdaya kā sparśa)
oṃ hrīṃ śirase svāhā | (sira kā sparśa)
oṃ klīṃ śikhāyai vaṣaṭ | (śikhā kā sparśa)
oṃ cāmuṇḍāyai kavacāya hum | (dāhine hātha kī a~guliyoṃ se bāyeṃ kandhe kā aura bā~yeṃ hātha kī aṅguliyoṃ se dāhine kandhe kā sātha hī sparśa)
oṃ vicce netratrayāya vauṣaṭ | (dāhine hātha kī a~guliyoṃ ke agra bhāga se donoṃ netroṃ aura lalāṭa ke madhya bhāga kā sparśa)
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce astrāya phaṭ | (yaha vākya paḍha़kara dāhine hātha ko sira ke upara se bā~yī ora se pīche kī ora le jākara dāhinī ora se āge kī ora le āye aura tarjannī tathā madhyamā a~guliyoṃ se bāyeṃ hātha kī hathelī para tāla bajāveṃ |
|| akṣaranyāsaḥ ||
nimnāṅkita vākyoṃ ko paḍha़kara kramaśaḥ śikhā ādi kā dāhine hātha kī aṅguliyoṃ se sparśa kare |
oṃ aiṃ namaḥ śikhāyām |
oṃ hrīṃ namaḥ dakṣiṇanetre |
oṃ klīṃ namaḥ vāmanetre |
oṃ cāṃ namaḥ dakṣiṇakarṇe |
oṃ muṃ namaḥ vāmakarṇe |
oṃ ḍāṃ namaḥ dakṣiṇanāsāpuṭe |
oṃ yaiṃ namaḥ vāmanāsāpuṭe |
oṃ viṃ namaḥ mukhe |
oṃ cceṃ namaḥ guhye |
evaṃ vinyasya ``oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce'' iti navārṇamantreṇa aṣṭavāraṃ vyāpakaṃ kuryāt |
isa prakāra nyāsa karake ``oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce'', isa mantra se āṭha bāra vyāpaka (donoṃ hāthoṃ dvārā) sira se lekara paira taka ke saba aṅgoṃ kā sparśa kareṃ | bāda meṃ pratyaka diśā meṃ cuṭkī bajāte huye nyāsa kareṃ |
|| diṅnyāsaḥ ||
oṃ aiṃ prācyai namaḥ |
oṃ aiṃ āgneyyai namaḥ |
oṃ hrīṃ dakṣiṇāyai namaḥ |
oṃ hrīṃ naiṝtyai namaḥ |
oṃ klīṃ pratīcyai namaḥ |
oṃ klīṃ vāyavyai namaḥ |
oṃ cāmuṇḍāyai udīcyai namaḥ |
oṃ cāmuṇḍāyai aiśānyai namaḥ |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ūrdhvāyai namaḥ |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |
|| dhyānaṃ ||
mahākālī -
khaḍgañcakragadeṣu cāpaparighāñchūlambhuśuṇḍīṃ śiraḥ
śaṅkhaṃsandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite haraukamalajo hantummadhuṅkaiṭabham || 1||
mahālakṣmī -
akṣasrakparaśuṃ gadeṣukuliśaṃ padmandhanuṣkuṇḍikāṃ (padmandhanuḥkuṇḍikāṃ)
daṇḍaṃśaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām || 2||
mahāsarasvatī -
ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm || 3||
mālā prārthanā
phira ``aiṃ hrīṃ akṣamālikāyai namaḥ'' isa mantra se mālā kī pūjā karake prārthanā kareṃ-
oṃ māṃ māle mahāmāye sarvaśakti svarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava || 1||
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇeḥkare |
japakāle ca siddhyarthaṃ prasīda mama siddhaye || 2||
isake paścāta
oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ||
isake bāda ``oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce'' isa mantra kā 108 bāra japa kareṃ aura-
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādān maheśvari ||
isa śloka ko paḍha़kara devī ke vāmahasta meṃ japa nivedana kareṃ |
|| itinavārṇajapavidhiḥ ||
navārṇa vidhi meṃ anusāra japa karane ke bāda saptaśatī ke viniyoga nyāsa aura dhyāna karane cāhiye | pūrvāṅkita kramānusāra nyāsādi kareṃ |
atha bījātmaka śrītantra durgā saptaśatī viniyoga-nyāsa-dhyānādi |
viniyogaḥ-
prathamamadhyamottaracaritrāṇāṃ brahmaviṣṇurudrā ṛṣayaḥ,
śrīmahākālī mahālakṣmī mahāsarasvatyo devatāḥ,
gāyatryuṣṇiganuṣṭubhaśchandāṃsi,
nandāśākambharībhīmāḥ śaktayaḥ,
raktadantikā durgābhrāmaryo bījāni,
agni vāyu sūryāstattvāni,
ṛgyajuḥ sāmavedā dhyānāni,
sakalakāmanāsiddhaye śrīmahākālī mahālakṣmī mahāsarasvatī prītyarthe jape viniyogaḥ |
ise paḍhakara jala girāyeṃ |
|| karanyāsa ||
khaḍganī śūlinī ghorā gadinī cakriṇī tathā | (khaḍginī)
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
oṃ aiṃ slūṃ aṅguṣṭhābhyāṃ namaḥ |
oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭā svanena naḥ pāhi cāpajyānisvanena ca || (cāpajyāniḥsvanena)
oṃ aiṃ phreṃ tarjanībhyāṃ namaḥ |
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāntatheśvari ||
oṃ aiṃ krīṃ madhyamābhyāṃ namaḥ |
oṃ saumyāniyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthaghorāṇi taiḥ rakṣāsmāṃstathā bhuvam ||
oṃ aiṃ mlūṃ anāmikābhyāṃ namaḥ |
oṃ khaḍgaśūlagadādīni yāni cāstrāṇi te'mbike |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
oṃ aiṃ ghaiṃ (ghnaiṃ, ghreṃ) kaniṣṭhikābhyāṃ namaḥ |
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge devi namo'stute ||
oṃ aiṃ śrūṃ karatalakarapṛṣṭhābhyāṃ namaḥ ||
|| ṛṣyādinyāsaḥ ||
khaḍginī śūlinī ghorā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
oṃ aiṃ slūṃ namaḥ hṛdayāya namaḥ |
oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭā svanena naḥ pāhi cāpajyānisvanena ca || (cāpajyāniḥsvanena)
oṃ aiṃ phreṃ namaḥ śirase svāhā |
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāntatheśvari ||
oṃ aiṃ krīṃ namaḥ śikhāyai vaṣaṭ |
oṃ saumyāniyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthaghorāṇi taiḥ rakṣāsmāṃstathā bhuvam ||
oṃ aiṃ mlūṃ namaḥ kavacāya hum |
oṃ khaḍgaśūlagadādīni yāni cāstrāṇi te'mbike |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
oṃ aiṃ ghaiṃ (ghnaiṃ, ghreṃ) namaḥ netratrayāya vauṣaṭ |
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge devi namo'stute ||
oṃ aiṃ śrūṃ namaḥ astrāya phaṭ ||
|| dhyānamantraḥ ||
vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥkaravālakheṭavilasaddhastābhirāsevitām ||
hastaiścakragadāsikheṭaviśikhāṃ ścāpaṃ guṇaṃ tarjanīṃ
vibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||
artha - jinake aṅgoṃ kī śobhā bijalī ke samāna haiṃ, jo siṃha kī savarī para baiṭhīṃ huīṃ bhayaṅkara pratīta hotī hai, hāthoṃ meṃ talavāra va ḍhāla liye aisī aneka kanyāyeṃ jinakī sevā meṃ khaḍa़ī haiṃ, jo apane hāthoṃ meṃ cakra-gadā-talavāra-ḍhāla-bāṇa-dhanuṣa-pāśa aura tarjanīmudrā dhāraṇa kiye huye haiṃ, jinakā svarūpa agnimaya haiṃ, tathā jinake māthe para candramā kā mukuṭa śobhā pā rahā hai, aisī tīna netravālī śrī durgā devī kā dhyāna karatā (yā karatī) hū~ | isa prakāra bhagavatī durgā devī kā dhyāna karake śrī tantra durgā saptaśatī kā pāṭha ārambha kareṃ |
variation for dhyAnamantraH
yā caṇḍī madhukaiṭabhādi daityadalanī yā mahiṣonmūlinī,
yā dhūmrekṣaṇacaṇḍamuṇḍa mathanī yā raktabījāśinī |
śaktiḥ śumbhaniśumbhadaityadalanī yā siddhi lakṣmīḥ parā,
sā durgā navakoṭi mūrtisahitā māṃ pātu viśveśvarī ||
itiśrītantradurgāsaptaśatī-viniyoga-nyāsa dhyānādi ||
saṅketa - kramānusāra ye bījamantra japane se sakala kāmanāprada niścita haiṃ | evameva sarvatra ati pracalita durgā saptaśatī ke mantroṃ meṃ sampuṭita karane se bhī śīghra siddha honī hai |
|| atha bījātmaka śrī tantra durgā saptaśatī pāṭhārambhaḥ ||
|| oṃ śrīgaṇeśāya namaḥ ||
|| śrīdurgāyai namaḥ ||
|| 1. madhukaiṭabhavadho nāma prathamo'dhyāyaḥ ||
viniyogaḥ
asya śrī prathamacaritrasya |
brahmā ṛṣiḥ |
mahākālī devatā |
gāyatrī chandaḥ |
nandā śaktiḥ |
raktadantikā bījam |
agnistattvam |
ṛgvedaḥ svarūpam |
śrīmahākālīprītyarthe prathamacaritrajape (pāṭhe) viniyogaḥ |
dhyānam |
oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍī śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastau tsvapite harau kamalajo hantuṃ madhuṃ kaiṭabham ||
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ bījatrayāyai vidmahe tatpradhānāyai dhīmahi | tannaḥ śaktiḥ pracodayāt |
oṃ aiṃ śrīṃ namaḥ |1|
oṃ aiṃ hrīṃ namaḥ |2|
oṃ namaścaṇḍikāyai ||
oṃ aiṃ mārkaṇḍeya uvāca || 1.1|| oṃ aiṃ śrīṃ namaḥ || 1||
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ |
niśāmaya tadutpattiṃ vistarādgadato mama || 1.2|| oṃ aiṃ hrīṃ namaḥ || 2||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ || 1.3|| oṃ aiṃ klīṃ namaḥ || 3||
svārociṣe'ntare pūrvaṃ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūtsamaste kṣitimaṇḍale || 1.4|| oṃ aiṃ śrīṃ namaḥ || 4||
tasya pālayataḥ samyak prajāḥ putrānivaurasān |
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā || 1.5|| oṃ aiṃ prīṃ namaḥ || 5||
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ |
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ || 1.6|| oṃ aiṃ hrāṃ namaḥ || 6||
tataḥ svapuramāyāto nijadeśādhipo'bhavat |
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ || 1.7|| oṃ aiṃ hrīṃ namaḥ || 7||
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ |
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ || 1.8|| oṃ aiṃ srauṃ namaḥ || 8||
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ |
ekākī hayamāruhya jagāma gahanaṃ vanam || 1.9|| oṃ aiṃ preṃ namaḥ || 9||
sa tatrāśramamadrākṣīddvijavaryasya medhasaḥ |
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam || 1.10|| oṃ aiṃ mrīṃ namaḥ || 10||
tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ |
itaścetaśca vicaraṃstasmin munivarāśrame || 1.11|| oṃ aiṃ hlīṃ namaḥ || 11||
so'cintayattadā tatra mamatvākṛṣṭamānasaḥ |
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat || 1.12|| oṃ aiṃ mlīṃ namaḥ || 12||
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā |
na jāne sa pradhāno me śūro hastī sadāmadaḥ || 1.13|| oṃ aiṃ strīṃ namaḥ || 13||
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate |
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ || 1.14|| oṃ aiṃ krāṃ namaḥ || 14||
anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām |
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam || 1.15|| oṃ aiṃ hslīṃ namaḥ || 15||
sañcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati |
etaccānyacca satataṃ cintayāmāsa pārthivaḥ || 1.16|| oṃ aiṃ krīṃ namaḥ || 16||
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ |
sa pṛṣṭastena kastvaṃ bho hetuścāgamane'tra kaḥ || 1.17|| oṃ aiṃ cāṃ namaḥ || 17||
saśoka iva kasmāttvaṃ durmanā iva lakṣyase |
ityākarṇya vacastasya bhūpateḥ praṇayoditam || 1.18|| oṃ aiṃ bheṃ namaḥ || 18||
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam || 1.19|| oṃ aiṃ krīṃ namaḥ || 19||
vaiśya uvāca || 1.20|| oṃ aiṃ vaiṃ namaḥ || 20||
samādhirnāma vaiśyo'hamutpanno dhanināṃ kule || 1.21|| oṃ aiṃ hrauṃ namaḥ || 21||
putradārairnirastaśca dhanalobhādasādhubhiḥ |
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam || 1.22|| oṃ aiṃ yuṃ namaḥ || 22||
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ |
so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām || 1.23|| oṃ aiṃ juṃ namaḥ || 23||
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ |
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam || 1.24|| oṃ aiṃ haṃ namaḥ || 24||
kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ || 1.25|| oṃ aiṃ śaṃ namaḥ || 25||
rājovāca || 1.26|| oṃ aiṃ rauṃ namaḥ || 26||
yairnirasto bhavā~llubdhaiḥ putradārādibhirdhanaiḥ || 1.27|| oṃ aiṃ yaṃ namaḥ || 27||
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam || 1.28|| oṃ aiṃ viṃ namaḥ || 28||
vaiśya uvāca || 1.29|| oṃ aiṃ vaiṃ namaḥ || 29||
evametadyathā prāha bhavānasmadgataṃ vacaḥ || 1.30|| oṃ aiṃ ceṃ namaḥ || 30||
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ |
yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ || 1.31|| oṃ aiṃ hrīṃ namaḥ || 31||
patisvajanahārdaṃ ca hārditeṣveva me manaḥ |
kimetannābhijānāmi jānannapi mahāmate || 1.32|| oṃ aiṃ krūṃ namaḥ || 32||
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu |
teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate || 1.33|| oṃ aiṃ saṃ namaḥ || 33||
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram || 1.34|| oṃ aiṃ kaṃ namaḥ || 34||
mārkaṇḍeya uvāca || 1.35|| oṃ aiṃ śrīṃ namaḥ || 35||
tatastau sahitau vipra taṃ muniṃ samupasthitau || 1.36|| oṃ aiṃ troṃ namaḥ || 36||
samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ |
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam || 1.37|| oṃ aiṃ strāṃ namaḥ || 37||
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau || 1.38|| oṃ aiṃ jyaṃ namaḥ || 38||
rājovāca || 1.39|| oṃ aiṃ rauṃ namaḥ || 39||
bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat || 1.40|| oṃ aiṃ drāṃ namaḥ || 40||
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā |
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi || 1.41|| oṃ aiṃ hrāṃ (drīṃ, droṃ) namaḥ || 41||
jānato'pi yathājñasya kimetanmunisattama |
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ || 1.42|| oṃ aiṃ hrāṃ namaḥ || 42||
svajanena ca santyaktasteṣu hārdī tathāpyati |
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau || 1.43|| oṃ aiṃ drūṃ namaḥ || 43||
dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau |
tatkimetanmahābhāga yanmoho jñāninorapi || 1.44|| oṃ aiṃ śāṃ namaḥ || 44||
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā || 1.45|| oṃ aiṃ krīṃ (mrīṃ, mīṃ) namaḥ || 45||
ṛṣiruvāca || 1.46|| oṃ aiṃ śrauṃ namaḥ || 46||
jñānamasti samastasya jantorviṣayagocare || 1.47|| oṃ aiṃ juṃ namaḥ || 47||
viṣayāśca mahābhāga yānti caivaṃ pṛthakpṛthak |
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare || 1.48|| oṃ aiṃ hlrūṃ namaḥ || 48||
keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ |
jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam || 1.49|| oṃ aiṃ śrūṃ namaḥ || 49||
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ |
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām || 1.50|| oṃ aiṃ prīṃ namaḥ || 50||
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ |
jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu || 1.51|| oṃ aiṃ raṃ namaḥ || 51||
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā |
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati || 1.52|| oṃ aiṃ vaṃ namaḥ || 52||
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi |
tathāpi mamatāvartte mohagarte nipātitāḥ || 1.53|| oṃ aiṃ broṃ (vrīṃ) namaḥ || 53||
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā |
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ || 1.54|| oṃ aiṃ blaṃ (blūṃ) namaḥ || 54||
mahāmāyā hareścaiṣā tayā sammohyate jagat |
jñānināmapi cetāṃsi devī bhagavatī hi sā || 1.55|| oṃ aiṃ srāṃ (strāṃ, strauṃ) namaḥ || 55||
balādākṛṣya mohāya mahāmāyā prayacchati |
tayā visṛjyate viśvaṃ jagadetaccarācaram || 1.56|| oṃ aiṃ lvāṃ (vlāṃ) namaḥ || 56||
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye |
sā vidyā paramā mukterhetubhūtā sanātanī || 1.57|| oṃ aiṃ lūṃ namaḥ || 57||
saṃsārabandhahetuśca saiva sarveśvareśvarī || 1.58||
rājovāca || 1.59|| oṃ aiṃ sāṃ namaḥ || 58||
bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān || 1.60|| oṃ aiṃ rauṃ namaḥ || 59||
bravīti kathamutpannā sā karmāsyāśca kiṃ dvija | oṃ aiṃ shauṃ (śauṃ) namaḥ || 60||
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā || 1.61|| oṃ aiṃ krūṃ namaḥ || 61||
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara || 1.62|| oṃ aiṃ śauṃ namaḥ || 62||
ṛṣiruvāca || 1.63|| oṃ aiṃ śrauṃ namaḥ || 63||
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam || 1.64|| oṃ aiṃ vaṃ namaḥ || 64||
tathāpi tatsamutpattirbahudhā śrūyatāṃ mama |
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā || 1.65|| oṃ aiṃ trūṃ namaḥ || 65||
utpanneti tadā loke sā nityāpyabhidhīyate |
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte || 1.66|| oṃ aiṃ krauṃ namaḥ || 66||
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ |
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau || 1.67|| oṃ aiṃ klūṃ namaḥ || 67||
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau |
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ || 1.68|| oṃ aiṃ klīṃ namaḥ || 68||
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam |
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ || 1.69|| oṃ aiṃ śrīṃ namaḥ || 69||
vibodhanārthāya harerharinetrakṛtālayām |
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm || 1.70|| oṃ aiṃ blūṃ namaḥ || 70||
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ || 1.71|| oṃ aiṃ ṭhāṃ namaḥ || 71||
brahmovāca || 1.72|| oṃ aiṃ hrīṃ (ṭhrīṃ) namaḥ || 72||
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā || 1.73|| oṃ aiṃ strāṃ namaḥ || 73||
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā |
ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ || 1.74|| oṃ aiṃ slūṃ namaḥ || 74||
tvameva sandhyā sāvitrī tvaṃ devi jananī parā |
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat || 1.75|| oṃ aiṃ kraiṃ namaḥ || 75||
tvayaitat pālyate devi tvamatsyante ca sarvadā |
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane || 1.76|| oṃ aiṃ trāṃ (crāṃ) namaḥ || 76||
tathā saṃhṛtirūpānte jagato'sya jaganmaye |
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ || 1.77|| oṃ aiṃ phrāṃ namaḥ || 77||
mahāmohā ca bhavatī mahādevī maheśvarī |
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī || 1.78|| oṃ aiṃ jīṃ namaḥ || 78||
kālarātrirmahārātrirmoharātriśca dāruṇā |
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā || 1.79|| oṃ aiṃ lūṃ namaḥ || 79||
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca |
khaḍginī śūlinī ghorā gadinī cakriṇī tathā || 1.80|| oṃ aiṃ slūṃ namaḥ || 80||
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā |
saumyā saumyatarāśeṣasaumyebhyastvatisundarī || 1.81|| oṃ aiṃ noṃ namaḥ || 81||
parāparāṇāṃ paramā tvameva parameśvarī |
yacca kiñcitkvacidvastu sadasadvākhilātmike || 1.82|| oṃ aiṃ strīṃ namaḥ || 82||
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā |
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat || 1.83|| oṃ aiṃ prūṃ namaḥ || 83||
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ |
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca || 1.84|| oṃ aiṃ sūṃ (srūṃ, sraṃ) namaḥ || 84||
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet |
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā || 1.85|| oṃ aiṃ jrāṃ namaḥ || 85||
mohayaitau durādharṣāvasurau madhukaiṭabhau |
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu || 1.86|| oṃ aiṃ bauṃ namaḥ || 86||
bodhaśca kriyatāmasya hantumetau mahāsurau || 1.87|| oṃ aiṃ oṃ namaḥ || 87||
ṛṣiruvāca || 1.88|| oṃ aiṃ śrauṃ namaḥ || 88||
evaṃ stutā tadā devī tāmasī tatra vedhasā || 1.89|| oṃ aiṃ ṛṃ namaḥ || 89||
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau |
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ || 1.90|| oṃ aiṃ rūṃ namaḥ || 90||
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ |
uttasthau ca jagannāthastayā mukto janārdanaḥ || 1.91|| oṃ aiṃ klīṃ namaḥ || 91||
ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau |
madhukaiṭabhau durātmānāvativīryaparākramau || 1.92|| oṃ aiṃ duṃ namaḥ || 92||
krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau |
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ || 1.93|| oṃ aiṃ hrīṃ namaḥ || 93||
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ |
tāvapyatibalonmattau mahāmāyāvimohitau || 1.94|| oṃ aiṃ gūṃ namaḥ || 94||
uktavantau varo'smatto vriyatāmiti keśavam || 1.95|| oṃ aiṃ lāṃ namaḥ || 95||
śrībhagavānuvāca || 1.96|| oṃ aiṃ hrāṃ namaḥ || 96||
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi || 1.97|| oṃ aiṃ gaṃ namaḥ || 97||
kimanyena vareṇātra etāvaddhi vṛtaṃ mayā || 1.98|| oṃ aiṃ aiṃ namaḥ || 98||
ṛṣiruvāca || 1.99|| oṃ aiṃ śrauṃ namaḥ || 99||
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat || 1.100|| oṃ aiṃ jūṃ namaḥ || 100||
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ |
āvāṃ jahi na yatrorvī salilena pariplutā || 1.101|| oṃ aiṃ ḍeṃ namaḥ || 101||
ṛṣiruvāca || 1.102|| oṃ aiṃ śrauṃ namaḥ || 102||
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā |
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ || 1.103|| oṃ aiṃ chāṃ (chrāṃ) namaḥ || 103||
evameṣā samutpannā brahmaṇā saṃstutā svayam |
prabhāvamasyā devyāstu bhūyaḥ śaṛṇu vadāmi te || 1.104|| oṃ aiṃ klīṃ namaḥ || 104||
| aiṃ oṃ ||
``oṃ śrīṃ klīṃ hrīṃ hrīṃ phaṭ svāhā ||1||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāṃpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
vāgbhavabījādhiṣṭhātryai mahākālyai mahāhutiṃ samarpayāmi namaḥ svāhā ||
Variation shloka
bījātmaka tantra durgā saptaśatī ke pratyeka bīja mantra ke anta meṃ svāhā lagākara havana kareṃ tathā prathama adhyāya ke anta meṃ nimna mantra se havana kareṃ-
oṃ aiṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
vāgbījādhiṣṭhātryai mahākālikāyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
madhukaiṭabhavadho nāma prathamo'dhyāyaḥ || 1||
uvāca 14, ardhaślokāḥ 24, ślokāḥ 66, evamāditaḥ || 104||
|| 2. mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ ||
viniyogaḥ
asya śrī madhyamacaritrasya viṣṇurṛṣiḥ |
śrīmahālakṣmīrdevatā |
uṣṇik chandaḥ | śākambharī śaktiḥ | durgā bījam |
vāyustattvam |
yajurvedaḥ svarūpam | śrīmahālakṣmīprītyarthe
madhyamacaritrajape (pāṭhe) viniyogaḥ |
dhyānam |
oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ (dhanuṣkuṇḍikāṃ)
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ (prasannānanāṃ)
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||
oṃ hrīṃ ṛṣiruvāca || 2.1|| oṃ aiṃ śrauṃ namaḥ || 1||
devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā |
mahiṣe'surāṇāmadhipe devānāṃ ca purandare || 2.2|| oṃ aiṃ śrīṃ namaḥ || 2||
tatrāsurairmahāvīryairdevasainyaṃ parājitam |
jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ || 2.3|| oṃ aiṃ hsūṃ namaḥ || 3||
tataḥ parājitā devāḥ padmayoniṃ prajāpatim |
puraskṛtya gatāstatra yatreśagaruḍadhvajau || 2.4|| oṃ aiṃ hauṃ namaḥ || 4||
yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam |
tridaśāḥ kathayāmāsurdevābhibhavavistaram || 2.5|| oṃ aiṃ hrīṃ namaḥ || 5||
sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca |
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭhati || 2.6|| oṃ aiṃ aṃ namaḥ || 6||
svargānnirākṛtāḥ sarve tena devagaṇā bhuvi |
vicaranti yathā martyā mahiṣeṇa durātmanā || 2.7|| oṃ aiṃ klīṃ namaḥ || 7||
etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam |
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām || 2.8|| oṃ aiṃ cāṃ namaḥ || 8||
itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ |
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau || 2.9|| oṃ aiṃ muṃ namaḥ || 9||
tato'tikopapūrṇasya cakriṇo vadanāttataḥ |
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca || 2.10|| oṃ aiṃ ḍāṃ namaḥ || 10||
anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ |
nirgataṃ sumahattejastaccaikyaṃ samagacchata || 2.11|| oṃ aiṃ yaiṃ namaḥ || 11||
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam |
dadṛśuste surāstatra jvālāvyāptadigantaram || 2.12|| oṃ aiṃ viṃ namaḥ || 12||
atulaṃ tatra tattejaḥ sarvadevaśarīrajam |
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā || 2.13|| oṃ aiṃ cceṃ namaḥ || 13||
yadabhūcchāmbhavaṃ tejastenājāyata tanmukham |
yāmyena cābhavan keśā bāhavo viṣṇutejasā || 2.14|| oṃ aiṃ īṃ namaḥ || 14||
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat |
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ || 2.15|| oṃ aiṃ sauṃ namaḥ || 15||
brahmaṇastejasā pādau tadaṅgulyo'rkatejasā |
vasūnāṃ ca karāṅgulyaḥ kaubereṇa ca nāsikā || 2.16|| oṃ aiṃ gaṃ namaḥ || 16||
tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā |
nayanatritayaṃ jajñe tathā pāvakatejasā || 2.17|| oṃ aiṃ trauṃ namaḥ || 17||
bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca |
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā || 2.18|| oṃ aiṃ lūṃ namaḥ || 18||
tataḥ samastadevānāṃ tejorāśisamudbhavām |
tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ |
tato devā dadustasyai svāni svānyāyudhāni ca || 2.19|| oṃ aiṃ vaṃ namaḥ || 19||
śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk |
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ || 2.20|| oṃ aiṃ hrāṃ namaḥ || 20||
śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ |
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī || 2.21|| oṃ aiṃ krīṃ namaḥ || 21||
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt || 2.22|| oṃ aiṃ sauṃ namaḥ || 22||
kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau |
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum || 2.23|| oṃ aiṃ yaṃ namaḥ || 23||
samastaromakūpeṣu nijaraśmīn divākaraḥ |
kālaśca dattavān khaḍgaṃ tasyai carma ca nirmalam || 2.24|| oṃ aiṃ aiṃ namaḥ || 24||
kṣīrodaścāmalaṃ hāramajare ca tathāmbare |
cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca || 2.25|| oṃ aiṃ mūṃ namaḥ || 25||
ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu |
nūpurau vimalau tadvad graiveyakamanuttamam || 2.26|| oṃ aiṃ saṃ namaḥ || 26||
aṅgulīyakaratnāni samastāsvaṅgulīṣu ca |
viśvakarmā dadau tasyai paraśuṃ cātinirmalam || 2.27|| oṃ aiṃ haṃ namaḥ || 27||
astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam |
amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām || 2.28|| oṃ aiṃ saṃ namaḥ || 28||
adadajjaladhistasyai paṅkajaṃ cātiśobhanam |
himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca || 2.29|| oṃ aiṃ soṃ namaḥ || 29||
dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ |
śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam || 2.30|| oṃ aiṃ śaṃ namaḥ || 30||
nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām |
anyairapi surairdevī bhūṣaṇairāyudhaistathā || 2.31|| oṃ aiṃ haṃ namaḥ || 31||
sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ |
tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ || 2.32|| oṃ aiṃ hrauṃ namaḥ || 32||
amāyatātimahatā pratiśabdo mahānabhūt |
cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire || 2.33|| oṃ aiṃ mlīṃ namaḥ || 33||
cacāla vasudhā celuḥ sakalāśca mahīdharāḥ |
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm || 2.34|| oṃ aiṃ yūṃ (yaṃ) namaḥ || 34||
tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ |
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyamamarārayaḥ || 2.35|| oṃ aiṃ trūṃ namaḥ || 35||
sannaddhākhilasainyāste samuttasthurudāyudhāḥ |
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ || 2.36|| oṃ aiṃ strīṃ namaḥ || 36||
abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ |
sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā || 2.37|| oṃ aiṃ āṃ namaḥ || 37||
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām |
kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām || 2.38|| oṃ aiṃ preṃ namaḥ || 38||
diśo bhujasahasreṇa samantādvyāpya saṃsthitām |
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām || 2.39|| oṃ aiṃ śaṃ namaḥ || 39||
śastrāstrairbahudhā muktairādīpitadigantaram |
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ || 2.40|| oṃ aiṃ hrāṃ namaḥ || 40||
yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ |
rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ || 2.41|| oṃ aiṃ smūṃ namaḥ || 41||
ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ |
pañcāśadbhiśca niyutairasilomā mahāsuraḥ || 2.42|| oṃ aiṃ ūṃ namaḥ || 42||
ayutānāṃ śataiḥ ṣaḍbhirbāṣkalo yuyudhe raṇe |
gajavājisahasraughairanekaiḥ parivāritaḥ || 2.43|| oṃ aiṃ gūṃ namaḥ || 43||
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata |
biḍālākhyo'yutānāṃ ca pañcāśadbhirathāyutaiḥ || 2.44|| oṃ aiṃ vyaṃ namaḥ || 44||
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ |
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ || 2.45|| oṃ aiṃ hraṃ namaḥ || 45||
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ |
koṭikoṭisahasraistu rathānāṃ dantināṃ tathā || 2.46|| oṃ aiṃ bhaiṃ namaḥ || 46||
hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ |
tomarairbhindipālaiśca śaktibhirmusalaistathā || 2.47|| oṃ aiṃ hrāṃ namaḥ || 47||
yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ |
kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare || 2.48|| oṃ aiṃ krūṃ namaḥ || 48||
devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ |
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā || 2.49|| oṃ aiṃ mūṃ namaḥ || 49||
līlayaiva praciccheda nijaśastrāstravarṣiṇī |
anāyastānanā devī stūyamānā surarṣibhiḥ || 2.50|| oṃ aiṃ lrīṃ namaḥ || 50||
mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī |
so'pi kruddho dhutasaṭo devyā vāhanakesarī || 2.51|| oṃ aiṃ śrāṃ namaḥ || 51||
cacārāsurasainyeṣu vaneṣviva hutāśanaḥ |
niḥśvāsān mumuce yāṃśca yudhyamānā raṇe'mbikā || 2.52|| oṃ aiṃ drūṃ namaḥ || 52||
ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ |
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ || 2.53|| oṃ aiṃ hnūṃ (hrūṃ) namaḥ || 53||
nāśayanto'suragaṇān devīśaktyupabṛṃhitāḥ |
avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare || 2.54|| oṃ aiṃ hsauṃ namaḥ || 54||
mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave |
tato devī triśūlena gadayā śaktivṛṣṭibhiḥ || 2.55|| oṃ aiṃ krāṃ namaḥ || 55||
khaḍgādibhiśca śataśo nijaghāna mahāsurān |
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān || 2.56|| oṃ aiṃ shauṃ namaḥ || 56||
asurān bhuvi pāśena baddhvā cānyānakarṣayat |
kecid dvidhākṛtāstīkṣṇaiḥ khaḍgapātaistathāpare || 2.57|| oṃ aiṃ mlūṃ namaḥ || 57||
vipothitā nipātena gadayā bhuvi śerate |
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ || 2.58|| oṃ aiṃ śrīṃ namaḥ || 58||
kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi |
nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire || 2.59|| oṃ aiṃ gaiṃ namaḥ || 59||
śyenānukāriṇaḥ prāṇān mumucustridaśārdanāḥ |
keṣāñcid bāhavaśchinnāśchinnagrīvāstathāpare || 2.60|| oṃ aiṃ krīṃ namaḥ || 60||
śirāṃsi peturanyeṣāmanye madhye vidāritāḥ |
vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ || 2.61|| oṃ aiṃ trīṃ namaḥ || 61||
ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ |
chinne'pi cānye śirasi patitāḥ punarutthitāḥ || 2.62|| oṃ aiṃ ksīṃ namaḥ || 62||
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ |
nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ || 2.63|| oṃ aiṃ phroṃ (kaṃ) namaḥ || 63||
kabandhāśchinnaśirasaḥ khaḍgaśaktyṛṣṭipāṇayaḥ |
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ || 2.64|| oṃ aiṃ phroṃ (phrauṃ) namaḥ || 64||
pātitai rathanāgāśvairasuraiśca vasundharā |
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ || 2.65|| oṃ aiṃ hrīṃ namaḥ || 65||
śoṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ |
madhye cāsurasainyasya vāraṇāsuravājinām || 2.66|| oṃ aiṃ śāṃ namaḥ || 66||
kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā |
ninye kṣayaṃ yathā vahnistṛṇadārumahācayam || 2.67|| oṃ aiṃ kṣmrīṃ namaḥ || 67||
sa ca siṃho mahānādamutsṛjan dhutakesaraḥ |
śarīrebhyo'marārīṇāmasūniva vicinvati || 2.68|| oṃ aiṃ roṃ namaḥ || 68||
devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ |
yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi || 2.69|| oṃ aiṃ ḍūṃ (ṅūṃ, ṅuṃ) namaḥ || 69||
``oṃ aiṃ krīṃ krāṃ sauṃ saḥ phaṭ svāhā || 2||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ || 2||
uvāca 1, ardhaślokāḥ 68, ślokāḥ 69, evamāditaḥ || 173||
|| 3. mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ ||
dhyānam |
oṃ udyadbhānusahasrakāntimaruṇakṣaumāṃ śiromālikāṃ
raktāliptapayodharāṃ japavaṭīṃ vidyāmabhītiṃ varam |
hastābjairdadhatīṃ trinetravilasadvaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamukuṭāṃ vande'ravindasthitām |
oṃ ṛṣiruvāca || 3.1|| oṃ aiṃ śrīṃ (śrauṃ, śroṃ) namaḥ || 1||
nihanyamānaṃ tatsainyamavalokya mahāsuraḥ |
senānīścikṣuraḥ kopādyayau yoddhumathāmbikām || 3.2|| oṃ aiṃ klīṃ namaḥ || 2||
sa devīṃ śaravarṣeṇa vavarṣa samare'suraḥ |
yathā merugireḥ śaṛṅgaṃ toyavarṣeṇa toyadaḥ || 3.3|| oṃ aiṃ sāṃ namaḥ || 3||
tasya chitvā tato devī līlayaiva śarotkarān |
jaghāna turagānbāṇairyantāraṃ caiva vājinām || 3.4|| oṃ aiṃ troṃ namaḥ || 4||
ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchṛtam |
vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ || 3.5|| oṃ aiṃ prūṃ namaḥ || 5||
sacchinnadhanvā viratho hatāśvo hatasārathiḥ |
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo'suraḥ || 3.6|| oṃ aiṃ mlīṃ namaḥ || 6||
siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani |
ājaghāna bhuje savye devīmapyativegavān || 3.7|| oṃ aiṃ krauṃ namaḥ || 7||
tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana |
tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ || 3.8|| oṃ aiṃ vrīṃ namaḥ || 8||
cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ |
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt || 3.9|| oṃ aiṃ slīṃ namaḥ || 9||
dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata |
tena tacchatadhā nītaṃ śūlaṃ sa ca mahāsuraḥ || 3.10|| oṃ aiṃ hrīṃ namaḥ || 10||
hate tasminmahāvīrye mahiṣasya camūpatau |
ājagāma gajārūḍhaścāmarastridaśārdanaḥ || 3.11|| oṃ aiṃ hauṃ namaḥ || 11||
so'pi śaktiṃ mumocātha devyāstāmambikā drutam |
huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām || 3.12|| oṃ aiṃ śrāṃ namaḥ || 12||
bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ |
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat || 3.13|| oṃ aiṃ groṃ namaḥ || 13||
tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ |
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā || 3.14|| oṃ aiṃ krūṃ namaḥ || 14||
yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau |
yuyudhāte'tisaṃrabdhau prahārairatidāruṇaiḥ || 3.15|| oṃ aiṃ krīṃ namaḥ || 15||
tato vegāt khamutpatya nipatya ca mṛgāriṇā |
karaprahāreṇa śiraścāmarasya pṛthak kṛtam || 3.16|| oṃ aiṃ yāṃ namaḥ || 16||
udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ |
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ || 3.17|| oṃ aiṃ dlūṃ namaḥ || 17||
devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam |
bāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam || 3.18|| oṃ aiṃ drūṃ namaḥ || 18||
ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum |
trinetrā ca triśūlena jaghāna parameśvarī || 3.19|| oṃ aiṃ kṣaṃ namaḥ || 19||
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ |
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam || 3.20|| oṃ aiṃ oṃ namaḥ || 20||
evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ |
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān || 3.21|| oṃ aiṃ krauṃ namaḥ || 21||
kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān |
lāṅgūlatāḍitāṃścānyān śaṛṅgābhyāṃ ca vidāritān || 3.22|| oṃ aiṃ kṣmklrīṃ namaḥ || 22||
vegena kāṃścidaparānnādena bhramaṇena ca |
niḥśvāsapavanenānyānpātayāmāsa bhūtale || 3.23|| oṃ aiṃ vāṃ namaḥ || 23||
nipātya pramathānīkamabhyadhāvata so'suraḥ |
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato'mbikā || 3.24|| oṃ aiṃ śrūṃ namaḥ || 24||
so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ |
śaṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca || 3.25|| oṃ aiṃ blūṃ namaḥ || 25||
vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata |
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ || 3.26|| oṃ aiṃ lrīṃ namaḥ || 26||
dhutaśaṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ |
śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ || 3.27|| oṃ aiṃ preṃ namaḥ || 27||
iti krodhasamādhmātamāpatantaṃ mahāsuram |
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot || 3.28|| oṃ aiṃ hūṃ namaḥ || 28||
sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram |
tatyāja māhiṣaṃ rūpaṃ so'pi baddho mahāmṛdhe || 3.29|| oṃ aiṃ hrauṃ namaḥ || 29||
tataḥ siṃho'bhavatsadyo yāvattasyāmbikā śiraḥ |
chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata || 3.30|| oṃ aiṃ deṃ namaḥ || 30||
tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ |
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so'bhūnmahāgajaḥ || 3.31|| oṃ aiṃ nūṃ namaḥ || 31||
kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca |
karṣatastu karaṃ devī khaḍgena nirakṛntata || 3.32|| oṃ aiṃ āṃ namaḥ || 32||
tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ |
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram || 3.33|| oṃ aiṃ phrāṃ namaḥ || 33||
tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam |
papau punaḥ punaścaiva jahāsāruṇalocanā || 3.34|| oṃ aiṃ prīṃ namaḥ || 34||
nanarda cāsuraḥ so'pi balavīryamadoddhataḥ |
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ prati bhūdharān || 3.35|| oṃ aiṃ dūṃ namaḥ || 35||
sā ca tānprahitāṃstena cūrṇayantī śarotkaraiḥ |
uvāca taṃ madoddhūtamukharāgākulākṣaram || 3.36|| oṃ aiṃ phrīṃ namaḥ || 36||
devyuvāca || 3.37|| oṃ aiṃ hrīṃ namaḥ || 37||
garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham |
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ || 3.38|| oṃ aiṃ gūṃ namaḥ || 38||
ṛṣiruvāca || 3.39|| oṃ aiṃ śrauṃ namaḥ || 39||
evamuktvā samutpatya sārūḍhā taṃ mahāsuram |
pādenākramya kaṇṭhe ca śūlenainamatāḍayat || 3.40|| oṃ aiṃ sāṃ namaḥ || 40||
tataḥ so'pi padākrāntastayā nijamukhāttadā |
ardhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ || 3.41|| oṃ aiṃ śrīṃ namaḥ || 41||
ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśchittvā nipātitaḥ || 3.42|| oṃ aiṃ juṃ namaḥ || 42||
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat |
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ || 3.43|| oṃ aiṃ haṃ namaḥ || 43||
tuṣṭuvustāṃ surā devīṃ sahadivyairmaharṣibhiḥ |
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ || 3.44|| oṃ aiṃ saṃ namaḥ || 44||
``oṃ hrīṃ śrīṃ kuṃ phaṭ svāhā || 3||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ || 3||
uvāca 3, ardhaślokāḥ 41, ślokāḥ 44, evamāditaḥ || 217||
|| 4. śakrādistutirnāma caturtho'dhyāyaḥ ||
dhyānam |
oṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyeddurgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||
oṃ ṛṣiruvāca || 4.1|| oṃ aiṃ śrauṃ namaḥ || 1||
śakrādayaḥ suragaṇā nihate'tivīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ || 4.2|| oṃ aiṃ sauṃ namaḥ || 2||
devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ || 4.3|| oṃ aiṃ diṃ (doṃ) namaḥ || 3||
yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca na hi vaktumalaṃ balaṃ ca |
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu || 4.4|| oṃ aiṃ preṃ namaḥ || 4||
yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śraddhā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam || 4.5|| oṃ aiṃ yāṃ namaḥ || 5||
kiṃ varṇayāma tava rūpamacintyametat
kiñcātivīryamasurakṣayakāri bhūri |
kiṃ cāhaveṣu caritāni tavāti yāni
sarveṣu devyasuradevagaṇādikeṣu || 4.6|| oṃ aiṃ rūṃ namaḥ || 6||
hetuḥ samastajagatāṃ triguṇāpi doṣai-
rna jñāyase hariharādibhirapyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūta-
mavyākṛtā hi paramā prakṛtistvamādyā || 4.7|| oṃ aiṃ bhaṃ namaḥ || 7||
yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛgaṇasya ca tṛptihetu-
ruccāryase tvamata eva janaiḥ svadhā ca || 4.8|| oṃ aiṃ sūṃ namaḥ || 8||
yā muktiheturavicintyamahāvratā tvaṃ
abhyasyase suniyatendriyatattvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai-
rvidyāsi sā bhagavatī paramā hi devi || 4.9|| oṃ aiṃ śrāṃ namaḥ || 9||
śabdātmikā suvimalargyajuṣāṃ nidhāna-
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devi trayī bhagavatī bhavabhāvanāya
vārtāsi sarvajagatāṃ paramārtihantrī || 4.10|| oṃ aiṃ auṃ namaḥ || 10||
medhāsi devi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā |
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā || 4.11|| oṃ aiṃ lūṃ namaḥ || 11||
īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa || 4.12|| oṃ aiṃ ḍūṃ namaḥ || 12||
dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarāla-
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena || 4.13|| oṃ aiṃ jūṃ namaḥ || 13||
devi prasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
vijñātametadadhunaiva yadastameta-
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya || 4.14|| oṃ aiṃ dhūṃ namaḥ || 14||
te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati bandhuvargaḥ |
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā || 4.15|| oṃ aiṃ treṃ namaḥ || 15||
dharmyāṇi devi sakalāni sadaiva karmā-
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā-
llokatraye'pi phaladā nanu devi tena || 4.16|| oṃ aiṃ hrīṃ namaḥ || 16||
durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā || 4.17|| oṃ aiṃ śrīṃ namaḥ || 17||
ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitānvinihaṃsi devi || 4.18|| oṃ aiṃ īṃ namaḥ || 18||
dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvahiteṣusādhvī || 4.19|| oṃ aiṃ hrāṃ namaḥ || 19||
khaḍgaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat || 4.20|| oṃ aiṃ hlarūṃ namaḥ || 20||
durvṛttavṛttaśamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham || 4.21|| oṃ aiṃ klūṃ namaḥ || 21||
kenopamā bhavatu te'sya parākramasya
rūpaṃ ca śatrubhayakāryatihāri kutra |
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi || 4.22|| oṃ aiṃ krāṃ namaḥ || 22||
trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstam
asmākamunmadasurāribhavaṃ namaste || 4.23|| oṃ aiṃ llūṃ namaḥ || 23||
śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca || 4.24|| oṃ aiṃ phreṃ namaḥ || 24||
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāntatheśvari || 4.25|| oṃ aiṃ krīṃ namaḥ || 25||
saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthataghorāṇi tai rakṣāsmāṃstathā bhuvam || 4.26|| oṃ aiṃ mlūṃ namaḥ || 26||
khaḍgaśūlagadādīni yāni cāstrāni te'mbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ || 4.27|| oṃ aiṃ ghreṃ namaḥ || 27||
ṛṣiruvāca || 4.28|| oṃ aiṃ śrauṃ namaḥ || 28||
evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ || 4.29|| oṃ aiṃ hrauṃ namaḥ || 29||
bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān || 4.30|| oṃ aiṃ vrīṃ namaḥ || 30||
devyuvāca || 4.31|| oṃ aiṃ hrīṃ namaḥ || 31||
vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam || 4.32|| oṃ aiṃ trauṃ namaḥ || 32||
devā ūcuḥ || 4.33|| oṃ aiṃ hllauṃ (hasauṃ) namaḥ || 33||
bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate || 4.34|| oṃ aiṃ gīṃ namaḥ || 34||
yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ |
yadi cāpi varo deyastvayāsmākaṃ maheśvari || 4.35|| oṃ aiṃ yūṃ namaḥ || 35||
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ |
yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane || 4.36|| oṃ aiṃ hlīṃ namaḥ || 36||
tasya vittarddhivibhavairdhanadārādisampadām |
vṛddhaye'smatprasannā tvaṃ bhavethāḥ sarvadāmbike || 4.37|| oṃ aiṃ hlūṃ namaḥ || 37||
ṛṣiruvāca || 4.38|| oṃ aiṃ śrauṃ namaḥ || 38||
iti prasāditā devairjagato'rthe tathātmanaḥ |
tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa || 4.39|| oṃ aiṃ oṃ namaḥ || 39||
ityetatkathitaṃ bhūpa sambhūtā sā yathā purā |
devī devaśarīrebhyo jagattrayahitaiṣiṇī || 4.40|| oṃ aiṃ aṃ namaḥ || 40||
punaśca gaurīdehātsā samudbhūtā yathābhavat |
vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ || 4.41|| oṃ aiṃ mhauṃ namaḥ || 41||
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |
tacchṛṇuṣva mayākhyātaṃ yathāvatkathayāmi te || 4.42|| oṃ aiṃ prīṃ namaḥ || 42||
hrīṃ oṃ |
``oṃ aṃ hrīṃ śrīṃ haṃsaḥ phaṭ svāhā || 4||(oṃ aṃ hrīṃ haṃsaḥ phaṭ svāhā)''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
hṛllekhābījādhiṣṭhātryai mahālakṣmyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śakrādistutirnāma caturtho'dhyāyaḥ || 4||
uvāca 5, ardhaślokau 2, ślokāḥ 35, evamāditaḥ || 259||
|| 5. devyā dūtasaṃvādo nāma pañcamo'dhyāyaḥ ||
viniyogaḥ
asya śrī uttaracaritrasya rudra ṛṣiḥ |
śrīmahāsarasvatī devatā |
anuṣṭup chandaḥ | bhīmā śaktiḥ | bhrāmarī bījam |
sūryastattvam |
sāmavedaḥ svarūpam | śrīmahāsarasvatīprītyarthe
uttaracaritrapāṭhe viniyogaḥ |
dhyānam |
ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||
oṃ klīṃ ṛṣiruvāca || 5.1|| oṃ aiṃ śrauṃ namaḥ || 1||
purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ |
trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt || 5.2|| oṃ aiṃ prīṃ namaḥ || 2||
tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam |
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca || 5.3|| oṃ aiṃ āṃ namaḥ || 3||
tāveva pavanarddhiṃ ca cakraturvahnikarma ca |
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 5.4|| oṃ aiṃ hrīṃ namaḥ || 4||
hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ |
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām || 5.5|| oṃ aiṃ lrīṃ namaḥ || 5||
tayāsmākaṃ varo datto yathāpatsu smṛtākhilāḥ |
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 5.6|| oṃ aiṃ troṃ namaḥ || 6||
iti kṛtvā matiṃ devā himavantaṃ nageśvaram |
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ || 5.7|| oṃ aiṃ krīṃ namaḥ || 7||
devā ūcuḥ || 5.8|| oṃ aiṃ hsauṃ namaḥ || 8||
namo devyai mahādevyai śivāyai satataṃ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 5.9|| oṃ aiṃ hrīṃ namaḥ || 9||
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ || 5.10|| oṃ aiṃ śrīṃ namaḥ || 10||
kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ |
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ || 5.11|| oṃ aiṃ hūṃ namaḥ || 11||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ || 5.12|| oṃ aiṃ klīṃ namaḥ || 12||
atisaumyātiraudrāyai natāstasyai namo namaḥ |
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ || 5.13|| oṃ aiṃ rauṃ namaḥ || 13||
yā devī sarvabhūteṣu viṣṇumāyeti śabditā |
namastasyai namastasyai namastasyai namo namaḥ || 5.14-16|| oṃ aiṃ strīṃ namaḥ || 14|| oṃ aiṃ mlīṃ namaḥ || 15|| oṃ aiṃ plūṃ namaḥ || 16||
yā devī sarvabhūteṣu cetanetyabhidhīyate |
namastasyai namastasyai namastasyai namo namaḥ || 5.17-19|| oṃ aiṃ shāṃ namaḥ || 17|| oṃ aiṃ strīṃ namaḥ || 18|| oṃ aiṃ glūṃ namaḥ || 19||
yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.20-22|| oṃ aiṃ vrīṃ namaḥ || 20|| oṃ aiṃ sauṃ namaḥ || 21|| oṃ aiṃ lūṃ namaḥ || 22||
yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.23-25|| oṃ aiṃ llūṃ namaḥ || 23|| oṃ aiṃ drāṃ namaḥ || 24|| oṃ aiṃ ksāṃ namaḥ || 25||
yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.26-28|| oṃ aiṃ kṣmrīṃ namaḥ || 26|| oṃ aiṃ glauṃ namaḥ || 27|| oṃ aiṃ skū~ (skūṃ, skaṃ) namaḥ || 28||
yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.29-31|| oṃ aiṃ trūṃ namaḥ || 29|| oṃ aiṃ sklūṃ namaḥ || 30|| oṃ aiṃ krauṃ namaḥ || 31||
yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.32-34|| oṃ aiṃ chrīṃ namaḥ || 32|| oṃ aiṃ mlūṃ namaḥ || 33|| oṃ aiṃ klūṃ namaḥ || 34||
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.35-37|| oṃ aiṃ śāṃ namaḥ || 35|| oṃ aiṃ lhīṃ namaḥ || 36|| oṃ aiṃ strūṃ namaḥ || 37||
yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.38-40|| oṃ aiṃ llīṃ namaḥ || 38|| oṃ aiṃ līṃ namaḥ || 39|| oṃ aiṃ saṃ namaḥ || 40||
yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.41-43|| oṃ aiṃ lūṃ namaḥ 41|| oṃ aiṃ hsūṃ namaḥ || 42|| oṃ aiṃ śrūṃ namaḥ || 43||
yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.44-46|| oṃ aiṃ jūṃ namaḥ || 44|| oṃ aiṃ hslrīṃ namaḥ || 45|| oṃ aiṃ skīṃ namaḥ || 46||
yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.47-49|| oṃ aiṃ klāṃ namaḥ || 47|| oṃ aiṃ śrūṃ namaḥ || 48|| oṃ aiṃ haṃ namaḥ || 49||
yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.50-52|| oṃ aiṃ hlīṃ namaḥ || 50|| oṃ aiṃ ksrūṃ namaḥ || 51|| oṃ aiṃ drauṃ namaḥ || 52||
yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.53-55|| oṃ aiṃ klūṃ namaḥ || 53|| oṃ aiṃ gāṃ namaḥ || 54|| oṃ aiṃ saṃ namaḥ || 55||
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.56-58|| oṃ aiṃ lsrāṃ namaḥ || 56|| oṃ aiṃ phrīṃ namaḥ || 57|| oṃ aiṃ slāṃ namaḥ || 58||
yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.59-61|| oṃ aiṃ llūṃ namaḥ || 59|| oṃ aiṃ phreṃ namaḥ || 60|| oṃ aiṃ oṃ namaḥ || 61||
yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.62-64|| oṃ aiṃ smalīṃ (smlīṃ) namaḥ || 62|| oṃ aiṃ hrāṃ namaḥ || 63|| oṃ aiṃ oṃ (oṃ, ūṃ) namaḥ || 64||
yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.65-67|| oṃ aiṃ hlūṃ namaḥ || 65|| oṃ aiṃ hū~ (hūṃ) namaḥ || 66|| oṃ aiṃ naṃ namaḥ || 67||
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.68-70|| oṃ aiṃ srāṃ namaḥ || 68|| oṃ aiṃ vaṃ namaḥ || 69|| oṃ aiṃ maṃ namaḥ || 70||
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.71-73|| oṃ aiṃ mklīṃ namaḥ || 71|| oṃ aiṃ śāṃ namaḥ || 72|| oṃ aiṃ laṃ namaḥ || 73||
yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.74-76|| oṃ aiṃ bhaiṃ namaḥ || 74|| oṃ aiṃ llūṃ namaḥ || 75|| oṃ aiṃ hauṃ namaḥ || 76||
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā |
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ || 5.77|| oṃ aiṃ īṃ namaḥ || 77||
citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat |
namastasyai namastasyai namastasyai namo namaḥ || 5.78-80|| oṃ aiṃ ceṃ namaḥ || 78|| oṃ aiṃ lkrīṃ namaḥ || 79|| oṃ aiṃ hlrīṃ namaḥ || 80||
stutā suraiḥ pūrvamabhīṣṭasaṃśrayā-
ttathā surendreṇa dineṣu sevitā |
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 5.81||oṃ aiṃ kṣmlrīṃ namaḥ || 81||
yā sāmprataṃ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate |
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ || 5.82||oṃ aiṃ yūṃ namaḥ || 82||
ṛṣiruvāca || 5.83|| oṃ aiṃ śrauṃ namaḥ || 83||
evaṃ stavābhiyuktānāṃ devānāṃ tatra pārvatī |
snātumabhyāyayau toye jāhnavyā nṛpanandana || 5.84|| oṃ aiṃ hrauṃ namaḥ || 84||
sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā |
śarīrakośataścāsyāḥ samudbhūtābravīcchivā || 5.85|| oṃ aiṃ bhrūṃ namaḥ || 85||
stotraṃ mamaitatkriyate śumbhadaityanirākṛtaiḥ |
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ || 5.86|| oṃ aiṃ kstrīṃ namaḥ || 86||
śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā |
kauśikīti samasteṣu tato lokeṣu gīyate || 5.87|| oṃ aiṃ āṃ namaḥ || 87||
tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī |
kāliketi samākhyātā himācalakṛtāśrayā || 5.88|| oṃ aiṃ krūṃ namaḥ || 88||
tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ || 5.89|| oṃ aiṃ trūṃ namaḥ || 89||
tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā |
kāpyāste strī mahārāja bhāsayantī himācalam || 5.90|| oṃ aiṃ ḍūṃ namaḥ || 90||
naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam |
jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara || 5.91|| oṃ aiṃ jāṃ namaḥ || 91||
strīratnamaticārvaṅgī dyotayantī diśastviṣā |
sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati || 5.92|| oṃ aiṃ hlarūṃ (hlrūṃ) namaḥ || 92||
yāni ratnāni maṇayo gajāśvādīni vai prabho |
trailokye tu samastāni sāmprataṃ bhānti te gṛhe || 5.93|| oṃ aiṃ phrauṃ namaḥ || 93||
airāvataḥ samānīto gajaratnaṃ purandarāt |
pārijātataruścāyaṃ tathaivoccaiḥśravā hayaḥ || 5.94|| oṃ aiṃ krauṃ namaḥ || 94||
vimānaṃ haṃsasaṃyuktametattiṣṭhati te'ṅgaṇe |
ratnabhūtamihānītaṃ yadāsīdvedhaso'dbhutam || 5.95|| oṃ aiṃ kiṃ namaḥ || 95||
nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt |
kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām || 5.96|| oṃ aiṃ glūṃ namaḥ || 96||
chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭhati |
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ || 5.97|| oṃ aiṃ chrklīṃ namaḥ || 97||
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā |
pāśaḥ salilarājasya bhrātustava parigrahe || 5.98|| oṃ aiṃ raṃ namaḥ || 98||
niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśauce ca vāsasī || 5.99|| oṃ aiṃ ksaiṃ namaḥ || 99||
evaṃ daityendra ratnāni samastānyāhṛtāni te |
strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate || 5.100|| oṃ aiṃ shuṃ namaḥ || 100||
ṛṣiruvāca || 5.101|| oṃ aiṃ śrauṃ namaḥ || 101||
niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ |
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuram || 5.102|| oṃ aiṃ hśrīṃ namaḥ || 102||
iti ceti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu || 5.103|| oṃ aiṃ oṃ namaḥ || 103||
sa tatra gatvā yatrāste śailoddeśe'tiśobhane |
tāṃ ca devīṃ tataḥ prāha ślakṣṇaṃ madhurayā girā || 5.104|| oṃ aiṃ lūṃ namaḥ || 104||
dūta uvāca || 5.105|| oṃ aiṃ lhūṃ namaḥ || 105||
devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ |
dūto'haṃ preṣitastena tvatsakāśamihāgataḥ || 5.106|| oṃ aiṃ rllūṃ (llūṃ) namaḥ || 106||
avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu |
nirjitākhiladaityāriḥ sa yadāha śaṛṇuṣva tat || 5.107|| oṃ aiṃ skrīṃ namaḥ || 107||
mama trailokyamakhilaṃ mama devā vaśānugāḥ |
yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak || 5.108|| oṃ aiṃ ssrauṃ namaḥ || 108||
trailokye vararatnāni mama vaśyānyaśeṣataḥ |
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanam || 5.109|| oṃ aiṃ sśrūṃ namaḥ || 109||
kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ |
uccaiḥśravasasañjñaṃ tatpraṇipatya samarpitam || 5.110|| oṃ aiṃ kṣmklīṃ namaḥ || 110||
yāni cānyāni deveṣu gandharveṣūrageṣu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane || 5.111|| oṃ aiṃ vrīṃ namaḥ || 111||
strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam |
sā tvamasmānupāgaccha yato ratnabhujo vayam || 5.112|| oṃ aiṃ sīṃ namaḥ || 112||
māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam |
bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 5.113|| oṃ aiṃ bhrūṃ namaḥ || 113||
paramaiśvaryamatulaṃ prāpsyase matparigrahāt |
etadbuddhyā samālocya matparigrahatāṃ vraja || 5.114|| oṃ aiṃ lāṃ namaḥ || 114||
ṛṣiruvāca || 5.115|| oṃ aiṃ śrauṃ namaḥ || 115||
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat || 5.116|| oṃ aiṃ shaiṃ namaḥ || 116||
devyuvāca || 5.117|| oṃ aiṃ hrīṃ namaḥ || 117||
satyamuktaṃ tvayā nātra mithyā kiñcittvayoditam |
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ || 5.118|| oṃ aiṃ śrīṃ namaḥ || 118||
kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham |
śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā || 5.119|| oṃ aiṃ phreṃ namaḥ || 119||
yo māṃ jayati saṅgrāme yo me darpaṃ vyapohati |
yo me pratibalo loke sa me bhartā bhaviṣyati || 5.120|| oṃ aiṃ rūṃ namaḥ || 120||
tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ |
māṃ jitvā kiṃ cireṇātra pāṇiṃ gṛhṇātu me laghu || 5.121|| oṃ aiṃ cchūṃ namaḥ || 121||
dūta uvāca || 5.122|| oṃ aiṃ lhūṃ namaḥ || 122||
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ |
trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ || 5.123|| oṃ aiṃ kaṃ namaḥ || 123||
anyeṣāmapi daityānāṃ sarve devā na vai yudhi |
tiṣṭhanti sammukhe devi kiṃ punaḥ strī tvamekikā || 5.124|| oṃ aiṃ dreṃ namaḥ || 124||
indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge |
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham || 5.125|| oṃ aiṃ śrīṃ namaḥ || 125||
sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ |
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 5.126|| oṃ aiṃ sāṃ namaḥ || 126||
devyuvāca || 5.127|| oṃ aiṃ hrīṃ namaḥ || 127||
evametad balī śumbho niśumbhaścāpitādṛśaḥ |
kiṃ karomi pratijñā me yadanālocitā purā || 5.128|| oṃ aiṃ aiṃ namaḥ || 128||
sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ |
tadācakṣvāsurendrāya sa ca yuktaṃ karotu yat || 5.129|| oṃ aiṃ sklīṃ namaḥ || 129||
``oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce svāhā || 5||''
(bījamantra upalabdha nahīṃ hai | ataḥ isa ke sthāna para navarṇamantra se havana kiyā jā sakatā hai |)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
devyā dūtasaṃvādo nāma pañcamo'dhyāyaḥ || 5||
uvāca 9, tripānmantrāḥ 66, ślokāḥ 54, evamāditaḥ || 388||
|| 6. śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ ||
dhyānam |
oṃ nāgādhīśvaraviṣṭarāṃ phaṇiphaṇottaṃsoru ratnāvalī-
bhāsvaddehalatāṃ divākaranibhāṃ netratrayodbhāsitām |
mālākumbhakapālanīrajakarāṃ candrārdhacūḍāṃ parāṃ
sarvajñeśvarabhairavāṅganilayāṃ padmāvatīṃ cintaye ||
oṃ ṛṣiruvāca || 6.1|| oṃ aiṃ śrauṃ namaḥ || 1||
ityākarṇya vaco devyāḥ sa dūto'marṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 6.2|| oṃ aiṃ oṃ namaḥ || 2||
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam || 6.3|| oṃ aiṃ trūṃ namaḥ || 3||
he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ |
tāmānaya balādduṣṭāṃ keśākarṣaṇavihvalām || 6.4|| oṃ aiṃ hrauṃ namaḥ || 4||
tatparitrāṇadaḥ kaścidyadi vottiṣṭhate'paraḥ |
sa hantavyo'maro vāpi yakṣo gandharva eva vā || 6.5|| oṃ aiṃ krauṃ namaḥ || 5||
ṛṣiruvāca || 6.6|| oṃ aiṃ hrīṃ (śrauṃ) namaḥ || 6||
tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ |
vṛtaḥ ṣaṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayau || 6.7|| oṃ aiṃ trauṃ (trīṃ) namaḥ || 7||
sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām |
jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ || 6.8|| oṃ aiṃ klīṃ namaḥ || 8||
na cetprītyādya bhavatī madbhartāramupaiṣyati |
tato balānnayāmyeṣa keśākarṣaṇavihvalām || 6.9|| oṃ aiṃ prīṃ namaḥ || 9||
devyuvāca || 6.10|| oṃ aiṃ hrīṃ namaḥ || 10||
daityeśvareṇa prahito balavānbalasaṃvṛtaḥ |
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham || 6.11|| oṃ aiṃ hrauṃ namaḥ || 11||
ṛṣiruvāca || 6.12|| oṃ aiṃ śrauṃ namaḥ || 12||
ityuktaḥ so'bhyadhāvattāmasuro dhūmralocanaḥ |
huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā || 6.13|| oṃ aiṃ aiṃ namaḥ || 13||
atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā |
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ || 6.14|| oṃ aiṃ oṃ namaḥ || 14||
tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam |
papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ || 6.15|| oṃ aiṃ śrīṃ namaḥ || 15||
kāṃścitkaraprahāreṇa daityānāsyena cāparān |
ākrāntyā cādhareṇānyān jaghāna sa mahāsurān || 6.16|| oṃ aiṃ krāṃ namaḥ || 16||
keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī |
tathā talaprahāreṇa śirāṃsi kṛtavānpṛthak || 6.17|| oṃ aiṃ hūṃ namaḥ || 17||
vicchinnabāhuśirasaḥ kṛtāstena tathāpare |
papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ || 6.18|| oṃ aiṃ chrāṃ klīṃ namaḥ || 18||
kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā |
tena kesariṇā devyā vāhanenātikopinā || 6.19|| oṃ aiṃ kṣmklrīṃ namaḥ || 19||
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam |
balaṃ ca kṣayitaṃ kṛtsnaṃ devīkesariṇā tataḥ || 6.20|| oṃ aiṃ llūṃ namaḥ || 20||
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ |
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau || 6.21|| oṃ aiṃ sauṃ namaḥ || 21||
he caṇḍa he muṇḍa balairbahubhiḥ parivāritau |
tatra gacchata gatvā ca sā samānīyatāṃ laghu || 6.22|| oṃ aiṃ hlauṃ namaḥ || 22||
keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi |
tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām || 6.23|| oṃ aiṃ krūṃ namaḥ || 23||
tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite |
śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām || 6.24|| oṃ aiṃ sauṃ namaḥ || 24||
``oṃ śrīṃ yaṃ hrīṃ klīṃ hlīṃ phaṭ svāhā || 6||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ || 6||
uvāca 4, ślokāḥ 24, evamāditaḥ || 412||
|| 7. caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ ||
dhyānam |
oṃ dhyāyeyaṃ ratnapīṭhe śukakalapaṭhitaṃ śaṛṇvatīṃ śyāmalāṅgīṃ
nyastaikāṅghriṃ saroje śaśiśakaladharāṃ vallakīṃ vādayantīm |
kahlārābaddhamālāṃ niyamitavilasaccolikāṃ ratnavastrāṃ
mātaṅgī śaṅkhapātrāṃ madhuramadhumadāṃ citrakodbhāsibhālām ||
oṃ ṛṣiruvāca || 7.1|| oṃ aiṃ śrauṃ namaḥ || 1||
ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ |
caturaṅgabalopetā yayurabhyudyatāyudhāḥ || 7.2|| oṃ aiṃ kūṃ namaḥ || 2||
dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām |
siṃhasyopari śailendraśaṛṅge mahati kāñcane || 7.3|| oṃ aiṃ hlīṃ namaḥ || 3||
te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ |
ākṛṣṭacāpāsidharāstathānye tatsamīpagāḥ || 7.4|| oṃ aiṃ hraṃ namaḥ || 4||
tataḥ kopaṃ cakāroccairambikā tānarīnprati |
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā || 7.5|| oṃ aiṃ mūṃ namaḥ || 5||
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam |
kālī karālavadanā viniṣkrāntāsipāśinī || 7.6|| oṃ aiṃ trauṃ namaḥ || 6||
vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā |
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā || 7.7|| oṃ aiṃ hrauṃ namaḥ || 7||
ativistāravadanā jihvālalanabhīṣaṇā |
nimagnāraktanayanā nādāpūritadiṅmukhā || 7.8|| oṃ aiṃ oṃ namaḥ || 8||
sā vegenābhipatitā ghātayantī mahāsurān |
sainye tatra surārīṇāmabhakṣayata tadbalam || 7.9|| oṃ aiṃ hsūṃ namaḥ || 9||
pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān |
samādāyaikahastena mukhe cikṣepa vāraṇān || 7.10|| oṃ aiṃ klūṃ namaḥ || 10||
tathaiva yodhaṃ turagai rathaṃ sārathinā saha |
nikṣipya vaktre daśanaiścarvayantyatibhairavam || 7.11|| oṃ aiṃ kaiṃ (keṃ) namaḥ || 11||
ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam |
pādenākramya caivānyamurasānyamapothayat || 7.12|| oṃ aiṃ neṃ namaḥ || 12||
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhena jagrāha ruṣā daśanairmathitānyapi || 7.13|| oṃ aiṃ lūṃ namaḥ || 13||
balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām |
mamardābhakṣayaccānyānanyāṃścātāḍayattadā || 7.14|| oṃ aiṃ hslīṃ namaḥ || 14||
asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ |
jagmurvināśamasurā dantāgrābhihatāstathā || 7.15|| oṃ aiṃ plūṃ namaḥ || 15||
kṣaṇena tadbalaṃ sarvamasurāṇāṃ nipātitam |
dṛṣṭvā caṇḍo'bhidudrāva tāṃ kālīmatibhīṣaṇām || 7.16|| oṃ aiṃ śāṃ namaḥ || 16||
śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ |
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 7.17|| oṃ aiṃ slūṃ namaḥ || 17||
tāni cakrāṇyanekāni viśamānāni tanmukham |
babhuryathārkabimbāni subahūni ghanodaram || 7.18|| oṃ aiṃ plīṃ namaḥ || 18||
tato jahāsātiruṣā bhīmaṃ bhairavanādinī |
kālī karālavadanā durdarśadaśanojjvalā || 7.19|| oṃ aiṃ praiṃ namaḥ || 19||
utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata |
gṛhītvā cāsya keśeṣu śirastenāsinācchinat || 7.20|| oṃ aiṃ aṃ namaḥ || 20||
atha muṇḍo'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam |
tamapyapātayadbhūmau sā khaḍgābhihataṃ ruṣā || 7.21|| oṃ aiṃ auṃ namaḥ || 21||
hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam |
muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam || 7.22|| oṃ aiṃ mlrīṃ namaḥ || 22||
śiraścaṇḍasya kālī ca gṛhītvā muṇḍameva ca |
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām || 7.23|| oṃ aiṃ śrāṃ namaḥ || 23||
mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū |
yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi || 7.24|| oṃ aiṃ sauṃ namaḥ || 24||
ṛṣiruvāca || 7.25|| oṃ aiṃ śrauṃ namaḥ || 25||
tāvānītau tato dṛṣṭvā caṇḍamuṇḍau mahāsurau |
uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ || 7.26|| oṃ aiṃ prīṃ namaḥ || 26||
yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā |
cāmuṇḍeti tato loke khyātā devī bhaviṣyasi || 7.27|| oṃ aiṃ hsvrīṃ namaḥ || 27||
``oṃ raṃ raṃ raṃ kaṃ kaṃ kaṃ jaṃ jaṃ jaṃ cāmuṇḍāyai phaṭ svāhā || 7||(oṃ raṃ raṃ raṃ kaṃ kaṃ jaṃ jaṃ cāmuṇḍāyai phaṭ svāhā)''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ || 7||
uvāca 2, ślokāḥ 25, evamāditaḥ || 439||
|| 8. raktabījavadho nāmāṣṭamo'dhyāyaḥ ||
dhyānam |
oṃ aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśabāṇācāpahastām |
aṇimādibhirāvṛtāṃ mayūkhai-
rahamityeva vibhāvaye bhavānīm ||
oṃ ṛṣiruvāca || 8.1|| oṃ aiṃ śrauṃ namaḥ || 1||
caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ || 8.2|| oṃ aiṃ mhlrīṃ namaḥ || 2||
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha || 8.3|| oṃ aiṃ prūṃ namaḥ || 3||
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ || 8.4|| oṃ aiṃ aiṃ namaḥ || 4||
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā || 8.5|| oṃ aiṃ kroṃ namaḥ || 5||
kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu ājñayā tvaritā mama || 8.6|| oṃ aiṃ īṃ namaḥ || 6||
ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ || 8.7|| oṃ aiṃ aiṃ namaḥ || 7||
āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram || 8.8|| oṃ aiṃ lrīṃ namaḥ || 8||
tataḥ siṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat || 8.9|| oṃ aiṃ phrauṃ namaḥ || 9||
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā || 8.10|| oṃ aiṃ mlūṃ namaḥ || 10||
taṃ ninādamupaśrutya daityasainyaiścaturdiśam |
devī siṃhastathā kālī saroṣaiḥ parivāritāḥ || 8.11|| oṃ aiṃ noṃ namaḥ || 11||
etasminnantare bhūpa vināśāya suradviṣām |
bhavāyāmarasiṃhānāmativīryabalānvitāḥ || 8.12|| oṃ aiṃ hūṃ namaḥ || 12||
brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ || 8.13|| oṃ aiṃ phrīṃ namaḥ || 13||
yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam |
tadvadeva hi tacchaktirasurānyoddhumāyayau || 8.14|| oṃ aiṃ glauṃ namaḥ || 14||
haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ |
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyate || 8.15|| oṃ aiṃ smauṃ namaḥ || 15||
māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptā candrarekhāvibhūṣaṇā || 8.16|| oṃ aiṃ sauṃ namaḥ || 16||
kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī || 8.17|| oṃ aiṃ śrīṃ namaḥ || 17||
tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau || 8.18|| oṃ aiṃ shauṃ namaḥ || 18||
yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum || 8.19|| oṃ aiṃ khseṃ namaḥ || 19||
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ || 8.20|| oṃ aiṃ kṣmlīṃ namaḥ || 20||
vajrahastā tathaivaindrī gajarājopari sthitā |
prāptā sahasranayanā yathā śakrastathaiva sā || 8.21|| oṃ aiṃ hrāṃ namaḥ || 21||
tataḥ parivṛtastābhirīśāno devaśaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikām || 8.22|| oṃ aiṃ vīṃ namaḥ || 22||
tato devīśarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī || 8.23|| oṃ aiṃ lūṃ namaḥ || 23||
sā cāha dhūmrajaṭilamīśānamaparājitā |
dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ || 8.24|| oṃ aiṃ lsīṃ namaḥ || 24||
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ || 8.25|| oṃ aiṃ bloṃ namaḥ || 25||
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha || 8.26|| oṃ aiṃ tsroṃ namaḥ || 26||
balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ |
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ || 8.27|| oṃ aiṃ vrūṃ (brūṃ) namaḥ || 27||
yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti loke'smiṃstataḥ sā khyātimāgatā || 8.28|| oṃ aiṃ ślkīṃ namaḥ || 28||
te'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā || 8.29|| oṃ aiṃ śrūṃ namaḥ || 29||
tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ |
vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ || 8.30|| oṃ aiṃ hrīṃ namaḥ || 30||
sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān |
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ || 8.31|| oṃ aiṃ śīṃ namaḥ || 31||
tasyāgratastathā kālī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvatī vyacarattadā || 8.32|| oṃ aiṃ klīṃ namaḥ || 32||
kamaṇḍalujalākṣepahatavīryān hataujasaḥ |
brahmāṇī cākarocchatrūnyena yena sma dhāvati || 8.33|| oṃ aiṃ klauṃ namaḥ || 33||
māheśvarī triśūlena tathā cakreṇa vaiṣṇavī |
daityāñjaghāna kaumārī tathā śaktyātikopanā || 8.34|| oṃ aiṃ prūṃ namaḥ || 34||
aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ || 8.35|| oṃ aiṃ hnūṃ (hrūṃ) namaḥ || 35||
tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ || 8.36|| oṃ aiṃ klūṃ namaḥ || 36||
nakhairvidāritāṃścānyān bhakṣayantī mahāsurān |
nārasiṃhī cacārājau nādāpūrṇadigambarā || 8.37|| oṃ aiṃ tauṃ namaḥ || 37||
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā || 8.38|| oṃ aiṃ mlūṃ namaḥ || 38||
iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān |
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ || 8.39|| oṃ aiṃ haṃ namaḥ || 39||
palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ || 8.40|| oṃ aiṃ slūṃ namaḥ || 40||
raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ || 8.41|| oṃ aiṃ auṃ namaḥ || 41||
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat || 8.42|| oṃ aiṃ lhīṃ namaḥ || 42||
kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrūpāstatparākramāḥ || 8.43|| oṃ aiṃ ślrīṃ namaḥ || 43||
yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ || 8.44|| oṃ aiṃ yāṃ namaḥ || 44||
te cāpi yuyudhustatra puruṣā raktasambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇam || 8.45|| oṃ aiṃ thlīṃ namaḥ || 45||
punaśca vajrapātena kṣatamasya śiro yadā |
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ || 8.46|| oṃ aiṃ lhīṃ namaḥ || 46||
vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram || 8.47|| oṃ aiṃ glauṃ namaḥ || 47||
vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ || 8.48|| oṃ aiṃ hrauṃ namaḥ || 48||
śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram || 8.49|| oṃ aiṃ prāṃ namaḥ || 49||
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ || 8.50|| oṃ aiṃ krīṃ namaḥ || 50||
tasyāhatasya bahudhā śaktiśūlādibhirbhuvi |
papāta yo vai raktaughastenāsañchataśo'surāḥ || 8.51|| oṃ aiṃ klīṃ namaḥ || 51||
taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam || 8.52|| oṃ aiṃ nslūṃ namaḥ || 52||
tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram |
uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru || 8.53|| oṃ aiṃ hīṃ namaḥ || 53||
macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā || 8.54|| oṃ aiṃ hlauṃ namaḥ || 54||
bhakṣayantī cara raṇe tadutpannānmahāsurān |
evameṣa kṣayaṃ daityaḥ kṣeṇarakto gamiṣyati || 8.55|| oṃ aiṃ hraiṃ namaḥ || 55||
bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam || 8.56|| oṃ aiṃ bhraṃ namaḥ || 56||
mukhena kālī jagṛhe raktabījasya śoṇitam |
tato'sāvājaghānātha gadayā tatra caṇḍikām || 8.57|| oṃ aiṃ sauṃ namaḥ || 57||
na cāsyā vedanāṃ cakre gadāpāto'lpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam || 8.58|| oṃ aiṃ śrīṃ namaḥ || 58||
yatastatastadvaktreṇa cāmuṇḍā sampratīcchati |
mukhe samudgatā ye'syā raktapātānmahāsurāḥ || 8.59|| oṃ aiṃ sūṃ namaḥ || 59||
tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam |
devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ || 8.60|| oṃ aiṃ drauṃ namaḥ || 60||
jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam |
sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ || 8.61|| oṃ aiṃ ssrāṃ namaḥ || 61||
nīraktaśca mahīpāla raktabījo mahāsuraḥ |
tataste harṣamatulamavāpustridaśā nṛpa || 8.62|| oṃ aiṃ hslīṃ namaḥ || 62||
teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ || 8.63|| oṃ aiṃ sllrīṃ namaḥ || 63||
``oṃ śāṃ saṃ śrīṃ śraṃ aṃ aḥ klīṃ hlīṃ phaṭ svāhā || 8||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
raktabījavadho nāmāṣṭamo'dhyāyaḥ || 8||
uvāca 1, ardhaślokaḥ 1, ślokāḥ 61, evamāditaḥ || 502||
|| 9. niśumbhavadho nāma navamo'dhyāyaḥ ||
dhyānam |
oṃ bandhūkakāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇaminduśakalābharaṇaṃ trinetra-
mardhāmbikeśamaniśaṃ vapurāśrayāmi ||
oṃ rājovāca || 9.1|| oṃ aiṃ rauṃ namaḥ || 1||
vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ raktabījavadhāśritam || 9.2|| oṃ aiṃ klīṃ namaḥ || 2||
bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ || 9.3|| oṃ aiṃ mlauṃ namaḥ || 3||
ṛṣiruvāca || 9.4|| oṃ aiṃ śrauṃ namaḥ || 4||
cakāra kopamatulaṃ raktabīje nipātite |
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave || 9.5|| oṃ aiṃ glīṃ namaḥ || 5||
hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan |
abhyadhāvanniśumbho'tha mukhyayāsurasenayā || 9.6|| oṃ aiṃ hrauṃ namaḥ || 6||
tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ |
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ || 9.7|| oṃ aiṃ hsauṃ namaḥ || 7||
ājagāma mahāvīryaḥ śumbho'pi svabalairvṛtaḥ |
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddhaṃ tu mātṛbhiḥ || 9.8|| oṃ aiṃ īṃ namaḥ || 8||
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ |
śaravarṣamatīvograṃ meghayoriva varṣatoḥ || 9.9|| oṃ aiṃ vrūṃ (brūṃ) namaḥ || 9||
cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ |
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau || 9.10|| oṃ aiṃ śrāṃ namaḥ || 10||
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham |
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam || 9.11|| oṃ aiṃ lūṃ namaḥ || 11||
tāḍite vāhane devī kṣurapreṇāsimuttamam |
niśumbhasyāśu ciccheda carma cāpyaṣṭacandrakam || 9.12|| oṃ aiṃ āṃ namaḥ || 12||
chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so'suraḥ |
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām || 9.13|| oṃ aiṃ śrīṃ namaḥ || 13||
kopādhmāto niśumbho'tha śūlaṃ jagrāha dānavaḥ |
āyātaṃ muṣṭipātena devī taccāpyacūrṇayat || 9.14|| oṃ aiṃ krauṃ namaḥ || 14||
āvidyātha gadāṃ so'pi cikṣepa caṇḍikāṃ prati |
sāpi devyās triśūlena bhinnā bhasmatvamāgatā || 9.15|| oṃ aiṃ prūṃ namaḥ || 15||
tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavam |
āhatya devī bāṇaughairapātayata bhūtale || 9.16|| oṃ aiṃ klīṃ namaḥ || 16||
tasminnipatite bhūmau niśumbhe bhīmavikrame |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām || 9.17|| oṃ aiṃ bhraṃ namaḥ || 17||
sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ |
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ || 9.18|| oṃ aiṃ hrauṃ namaḥ || 18||
tamāyāntaṃ samālokya devī śaṅkhamavādayat |
jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥsaham || 9.19|| oṃ aiṃ krīṃ namaḥ || 19||
pūrayāmāsa kakubho nijaghaṇṭāsvanena ca |
samastadaityasainyānāṃ tejovadhavidhāyinā || 9.20|| oṃ aiṃ mlīṃ namaḥ || 20||
tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ |
pūrayāmāsa gaganaṃ gāṃ tathaiva diśo daśa || 9.21|| oṃ aiṃ glauṃ namaḥ || 21||
tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat |
karābhyāṃ tanninādena prāksvanāste tirohitāḥ || 9.22|| oṃ aiṃ hsūṃ namaḥ || 22||
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha |
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau || 9.23|| oṃ aiṃ lpīṃ namaḥ || 23||
durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā |
tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ || 9.24|| oṃ aiṃ hrauṃ namaḥ || 24||
śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā |
āyāntī vahnikūṭābhā sā nirastā maholkayā || 9.25|| oṃ aiṃ hsrāṃ namaḥ || 25||
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram |
nirghātaniḥsvano ghoro jitavānavanīpate || 9.26|| oṃ aiṃ shauṃ namaḥ || 26||
śumbhamuktāñcharāndevī śumbhastatprahitāñcharān |
ciccheda svaśarairugraiḥ śataśo'tha sahasraśaḥ || 9.27|| oṃ aiṃ llūṃ namaḥ || 27||
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam |
sa tadābhihato bhūmau mūrcchito nipapāta ha || 9.28|| oṃ aiṃ kslīṃ namaḥ || 28||
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ |
ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā || 9.29|| oṃ aiṃ śrīṃ namaḥ || 29||
punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ |
cakrāyudhena ditijaśchādayāmāsa caṇḍikām || 9.30|| oṃ aiṃ stūṃ namaḥ || 30||
tato bhagavatī kruddhā durgā durgārtināśinī |
ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān || 9.31|| oṃ aiṃ creṃ namaḥ || 31||
tato niśumbho vegena gadāmādāya caṇḍikām |
abhyadhāvata vai hantuṃ daityasainyasamāvṛtaḥ || 9.32|| oṃ aiṃ vīṃ namaḥ || 32||
tasyāpatata evāśu gadāṃ ciccheda caṇḍikā |
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade || 9.33|| oṃ aiṃ kṣlūṃ namaḥ || 33||
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam |
hṛdi vivyādha śūlena vegāviddhena caṇḍikā || 9.34|| oṃ aiṃ ślūṃ namaḥ || 34||
bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ |
mahābalo mahāvīryastiṣṭheti puruṣo vadan || 9.35|| oṃ aiṃ krūṃ namaḥ || 35||
tasya niṣkrāmato devī prahasya svanavattataḥ |
śiraściccheda khaḍgena tato'sāvapatadbhuvi || 9.36|| oṃ aiṃ krāṃ namaḥ || 36||
tataḥ siṃhaścakhādogradaṃṣṭrākṣuṇṇaśirodharān |
asurāṃstāṃstathā kālī śivadūtī tathāparān || 9.37|| oṃ aiṃ hrauṃ namaḥ || 37||
kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ |
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ || 9.38|| oṃ aiṃ krāṃ namaḥ || 38||
māheśvarītriśūlena bhinnāḥ petustathāpare |
vārāhītuṇḍaghātena keciccūrṇīkṛtā bhuvi || 9.39|| oṃ aiṃ skṣlīṃ namaḥ || 39||
khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ |
vajreṇa caindrīhastāgravimuktena tathāpare || 9.40|| oṃ aiṃ sūṃ namaḥ || 40||
kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt |
bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ || 9.41|| oṃ aiṃ phrūṃ namaḥ || 41||
``oṃ aiṃ hrīṃ śrīṃ sauṃ phaṭ svāhā || 9||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
niśumbhavadho nāma navamo'dhyāyaḥ || 9||
uvāca 2, ardhaślokāḥ 39, ślokāḥ 41, evamāditaḥ || 543||
|| 10. śumbhavadho nāma daśamo'dhyāyaḥ ||
dhyānam |
oṃ uttaptahemarucirāṃ ravicandravahni-
netrāṃ dhanuśśarayutāṅkuśapāśaśūlam |
ramyairbhujaiśca dadhatīṃ śivaśaktirūpāṃ
kāmeśvarīṃ hṛdi bhajāmi dhṛtendulekhām ||
oṃ ṛṣiruvāca || 10.1|| oṃ aiṃ śrauṃ namaḥ || 1||
niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasammitam |
hanyamānaṃ balaṃ caiva śumbhaḥ kruddho'bravīdvacaḥ || 10.2|| oṃ aiṃ hrīṃ namaḥ || 2||
balāvalepaduṣṭe tvaṃ mā durge garvamāvaha |
anyāsāṃ balamāśritya yuddhyase cātimāninī || 10.3|| oṃ aiṃ blūṃ namaḥ || 3||
devyuvāca || 10.4|| oṃ aiṃ hrīṃ namaḥ || 4||
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā |
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ || 10.5|| oṃ aiṃ mlūṃ namaḥ || 5||
tataḥ samastāstā devyo brahmāṇīpramukhā layam |
tasyā devyāstanau jagmurekaivāsīttadāmbikā || 10.6|| oṃ aiṃ śrauṃ namaḥ || 6||
devyuvāca || 10.7|| oṃ aiṃ hrīṃ namaḥ || 7||
ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā |
tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava || 10.8|| oṃ aiṃ glīṃ namaḥ || 8||
ṛṣiruvāca || 10.9|| oṃ aiṃ śrauṃ namaḥ || 9||
tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ |
paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam || 10.10|| oṃ aiṃ dhrūṃ namaḥ || 10||
śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ |
tayoryuddhamabhūdbhūyaḥ sarvalokabhayaṅkaram || 10.11|| oṃ aiṃ huṃ namaḥ || 11||
divyānyastrāṇi śataśo mumuce yānyathāmbikā |
babhañja tāni daityendrastatpratīghātakartṛbhiḥ || 10.12|| oṃ aiṃ drauṃ namaḥ || 12||
muktāni tena cāstrāṇi divyāni parameśvarī |
babhañja līlayaivograhuṅkāroccāraṇādibhiḥ || 10.13|| oṃ aiṃ śrīṃ namaḥ || 13||
tataḥ śaraśatairdevīmācchādayata so'suraḥ |
sāpi tatkupitā devī dhanuściccheda ceṣubhiḥ || 10.14|| oṃ aiṃ trūṃ (śrūṃ) namaḥ || 14||
chinne dhanuṣi daityendrastathā śaktimathādade |
ciccheda devī cakreṇa tāmapyasya kare sthitām || 10.15|| oṃ aiṃ vrūṃ (brūṃ) namaḥ || 15||
tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat |
abhyadhā vata tāṃ devīṃ daityānāmadhipeśvaraḥ || 10.16|| oṃ aiṃ phreṃ namaḥ || 16||
tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā |
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam |
aśvāṃśca pātayāmāsa rathaṃ sārathinā saha || ( missing line and not taken in count below) 10.17|| oṃ aiṃ hrāṃ namaḥ || 17||
hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ |
jagrāha mudgaraṃ ghoramambikānidhanodyataḥ || 10.18|| oṃ aiṃ juṃ namaḥ || 18||
cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ |
tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān || 10.19|| oṃ aiṃ srauṃ namaḥ || 19||
sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ |
devyāstaṃ cāpi sā devī talenorasyatāḍayat || 10.20|| oṃ aiṃ slūṃ namaḥ || 20||
talaprahārābhihato nipapāta mahītale |
sa daityarājaḥ sahasā punareva tathotthitaḥ || 10.21|| oṃ aiṃ preṃ namaḥ || 21||
utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ |
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā || 10.22|| oṃ aiṃ hsvāṃ namaḥ || 22||
niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam |
cakratuḥ prathamaṃ siddhamunivismayakārakam || 10.23|| oṃ aiṃ prīṃ namaḥ || 23||
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha |
utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale || (utpātya) 10.24|| oṃ aiṃ phrāṃ namaḥ || 24||
sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegavān |
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā || 10.25|| oṃ aiṃ krīṃ namaḥ || 25||
tamāyāntaṃ tato devī sarvadaityajaneśvaram |
jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi || 10.26|| oṃ aiṃ śrīṃ namaḥ || 26||
sa gatāsuḥ papātorvyāṃ devī śūlāgravikṣataḥ |
cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām || 10.27|| oṃ aiṃ krāṃ namaḥ || 27||
tataḥ prasannamakhilaṃ hate tasmin durātmani |
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ || 10.28|| oṃ aiṃ saḥ namaḥ || 28||
utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ |
sarito mārgavāhinyastathāsaṃstatra pātite || 10.29|| oṃ aiṃ klīṃ namaḥ || 29||
tato devagaṇāḥ sarve harṣanirbharamānasāḥ |
babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ || 10.30|| oṃ aiṃ vreṃ namaḥ || 30||
avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ |
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ || 10.31|| oṃ aiṃ īṃ namaḥ || 31||
jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ || 10.32|| oṃ aiṃ jshlrāṃ namaḥ || 32|| (var includes both oṃ aiṃ jshlrāṃ namaḥ | oṃ aiṃ ñshlīṃ namaḥ) || 33||
``oṃ aiṃ hrīṃ namaḥ klīṃ hrīṃ phaṭ svāhā || 10||(oṃ aiṃ hrīṃ namaḥ klīṃ hnīṃ phaṭ svāhā)''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śumbhavadho nāma daśamo'dhyāyaḥ || 10||
uvāca 4, ardhaślokaḥ 1, ślokāḥ 27, evamāditaḥ || 575||
|| nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ ||
dhyānam |
oṃ bālaravidyutimindukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśābhītikarāṃ prabhaje bhuvaneśīm ||
oṃ ṛṣiruvāca || 11.1|| oṃ aiṃ śrauṃ namaḥ || 1||
devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām |
kātyāyanīṃ tuṣṭuvuriṣṭalābhād
vikāśivaktrābjavikāśitāśāḥ || 11.2|| oṃ aiṃ krūṃ namaḥ || 2||
devi prapannārtihare prasīda
prasīda mātarjagato'khilasya |
prasīda viśveśvari pāhi viśvaṃ
tvamīśvarī devi carācarasya || 11.3|| oṃ aiṃ śrīṃ namaḥ || 3||
ādhārabhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi |
apāṃ svarūpasthitayā tvayaita-
dāpyāyate kṛtsnamalaṅghyavīrye || 11.4|| oṃ aiṃ llīṃ namaḥ || 4||
tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā |
sammohitaṃ devi samastametat
tvaṃ vai prasannā bhuvi muktihetuḥ || 11.5|| oṃ aiṃ preṃ namaḥ || 5||
vidyāḥ samastāstava devi bhedāḥ
striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūritamambayaitat
kā te stutiḥ stavyaparāparoktiḥ || 11.6|| oṃ aiṃ sauṃ namaḥ || 6||
sarvabhūtā yadā devī bhuktimuktipradāyinī |
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ || 11.7|| oṃ aiṃ shauṃ namaḥ || 7||
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite |
svargāpavargade devi nārāyaṇi namo'stu te || 11.8|| oṃ aiṃ śrūṃ namaḥ || 8||
kalākāṣṭhādirūpeṇa pariṇāmapradāyini |
viśvasyoparatau śakte nārāyaṇi namo'stu te || 11.9|| oṃ aiṃ klīṃ namaḥ || 9||
sarvamaṅgalamāṅgalye śive sarvārthasādhike |
śaraṇye tryambake gauri nārāyaṇi namo'stu te || 11.10|| oṃ aiṃ sklīṃ namaḥ || 10||
sṛṣṭisthitivināśānāṃ śaktibhūte sanātani |
guṇāśraye guṇamaye nārāyaṇi namo'stu te || 11.11|| oṃ aiṃ prīṃ namaḥ || 11||
śaraṇāgatadīnārtaparitrāṇaparāyaṇe |
sarvasyārtihare devi nārāyaṇi namo'stu te || 11.12|| oṃ aiṃ glauṃ namaḥ || 12||
haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarike devi nārāyaṇi namo'stu te || 11.13|| oṃ aiṃ hshrīṃ (' ', hhrīṃ) namaḥ || 13||
triśūlacandrāhidhare mahāvṛṣabhavāhini |
māheśvarīsvarūpeṇa nārāyaṇi namo'stute || 11.14|| oṃ aiṃ stauṃ namaḥ || 14||
mayūrakukkuṭavṛte mahāśaktidhare'naghe |
kaumārīrūpasaṃsthāne nārāyaṇi namo'stu te || 11.15|| oṃ aiṃ klīṃ namaḥ || 15||
śaṅkhacakragadāśārṅgagṛhītaparamāyudhe |
prasīda vaiṣṇavīrūpe nārāyaṇi namo'stu te || 11.16|| oṃ aiṃ mlīṃ namaḥ || 16||
gṛhītogramahācakre daṃṣṭroddhṛtavasundhare |
varāharūpiṇi śive nārāyaṇi namo'stu te || 11.17|| oṃ aiṃ stūṃ namaḥ || 17||
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame |
trailokyatrāṇasahite nārāyaṇi namo'stu te || 11.18|| oṃ aiṃ jshnīṃ (jshrīṃ) namaḥ || 18||
kirīṭini mahāvajre sahasranayanojjvale |
vṛtraprāṇahare caindri nārāyaṇi namo'stu te || 11.19|| oṃ aiṃ phrūṃ namaḥ || 19||
śivadūtīsvarūpeṇa hatadaityamahābale |
ghorarūpe mahārāve nārāyaṇi namo'stu te || 11.20|| oṃ aiṃ krūṃ namaḥ || 20||
daṃṣṭrākarālavadane śiromālāvibhūṣaṇe |
cāmuṇḍe muṇḍamathane nārāyaṇi namo'stu te || 11.21|| oṃ aiṃ hrīṃ namaḥ || 21||
lakṣmi lajje mahāvidye śraddhe puṣṭi svadhe dhruve |
mahārātri mahāmāye nārāyaṇi namo'stu te || 11.22|| oṃ aiṃ llūṃ namaḥ || 22||
medhe sarasvati vare bhūti bābhravi tāmasi |
niyate tvaṃ prasīdeśe nārāyaṇi namo'stute || 11.23|| oṃ aiṃ kṣmrīṃ namaḥ || 23||
sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge devi namo'stu te || 11.24|| oṃ aiṃ śrūṃ namaḥ || 24||
etatte vadanaṃ saumyaṃ locanatrayabhūṣitam |
pātu naḥ sarvabhūtebhyaḥ kātyāyani namo'stu te || 11.25|| oṃ aiṃ iṃ namaḥ || 25||
jvālākarālamatyugramaśeṣāsurasūdanam |
triśūlaṃ pātu no bhīterbhadrakāli namo'stu te || 11.26|| oṃ aiṃ juṃ namaḥ || 26||
hinasti daityatejāṃsi svanenāpūrya yā jagat |
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva || 11.27|| oṃ aiṃ traiṃ namaḥ || 27||
asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ |
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam || 11.28|| oṃ aiṃ drūṃ namaḥ || 28||
rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti || 11.29|| oṃ aiṃ hrauṃ namaḥ || 29||
etatkṛtaṃ yatkadanaṃ tvayādya
dharmadviṣāṃ devi mahāsurāṇām |
rūpairanekairbahudhātmamūrtiṃ
kṛtvāmbike tatprakaroti kānyā || 11.30|| oṃ aiṃ klīṃ namaḥ || 30||
vidyāsu śāstreṣu vivekadīpe-
ṣvādyeṣu vākyeṣu ca kā tvadanyā |
mamatvagarte'timahāndhakāre
vibhrāmayatyetadatīva viśvam || 11.31|| oṃ aiṃ sūṃ namaḥ || 31||
rakṣāṃsi yatrograviṣāśca nāgā
yatrārayo dasyubalāni yatra |
dāvānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam || 11.32|| oṃ aiṃ hauṃ namaḥ || 32||
viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīha viśvam |
viśveśavandyā bhavatī bhavanti
viśvāśrayā ye tvayi bhaktinamrāḥ || 11.33|| oṃ aiṃ mvraṃ (śvraṃ) namaḥ || 33||
devi prasīda paripālaya no'ribhīte-
rnityaṃ yathāsuravadhādadhunaiva sadyaḥ |
pāpāni sarvajagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān || 11.34|| oṃ aiṃ vrūṃ namaḥ || 34||
praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇi |
trailokyavāsināmīḍye lokānāṃ varadā bhava || 11.35|| oṃ aiṃ phāṃ namaḥ || 35||
devyuvāca || 11.36|| oṃ aiṃ hrīṃ namaḥ || 36||
varadāhaṃ suragaṇā varaṃ yanmanasecchatha |
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam || 11.37|| oṃ aiṃ laṃ namaḥ || 37||
devā ūcuḥ || 11.38|| oṃ aiṃ h sauṃ (hsāṃ) namaḥ || 38||
sarvābādhāpraśamanaṃ trailokyasyākhileśvari |
evameva tvayā kāryamasmadvairivināśanam || 11.39|| oṃ aiṃ seṃ namaḥ || 39||
devyuvāca || 11.40|| oṃ aiṃ hrīṃ namaḥ || 40||
vaivasvate'ntare prāpte aṣṭāviṃśatime yuge |
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau || 11.41|| oṃ aiṃ hrauṃ namaḥ || 41||
nandagopagṛhe jātā yaśodāgarbhasambhavā |
tatastau nāśayiṣyāmi vindhyācalanivāsinī || 11.42|| oṃ aiṃ viṃ namaḥ || 42||
punarapyatiraudreṇa rūpeṇa pṛthivītale |
avatīrya haniṣyāmi vaipracittāṃśca dānavān || 11.43|| oṃ aiṃ plīṃ namaḥ || 43||
bhakṣayantyāśca tānugrān vaipracittān mahāsurān |
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ || 11.44|| oṃ aiṃ kṣmklīṃ namaḥ || 44||
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ |
stuvanto vyāhariṣyanti satataṃ raktadantikām || 11.45|| oṃ aiṃ tsrāṃ namaḥ || 45||
bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi |
munibhiḥ saṃsmṛtā bhūmau sambhaviṣyāmyayonijā || 11.46|| oṃ aiṃ praṃ namaḥ || 46||
tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn |
kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ || 11.47|| oṃ aiṃ mlīṃ namaḥ || 47||
tato'hamakhilaṃ lokamātmadehasamudbhavaiḥ |
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ || 11.48|| oṃ aiṃ srūṃ namaḥ || 48||
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi |
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram || 11.49|| oṃ aiṃ kṣmāṃ namaḥ || 49||
durgādevīti vikhyātaṃ tanme nāma bhaviṣyati |
punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale || 11.50|| oṃ aiṃ stūṃ namaḥ || 50||
rakṣāṃsi bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt |
tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ || 11.51|| oṃ aiṃ shrīṃ namaḥ || 51||
bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati |
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati || 11.52|| oṃ aiṃ thprīṃ namaḥ || 52||
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṅkhyeyaṣaṭpadam |
trailokyasya hitārthāya vadhiṣyāmi mahāsuram || 11.53|| oṃ aiṃ krauṃ namaḥ || 53||
bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ |
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati || 11.54|| oṃ aiṃ śrāṃ namaḥ || 54||
tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam || 11.55|| oṃ aiṃ mlīṃ namaḥ || 55||
``oṃ aiṃ hrīṃ klīṃ śrīṃ sauṃ namaḥ phaṭ svāhā || 11||(oṃ hrīṃ klīṃ śrīṃ sauṃ namaḥ phaṭ svāhā)''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ || 11||
uvāca 4, ardhaślokaḥ 1, ślokāḥ 50, evamāditaḥ || 630||
|| 12. bhagavatī vākyaṃ dvādaśo'dhyāyaḥ ||
dhyānam |
oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
vibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||
oṃ devyuvāca || 12.1|| oṃ aiṃ hrīṃ namaḥ || 1||
ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ |
tasyāhaṃ sakalāṃ bādhāṃ śamayiṣyāmyasaṃśayam || 12.2|| oṃ aiṃ oṃ namaḥ || 2||
madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam |
kīrtayiṣyanti ye tadvadvadhaṃ śumbhaniśumbhayoḥ || 12.3|| oṃ aiṃ śrīṃ namaḥ || 3||
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ |
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam || 12.4|| oṃ aiṃ īṃ namaḥ || 4||
na teṣāṃ duṣkṛtaṃ kiñcidduṣkṛtotthā na cāpadaḥ |
bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam || 12.5|| oṃ aiṃ klīṃ namaḥ || 5||
śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ |
na śastrānalatoyaughāt kadācit sambhaviṣyati || 12.6|| oṃ aiṃ krūṃ namaḥ || 6||
tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ |
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ mahat || 12.7|| oṃ aiṃ śrūṃ namaḥ || 7||
upasargānaśeṣāṃstu mahāmārīsamudbhavān |
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama || 12.8|| oṃ aiṃ prāṃ namaḥ || 8||
yatraitatpaṭhyate samyaṅnityamāyatane mama |
sadā na tadvimokṣyāmi sānnidhyaṃ tatra me sthitam || 12.9|| oṃ aiṃ krūṃ namaḥ || 9||
balipradāne pūjāyāmagnikārye mahotsave |
sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyameva ca || 12.10|| oṃ aiṃ diṃ namaḥ || 10||
jānatājānatā vāpi balipūjāṃ yathā kṛtām |
pratīkṣiṣyāmyahaṃ prītyā vahnihomaṃ tathākṛtam || 12.11|| oṃ aiṃ phreṃ namaḥ || 11||
śaratkāle mahāpūjā kriyate yā ca vārṣikī |
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ || 12.12|| oṃ aiṃ haṃ namaḥ || 12||
sarvābādhāvinirmukto dhanadhānyasamanvitaḥ |
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ || 12.13|| oṃ aiṃ saḥ namaḥ || 13||
śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ |
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān || 12.14|| oṃ aiṃ ceṃ namaḥ || 14||
ripavaḥ saṅkṣayaṃ yānti kalyāṇaṃ copapadyate |
nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śaṛṇvatām || 12.15|| oṃ aiṃ sūṃ namaḥ || 15||
śāntikarmaṇi sarvatra tathā duḥsvapnadarśane |
grahapīḍāsu cogrāsu māhātmyaṃ śaṛṇuyānmama || 12.16|| oṃ aiṃ prīṃ namaḥ || 16||
upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ |
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate || 12.17|| oṃ aiṃ vlūṃ namaḥ || 17||
bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam |
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam || 12.18|| oṃ aiṃ āṃ namaḥ || 18||
durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param |
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam || 12.19|| oṃ aiṃ auṃ namaḥ || 19||
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam |
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ || 12.20|| oṃ aiṃ hrīṃ namaḥ || 20||
viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam |
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā || 12.21|| oṃ aiṃ krīṃ namaḥ || 21||
prītirme kriyate sāsmin sakṛduccarite śrute |
śrutaṃ harati pāpāni tathārogyaṃ prayacchati || 12.22|| oṃ aiṃ drāṃ namaḥ || 22||
rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama |
yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam || 12.23|| oṃ aiṃ śrīṃ namaḥ || 23||
tasmiñchrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate |
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ || 12.24|| oṃ aiṃ slīṃ namaḥ || 24||
brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim |
araṇye prāntare vāpi dāvāgniparivāritaḥ || 12.25|| oṃ aiṃ klīṃ namaḥ || 25||
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ |
siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ || 12.26|| oṃ aiṃ slūṃ namaḥ || 26||
rājñā kruddhena cājñapto vadhyo bandhagato'pi vā |
āghūrṇito vā vātena sthitaḥ pote mahārṇave || 12.27|| oṃ aiṃ hrīṃ namaḥ || 27||
patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe |
sarvābādhāsu ghorāsu vedanābhyardito'pi vā || 12.28|| oṃ aiṃ vlīṃ (blīṃ) namaḥ || 28||
smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt |
mama prabhāvātsiṃhādyā dasyavo vairiṇastathā || 12.29|| oṃ aiṃ troṃ namaḥ || 29||
dūrādeva palāyante smarataścaritaṃ mama || 12.30|| oṃ aiṃ oṃ namaḥ || 30||
ṛṣiruvāca || 12.31|| oṃ aiṃ śrauṃ namaḥ || 31||
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā || 12.32|| oṃ aiṃ aiṃ namaḥ || 32||
paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata |
te'pi devā nirātaṅkāḥ svādhikārānyathā purā || 12.33|| oṃ aiṃ preṃ namaḥ || 33||
yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ |
daityāśca devyā nihate śumbhe devaripau yudhi || 12.34|| oṃ aiṃ drūṃ namaḥ || 34||
jagadvidhvaṃsake tasmin mahogre'tulavikrame |
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ || 12.35|| oṃ aiṃ klūṃ namaḥ || 35||
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ |
sambhūya kurute bhūpa jagataḥ paripālanam || 12.36|| oṃ aiṃ auṃ namaḥ || 36||
tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate |
sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati || 12.37|| oṃ aiṃ sūṃ namaḥ || 37||
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara |
mahādevyā mahākālī mahāmārīsvarūpayā || 12.38|| oṃ aiṃ ceṃ namaḥ || 38||
saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā |
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī || 12.39|| oṃ aiṃ haiṃ namaḥ || 39||
bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe |
saivābhāve tathālakṣmīrvināśāyopajāyate || 12.40|| oṃ aiṃ plīṃ namaḥ || 40||
stutā sampūjitā puṣpairgandhadhūpādibhistathā |
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām || 12.41|| oṃ aiṃ kṣāṃ namaḥ || 41||
``oṃ yaṃ yaṃ yaṃ raṃ raṃ raṃ ṭhaṃ ṭhaṃ ṭhaṃ phaṭ svāhā || 12||''
(havanamaṃtra)
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
bhagavatī vākyaṃ dvādaśo'dhyāyaḥ || 12||
uvāca 2, ardhaślokau 2, ślokāḥ 37, evamāditaḥ || 671||
|| 13. surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ ||
dhyānam |
oṃ bālārkamaṇḍalābhāsāṃ caturbāhuṃ trilocanām |
pāśāṅkuśavarābhītirdhārayantīṃ śivāṃ bhaje ||
oṃ ṛṣiruvāca || 13.1|| oṃ aiṃ śrauṃ namaḥ || 1||
etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evaṃ prabhāvā sā devī yayedaṃ dhāryate jagat || 13.2|| oṃ aiṃ vrīṃ namaḥ || 2||
vidyā tathaiva kriyate bhagavadviṣṇumāyayā |
tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ || 13.3|| oṃ aiṃ oṃ namaḥ || 3||
mohyante mohitāścaiva mohameṣyanti cāpare |
tāmupaihi mahārāja śaraṇaṃ parameśvarīm || 13.4|| oṃ aiṃ auṃ namaḥ || 4||
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā || 13.5|| oṃ aiṃ hrāṃ namaḥ || 5||
mārkaṇḍeya uvāca || 13.6|| oṃ aiṃ śrīṃ namaḥ || 6||
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ || 13.7|| oṃ aiṃ śrāṃ namaḥ || 7||
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam |
nirviṇṇo'timamatvena rājyāpaharaṇena ca || 13.8|| oṃ aiṃ oṃ namaḥ || 8||
jagāma sadyastapase sa ca vaiśyo mahāmune |
sandarśanārthamambāyā nadīpulinamāsthitaḥ || 13.9|| oṃ aiṃ plīṃ namaḥ || 9||
sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan |
tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm || 13.10|| oṃ aiṃ sauṃ namaḥ || 10||
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ |
nirāhārau yatātmānau tanmanaskau samāhitau || 13.11|| oṃ aiṃ hrīṃ namaḥ || 11||
dadatustau baliṃ caiva nijagātrāsṛgukṣitam |
evaṃ samārādhayatostribhirvarṣairyatātmanoḥ || 13.12|| oṃ aiṃ krīṃ namaḥ || 12||
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā || 13.13|| oṃ aiṃ llūṃ namaḥ || 13||
devyuvāca || 13.14|| oṃ aiṃ klīṃ namaḥ || 14||
yatprārthyate tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite || 13.15|| oṃ aiṃ hrīṃ namaḥ || 15||
mārkaṇḍeya uvāca || 13.16|| oṃ aiṃ plīṃ namaḥ || 16||
tato vavre nṛpo rājyamavibhraṃśyanyajanmani |
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt || 13.17|| oṃ aiṃ śrīṃ namaḥ || 17||
so'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ |
mametyahamiti prājñaḥ saṅgavicyutikārakam || 13.18|| oṃ aiṃ llīṃ namaḥ || 18||
devyuvāca || 13.19|| oṃ aiṃ śrūṃ namaḥ || 19||
svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān || 13.20|| oṃ aiṃ hrīṃ namaḥ || 20||
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati || 13.21|| oṃ aiṃ trūṃ namaḥ || 21||
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ || 13.22|| oṃ aiṃ hū~ (hūṃ, hrīṃ) namaḥ || 22||
sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati || 13.23|| oṃ aiṃ hrāṃ (prīṃ) namaḥ || 23||
vaiśyavarya tvayā yaśca varo'smatto'bhivāñchitaḥ || 13.24|| oṃ aiṃ prīṃ (oṃ) namaḥ || 24||
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati || 13.25|| oṃ aiṃ oṃ (sūṃ) namaḥ || 25||
mārkaṇḍeya uvāca || 13.26|| oṃ aiṃ sūṃ (śrīṃ) namaḥ || 26||
iti dattvā tayordevī yathābhilaṣitaṃ varam || 13.27|| oṃ aiṃ hlauṃ namaḥ || 27||
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā |
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 13.28|| oṃ aiṃ yauṃ namaḥ || 28||
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 13.29|| oṃ aiṃ āṃ lhīṃ (oṃ) namaḥ || 29||
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ |
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 13.30|| oṃ aiṃ oṃ namaḥ || 30||
| klīṃ oṃ |
``aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce''
(havana kā bījamantra upalabdha nahī hai | ataḥ yahā~ navārṇamantra se havana kiyā jā sakatā hai |
oṃ ambe ambike ambālike na mānayati kaścan |
sasastyaśvakaḥ subhadrikāṃ kāmpīlavāsinīṃ namaḥ ||
oṃ sāṅgāyai saparivārāyai savāhanāyai sarvāyudhāyai
kāmabījādhiṣṭhātryai mahāsarasvatyai mahāhutiṃsamarpayāmi namaḥ svāhā ||
Variation shloka
oṃ klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai
kāmabījādhiṣṭhātryai mahāsarasvtyai namaḥ ahamāhuti samarpayāmi svāhā ||
|| svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ || 13||
uvāca 6, ardhaślokāḥ 11, ślokāḥ 12, evamāditaḥ || 700||
samastā uvācamantrāḥ 57, ardhaślokāḥ 42, ślokāḥ 535, avadānāni 66||
|| iti tantrarūpeṇapariṇatāśrītantradurgāsaptaśatīdevīmāhātmyaṃ samāptam ||
|| oṃ tat sat oṃ ||
isa prakāra śrītantradurgāsaptaśatī kā pāṭha purā hone para prathama navarṇamantra kā japa karake paścāt tāntrika devī sūkta kā pāṭha kare | sabhī kārya navārṇa mantra ke nyāsa ādi tathā saptaśatī nyāsa ādi pāṭha ārambha ke pūrva kī taraha hoṃge |
iti śrī bījātmaka tantra durgā saptaśatī sampūrṇā ||
|| atha navārṇamantrajapavidhiḥ ||
|| viniyogaḥ ||
śrīgaṇapatirjayati |
oṃ asya navārṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ,
gāyatryuṣṇiganuṣṭubhaśchadāṃsi,
śrīmahākālī mahālakṣmī mahāsarasvatyo devatāḥ,
aiṃ bījam,
hrīṃ śaktiḥ,
klīṃ kīlakam,
śrīmahākālī mahālakṣmī mahāsarasvatī prītyarthe jape viniyogaḥ |
|| ṛṣyādinyāsaḥ ||
brahmaviṣṇurudraṝṣibhyo namaḥ, śirasi |
gāyatryuṣṇiganuṣṭupchandobhyo namaḥ, mukhe |
mahākālī mahālakṣmī mahāsarasvatī devatābhyo namaḥ, hṛdi |
aiṃ bījāya namaḥ, guhye |
hrīṃ śaktaye namaḥ, pādayoḥ |
klīṃ kīlakāya namaḥ, nābhau |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce, sarvāṅge, iti mūlenakarau saṃśodhya....
|| karanyāsaḥ ||
oṃ aiṃ aṅguṣṭhābhyāṃ namaḥ | (donoṃ hāthoṃ ke tarjanī a~guliyoṃ se donoṃ a~guṭhoṃ kā sparśa)
oṃ hrīṃ tarjanībhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ tarjanī a~guliyoṃ kā sparśa)
oṃ klīṃ madhyamābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ mādhyamā a~guliyoṃ kā sparśa)
oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ anāmikā a~guliyoṃ kā sparśa)
oṃ vicce kaniṣṭhikābhyāṃ namaḥ | (donoṃ hāthoṃ ke a~gūṭhoṃ se donoṃ kaniṣṭhakā a~guliyoṃ kā sparśa)
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce karatala karapṛṣṭhābhyāṃ namaḥ | (hatheliṃyoṃ aura unake pṛṣṭha bhāgoṃ kā paraspara sparśa)
|| hṛdayādinyāsaḥ ||
isameṃ dāhine hātha kī pā~coṃ a~guliyoṃ se hṛdaya ādi aṅgoṃ kā sparśa kiyā jātā hai |
oṃ aiṃ hṛdayāya namaḥ | (dāhine hātha kī pā~coṃ a~guliyoṃ se hṛdaya kā sparśa)
oṃ hrīṃ śirase svāhā | (sira kā sparśa)
oṃ klīṃ śikhāyai vaṣaṭ | (śikhā kā sparśa)
oṃ cāmuṇḍāyai kavacāya hum | (dāhine hātha kī a~guliyoṃ se bāyeṃ kandhe kā aura bā~yeṃ hātha kī aṅguliyoṃ se dāhine kandhe kā sātha hī sparśa)
oṃ vicce netratrayāya vauṣaṭ | (dāhine hātha kī a~guliyoṃ ke agra bhāga se donoṃ netroṃ aura lalāṭa ke madhya bhāga kā sparśa)
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce astrāya phaṭ |
|| akṣaranyāsaḥ ||
nimnāṅkita vākyoṃ ko paḍha़kara kramaśaḥ śikhā ādi kā dāhine hātha kī aṅguliyoṃ se sparśa kare |
oṃ aiṃ namaḥ śikhāyām |
oṃ hrīṃ namaḥ dakṣiṇanetre |
oṃ klīṃ namaḥ vāmanetre |
oṃ cāṃ namaḥ dakṣiṇakarṇe |
oṃ muṃ namaḥ vāmakarṇe |
oṃ ḍāṃ namaḥ dakṣiṇanāsāpuṭe |
oṃ yaiṃ namaḥ vāmanāsāpuṭe |
oṃ viṃ namaḥ mukhe |
oṃ cceṃ namaḥ guhye |
|| diṅnyāsaḥ ||
oṃ aiṃ prācyai namaḥ |
oṃ aiṃ āgneyyai namaḥ |
oṃ hrīṃ dakṣiṇāyai namaḥ |
oṃ hrīṃ nairṝtyai namaḥ |
oṃ klīṃ pratīcyai namaḥ |
oṃ klīṃ vāyavyai namaḥ |
oṃ cāmuṇḍāyai udīcyai namaḥ |
oṃ cāmuṇḍāyai aiśānyai namaḥ |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ūrdhvāyai namaḥ |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |
|| dhyānaṃ ||
mahākālī -
khaḍgañcakragadeṣu cāpaparighāñchūlambhuśuṇḍīṃ śiraḥ
śaṅkhaṃsandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite haraukamalajo hantummadhuṅkaiṭabham || 1||
mahālakṣmī -
akṣasrakparaśuṃ gadeṣukuliśaṃ padmandhanuṣkuṇḍikāṃ (padmandhanuḥkuṇḍikāṃ)
daṇḍaṃśaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām || 2||
mahāsarasvatī -
ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm || 3||
saṅketa - isa prakāra nyāsa aura dhyāna karake mānasika upacāra se devī kī pūjā kare | paścāt 108 yā 1008 bāra navārṇa mantra kā japa karanā cāhiye | japa karane ke pahale hī ``aiṃ hrīṃ akṣamālikāyai namaḥ'' isa mantra se mālā kī pūjā karake nimnalikhita mantroṃ se mālā kī prārthanā kareṃ-
oṃ māṃ māle mahāmāye sarvaśakti svarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava || 1||
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇekare |
japakāle ca siddhyarthaṃ prasīda mama siddhaye || 2||
oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ||
isa prakāra prārthanā karake japa ārambha kare | japa pūrā karake japa ko bhagavatī ko samarpita karate huye kahe |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādān maheśvari ||
paścāt nīce likhe anusāra saptaśatī kā nyāsa kare |
|| itinavārṇajapavidhiḥ samāptaḥ ||
athatantradurgāsaptaśatīnyāsaḥ
|| karanyāsaḥ ||
oṃ hrīṃ aṅguṣṭhābhyāṃ namaḥ |
oṃ caṃ tarjanībhyāṃ namaḥ |
oṃ ḍiṃ madhyamābhyāṃ namaḥ |
oṃ kāṃ anāmikābhyāṃ namaḥ |
oṃ yaiṃ kaniṣṭhakābhyāṃ namaḥ |
oṃ hrīṃ caṇḍikāyai karatalakarapṛṣṭhābhyāṃ namaḥ |
|| hṛdayādinyāsaḥ ||
oṃ aiṃ slūṃ namaḥ khaḍginīśūlinīghorā cakriṇī gadinītathā |
oṃ aiṃ noṃ namaḥ śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā || hṛdayāya namaḥ |
oṃ aiṃ phraiṃ namaḥ oṃ śūlenapāhi no devi pāhikhaḍgenacāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca || śirase svāhā |
oṃ aiṃ krīṃ namaḥ oṃ prācyāṃrakṣa pratīcyāñca caṇḍikerakṣa dakṣiṇeṃ |
bhrāmaṇenātmaśūlasya uttarasyāntatheśvari || śikhāyai vaṣaṭ |
oṃ aiṃ mlūṃ namaḥ oṃ saumyāniyānirūpāṇi trailokyevicarantite |
yāni cātyarthaghorāṇi tairakṣāsmā~stathā bhuvam || kavacāyahum |
oṃ aiṃ ghreṃ namaḥ oṃ khaḍgaśūlagadādīni yānicāstrāṇite'mbike |
karapallavasaṅgīni tairasmān rakṣasarvataḥ || netratrayāyavauṣaṭ |
oṃ aiṃ śrūṃ namaḥ oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge devi namo'stute || astrāya phaṭ |
|| dhyānaṃ ||
vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥkaravālakheṭavilasaddhastābhirāsevitām ||
hastaiścakragadāsikheṭaviśikhāṃ ścāpaṃ guṇaṃ tarjanīṃ
vibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||
artha - jinake aṅgoṃ kī śobhā bijalī ke samāna haiṃ, jo siṃha kī savarī para baiṭhīṃ huīṃ bhayaṅkara pratīta hotī hai, hāthoṃ meṃ talavāra va ḍhāla liye aisī aneka kanyāyeṃ jinakī sevā meṃ khaḍa़ī haiṃ, jo apane hāthoṃ meṃ cakra-gadā-talavāra-ḍhāla-bāṇa-dhanuṣa-pāśa aura tarjanīmudrā dhāraṇa kiye huye haiṃ, jinakā svarūpa agnimaya haiṃ, tathā jinake māthe para candramā kā mukuṭa śobhā pā rahā hai, aisī tīna netravālī śrī durgā devī kā dhyāna karatā (yā karatī) hū~ |
isa prakāra śrī durgā devī kā dhyāna karake āge likhā tantra rūpa devī sūkta kā pāṭha kareṃ |
|| tantrarūpadevīsūktam ||
devā ūcuḥ || 5.8|| oṃ aiṃ hsoṃ (hsauṃ) namaḥ || 1||
namo devyai mahādevyai śivāyai satataṃ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 5.9|| oṃ aiṃ hrīṃ namaḥ || 2||
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ || 5.10|| oṃ aiṃ śrīṃ namaḥ || 3||
kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ |
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ || 5.11|| oṃ aiṃ hūṃ namaḥ || 4||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ || 5.12|| oṃ aiṃ klīṃ namaḥ || 5||
atisaumyātiraudrāyai natāstasyai namo namaḥ |
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ || 5.13|| oṃ aiṃ rauṃ namaḥ || 6||
yā devī sarvabhūteṣu viṣṇumāyeti śabditā |
namastasyai namastasyai namastasyai namo namaḥ || 5.14-16|| oṃ aiṃ strīṃ namaḥ || 7|| oṃ aiṃ mlīṃ namaḥ || 8|| oṃ aiṃ plūṃ namaḥ || 9||
yā devī sarvabhūteṣu cetanetyabhidhīyate |
namastasyai namastasyai namastasyai namo namaḥ || 5.17-19|| oṃ aiṃ shauṃ (shāṃ) namaḥ || 10|| oṃ aiṃ strīṃ namaḥ || 11|| oṃ aiṃ glūṃ namaḥ || 12||
yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.20-22|| oṃ aiṃ vrīṃ namaḥ || 13|| oṃ aiṃ sauṃ (sauṃ) namaḥ || 14|| oṃ aiṃ lūṃ namaḥ || 15||
yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.23-25|| oṃ aiṃ llūṃ namaḥ || 16|| oṃ aiṃ drāṃ namaḥ || 17|| oṃ aiṃ ksāṃ namaḥ || 18||
yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.26-28|| oṃ aiṃ kṣmrīṃ namaḥ || 19|| oṃ aiṃ glauṃ namaḥ || 20|| oṃ aiṃ skeṃ (skū~, skūṃ, skaṃ) namaḥ || 21||
yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.29-31|| oṃ aiṃ trūṃ namaḥ || 22|| oṃ aiṃ sklūṃ namaḥ || 23|| oṃ aiṃ krauṃ namaḥ || 24||
yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.32-34|| oṃ aiṃ śrīṃ (chrīṃ) namaḥ || 25|| oṃ aiṃ mlūṃ namaḥ || 26|| oṃ aiṃ klūṃ namaḥ || 27||
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.35-37|| oṃ aiṃ śāṃ namaḥ || 28|| oṃ aiṃ lhīṃ namaḥ || 29|| oṃ aiṃ strūṃ namaḥ || 30||
yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.38-40|| oṃ aiṃ llīṃ namaḥ || 31|| oṃ aiṃ līṃ namaḥ || 32|| oṃ aiṃ saṃ namaḥ || 33||
yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.41-43|| oṃ aiṃ lūṃ namaḥ || 34|| oṃ aiṃ hsūṃ namaḥ || 35|| oṃ aiṃ śrūṃ namaḥ || 36||
yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.44-46|| oṃ aiṃ jūṃ namaḥ || 37|| oṃ aiṃ hslrīṃ namaḥ || 38|| oṃ aiṃ skrīṃ (skīṃ) namaḥ || 39||
yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.47-49|| oṃ aiṃ klāṃ namaḥ || 40|| oṃ aiṃ śrūṃ namaḥ || 41|| oṃ aiṃ haṃ namaḥ || 42||
yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.50-52|| oṃ aiṃ hlīṃ namaḥ || 43|| oṃ aiṃ ksrūṃ namaḥ || 44|| oṃ aiṃ drauṃ namaḥ || 45||
yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.53-55|| oṃ aiṃ klūṃ namaḥ || 46|| oṃ aiṃ gāṃ namaḥ || 47|| oṃ ai saṃ namaḥ || 48||
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.56-58|| oṃ aiṃ lsrāṃ namaḥ || 49|| oṃ aiṃ phrīṃ namaḥ || 50|| oṃ aiṃ slāṃ namaḥ || 51||
yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.59-61|| oṃ aiṃ llūṃ namaḥ || 52|| oṃ aiṃ phreṃ namaḥ || 53|| oṃ aiṃ oṃ namaḥ || 54||
yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.62-64|| oṃ aiṃ samlīṃ namaḥ || 55|| oṃ aiṃ hrāṃ namaḥ || 56|| oṃ aiṃ oṃ namaḥ || 57||
yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.65-67|| oṃ aiṃ hlūṃ namaḥ || 58|| oṃ aiṃ hūṃ (hū~) namaḥ || 59|| oṃ aiṃ naṃ namaḥ || 60||
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.68-70|| oṃ aiṃ srāṃ namaḥ || 61|| oṃ aiṃ vaṃ namaḥ || 62|| oṃ aiṃ maṃ namaḥ || 63||
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.71-73|| oṃ aiṃ mklīṃ namaḥ || 64|| oṃ aiṃ śāṃ namaḥ || 65|| oṃ aiṃ laṃ namaḥ || 66||
yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 5.74-76|| oṃ aiṃ bhauṃ (bhaiṃ) namaḥ || 67|| oṃ aiṃ llūṃ namaḥ || 68|| oṃ aiṃ hauṃ namaḥ || 69||
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā |
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ || 5.77|| oṃ aiṃ īṃ namaḥ || 70||
citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat |
namastasyai namastasyai namastasyai namo namaḥ || 5.78-80|| oṃ aiṃ ceṃ namaḥ || 71|| oṃ aiṃ lkrīṃ namaḥ || 72|| oṃ aiṃ hlrīṃ namaḥ || 73||
stutā suraiḥ pūrvamabhīṣṭasaṃśrayā-
ttathā surendreṇa dineṣu sevitā |
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 5.81|| oṃ aiṃ kṣmlrīṃ namaḥ || 74||
yā sāmprataṃ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate |
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ || 5.82|| oṃ aiṃ pūṃ (yūṃ) namaḥ || 75||
ṛṣiruvāca || 5.83|| oṃ aiṃ śrauṃ namaḥ || 76||
evaṃ stavābhiyuktānāṃ devānāṃ tatra pārvatī |
snātumabhyāyayau toye jāhnavyā nṛpanandana || 5.84|| oṃ aiṃ hrauṃ namaḥ || 77||
sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā |
śarīrakośataścāsyāḥ samudbhūtābravīcchivā || 5.85|| oṃ aiṃ bhrūṃ namaḥ || 78||
stotraṃ mamaitatkriyate śumbhadaityanirākṛtaiḥ |
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ || 5.86|| oṃ aiṃ kstrīṃ namaḥ || 79||
śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā |
kauśikīti samasteṣu tato lokeṣu gīyate || 5.87|| oṃ aiṃ āṃ namaḥ || 80||
tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī |
kāliketi samākhyātā himācalakṛtāśrayā || 5.88|| oṃ aiṃ krūṃ namaḥ || 81||
tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ || 5.89|| oṃ aiṃ trūṃ namaḥ || 82||
|| iti tantrarūpandevīsūktam ||
tantra rupa devī sūkta kā pāṭha karane ke paścāt bhagavatī kī prārthanā karatā huā (karatī huī) kṣamā yācanā karake pāṭha kārya samāpta kareṃ |
harivirañcimaheśvarapūjitām-
bhagavatīṃ janadurgatihāriṇīm |
sakalatantramayīṃ jagadīśvarīṃ
sukhamayīṃ jagatāṃ jananīṃ bhaje || 1||
sarvārthasādhanakarīṃ mahatīmudārāṃ-
svargāpavargagatidāṃ karuṇāvatārām |
saṃsāratāraṇaparāṃ hṛtapāpabhārāṃ-
durgānnamāmi śirasā'hamanantasārām || 2||
|| kṣamā-prārthanā ||
aparādhasahasrāṇi kriyante'harniśaṃ mayā |
dāso'yamiti māṃ matvā kṣamasva parameśvari || 1||
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāṃ caiva na jānāmi kṣamyatāṃ parameśvari || 2||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvari |
yatpūjitaṃ mayādevi paripūrṇatadastume || 3||
aparādhaśataṃ kṛtvā jagadambeticoccaret |
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ || 4||
sāparādho'smiśaraṇaṃ prāptastvāṃ jagadambike |
idānīmanukampyo'haṃ yathecchasi tathā kuru || 5||
ajñānādvismṛterbhrāntyā yannyūnamadhikaṃ kṛtam |
tatsarvaṃ kṣamyatāṃ devi prasīdaparameśvari || 6||
kāmeśvarijaganmātaḥ saccidānandavigrahe |
gṛhāṇāmimāṃ prītyā prasīda parameśvari || 7||
guhyātiguhyagotrītvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatumedevi tvatprasādānmaheśvari || 8||
jagadambā kā pradhāna - navārṇa mantra
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
artha - he citsvarūpiṇī mahāsarasvatī! he sat svarūpiṇī mahālakṣmī ! he ānandarūpiṇī mahākālī | brahma vidyā pāne ke lie hama saba tumhārā dhyāna karate haiṃ |
sarala artha - he mahākālī-mahālakṣmī-mahāsarasvatī-svarūpiṇī (durgā devī) mano'bhīṣṭa pūrṇa kījiye |
It is recommended to consult an expert to perform the sacred ceremony. The above work is a combination of the 700 śloka of Durgā Saptaśatī and its 700 tantra bīja.
Proofread and revised by Preeti Bhandare
% Text title : Bijatmak Tantra Durga Saptashati
% File name : tantradurgA700.itx
% itxtitle : tantradurgAsaptashatI bIjAtmakam
% engtitle : tantradurgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI, tantra
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Proofread by : Preeti Bhandare
% Description-comments : 700 shlokas for Devi Durga and mantra of each verse. See standard Durga saptashati mUlam
% Indexextra : (Scans 1, 2, 3, 4, 5, saptashati mUlam,
% Latest update : September 30, 2025
% Site access : https://sanskritdocuments.org
బీజాత్మక తన్త్ర దుర్గా సప్తశతీ
॥ ఓం శ్రీగణేశాయ నమః ॥
యదత్రస్ఖలితఙ్కిఞ్చిత్ ప్రమాదేన భ్రమేణ వా ।
తత్సర్వం శోధయన్త్వార్యాం కస్యనస్ఖలితమ్మనః ॥ ౧॥
గచ్ఛతస్ఖలనఙ్క్వాపి భవత్యేవ ప్రమాదతః ।
హసన్తి దుర్జనాస్తత్ర సమాదధతి సజ్జనాః ॥ ౨॥
వినీత- శివదత్త శాస్త్రీ
ప్రసఙ్గవశశ్రీదుర్గాసప్తశతీ కే పాఠ మేం ఆవశ్యక సఙ్కేత-
కవచ, అర్గలా, కీలక కే పూర్వ శాపోద్వారౌత్కీలనం తథా మృత సఞ్జీవనీ విద్యా కా జప కా విధాన హై, కిన్తు విద్వత్పరమ్పరా కా సిద్ధాన్త యహ హై కి యది శ్రీ దుర్గాసప్తశతీ కా షడఙ్గ ( కవచ, అర్గలా, కీలక తథా త్రయోదశాధ్యాయ కే బాద రహస్యత్రయ) సహిత పాఠ కర లియా జాయ తో శ్రీదుర్గాసప్తశతీ మేం శాపోద్ధారాది కీ కోఈ భీ ఆవశ్యకతా నహీం హై । వస్తుతః యహీ మత హమారీ భీ గురుపరమ్పరా కా హై । అథవా జైసా విద్వద్వన్ద నిర్ణయ కరేం వైసా స్వేచ్ఛానుసార కరేం । యహ నిర్ణయ దుర్గాసప్తశతీ కే పాఠ హీ కా హై తన్త్ర దుర్గాసప్తశతీ కే పాఠ మేం పడఙ్గ పాఠ భీ నహీం కరనా చాహియే ।
శాపోద్ధార మన్త్రః-
శాపోద్ధార కే లిఏ నీచే వర్ణిత మన్త్ర కా సాత బార ఆది వ అన్త మేం జప కరనా చాహియే ।
``ఓం హ్రీం క్లీం శ్రీం క్రాం క్రీం చణ్డికాదేవ్యై శాపనాశానుగ్రహం కురు కురు స్వాహా''
ఉత్కీలన మన్త్రః-
శాపోద్ధార కే బాద ఉత్కీలన-మన్త్ర కా ౨౧ బార ఆది వ అన్త మేం జప కరనా చాహియే ।
``ఓం శ్రీం క్లీం హ్రీం సప్తశతిచణ్డికే ఉత్కీలనం కురు కురు స్వాహా''
మృతసఞ్జీవనీ మన్త్రః-
ఉత్కీలన కే ఉపరాన్త మృతసఞ్జీవనీ మన్త్ర కా సాత బార ఆది వ అన్త మేం పాఠ కరనా చాహియే ।
``ఓం హ్రీం హ్రీం వం వం ఐం ఐం మృతసఞ్జీవని విద్యే మృతముత్థాపయోత్థాపయ క్రీం హ్రీం హ్రీం వం స్వాహా''
శ్రీదుర్గాసప్తశతీ మేం కవచ
శూలేన పాహి నో దేవి పాహి ఖడ్గేన చామ్బికే ।
ఘణ్టాస్వనేన నః పాహి చాపజ్యానిస్వనేన చ ॥ ౪.౨౪॥ ఓం ఐం ఫ్రేం నమః ॥ ౨౪॥
ప్రాచ్యాం రక్ష ప్రతీచ్యాం చ చణ్డికే రక్ష దక్షిణే ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాన్తథేశ్వరి ॥ ౪.౨౫॥ ఓం ఐం క్రీం నమః ॥ ౨౫॥
సౌమ్యాని యాని రూపాణి త్రైలోక్యే విచరన్తి తే ।
యాని చాత్యర్థతఘోరాణి తై రక్షాస్మాంస్తథా భువమ్ ॥ ౪.౨౬॥ ఓం ఐం మ్లూం నమః ॥ ౨౬॥
ఖడ్గశూలగదాదీని యాని చాస్త్రాని తేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్రక్ష సర్వతః ॥ ౪.౨౭॥ ఓం ఐం ఘ్రేం నమః ॥ ౨౭॥
కవచ కే తన్త్ర రూప మేం క్రమశః మన్త్ర దియే గయే హై ।
॥ ఆదిశక్తయేనమః ॥
॥ శ్రీతన్త్రదుర్గాసప్తశతీ ॥
విశ్వేశ్వరీంవిశ్వమయీంవిరూపా-
మజ్ఞానహన్త్రీంవిమలస్వరూపామ్ ।
శంశ్వత్ప్రసన్నాఙ్కరుణావతారాన్-
తన్త్రస్వరూపాఞ్చనమామిదుర్గామ్ ॥ ౧॥
చిదానన్దరూపే హరీశాదివన్ద్యే-
సదామన్దహాసే జగద్భీతినాశే ।
చిదానన్దదేత్వఞ్చ తన్త్రస్వరూపే-
జనం పాహిదీనన్తవార్చావిహీనమ్ ॥ ౨॥
నజానాతివిష్ణుఃశివోనైవవేత్తి-
స్వయమ్భూః స్వయన్నైవజానాతిమాతః ।
చరిత్రన్దయాధారికేతేవిచిత్రఙ్-
కథన్మన్దబుద్ధిర్జనఃస్యాత్సమర్థ ॥ ౩॥
తథాప్యమ్బలోకోపకారాయలోకే-
చరిత్రంవదామ్యత్రకిఞ్చిత్ప్రసిద్ధమ్ ।
తబప్రేరణైవాభవధతుభూతా-
మదీయేహృదబ్జేమహాదేవిదుర్గే ॥ ౪॥
॥ పాఠవిధి ॥
సాధక స్నాన కరకే పవిత్ర హో, ఆసన శుద్ధి కీ క్రియా సమ్పన్న కరకే పూర్వాభముఖ హో శుద్ధ ఆసాన పర బైఠే సాథ మేం శుద్ధ జల (గఙ్గాజల ఆది ) పూజన సామగ్రీ ఔర శ్రీ తన్త్రదుర్గా సప్తశతీ కీ పుస్తక రఖే । మస్తక మేం అపనే రుచి కే అనుసార భస్మ, చన్దన, రోలీ అథవా సేన్దుర లగా లేం । శిఖా బాన్ధ లేం । తత్వ శుద్ధి కే లిఏ చార బార ఆచమన కరేం । తత్పశ్చాత్ ప్రాణాయామ కరకే గణేశ ఆది దేవతాఓం ఏవం గురుజనోం కో ప్రణామ కరేం । కుశ కీ పవిత్రీ ధారణ కరకే హాథ మేం లాల ఫూల, చావల ఔర జల లేకర నిమ్నాఙ్కిత రూప సే సఙ్కల్ప కరే ।
ఓం విష్ణుర్విష్ణుర్విష్ణుః । ఓం నమః పరమాత్మనే, శ్రీ పురాణ పురుషోత్తమస్య విష్ణోరాజ్ఞయా ప్రవర్తమానస్యాద్య శ్రీ బ్రాహ్మణోఽహ్ని ద్వితీయపరార్ద్ధేశ్రీశ్వేతవారాహకల్పేవైవస్వతమన్వన్తరేఽష్టావింశతితమేకలియుగే కలిప్రథమచరణేజమ్బూద్వీపే భరతఖణ్డే భారతవర్షే ఆర్యావర్తాన్తర్గత బ్రహ్మావర్తైకదేశే పుణ్యక్షేత్రే బౌద్ధావతారే వర్తమానే యథానామ సంవత్సరే అముకాయనే అముకమాఙ్గల్యప్రదే మాసానాముత్తమే అముకమాసే అముకపక్షే అముకతిథౌ అముకవాసరాన్వితాయామ్ అముకనక్షత్రే అముకరాశిస్థితే సూర్యై అముకరాశిస్థితేషు చన్ద్రభౌమబుధగురుశుక్రశనిషు సత్సు శుభే యోగే శుభకరణే ఏవం గుణవిశేషణవిశిష్టాయాం శుభపుణ్యతిథౌ సకలశాస్త్ర శ్రుతిస్మృతిపురాణోక్త ఫలప్రాప్తికామః అముకగోత్రోత్పన్నః అముక శర్మాహం మమాత్మనః సపుత్రవాన్ధవస్య శ్రీనవదుర్గానుగ్రహతో గ్రహకృత రాజకృతాది సర్వవిధపీడానివృత్తిపూర్వకన్నైరుజ్యదీర్ఘాయుః పుష్టి ధనధాన్యసమృద్ధ్యర్థం శ్రీనవదుర్గామ్ప్రసాదేన సర్వాపన్నివృత్తి సర్వాభీష్ట ఫలావాప్తి ధర్మార్థ కామమోక్షచతుర్విధపురుషార్థసిద్ధి ద్వారా శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వతీ దేవతాప్రీత్యర్థం తన్త్రోక్తరాత్రిసూక్త పాఠన్యాస విధి సహిత నవార్ణజప తాన్త్రికసప్తశతీ న్యాసధ్యాన పూర్వకఞ్చ ``ఓం ఐం శ్రీం నమః ఓం ఐం హ్రీం నమః । ఇత్యాద్యారభ్య ఓం ఐం ఓం నమః ఇత్యన్తన్తన్త్రరూపేణ పరిణతం శ్రీతన్త్రదుర్గాసప్తశతీ పాఠం తదన్తే చ న్యాస విధిసహిత నవార్ణజపతాన్త్రిక సప్తశతీ న్యాసధ్యాన పూర్వకం తాన్త్రిక దేవీసూక్త పాఠఞ్చ కరిష్యే ।''
(యది దూసరే సే పాఠాది కరవానా హో తో కారయిష్యే, కహనా చాహియే)
ఇస ప్రకార సఙ్కల్ప కరకే భగవతీ శ్రీ దుర్గాదేవీ కా ధ్యాన కరతే హుఏ పఞ్చోపచార విధి సే పుస్తక కీ పూజా కరేం । యది జ్ఞాత హో తో యోనిముద్రా ప్రదర్శిత కరకే భగవతీ కో ప్రణామ కరేం । పశ్చాత్ నవార్ణమన్త్ర సే పీఠ మేం ఆధారశక్తి కీ స్థాపనా కరకే ఉసకే ఊపర పుస్తక కో విరాజమాన కరేం । పశ్చాత్ యది జ్ఞాత హో అన్తర్మాతృకా బహిర్మాతృకా ఆదిన్యాస కరే అన్యథా నహీం । పశ్చాత్ భగవతీ కా ధ్యాన వ పూజన ఆగే లిఖిత శ్రీ దుర్గా పూజాయన్త్ర మేం కరేం ।
॥ అథషోడశోపచార దుర్గాపూజనవిధిః ॥
సఙ్కల్పః -
ఓం అద్యేత్యాదిమమ 'అముకగోత్రోత్పన్నయజమానస్య' ఇహ జన్మనిసర్వామ్పచ్ఛాన్తిపూర్వకన్దీర్ఘాయుర్విపుల పుత్రపౌత్రాద్యవిచ్ఛిన్నసన్తతివృద్ధిస్థిరలక్ష్మీ కీర్తిలాభశత్రుపరాజయ ప్రముఖ-ప్రముఖచతుర్విధపురుషార్థసిద్ధయే శ్రీదుర్గాపూజన మహఙ్కరిష్యే (కారయిష్యే)।
ధ్యానమ్ -
ఓం విద్యుద్దామసమప్రభామ్మృగపతిస్కన్ధస్థితామ్భీషణాం
కన్యాభిఃకరవాలఖేటవిలసద్ధస్తాభిరాసేవితామ్ ।
హస్తైశ్చక్రగదాసిఖేటవిశిఖాంశ్చాపం గుణ తర్జనీం
విభ్రాణామనలాత్మికాంశశిధరాన్దుర్గా త్రినేత్రామ్భజే ॥
అర్థః - మైం భగవతీ దుర్గాదేవీ కా ధ్యాన కరతా హూఁ - జో తీన నేత్ర వాలీ హైం జినకే అంఙ్గోం కీ ప్రభా బిజలీ కే సమాన హైం । సింహ కే కన్ధే పర భయఙ్కర ప్రతీత హోతీ హైం, అనేక కన్యాయేం జినకీ సేవా మేం లగీ హైం । జినకే హాథోం మేం చక్ర, గదా, తలవార, ఢాల, బాణ, ధనుష, పాశ ఔర తర్జనీముద్గర శోభాయమాన హైం । జో అగ్నిమయ హైం తథా జో అపనే మాథే పర చన్ద్రమా కా ముకుట ధారణ కరతీ హైం ।
౧. ఆవాహనమ్ -
ఆగచ్ఛ వరదే దేవి దైత్యదర్పనిషూదిని ।
పూజాం గృహాణ సుముఖి నమస్తే శఙ్కరప్రియే ॥
౨. ఆసనమ్ -
అనేకరత్నసంయుక్తం నానామణిగణాన్వితమ్ ।
కార్తస్వరమయం దివ్యమాసనం ప్రతిగృహ్యతామ్ ॥
౩. పాద్యమ్ -
గఙ్గాదిసర్వతీర్థేభ్యో మయా ప్రార్థనయాహృతమ్ ।
తోయమేతత్ సుఖస్పర్శం పాద్యార్థం ప్రతిగృహ్యతామ్ ॥
౪. అర్ఘ్యమ్ -
గన్ధపుష్పాక్షతై ర్యుక్తమర్ధ్యం సమ్పాదితం మయా ।
గృహాణ త్వం మహాదేవి ప్రసన్నా భవ సర్వదా ॥
౫. ఆచమనమ్ -
ఆచమ్యతాం త్వయా దేవి భక్తిం మే హ్యచలాం కురు ।
ఈప్సితం మే వరం దేహి పరత్ర చ పరాం గతిమ్ ॥
౬. స్నానమ్ -
జాహ్నవీతోయమానీతం శుభం కర్పూరసంయుతమ్ ।
స్నాపయామి సురశ్రేష్ఠే త్వాం పుత్రాదిఫలప్రదామ్ ॥
పఞ్చామృతస్నానమ్ -
పయోదధిఘృతం క్షౌద్రం సితయా చ సమన్వితమ్ ।
పఞ్చామృతమనేనాద్య కురు స్నానం మహేశ్వరి ॥
శుద్ధోదకస్నానమ్ -
పరమానన్దబోధాబ్ధినిమగ్నానిజమూర్తయే ।
సాఙ్గోపాఙ్గమిదం స్నానం కల్పయామి సురేశ్వరి ॥
౭. వస్త్రమ్ -
వస్త్రం చ సోమదైవత్యం లజ్జాయాస్తు నివారణమ్ ।
మయా నివేదితం భక్త్యా గృహాణ పరమేశ్వరి ॥
ఉపవస్త్రమ్ -
యామాశ్రిత్యమహామాయా జగత్సమ్మోహినీసదా ।
తస్యైవైపర మేశాపైకల్పయామ్యుత్తరీయకమ్ ॥
మధుపకేమ్ -
దధిమధ్వాజ్యసంయుక్త పాత్ర యుగ్మసమన్వితమ్ ।
మధుపర్కగృహాణత్వం వరదా భవశోభనే ॥
గన్ధమ్ -
పరమానన్ద సౌభాగ్యపరిపూర్ణదిగన్తరే ।
గృహాణ పరమం గన్ధం కృపయా పరమేశ్వరి ॥
కుఙ్కుమమ్ -
కుఙ్కుమఙ్కాన్తిదం దివ్యం కామినీకామసమ్భవమ్ ।
కుఙ్కుమేనార్చితే దేవి ప్రసీదపరమేశ్వరి ॥
౮. ఆభూషణమ్ -
హారకఙ్కణకేయూరమేఖలాకుణ్డలాదికమ్ ।
రత్నాఢ్యం కుణ్డలోపేతం భూషణం ప్రతిగృహ్యతామ్ ॥
సిన్దూరమ్ -
సిన్దూరమరుణాభాసం జపాకుసుమసన్నిభమ్ ।
పూజితాసి మయా దేవి ప్రసీద పరమేశ్వరి ॥
కజ్జలమ్ -
చక్షుర్భ్యాం కజ్జలం రమ్యం సుభగే శాన్తికారకే ।
కర్పూరజ్యోతిరుత్పన్నం గృహాణ పరమేశ్వరి ॥
సౌభాగ్యద్రవ్యమ్ -
సౌభాగ్యసూత్రం వరదే సువర్ణమణిసంయుతే ।
కణ్ఠే బధ్నామి దేవేశి సౌభాగ్యం దేహి మే సదా ॥
సుగన్ధితైలమ్ -
చన్దనాగరుకర్పూరకుఙ్కుమం రోచనం తథా ।
కస్తూర్యాదిసుగన్ధాంశ్చ సర్వాఙ్గేషు విలేపనమ్ ॥
పరిమలద్రవ్యమ్ -
హరిద్రారఞ్జితే దేవి సుఖసౌభాగ్యదాయిని ।
తస్మాత్ త్వాం పూజయామ్యద్యసుఖం శాన్తి ప్రయచ్ఛ మే ॥
అక్షతాన్ -
రఞ్జితాః కుఙ్కుమౌఘేన అక్షతాశ్చాతిశోభనాః ।
మామేషాం దేవి దానేన ప్రసన్నా భవ శోభనే ॥
పుష్పాణి -
మన్దారపారిజాతాది పాటలీకేతకాని చ ।
జాతీచమ్పకపుష్పాణి గృహాణేమాని శోభనే ॥
పుష్పమాలామ్ -
సురభిపుష్పనిచయైర్గ్రథితామ్పుష్పమాలికామ్ ।
దదామితవశోభార్థఙ్గృహాణపరమేశ్వరి ॥
బిల్వపత్రమ్ -
అమృతోద్భవశ్రీవృక్షో మహాదేవి ప్రియః సదా ।
బిల్వపత్రం ప్రయచ్ఛామి పవిత్రం తే సురేశ్వరి ॥
౯. ధూపమ్ -
దశాఙ్గగుగ్గులన్ధూపఞ్చన్దనాగరుసంయుతమ్ ।
సమర్పితం మయా భక్త్యా మహాదేవి ప్రగృహ్యతామ్ ॥
౧౦. దీపమ్ -
ఘృతవర్తిసమాయుక్తం మహాతేజో మహోజ్జ్వలమ్ ।
దీపం దదామి దేవేశి సుప్రీతా భవ సర్వదా ॥
౧౧. నైవేద్యమ్ -
అన్నం చతుర్విధం స్వాదు రసైః షడ్భిః సమన్వితమ్ ।
నైవేద్యం గృహ్యతాం దేవి భక్తిం మే హ్యచలాం కురు ॥ (హ్రచలాం)
ఋతుఫలమ్ -
ద్రాక్షాఖర్జూరకదలీపనసామ్రకపిత్థకమ్ ।
నారికేలేక్షుజమ్బ్వాదిఫలానిప్రతిగుహ్యతామ్ ॥
ఆచమనమ్ -
కామారివల్లభేదేవికుర్వాచమనమమ్బికే ।
నిరన్తరమహం వన్దేచరణౌతత్ర చణ్డికే ॥
అఖణ్డ-ఋతుఫలమ్ -
నారికేలఞ్చనారఙ్గఙ్కలిఙ్గమఞ్జిరన్తథా ।
ఉర్వారుకఞ్చదేవిశిఫలాన్యైతానిగృహ్నతామ్ ॥
తామ్బూలపూగీఫలాని -
ఏలాలవఙ్గకస్తూరీకర్పూరైః పుష్పవాసితామ్ ।
వీటికాం ముఖవాసార్థమర్పయామి సురేశ్వరి ॥
౧౨. దక్షిణా -
పూజాఫలసమద్ధ్యర్థం తవాగ్రేస్వర్ణమీశ్వరి ।
స్థాతిన్తేనమేప్రీతాపూర్ణాన్కురుమనోరథాన్ ॥
ప్రార్థనా (నమస్కారమ్) -
సర్వస్వరూపేసర్వేశే సర్వశక్తిస్వరూపిణి ।
పూజాఙ్గృహాణకౌమారిజగన్మాతనమోఽస్తుతే ॥
౧౩. ఆరతికమ్ -
నీరాజనంసుమాఙ్గల్యఙ్కర్పూరేణసమన్వితమ్ ।
చన్ద్రార్కవహ్నిసదృశం మహాదేవినమోఽస్తుతే ॥
పుష్పాఞ్జలి: -
దుర్గేస్మృతాహరసిభీతిమశేషజన్తో:
స్వస్థై:స్మృతామతిమతీవశుభాన్దదాసి ।
దారిద్యదు:ఖభయహారిణికాత్వదన్యా
సర్వోపకారకరణాయ సదార్ద్రచిత్తా ॥
౧౪. ప్రదక్షిణా -
నమస్తేదేవిదేవేశి నమస్తేఈప్సితప్రదే ।
నమస్తేజగతాన్ధాత్రి నమస్తేభక్తవత్సలే ॥
సాష్టాఙ్గప్రణామః -
నమఃసర్వహితార్థాయై జగదాధారహేతవే ।
సాష్టాఙ్గోఽయమ్ప్రణామ స్తుప్రయత్నేనమయాకృతః ॥
౧౫. ప్రార్థనా -
పుత్రాన్దేహిధనం దేహి సౌభాగ్యం దేహిమఙ్గలే ।
అన్యాంశ్చసర్వకామాంశ్చ దేహిదేవి నమోఽస్తుతే ॥
౧౬. విసర్జనమ్ -
ఇమామ్పూజామ్మయాదేవియథాశక్త్యా మహేశ్వరి ।
రక్షార్థన్త్వంసమాదాయవ్రజస్థానంయథోత్తమమ్ ॥
For the illustration of the yantra interested readers may refer the link of the book given at the bottom end of this page. The textual part is given below.
॥ యన్త్రవివరణమ్ ॥
త్రికోణే - ౩ ।
త్రికోణాద్బాహ్యే - ౧౦ ।
షట్కోణేషు - ౬ ।
అష్టపత్రేషు - ౨౪ ।
చతుర్వింశతిదలేషు - ౨౪ ।
తద్యథా -
౧ - విష్ణుమాయా ।
౨ - చేతనా ।
౩ - వృద్ధిః ।
౪ - నిద్రా ।
౫ - క్షుధా ।
౬ - ఛాయా ।
౭ - శక్తిః ।
౮ - తృష్ణా ।
౯ - క్షాన్తిః ।
౧౦ - జాతిః ।
౧౧ - లజ్జా ।
౧౨ - శాన్తిః ।
౧౩ - శ్రద్ధా ।
౧౪ - కాన్తిః ।
౧౫ - లక్ష్మీ ।
౧౬ - ధృతిః ।
౧౭ - వృత్తిః ।
౧౮ - స్మృతిః ।
౧౯ - దయా ।
౨౦ - తుష్టిః ।
౨౧ - పుష్టిః ।
౨౨ - మాతృ ।
౨౩ - భ్రాన్తిః ।
౨౪ - చితిః ।
చతుర్వింశతిదలేభ్యోబాహ్యే ౧౦ - తతోదిక్పాలాయుధవాహనాది ౧౦ । తతోభూపురబాహ్యే ౪ ।
``యన్త్రస్థదేవతా పరిచయః''
౧ - త్రికోణేబిన్దుమధ్యే హ్రీం
౨ - త్రికోణమధ్యే
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే ।
ఓం మం మఙ్గలాయై నమః ।
౧౦ - త్రికోణాద్బాహ్యే
పూ౦ కోణే - ౧ - ఓం బ్రహ్మణే నమః । ౨ - ఓం సరస్వత్యై నమః ।
నై౦కోణే - ౩ - ఓం విష్ణవే నమః । ౪ - ఓం శ్రియై నమః ।
వా౦కోణే - ౫- ఓం శివాయ నమః । ౬ - ఓం ఉమాయై నమః ।
దక్షిణే - ౭ - ఓం మం మహిషాయ నమః । ౮ - కాం కాలాయ నమః ।
ఉత్తరే - ౯ - ఓం సిం సింహాయ నమః । ౧౦ - ఓం మృం మృత్యవే నమః ।
౬- షట్కోణమధ్యే పూర్వాదిక్రమేణ-
౧ - ఓం నం నన్దజాయై నమః । ౨ - ఓం రం రక్తదన్తికాయై నమః ।
౩ - ఓం శాం శాకమ్భర్య్యై నమః । ౪ - ఓం దుం దుర్గాయై నమః ।
౫ - ఓం భీం భీమాయై నమః । ౬ - ఓం భ్రాం భ్రామర్యై నమః ।
౪ - షట్కోణబాహ్యే (వాహనాదీని)
కేచిన్మతేఽత్రైవమహిషాదీనాంస్థాపనాది
దక్షిణే - ఓం మం మహిషాయ నమః । ఓం కాం కాలాయ నమః । ఉత్తరే - ఓం సిం సింహాయ నమః । ఓం మృం మృత్యవే నమః ।
౨౪ - అష్టపత్రేషు పూర్వాదిక్రమేణ -
పూర్వే - ఓం జం జయాయై నమః । ఓం బ్రాం బ్రాహ్మయై నమః । ఓం అం అసితాఙ్గభైరవాయ నమః ।
దక్షిణే - ఓం అం అజితాయై నమః । ఓం మాం మాహేశ్వర్య్యై నమః । ఓం చం చణ్డభైరవాయ నమః ।
పశ్చిమే - ఓం నిం నిత్యాయై నమః । ఓం కౌం కౌమార్య్యై నమః । ఓం ఉం ఉన్మత్తభైరవాయ నమః ।
ఉత్తరే - ఓం విం విజయాయై నమః । ఓం వైం వైష్ణవ్యై నమః । ఓం రుం రురుభైరవాయ నమః ।
అ౦ కోణే - ఓం ద్రోం ద్రోధ్ర్యై (ద్రోగ్ధ్ర్యై) నమః । ఓం వాం వారాహ్యై నమః । ఓం భీం భీషణభైరవాయ నమః ।
నై౦ కోణే - ఓం అం అఘోరాయై నమః । ఓం నాం నారసింహ్యై నమః । ఓం సం సంహారభైరవాయ నమః ।
వా౦ కోణే - ఓం విలాసిన్యై నమః । ఓం అం అపరాజితాయై (ఐం ఐన్ద్ర్యై) నమః । ఓం కం కపాలభైరవాయ నమః ।
ఈ౦ కోణే - ఓం అం అపరాజితాయై నమః । ఓం చాం చాముణ్డాయై నమః । ఓం క్రోం క్రోధభైరవాయ నమః ।
౨౪ - తతశ్చతుర్వింశతిదలేషు పూర్వాదిక్రమేణ -
ఓం విం విష్ణుమాయాయై నమః ॥ ౧॥
ఓం చేం చేతనాయై నమః ॥ ౨॥
ఓం వుం వుద్ధ్యై (బుం బుద్ధ్యై) నమః ॥ ౩॥
ఓం నిం నిద్రాయై నమః ॥ ౪॥
ఓం క్షుం క్షుధాయై నమః ॥ ౫॥
ఓం ఛాం ఛాయాయై నమః ॥ ౬॥
ఓం శం శక్తయై నమః ॥ ౭॥
ఓం తృం తృష్ణాయై నమః ॥ ౮॥
ఓం క్షాం క్షాన్త్యై నమః ॥ ౯॥
ఓం జాం జాత్యై నమః ॥ ౧౦॥
ఓం లం లజ్జాయై నమః ॥ ౧౧॥
ఓం శాం శాన్త్యై నమః ॥ ౧౨॥
ఓం శ్రం శ్రద్ధాయై నమః ॥ ౧౩॥
ఓం కాం కాన్త్యై నమః ॥ ౧౪॥
ఓం లం లక్ష్మ్యై నమః ॥ ౧౫॥
ఓం ధృం ధృత్యై నమః ॥ ౧౬॥
ఓం స్మృం స్మృత్యై నమః ॥ ౧౭॥ (వృం వృత్యై)
ఓం వృం వృత్యై నమః ॥ ౧౮॥ (స్మృం స్మృత్యై)
ఓం తుం తుష్ట్యై నమః ॥ ౧౯॥ (దం దయాయై)
ఓం పుం పుష్టయై నమః ॥ ౨౦॥ (తుం తుష్ట్యై)
ఓం దం దయాయై నమః ॥ ౨౧॥ (పుం పుష్టయై)
ఓం మాం మాత్రే నమః ॥ ౨౨॥
ఓం భ్రాం భ్రాన్త్యై నమః ॥ ౨౩॥
ఓం చిం చిత్యై నమః ॥ ౨౪॥
౧౦ - తతశ్చతుర్వింశతిదలేభ్యోబాహ్యే-
లం ఇన్ద్రాయ నమః ॥ ౧॥
రం అగ్నయే నమః ॥ ౨॥
మం యమాయ నమః ॥ ౩॥
క్షం నిరృతయే నమః ॥ ౪॥
వం వరుణాయ నమః ॥ ౫॥
యం వాయవే నమః ॥ ౬॥
సం సోమాయ నమః ॥ ౭॥
ఈం (హం) ఈశానాయ నమః ॥ ౮॥
ఈశానపూర్వయోర్మధ్యే - అం బ్రాహ్మణే (బ్రహ్మణే) నమః ॥ ౯॥
పశ్చిమనిరృతయోర్మధ్యే - హ్రీం అనన్తాయ నమః ॥ ౧౦॥
౧౦-తతోదిక్పాలాయుధావాహనాది-యథా-
ఓం వం వజ్రాయ నమః ॥ ౧॥
ఓం శం శక్తయే నమః ॥ ౨॥
ఓం దం దణ్డాయ నమః ॥ ౩॥
ఓం ఖం ఖడ్గాయ నమః ॥ ౪॥
ఓం పాం పాశాయ నమః ॥ ౫॥
ఓం అం అఙ్కుశాయ నమః ॥ ౬॥
ఓం గం గదాయై నమః ॥ ౭॥
ఓం శం త్రిశూలాయ నమః ॥ ౮॥ var (ఓం త్రిం త్రిశూలాయ నమః)
ఓం పం పద్మాయ నమః ॥ ౯॥
ఓం చం చక్రాయ నమః ॥ ౧౦॥
౪ - తతోభూపురబాహ్యే చతుష్కోణేషు-
ఐశాన్యామ్ - గం గణపతయే నమః ॥ ౧॥
ఆగ్నేయ్యామ్ - క్షం క్షేత్రపాలాయ నమః ॥ ౨॥
నైరృత్యామ్ - వం వటుకాయ నమః ॥ ౩॥
వాయవ్యే - యోం యోగినీభ్యో నమః ॥ ౪॥
॥ ఇతిపూర్వోక్తప్రకారేణసర్వాన్దేవానాబాహ్యపూజయేత్ ॥
॥ యన్త్రపూజన సఙ్కేత ॥
యన్త్ర మేం లిఖే అఙ్కానుసార దేవతాఓం కా ఆవాహనాది పూజనవిధాన విధివత్ కర కే యన్త్ర పర ఘట స్థాపన ఆది కార్యక్రమ కరే । పశ్చాత్ శ్రీ దుర్గాదేవీ కీ మూర్తి స్వర్ణ ఆది కిసీ భీ ధాతు కీ హో ఉసమేం ప్రాణాప్రతిష్ఠాపర్యన్త సభీ సంస్కార కరకే షోడశోపచార పూజన కరే । అథవా చిత్రరఖ కరకే పూజనాది కరకే శ్రీ తన్త్రమయీ అర్థాత్ బీజమయీ శ్రీ తన్త్ర దుర్గా సప్తశతీకా పాఠ కరే ॥ పాఠారమ్భ సే పూర్వ తన్త్రరూప-రాత్రి సూక్త కా పాఠ-పశ్చాత్ నవార్ణమన్త్రజప న్యాసది సహిత తథా తన్త్ర సప్తశతీ కా భీ న్యాసవధ్యాన ఆవశ్యక హై ।
తన్త్రోక్తం రాత్రిసూక్తమ్
విబోధనార్థాయ హరేర్హరినేత్రకృతాలయామ్ ।
విశ్వేశ్వరీం జగద్ధాత్రీం స్థితిసంహారకారిణీమ్ ॥ ౧.౭౦॥ ఓం ఐం బ్లూం నమః ॥ ౧॥
నిద్రాం భగవతీం విష్ణోరతులాం తేజసః ప్రభుః ॥ ౧.౭౧॥ ఓం ఐం ఠాం నమః ॥ ౨॥
బ్రహ్మోవాచ ॥ ౧.౭౨॥ ఓం ఐం హ్రీం నమః ॥ ౩॥
త్వం స్వాహా త్వం స్వధా త్వం హి వషట్కారః స్వరాత్మికా ॥ ౧.౭౩॥ ఓం ఐం స్రాం (స్త్రాం) నమః ॥ ౪॥
సుధా త్వమక్షరే నిత్యే త్రిధా మాత్రాత్మికా స్థితా ।
అర్ధమాత్రా స్థితా నిత్యా యానుచ్చార్యావిశేషతః ॥ ౧.౭౪॥ ఓం ఐం స్లూం నమః ॥ ౫॥
త్వమేవ సన్ధ్యా సావిత్రీ త్వం దేవి జననీ పరా ।
త్వయైతద్ధార్యతే విశ్వం త్వయైతత్ సృజ్యతే జగత్ ॥ ౧.౭౫॥ ఓం ఐం క్రైం నమః ॥ ౬॥
త్వయైతత్ పాల్యతే దేవి త్వమత్స్యన్తే చ సర్వదా ।
విసృష్టౌ సృష్టిరూపా త్వం స్థితిరూపా చ పాలనే ॥ ౧.౭౬॥ ఓం ఐం త్రాం నమః ॥ ౭॥
తథా సంహృతిరూపాన్తే జగతోఽస్య జగన్మయే ।
మహావిద్యా మహామాయా మహామేధా మహాస్మృతిః ॥ ౧.౭౭॥ ఓం ఐం ఫ్రాం నమః ॥ ౮॥
మహామోహా చ భవతీ మహాదేవీ మహేశ్వరీ ।
ప్రకృతిస్త్వం చ సర్వస్య గుణత్రయవిభావినీ ॥ ౧.౭౮॥ ఓం ఐం జీం నమః ॥ ౯॥
కాలరాత్రిర్మహారాత్రిర్మోహరాత్రిశ్చ దారుణా ।
త్వం శ్రీస్త్వమీశ్వరీ త్వం హ్రీస్త్వం బుద్ధిర్బోధలక్షణా ॥ ౧.౯॥ ఓం ఐం లూం నమః ॥ ౧౦॥
లజ్జా పుష్టిస్తథా తుష్టిస్త్వం శాన్తిః క్షాన్తిరేవ చ ।
ఖడ్గినీ శూలినీ ఘోరా గదినీ చక్రిణీ తథా ॥ ౧.౮౦॥ ఓం ఐం స్లూం నమః ॥ ౧౧॥
శఙ్ఖినీ చాపినీ బాణభుశుణ్డీపరిఘాయుధా ।
సౌమ్యా సౌమ్యతరాశేషసౌమ్యేభ్యస్త్వతిసున్దరీ ॥ ౧.౮౧॥ ఓం ఐం నోం నమః ॥ ౧౨॥
పరాపరాణాం పరమా త్వమేవ పరమేశ్వరీ ।
యచ్చ కిఞ్చిత్క్వచిద్వస్తు సదసద్వాఖిలాత్మికే ॥ ౧.౮౨॥ ఓం ఐం స్త్రీం నమః ॥ ౧౩॥
తస్య సర్వస్య యా శక్తిః సా త్వం కిం స్తూయసే మయా ।
యయా త్వయా జగత్స్రష్టా జగత్పాత్యత్తి యో జగత్ ॥ ౧.౮౩॥ ఓం ఐం ప్రూం నమః ॥ ౧౪॥
సోఽపి నిద్రావశం నీతః కస్త్వాం స్తోతుమిహేశ్వరః ।
విష్ణుః శరీరగ్రహణమహమీశాన ఏవ చ ॥ ౧.౮౪॥ ఓం ఐం స్రూం (సూం) నమః ॥ ౧౫॥
కారితాస్తే యతోఽతస్త్వాం కః స్తోతుం శక్తిమాన్ భవేత్ ।
సా త్వమిత్థం ప్రభావైః స్వైరుదారైర్దేవి సంస్తుతా ॥ ౧.౮౫॥ ఓం ఐం జాం నమః ॥ ౧౬॥
మోహయైతౌ దురాధర్షావసురౌ మధుకైటభౌ ।
ప్రబోధం చ జగత్స్వామీ నీయతామచ్యుతో లఘు ॥ ౧.౮౬॥ ఓం ఐం వౌం (బౌం) నమః ॥ ౧౭॥
బోధశ్చ క్రియతామస్య హన్తుమేతౌ మహాసురౌ ॥ ౧.౮౭॥ ఓం ఐం ఓం నమః ॥ ౧౮॥
॥ అథ నవార్ణ జప విధిః ॥
ఇస ప్రకార తన్త్ర రూప మేం పరిణత రాత్రిసూక్తి కా పాఠ కరనే కే పశ్చాత్ నిమ్నాఙ్కిత రూప సే నవార్ణమన్త్ర కే వినియోగ న్యాస ఔర ధ్యాన కరే ॥
నవార్ణ మన్త్ర కా వినియోగ - న్యాసాది
॥ వినియోగః ॥
శ్రీగణపతిర్జయతి ।
ఓం నవార్ణమన్త్రస్య బ్రహ్మవిష్ణురుద్రాఋషయః,
గాయత్ర్యుష్ణిగనుష్టుభశ్ఛదాంసి,
శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వత్యోదేవతా,
ఐం బీజమ్,
హ్రీం శక్తిః,
క్లీం కీలకమ్,
శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వతీప్రీత్యర్థే జపే వినియోగః ।
పూర్వోక్త పఢ़కర జల గిరావే ।
తత్పశ్చాత్ మన్త్రోం ద్వారా ఇస భావనా సే శరీర కే సమస్త అఙ్గోం మేం మన్త్రరూప సే దేవతాఓం కా వాస హో రహా హై, న్యాస కరేం । ఐసా కరనే సే పాఠ యా జప కరనే వాలా వ్యక్తి మన్త్రమయ హో జాతా హై తథా మన్త్ర మేం అధిష్ఠిత దేవతా ఉసకీ రక్షా కరతే హైం । ఇసకే అతిరిక్త న్యాస ద్వారా ఉసకే బాహర-భీతర కీ శుద్ధి హోతీ హై ఔర సాధనా నిర్విఘ్న పూర్ణ హోతీ హై ।
నిమ్నలిఖిత న్యాస వాక్యోం సే ఏక ఏక కా ఉచ్చారణ కరకే దాహినే హాథ కీ అఙ్గులియోం సే క్రమశః శిర-ముఖ-హృదయ-గుదా-దోనోం చరణ ఔర నాభి ఇస అఙ్గోం కా స్పర్శ కరే ।
॥ ఋష్యాదిన్యాసః ॥
బ్రహ్మవిష్ణురుద్రౠషిభ్యో నమః, శిరసి ।
గాయత్ర్యుష్ణిగనుష్టుప్ఛన్దోభ్యో నమః, ముఖే ।
మహాకాలీ మహాలక్ష్మీ మహాసరస్వతీ దేవతాభ్యో నమః, హృది ।
ఐం బీజాయ నమః, గుహ్యే ।
హ్రీం శక్తయే నమః, పాదయోః ।
క్లీం కీలకాయ నమః, నాభౌ ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే, సర్వాఙ్గే, ఇస మూలమన్త్ర సే హాథోం కీ శుద్ధి కరకే కరన్యాస కరేం ।
॥ కరన్యాసః ॥
కరన్యాస మేం హాథ కీ విభిన్న అఙ్గులియోం హథేలియోం ఔర హాథ కే పృష్ఠ భాగ మేం మన్త్రోం కా న్యాస (స్థాపిత) కియా జాతా హై । ఇసీ ప్రకార అఙ్గన్యాస మేం హృదయాది అఙ్గోం మేం మన్త్రోం కీ స్థాపనా హోతీ హై మన్త్రోం కో చేతన ఔర మూర్తిమాన్ మానకర ఉన ఉన అఙ్గోం కా నామ లేకర ఉన మన్త్రమయ దేవతాఓం కా హీ స్పర్శ ఔర వన్దన కియా జాతా హై । ఐసా కరనే సే పాఠ యా జప కరనే వాలా స్వయం మన్త్రమయ హోకర మన్త్ర దేవతాఓం ద్వారా సర్వథా సురక్షిత హో జాతా హైం । ఉసకే బాహర భీతర కీ శుద్ధి హోతీ హై । దివ్యబల ప్రాప్త హోతా హై ఔర సాధనా నిర్విఘ్నతా పూర్వక పూర్ణ తథా పరమ లాభదాయక హోతీ హై ।
ఓం ఐం అఙ్గుష్ఠాభ్యాం నమః । (దోనోం హాథోం కే తర్జనీ అఁగులియోం సే దోనోం అఁగుఠోం కా స్పర్శ)
ఓం హ్రీం తర్జనీభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం తర్జనీ అఁగులియోం కా స్పర్శ)
ఓం క్లీం మధ్యమాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం మాధ్యమా అఁగులియోం కా స్పర్శ)
ఓం చాముణ్డాయై అనామికాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం అనామికా అఁగులియోం కా స్పర్శ)
ఓం విచ్చే కనిష్ఠికాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం కనిష్ఠకా అఁగులియోం కా స్పర్శ)
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే కరతల కరపృష్ఠాభ్యాం నమః । (హథేలింయోం ఔర ఉనకే పృష్ఠ భాగోం కా పరస్పర స్పర్శ)
॥ హృదయాదిన్యాసః ॥
ఇసమేం దాహినే హాథ కీ పాఁచోం అఁగులియోం సే హృదయ ఆది అఙ్గోం కా స్పర్శ కియా జాతా హై ।
ఓం ఐం హృదయాయ నమః । (దాహినే హాథ కీ పాఁచోం అఁగులియోం సే హృదయ కా స్పర్శ)
ఓం హ్రీం శిరసే స్వాహా । (సిర కా స్పర్శ)
ఓం క్లీం శిఖాయై వషట్ । (శిఖా కా స్పర్శ)
ఓం చాముణ్డాయై కవచాయ హుమ్ । (దాహినే హాథ కీ అఁగులియోం సే బాయేం కన్ధే కా ఔర బాఁయేం హాథ కీ అఙ్గులియోం సే దాహినే కన్ధే కా సాథ హీ స్పర్శ)
ఓం విచ్చే నేత్రత్రయాయ వౌషట్ । (దాహినే హాథ కీ అఁగులియోం కే అగ్ర భాగ సే దోనోం నేత్రోం ఔర లలాట కే మధ్య భాగ కా స్పర్శ)
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే అస్త్రాయ ఫట్ । (యహ వాక్య పఢ़కర దాహినే హాథ కో సిర కే ఉపర సే బాఁయీ ఓర సే పీఛే కీ ఓర లే జాకర దాహినీ ఓర సే ఆగే కీ ఓర లే ఆయే ఔర తర్జన్నీ తథా మధ్యమా అఁగులియోం సే బాయేం హాథ కీ హథేలీ పర తాల బజావేం ।
॥ అక్షరన్యాసః ॥
నిమ్నాఙ్కిత వాక్యోం కో పఢ़కర క్రమశః శిఖా ఆది కా దాహినే హాథ కీ అఙ్గులియోం సే స్పర్శ కరే ।
ఓం ఐం నమః శిఖాయామ్ ।
ఓం హ్రీం నమః దక్షిణనేత్రే ।
ఓం క్లీం నమః వామనేత్రే ।
ఓం చాం నమః దక్షిణకర్ణే ।
ఓం ముం నమః వామకర్ణే ।
ఓం డాం నమః దక్షిణనాసాపుటే ।
ఓం యైం నమః వామనాసాపుటే ।
ఓం విం నమః ముఖే ।
ఓం చ్చేం నమః గుహ్యే ।
ఏవం విన్యస్య ``ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే'' ఇతి నవార్ణమన్త్రేణ అష్టవారం వ్యాపకం కుర్యాత్ ।
ఇస ప్రకార న్యాస కరకే ``ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే'', ఇస మన్త్ర సే ఆఠ బార వ్యాపక (దోనోం హాథోం ద్వారా) సిర సే లేకర పైర తక కే సబ అఙ్గోం కా స్పర్శ కరేం । బాద మేం ప్రత్యక దిశా మేం చుట్కీ బజాతే హుయే న్యాస కరేం ।
॥ దిఙ్న్యాసః ॥
ఓం ఐం ప్రాచ్యై నమః ।
ఓం ఐం ఆగ్నేయ్యై నమః ।
ఓం హ్రీం దక్షిణాయై నమః ।
ఓం హ్రీం నైౠత్యై నమః ।
ఓం క్లీం ప్రతీచ్యై నమః ।
ఓం క్లీం వాయవ్యై నమః ।
ఓం చాముణ్డాయై ఉదీచ్యై నమః ।
ఓం చాముణ్డాయై ఐశాన్యై నమః ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే ఊర్ధ్వాయై నమః ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే భూమ్యై నమః ।
॥ ధ్యానం ॥
మహాకాలీ -
ఖడ్గఞ్చక్రగదేషు చాపపరిఘాఞ్ఛూలమ్భుశుణ్డీం శిరః
శఙ్ఖంసన్దధతీం కరైస్త్రినయనాం సర్వాఙ్గభూషావృతామ్ ।
నీలాశ్మద్యుతిమాస్యపాదదశకాం సేవే మహాకాలికాం
యామస్తౌత్స్వపితే హరౌకమలజో హన్తుమ్మధుఙ్కైటభమ్ ॥ ౧॥
మహాలక్ష్మీ -
అక్షస్రక్పరశుం గదేషుకులిశం పద్మన్ధనుష్కుణ్డికాం (పద్మన్ధనుఃకుణ్డికాం)
దణ్డంశక్తిమసిం చ చర్మ జలజం ఘణ్టాం సురాభాజనమ్ ।
శూలం పాశసుదర్శనే చ దధతీం హస్తైః ప్రసన్నాననాం
సేవే సైరిభమర్దినీమిహ మహాలక్ష్మీం సరోజస్థితామ్ ॥ ౨॥
మహాసరస్వతీ -
ఘణ్టాశూలహలాని శఙ్ఖముసలే చక్రం ధనుః సాయకం
హస్తాబ్జైర్దధతీం ఘనాన్తవిలసచ్ఛీతాంశుతుల్యప్రభామ్ ।
గౌరీదేహసముద్భవాం త్రిజగతామాధారభూతాం మహా-
పూర్వామత్ర సరస్వతీమనుభజే శుమ్భాదిదైత్యార్దినీమ్ ॥ ౩॥
మాలా ప్రార్థనా
ఫిర ``ఐం హ్రీం అక్షమాలికాయై నమః'' ఇస మన్త్ర సే మాలా కీ పూజా కరకే ప్రార్థనా కరేం-
ఓం మాం మాలే మహామాయే సర్వశక్తి స్వరూపిణి ।
చతుర్వర్గస్త్వయి న్యస్తస్తస్మాన్మే సిద్ధిదా భవ ॥ ౧॥
ఓం అవిఘ్నం కురు మాలే త్వం గృహ్ణామి దక్షిణేఃకరే ।
జపకాలే చ సిద్ధ్యర్థం ప్రసీద మమ సిద్ధయే ॥ ౨॥
ఇసకే పశ్చాత
ఓం అక్షమాలాధిపతయే సుసిద్ధిం దేహి దేహి సర్వమన్త్రార్థసాధిని
సాధయ సాధయ సర్వసిద్ధిం పరికల్పయ పరికల్పయ మే స్వాహా ॥
ఇసకే బాద ``ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే'' ఇస మన్త్ర కా ౧౦౮ బార జప కరేం ఔర-
గుహ్యాతిగుహ్యగోప్త్రీ త్వం గృహాణాస్మత్కృతం జపమ్ ।
సిద్ధిర్భవతు మే దేవి త్వత్ప్రసాదాన్ మహేశ్వరి ॥
ఇస శ్లోక కో పఢ़కర దేవీ కే వామహస్త మేం జప నివేదన కరేం ।
॥ ఇతినవార్ణజపవిధిః ॥
నవార్ణ విధి మేం అనుసార జప కరనే కే బాద సప్తశతీ కే వినియోగ న్యాస ఔర ధ్యాన కరనే చాహియే । పూర్వాఙ్కిత క్రమానుసార న్యాసాది కరేం ।
అథ బీజాత్మక శ్రీతన్త్ర దుర్గా సప్తశతీ వినియోగ-న్యాస-ధ్యానాది ।
వినియోగః-
ప్రథమమధ్యమోత్తరచరిత్రాణాం బ్రహ్మవిష్ణురుద్రా ఋషయః,
శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వత్యో దేవతాః,
గాయత్ర్యుష్ణిగనుష్టుభశ్ఛన్దాంసి,
నన్దాశాకమ్భరీభీమాః శక్తయః,
రక్తదన్తికా దుర్గాభ్రామర్యో బీజాని,
అగ్ని వాయు సూర్యాస్తత్త్వాని,
ఋగ్యజుః సామవేదా ధ్యానాని,
సకలకామనాసిద్ధయే శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వతీ ప్రీత్యర్థే జపే వినియోగః ।
ఇసే పఢకర జల గిరాయేం ।
॥ కరన్యాస ॥
ఖడ్గనీ శూలినీ ఘోరా గదినీ చక్రిణీ తథా । (ఖడ్గినీ)
శఙ్ఖినీ చాపినీ బాణభుశుణ్డీ పరిఘాయుధా ॥
ఓం ఐం స్లూం అఙ్గుష్ఠాభ్యాం నమః ।
ఓం శూలేన పాహి నో దేవి పాహి ఖడ్గేన చామ్బికే ।
ఘణ్టా స్వనేన నః పాహి చాపజ్యానిస్వనేన చ ॥ (చాపజ్యానిఃస్వనేన)
ఓం ఐం ఫ్రేం తర్జనీభ్యాం నమః ।
ప్రాచ్యాం రక్ష ప్రతీచ్యాం చ చణ్డికే రక్ష దక్షిణే ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాన్తథేశ్వరి ॥
ఓం ఐం క్రీం మధ్యమాభ్యాం నమః ।
ఓం సౌమ్యానియాని యాని రూపాణి త్రైలోక్యే విచరన్తి తే ।
యాని చాత్యర్థఘోరాణి తైః రక్షాస్మాంస్తథా భువమ్ ॥
ఓం ఐం మ్లూం అనామికాభ్యాం నమః ।
ఓం ఖడ్గశూలగదాదీని యాని చాస్త్రాణి తేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్ రక్ష సర్వతః ॥
ఓం ఐం ఘైం (ఘ్నైం, ఘ్రేం) కనిష్ఠికాభ్యాం నమః ।
ఓం సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే ।
భయేభ్యస్త్రాహి నో దేవి దుర్గే దేవి నమోఽస్తుతే ॥
ఓం ఐం శ్రూం కరతలకరపృష్ఠాభ్యాం నమః ॥
॥ ఋష్యాదిన్యాసః ॥
ఖడ్గినీ శూలినీ ఘోరా గదినీ చక్రిణీ తథా ।
శఙ్ఖినీ చాపినీ బాణభుశుణ్డీ పరిఘాయుధా ॥
ఓం ఐం స్లూం నమః హృదయాయ నమః ।
ఓం శూలేన పాహి నో దేవి పాహి ఖడ్గేన చామ్బికే ।
ఘణ్టా స్వనేన నః పాహి చాపజ్యానిస్వనేన చ ॥ (చాపజ్యానిఃస్వనేన)
ఓం ఐం ఫ్రేం నమః శిరసే స్వాహా ।
ప్రాచ్యాం రక్ష ప్రతీచ్యాం చ చణ్డికే రక్ష దక్షిణే ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాన్తథేశ్వరి ॥
ఓం ఐం క్రీం నమః శిఖాయై వషట్ ।
ఓం సౌమ్యానియాని యాని రూపాణి త్రైలోక్యే విచరన్తి తే ।
యాని చాత్యర్థఘోరాణి తైః రక్షాస్మాంస్తథా భువమ్ ॥
ఓం ఐం మ్లూం నమః కవచాయ హుమ్ ।
ఓం ఖడ్గశూలగదాదీని యాని చాస్త్రాణి తేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్ రక్ష సర్వతః ॥
ఓం ఐం ఘైం (ఘ్నైం, ఘ్రేం) నమః నేత్రత్రయాయ వౌషట్ ।
ఓం సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే ।
భయేభ్యస్త్రాహి నో దేవి దుర్గే దేవి నమోఽస్తుతే ॥
ఓం ఐం శ్రూం నమః అస్త్రాయ ఫట్ ॥
॥ ధ్యానమన్త్రః ॥
విద్యుద్దామసమప్రభాం మృగపతిస్కన్ధస్థితాం భీషణాం
కన్యాభిఃకరవాలఖేటవిలసద్ధస్తాభిరాసేవితామ్ ॥
హస్తైశ్చక్రగదాసిఖేటవిశిఖాం శ్చాపం గుణం తర్జనీం
విభ్రాణామనలాత్మికాం శశిధరాం దుర్గాం త్రినేత్రాం భజే ॥
అర్థ - జినకే అఙ్గోం కీ శోభా బిజలీ కే సమాన హైం, జో సింహ కీ సవరీ పర బైఠీం హుఈం భయఙ్కర ప్రతీత హోతీ హై, హాథోం మేం తలవార వ ఢాల లియే ఐసీ అనేక కన్యాయేం జినకీ సేవా మేం ఖడ़ీ హైం, జో అపనే హాథోం మేం చక్ర-గదా-తలవార-ఢాల-బాణ-ధనుష-పాశ ఔర తర్జనీముద్రా ధారణ కియే హుయే హైం, జినకా స్వరూప అగ్నిమయ హైం, తథా జినకే మాథే పర చన్ద్రమా కా ముకుట శోభా పా రహా హై, ఐసీ తీన నేత్రవాలీ శ్రీ దుర్గా దేవీ కా ధ్యాన కరతా (యా కరతీ) హూఁ । ఇస ప్రకార భగవతీ దుర్గా దేవీ కా ధ్యాన కరకే శ్రీ తన్త్ర దుర్గా సప్తశతీ కా పాఠ ఆరమ్భ కరేం ।
variation for dhyAnamantraH
యా చణ్డీ మధుకైటభాది దైత్యదలనీ యా మహిషోన్మూలినీ,
యా ధూమ్రేక్షణచణ్డముణ్డ మథనీ యా రక్తబీజాశినీ ।
శక్తిః శుమ్భనిశుమ్భదైత్యదలనీ యా సిద్ధి లక్ష్మీః పరా,
సా దుర్గా నవకోటి మూర్తిసహితా మాం పాతు విశ్వేశ్వరీ ॥
ఇతిశ్రీతన్త్రదుర్గాసప్తశతీ-వినియోగ-న్యాస ధ్యానాది ॥
సఙ్కేత - క్రమానుసార యే బీజమన్త్ర జపనే సే సకల కామనాప్రద నిశ్చిత హైం । ఏవమేవ సర్వత్ర అతి ప్రచలిత దుర్గా సప్తశతీ కే మన్త్రోం మేం సమ్పుటిత కరనే సే భీ శీఘ్ర సిద్ధ హోనీ హై ।
॥ అథ బీజాత్మక శ్రీ తన్త్ర దుర్గా సప్తశతీ పాఠారమ్భః ॥
॥ ఓం శ్రీగణేశాయ నమః ॥
॥ శ్రీదుర్గాయై నమః ॥
॥ ౧. మధుకైటభవధో నామ ప్రథమోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ ప్రథమచరిత్రస్య ।
బ్రహ్మా ఋషిః ।
మహాకాలీ దేవతా ।
గాయత్రీ ఛన్దః ।
నన్దా శక్తిః ।
రక్తదన్తికా బీజమ్ ।
అగ్నిస్తత్త్వమ్ ।
ఋగ్వేదః స్వరూపమ్ ।
శ్రీమహాకాలీప్రీత్యర్థే ప్రథమచరిత్రజపే (పాఠే) వినియోగః ।
ధ్యానమ్ ।
ఓం ఖడ్గం చక్రగదేషుచాపపరిఘాఞ్ఛూలం భుశుణ్డీ శిరః
శఙ్ఖం సన్దధతీం కరైస్త్రినయనాం సర్వాఙ్గభూషావృతామ్ ।
నీలాశ్మద్యుతిమాస్యపాదదశకాం సేవే మహాకాలికాం
యామస్తౌ త్స్వపితే హరౌ కమలజో హన్తుం మధుం కైటభమ్ ॥
ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే ।
ఓం బీజత్రయాయై విద్మహే తత్ప్రధానాయై ధీమహి । తన్నః శక్తిః ప్రచోదయాత్ ।
ఓం ఐం శ్రీం నమః ।౧।
ఓం ఐం హ్రీం నమః ।౨।
ఓం నమశ్చణ్డికాయై ॥
ఓం ఐం మార్కణ్డేయ ఉవాచ ॥ ౧.౧॥ ఓం ఐం శ్రీం నమః ॥ ౧॥
సావర్ణిః సూర్యతనయో యో మనుః కథ్యతేఽష్టమః ।
నిశామయ తదుత్పత్తిం విస్తరాద్గదతో మమ ॥ ౧.౨॥ ఓం ఐం హ్రీం నమః ॥ ౨॥
మహామాయానుభావేన యథా మన్వన్తరాధిపః ।
స బభూవ మహాభాగః సావర్ణిస్తనయో రవేః ॥ ౧.౩॥ ఓం ఐం క్లీం నమః ॥ ౩॥
స్వారోచిషేఽన్తరే పూర్వం చైత్రవంశసముద్భవః ।
సురథో నామ రాజాభూత్సమస్తే క్షితిమణ్డలే ॥ ౧.౪॥ ఓం ఐం శ్రీం నమః ॥ ౪॥
తస్య పాలయతః సమ్యక్ ప్రజాః పుత్రానివౌరసాన్ ।
బభూవుః శత్రవో భూపాః కోలావిధ్వంసినస్తదా ॥ ౧.౫॥ ఓం ఐం ప్రీం నమః ॥ ౫॥
తస్య తైరభవద్ యుద్ధమతిప్రబలదణ్డినః ।
న్యూనైరపి స తైర్యుద్ధే కోలావిధ్వంసిభిర్జితః ॥ ౧.౬॥ ఓం ఐం హ్రాం నమః ॥ ౬॥
తతః స్వపురమాయాతో నిజదేశాధిపోఽభవత్ ।
ఆక్రాన్తః స మహాభాగస్తైస్తదా ప్రబలారిభిః ॥ ౧.౭॥ ఓం ఐం హ్రీం నమః ॥ ౭॥
అమాత్యైర్బలిభిర్దుష్టైర్దుర్బలస్య దురాత్మభిః ।
కోశో బలం చాపహృతం తత్రాపి స్వపురే తతః ॥ ౧.౮॥ ఓం ఐం స్రౌం నమః ॥ ౮॥
తతో మృగయావ్యాజేన హృతస్వామ్యః స భూపతిః ।
ఏకాకీ హయమారుహ్య జగామ గహనం వనమ్ ॥ ౧.౯॥ ఓం ఐం ప్రేం నమః ॥ ౯॥
స తత్రాశ్రమమద్రాక్షీద్ద్విజవర్యస్య మేధసః ।
ప్రశాన్తశ్వాపదాకీర్ణం మునిశిష్యోపశోభితమ్ ॥ ౧.౧౦॥ ఓం ఐం మ్రీం నమః ॥ ౧౦॥
తస్థౌ కఞ్చిత్స కాలం చ మునినా తేన సత్కృతః ।
ఇతశ్చేతశ్చ విచరంస్తస్మిన్ మునివరాశ్రమే ॥ ౧.౧౧॥ ఓం ఐం హ్లీం నమః ॥ ౧౧॥
సోఽచిన్తయత్తదా తత్ర మమత్వాకృష్టమానసః ।
మత్పూర్వైః పాలితం పూర్వం మయా హీనం పురం హి తత్ ॥ ౧.౧౨॥ ఓం ఐం మ్లీం నమః ॥ ౧౨॥
మద్భృత్యైస్తైరసద్వృత్తైర్ధర్మతః పాల్యతే న వా ।
న జానే స ప్రధానో మే శూరో హస్తీ సదామదః ॥ ౧.౧౩॥ ఓం ఐం స్త్రీం నమః ॥ ౧౩॥
మమ వైరివశం యాతః కాన్ భోగానుపలప్స్యతే ।
యే మమానుగతా నిత్యం ప్రసాదధనభోజనైః ॥ ౧.౧౪॥ ఓం ఐం క్రాం నమః ॥ ౧౪॥
అనువృత్తిం ధ్రువం తేఽద్య కుర్వన్త్యన్యమహీభృతామ్ ।
అసమ్యగ్వ్యయశీలైస్తైః కుర్వద్భిః సతతం వ్యయమ్ ॥ ౧.౧౫॥ ఓం ఐం హ్స్లీం నమః ॥ ౧౫॥
సఞ్చితః సోఽతిదుఃఖేన క్షయం కోశో గమిష్యతి ।
ఏతచ్చాన్యచ్చ సతతం చిన్తయామాస పార్థివః ॥ ౧.౧౬॥ ఓం ఐం క్రీం నమః ॥ ౧౬॥
తత్ర విప్రాశ్రమాభ్యాశే వైశ్యమేకం దదర్శ సః ।
స పృష్టస్తేన కస్త్వం భో హేతుశ్చాగమనేఽత్ర కః ॥ ౧.౧౭॥ ఓం ఐం చాం నమః ॥ ౧౭॥
సశోక ఇవ కస్మాత్త్వం దుర్మనా ఇవ లక్ష్యసే ।
ఇత్యాకర్ణ్య వచస్తస్య భూపతేః ప్రణయోదితమ్ ॥ ౧.౧౮॥ ఓం ఐం భేం నమః ॥ ౧౮॥
ప్రత్యువాచ స తం వైశ్యః ప్రశ్రయావనతో నృపమ్ ॥ ౧.౧౯॥ ఓం ఐం క్రీం నమః ॥ ౧౯॥
వైశ్య ఉవాచ ॥ ౧.౨౦॥ ఓం ఐం వైం నమః ॥ ౨౦॥
సమాధిర్నామ వైశ్యోఽహముత్పన్నో ధనినాం కులే ॥ ౧.౨౧॥ ఓం ఐం హ్రౌం నమః ॥ ౨౧॥
పుత్రదారైర్నిరస్తశ్చ ధనలోభాదసాధుభిః ।
విహీనశ్చ ధనైర్దారైః పుత్రైరాదాయ మే ధనమ్ ॥ ౧.౨౨॥ ఓం ఐం యుం నమః ॥ ౨౨॥
వనమభ్యాగతో దుఃఖీ నిరస్తశ్చాప్తబన్ధుభిః ।
సోఽహం న వేద్మి పుత్రాణాం కుశలాకుశలాత్మికామ్ ॥ ౧.౨౩॥ ఓం ఐం జుం నమః ॥ ౨౩॥
ప్రవృత్తిం స్వజనానాం చ దారాణాం చాత్ర సంస్థితః ।
కిం ను తేషాం గృహే క్షేమమక్షేమం కిం ను సామ్ప్రతమ్ ॥ ౧.౨౪॥ ఓం ఐం హం నమః ॥ ౨౪॥
కథం తే కిం ను సద్వృత్తా దుర్వృత్తాః కిం ను మే సుతాః ॥ ౧.౨౫॥ ఓం ఐం శం నమః ॥ ౨౫॥
రాజోవాచ ॥ ౧.౨౬॥ ఓం ఐం రౌం నమః ॥ ౨౬॥
యైర్నిరస్తో భవాఁల్లుబ్ధైః పుత్రదారాదిభిర్ధనైః ॥ ౧.౨౭॥ ఓం ఐం యం నమః ॥ ౨౭॥
తేషు కిం భవతః స్నేహమనుబధ్నాతి మానసమ్ ॥ ౧.౨౮॥ ఓం ఐం విం నమః ॥ ౨౮॥
వైశ్య ఉవాచ ॥ ౧.౨౯॥ ఓం ఐం వైం నమః ॥ ౨౯॥
ఏవమేతద్యథా ప్రాహ భవానస్మద్గతం వచః ॥ ౧.౩౦॥ ఓం ఐం చేం నమః ॥ ౩౦॥
కిం కరోమి న బధ్నాతి మమ నిష్ఠురతాం మనః ।
యైః సన్త్యజ్య పితృస్నేహం ధనలుబ్ధైర్నిరాకృతః ॥ ౧.౩౧॥ ఓం ఐం హ్రీం నమః ॥ ౩౧॥
పతిస్వజనహార్దం చ హార్దితేష్వేవ మే మనః ।
కిమేతన్నాభిజానామి జానన్నపి మహామతే ॥ ౧.౩౨॥ ఓం ఐం క్రూం నమః ॥ ౩౨॥
యత్ప్రేమప్రవణం చిత్తం విగుణేష్వపి బన్ధుషు ।
తేషాం కృతే మే నిఃశ్వాసో దౌర్మనస్యం చ జాయతే ॥ ౧.౩౩॥ ఓం ఐం సం నమః ॥ ౩౩॥
కరోమి కిం యన్న మనస్తేష్వప్రీతిషు నిష్ఠురమ్ ॥ ౧.౩౪॥ ఓం ఐం కం నమః ॥ ౩౪॥
మార్కణ్డేయ ఉవాచ ॥ ౧.౩౫॥ ఓం ఐం శ్రీం నమః ॥ ౩౫॥
తతస్తౌ సహితౌ విప్ర తం మునిం సముపస్థితౌ ॥ ౧.౩౬॥ ఓం ఐం త్రోం నమః ॥ ౩౬॥
సమాధిర్నామ వైశ్యోఽసౌ స చ పార్థివసత్తమః ।
కృత్వా తు తౌ యథాన్యాయం యథార్హం తేన సంవిదమ్ ॥ ౧.౩౭॥ ఓం ఐం స్త్రాం నమః ॥ ౩౭॥
ఉపవిష్టౌ కథాః కాశ్చిచ్చక్రతుర్వైశ్యపార్థివౌ ॥ ౧.౩౮॥ ఓం ఐం జ్యం నమః ॥ ౩౮॥
రాజోవాచ ॥ ౧.౩౯॥ ఓం ఐం రౌం నమః ॥ ౩౯॥
భగవంస్త్వామహం ప్రష్టుమిచ్ఛామ్యేకం వదస్వ తత్ ॥ ౧.౪౦॥ ఓం ఐం ద్రాం నమః ॥ ౪౦॥
దుఃఖాయ యన్మే మనసః స్వచిత్తాయత్తతాం వినా ।
మమత్వం గతరాజ్యస్య రాజ్యాఙ్గేష్వఖిలేష్వపి ॥ ౧.౪౧॥ ఓం ఐం హ్రాం (ద్రీం, ద్రోం) నమః ॥ ౪౧॥
జానతోఽపి యథాజ్ఞస్య కిమేతన్మునిసత్తమ ।
అయం చ నికృతః పుత్రైర్దారైర్భృత్యైస్తథోజ్ఝితః ॥ ౧.౪౨॥ ఓం ఐం హ్రాం నమః ॥ ౪౨॥
స్వజనేన చ సన్త్యక్తస్తేషు హార్దీ తథాప్యతి ।
ఏవమేష తథాహం చ ద్వావప్యత్యన్తదుఃఖితౌ ॥ ౧.౪౩॥ ఓం ఐం ద్రూం నమః ॥ ౪౩॥
దృష్టదోషేఽపి విషయే మమత్వాకృష్టమానసౌ ।
తత్కిమేతన్మహాభాగ యన్మోహో జ్ఞానినోరపి ॥ ౧.౪౪॥ ఓం ఐం శాం నమః ॥ ౪౪॥
మమాస్య చ భవత్యేషా వివేకాన్ధస్య మూఢతా ॥ ౧.౪౫॥ ఓం ఐం క్రీం (మ్రీం, మీం) నమః ॥ ౪౫॥
ఋషిరువాచ ॥ ౧.౪౬॥ ఓం ఐం శ్రౌం నమః ॥ ౪౬॥
జ్ఞానమస్తి సమస్తస్య జన్తోర్విషయగోచరే ॥ ౧.౪౭॥ ఓం ఐం జుం నమః ॥ ౪౭॥
విషయాశ్చ మహాభాగ యాన్తి చైవం పృథక్పృథక్ ।
దివాన్ధాః ప్రాణినః కేచిద్రాత్రావన్ధాస్తథాపరే ॥ ౧.౪౮॥ ఓం ఐం హ్ల్రూం నమః ॥ ౪౮॥
కేచిద్దివా తథా రాత్రౌ ప్రాణినస్తుల్యదృష్టయః ।
జ్ఞానినో మనుజాః సత్యం కిం తు తే న హి కేవలమ్ ॥ ౧.౪౯॥ ఓం ఐం శ్రూం నమః ॥ ౪౯॥
యతో హి జ్ఞానినః సర్వే పశుపక్షిమృగాదయః ।
జ్ఞానం చ తన్మనుష్యాణాం యత్తేషాం మృగపక్షిణామ్ ॥ ౧.౫౦॥ ఓం ఐం ప్రీం నమః ॥ ౫౦॥
మనుష్యాణాం చ యత్తేషాం తుల్యమన్యత్తథోభయోః ।
జ్ఞానేఽపి సతి పశ్యైతాన్ పతఙ్గాఞ్ఛావచఞ్చుషు ॥ ౧.౫౧॥ ఓం ఐం రం నమః ॥ ౫౧॥
కణమోక్షాదృతాన్ మోహాత్పీడ్యమానానపి క్షుధా ।
మానుషా మనుజవ్యాఘ్ర సాభిలాషాః సుతాన్ ప్రతి ॥ ౧.౫౨॥ ఓం ఐం వం నమః ॥ ౫౨॥
లోభాత్ ప్రత్యుపకారాయ నన్వేతాన్ కిం న పశ్యసి ।
తథాపి మమతావర్త్తే మోహగర్తే నిపాతితాః ॥ ౧.౫౩॥ ఓం ఐం బ్రోం (వ్రీం) నమః ॥ ౫౩॥
మహామాయాప్రభావేణ సంసారస్థితికారిణా ।
తన్నాత్ర విస్మయః కార్యో యోగనిద్రా జగత్పతేః ॥ ౧.౫౪॥ ఓం ఐం బ్లం (బ్లూం) నమః ॥ ౫౪॥
మహామాయా హరేశ్చైషా తయా సమ్మోహ్యతే జగత్ ।
జ్ఞానినామపి చేతాంసి దేవీ భగవతీ హి సా ॥ ౧.౫౫॥ ఓం ఐం స్రాం (స్త్రాం, స్త్రౌం) నమః ॥ ౫౫॥
బలాదాకృష్య మోహాయ మహామాయా ప్రయచ్ఛతి ।
తయా విసృజ్యతే విశ్వం జగదేతచ్చరాచరమ్ ॥ ౧.౫౬॥ ఓం ఐం ల్వాం (వ్లాం) నమః ॥ ౫౬॥
సైషా ప్రసన్నా వరదా నృణాం భవతి ముక్తయే ।
సా విద్యా పరమా ముక్తేర్హేతుభూతా సనాతనీ ॥ ౧.౫౭॥ ఓం ఐం లూం నమః ॥ ౫౭॥
సంసారబన్ధహేతుశ్చ సైవ సర్వేశ్వరేశ్వరీ ॥ ౧.౫౮॥
రాజోవాచ ॥ ౧.౫౯॥ ఓం ఐం సాం నమః ॥ ౫౮॥
భగవన్ కా హి సా దేవీ మహామాయేతి యాం భవాన్ ॥ ౧.౬౦॥ ఓం ఐం రౌం నమః ॥ ౫౯॥
బ్రవీతి కథముత్పన్నా సా కర్మాస్యాశ్చ కిం ద్విజ । ఓం ఐం స్హౌం (శౌం) నమః ॥ ౬౦॥
యత్ప్రభావా చ సా దేవీ యత్స్వరూపా యదుద్భవా ॥ ౧.౬౧॥ ఓం ఐం క్రూం నమః ॥ ౬౧॥
తత్సర్వం శ్రోతుమిచ్ఛామి త్వత్తో బ్రహ్మవిదాం వర ॥ ౧.౬౨॥ ఓం ఐం శౌం నమః ॥ ౬౨॥
ఋషిరువాచ ॥ ౧.౬౩॥ ఓం ఐం శ్రౌం నమః ॥ ౬౩॥
నిత్యైవ సా జగన్మూర్తిస్తయా సర్వమిదం తతమ్ ॥ ౧.౬౪॥ ఓం ఐం వం నమః ॥ ౬౪॥
తథాపి తత్సముత్పత్తిర్బహుధా శ్రూయతాం మమ ।
దేవానాం కార్యసిద్ధ్యర్థమావిర్భవతి సా యదా ॥ ౧.౬౫॥ ఓం ఐం త్రూం నమః ॥ ౬౫॥
ఉత్పన్నేతి తదా లోకే సా నిత్యాప్యభిధీయతే ।
యోగనిద్రాం యదా విష్ణుర్జగత్యేకార్ణవీకృతే ॥ ౧.౬౬॥ ఓం ఐం క్రౌం నమః ॥ ౬౬॥
ఆస్తీర్య శేషమభజత్ కల్పాన్తే భగవాన్ ప్రభుః ।
తదా ద్వావసురౌ ఘోరౌ విఖ్యాతౌ మధుకైటభౌ ॥ ౧.౬౭॥ ఓం ఐం క్లూం నమః ॥ ౬౭॥
విష్ణుకర్ణమలోద్భూతౌ హన్తుం బ్రహ్మాణముద్యతౌ ।
స నాభికమలే విష్ణోః స్థితో బ్రహ్మా ప్రజాపతిః ॥ ౧.౬౮॥ ఓం ఐం క్లీం నమః ॥ ౬౮॥
దృష్ట్వా తావసురౌ చోగ్రౌ ప్రసుప్తం చ జనార్దనమ్ ।
తుష్టావ యోగనిద్రాం తామేకాగ్రహృదయః స్థితః ॥ ౧.౬౯॥ ఓం ఐం శ్రీం నమః ॥ ౬౯॥
విబోధనార్థాయ హరేర్హరినేత్రకృతాలయామ్ ।
విశ్వేశ్వరీం జగద్ధాత్రీం స్థితిసంహారకారిణీమ్ ॥ ౧.౭౦॥ ఓం ఐం బ్లూం నమః ॥ ౭౦॥
నిద్రాం భగవతీం విష్ణోరతులాం తేజసః ప్రభుః ॥ ౧.౭౧॥ ఓం ఐం ఠాం నమః ॥ ౭౧॥
బ్రహ్మోవాచ ॥ ౧.౭౨॥ ఓం ఐం హ్రీం (ఠ్రీం) నమః ॥ ౭౨॥
త్వం స్వాహా త్వం స్వధా త్వం హి వషట్కారః స్వరాత్మికా ॥ ౧.౭౩॥ ఓం ఐం స్త్రాం నమః ॥ ౭౩॥
సుధా త్వమక్షరే నిత్యే త్రిధా మాత్రాత్మికా స్థితా ।
అర్ధమాత్రా స్థితా నిత్యా యానుచ్చార్యావిశేషతః ॥ ౧.౭౪॥ ఓం ఐం స్లూం నమః ॥ ౭౪॥
త్వమేవ సన్ధ్యా సావిత్రీ త్వం దేవి జననీ పరా ।
త్వయైతద్ధార్యతే విశ్వం త్వయైతత్ సృజ్యతే జగత్ ॥ ౧.౭౫॥ ఓం ఐం క్రైం నమః ॥ ౭౫॥
త్వయైతత్ పాల్యతే దేవి త్వమత్స్యన్తే చ సర్వదా ।
విసృష్టౌ సృష్టిరూపా త్వం స్థితిరూపా చ పాలనే ॥ ౧.౭౬॥ ఓం ఐం త్రాం (చ్రాం) నమః ॥ ౭౬॥
తథా సంహృతిరూపాన్తే జగతోఽస్య జగన్మయే ।
మహావిద్యా మహామాయా మహామేధా మహాస్మృతిః ॥ ౧.౭౭॥ ఓం ఐం ఫ్రాం నమః ॥ ౭౭॥
మహామోహా చ భవతీ మహాదేవీ మహేశ్వరీ ।
ప్రకృతిస్త్వం చ సర్వస్య గుణత్రయవిభావినీ ॥ ౧.౭౮॥ ఓం ఐం జీం నమః ॥ ౭౮॥
కాలరాత్రిర్మహారాత్రిర్మోహరాత్రిశ్చ దారుణా ।
త్వం శ్రీస్త్వమీశ్వరీ త్వం హ్రీస్త్వం బుద్ధిర్బోధలక్షణా ॥ ౧.౭౯॥ ఓం ఐం లూం నమః ॥ ౭౯॥
లజ్జా పుష్టిస్తథా తుష్టిస్త్వం శాన్తిః క్షాన్తిరేవ చ ।
ఖడ్గినీ శూలినీ ఘోరా గదినీ చక్రిణీ తథా ॥ ౧.౮౦॥ ఓం ఐం స్లూం నమః ॥ ౮౦॥
శఙ్ఖినీ చాపినీ బాణభుశుణ్డీపరిఘాయుధా ।
సౌమ్యా సౌమ్యతరాశేషసౌమ్యేభ్యస్త్వతిసున్దరీ ॥ ౧.౮౧॥ ఓం ఐం నోం నమః ॥ ౮౧॥
పరాపరాణాం పరమా త్వమేవ పరమేశ్వరీ ।
యచ్చ కిఞ్చిత్క్వచిద్వస్తు సదసద్వాఖిలాత్మికే ॥ ౧.౮౨॥ ఓం ఐం స్త్రీం నమః ॥ ౮౨॥
తస్య సర్వస్య యా శక్తిః సా త్వం కిం స్తూయసే మయా ।
యయా త్వయా జగత్స్రష్టా జగత్పాత్యత్తి యో జగత్ ॥ ౧.౮౩॥ ఓం ఐం ప్రూం నమః ॥ ౮౩॥
సోఽపి నిద్రావశం నీతః కస్త్వాం స్తోతుమిహేశ్వరః ।
విష్ణుః శరీరగ్రహణమహమీశాన ఏవ చ ॥ ౧.౮౪॥ ఓం ఐం సూం (స్రూం, స్రం) నమః ॥ ౮౪॥
కారితాస్తే యతోఽతస్త్వాం కః స్తోతుం శక్తిమాన్ భవేత్ ।
సా త్వమిత్థం ప్రభావైః స్వైరుదారైర్దేవి సంస్తుతా ॥ ౧.౮౫॥ ఓం ఐం జ్రాం నమః ॥ ౮౫॥
మోహయైతౌ దురాధర్షావసురౌ మధుకైటభౌ ।
ప్రబోధం చ జగత్స్వామీ నీయతామచ్యుతో లఘు ॥ ౧.౮౬॥ ఓం ఐం బౌం నమః ॥ ౮౬॥
బోధశ్చ క్రియతామస్య హన్తుమేతౌ మహాసురౌ ॥ ౧.౮౭॥ ఓం ఐం ఓం నమః ॥ ౮౭॥
ఋషిరువాచ ॥ ౧.౮౮॥ ఓం ఐం శ్రౌం నమః ॥ ౮౮॥
ఏవం స్తుతా తదా దేవీ తామసీ తత్ర వేధసా ॥ ౧.౮౯॥ ఓం ఐం ఋం నమః ॥ ౮౯॥
విష్ణోః ప్రబోధనార్థాయ నిహన్తుం మధుకైటభౌ ।
నేత్రాస్యనాసికాబాహుహృదయేభ్యస్తథోరసః ॥ ౧.౯౦॥ ఓం ఐం రూం నమః ॥ ౯౦॥
నిర్గమ్య దర్శనే తస్థౌ బ్రహ్మణోఽవ్యక్తజన్మనః ।
ఉత్తస్థౌ చ జగన్నాథస్తయా ముక్తో జనార్దనః ॥ ౧.౯౧॥ ఓం ఐం క్లీం నమః ॥ ౯౧॥
ఏకార్ణవేఽహిశయనాత్తతః స దదృశే చ తౌ ।
మధుకైటభౌ దురాత్మానావతివీర్యపరాక్రమౌ ॥ ౧.౯౨॥ ఓం ఐం దుం నమః ॥ ౯౨॥
క్రోధరక్తేక్షణావత్తుం బ్రహ్మాణం జనితోద్యమౌ ।
సముత్థాయ తతస్తాభ్యాం యుయుధే భగవాన్ హరిః ॥ ౧.౯౩॥ ఓం ఐం హ్రీం నమః ॥ ౯౩॥
పఞ్చవర్షసహస్రాణి బాహుప్రహరణో విభుః ।
తావప్యతిబలోన్మత్తౌ మహామాయావిమోహితౌ ॥ ౧.౯౪॥ ఓం ఐం గూం నమః ॥ ౯౪॥
ఉక్తవన్తౌ వరోఽస్మత్తో వ్రియతామితి కేశవమ్ ॥ ౧.౯౫॥ ఓం ఐం లాం నమః ॥ ౯౫॥
శ్రీభగవానువాచ ॥ ౧.౯౬॥ ఓం ఐం హ్రాం నమః ॥ ౯౬॥
భవేతామద్య మే తుష్టౌ మమ వధ్యావుభావపి ॥ ౧.౯౭॥ ఓం ఐం గం నమః ॥ ౯౭॥
కిమన్యేన వరేణాత్ర ఏతావద్ధి వృతం మయా ॥ ౧.౯౮॥ ఓం ఐం ఐం నమః ॥ ౯౮॥
ఋషిరువాచ ॥ ౧.౯౯॥ ఓం ఐం శ్రౌం నమః ॥ ౯౯॥
వఞ్చితాభ్యామితి తదా సర్వమాపోమయం జగత్ ॥ ౧.౧౦౦॥ ఓం ఐం జూం నమః ॥ ౧౦౦॥
విలోక్య తాభ్యాం గదితో భగవాన్ కమలేక్షణః ।
ఆవాం జహి న యత్రోర్వీ సలిలేన పరిప్లుతా ॥ ౧.౧౦౧॥ ఓం ఐం డేం నమః ॥ ౧౦౧॥
ఋషిరువాచ ॥ ౧.౧౦౨॥ ఓం ఐం శ్రౌం నమః ॥ ౧౦౨॥
తథేత్యుక్త్వా భగవతా శఙ్ఖచక్రగదాభృతా ।
కృత్వా చక్రేణ వై ఛిన్నే జఘనే శిరసీ తయోః ॥ ౧.౧౦౩॥ ఓం ఐం ఛాం (ఛ్రాం) నమః ॥ ౧౦౩॥
ఏవమేషా సముత్పన్నా బ్రహ్మణా సంస్తుతా స్వయమ్ ।
ప్రభావమస్యా దేవ్యాస్తు భూయః శృణు వదామి తే ॥ ౧.౧౦౪॥ ఓం ఐం క్లీం నమః ॥ ౧౦౪॥
। ఐం ఓం ॥
``ఓం శ్రీం క్లీం హ్రీం హ్రీం ఫట్ స్వాహా ॥౧॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కాంపీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
వాగ్భవబీజాధిష్ఠాత్ర్యై మహాకాల్యై మహాహుతిం సమర్పయామి నమః స్వాహా ॥
Variation shloka
బీజాత్మక తన్త్ర దుర్గా సప్తశతీ కే ప్రత్యేక బీజ మన్త్ర కే అన్త మేం స్వాహా లగాకర హవన కరేం తథా ప్రథమ అధ్యాయ కే అన్త మేం నిమ్న మన్త్ర సే హవన కరేం-
ఓం ఐం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
వాగ్బీజాధిష్ఠాత్ర్యై మహాకాలికాయై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మధుకైటభవధో నామ ప్రథమోఽధ్యాయః ॥ ౧॥
ఉవాచ ౧౪, అర్ధశ్లోకాః ౨౪, శ్లోకాః ౬౬, ఏవమాదితః ॥ ౧౦౪॥
॥ ౨. మహిషాసురసైన్యవధో నామ ద్వితీయోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ మధ్యమచరిత్రస్య విష్ణురృషిః ।
శ్రీమహాలక్ష్మీర్దేవతా ।
ఉష్ణిక్ ఛన్దః । శాకమ్భరీ శక్తిః । దుర్గా బీజమ్ ।
వాయుస్తత్త్వమ్ ।
యజుర్వేదః స్వరూపమ్ । శ్రీమహాలక్ష్మీప్రీత్యర్థే
మధ్యమచరిత్రజపే (పాఠే) వినియోగః ।
ధ్యానమ్ ।
ఓం అక్షస్రక్పరశుం గదేషుకులిశం పద్మం ధనుః కుణ్డికాం (ధనుష్కుణ్డికాం)
దణ్డం శక్తిమసిం చ చర్మ జలజం ఘణ్టాం సురాభాజనమ్ ।
శూలం పాశసుదర్శనే చ దధతీం హస్తైః ప్రవాలప్రభాం (ప్రసన్నాననాం)
సేవే సైరిభమర్దినీమిహ మహాలక్ష్మీం సరోజస్థితామ్ ॥
ఓం హ్రీం ఋషిరువాచ ॥ ౨.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
దేవాసురమభూద్యుద్ధం పూర్ణమబ్దశతం పురా ।
మహిషేఽసురాణామధిపే దేవానాం చ పురన్దరే ॥ ౨.౨॥ ఓం ఐం శ్రీం నమః ॥ ౨॥
తత్రాసురైర్మహావీర్యైర్దేవసైన్యం పరాజితమ్ ।
జిత్వా చ సకలాన్ దేవానిన్ద్రోఽభూన్మహిషాసురః ॥ ౨.౩॥ ఓం ఐం హ్సూం నమః ॥ ౩॥
తతః పరాజితా దేవాః పద్మయోనిం ప్రజాపతిమ్ ।
పురస్కృత్య గతాస్తత్ర యత్రేశగరుడధ్వజౌ ॥ ౨.౪॥ ఓం ఐం హౌం నమః ॥ ౪॥
యథావృత్తం తయోస్తద్వన్మహిషాసురచేష్టితమ్ ।
త్రిదశాః కథయామాసుర్దేవాభిభవవిస్తరమ్ ॥ ౨.౫॥ ఓం ఐం హ్రీం నమః ॥ ౫॥
సూర్యేన్ద్రాగ్న్యనిలేన్దూనాం యమస్య వరుణస్య చ ।
అన్యేషాం చాధికారాన్స స్వయమేవాధితిష్ఠతి ॥ ౨.౬॥ ఓం ఐం అం నమః ॥ ౬॥
స్వర్గాన్నిరాకృతాః సర్వే తేన దేవగణా భువి ।
విచరన్తి యథా మర్త్యా మహిషేణ దురాత్మనా ॥ ౨.౭॥ ఓం ఐం క్లీం నమః ॥ ౭॥
ఏతద్వః కథితం సర్వమమరారివిచేష్టితమ్ ।
శరణం వః ప్రపన్నాః స్మో వధస్తస్య విచిన్త్యతామ్ ॥ ౨.౮॥ ఓం ఐం చాం నమః ॥ ౮॥
ఇత్థం నిశమ్య దేవానాం వచాంసి మధుసూదనః ।
చకార కోపం శమ్భుశ్చ భ్రుకుటీకుటిలాననౌ ॥ ౨.౯॥ ఓం ఐం ముం నమః ॥ ౯॥
తతోఽతికోపపూర్ణస్య చక్రిణో వదనాత్తతః ।
నిశ్చక్రామ మహత్తేజో బ్రహ్మణః శఙ్కరస్య చ ॥ ౨.౧౦॥ ఓం ఐం డాం నమః ॥ ౧౦॥
అన్యేషాం చైవ దేవానాం శక్రాదీనాం శరీరతః ।
నిర్గతం సుమహత్తేజస్తచ్చైక్యం సమగచ్ఛత ॥ ౨.౧౧॥ ఓం ఐం యైం నమః ॥ ౧౧॥
అతీవ తేజసః కూటం జ్వలన్తమివ పర్వతమ్ ।
దదృశుస్తే సురాస్తత్ర జ్వాలావ్యాప్తదిగన్తరమ్ ॥ ౨.౧౨॥ ఓం ఐం విం నమః ॥ ౧౨॥
అతులం తత్ర తత్తేజః సర్వదేవశరీరజమ్ ।
ఏకస్థం తదభూన్నారీ వ్యాప్తలోకత్రయం త్విషా ॥ ౨.౧౩॥ ఓం ఐం చ్చేం నమః ॥ ౧౩॥
యదభూచ్ఛామ్భవం తేజస్తేనాజాయత తన్ముఖమ్ ।
యామ్యేన చాభవన్ కేశా బాహవో విష్ణుతేజసా ॥ ౨.౧౪॥ ఓం ఐం ఈం నమః ॥ ౧౪॥
సౌమ్యేన స్తనయోర్యుగ్మం మధ్యం చైన్ద్రేణ చాభవత్ ।
వారుణేన చ జఙ్ఘోరూ నితమ్బస్తేజసా భువః ॥ ౨.౧౫॥ ఓం ఐం సౌం నమః ॥ ౧౫॥
బ్రహ్మణస్తేజసా పాదౌ తదఙ్గుల్యోఽర్కతేజసా ।
వసూనాం చ కరాఙ్గుల్యః కౌబేరేణ చ నాసికా ॥ ౨.౧౬॥ ఓం ఐం గం నమః ॥ ౧౬॥
తస్యాస్తు దన్తాః సమ్భూతాః ప్రాజాపత్యేన తేజసా ।
నయనత్రితయం జజ్ఞే తథా పావకతేజసా ॥ ౨.౧౭॥ ఓం ఐం త్రౌం నమః ॥ ౧౭॥
భ్రువౌ చ సన్ధ్యయోస్తేజః శ్రవణావనిలస్య చ ।
అన్యేషాం చైవ దేవానాం సమ్భవస్తేజసాం శివా ॥ ౨.౧౮॥ ఓం ఐం లూం నమః ॥ ౧౮॥
తతః సమస్తదేవానాం తేజోరాశిసముద్భవామ్ ।
తాం విలోక్య ముదం ప్రాపురమరా మహిషార్దితాః ।
తతో దేవా దదుస్తస్యై స్వాని స్వాన్యాయుధాని చ ॥ ౨.౧౯॥ ఓం ఐం వం నమః ॥ ౧౯॥
శూలం శూలాద్వినిష్కృష్య దదౌ తస్యై పినాకధృక్ ।
చక్రం చ దత్తవాన్ కృష్ణః సముత్పాట్య స్వచక్రతః ॥ ౨.౨౦॥ ఓం ఐం హ్రాం నమః ॥ ౨౦॥
శఙ్ఖం చ వరుణః శక్తిం దదౌ తస్యై హుతాశనః ।
మారుతో దత్తవాంశ్చాపం బాణపూర్ణే తథేషుధీ ॥ ౨.౨౧॥ ఓం ఐం క్రీం నమః ॥ ౨౧॥
వజ్రమిన్ద్రః సముత్పాట్య కులిశాదమరాధిపః ।
దదౌ తస్యై సహస్రాక్షో ఘణ్టామైరావతాద్గజాత్ ॥ ౨.౨౨॥ ఓం ఐం సౌం నమః ॥ ౨౨॥
కాలదణ్డాద్యమో దణ్డం పాశం చామ్బుపతిర్దదౌ ।
ప్రజాపతిశ్చాక్షమాలాం దదౌ బ్రహ్మా కమణ్డలుమ్ ॥ ౨.౨౩॥ ఓం ఐం యం నమః ॥ ౨౩॥
సమస్తరోమకూపేషు నిజరశ్మీన్ దివాకరః ।
కాలశ్చ దత్తవాన్ ఖడ్గం తస్యై చర్మ చ నిర్మలమ్ ॥ ౨.౨౪॥ ఓం ఐం ఐం నమః ॥ ౨౪॥
క్షీరోదశ్చామలం హారమజరే చ తథామ్బరే ।
చూడామణిం తథా దివ్యం కుణ్డలే కటకాని చ ॥ ౨.౨౫॥ ఓం ఐం మూం నమః ॥ ౨౫॥
అర్ధచన్ద్రం తథా శుభ్రం కేయూరాన్ సర్వబాహుషు ।
నూపురౌ విమలౌ తద్వద్ గ్రైవేయకమనుత్తమమ్ ॥ ౨.౨౬॥ ఓం ఐం సం నమః ॥ ౨౬॥
అఙ్గులీయకరత్నాని సమస్తాస్వఙ్గులీషు చ ।
విశ్వకర్మా దదౌ తస్యై పరశుం చాతినిర్మలమ్ ॥ ౨.౨౭॥ ఓం ఐం హం నమః ॥ ౨౭॥
అస్త్రాణ్యనేకరూపాణి తథాభేద్యం చ దంశనమ్ ।
అమ్లానపఙ్కజాం మాలాం శిరస్యురసి చాపరామ్ ॥ ౨.౨౮॥ ఓం ఐం సం నమః ॥ ౨౮॥
అదదజ్జలధిస్తస్యై పఙ్కజం చాతిశోభనమ్ ।
హిమవాన్ వాహనం సింహం రత్నాని వివిధాని చ ॥ ౨.౨౯॥ ఓం ఐం సోం నమః ॥ ౨౯॥
దదావశూన్యం సురయా పానపాత్రం ధనాధిపః ।
శేషశ్చ సర్వనాగేశో మహామణివిభూషితమ్ ॥ ౨.౩౦॥ ఓం ఐం శం నమః ॥ ౩౦॥
నాగహారం దదౌ తస్యై ధత్తే యః పృథివీమిమామ్ ।
అన్యైరపి సురైర్దేవీ భూషణైరాయుధైస్తథా ॥ ౨.౩౧॥ ఓం ఐం హం నమః ॥ ౩౧॥
సమ్మానితా ననాదోచ్చైః సాట్టహాసం ముహుర్ముహుః ।
తస్యా నాదేన ఘోరేణ కృత్స్నమాపూరితం నభః ॥ ౨.౩౨॥ ఓం ఐం హ్రౌం నమః ॥ ౩౨॥
అమాయతాతిమహతా ప్రతిశబ్దో మహానభూత్ ।
చుక్షుభుః సకలా లోకాః సముద్రాశ్చ చకమ్పిరే ॥ ౨.౩౩॥ ఓం ఐం మ్లీం నమః ॥ ౩౩॥
చచాల వసుధా చేలుః సకలాశ్చ మహీధరాః ।
జయేతి దేవాశ్చ ముదా తామూచుః సింహవాహినీమ్ ॥ ౨.౩౪॥ ఓం ఐం యూం (యం) నమః ॥ ౩౪॥
తుష్టువుర్మునయశ్చైనాం భక్తినమ్రాత్మమూర్తయః ।
దృష్ట్వా సమస్తం సఙ్క్షుబ్ధం త్రైలోక్యమమరారయః ॥ ౨.౩౫॥ ఓం ఐం త్రూం నమః ॥ ౩౫॥
సన్నద్ధాఖిలసైన్యాస్తే సముత్తస్థురుదాయుధాః ।
ఆః కిమేతదితి క్రోధాదాభాష్య మహిషాసురః ॥ ౨.౩౬॥ ఓం ఐం స్త్రీం నమః ॥ ౩౬॥
అభ్యధావత తం శబ్దమశేషైరసురైర్వృతః ।
స దదర్శ తతో దేవీం వ్యాప్తలోకత్రయాం త్విషా ॥ ౨.౩౭॥ ఓం ఐం ఆం నమః ॥ ౩౭॥
పాదాక్రాన్త్యా నతభువం కిరీటోల్లిఖితామ్బరామ్ ।
క్షోభితాశేషపాతాలాం ధనుర్జ్యానిఃస్వనేన తామ్ ॥ ౨.౩౮॥ ఓం ఐం ప్రేం నమః ॥ ౩౮॥
దిశో భుజసహస్రేణ సమన్తాద్వ్యాప్య సంస్థితామ్ ।
తతః ప్రవవృతే యుద్ధం తయా దేవ్యా సురద్విషామ్ ॥ ౨.౩౯॥ ఓం ఐం శం నమః ॥ ౩౯॥
శస్త్రాస్త్రైర్బహుధా ముక్తైరాదీపితదిగన్తరమ్ ।
మహిషాసురసేనానీశ్చిక్షురాఖ్యో మహాసురః ॥ ౨.౪౦॥ ఓం ఐం హ్రాం నమః ॥ ౪౦॥
యుయుధే చామరశ్చాన్యైశ్చతురఙ్గబలాన్వితః ।
రథానామయుతైః షడ్భిరుదగ్రాఖ్యో మహాసురః ॥ ౨.౪౧॥ ఓం ఐం స్మూం నమః ॥ ౪౧॥
అయుధ్యతాయుతానాం చ సహస్రేణ మహాహనుః ।
పఞ్చాశద్భిశ్చ నియుతైరసిలోమా మహాసురః ॥ ౨.౪౨॥ ఓం ఐం ఊం నమః ॥ ౪౨॥
అయుతానాం శతైః షడ్భిర్బాష్కలో యుయుధే రణే ।
గజవాజిసహస్రౌఘైరనేకైః పరివారితః ॥ ౨.౪౩॥ ఓం ఐం గూం నమః ॥ ౪౩॥
వృతో రథానాం కోట్యా చ యుద్ధే తస్మిన్నయుధ్యత ।
బిడాలాఖ్యోఽయుతానాం చ పఞ్చాశద్భిరథాయుతైః ॥ ౨.౪౪॥ ఓం ఐం వ్యం నమః ॥ ౪౪॥
యుయుధే సంయుగే తత్ర రథానాం పరివారితః ।
అన్యే చ తత్రాయుతశో రథనాగహయైర్వృతాః ॥ ౨.౪౫॥ ఓం ఐం హ్రం నమః ॥ ౪౫॥
యుయుధుః సంయుగే దేవ్యా సహ తత్ర మహాసురాః ।
కోటికోటిసహస్రైస్తు రథానాం దన్తినాం తథా ॥ ౨.౪౬॥ ఓం ఐం భైం నమః ॥ ౪౬॥
హయానాం చ వృతో యుద్ధే తత్రాభూన్మహిషాసురః ।
తోమరైర్భిన్దిపాలైశ్చ శక్తిభిర్ముసలైస్తథా ॥ ౨.౪౭॥ ఓం ఐం హ్రాం నమః ॥ ౪౭॥
యుయుధుః సంయుగే దేవ్యా ఖడ్గైః పరశుపట్టిశైః ।
కేచిచ్చ చిక్షిపుః శక్తీః కేచిత్ పాశాంస్తథాపరే ॥ ౨.౪౮॥ ఓం ఐం క్రూం నమః ॥ ౪౮॥
దేవీం ఖడ్గప్రహారైస్తు తే తాం హన్తుం ప్రచక్రముః ।
సాపి దేవీ తతస్తాని శస్త్రాణ్యస్త్రాణి చణ్డికా ॥ ౨.౪౯॥ ఓం ఐం మూం నమః ॥ ౪౯॥
లీలయైవ ప్రచిచ్ఛేద నిజశస్త్రాస్త్రవర్షిణీ ।
అనాయస్తాననా దేవీ స్తూయమానా సురర్షిభిః ॥ ౨.౫౦॥ ఓం ఐం ల్రీం నమః ॥ ౫౦॥
ముమోచాసురదేహేషు శస్త్రాణ్యస్త్రాణి చేశ్వరీ ।
సోఽపి క్రుద్ధో ధుతసటో దేవ్యా వాహనకేసరీ ॥ ౨.౫౧॥ ఓం ఐం శ్రాం నమః ॥ ౫౧॥
చచారాసురసైన్యేషు వనేష్వివ హుతాశనః ।
నిఃశ్వాసాన్ ముముచే యాంశ్చ యుధ్యమానా రణేఽమ్బికా ॥ ౨.౫౨॥ ఓం ఐం ద్రూం నమః ॥ ౫౨॥
త ఏవ సద్యః సమ్భూతా గణాః శతసహస్రశః ।
యుయుధుస్తే పరశుభిర్భిన్దిపాలాసిపట్టిశైః ॥ ౨.౫౩॥ ఓం ఐం హ్నూం (హ్రూం) నమః ॥ ౫౩॥
నాశయన్తోఽసురగణాన్ దేవీశక్త్యుపబృంహితాః ।
అవాదయన్త పటహాన్ గణాః శఙ్ఖాంస్తథాపరే ॥ ౨.౫౪॥ ఓం ఐం హ్సౌం నమః ॥ ౫౪॥
మృదఙ్గాంశ్చ తథైవాన్యే తస్మిన్ యుద్ధమహోత్సవే ।
తతో దేవీ త్రిశూలేన గదయా శక్తివృష్టిభిః ॥ ౨.౫౫॥ ఓం ఐం క్రాం నమః ॥ ౫౫॥
ఖడ్గాదిభిశ్చ శతశో నిజఘాన మహాసురాన్ ।
పాతయామాస చైవాన్యాన్ ఘణ్టాస్వనవిమోహితాన్ ॥ ౨.౫౬॥ ఓం ఐం స్హౌం నమః ॥ ౫౬॥
అసురాన్ భువి పాశేన బద్ధ్వా చాన్యానకర్షయత్ ।
కేచిద్ ద్విధాకృతాస్తీక్ష్ణైః ఖడ్గపాతైస్తథాపరే ॥ ౨.౫౭॥ ఓం ఐం మ్లూం నమః ॥ ౫౭॥
విపోథితా నిపాతేన గదయా భువి శేరతే ।
వేముశ్చ కేచిద్రుధిరం ముసలేన భృశం హతాః ॥ ౨.౫౮॥ ఓం ఐం శ్రీం నమః ॥ ౫౮॥
కేచిన్నిపతితా భూమౌ భిన్నాః శూలేన వక్షసి ।
నిరన్తరాః శరౌఘేణ కృతాః కేచిద్రణాజిరే ॥ ౨.౫౯॥ ఓం ఐం గైం నమః ॥ ౫౯॥
శ్యేనానుకారిణః ప్రాణాన్ ముముచుస్త్రిదశార్దనాః ।
కేషాఞ్చిద్ బాహవశ్ఛిన్నాశ్ఛిన్నగ్రీవాస్తథాపరే ॥ ౨.౬౦॥ ఓం ఐం క్రీం నమః ॥ ౬౦॥
శిరాంసి పేతురన్యేషామన్యే మధ్యే విదారితాః ।
విచ్ఛిన్నజఙ్ఘాస్త్వపరే పేతురుర్వ్యాం మహాసురాః ॥ ౨.౬౧॥ ఓం ఐం త్రీం నమః ॥ ౬౧॥
ఏకబాహ్వక్షిచరణాః కేచిద్దేవ్యా ద్విధాకృతాః ।
ఛిన్నేఽపి చాన్యే శిరసి పతితాః పునరుత్థితాః ॥ ౨.౬౨॥ ఓం ఐం క్సీం నమః ॥ ౬౨॥
కబన్ధా యుయుధుర్దేవ్యా గృహీతపరమాయుధాః ।
ననృతుశ్చాపరే తత్ర యుద్ధే తూర్యలయాశ్రితాః ॥ ౨.౬౩॥ ఓం ఐం ఫ్రోం (కం) నమః ॥ ౬౩॥
కబన్ధాశ్ఛిన్నశిరసః ఖడ్గశక్త్యృష్టిపాణయః ।
తిష్ఠ తిష్ఠేతి భాషన్తో దేవీమన్యే మహాసురాః ॥ ౨.౬౪॥ ఓం ఐం ఫ్రోం (ఫ్రౌం) నమః ॥ ౬౪॥
పాతితై రథనాగాశ్వైరసురైశ్చ వసున్ధరా ।
అగమ్యా సాభవత్తత్ర యత్రాభూత్ స మహారణః ॥ ౨.౬౫॥ ఓం ఐం హ్రీం నమః ॥ ౬౫॥
శోణితౌఘా మహానద్యః సద్యస్తత్ర ప్రసుస్రువుః ।
మధ్యే చాసురసైన్యస్య వారణాసురవాజినామ్ ॥ ౨.౬౬॥ ఓం ఐం శాం నమః ॥ ౬౬॥
క్షణేన తన్మహాసైన్యమసురాణాం తథామ్బికా ।
నిన్యే క్షయం యథా వహ్నిస్తృణదారుమహాచయమ్ ॥ ౨.౬౭॥ ఓం ఐం క్ష్మ్రీం నమః ॥ ౬౭॥
స చ సింహో మహానాదముత్సృజన్ ధుతకేసరః ।
శరీరేభ్యోఽమరారీణామసూనివ విచిన్వతి ॥ ౨.౬౮॥ ఓం ఐం రోం నమః ॥ ౬౮॥
దేవ్యా గణైశ్చ తైస్తత్ర కృతం యుద్ధం తథాసురైః ।
యథైషాం తుతుషుర్దేవాః పుష్పవృష్టిముచో దివి ॥ ౨.౬౯॥ ఓం ఐం డూం (ఙూం, ఙుం) నమః ॥ ౬౯॥
``ఓం ఐం క్రీం క్రాం సౌం సః ఫట్ స్వాహా ॥ ౨॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం హ్రీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మహిషాసురసైన్యవధో నామ ద్వితీయోఽధ్యాయః ॥ ౨॥
ఉవాచ ౧, అర్ధశ్లోకాః ౬౮, శ్లోకాః ౬౯, ఏవమాదితః ॥ ౧౭౩॥
॥ ౩. మహిషాసురవధో నామ తృతీయోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం ఉద్యద్భానుసహస్రకాన్తిమరుణక్షౌమాం శిరోమాలికాం
రక్తాలిప్తపయోధరాం జపవటీం విద్యామభీతిం వరమ్ ।
హస్తాబ్జైర్దధతీం త్రినేత్రవిలసద్వక్త్రారవిన్దశ్రియం
దేవీం బద్ధహిమాంశురత్నముకుటాం వన్దేఽరవిన్దస్థితామ్ ।
ఓం ఋషిరువాచ ॥ ౩.౧॥ ఓం ఐం శ్రీం (శ్రౌం, శ్రోం) నమః ॥ ౧॥
నిహన్యమానం తత్సైన్యమవలోక్య మహాసురః ।
సేనానీశ్చిక్షురః కోపాద్యయౌ యోద్ధుమథామ్బికామ్ ॥ ౩.౨॥ ఓం ఐం క్లీం నమః ॥ ౨॥
స దేవీం శరవర్షేణ వవర్ష సమరేఽసురః ।
యథా మేరుగిరేః శృఙ్గం తోయవర్షేణ తోయదః ॥ ౩.౩॥ ఓం ఐం సాం నమః ॥ ౩॥
తస్య ఛిత్వా తతో దేవీ లీలయైవ శరోత్కరాన్ ।
జఘాన తురగాన్బాణైర్యన్తారం చైవ వాజినామ్ ॥ ౩.౪॥ ఓం ఐం త్రోం నమః ॥ ౪॥
చిచ్ఛేద చ ధనుః సద్యో ధ్వజం చాతిసముచ్ఛృతమ్ ।
వివ్యాధ చైవ గాత్రేషు ఛిన్నధన్వానమాశుగైః ॥ ౩.౫॥ ఓం ఐం ప్రూం నమః ॥ ౫॥
సచ్ఛిన్నధన్వా విరథో హతాశ్వో హతసారథిః ।
అభ్యధావత తాం దేవీం ఖడ్గచర్మధరోఽసురః ॥ ౩.౬॥ ఓం ఐం మ్లీం నమః ॥ ౬॥
సింహమాహత్య ఖడ్గేన తీక్ష్ణధారేణ మూర్ధని ।
ఆజఘాన భుజే సవ్యే దేవీమప్యతివేగవాన్ ॥ ౩.౭॥ ఓం ఐం క్రౌం నమః ॥ ౭॥
తస్యాః ఖడ్గో భుజం ప్రాప్య పఫాల నృపనన్దన ।
తతో జగ్రాహ శూలం స కోపాదరుణలోచనః ॥ ౩.౮॥ ఓం ఐం వ్రీం నమః ॥ ౮॥
చిక్షేప చ తతస్తత్తు భద్రకాల్యాం మహాసురః ।
జాజ్వల్యమానం తేజోభీ రవిబిమ్బమివామ్బరాత్ ॥ ౩.౯॥ ఓం ఐం స్లీం నమః ॥ ౯॥
దృష్ట్వా తదాపతచ్ఛూలం దేవీ శూలమముఞ్చత ।
తేన తచ్ఛతధా నీతం శూలం స చ మహాసురః ॥ ౩.౧౦॥ ఓం ఐం హ్రీం నమః ॥ ౧౦॥
హతే తస్మిన్మహావీర్యే మహిషస్య చమూపతౌ ।
ఆజగామ గజారూఢశ్చామరస్త్రిదశార్దనః ॥ ౩.౧౧॥ ఓం ఐం హౌం నమః ॥ ౧౧॥
సోఽపి శక్తిం ముమోచాథ దేవ్యాస్తామమ్బికా ద్రుతమ్ ।
హుఙ్కారాభిహతాం భూమౌ పాతయామాస నిష్ప్రభామ్ ॥ ౩.౧౨॥ ఓం ఐం శ్రాం నమః ॥ ౧౨॥
భగ్నాం శక్తిం నిపతితాం దృష్ట్వా క్రోధసమన్వితః ।
చిక్షేప చామరః శూలం బాణైస్తదపి సాచ్ఛినత్ ॥ ౩.౧౩॥ ఓం ఐం గ్రోం నమః ॥ ౧౩॥
తతః సింహః సముత్పత్య గజకుమ్భాన్తరే స్థితః ।
బాహుయుద్ధేన యుయుధే తేనోచ్చైస్త్రిదశారిణా ॥ ౩.౧౪॥ ఓం ఐం క్రూం నమః ॥ ౧౪॥
యుధ్యమానౌ తతస్తౌ తు తస్మాన్నాగాన్మహీం గతౌ ।
యుయుధాతేఽతిసంరబ్ధౌ ప్రహారైరతిదారుణైః ॥ ౩.౧౫॥ ఓం ఐం క్రీం నమః ॥ ౧౫॥
తతో వేగాత్ ఖముత్పత్య నిపత్య చ మృగారిణా ।
కరప్రహారేణ శిరశ్చామరస్య పృథక్ కృతమ్ ॥ ౩.౧౬॥ ఓం ఐం యాం నమః ॥ ౧౬॥
ఉదగ్రశ్చ రణే దేవ్యా శిలావృక్షాదిభిర్హతః ।
దన్తముష్టితలైశ్చైవ కరాలశ్చ నిపాతితః ॥ ౩.౧౭॥ ఓం ఐం ద్లూం నమః ॥ ౧౭॥
దేవీ క్రుద్ధా గదాపాతైశ్చూర్ణయామాస చోద్ధతమ్ ।
బాష్కలం భిన్దిపాలేన బాణైస్తామ్రం తథాన్ధకమ్ ॥ ౩.౧౮॥ ఓం ఐం ద్రూం నమః ॥ ౧౮॥
ఉగ్రాస్యముగ్రవీర్యం చ తథైవ చ మహాహనుమ్ ।
త్రినేత్రా చ త్రిశూలేన జఘాన పరమేశ్వరీ ॥ ౩.౧౯॥ ఓం ఐం క్షం నమః ॥ ౧౯॥
బిడాలస్యాసినా కాయాత్ పాతయామాస వై శిరః ।
దుర్ధరం దుర్ముఖం చోభౌ శరైర్నిన్యే యమక్షయమ్ ॥ ౩.౨౦॥ ఓం ఐం ఓం నమః ॥ ౨౦॥
ఏవం సఙ్క్షీయమాణే తు స్వసైన్యే మహిషాసురః ।
మాహిషేణ స్వరూపేణ త్రాసయామాస తాన్ గణాన్ ॥ ౩.౨౧॥ ఓం ఐం క్రౌం నమః ॥ ౨౧॥
కాంశ్చిత్తుణ్డప్రహారేణ ఖురక్షేపైస్తథాపరాన్ ।
లాఙ్గూలతాడితాంశ్చాన్యాన్ శృఙ్గాభ్యాం చ విదారితాన్ ॥ ౩.౨౨॥ ఓం ఐం క్ష్మ్క్ల్రీం నమః ॥ ౨౨॥
వేగేన కాంశ్చిదపరాన్నాదేన భ్రమణేన చ ।
నిఃశ్వాసపవనేనాన్యాన్పాతయామాస భూతలే ॥ ౩.౨౩॥ ఓం ఐం వాం నమః ॥ ౨౩॥
నిపాత్య ప్రమథానీకమభ్యధావత సోఽసురః ।
సింహం హన్తుం మహాదేవ్యాః కోపం చక్రే తతోఽమ్బికా ॥ ౩.౨౪॥ ఓం ఐం శ్రూం నమః ॥ ౨౪॥
సోఽపి కోపాన్మహావీర్యః ఖురక్షుణ్ణమహీతలః ।
శృఙ్గాభ్యాం పర్వతానుచ్చాంశ్చిక్షేప చ ననాద చ ॥ ౩.౨౫॥ ఓం ఐం బ్లూం నమః ॥ ౨౫॥
వేగభ్రమణవిక్షుణ్ణా మహీ తస్య వ్యశీర్యత ।
లాఙ్గూలేనాహతశ్చాబ్ధిః ప్లావయామాస సర్వతః ॥ ౩.౨౬॥ ఓం ఐం ల్రీం నమః ॥ ౨౬॥
ధుతశృఙ్గవిభిన్నాశ్చ ఖణ్డం ఖణ్డం యయుర్ఘనాః ।
శ్వాసానిలాస్తాః శతశో నిపేతుర్నభసోఽచలాః ॥ ౩.౨౭॥ ఓం ఐం ప్రేం నమః ॥ ౨౭॥
ఇతి క్రోధసమాధ్మాతమాపతన్తం మహాసురమ్ ।
దృష్ట్వా సా చణ్డికా కోపం తద్వధాయ తదాకరోత్ ॥ ౩.౨౮॥ ఓం ఐం హూం నమః ॥ ౨౮॥
సా క్షిప్త్వా తస్య వై పాశం తం బబన్ధ మహాసురమ్ ।
తత్యాజ మాహిషం రూపం సోఽపి బద్ధో మహామృధే ॥ ౩.౨౯॥ ఓం ఐం హ్రౌం నమః ॥ ౨౯॥
తతః సింహోఽభవత్సద్యో యావత్తస్యామ్బికా శిరః ।
ఛినత్తి తావత్ పురుషః ఖడ్గపాణిరదృశ్యత ॥ ౩.౩౦॥ ఓం ఐం దేం నమః ॥ ౩౦॥
తత ఏవాశు పురుషం దేవీ చిచ్ఛేద సాయకైః ।
తం ఖడ్గచర్మణా సార్ధం తతః సోఽభూన్మహాగజః ॥ ౩.౩౧॥ ఓం ఐం నూం నమః ॥ ౩౧॥
కరేణ చ మహాసింహం తం చకర్ష జగర్జ చ ।
కర్షతస్తు కరం దేవీ ఖడ్గేన నిరకృన్తత ॥ ౩.౩౨॥ ఓం ఐం ఆం నమః ॥ ౩౨॥
తతో మహాసురో భూయో మాహిషం వపురాస్థితః ।
తథైవ క్షోభయామాస త్రైలోక్యం సచరాచరమ్ ॥ ౩.౩౩॥ ఓం ఐం ఫ్రాం నమః ॥ ౩౩॥
తతః క్రుద్ధా జగన్మాతా చణ్డికా పానముత్తమమ్ ।
పపౌ పునః పునశ్చైవ జహాసారుణలోచనా ॥ ౩.౩౪॥ ఓం ఐం ప్రీం నమః ॥ ౩౪॥
ననర్ద చాసురః సోఽపి బలవీర్యమదోద్ధతః ।
విషాణాభ్యాం చ చిక్షేప చణ్డికాం ప్రతి భూధరాన్ ॥ ౩.౩౫॥ ఓం ఐం దూం నమః ॥ ౩౫॥
సా చ తాన్ప్రహితాంస్తేన చూర్ణయన్తీ శరోత్కరైః ।
ఉవాచ తం మదోద్ధూతముఖరాగాకులాక్షరమ్ ॥ ౩.౩౬॥ ఓం ఐం ఫ్రీం నమః ॥ ౩౬॥
దేవ్యువాచ ॥ ౩.౩౭॥ ఓం ఐం హ్రీం నమః ॥ ౩౭॥
గర్జ గర్జ క్షణం మూఢ మధు యావత్పిబామ్యహమ్ ।
మయా త్వయి హతేఽత్రైవ గర్జిష్యన్త్యాశు దేవతాః ॥ ౩.౩౮॥ ఓం ఐం గూం నమః ॥ ౩౮॥
ఋషిరువాచ ॥ ౩.౩౯॥ ఓం ఐం శ్రౌం నమః ॥ ౩౯॥
ఏవముక్త్వా సముత్పత్య సారూఢా తం మహాసురమ్ ।
పాదేనాక్రమ్య కణ్ఠే చ శూలేనైనమతాడయత్ ॥ ౩.౪౦॥ ఓం ఐం సాం నమః ॥ ౪౦॥
తతః సోఽపి పదాక్రాన్తస్తయా నిజముఖాత్తదా ।
అర్ధనిష్క్రాన్త ఏవాసీద్దేవ్యా వీర్యేణ సంవృతః ॥ ౩.౪౧॥ ఓం ఐం శ్రీం నమః ॥ ౪౧॥
అర్ధనిష్క్రాన్త ఏవాసౌ యుధ్యమానో మహాసురః ।
తయా మహాసినా దేవ్యా శిరశ్ఛిత్త్వా నిపాతితః ॥ ౩.౪౨॥ ఓం ఐం జుం నమః ॥ ౪౨॥
తతో హాహాకృతం సర్వం దైత్యసైన్యం ననాశ తత్ ।
ప్రహర్షం చ పరం జగ్ముః సకలా దేవతాగణాః ॥ ౩.౪౩॥ ఓం ఐం హం నమః ॥ ౪౩॥
తుష్టువుస్తాం సురా దేవీం సహదివ్యైర్మహర్షిభిః ।
జగుర్గన్ధర్వపతయో ననృతుశ్చాప్సరోగణాః ॥ ౩.౪౪॥ ఓం ఐం సం నమః ॥ ౪౪॥
``ఓం హ్రీం శ్రీం కుం ఫట్ స్వాహా ॥ ౩॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం హ్రీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
మహిషాసురవధో నామ తృతీయోఽధ్యాయః ॥ ౩॥
ఉవాచ ౩, అర్ధశ్లోకాః ౪౧, శ్లోకాః ౪౪, ఏవమాదితః ॥ ౨౧౭॥
॥ ౪. శక్రాదిస్తుతిర్నామ చతుర్థోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం కాలాభ్రాభాం కటాక్షైరరికులభయదాం మౌలిబద్ధేన్దురేఖాం
శఙ్ఖం చక్రం కృపాణం త్రిశిఖమపి కరైరుద్వహన్తీం త్రినేత్రామ్ ।
సింహస్కన్ధాధిరూఢాం త్రిభువనమఖిలం తేజసా పూరయన్తీం
ధ్యాయేద్దుర్గాం జయాఖ్యాం త్రిదశపరివృతాం సేవితాం సిద్ధికామైః ॥
ఓం ఋషిరువాచ ॥ ౪.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
శక్రాదయః సురగణా నిహతేఽతివీర్యే
తస్మిన్దురాత్మని సురారిబలే చ దేవ్యా ।
తాం తుష్టువుః ప్రణతినమ్రశిరోధరాంసా
వాగ్భిః ప్రహర్షపులకోద్గమచారుదేహాః ॥ ౪.౨॥ ఓం ఐం సౌం నమః ॥ ౨॥
దేవ్యా యయా తతమిదం జగదాత్మశక్త్యా
నిఃశేషదేవగణశక్తిసమూహమూర్త్యా ।
తామమ్బికామఖిలదేవమహర్షిపూజ్యాం
భక్త్యా నతాః స్మ విదధాతు శుభాని సా నః ॥ ౪.౩॥ ఓం ఐం దిం (దోం) నమః ॥ ౩॥
యస్యాః ప్రభావమతులం భగవాననన్తో
బ్రహ్మా హరశ్చ న హి వక్తుమలం బలం చ ।
సా చణ్డికాఖిలజగత్పరిపాలనాయ
నాశాయ చాశుభభయస్య మతిం కరోతు ॥ ౪.౪॥ ఓం ఐం ప్రేం నమః ॥ ౪॥
యా శ్రీః స్వయం సుకృతినాం భవనేష్వలక్ష్మీః
పాపాత్మనాం కృతధియాం హృదయేషు బుద్ధిః ।
శ్రద్ధా సతాం కులజనప్రభవస్య లజ్జా
తాం త్వాం నతాః స్మ పరిపాలయ దేవి విశ్వమ్ ॥ ౪.౫॥ ఓం ఐం యాం నమః ॥ ౫॥
కిం వర్ణయామ తవ రూపమచిన్త్యమేతత్
కిఞ్చాతివీర్యమసురక్షయకారి భూరి ।
కిం చాహవేషు చరితాని తవాతి యాని
సర్వేషు దేవ్యసురదేవగణాదికేషు ॥ ౪.౬॥ ఓం ఐం రూం నమః ॥ ౬॥
హేతుః సమస్తజగతాం త్రిగుణాపి దోషై-
ర్న జ్ఞాయసే హరిహరాదిభిరప్యపారా ।
సర్వాశ్రయాఖిలమిదం జగదంశభూత-
మవ్యాకృతా హి పరమా ప్రకృతిస్త్వమాద్యా ॥ ౪.౭॥ ఓం ఐం భం నమః ॥ ౭॥
యస్యాః సమస్తసురతా సముదీరణేన
తృప్తిం ప్రయాతి సకలేషు మఖేషు దేవి ।
స్వాహాసి వై పితృగణస్య చ తృప్తిహేతు-
రుచ్చార్యసే త్వమత ఏవ జనైః స్వధా చ ॥ ౪.౮॥ ఓం ఐం సూం నమః ॥ ౮॥
యా ముక్తిహేతురవిచిన్త్యమహావ్రతా త్వం
అభ్యస్యసే సునియతేన్ద్రియతత్త్వసారైః ।
మోక్షార్థిభిర్మునిభిరస్తసమస్తదోషై-
ర్విద్యాసి సా భగవతీ పరమా హి దేవి ॥ ౪.౯॥ ఓం ఐం శ్రాం నమః ॥ ౯॥
శబ్దాత్మికా సువిమలర్గ్యజుషాం నిధాన-
ముద్గీథరమ్యపదపాఠవతాం చ సామ్నామ్ ।
దేవి త్రయీ భగవతీ భవభావనాయ
వార్తాసి సర్వజగతాం పరమార్తిహన్త్రీ ॥ ౪.౧౦॥ ఓం ఐం ఔం నమః ॥ ౧౦॥
మేధాసి దేవి విదితాఖిలశాస్త్రసారా
దుర్గాసి దుర్గభవసాగరనౌరసఙ్గా ।
శ్రీః కైటభారిహృదయైకకృతాధివాసా
గౌరీ త్వమేవ శశిమౌలికృతప్రతిష్ఠా ॥ ౪.౧౧॥ ఓం ఐం లూం నమః ॥ ౧౧॥
ఈషత్సహాసమమలం పరిపూర్ణచన్ద్ర-
బిమ్బానుకారి కనకోత్తమకాన్తికాన్తమ్ ।
అత్యద్భుతం ప్రహృతమాత్తరుషా తథాపి
వక్త్రం విలోక్య సహసా మహిషాసురేణ ॥ ౪.౧౨॥ ఓం ఐం డూం నమః ॥ ౧౨॥
దృష్ట్వా తు దేవి కుపితం భ్రుకుటీకరాల-
ముద్యచ్ఛశాఙ్కసదృశచ్ఛవి యన్న సద్యః ।
ప్రాణాన్ ముమోచ మహిషస్తదతీవ చిత్రం
కైర్జీవ్యతే హి కుపితాన్తకదర్శనేన ॥ ౪.౧౩॥ ఓం ఐం జూం నమః ॥ ౧౩॥
దేవి ప్రసీద పరమా భవతీ భవాయ
సద్యో వినాశయసి కోపవతీ కులాని ।
విజ్ఞాతమేతదధునైవ యదస్తమేత-
న్నీతం బలం సువిపులం మహిషాసురస్య ॥ ౪.౧౪॥ ఓం ఐం ధూం నమః ॥ ౧౪॥
తే సమ్మతా జనపదేషు ధనాని తేషాం
తేషాం యశాంసి న చ సీదతి బన్ధువర్గః ।
ధన్యాస్త ఏవ నిభృతాత్మజభృత్యదారా
యేషాం సదాభ్యుదయదా భవతీ ప్రసన్నా ॥ ౪.౧౫॥ ఓం ఐం త్రేం నమః ॥ ౧౫॥
ధర్మ్యాణి దేవి సకలాని సదైవ కర్మా-
ణ్యత్యాదృతః ప్రతిదినం సుకృతీ కరోతి ।
స్వర్గం ప్రయాతి చ తతో భవతీ ప్రసాదా-
ల్లోకత్రయేఽపి ఫలదా నను దేవి తేన ॥ ౪.౧౬॥ ఓం ఐం హ్రీం నమః ॥ ౧౬॥
దుర్గే స్మృతా హరసి భీతిమశేషజన్తోః
స్వస్థైః స్మృతా మతిమతీవ శుభాం దదాసి ।
దారిద్ర్యదుఃఖభయహారిణి కా త్వదన్యా
సర్వోపకారకరణాయ సదార్ద్రచిత్తా ॥ ౪.౧౭॥ ఓం ఐం శ్రీం నమః ॥ ౧౭॥
ఏభిర్హతైర్జగదుపైతి సుఖం తథైతే
కుర్వన్తు నామ నరకాయ చిరాయ పాపమ్ ।
సఙ్గ్రామమృత్యుమధిగమ్య దివం ప్రయాన్తు
మత్వేతి నూనమహితాన్వినిహంసి దేవి ॥ ౪.౧౮॥ ఓం ఐం ఈం నమః ॥ ౧౮॥
దృష్ట్వైవ కిం న భవతీ ప్రకరోతి భస్మ
సర్వాసురానరిషు యత్ప్రహిణోషి శస్త్రమ్ ।
లోకాన్ప్రయాన్తు రిపవోఽపి హి శస్త్రపూతా
ఇత్థం మతిర్భవతి తేష్వహితేషుసాధ్వీ ॥ ౪.౧౯॥ ఓం ఐం హ్రాం నమః ॥ ౧౯॥
ఖడ్గప్రభానికరవిస్ఫురణైస్తథోగ్రైః
శూలాగ్రకాన్తినివహేన దృశోఽసురాణామ్ ।
యన్నాగతా విలయమంశుమదిన్దుఖణ్డ-
యోగ్యాననం తవ విలోకయతాం తదేతత్ ॥ ౪.౨౦॥ ఓం ఐం హ్లరూం నమః ॥ ౨౦॥
దుర్వృత్తవృత్తశమనం తవ దేవి శీలం
రూపం తథైతదవిచిన్త్యమతుల్యమన్యైః ।
వీర్యం చ హన్తృ హృతదేవపరాక్రమాణాం
వైరిష్వపి ప్రకటితైవ దయా త్వయేత్థమ్ ॥ ౪.౨౧॥ ఓం ఐం క్లూం నమః ॥ ౨౧॥
కేనోపమా భవతు తేఽస్య పరాక్రమస్య
రూపం చ శత్రుభయకార్యతిహారి కుత్ర ।
చిత్తే కృపా సమరనిష్ఠురతా చ దృష్టా
త్వయ్యేవ దేవి వరదే భువనత్రయేఽపి ॥ ౪.౨౨॥ ఓం ఐం క్రాం నమః ॥ ౨౨॥
త్రైలోక్యమేతదఖిలం రిపునాశనేన
త్రాతం త్వయా సమరమూర్ధని తేఽపి హత్వా ।
నీతా దివం రిపుగణా భయమప్యపాస్తమ్
అస్మాకమున్మదసురారిభవం నమస్తే ॥ ౪.౨౩॥ ఓం ఐం ల్లూం నమః ॥ ౨౩॥
శూలేన పాహి నో దేవి పాహి ఖడ్గేన చామ్బికే ।
ఘణ్టాస్వనేన నః పాహి చాపజ్యానిస్వనేన చ ॥ ౪.౨౪॥ ఓం ఐం ఫ్రేం నమః ॥ ౨౪॥
ప్రాచ్యాం రక్ష ప్రతీచ్యాం చ చణ్డికే రక్ష దక్షిణే ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాన్తథేశ్వరి ॥ ౪.౨౫॥ ఓం ఐం క్రీం నమః ॥ ౨౫॥
సౌమ్యాని యాని రూపాణి త్రైలోక్యే విచరన్తి తే ।
యాని చాత్యర్థతఘోరాణి తై రక్షాస్మాంస్తథా భువమ్ ॥ ౪.౨౬॥ ఓం ఐం మ్లూం నమః ॥ ౨౬॥
ఖడ్గశూలగదాదీని యాని చాస్త్రాని తేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్రక్ష సర్వతః ॥ ౪.౨౭॥ ఓం ఐం ఘ్రేం నమః ॥ ౨౭॥
ఋషిరువాచ ॥ ౪.౨౮॥ ఓం ఐం శ్రౌం నమః ॥ ౨౮॥
ఏవం స్తుతా సురైర్దివ్యైః కుసుమైర్నన్దనోద్భవైః ।
అర్చితా జగతాం ధాత్రీ తథా గన్ధానులేపనైః ॥ ౪.౨౯॥ ఓం ఐం హ్రౌం నమః ॥ ౨౯॥
భక్త్యా సమస్తైస్త్రిదశైర్దివ్యైర్ధూపైః సుధూపితా ।
ప్రాహ ప్రసాదసుముఖీ సమస్తాన్ ప్రణతాన్ సురాన్ ॥ ౪.౩౦॥ ఓం ఐం వ్రీం నమః ॥ ౩౦॥
దేవ్యువాచ ॥ ౪.౩౧॥ ఓం ఐం హ్రీం నమః ॥ ౩౧॥
వ్రియతాం త్రిదశాః సర్వే యదస్మత్తోఽభివాఞ్ఛితమ్ ॥ ౪.౩౨॥ ఓం ఐం త్రౌం నమః ॥ ౩౨॥
దేవా ఊచుః ॥ ౪.౩౩॥ ఓం ఐం హ్ల్లౌం (హసౌం) నమః ॥ ౩౩॥
భగవత్యా కృతం సర్వం న కిఞ్చిదవశిష్యతే ॥ ౪.౩౪॥ ఓం ఐం గీం నమః ॥ ౩౪॥
యదయం నిహతః శత్రురస్మాకం మహిషాసురః ।
యది చాపి వరో దేయస్త్వయాస్మాకం మహేశ్వరి ॥ ౪.౩౫॥ ఓం ఐం యూం నమః ॥ ౩౫॥
సంస్మృతా సంస్మృతా త్వం నో హింసేథాః పరమాపదః ।
యశ్చ మర్త్యః స్తవైరేభిస్త్వాం స్తోష్యత్యమలాననే ॥ ౪.౩౬॥ ఓం ఐం హ్లీం నమః ॥ ౩౬॥
తస్య విత్తర్ద్ధివిభవైర్ధనదారాదిసమ్పదామ్ ।
వృద్ధయేఽస్మత్ప్రసన్నా త్వం భవేథాః సర్వదామ్బికే ॥ ౪.౩౭॥ ఓం ఐం హ్లూం నమః ॥ ౩౭॥
ఋషిరువాచ ॥ ౪.౩౮॥ ఓం ఐం శ్రౌం నమః ॥ ౩౮॥
ఇతి ప్రసాదితా దేవైర్జగతోఽర్థే తథాత్మనః ।
తథేత్యుక్త్వా భద్రకాలీ బభూవాన్తర్హితా నృప ॥ ౪.౩౯॥ ఓం ఐం ఓం నమః ॥ ౩౯॥
ఇత్యేతత్కథితం భూప సమ్భూతా సా యథా పురా ।
దేవీ దేవశరీరేభ్యో జగత్త్రయహితైషిణీ ॥ ౪.౪౦॥ ఓం ఐం అం నమః ॥ ౪౦॥
పునశ్చ గౌరీదేహాత్సా సముద్భూతా యథాభవత్ ।
వధాయ దుష్టదైత్యానాం తథా శుమ్భనిశుమ్భయోః ॥ ౪.౪౧॥ ఓం ఐం మ్హౌం నమః ॥ ౪౧॥
రక్షణాయ చ లోకానాం దేవానాముపకారిణీ ।
తచ్ఛృణుష్వ మయాఖ్యాతం యథావత్కథయామి తే ॥ ౪.౪౨॥ ఓం ఐం ప్రీం నమః ॥ ౪౨॥
హ్రీం ఓం ।
``ఓం అం హ్రీం శ్రీం హంసః ఫట్ స్వాహా ॥ ౪॥(ఓం అం హ్రీం హంసః ఫట్ స్వాహా)''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం హ్రీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
హృల్లేఖాబీజాధిష్ఠాత్ర్యై మహాలక్ష్మ్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే
దేవీమాహాత్మ్యే శక్రాదిస్తుతిర్నామ చతుర్థోఽధ్యాయః ॥ ౪॥
ఉవాచ ౫, అర్ధశ్లోకౌ ౨, శ్లోకాః ౩౫, ఏవమాదితః ॥ ౨౫౯॥
॥ ౫. దేవ్యా దూతసంవాదో నామ పఞ్చమోఽధ్యాయః ॥
వినియోగః
అస్య శ్రీ ఉత్తరచరిత్రస్య రుద్ర ఋషిః ।
శ్రీమహాసరస్వతీ దేవతా ।
అనుష్టుప్ ఛన్దః । భీమా శక్తిః । భ్రామరీ బీజమ్ ।
సూర్యస్తత్త్వమ్ ।
సామవేదః స్వరూపమ్ । శ్రీమహాసరస్వతీప్రీత్యర్థే
ఉత్తరచరిత్రపాఠే వినియోగః ।
ధ్యానమ్ ।
ఘణ్టాశూలహలాని శఙ్ఖముసలే చక్రం ధనుః సాయకం
హస్తాబ్జైర్దధతీం ఘనాన్తవిలసచ్ఛీతాంశుతుల్యప్రభామ్ ।
గౌరీదేహసముద్భవాం త్రిజగతామాధారభూతాం మహా-
పూర్వామత్ర సరస్వతీమనుభజే శుమ్భాదిదైత్యార్దినీమ్ ॥
ఓం క్లీం ఋషిరువాచ ॥ ౫.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
పురా శుమ్భనిశుమ్భాభ్యామసురాభ్యాం శచీపతేః ।
త్రైలోక్యం యజ్ఞభాగాశ్చ హృతా మదబలాశ్రయాత్ ॥ ౫.౨॥ ఓం ఐం ప్రీం నమః ॥ ౨॥
తావేవ సూర్యతాం తద్వదధికారం తథైన్దవమ్ ।
కౌబేరమథ యామ్యం చ చక్రాతే వరుణస్య చ ॥ ౫.౩॥ ఓం ఐం ఆం నమః ॥ ౩॥
తావేవ పవనర్ద్ధిం చ చక్రతుర్వహ్నికర్మ చ ।
తతో దేవా వినిర్ధూతా భ్రష్టరాజ్యాః పరాజితాః ॥ ౫.౪॥ ఓం ఐం హ్రీం నమః ॥ ౪॥
హృతాధికారాస్త్రిదశాస్తాభ్యాం సర్వే నిరాకృతాః ।
మహాసురాభ్యాం తాం దేవీం సంస్మరన్త్యపరాజితామ్ ॥ ౫.౫॥ ఓం ఐం ల్రీం నమః ॥ ౫॥
తయాస్మాకం వరో దత్తో యథాపత్సు స్మృతాఖిలాః ।
భవతాం నాశయిష్యామి తత్క్షణాత్పరమాపదః ॥ ౫.౬॥ ఓం ఐం త్రోం నమః ॥ ౬॥
ఇతి కృత్వా మతిం దేవా హిమవన్తం నగేశ్వరమ్ ।
జగ్ముస్తత్ర తతో దేవీం విష్ణుమాయాం ప్రతుష్టువుః ॥ ౫.౭॥ ఓం ఐం క్రీం నమః ॥ ౭॥
దేవా ఊచుః ॥ ౫.౮॥ ఓం ఐం హ్సౌం నమః ॥ ౮॥
నమో దేవ్యై మహాదేవ్యై శివాయై సతతం నమః ।
నమః ప్రకృత్యై భద్రాయై నియతాః ప్రణతాః స్మ తామ్ ॥ ౫.౯॥ ఓం ఐం హ్రీం నమః ॥ ౯॥
రౌద్రాయై నమో నిత్యాయై గౌర్యై ధాత్ర్యై నమో నమః ।
జ్యోత్స్నాయై చేన్దురూపిణ్యై సుఖాయై సతతం నమః ॥ ౫.౧౦॥ ఓం ఐం శ్రీం నమః ॥ ౧౦॥
కల్యాణ్యై ప్రణతాం వృద్ధ్యై సిద్ధ్యై కుర్మో నమో నమః ।
నైరృత్యై భూభృతాం లక్ష్మ్యై శర్వాణ్యై తే నమో నమః ॥ ౫.౧౧॥ ఓం ఐం హూం నమః ॥ ౧౧॥
దుర్గాయై దుర్గపారాయై సారాయై సర్వకారిణ్యై ।
ఖ్యాత్యై తథైవ కృష్ణాయై ధూమ్రాయై సతతం నమః ॥ ౫.౧౨॥ ఓం ఐం క్లీం నమః ॥ ౧౨॥
అతిసౌమ్యాతిరౌద్రాయై నతాస్తస్యై నమో నమః ।
నమో జగత్ప్రతిష్ఠాయై దేవ్యై కృత్యై నమో నమః ॥ ౫.౧౩॥ ఓం ఐం రౌం నమః ॥ ౧౩॥
యా దేవీ సర్వభూతేషు విష్ణుమాయేతి శబ్దితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౪-౧౬॥ ఓం ఐం స్త్రీం నమః ॥ ౧౪॥ ఓం ఐం మ్లీం నమః ॥ ౧౫॥ ఓం ఐం ప్లూం నమః ॥ ౧౬॥
యా దేవీ సర్వభూతేషు చేతనేత్యభిధీయతే ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౭-౧౯॥ ఓం ఐం స్హాం నమః ॥ ౧౭॥ ఓం ఐం స్త్రీం నమః ॥ ౧౮॥ ఓం ఐం గ్లూం నమః ॥ ౧౯॥
యా దేవీ సర్వభూతేషు బుద్ధిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౦-౨౨॥ ఓం ఐం వ్రీం నమః ॥ ౨౦॥ ఓం ఐం సౌం నమః ॥ ౨౧॥ ఓం ఐం లూం నమః ॥ ౨౨॥
యా దేవీ సర్వభూతేషు నిద్రారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౩-౨౫॥ ఓం ఐం ల్లూం నమః ॥ ౨౩॥ ఓం ఐం ద్రాం నమః ॥ ౨౪॥ ఓం ఐం క్సాం నమః ॥ ౨౫॥
యా దేవీ సర్వభూతేషు క్షుధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౬-౨౮॥ ఓం ఐం క్ష్మ్రీం నమః ॥ ౨౬॥ ఓం ఐం గ్లౌం నమః ॥ ౨౭॥ ఓం ఐం స్కూఁ (స్కూం, స్కం) నమః ॥ ౨౮॥
యా దేవీ సర్వభూతేషు ఛాయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౯-౩౧॥ ఓం ఐం త్రూం నమః ॥ ౨౯॥ ఓం ఐం స్క్లూం నమః ॥ ౩౦॥ ఓం ఐం క్రౌం నమః ॥ ౩౧॥
యా దేవీ సర్వభూతేషు శక్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౨-౩౪॥ ఓం ఐం ఛ్రీం నమః ॥ ౩౨॥ ఓం ఐం మ్లూం నమః ॥ ౩౩॥ ఓం ఐం క్లూం నమః ॥ ౩౪॥
యా దేవీ సర్వభూతేషు తృష్ణారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౫-౩౭॥ ఓం ఐం శాం నమః ॥ ౩౫॥ ఓం ఐం ల్హీం నమః ॥ ౩౬॥ ఓం ఐం స్త్రూం నమః ॥ ౩౭॥
యా దేవీ సర్వభూతేషు క్షాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౮-౪౦॥ ఓం ఐం ల్లీం నమః ॥ ౩౮॥ ఓం ఐం లీం నమః ॥ ౩౯॥ ఓం ఐం సం నమః ॥ ౪౦॥
యా దేవీ సర్వభూతేషు జాతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౧-౪౩॥ ఓం ఐం లూం నమః ౪౧॥ ఓం ఐం హ్సూం నమః ॥ ౪౨॥ ఓం ఐం శ్రూం నమః ॥ ౪౩॥
యా దేవీ సర్వభూతేషు లజ్జారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౪-౪౬॥ ఓం ఐం జూం నమః ॥ ౪౪॥ ఓం ఐం హ్స్ల్రీం నమః ॥ ౪౫॥ ఓం ఐం స్కీం నమః ॥ ౪౬॥
యా దేవీ సర్వభూతేషు శాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౭-౪౯॥ ఓం ఐం క్లాం నమః ॥ ౪౭॥ ఓం ఐం శ్రూం నమః ॥ ౪౮॥ ఓం ఐం హం నమః ॥ ౪౯॥
యా దేవీ సర్వభూతేషు శ్రద్ధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౦-౫౨॥ ఓం ఐం హ్లీం నమః ॥ ౫౦॥ ఓం ఐం క్స్రూం నమః ॥ ౫౧॥ ఓం ఐం ద్రౌం నమః ॥ ౫౨॥
యా దేవీ సర్వభూతేషు కాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౩-౫౫॥ ఓం ఐం క్లూం నమః ॥ ౫౩॥ ఓం ఐం గాం నమః ॥ ౫౪॥ ఓం ఐం సం నమః ॥ ౫౫॥
యా దేవీ సర్వభూతేషు లక్ష్మీరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౬-౫౮॥ ఓం ఐం ల్స్రాం నమః ॥ ౫౬॥ ఓం ఐం ఫ్రీం నమః ॥ ౫౭॥ ఓం ఐం స్లాం నమః ॥ ౫౮॥
యా దేవీ సర్వభూతేషు వృత్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౯-౬౧॥ ఓం ఐం ల్లూం నమః ॥ ౫౯॥ ఓం ఐం ఫ్రేం నమః ॥ ౬౦॥ ఓం ఐం ఓం నమః ॥ ౬౧॥
యా దేవీ సర్వభూతేషు స్మృతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౨-౬౪॥ ఓం ఐం స్మలీం (స్మ్లీం) నమః ॥ ౬౨॥ ఓం ఐం హ్రాం నమః ॥ ౬౩॥ ఓం ఐం ఓం (ఓం, ఊం) నమః ॥ ౬౪॥
యా దేవీ సర్వభూతేషు దయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౫-౬౭॥ ఓం ఐం హ్లూం నమః ॥ ౬౫॥ ఓం ఐం హూఁ (హూం) నమః ॥ ౬౬॥ ఓం ఐం నం నమః ॥ ౬౭॥
యా దేవీ సర్వభూతేషు తుష్టిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౮-౭౦॥ ఓం ఐం స్రాం నమః ॥ ౬౮॥ ఓం ఐం వం నమః ॥ ౬౯॥ ఓం ఐం మం నమః ॥ ౭౦॥
యా దేవీ సర్వభూతేషు మాతృరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౧-౭౩॥ ఓం ఐం మ్క్లీం నమః ॥ ౭౧॥ ఓం ఐం శాం నమః ॥ ౭౨॥ ఓం ఐం లం నమః ॥ ౭౩॥
యా దేవీ సర్వభూతేషు భ్రాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౪-౭౬॥ ఓం ఐం భైం నమః ॥ ౭౪॥ ఓం ఐం ల్లూం నమః ॥ ౭౫॥ ఓం ఐం హౌం నమః ॥ ౭౬॥
ఇన్ద్రియాణామధిష్ఠాత్రీ భూతానాం చాఖిలేషు యా ।
భూతేషు సతతం తస్యై వ్యాప్త్యై దేవ్యై నమో నమః ॥ ౫.౭౭॥ ఓం ఐం ఈం నమః ॥ ౭౭॥
చితిరూపేణ యా కృత్స్నమేతద్ వ్యాప్య స్థితా జగత్ ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౮-౮౦॥ ఓం ఐం చేం నమః ॥ ౭౮॥ ఓం ఐం ల్క్రీం నమః ॥ ౭౯॥ ఓం ఐం హ్ల్రీం నమః ॥ ౮౦॥
స్తుతా సురైః పూర్వమభీష్టసంశ్రయా-
త్తథా సురేన్ద్రేణ దినేషు సేవితా ।
కరోతు సా నః శుభహేతురీశ్వరీ
శుభాని భద్రాణ్యభిహన్తు చాపదః ॥ ౫.౮౧॥ఓం ఐం క్ష్మ్ల్రీం నమః ॥ ౮౧॥
యా సామ్ప్రతం చోద్ధతదైత్యతాపితై-
రస్మాభిరీశా చ సురైర్నమస్యతే ।
యా చ స్మృతా తత్క్షణమేవ హన్తి నః
సర్వాపదో భక్తివినమ్రమూర్తిభిః ॥ ౫.౮౨॥ఓం ఐం యూం నమః ॥ ౮౨॥
ఋషిరువాచ ॥ ౫.౮౩॥ ఓం ఐం శ్రౌం నమః ॥ ౮౩॥
ఏవం స్తవాభియుక్తానాం దేవానాం తత్ర పార్వతీ ।
స్నాతుమభ్యాయయౌ తోయే జాహ్నవ్యా నృపనన్దన ॥ ౫.౮౪॥ ఓం ఐం హ్రౌం నమః ॥ ౮౪॥
సాబ్రవీత్తాన్ సురాన్ సుభ్రూర్భవద్భిః స్తూయతేఽత్ర కా ।
శరీరకోశతశ్చాస్యాః సముద్భూతాబ్రవీచ్ఛివా ॥ ౫.౮౫॥ ఓం ఐం భ్రూం నమః ॥ ౮౫॥
స్తోత్రం మమైతత్క్రియతే శుమ్భదైత్యనిరాకృతైః ।
దేవైః సమేతైః సమరే నిశుమ్భేన పరాజితైః ॥ ౫.౮౬॥ ఓం ఐం క్స్త్రీం నమః ॥ ౮౬॥
శరీరకోశాద్యత్తస్యాః పార్వత్యా నిఃసృతామ్బికా ।
కౌశికీతి సమస్తేషు తతో లోకేషు గీయతే ॥ ౫.౮౭॥ ఓం ఐం ఆం నమః ॥ ౮౭॥
తస్యాం వినిర్గతాయాం తు కృష్ణాభూత్సాపి పార్వతీ ।
కాలికేతి సమాఖ్యాతా హిమాచలకృతాశ్రయా ॥ ౫.౮౮॥ ఓం ఐం క్రూం నమః ॥ ౮౮॥
తతోఽమ్బికాం పరం రూపం బిభ్రాణాం సుమనోహరమ్ ।
దదర్శ చణ్డో ముణ్డశ్చ భృత్యౌ శుమ్భనిశుమ్భయోః ॥ ౫.౮౯॥ ఓం ఐం త్రూం నమః ॥ ౮౯॥
తాభ్యాం శుమ్భాయ చాఖ్యాతా సాతీవ సుమనోహరా ।
కాప్యాస్తే స్త్రీ మహారాజ భాసయన్తీ హిమాచలమ్ ॥ ౫.౯౦॥ ఓం ఐం డూం నమః ॥ ౯౦॥
నైవ తాదృక్ క్వచిద్రూపం దృష్టం కేనచిదుత్తమమ్ ।
జ్ఞాయతాం కాప్యసౌ దేవీ గృహ్యతాం చాసురేశ్వర ॥ ౫.౯౧॥ ఓం ఐం జాం నమః ॥ ౯౧॥
స్త్రీరత్నమతిచార్వఙ్గీ ద్యోతయన్తీ దిశస్త్విషా ।
సా తు తిష్ఠతి దైత్యేన్ద్ర తాం భవాన్ ద్రష్టుమర్హతి ॥ ౫.౯౨॥ ఓం ఐం హ్లరూం (హ్ల్రూం) నమః ॥ ౯౨॥
యాని రత్నాని మణయో గజాశ్వాదీని వై ప్రభో ।
త్రైలోక్యే తు సమస్తాని సామ్ప్రతం భాన్తి తే గృహే ॥ ౫.౯౩॥ ఓం ఐం ఫ్రౌం నమః ॥ ౯౩॥
ఐరావతః సమానీతో గజరత్నం పురన్దరాత్ ।
పారిజాతతరుశ్చాయం తథైవోచ్చైఃశ్రవా హయః ॥ ౫.౯౪॥ ఓం ఐం క్రౌం నమః ॥ ౯౪॥
విమానం హంససంయుక్తమేతత్తిష్ఠతి తేఽఙ్గణే ।
రత్నభూతమిహానీతం యదాసీద్వేధసోఽద్భుతమ్ ॥ ౫.౯౫॥ ఓం ఐం కిం నమః ॥ ౯౫॥
నిధిరేష మహాపద్మః సమానీతో ధనేశ్వరాత్ ।
కిఞ్జల్కినీం దదౌ చాబ్ధిర్మాలామమ్లానపఙ్కజామ్ ॥ ౫.౯౬॥ ఓం ఐం గ్లూం నమః ॥ ౯౬॥
ఛత్రం తే వారుణం గేహే కాఞ్చనస్రావి తిష్ఠతి ।
తథాయం స్యన్దనవరో యః పురాసీత్ప్రజాపతేః ॥ ౫.౯౭॥ ఓం ఐం ఛ్ర్క్లీం నమః ॥ ౯౭॥
మృత్యోరుత్క్రాన్తిదా నామ శక్తిరీశ త్వయా హృతా ।
పాశః సలిలరాజస్య భ్రాతుస్తవ పరిగ్రహే ॥ ౫.౯౮॥ ఓం ఐం రం నమః ॥ ౯౮॥
నిశుమ్భస్యాబ్ధిజాతాశ్చ సమస్తా రత్నజాతయః ।
వహ్నిరపి దదౌ తుభ్యమగ్నిశౌచే చ వాససీ ॥ ౫.౯౯॥ ఓం ఐం క్సైం నమః ॥ ౯౯॥
ఏవం దైత్యేన్ద్ర రత్నాని సమస్తాన్యాహృతాని తే ।
స్త్రీరత్నమేషా కల్యాణీ త్వయా కస్మాన్న గృహ్యతే ॥ ౫.౧౦౦॥ ఓం ఐం స్హుం నమః ॥ ౧౦౦॥
ఋషిరువాచ ॥ ౫.౧౦౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧౦౧॥
నిశమ్యేతి వచః శుమ్భః స తదా చణ్డముణ్డయోః ।
ప్రేషయామాస సుగ్రీవం దూతం దేవ్యా మహాసురమ్ ॥ ౫.౧౦౨॥ ఓం ఐం హ్శ్రీం నమః ॥ ౧౦౨॥
ఇతి చేతి చ వక్తవ్యా సా గత్వా వచనాన్మమ ।
యథా చాభ్యేతి సమ్ప్రీత్యా తథా కార్యం త్వయా లఘు ॥ ౫.౧౦౩॥ ఓం ఐం ఓం నమః ॥ ౧౦౩॥
స తత్ర గత్వా యత్రాస్తే శైలోద్దేశేఽతిశోభనే ।
తాం చ దేవీం తతః ప్రాహ శ్లక్ష్ణం మధురయా గిరా ॥ ౫.౧౦౪॥ ఓం ఐం లూం నమః ॥ ౧౦౪॥
దూత ఉవాచ ॥ ౫.౧౦౫॥ ఓం ఐం ల్హూం నమః ॥ ౧౦౫॥
దేవి దైత్యేశ్వరః శుమ్భస్త్రైలోక్యే పరమేశ్వరః ।
దూతోఽహం ప్రేషితస్తేన త్వత్సకాశమిహాగతః ॥ ౫.౧౦౬॥ ఓం ఐం ర్ల్లూం (ల్లూం) నమః ॥ ౧౦౬॥
అవ్యాహతాజ్ఞః సర్వాసు యః సదా దేవయోనిషు ।
నిర్జితాఖిలదైత్యారిః స యదాహ శృణుష్వ తత్ ॥ ౫.౧౦౭॥ ఓం ఐం స్క్రీం నమః ॥ ౧౦౭॥
మమ త్రైలోక్యమఖిలం మమ దేవా వశానుగాః ।
యజ్ఞభాగానహం సర్వానుపాశ్నామి పృథక్ పృథక్ ॥ ౫.౧౦౮॥ ఓం ఐం స్స్రౌం నమః ॥ ౧౦౮॥
త్రైలోక్యే వరరత్నాని మమ వశ్యాన్యశేషతః ।
తథైవ గజరత్నం చ హృతం దేవేన్ద్రవాహనమ్ ॥ ౫.౧౦౯॥ ఓం ఐం స్శ్రూం నమః ॥ ౧౦౯॥
క్షీరోదమథనోద్భూతమశ్వరత్నం మమామరైః ।
ఉచ్చైఃశ్రవససఞ్జ్ఞం తత్ప్రణిపత్య సమర్పితమ్ ॥ ౫.౧౧౦॥ ఓం ఐం క్ష్మ్క్లీం నమః ॥ ౧౧౦॥
యాని చాన్యాని దేవేషు గన్ధర్వేషూరగేషు చ ।
రత్నభూతాని భూతాని తాని మయ్యేవ శోభనే ॥ ౫.౧౧౧॥ ఓం ఐం వ్రీం నమః ॥ ౧౧౧॥
స్త్రీరత్నభూతాం త్వాం దేవి లోకే మన్యామహే వయమ్ ।
సా త్వమస్మానుపాగచ్ఛ యతో రత్నభుజో వయమ్ ॥ ౫.౧౧౨॥ ఓం ఐం సీం నమః ॥ ౧౧౨॥
మాం వా మమానుజం వాపి నిశుమ్భమురువిక్రమమ్ ।
భజ త్వం చఞ్చలాపాఙ్గి రత్నభూతాసి వై యతః ॥ ౫.౧౧౩॥ ఓం ఐం భ్రూం నమః ॥ ౧౧౩॥
పరమైశ్వర్యమతులం ప్రాప్స్యసే మత్పరిగ్రహాత్ ।
ఏతద్బుద్ధ్యా సమాలోచ్య మత్పరిగ్రహతాం వ్రజ ॥ ౫.౧౧౪॥ ఓం ఐం లాం నమః ॥ ౧౧౪॥
ఋషిరువాచ ॥ ౫.౧౧౫॥ ఓం ఐం శ్రౌం నమః ॥ ౧౧౫॥
ఇత్యుక్తా సా తదా దేవీ గమ్భీరాన్తఃస్మితా జగౌ ।
దుర్గా భగవతీ భద్రా యయేదం ధార్యతే జగత్ ॥ ౫.౧౧౬॥ ఓం ఐం స్హైం నమః ॥ ౧౧౬॥
దేవ్యువాచ ॥ ౫.౧౧౭॥ ఓం ఐం హ్రీం నమః ॥ ౧౧౭॥
సత్యముక్తం త్వయా నాత్ర మిథ్యా కిఞ్చిత్త్వయోదితమ్ ।
త్రైలోక్యాధిపతిః శుమ్భో నిశుమ్భశ్చాపి తాదృశః ॥ ౫.౧౧౮॥ ఓం ఐం శ్రీం నమః ॥ ౧౧౮॥
కిం త్వత్ర యత్ప్రతిజ్ఞాతం మిథ్యా తత్క్రియతే కథమ్ ।
శ్రూయతామల్పబుద్ధిత్వాత్ప్రతిజ్ఞా యా కృతా పురా ॥ ౫.౧౧౯॥ ఓం ఐం ఫ్రేం నమః ॥ ౧౧౯॥
యో మాం జయతి సఙ్గ్రామే యో మే దర్పం వ్యపోహతి ।
యో మే ప్రతిబలో లోకే స మే భర్తా భవిష్యతి ॥ ౫.౧౨౦॥ ఓం ఐం రూం నమః ॥ ౧౨౦॥
తదాగచ్ఛతు శుమ్భోఽత్ర నిశుమ్భో వా మహాబలః ।
మాం జిత్వా కిం చిరేణాత్ర పాణిం గృహ్ణాతు మే లఘు ॥ ౫.౧౨౧॥ ఓం ఐం చ్ఛూం నమః ॥ ౧౨౧॥
దూత ఉవాచ ॥ ౫.౧౨౨॥ ఓం ఐం ల్హూం నమః ॥ ౧౨౨॥
అవలిప్తాసి మైవం త్వం దేవి బ్రూహి మమాగ్రతః ।
త్రైలోక్యే కః పుమాంస్తిష్ఠేదగ్రే శుమ్భనిశుమ్భయోః ॥ ౫.౧౨౩॥ ఓం ఐం కం నమః ॥ ౧౨౩॥
అన్యేషామపి దైత్యానాం సర్వే దేవా న వై యుధి ।
తిష్ఠన్తి సమ్ముఖే దేవి కిం పునః స్త్రీ త్వమేకికా ॥ ౫.౧౨౪॥ ఓం ఐం ద్రేం నమః ॥ ౧౨౪॥
ఇన్ద్రాద్యాః సకలా దేవాస్తస్థుర్యేషాం న సంయుగే ।
శుమ్భాదీనాం కథం తేషాం స్త్రీ ప్రయాస్యసి సమ్ముఖమ్ ॥ ౫.౧౨౫॥ ఓం ఐం శ్రీం నమః ॥ ౧౨౫॥
సా త్వం గచ్ఛ మయైవోక్తా పార్శ్వం శుమ్భనిశుమ్భయోః ।
కేశాకర్షణనిర్ధూతగౌరవా మా గమిష్యసి ॥ ౫.౧౨౬॥ ఓం ఐం సాం నమః ॥ ౧౨౬॥
దేవ్యువాచ ॥ ౫.౧౨౭॥ ఓం ఐం హ్రీం నమః ॥ ౧౨౭॥
ఏవమేతద్ బలీ శుమ్భో నిశుమ్భశ్చాపితాదృశః ।
కిం కరోమి ప్రతిజ్ఞా మే యదనాలోచితా పురా ॥ ౫.౧౨౮॥ ఓం ఐం ఐం నమః ॥ ౧౨౮॥
స త్వం గచ్ఛ మయోక్తం తే యదేతత్సర్వమాదృతః ।
తదాచక్ష్వాసురేన్ద్రాయ స చ యుక్తం కరోతు యత్ ॥ ౫.౧౨౯॥ ఓం ఐం స్క్లీం నమః ॥ ౧౨౯॥
``ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే స్వాహా ॥ ౫॥''
(బీజమన్త్ర ఉపలబ్ధ నహీం హై । అతః ఇస కే స్థాన పర నవర్ణమన్త్ర సే హవన కియా జా సకతా హై ।)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
దేవ్యా దూతసంవాదో నామ పఞ్చమోఽధ్యాయః ॥ ౫॥
ఉవాచ ౯, త్రిపాన్మన్త్రాః ౬౬, శ్లోకాః ౫౪, ఏవమాదితః ॥ ౩౮౮॥
॥ ౬. శుమ్భనిశుమ్భసేనానీధూమ్రలోచనవధో నామ షష్ఠోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం నాగాధీశ్వరవిష్టరాం ఫణిఫణోత్తంసోరు రత్నావలీ-
భాస్వద్దేహలతాం దివాకరనిభాం నేత్రత్రయోద్భాసితామ్ ।
మాలాకుమ్భకపాలనీరజకరాం చన్ద్రార్ధచూడాం పరాం
సర్వజ్ఞేశ్వరభైరవాఙ్గనిలయాం పద్మావతీం చిన్తయే ॥
ఓం ఋషిరువాచ ॥ ౬.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
ఇత్యాకర్ణ్య వచో దేవ్యాః స దూతోఽమర్షపూరితః ।
సమాచష్ట సమాగమ్య దైత్యరాజాయ విస్తరాత్ ॥ ౬.౨॥ ఓం ఐం ఓం నమః ॥ ౨॥
తస్య దూతస్య తద్వాక్యమాకర్ణ్యాసురరాట్ తతః ।
సక్రోధః ప్రాహ దైత్యానామధిపం ధూమ్రలోచనమ్ ॥ ౬.౩॥ ఓం ఐం త్రూం నమః ॥ ౩॥
హే ధూమ్రలోచనాశు త్వం స్వసైన్యపరివారితః ।
తామానయ బలాద్దుష్టాం కేశాకర్షణవిహ్వలామ్ ॥ ౬.౪॥ ఓం ఐం హ్రౌం నమః ॥ ౪॥
తత్పరిత్రాణదః కశ్చిద్యది వోత్తిష్ఠతేఽపరః ।
స హన్తవ్యోఽమరో వాపి యక్షో గన్ధర్వ ఏవ వా ॥ ౬.౫॥ ఓం ఐం క్రౌం నమః ॥ ౫॥
ఋషిరువాచ ॥ ౬.౬॥ ఓం ఐం హ్రీం (శ్రౌం) నమః ॥ ౬॥
తేనాజ్ఞప్తస్తతః శీఘ్రం స దైత్యో ధూమ్రలోచనః ।
వృతః షష్ట్యా సహస్రాణామసురాణాం ద్రుతం యయౌ ॥ ౬.౭॥ ఓం ఐం త్రౌం (త్రీం) నమః ॥ ౭॥
స దృష్ట్వా తాం తతో దేవీం తుహినాచలసంస్థితామ్ ।
జగాదోచ్చైః ప్రయాహీతి మూలం శుమ్భనిశుమ్భయోః ॥ ౬.౮॥ ఓం ఐం క్లీం నమః ॥ ౮॥
న చేత్ప్రీత్యాద్య భవతీ మద్భర్తారముపైష్యతి ।
తతో బలాన్నయామ్యేష కేశాకర్షణవిహ్వలామ్ ॥ ౬.౯॥ ఓం ఐం ప్రీం నమః ॥ ౯॥
దేవ్యువాచ ॥ ౬.౧౦॥ ఓం ఐం హ్రీం నమః ॥ ౧౦॥
దైత్యేశ్వరేణ ప్రహితో బలవాన్బలసంవృతః ।
బలాన్నయసి మామేవం తతః కిం తే కరోమ్యహమ్ ॥ ౬.౧౧॥ ఓం ఐం హ్రౌం నమః ॥ ౧౧॥
ఋషిరువాచ ॥ ౬.౧౨॥ ఓం ఐం శ్రౌం నమః ॥ ౧౨॥
ఇత్యుక్తః సోఽభ్యధావత్తామసురో ధూమ్రలోచనః ।
హుఙ్కారేణైవ తం భస్మ సా చకారామ్బికా తదా ॥ ౬.౧౩॥ ఓం ఐం ఐం నమః ॥ ౧౩॥
అథ క్రుద్ధం మహాసైన్యమసురాణాం తథామ్బికా ।
వవర్ష సాయకైస్తీక్ష్ణైస్తథా శక్తిపరశ్వధైః ॥ ౬.౧౪॥ ఓం ఐం ఓం నమః ॥ ౧౪॥
తతో ధుతసటః కోపాత్కృత్వా నాదం సుభైరవమ్ ।
పపాతాసురసేనాయాం సింహో దేవ్యాః స్వవాహనః ॥ ౬.౧౫॥ ఓం ఐం శ్రీం నమః ॥ ౧౫॥
కాంశ్చిత్కరప్రహారేణ దైత్యానాస్యేన చాపరాన్ ।
ఆక్రాన్త్యా చాధరేణాన్యాన్ జఘాన స మహాసురాన్ ॥ ౬.౧౬॥ ఓం ఐం క్రాం నమః ॥ ౧౬॥
కేషాఞ్చిత్పాటయామాస నఖైః కోష్ఠాని కేసరీ ।
తథా తలప్రహారేణ శిరాంసి కృతవాన్పృథక్ ॥ ౬.౧౭॥ ఓం ఐం హూం నమః ॥ ౧౭॥
విచ్ఛిన్నబాహుశిరసః కృతాస్తేన తథాపరే ।
పపౌ చ రుధిరం కోష్ఠాదన్యేషాం ధుతకేసరః ॥ ౬.౧౮॥ ఓం ఐం ఛ్రాం క్లీం నమః ॥ ౧౮॥
క్షణేన తద్బలం సర్వం క్షయం నీతం మహాత్మనా ।
తేన కేసరిణా దేవ్యా వాహనేనాతికోపినా ॥ ౬.౧౯॥ ఓం ఐం క్ష్మ్క్ల్రీం నమః ॥ ౧౯॥
శ్రుత్వా తమసురం దేవ్యా నిహతం ధూమ్రలోచనమ్ ।
బలం చ క్షయితం కృత్స్నం దేవీకేసరిణా తతః ॥ ౬.౨౦॥ ఓం ఐం ల్లూం నమః ॥ ౨౦॥
చుకోప దైత్యాధిపతిః శుమ్భః ప్రస్ఫురితాధరః ।
ఆజ్ఞాపయామాస చ తౌ చణ్డముణ్డౌ మహాసురౌ ॥ ౬.౨౧॥ ఓం ఐం సౌం నమః ॥ ౨౧॥
హే చణ్డ హే ముణ్డ బలైర్బహుభిః పరివారితౌ ।
తత్ర గచ్ఛత గత్వా చ సా సమానీయతాం లఘు ॥ ౬.౨౨॥ ఓం ఐం హ్లౌం నమః ॥ ౨౨॥
కేశేష్వాకృష్య బద్ధ్వా వా యది వః సంశయో యుధి ।
తదాశేషాయుధైః సర్వైరసురైర్వినిహన్యతామ్ ॥ ౬.౨౩॥ ఓం ఐం క్రూం నమః ॥ ౨౩॥
తస్యాం హతాయాం దుష్టాయాం సింహే చ వినిపాతితే ।
శీఘ్రమాగమ్యతాం బద్ధ్వా గృహీత్వా తామథామ్బికామ్ ॥ ౬.౨౪॥ ఓం ఐం సౌం నమః ॥ ౨౪॥
``ఓం శ్రీం యం హ్రీం క్లీం హ్లీం ఫట్ స్వాహా ॥ ౬॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
శుమ్భనిశుమ్భసేనానీధూమ్రలోచనవధో నామ షష్ఠోఽధ్యాయః ॥ ౬॥
ఉవాచ ౪, శ్లోకాః ౨౪, ఏవమాదితః ॥ ౪౧౨॥
॥ ౭. చణ్డముణ్డవధో నామ సప్తమోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం ధ్యాయేయం రత్నపీఠే శుకకలపఠితం శృణ్వతీం శ్యామలాఙ్గీం
న్యస్తైకాఙ్ఘ్రిం సరోజే శశిశకలధరాం వల్లకీం వాదయన్తీమ్ ।
కహ్లారాబద్ధమాలాం నియమితవిలసచ్చోలికాం రత్నవస్త్రాం
మాతఙ్గీ శఙ్ఖపాత్రాం మధురమధుమదాం చిత్రకోద్భాసిభాలామ్ ॥
ఓం ఋషిరువాచ ॥ ౭.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
ఆజ్ఞప్తాస్తే తతో దైత్యాశ్చణ్డముణ్డపురోగమాః ।
చతురఙ్గబలోపేతా యయురభ్యుద్యతాయుధాః ॥ ౭.౨॥ ఓం ఐం కూం నమః ॥ ౨॥
దదృశుస్తే తతో దేవీమీషద్ధాసాం వ్యవస్థితామ్ ।
సింహస్యోపరి శైలేన్ద్రశృఙ్గే మహతి కాఞ్చనే ॥ ౭.౩॥ ఓం ఐం హ్లీం నమః ॥ ౩॥
తే దృష్ట్వా తాం సమాదాతుముద్యమం చక్రురుద్యతాః ।
ఆకృష్టచాపాసిధరాస్తథాన్యే తత్సమీపగాః ॥ ౭.౪॥ ఓం ఐం హ్రం నమః ॥ ౪॥
తతః కోపం చకారోచ్చైరమ్బికా తానరీన్ప్రతి ।
కోపేన చాస్యా వదనం మషీవర్ణమభూత్తదా ॥ ౭.౫॥ ఓం ఐం మూం నమః ॥ ౫॥
భ్రుకుటీకుటిలాత్తస్యా లలాటఫలకాద్ద్రుతమ్ ।
కాలీ కరాలవదనా వినిష్క్రాన్తాసిపాశినీ ॥ ౭.౬॥ ఓం ఐం త్రౌం నమః ॥ ౬॥
విచిత్రఖట్వాఙ్గధరా నరమాలావిభూషణా ।
ద్వీపిచర్మపరీధానా శుష్కమాంసాతిభైరవా ॥ ౭.౭॥ ఓం ఐం హ్రౌం నమః ॥ ౭॥
అతివిస్తారవదనా జిహ్వాలలనభీషణా ।
నిమగ్నారక్తనయనా నాదాపూరితదిఙ్ముఖా ॥ ౭.౮॥ ఓం ఐం ఓం నమః ॥ ౮॥
సా వేగేనాభిపతితా ఘాతయన్తీ మహాసురాన్ ।
సైన్యే తత్ర సురారీణామభక్షయత తద్బలమ్ ॥ ౭.౯॥ ఓం ఐం హ్సూం నమః ॥ ౯॥
పార్ష్ణిగ్రాహాఙ్కుశగ్రాహయోధఘణ్టాసమన్వితాన్ ।
సమాదాయైకహస్తేన ముఖే చిక్షేప వారణాన్ ॥ ౭.౧౦॥ ఓం ఐం క్లూం నమః ॥ ౧౦॥
తథైవ యోధం తురగై రథం సారథినా సహ ।
నిక్షిప్య వక్త్రే దశనైశ్చర్వయన్త్యతిభైరవమ్ ॥ ౭.౧౧॥ ఓం ఐం కైం (కేం) నమః ॥ ౧౧॥
ఏకం జగ్రాహ కేశేషు గ్రీవాయామథ చాపరమ్ ।
పాదేనాక్రమ్య చైవాన్యమురసాన్యమపోథయత్ ॥ ౭.౧౨॥ ఓం ఐం నేం నమః ॥ ౧౨॥
తైర్ముక్తాని చ శస్త్రాణి మహాస్త్రాణి తథాసురైః ।
ముఖేన జగ్రాహ రుషా దశనైర్మథితాన్యపి ॥ ౭.౧౩॥ ఓం ఐం లూం నమః ॥ ౧౩॥
బలినాం తద్బలం సర్వమసురాణాం దురాత్మనామ్ ।
మమర్దాభక్షయచ్చాన్యానన్యాంశ్చాతాడయత్తదా ॥ ౭.౧౪॥ ఓం ఐం హ్స్లీం నమః ॥ ౧౪॥
అసినా నిహతాః కేచిత్కేచిత్ఖట్వాఙ్గతాడితాః ।
జగ్ముర్వినాశమసురా దన్తాగ్రాభిహతాస్తథా ॥ ౭.౧౫॥ ఓం ఐం ప్లూం నమః ॥ ౧౫॥
క్షణేన తద్బలం సర్వమసురాణాం నిపాతితమ్ ।
దృష్ట్వా చణ్డోఽభిదుద్రావ తాం కాలీమతిభీషణామ్ ॥ ౭.౧౬॥ ఓం ఐం శాం నమః ॥ ౧౬॥
శరవర్షైర్మహాభీమైర్భీమాక్షీం తాం మహాసురః ।
ఛాదయామాస చక్రైశ్చ ముణ్డః క్షిప్తైః సహస్రశః ॥ ౭.౧౭॥ ఓం ఐం స్లూం నమః ॥ ౧౭॥
తాని చక్రాణ్యనేకాని విశమానాని తన్ముఖమ్ ।
బభుర్యథార్కబిమ్బాని సుబహూని ఘనోదరమ్ ॥ ౭.౧౮॥ ఓం ఐం ప్లీం నమః ॥ ౧౮॥
తతో జహాసాతిరుషా భీమం భైరవనాదినీ ।
కాలీ కరాలవదనా దుర్దర్శదశనోజ్జ్వలా ॥ ౭.౧౯॥ ఓం ఐం ప్రైం నమః ॥ ౧౯॥
ఉత్థాయ చ మహాసింహం దేవీ చణ్డమధావత ।
గృహీత్వా చాస్య కేశేషు శిరస్తేనాసినాచ్ఛినత్ ॥ ౭.౨౦॥ ఓం ఐం అం నమః ॥ ౨౦॥
అథ ముణ్డోఽభ్యధావత్తాం దృష్ట్వా చణ్డం నిపాతితమ్ ।
తమప్యపాతయద్భూమౌ సా ఖడ్గాభిహతం రుషా ॥ ౭.౨౧॥ ఓం ఐం ఔం నమః ॥ ౨౧॥
హతశేషం తతః సైన్యం దృష్ట్వా చణ్డం నిపాతితమ్ ।
ముణ్డం చ సుమహావీర్యం దిశో భేజే భయాతురమ్ ॥ ౭.౨౨॥ ఓం ఐం మ్ల్రీం నమః ॥ ౨౨॥
శిరశ్చణ్డస్య కాలీ చ గృహీత్వా ముణ్డమేవ చ ।
ప్రాహ ప్రచణ్డాట్టహాసమిశ్రమభ్యేత్య చణ్డికామ్ ॥ ౭.౨౩॥ ఓం ఐం శ్రాం నమః ॥ ౨౩॥
మయా తవాత్రోపహృతౌ చణ్డముణ్డౌ మహాపశూ ।
యుద్ధయజ్ఞే స్వయం శుమ్భం నిశుమ్భం చ హనిష్యసి ॥ ౭.౨౪॥ ఓం ఐం సౌం నమః ॥ ౨౪॥
ఋషిరువాచ ॥ ౭.౨౫॥ ఓం ఐం శ్రౌం నమః ॥ ౨౫॥
తావానీతౌ తతో దృష్ట్వా చణ్డముణ్డౌ మహాసురౌ ।
ఉవాచ కాలీం కల్యాణీ లలితం చణ్డికా వచః ॥ ౭.౨౬॥ ఓం ఐం ప్రీం నమః ॥ ౨౬॥
యస్మాచ్చణ్డం చ ముణ్డం చ గృహీత్వా త్వముపాగతా ।
చాముణ్డేతి తతో లోకే ఖ్యాతా దేవీ భవిష్యసి ॥ ౭.౨౭॥ ఓం ఐం హ్స్వ్రీం నమః ॥ ౨౭॥
``ఓం రం రం రం కం కం కం జం జం జం చాముణ్డాయై ఫట్ స్వాహా ॥ ౭॥(ఓం రం రం రం కం కం జం జం చాముణ్డాయై ఫట్ స్వాహా)''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
చణ్డముణ్డవధో నామ సప్తమోఽధ్యాయః ॥ ౭॥
ఉవాచ ౨, శ్లోకాః ౨౫, ఏవమాదితః ॥ ౪౩౯॥
॥ ౮. రక్తబీజవధో నామాష్టమోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం అరుణాం కరుణాతరఙ్గితాక్షీం
ధృతపాశాఙ్కుశబాణాచాపహస్తామ్ ।
అణిమాదిభిరావృతాం మయూఖై-
రహమిత్యేవ విభావయే భవానీమ్ ॥
ఓం ఋషిరువాచ ॥ ౮.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
చణ్డే చ నిహతే దైత్యే ముణ్డే చ వినిపాతితే ।
బహులేషు చ సైన్యేషు క్షయితేష్వసురేశ్వరః ॥ ౮.౨॥ ఓం ఐం మ్హ్ల్రీం నమః ॥ ౨॥
తతః కోపపరాధీనచేతాః శుమ్భః ప్రతాపవాన్ ।
ఉద్యోగం సర్వసైన్యానాం దైత్యానామాదిదేశ హ ॥ ౮.౩॥ ఓం ఐం ప్రూం నమః ॥ ౩॥
అద్య సర్వబలైర్దైత్యాః షడశీతిరుదాయుధాః ।
కమ్బూనాం చతురశీతిర్నిర్యాన్తు స్వబలైర్వృతాః ॥ ౮.౪॥ ఓం ఐం ఐం నమః ॥ ౪॥
కోటివీర్యాణి పఞ్చాశదసురాణాం కులాని వై ।
శతం కులాని ధౌమ్రాణాం నిర్గచ్ఛన్తు మమాజ్ఞయా ॥ ౮.౫॥ ఓం ఐం క్రోం నమః ॥ ౫॥
కాలకా దౌర్హృదా మౌర్వాః కాలికేయాస్తథాసురాః ।
యుద్ధాయ సజ్జా నిర్యాన్తు ఆజ్ఞయా త్వరితా మమ ॥ ౮.౬॥ ఓం ఐం ఈం నమః ॥ ౬॥
ఇత్యాజ్ఞాప్యాసురపతిః శుమ్భో భైరవశాసనః ।
నిర్జగామ మహాసైన్యసహస్రైర్బహుభిర్వృతః ॥ ౮.౭॥ ఓం ఐం ఐం నమః ॥ ౭॥
ఆయాన్తం చణ్డికా దృష్ట్వా తత్సైన్యమతిభీషణమ్ ।
జ్యాస్వనైః పూరయామాస ధరణీగగనాన్తరమ్ ॥ ౮.౮॥ ఓం ఐం ల్రీం నమః ॥ ౮॥
తతః సింహో మహానాదమతీవ కృతవాన్నృప ।
ఘణ్టాస్వనేన తాన్నాదానమ్బికా చోపబృంహయత్ ॥ ౮.౯॥ ఓం ఐం ఫ్రౌం నమః ॥ ౯॥
ధనుర్జ్యాసింహఘణ్టానాం నాదాపూరితదిఙ్ముఖా ।
నినాదైర్భీషణైః కాలీ జిగ్యే విస్తారితాననా ॥ ౮.౧౦॥ ఓం ఐం మ్లూం నమః ॥ ౧౦॥
తం నినాదముపశ్రుత్య దైత్యసైన్యైశ్చతుర్దిశమ్ ।
దేవీ సింహస్తథా కాలీ సరోషైః పరివారితాః ॥ ౮.౧౧॥ ఓం ఐం నోం నమః ॥ ౧౧॥
ఏతస్మిన్నన్తరే భూప వినాశాయ సురద్విషామ్ ।
భవాయామరసింహానామతివీర్యబలాన్వితాః ॥ ౮.౧౨॥ ఓం ఐం హూం నమః ॥ ౧౨॥
బ్రహ్మేశగుహవిష్ణూనాం తథేన్ద్రస్య చ శక్తయః ।
శరీరేభ్యో వినిష్క్రమ్య తద్రూపైశ్చణ్డికాం యయుః ॥ ౮.౧౩॥ ఓం ఐం ఫ్రీం నమః ॥ ౧౩॥
యస్య దేవస్య యద్రూపం యథా భూషణవాహనమ్ ।
తద్వదేవ హి తచ్ఛక్తిరసురాన్యోద్ధుమాయయౌ ॥ ౮.౧౪॥ ఓం ఐం గ్లౌం నమః ॥ ౧౪॥
హంసయుక్తవిమానాగ్రే సాక్షసూత్రకమణ్డలుః ।
ఆయాతా బ్రహ్మణః శక్తిర్బ్రహ్మాణీత్యభిధీయతే ॥ ౮.౧౫॥ ఓం ఐం స్మౌం నమః ॥ ౧౫॥
మాహేశ్వరీ వృషారూఢా త్రిశూలవరధారిణీ ।
మహాహివలయా ప్రాప్తా చన్ద్రరేఖావిభూషణా ॥ ౮.౧౬॥ ఓం ఐం సౌం నమః ॥ ౧౬॥
కౌమారీ శక్తిహస్తా చ మయూరవరవాహనా ।
యోద్ధుమభ్యాయయౌ దైత్యానమ్బికా గుహరూపిణీ ॥ ౮.౧౭॥ ఓం ఐం శ్రీం నమః ॥ ౧౭॥
తథైవ వైష్ణవీ శక్తిర్గరుడోపరి సంస్థితా ।
శఙ్ఖచక్రగదాశార్ఙ్గఖడ్గహస్తాభ్యుపాయయౌ ॥ ౮.౧౮॥ ఓం ఐం స్హౌం నమః ॥ ౧౮॥
యజ్ఞవారాహమతులం రూపం యా బిభ్రతో హరేః ।
శక్తిః సాప్యాయయౌ తత్ర వారాహీం బిభ్రతీ తనుమ్ ॥ ౮.౧౯॥ ఓం ఐం ఖ్సేం నమః ॥ ౧౯॥
నారసింహీ నృసింహస్య బిభ్రతీ సదృశం వపుః ।
ప్రాప్తా తత్ర సటాక్షేపక్షిప్తనక్షత్రసంహతిః ॥ ౮.౨౦॥ ఓం ఐం క్ష్మ్లీం నమః ॥ ౨౦॥
వజ్రహస్తా తథైవైన్ద్రీ గజరాజోపరి స్థితా ।
ప్రాప్తా సహస్రనయనా యథా శక్రస్తథైవ సా ॥ ౮.౨౧॥ ఓం ఐం హ్రాం నమః ॥ ౨౧॥
తతః పరివృతస్తాభిరీశానో దేవశక్తిభిః ।
హన్యన్తామసురాః శీఘ్రం మమ ప్రీత్యాహ చణ్డికామ్ ॥ ౮.౨౨॥ ఓం ఐం వీం నమః ॥ ౨౨॥
తతో దేవీశరీరాత్తు వినిష్క్రాన్తాతిభీషణా ।
చణ్డికా శక్తిరత్యుగ్రా శివాశతనినాదినీ ॥ ౮.౨౩॥ ఓం ఐం లూం నమః ॥ ౨౩॥
సా చాహ ధూమ్రజటిలమీశానమపరాజితా ।
దూత త్వం గచ్ఛ భగవన్ పార్శ్వం శుమ్భనిశుమ్భయోః ॥ ౮.౨౪॥ ఓం ఐం ల్సీం నమః ॥ ౨౪॥
బ్రూహి శుమ్భం నిశుమ్భం చ దానవావతిగర్వితౌ ।
యే చాన్యే దానవాస్తత్ర యుద్ధాయ సముపస్థితాః ॥ ౮.౨౫॥ ఓం ఐం బ్లోం నమః ॥ ౨౫॥
త్రైలోక్యమిన్ద్రో లభతాం దేవాః సన్తు హవిర్భుజః ।
యూయం ప్రయాత పాతాలం యది జీవితుమిచ్ఛథ ॥ ౮.౨౬॥ ఓం ఐం త్స్రోం నమః ॥ ౨౬॥
బలావలేపాదథ చేద్భవన్తో యుద్ధకాఙ్క్షిణః ।
తదాగచ్ఛత తృప్యన్తు మచ్ఛివాః పిశితేన వః ॥ ౮.౨౭॥ ఓం ఐం వ్రూం (బ్రూం) నమః ॥ ౨౭॥
యతో నియుక్తో దౌత్యేన తయా దేవ్యా శివః స్వయమ్ ।
శివదూతీతి లోకేఽస్మింస్తతః సా ఖ్యాతిమాగతా ॥ ౮.౨౮॥ ఓం ఐం శ్ల్కీం నమః ॥ ౨౮॥
తేఽపి శ్రుత్వా వచో దేవ్యాః శర్వాఖ్యాతం మహాసురాః ।
అమర్షాపూరితా జగ్ముర్యత్ర కాత్యాయనీ స్థితా ॥ ౮.౨౯॥ ఓం ఐం శ్రూం నమః ॥ ౨౯॥
తతః ప్రథమమేవాగ్రే శరశక్త్యృష్టివృష్టిభిః ।
వవర్షురుద్ధతామర్షాస్తాం దేవీమమరారయః ॥ ౮.౩౦॥ ఓం ఐం హ్రీం నమః ॥ ౩౦॥
సా చ తాన్ ప్రహితాన్ బాణాఞ్ఛూలశక్తిపరశ్వధాన్ ।
చిచ్ఛేద లీలయాధ్మాతధనుర్ముక్తైర్మహేషుభిః ॥ ౮.౩౧॥ ఓం ఐం శీం నమః ॥ ౩౧॥
తస్యాగ్రతస్తథా కాలీ శూలపాతవిదారితాన్ ।
ఖట్వాఙ్గపోథితాంశ్చారీన్కుర్వతీ వ్యచరత్తదా ॥ ౮.౩౨॥ ఓం ఐం క్లీం నమః ॥ ౩౨॥
కమణ్డలుజలాక్షేపహతవీర్యాన్ హతౌజసః ।
బ్రహ్మాణీ చాకరోచ్ఛత్రూన్యేన యేన స్మ ధావతి ॥ ౮.౩౩॥ ఓం ఐం క్లౌం నమః ॥ ౩౩॥
మాహేశ్వరీ త్రిశూలేన తథా చక్రేణ వైష్ణవీ ।
దైత్యాఞ్జఘాన కౌమారీ తథా శక్త్యాతికోపనా ॥ ౮.౩౪॥ ఓం ఐం ప్రూం నమః ॥ ౩౪॥
ఐన్ద్రీ కులిశపాతేన శతశో దైత్యదానవాః ।
పేతుర్విదారితాః పృథ్వ్యాం రుధిరౌఘప్రవర్షిణః ॥ ౮.౩౫॥ ఓం ఐం హ్నూం (హ్రూం) నమః ॥ ౩౫॥
తుణ్డప్రహారవిధ్వస్తా దంష్ట్రాగ్రక్షతవక్షసః ।
వారాహమూర్త్యా న్యపతంశ్చక్రేణ చ విదారితాః ॥ ౮.౩౬॥ ఓం ఐం క్లూం నమః ॥ ౩౬॥
నఖైర్విదారితాంశ్చాన్యాన్ భక్షయన్తీ మహాసురాన్ ।
నారసింహీ చచారాజౌ నాదాపూర్ణదిగమ్బరా ॥ ౮.౩౭॥ ఓం ఐం తౌం నమః ॥ ౩౭॥
చణ్డాట్టహాసైరసురాః శివదూత్యభిదూషితాః ।
పేతుః పృథివ్యాం పతితాంస్తాంశ్చఖాదాథ సా తదా ॥ ౮.౩౮॥ ఓం ఐం మ్లూం నమః ॥ ౩౮॥
ఇతి మాతృగణం క్రుద్ధం మర్దయన్తం మహాసురాన్ ।
దృష్ట్వాభ్యుపాయైర్వివిధైర్నేశుర్దేవారిసైనికాః ॥ ౮.౩౯॥ ఓం ఐం హం నమః ॥ ౩౯॥
పలాయనపరాన్దృష్ట్వా దైత్యాన్మాతృగణార్దితాన్ ।
యోద్ధుమభ్యాయయౌ క్రుద్ధో రక్తబీజో మహాసురః ॥ ౮.౪౦॥ ఓం ఐం స్లూం నమః ॥ ౪౦॥
రక్తబిన్దుర్యదా భూమౌ పతత్యస్య శరీరతః ।
సముత్పతతి మేదిన్యాం తత్ప్రమాణో మహాసురః ॥ ౮.౪౧॥ ఓం ఐం ఔం నమః ॥ ౪౧॥
యుయుధే స గదాపాణిరిన్ద్రశక్త్యా మహాసురః ।
తతశ్చైన్ద్రీ స్వవజ్రేణ రక్తబీజమతాడయత్ ॥ ౮.౪౨॥ ఓం ఐం ల్హీం నమః ॥ ౪౨॥
కులిశేనాహతస్యాశు బహు సుస్రావ శోణితమ్ ।
సముత్తస్థుస్తతో యోధాస్తద్రూపాస్తత్పరాక్రమాః ॥ ౮.౪౩॥ ఓం ఐం శ్ల్రీం నమః ॥ ౪౩॥
యావన్తః పతితాస్తస్య శరీరాద్రక్తబిన్దవః ।
తావన్తః పురుషా జాతాస్తద్వీర్యబలవిక్రమాః ॥ ౮.౪౪॥ ఓం ఐం యాం నమః ॥ ౪౪॥
తే చాపి యుయుధుస్తత్ర పురుషా రక్తసమ్భవాః ।
సమం మాతృభిరత్యుగ్రశస్త్రపాతాతిభీషణమ్ ॥ ౮.౪౫॥ ఓం ఐం థ్లీం నమః ॥ ౪౫॥
పునశ్చ వజ్రపాతేన క్షతమస్య శిరో యదా ।
వవాహ రక్తం పురుషాస్తతో జాతాః సహస్రశః ॥ ౮.౪౬॥ ఓం ఐం ల్హీం నమః ॥ ౪౬॥
వైష్ణవీ సమరే చైనం చక్రేణాభిజఘాన హ ।
గదయా తాడయామాస ఐన్ద్రీ తమసురేశ్వరమ్ ॥ ౮.౪౭॥ ఓం ఐం గ్లౌం నమః ॥ ౪౭॥
వైష్ణవీచక్రభిన్నస్య రుధిరస్రావసమ్భవైః ।
సహస్రశో జగద్వ్యాప్తం తత్ప్రమాణైర్మహాసురైః ॥ ౮.౪౮॥ ఓం ఐం హ్రౌం నమః ॥ ౪౮॥
శక్త్యా జఘాన కౌమారీ వారాహీ చ తథాసినా ।
మాహేశ్వరీ త్రిశూలేన రక్తబీజం మహాసురమ్ ॥ ౮.౪౯॥ ఓం ఐం ప్రాం నమః ॥ ౪౯॥
స చాపి గదయా దైత్యః సర్వా ఏవాహనత్ పృథక్ ।
మాతౄః కోపసమావిష్టో రక్తబీజో మహాసురః ॥ ౮.౫౦॥ ఓం ఐం క్రీం నమః ॥ ౫౦॥
తస్యాహతస్య బహుధా శక్తిశూలాదిభిర్భువి ।
పపాత యో వై రక్తౌఘస్తేనాసఞ్ఛతశోఽసురాః ॥ ౮.౫౧॥ ఓం ఐం క్లీం నమః ॥ ౫౧॥
తైశ్చాసురాసృక్సమ్భూతైరసురైః సకలం జగత్ ।
వ్యాప్తమాసీత్తతో దేవా భయమాజగ్మురుత్తమమ్ ॥ ౮.౫౨॥ ఓం ఐం న్స్లూం నమః ॥ ౫౨॥
తాన్ విషణ్ణాన్ సురాన్ దృష్ట్వా చణ్డికా ప్రాహసత్వరమ్ ।
ఉవాచ కాలీం చాముణ్డే విస్తీర్ణం వదనం కురు ॥ ౮.౫౩॥ ఓం ఐం హీం నమః ॥ ౫౩॥
మచ్ఛస్త్రపాతసమ్భూతాన్ రక్తబిన్దూన్ మహాసురాన్ ।
రక్తబిన్దోః ప్రతీచ్ఛ త్వం వక్త్రేణానేన వేగినా ॥ ౮.౫౪॥ ఓం ఐం హ్లౌం నమః ॥ ౫౪॥
భక్షయన్తీ చర రణే తదుత్పన్నాన్మహాసురాన్ ।
ఏవమేష క్షయం దైత్యః క్షేణరక్తో గమిష్యతి ॥ ౮.౫౫॥ ఓం ఐం హ్రైం నమః ॥ ౫౫॥
భక్ష్యమాణాస్త్వయా చోగ్రా న చోత్పత్స్యన్తి చాపరే ।
ఇత్యుక్త్వా తాం తతో దేవీ శూలేనాభిజఘాన తమ్ ॥ ౮.౫౬॥ ఓం ఐం భ్రం నమః ॥ ౫౬॥
ముఖేన కాలీ జగృహే రక్తబీజస్య శోణితమ్ ।
తతోఽసావాజఘానాథ గదయా తత్ర చణ్డికామ్ ॥ ౮.౫౭॥ ఓం ఐం సౌం నమః ॥ ౫౭॥
న చాస్యా వేదనాం చక్రే గదాపాతోఽల్పికామపి ।
తస్యాహతస్య దేహాత్తు బహు సుస్రావ శోణితమ్ ॥ ౮.౫౮॥ ఓం ఐం శ్రీం నమః ॥ ౫౮॥
యతస్తతస్తద్వక్త్రేణ చాముణ్డా సమ్ప్రతీచ్ఛతి ।
ముఖే సముద్గతా యేఽస్యా రక్తపాతాన్మహాసురాః ॥ ౮.౫౯॥ ఓం ఐం సూం నమః ॥ ౫౯॥
తాంశ్చఖాదాథ చాముణ్డా పపౌ తస్య చ శోణితమ్ ।
దేవీ శూలేన వజ్రేణ బాణైరసిభిరృష్టిభిః ॥ ౮.౬౦॥ ఓం ఐం ద్రౌం నమః ॥ ౬౦॥
జఘాన రక్తబీజం తం చాముణ్డాపీతశోణితమ్ ।
స పపాత మహీపృష్ఠే శస్త్రసఙ్ఘసమాహతః ॥ ౮.౬౧॥ ఓం ఐం స్స్రాం నమః ॥ ౬౧॥
నీరక్తశ్చ మహీపాల రక్తబీజో మహాసురః ।
తతస్తే హర్షమతులమవాపుస్త్రిదశా నృప ॥ ౮.౬౨॥ ఓం ఐం హ్స్లీం నమః ॥ ౬౨॥
తేషాం మాతృగణో జాతో ననర్తాసృఙ్మదోద్ధతః ॥ ౮.౬౩॥ ఓం ఐం స్ల్ల్రీం నమః ॥ ౬౩॥
``ఓం శాం సం శ్రీం శ్రం అం అః క్లీం హ్లీం ఫట్ స్వాహా ॥ ౮॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
రక్తబీజవధో నామాష్టమోఽధ్యాయః ॥ ౮॥
ఉవాచ ౧, అర్ధశ్లోకః ౧, శ్లోకాః ౬౧, ఏవమాదితః ॥ ౫౦౨॥
॥ ౯. నిశుమ్భవధో నామ నవమోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం బన్ధూకకాఞ్చననిభం రుచిరాక్షమాలాం
పాశాఙ్కుశౌ చ వరదాం నిజబాహుదణ్డైః ।
బిభ్రాణమిన్దుశకలాభరణం త్రినేత్ర-
మర్ధామ్బికేశమనిశం వపురాశ్రయామి ॥
ఓం రాజోవాచ ॥ ౯.౧॥ ఓం ఐం రౌం నమః ॥ ౧॥
విచిత్రమిదమాఖ్యాతం భగవన్ భవతా మమ ।
దేవ్యాశ్చరితమాహాత్మ్యం రక్తబీజవధాశ్రితమ్ ॥ ౯.౨॥ ఓం ఐం క్లీం నమః ॥ ౨॥
భూయశ్చేచ్ఛామ్యహం శ్రోతుం రక్తబీజే నిపాతితే ।
చకార శుమ్భో యత్కర్మ నిశుమ్భశ్చాతికోపనః ॥ ౯.౩॥ ఓం ఐం మ్లౌం నమః ॥ ౩॥
ఋషిరువాచ ॥ ౯.౪॥ ఓం ఐం శ్రౌం నమః ॥ ౪॥
చకార కోపమతులం రక్తబీజే నిపాతితే ।
శుమ్భాసురో నిశుమ్భశ్చ హతేష్వన్యేషు చాహవే ॥ ౯.౫॥ ఓం ఐం గ్లీం నమః ॥ ౫॥
హన్యమానం మహాసైన్యం విలోక్యామర్షముద్వహన్ ।
అభ్యధావన్నిశుమ్భోఽథ ముఖ్యయాసురసేనయా ॥ ౯.౬॥ ఓం ఐం హ్రౌం నమః ॥ ౬॥
తస్యాగ్రతస్తథా పృష్ఠే పార్శ్వయోశ్చ మహాసురాః ।
సన్దష్టౌష్ఠపుటాః క్రుద్ధా హన్తుం దేవీముపాయయుః ॥ ౯.౭॥ ఓం ఐం హ్సౌం నమః ॥ ౭॥
ఆజగామ మహావీర్యః శుమ్భోఽపి స్వబలైర్వృతః ।
నిహన్తుం చణ్డికాం కోపాత్కృత్వా యుద్ధం తు మాతృభిః ॥ ౯.౮॥ ఓం ఐం ఈం నమః ॥ ౮॥
తతో యుద్ధమతీవాసీద్దేవ్యా శుమ్భనిశుమ్భయోః ।
శరవర్షమతీవోగ్రం మేఘయోరివ వర్షతోః ॥ ౯.౯॥ ఓం ఐం వ్రూం (బ్రూం) నమః ॥ ౯॥
చిచ్ఛేదాస్తాఞ్ఛరాంస్తాభ్యాం చణ్డికా స్వశరోత్కరైః ।
తాడయామాస చాఙ్గేషు శస్త్రౌఘైరసురేశ్వరౌ ॥ ౯.౧౦॥ ఓం ఐం శ్రాం నమః ॥ ౧౦॥
నిశుమ్భో నిశితం ఖడ్గం చర్మ చాదాయ సుప్రభమ్ ।
అతాడయన్మూర్ధ్ని సింహం దేవ్యా వాహనముత్తమమ్ ॥ ౯.౧౧॥ ఓం ఐం లూం నమః ॥ ౧౧॥
తాడితే వాహనే దేవీ క్షురప్రేణాసిముత్తమమ్ ।
నిశుమ్భస్యాశు చిచ్ఛేద చర్మ చాప్యష్టచన్ద్రకమ్ ॥ ౯.౧౨॥ ఓం ఐం ఆం నమః ॥ ౧౨॥
ఛిన్నే చర్మణి ఖడ్గే చ శక్తిం చిక్షేప సోఽసురః ।
తామప్యస్య ద్విధా చక్రే చక్రేణాభిముఖాగతామ్ ॥ ౯.౧౩॥ ఓం ఐం శ్రీం నమః ॥ ౧౩॥
కోపాధ్మాతో నిశుమ్భోఽథ శూలం జగ్రాహ దానవః ।
ఆయాతం ముష్టిపాతేన దేవీ తచ్చాప్యచూర్ణయత్ ॥ ౯.౧౪॥ ఓం ఐం క్రౌం నమః ॥ ౧౪॥
ఆవిద్యాథ గదాం సోఽపి చిక్షేప చణ్డికాం ప్రతి ।
సాపి దేవ్యాస్ త్రిశూలేన భిన్నా భస్మత్వమాగతా ॥ ౯.౧౫॥ ఓం ఐం ప్రూం నమః ॥ ౧౫॥
తతః పరశుహస్తం తమాయాన్తం దైత్యపుఙ్గవమ్ ।
ఆహత్య దేవీ బాణౌఘైరపాతయత భూతలే ॥ ౯.౧౬॥ ఓం ఐం క్లీం నమః ॥ ౧౬॥
తస్మిన్నిపతితే భూమౌ నిశుమ్భే భీమవిక్రమే ।
భ్రాతర్యతీవ సఙ్క్రుద్ధః ప్రయయౌ హన్తుమమ్బికామ్ ॥ ౯.౧౭॥ ఓం ఐం భ్రం నమః ॥ ౧౭॥
స రథస్థస్తథాత్యుచ్చైర్గృహీతపరమాయుధైః ।
భుజైరష్టాభిరతులైర్వ్యాప్యాశేషం బభౌ నభః ॥ ౯.౧౮॥ ఓం ఐం హ్రౌం నమః ॥ ౧౮॥
తమాయాన్తం సమాలోక్య దేవీ శఙ్ఖమవాదయత్ ।
జ్యాశబ్దం చాపి ధనుషశ్చకారాతీవ దుఃసహమ్ ॥ ౯.౧౯॥ ఓం ఐం క్రీం నమః ॥ ౧౯॥
పూరయామాస కకుభో నిజఘణ్టాస్వనేన చ ।
సమస్తదైత్యసైన్యానాం తేజోవధవిధాయినా ॥ ౯.౨౦॥ ఓం ఐం మ్లీం నమః ॥ ౨౦॥
తతః సింహో మహానాదైస్త్యాజితేభమహామదైః ।
పూరయామాస గగనం గాం తథైవ దిశో దశ ॥ ౯.౨౧॥ ఓం ఐం గ్లౌం నమః ॥ ౨౧॥
తతః కాలీ సముత్పత్య గగనం క్ష్మామతాడయత్ ।
కరాభ్యాం తన్నినాదేన ప్రాక్స్వనాస్తే తిరోహితాః ॥ ౯.౨౨॥ ఓం ఐం హ్సూం నమః ॥ ౨౨॥
అట్టాట్టహాసమశివం శివదూతీ చకార హ ।
వైః శబ్దైరసురాస్త్రేసుః శుమ్భః కోపం పరం యయౌ ॥ ౯.౨౩॥ ఓం ఐం ల్పీం నమః ॥ ౨౩॥
దురాత్మంస్తిష్ఠ తిష్ఠేతి వ్యాజహారామ్బికా యదా ।
తదా జయేత్యభిహితం దేవైరాకాశసంస్థితైః ॥ ౯.౨౪॥ ఓం ఐం హ్రౌం నమః ॥ ౨౪॥
శుమ్భేనాగత్య యా శక్తిర్ముక్తా జ్వాలాతిభీషణా ।
ఆయాన్తీ వహ్నికూటాభా సా నిరస్తా మహోల్కయా ॥ ౯.౨౫॥ ఓం ఐం హ్స్రాం నమః ॥ ౨౫॥
సింహనాదేన శుమ్భస్య వ్యాప్తం లోకత్రయాన్తరమ్ ।
నిర్ఘాతనిఃస్వనో ఘోరో జితవానవనీపతే ॥ ౯.౨౬॥ ఓం ఐం స్హౌం నమః ॥ ౨౬॥
శుమ్భముక్తాఞ్ఛరాన్దేవీ శుమ్భస్తత్ప్రహితాఞ్ఛరాన్ ।
చిచ్ఛేద స్వశరైరుగ్రైః శతశోఽథ సహస్రశః ॥ ౯.౨౭॥ ఓం ఐం ల్లూం నమః ॥ ౨౭॥
తతః సా చణ్డికా క్రుద్ధా శూలేనాభిజఘాన తమ్ ।
స తదాభిహతో భూమౌ మూర్చ్ఛితో నిపపాత హ ॥ ౯.౨౮॥ ఓం ఐం క్స్లీం నమః ॥ ౨౮॥
తతో నిశుమ్భః సమ్ప్రాప్య చేతనామాత్తకార్ముకః ।
ఆజఘాన శరైర్దేవీం కాలీం కేసరిణం తథా ॥ ౯.౨౯॥ ఓం ఐం శ్రీం నమః ॥ ౨౯॥
పునశ్చ కృత్వా బాహూనామయుతం దనుజేశ్వరః ।
చక్రాయుధేన దితిజశ్ఛాదయామాస చణ్డికామ్ ॥ ౯.౩౦॥ ఓం ఐం స్తూం నమః ॥ ౩౦॥
తతో భగవతీ క్రుద్ధా దుర్గా దుర్గార్తినాశినీ ।
చిచ్ఛేద దేవీ చక్రాణి స్వశరైః సాయకాంశ్చ తాన్ ॥ ౯.౩౧॥ ఓం ఐం చ్రేం నమః ॥ ౩౧॥
తతో నిశుమ్భో వేగేన గదామాదాయ చణ్డికామ్ ।
అభ్యధావత వై హన్తుం దైత్యసైన్యసమావృతః ॥ ౯.౩౨॥ ఓం ఐం వీం నమః ॥ ౩౨॥
తస్యాపతత ఏవాశు గదాం చిచ్ఛేద చణ్డికా ।
ఖడ్గేన శితధారేణ స చ శూలం సమాదదే ॥ ౯.౩౩॥ ఓం ఐం క్ష్లూం నమః ॥ ౩౩॥
శూలహస్తం సమాయాన్తం నిశుమ్భమమరార్దనమ్ ।
హృది వివ్యాధ శూలేన వేగావిద్ధేన చణ్డికా ॥ ౯.౩౪॥ ఓం ఐం శ్లూం నమః ॥ ౩౪॥
భిన్నస్య తస్య శూలేన హృదయాన్నిఃసృతోఽపరః ।
మహాబలో మహావీర్యస్తిష్ఠేతి పురుషో వదన్ ॥ ౯.౩౫॥ ఓం ఐం క్రూం నమః ॥ ౩౫॥
తస్య నిష్క్రామతో దేవీ ప్రహస్య స్వనవత్తతః ।
శిరశ్చిచ్ఛేద ఖడ్గేన తతోఽసావపతద్భువి ॥ ౯.౩౬॥ ఓం ఐం క్రాం నమః ॥ ౩౬॥
తతః సింహశ్చఖాదోగ్రదంష్ట్రాక్షుణ్ణశిరోధరాన్ ।
అసురాంస్తాంస్తథా కాలీ శివదూతీ తథాపరాన్ ॥ ౯.౩౭॥ ఓం ఐం హ్రౌం నమః ॥ ౩౭॥
కౌమారీశక్తినిర్భిన్నాః కేచిన్నేశుర్మహాసురాః ।
బ్రహ్మాణీమన్త్రపూతేన తోయేనాన్యే నిరాకృతాః ॥ ౯.౩౮॥ ఓం ఐం క్రాం నమః ॥ ౩౮॥
మాహేశ్వరీత్రిశూలేన భిన్నాః పేతుస్తథాపరే ।
వారాహీతుణ్డఘాతేన కేచిచ్చూర్ణీకృతా భువి ॥ ౯.౩౯॥ ఓం ఐం స్క్ష్లీం నమః ॥ ౩౯॥
ఖణ్డం ఖణ్డం చ చక్రేణ వైష్ణవ్యా దానవాః కృతాః ।
వజ్రేణ చైన్ద్రీహస్తాగ్రవిముక్తేన తథాపరే ॥ ౯.౪౦॥ ఓం ఐం సూం నమః ॥ ౪౦॥
కేచిద్వినేశురసురాః కేచిన్నష్టా మహాహవాత్ ।
భక్షితాశ్చాపరే కాలీశివదూతీమృగాధిపైః ॥ ౯.౪౧॥ ఓం ఐం ఫ్రూం నమః ॥ ౪౧॥
``ఓం ఐం హ్రీం శ్రీం సౌం ఫట్ స్వాహా ॥ ౯॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
నిశుమ్భవధో నామ నవమోఽధ్యాయః ॥ ౯॥
ఉవాచ ౨, అర్ధశ్లోకాః ౩౯, శ్లోకాః ౪౧, ఏవమాదితః ॥ ౫౪౩॥
॥ ౧౦. శుమ్భవధో నామ దశమోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం ఉత్తప్తహేమరుచిరాం రవిచన్ద్రవహ్ని-
నేత్రాం ధనుశ్శరయుతాఙ్కుశపాశశూలమ్ ।
రమ్యైర్భుజైశ్చ దధతీం శివశక్తిరూపాం
కామేశ్వరీం హృది భజామి ధృతేన్దులేఖామ్ ॥
ఓం ఋషిరువాచ ॥ ౧౦.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
నిశుమ్భం నిహతం దృష్ట్వా భ్రాతరం ప్రాణసమ్మితమ్ ।
హన్యమానం బలం చైవ శుమ్భః క్రుద్ధోఽబ్రవీద్వచః ॥ ౧౦.౨॥ ఓం ఐం హ్రీం నమః ॥ ౨॥
బలావలేపదుష్టే త్వం మా దుర్గే గర్వమావహ ।
అన్యాసాం బలమాశ్రిత్య యుద్ధ్యసే చాతిమానినీ ॥ ౧౦.౩॥ ఓం ఐం బ్లూం నమః ॥ ౩॥
దేవ్యువాచ ॥ ౧౦.౪॥ ఓం ఐం హ్రీం నమః ॥ ౪॥
ఏకైవాహం జగత్యత్ర ద్వితీయా కా మమాపరా ।
పశ్యైతా దుష్ట మయ్యేవ విశన్త్యో మద్విభూతయః ॥ ౧౦.౫॥ ఓం ఐం మ్లూం నమః ॥ ౫॥
తతః సమస్తాస్తా దేవ్యో బ్రహ్మాణీప్రముఖా లయమ్ ।
తస్యా దేవ్యాస్తనౌ జగ్మురేకైవాసీత్తదామ్బికా ॥ ౧౦.౬॥ ఓం ఐం శ్రౌం నమః ॥ ౬॥
దేవ్యువాచ ॥ ౧౦.౭॥ ఓం ఐం హ్రీం నమః ॥ ౭॥
అహం విభూత్యా బహుభిరిహ రూపైర్యదాస్థితా ।
తత్సంహృతం మయైకైవ తిష్ఠామ్యాజౌ స్థిరో భవ ॥ ౧౦.౮॥ ఓం ఐం గ్లీం నమః ॥ ౮॥
ఋషిరువాచ ॥ ౧౦.౯॥ ఓం ఐం శ్రౌం నమః ॥ ౯॥
తతః ప్రవవృతే యుద్ధం దేవ్యాః శుమ్భస్య చోభయోః ।
పశ్యతాం సర్వదేవానామసురాణాం చ దారుణమ్ ॥ ౧౦.౧౦॥ ఓం ఐం ధ్రూం నమః ॥ ౧౦॥
శరవర్షైః శితైః శస్త్రైస్తథా చాస్త్రైః సుదారుణైః ।
తయోర్యుద్ధమభూద్భూయః సర్వలోకభయఙ్కరమ్ ॥ ౧౦.౧౧॥ ఓం ఐం హుం నమః ॥ ౧౧॥
దివ్యాన్యస్త్రాణి శతశో ముముచే యాన్యథామ్బికా ।
బభఞ్జ తాని దైత్యేన్ద్రస్తత్ప్రతీఘాతకర్తృభిః ॥ ౧౦.౧౨॥ ఓం ఐం ద్రౌం నమః ॥ ౧౨॥
ముక్తాని తేన చాస్త్రాణి దివ్యాని పరమేశ్వరీ ।
బభఞ్జ లీలయైవోగ్రహుఙ్కారోచ్చారణాదిభిః ॥ ౧౦.౧౩॥ ఓం ఐం శ్రీం నమః ॥ ౧౩॥
తతః శరశతైర్దేవీమాచ్ఛాదయత సోఽసురః ।
సాపి తత్కుపితా దేవీ ధనుశ్చిచ్ఛేద చేషుభిః ॥ ౧౦.౧౪॥ ఓం ఐం త్రూం (శ్రూం) నమః ॥ ౧౪॥
ఛిన్నే ధనుషి దైత్యేన్ద్రస్తథా శక్తిమథాదదే ।
చిచ్ఛేద దేవీ చక్రేణ తామప్యస్య కరే స్థితామ్ ॥ ౧౦.౧౫॥ ఓం ఐం వ్రూం (బ్రూం) నమః ॥ ౧౫॥
తతః ఖడ్గముపాదాయ శతచన్ద్రం చ భానుమత్ ।
అభ్యధా వత తాం దేవీం దైత్యానామధిపేశ్వరః ॥ ౧౦.౧౬॥ ఓం ఐం ఫ్రేం నమః ॥ ౧౬॥
తస్యాపతత ఏవాశు ఖడ్గం చిచ్ఛేద చణ్డికా ।
ధనుర్ముక్తైః శితైర్బాణైశ్చర్మ చార్కకరామలమ్ ।
అశ్వాంశ్చ పాతయామాస రథం సారథినా సహ ॥ ( missing line and not taken in count below) ౧౦.౧౭॥ ఓం ఐం హ్రాం నమః ॥ ౧౭॥
హతాశ్వః స తదా దైత్యశ్ఛిన్నధన్వా విసారథిః ।
జగ్రాహ ముద్గరం ఘోరమమ్బికానిధనోద్యతః ॥ ౧౦.౧౮॥ ఓం ఐం జుం నమః ॥ ౧౮॥
చిచ్ఛేదాపతతస్తస్య ముద్గరం నిశితైః శరైః ।
తథాపి సోఽభ్యధావత్తాం ముష్టిముద్యమ్య వేగవాన్ ॥ ౧౦.౧౯॥ ఓం ఐం స్రౌం నమః ॥ ౧౯॥
స ముష్టిం పాతయామాస హృదయే దైత్యపుఙ్గవః ।
దేవ్యాస్తం చాపి సా దేవీ తలేనోరస్యతాడయత్ ॥ ౧౦.౨౦॥ ఓం ఐం స్లూం నమః ॥ ౨౦॥
తలప్రహారాభిహతో నిపపాత మహీతలే ।
స దైత్యరాజః సహసా పునరేవ తథోత్థితః ॥ ౧౦.౨౧॥ ఓం ఐం ప్రేం నమః ॥ ౨౧॥
ఉత్పత్య చ ప్రగృహ్యోచ్చైర్దేవీం గగనమాస్థితః ।
తత్రాపి సా నిరాధారా యుయుధే తేన చణ్డికా ॥ ౧౦.౨౨॥ ఓం ఐం హ్స్వాం నమః ॥ ౨౨॥
నియుద్ధం ఖే తదా దైత్యశ్చణ్డికా చ పరస్పరమ్ ।
చక్రతుః ప్రథమం సిద్ధమునివిస్మయకారకమ్ ॥ ౧౦.౨౩॥ ఓం ఐం ప్రీం నమః ॥ ౨౩॥
తతో నియుద్ధం సుచిరం కృత్వా తేనామ్బికా సహ ।
ఉత్పాట్య భ్రామయామాస చిక్షేప ధరణీతలే ॥ (ఉత్పాత్య) ౧౦.౨౪॥ ఓం ఐం ఫ్రాం నమః ॥ ౨౪॥
స క్షిప్తో ధరణీం ప్రాప్య ముష్టిముద్యమ్య వేగవాన్ ।
అభ్యధావత దుష్టాత్మా చణ్డికానిధనేచ్ఛయా ॥ ౧౦.౨౫॥ ఓం ఐం క్రీం నమః ॥ ౨౫॥
తమాయాన్తం తతో దేవీ సర్వదైత్యజనేశ్వరమ్ ।
జగత్యాం పాతయామాస భిత్త్వా శూలేన వక్షసి ॥ ౧౦.౨౬॥ ఓం ఐం శ్రీం నమః ॥ ౨౬॥
స గతాసుః పపాతోర్వ్యాం దేవీ శూలాగ్రవిక్షతః ।
చాలయన్ సకలాం పృథ్వీం సాబ్ధిద్వీపాం సపర్వతామ్ ॥ ౧౦.౨౭॥ ఓం ఐం క్రాం నమః ॥ ౨౭॥
తతః ప్రసన్నమఖిలం హతే తస్మిన్ దురాత్మని ।
జగత్స్వాస్థ్యమతీవాప నిర్మలం చాభవన్నభః ॥ ౧౦.౨౮॥ ఓం ఐం సః నమః ॥ ౨౮॥
ఉత్పాతమేఘాః సోల్కా యే ప్రాగాసంస్తే శమం యయుః ।
సరితో మార్గవాహిన్యస్తథాసంస్తత్ర పాతితే ॥ ౧౦.౨౯॥ ఓం ఐం క్లీం నమః ॥ ౨౯॥
తతో దేవగణాః సర్వే హర్షనిర్భరమానసాః ।
బభూవుర్నిహతే తస్మిన్ గన్ధర్వా లలితం జగుః ॥ ౧౦.౩౦॥ ఓం ఐం వ్రేం నమః ॥ ౩౦॥
అవాదయంస్తథైవాన్యే ననృతుశ్చాప్సరోగణాః ।
వవుః పుణ్యాస్తథా వాతాః సుప్రభోఽభూద్దివాకరః ॥ ౧౦.౩౧॥ ఓం ఐం ఈం నమః ॥ ౩౧॥
జజ్వలుశ్చాగ్నయః శాన్తాః శాన్తా దిగ్జనితస్వనాః ॥ ౧౦.౩౨॥ ఓం ఐం జ్స్హ్ల్రాం నమః ॥ ౩౨॥ (var includes both ఓం ఐం జ్స్హ్ల్రాం నమః । ఓం ఐం ఞ్స్హ్లీం నమః) ॥ ౩౩॥
``ఓం ఐం హ్రీం నమః క్లీం హ్రీం ఫట్ స్వాహా ॥ ౧౦॥(ఓం ఐం హ్రీం నమః క్లీం హ్నీం ఫట్ స్వాహా)''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే
దేవీమాహాత్మ్యే శుమ్భవధో నామ దశమోఽధ్యాయః ॥ ౧౦॥
ఉవాచ ౪, అర్ధశ్లోకః ౧, శ్లోకాః ౨౭, ఏవమాదితః ॥ ౫౭౫॥
॥ నారాయణీస్తుతిర్నామైకాదశోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం బాలరవిద్యుతిమిన్దుకిరీటాం తుఙ్గకుచాం నయనత్రయయుక్తామ్ ।
స్మేరముఖీం వరదాఙ్కుశపాశాభీతికరాం ప్రభజే భువనేశీమ్ ॥
ఓం ఋషిరువాచ ॥ ౧౧.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
దేవ్యా హతే తత్ర మహాసురేన్ద్రే
సేన్ద్రాః సురా వహ్నిపురోగమాస్తామ్ ।
కాత్యాయనీం తుష్టువురిష్టలాభాద్
వికాశివక్త్రాబ్జవికాశితాశాః ॥ ౧౧.౨॥ ఓం ఐం క్రూం నమః ॥ ౨॥
దేవి ప్రపన్నార్తిహరే ప్రసీద
ప్రసీద మాతర్జగతోఽఖిలస్య ।
ప్రసీద విశ్వేశ్వరి పాహి విశ్వం
త్వమీశ్వరీ దేవి చరాచరస్య ॥ ౧౧.౩॥ ఓం ఐం శ్రీం నమః ॥ ౩॥
ఆధారభూతా జగతస్త్వమేకా
మహీస్వరూపేణ యతః స్థితాసి ।
అపాం స్వరూపస్థితయా త్వయైత-
దాప్యాయతే కృత్స్నమలఙ్ఘ్యవీర్యే ॥ ౧౧.౪॥ ఓం ఐం ల్లీం నమః ॥ ౪॥
త్వం వైష్ణవీశక్తిరనన్తవీర్యా
విశ్వస్య బీజం పరమాసి మాయా ।
సమ్మోహితం దేవి సమస్తమేతత్
త్వం వై ప్రసన్నా భువి ముక్తిహేతుః ॥ ౧౧.౫॥ ఓం ఐం ప్రేం నమః ॥ ౫॥
విద్యాః సమస్తాస్తవ దేవి భేదాః
స్త్రియః సమస్తాః సకలా జగత్సు ।
త్వయైకయా పూరితమమ్బయైతత్
కా తే స్తుతిః స్తవ్యపరాపరోక్తిః ॥ ౧౧.౬॥ ఓం ఐం సౌం నమః ॥ ౬॥
సర్వభూతా యదా దేవీ భుక్తిముక్తిప్రదాయినీ ।
త్వం స్తుతా స్తుతయే కా వా భవన్తు పరమోక్తయః ॥ ౧౧.౭॥ ఓం ఐం స్హౌం నమః ॥ ౭॥
సర్వస్య బుద్ధిరూపేణ జనస్య హృది సంస్థితే ।
స్వర్గాపవర్గదే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౮॥ ఓం ఐం శ్రూం నమః ॥ ౮॥
కలాకాష్ఠాదిరూపేణ పరిణామప్రదాయిని ।
విశ్వస్యోపరతౌ శక్తే నారాయణి నమోఽస్తు తే ॥ ౧౧.౯॥ ఓం ఐం క్లీం నమః ॥ ౯॥
సర్వమఙ్గలమాఙ్గల్యే శివే సర్వార్థసాధికే ।
శరణ్యే త్ర్యమ్బకే గౌరి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౦॥ ఓం ఐం స్క్లీం నమః ॥ ౧౦॥
సృష్టిస్థితివినాశానాం శక్తిభూతే సనాతని ।
గుణాశ్రయే గుణమయే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౧॥ ఓం ఐం ప్రీం నమః ॥ ౧౧॥
శరణాగతదీనార్తపరిత్రాణపరాయణే ।
సర్వస్యార్తిహరే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౨॥ ఓం ఐం గ్లౌం నమః ॥ ౧౨॥
హంసయుక్తవిమానస్థే బ్రహ్మాణీరూపధారిణి ।
కౌశామ్భఃక్షరికే దేవి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౩॥ ఓం ఐం హ్స్హ్రీం (' ', హ్హ్రీం) నమః ॥ ౧౩॥
త్రిశూలచన్ద్రాహిధరే మహావృషభవాహిని ।
మాహేశ్వరీస్వరూపేణ నారాయణి నమోఽస్తుతే ॥ ౧౧.౧౪॥ ఓం ఐం స్తౌం నమః ॥ ౧౪॥
మయూరకుక్కుటవృతే మహాశక్తిధరేఽనఘే ।
కౌమారీరూపసంస్థానే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౫॥ ఓం ఐం క్లీం నమః ॥ ౧౫॥
శఙ్ఖచక్రగదాశార్ఙ్గగృహీతపరమాయుధే ।
ప్రసీద వైష్ణవీరూపే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౬॥ ఓం ఐం మ్లీం నమః ॥ ౧౬॥
గృహీతోగ్రమహాచక్రే దంష్ట్రోద్ధృతవసున్ధరే ।
వరాహరూపిణి శివే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౭॥ ఓం ఐం స్తూం నమః ॥ ౧౭॥
నృసింహరూపేణోగ్రేణ హన్తుం దైత్యాన్ కృతోద్యమే ।
త్రైలోక్యత్రాణసహితే నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౮॥ ఓం ఐం జ్స్హ్నీం (జ్స్హ్రీం) నమః ॥ ౧౮॥
కిరీటిని మహావజ్రే సహస్రనయనోజ్జ్వలే ।
వృత్రప్రాణహరే చైన్ద్రి నారాయణి నమోఽస్తు తే ॥ ౧౧.౧౯॥ ఓం ఐం ఫ్రూం నమః ॥ ౧౯॥
శివదూతీస్వరూపేణ హతదైత్యమహాబలే ।
ఘోరరూపే మహారావే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౦॥ ఓం ఐం క్రూం నమః ॥ ౨౦॥
దంష్ట్రాకరాలవదనే శిరోమాలావిభూషణే ।
చాముణ్డే ముణ్డమథనే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౧॥ ఓం ఐం హ్రీం నమః ॥ ౨౧॥
లక్ష్మి లజ్జే మహావిద్యే శ్రద్ధే పుష్టి స్వధే ధ్రువే ।
మహారాత్రి మహామాయే నారాయణి నమోఽస్తు తే ॥ ౧౧.౨౨॥ ఓం ఐం ల్లూం నమః ॥ ౨౨॥
మేధే సరస్వతి వరే భూతి బాభ్రవి తామసి ।
నియతే త్వం ప్రసీదేశే నారాయణి నమోఽస్తుతే ॥ ౧౧.౨౩॥ ఓం ఐం క్ష్మ్రీం నమః ॥ ౨౩॥
సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే ।
భయేభ్యస్త్రాహి నో దేవి దుర్గే దేవి నమోఽస్తు తే ॥ ౧౧.౨౪॥ ఓం ఐం శ్రూం నమః ॥ ౨౪॥
ఏతత్తే వదనం సౌమ్యం లోచనత్రయభూషితమ్ ।
పాతు నః సర్వభూతేభ్యః కాత్యాయని నమోఽస్తు తే ॥ ౧౧.౨౫॥ ఓం ఐం ఇం నమః ॥ ౨౫॥
జ్వాలాకరాలమత్యుగ్రమశేషాసురసూదనమ్ ।
త్రిశూలం పాతు నో భీతేర్భద్రకాలి నమోఽస్తు తే ॥ ౧౧.౨౬॥ ఓం ఐం జుం నమః ॥ ౨౬॥
హినస్తి దైత్యతేజాంసి స్వనేనాపూర్య యా జగత్ ।
సా ఘణ్టా పాతు నో దేవి పాపేభ్యో నః సుతానివ ॥ ౧౧.౨౭॥ ఓం ఐం త్రైం నమః ॥ ౨౭॥
అసురాసృగ్వసాపఙ్కచర్చితస్తే కరోజ్జ్వలః ।
శుభాయ ఖడ్గో భవతు చణ్డికే త్వాం నతా వయమ్ ॥ ౧౧.౨౮॥ ఓం ఐం ద్రూం నమః ॥ ౨౮॥
రోగానశేషానపహంసి తుష్టా
రుష్టా తు కామాన్ సకలానభీష్టాన్ ।
త్వామాశ్రితానాం న విపన్నరాణాం
త్వామాశ్రితా హ్యాశ్రయతాం ప్రయాన్తి ॥ ౧౧.౨౯॥ ఓం ఐం హ్రౌం నమః ॥ ౨౯॥
ఏతత్కృతం యత్కదనం త్వయాద్య
ధర్మద్విషాం దేవి మహాసురాణామ్ ।
రూపైరనేకైర్బహుధాత్మమూర్తిం
కృత్వామ్బికే తత్ప్రకరోతి కాన్యా ॥ ౧౧.౩౦॥ ఓం ఐం క్లీం నమః ॥ ౩౦॥
విద్యాసు శాస్త్రేషు వివేకదీపే-
ష్వాద్యేషు వాక్యేషు చ కా త్వదన్యా ।
మమత్వగర్తేఽతిమహాన్ధకారే
విభ్రామయత్యేతదతీవ విశ్వమ్ ॥ ౧౧.౩౧॥ ఓం ఐం సూం నమః ॥ ౩౧॥
రక్షాంసి యత్రోగ్రవిషాశ్చ నాగా
యత్రారయో దస్యుబలాని యత్ర ।
దావానలో యత్ర తథాబ్ధిమధ్యే
తత్ర స్థితా త్వం పరిపాసి విశ్వమ్ ॥ ౧౧.౩౨॥ ఓం ఐం హౌం నమః ॥ ౩౨॥
విశ్వేశ్వరి త్వం పరిపాసి విశ్వం
విశ్వాత్మికా ధారయసీహ విశ్వమ్ ।
విశ్వేశవన్ద్యా భవతీ భవన్తి
విశ్వాశ్రయా యే త్వయి భక్తినమ్రాః ॥ ౧౧.౩౩॥ ఓం ఐం మ్వ్రం (శ్వ్రం) నమః ॥ ౩౩॥
దేవి ప్రసీద పరిపాలయ నోఽరిభీతే-
ర్నిత్యం యథాసురవధాదధునైవ సద్యః ।
పాపాని సర్వజగతాం ప్రశమం నయాశు
ఉత్పాతపాకజనితాంశ్చ మహోపసర్గాన్ ॥ ౧౧.౩౪॥ ఓం ఐం వ్రూం నమః ॥ ౩౪॥
ప్రణతానాం ప్రసీద త్వం దేవి విశ్వార్తిహారిణి ।
త్రైలోక్యవాసినామీడ్యే లోకానాం వరదా భవ ॥ ౧౧.౩౫॥ ఓం ఐం ఫాం నమః ॥ ౩౫॥
దేవ్యువాచ ॥ ౧౧.౩౬॥ ఓం ఐం హ్రీం నమః ॥ ౩౬॥
వరదాహం సురగణా వరం యన్మనసేచ్ఛథ ।
తం వృణుధ్వం ప్రయచ్ఛామి జగతాముపకారకమ్ ॥ ౧౧.౩౭॥ ఓం ఐం లం నమః ॥ ౩౭॥
దేవా ఊచుః ॥ ౧౧.౩౮॥ ఓం ఐం హ్ సౌం (హ్సాం) నమః ॥ ౩౮॥
సర్వాబాధాప్రశమనం త్రైలోక్యస్యాఖిలేశ్వరి ।
ఏవమేవ త్వయా కార్యమస్మద్వైరివినాశనమ్ ॥ ౧౧.౩౯॥ ఓం ఐం సేం నమః ॥ ౩౯॥
దేవ్యువాచ ॥ ౧౧.౪౦॥ ఓం ఐం హ్రీం నమః ॥ ౪౦॥
వైవస్వతేఽన్తరే ప్రాప్తే అష్టావింశతిమే యుగే ।
శుమ్భో నిశుమ్భశ్చైవాన్యావుత్పత్స్యేతే మహాసురౌ ॥ ౧౧.౪౧॥ ఓం ఐం హ్రౌం నమః ॥ ౪౧॥
నన్దగోపగృహే జాతా యశోదాగర్భసమ్భవా ।
తతస్తౌ నాశయిష్యామి విన్ధ్యాచలనివాసినీ ॥ ౧౧.౪౨॥ ఓం ఐం విం నమః ॥ ౪౨॥
పునరప్యతిరౌద్రేణ రూపేణ పృథివీతలే ।
అవతీర్య హనిష్యామి వైప్రచిత్తాంశ్చ దానవాన్ ॥ ౧౧.౪౩॥ ఓం ఐం ప్లీం నమః ॥ ౪౩॥
భక్షయన్త్యాశ్చ తానుగ్రాన్ వైప్రచిత్తాన్ మహాసురాన్ ।
రక్తా దన్తా భవిష్యన్తి దాడిమీకుసుమోపమాః ॥ ౧౧.౪౪॥ ఓం ఐం క్ష్మ్క్లీం నమః ॥ ౪౪॥
తతో మాం దేవతాః స్వర్గే మర్త్యలోకే చ మానవాః ।
స్తువన్తో వ్యాహరిష్యన్తి సతతం రక్తదన్తికామ్ ॥ ౧౧.౪౫॥ ఓం ఐం త్స్రాం నమః ॥ ౪౫॥
భూయశ్చ శతవార్షిక్యామనావృష్ట్యామనమ్భసి ।
మునిభిః సంస్మృతా భూమౌ సమ్భవిష్యామ్యయోనిజా ॥ ౧౧.౪౬॥ ఓం ఐం ప్రం నమః ॥ ౪౬॥
తతః శతేన నేత్రాణాం నిరీక్షిష్యామ్యహం మునీన్ ।
కీర్తయిష్యన్తి మనుజాః శతాక్షీమితి మాం తతః ॥ ౧౧.౪౭॥ ఓం ఐం మ్లీం నమః ॥ ౪౭॥
తతోఽహమఖిలం లోకమాత్మదేహసముద్భవైః ।
భరిష్యామి సురాః శాకైరావృష్టేః ప్రాణధారకైః ॥ ౧౧.౪౮॥ ఓం ఐం స్రూం నమః ॥ ౪౮॥
శాకమ్భరీతి విఖ్యాతిం తదా యాస్యామ్యహం భువి ।
తత్రైవ చ వధిష్యామి దుర్గమాఖ్యం మహాసురమ్ ॥ ౧౧.౪౯॥ ఓం ఐం క్ష్మాం నమః ॥ ౪౯॥
దుర్గాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి ।
పునశ్చాహం యదా భీమం రూపం కృత్వా హిమాచలే ॥ ౧౧.౫౦॥ ఓం ఐం స్తూం నమః ॥ ౫౦॥
రక్షాంసి భక్షయిష్యామి మునీనాం త్రాణకారణాత్ ।
తదా మాం మునయః సర్వే స్తోష్యన్త్యానమ్రమూర్తయః ॥ ౧౧.౫౧॥ ఓం ఐం స్హ్రీం నమః ॥ ౫౧॥
భీమాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి ।
యదారుణాఖ్యస్త్రైలోక్యే మహాబాధాం కరిష్యతి ॥ ౧౧.౫౨॥ ఓం ఐం థ్ప్రీం నమః ॥ ౫౨॥
తదాహం భ్రామరం రూపం కృత్వాసఙ్ఖ్యేయషట్పదమ్ ।
త్రైలోక్యస్య హితార్థాయ వధిష్యామి మహాసురమ్ ॥ ౧౧.౫౩॥ ఓం ఐం క్రౌం నమః ॥ ౫౩॥
భ్రామరీతి చ మాం లోకాస్తదా స్తోష్యన్తి సర్వతః ।
ఇత్థం యదా యదా బాధా దానవోత్థా భవిష్యతి ॥ ౧౧.౫౪॥ ఓం ఐం శ్రాం నమః ॥ ౫౪॥
తదా తదావతీర్యాహం కరిష్యామ్యరిసఙ్క్షయమ్ ॥ ౧౧.౫౫॥ ఓం ఐం మ్లీం నమః ॥ ౫౫॥
``ఓం ఐం హ్రీం క్లీం శ్రీం సౌం నమః ఫట్ స్వాహా ॥ ౧౧॥(ఓం హ్రీం క్లీం శ్రీం సౌం నమః ఫట్ స్వాహా)''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
నారాయణీస్తుతిర్నామైకాదశోఽధ్యాయః ॥ ౧౧॥
ఉవాచ ౪, అర్ధశ్లోకః ౧, శ్లోకాః ౫౦, ఏవమాదితః ॥ ౬౩౦॥
॥ ౧౨. భగవతీ వాక్యం ద్వాదశోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం విద్యుద్దామసమప్రభాం మృగపతిస్కన్ధస్థితాం భీషణాం
కన్యాభిః కరవాలఖేటవిలసద్ధస్తాభిరాసేవితామ్ ।
హస్తైశ్చక్రగదాసిఖేటవిశిఖాంశ్చాపం గుణం తర్జనీం
విభ్రాణామనలాత్మికాం శశిధరాం దుర్గాం త్రినేత్రాం భజే ॥
ఓం దేవ్యువాచ ॥ ౧౨.౧॥ ఓం ఐం హ్రీం నమః ॥ ౧॥
ఏభిః స్తవైశ్చ మాం నిత్యం స్తోష్యతే యః సమాహితః ।
తస్యాహం సకలాం బాధాం శమయిష్యామ్యసంశయమ్ ॥ ౧౨.౨॥ ఓం ఐం ఓం నమః ॥ ౨॥
మధుకైటభనాశం చ మహిషాసురఘాతనమ్ ।
కీర్తయిష్యన్తి యే తద్వద్వధం శుమ్భనిశుమ్భయోః ॥ ౧౨.౩॥ ఓం ఐం శ్రీం నమః ॥ ౩॥
అష్టమ్యాం చ చతుర్దశ్యాం నవమ్యాం చైకచేతసః ।
శ్రోష్యన్తి చైవ యే భక్త్యా మమ మాహాత్మ్యముత్తమమ్ ॥ ౧౨.౪॥ ఓం ఐం ఈం నమః ॥ ౪॥
న తేషాం దుష్కృతం కిఞ్చిద్దుష్కృతోత్థా న చాపదః ।
భవిష్యతి న దారిద్ర్యం న చైవేష్టవియోజనమ్ ॥ ౧౨.౫॥ ఓం ఐం క్లీం నమః ॥ ౫॥
శత్రుభ్యో న భయం తస్య దస్యుతో వా న రాజతః ।
న శస్త్రానలతోయౌఘాత్ కదాచిత్ సమ్భవిష్యతి ॥ ౧౨.౬॥ ఓం ఐం క్రూం నమః ॥ ౬॥
తస్మాన్మమైతన్మాహాత్మ్యం పఠితవ్యం సమాహితైః ।
శ్రోతవ్యం చ సదా భక్త్యా పరం స్వస్త్యయనం మహత్ ॥ ౧౨.౭॥ ఓం ఐం శ్రూం నమః ॥ ౭॥
ఉపసర్గానశేషాంస్తు మహామారీసముద్భవాన్ ।
తథా త్రివిధముత్పాతం మాహాత్మ్యం శమయేన్మమ ॥ ౧౨.౮॥ ఓం ఐం ప్రాం నమః ॥ ౮॥
యత్రైతత్పఠ్యతే సమ్యఙ్నిత్యమాయతనే మమ ।
సదా న తద్విమోక్ష్యామి సాన్నిధ్యం తత్ర మే స్థితమ్ ॥ ౧౨.౯॥ ఓం ఐం క్రూం నమః ॥ ౯॥
బలిప్రదానే పూజాయామగ్నికార్యే మహోత్సవే ।
సర్వం మమైతన్మాహాత్మ్యమ్ ఉచ్చార్యం శ్రావ్యమేవ చ ॥ ౧౨.౧౦॥ ఓం ఐం దిం నమః ॥ ౧౦॥
జానతాజానతా వాపి బలిపూజాం యథా కృతామ్ ।
ప్రతీక్షిష్యామ్యహం ప్రీత్యా వహ్నిహోమం తథాకృతమ్ ॥ ౧౨.౧౧॥ ఓం ఐం ఫ్రేం నమః ॥ ౧౧॥
శరత్కాలే మహాపూజా క్రియతే యా చ వార్షికీ ।
తస్యాం మమైతన్మాహాత్మ్యం శ్రుత్వా భక్తిసమన్వితః ॥ ౧౨.౧౨॥ ఓం ఐం హం నమః ॥ ౧౨॥
సర్వాబాధావినిర్ముక్తో ధనధాన్యసమన్వితః ।
మనుష్యో మత్ప్రసాదేన భవిష్యతి న సంశయః ॥ ౧౨.౧౩॥ ఓం ఐం సః నమః ॥ ౧౩॥
శ్రుత్వా మమైతన్మాహాత్మ్యం తథా చోత్పత్తయః శుభాః ।
పరాక్రమం చ యుద్ధేషు జాయతే నిర్భయః పుమాన్ ॥ ౧౨.౧౪॥ ఓం ఐం చేం నమః ॥ ౧౪॥
రిపవః సఙ్క్షయం యాన్తి కల్యాణం చోపపద్యతే ।
నన్దతే చ కులం పుంసాం మాహాత్మ్యం మమ శృణ్వతామ్ ॥ ౧౨.౧౫॥ ఓం ఐం సూం నమః ॥ ౧౫॥
శాన్తికర్మణి సర్వత్ర తథా దుఃస్వప్నదర్శనే ।
గ్రహపీడాసు చోగ్రాసు మాహాత్మ్యం శృణుయాన్మమ ॥ ౧౨.౧౬॥ ఓం ఐం ప్రీం నమః ॥ ౧౬॥
ఉపసర్గాః శమం యాన్తి గ్రహపీడాశ్చ దారుణాః ।
దుఃస్వప్నం చ నృభిర్దృష్టం సుస్వప్నముపజాయతే ॥ ౧౨.౧౭॥ ఓం ఐం వ్లూం నమః ॥ ౧౭॥
బాలగ్రహాభిభూతానాం బాలానాం శాన్తికారకమ్ ।
సఙ్ఘాతభేదే చ నృణాం మైత్రీకరణముత్తమమ్ ॥ ౧౨.౧౮॥ ఓం ఐం ఆం నమః ॥ ౧౮॥
దుర్వృత్తానామశేషాణాం బలహానికరం పరమ్ ।
రక్షోభూతపిశాచానాం పఠనాదేవ నాశనమ్ ॥ ౧౨.౧౯॥ ఓం ఐం ఔం నమః ॥ ౧౯॥
సర్వం మమైతన్మాహాత్మ్యం మమ సన్నిధికారకమ్ ।
పశుపుష్పార్ఘ్యధూపైశ్చ గన్ధదీపైస్తథోత్తమైః ॥ ౧౨.౨౦॥ ఓం ఐం హ్రీం నమః ॥ ౨౦॥
విప్రాణాం భోజనైర్హోమైః ప్రోక్షణీయైరహర్నిశమ్ ।
అన్యైశ్చ వివిధైర్భోగైః ప్రదానైర్వత్సరేణ యా ॥ ౧౨.౨౧॥ ఓం ఐం క్రీం నమః ॥ ౨౧॥
ప్రీతిర్మే క్రియతే సాస్మిన్ సకృదుచ్చరితే శ్రుతే ।
శ్రుతం హరతి పాపాని తథారోగ్యం ప్రయచ్ఛతి ॥ ౧౨.౨౨॥ ఓం ఐం ద్రాం నమః ॥ ౨౨॥
రక్షాం కరోతి భూతేభ్యో జన్మనాం కీర్తనం మమ ।
యుద్ధేషు చరితం యన్మే దుష్టదైత్యనిబర్హణమ్ ॥ ౧౨.౨౩॥ ఓం ఐం శ్రీం నమః ॥ ౨౩॥
తస్మిఞ్ఛ్రుతే వైరికృతం భయం పుంసాం న జాయతే ।
యుష్మాభిః స్తుతయో యాశ్చ యాశ్చ బ్రహ్మర్షిభిః కృతాః ॥ ౧౨.౨౪॥ ఓం ఐం స్లీం నమః ॥ ౨౪॥
బ్రహ్మణా చ కృతాస్తాస్తు ప్రయచ్ఛన్తు శుభాం మతిమ్ ।
అరణ్యే ప్రాన్తరే వాపి దావాగ్నిపరివారితః ॥ ౧౨.౨౫॥ ఓం ఐం క్లీం నమః ॥ ౨౫॥
దస్యుభిర్వా వృతః శూన్యే గృహీతో వాపి శత్రుభిః ।
సింహవ్యాఘ్రానుయాతో వా వనే వా వనహస్తిభిః ॥ ౧౨.౨౬॥ ఓం ఐం స్లూం నమః ॥ ౨౬॥
రాజ్ఞా క్రుద్ధేన చాజ్ఞప్తో వధ్యో బన్ధగతోఽపి వా ।
ఆఘూర్ణితో వా వాతేన స్థితః పోతే మహార్ణవే ॥ ౧౨.౨౭॥ ఓం ఐం హ్రీం నమః ॥ ౨౭॥
పతత్సు చాపి శస్త్రేషు సఙ్గ్రామే భృశదారుణే ।
సర్వాబాధాసు ఘోరాసు వేదనాభ్యర్దితోఽపి వా ॥ ౧౨.౨౮॥ ఓం ఐం వ్లీం (బ్లీం) నమః ॥ ౨౮॥
స్మరన్ మమైతచ్చరితం నరో ముచ్యేత సఙ్కటాత్ ।
మమ ప్రభావాత్సింహాద్యా దస్యవో వైరిణస్తథా ॥ ౧౨.౨౯॥ ఓం ఐం త్రోం నమః ॥ ౨౯॥
దూరాదేవ పలాయన్తే స్మరతశ్చరితం మమ ॥ ౧౨.౩౦॥ ఓం ఐం ఓం నమః ॥ ౩౦॥
ఋషిరువాచ ॥ ౧౨.౩౧॥ ఓం ఐం శ్రౌం నమః ॥ ౩౧॥
ఇత్యుక్త్వా సా భగవతీ చణ్డికా చణ్డవిక్రమా ॥ ౧౨.౩౨॥ ఓం ఐం ఐం నమః ॥ ౩౨॥
పశ్యతాం సర్వదేవానాం తత్రైవాన్తరధీయత ।
తేఽపి దేవా నిరాతఙ్కాః స్వాధికారాన్యథా పురా ॥ ౧౨.౩౩॥ ఓం ఐం ప్రేం నమః ॥ ౩౩॥
యజ్ఞభాగభుజః సర్వే చక్రుర్వినిహతారయః ।
దైత్యాశ్చ దేవ్యా నిహతే శుమ్భే దేవరిపౌ యుధి ॥ ౧౨.౩౪॥ ఓం ఐం ద్రూం నమః ॥ ౩౪॥
జగద్విధ్వంసకే తస్మిన్ మహోగ్రేఽతులవిక్రమే ।
నిశుమ్భే చ మహావీర్యే శేషాః పాతాలమాయయుః ॥ ౧౨.౩౫॥ ఓం ఐం క్లూం నమః ॥ ౩౫॥
ఏవం భగవతీ దేవీ సా నిత్యాపి పునః పునః ।
సమ్భూయ కురుతే భూప జగతః పరిపాలనమ్ ॥ ౧౨.౩౬॥ ఓం ఐం ఔం నమః ॥ ౩౬॥
తయైతన్మోహ్యతే విశ్వం సైవ విశ్వం ప్రసూయతే ।
సా యాచితా చ విజ్ఞానం తుష్టా ఋద్ధిం ప్రయచ్ఛతి ॥ ౧౨.౩౭॥ ఓం ఐం సూం నమః ॥ ౩౭॥
వ్యాప్తం తయైతత్సకలం బ్రహ్మాణ్డం మనుజేశ్వర ।
మహాదేవ్యా మహాకాలీ మహామారీస్వరూపయా ॥ ౧౨.౩౮॥ ఓం ఐం చేం నమః ॥ ౩౮॥
సైవ కాలే మహామారీ సైవ సృష్టిర్భవత్యజా ।
స్థితిం కరోతి భూతానాం సైవ కాలే సనాతనీ ॥ ౧౨.౩౯॥ ఓం ఐం హైం నమః ॥ ౩౯॥
భవకాలే నృణాం సైవ లక్ష్మీర్వృద్ధిప్రదా గృహే ।
సైవాభావే తథాలక్ష్మీర్వినాశాయోపజాయతే ॥ ౧౨.౪౦॥ ఓం ఐం ప్లీం నమః ॥ ౪౦॥
స్తుతా సమ్పూజితా పుష్పైర్గన్ధధూపాదిభిస్తథా ।
దదాతి విత్తం పుత్రాంశ్చ మతిం ధర్మే గతిం శుభామ్ ॥ ౧౨.౪౧॥ ఓం ఐం క్షాం నమః ॥ ౪౧॥
``ఓం యం యం యం రం రం రం ఠం ఠం ఠం ఫట్ స్వాహా ॥ ౧౨॥''
(హవనమంత్ర)
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
భగవతీ వాక్యం ద్వాదశోఽధ్యాయః ॥ ౧౨॥
ఉవాచ ౨, అర్ధశ్లోకౌ ౨, శ్లోకాః ౩౭, ఏవమాదితః ॥ ౬౭౧॥
॥ ౧౩. సురథవైశ్యయోర్వరప్రదానం నామ త్రయోదశోఽధ్యాయః ॥
ధ్యానమ్ ।
ఓం బాలార్కమణ్డలాభాసాం చతుర్బాహుం త్రిలోచనామ్ ।
పాశాఙ్కుశవరాభీతిర్ధారయన్తీం శివాం భజే ॥
ఓం ఋషిరువాచ ॥ ౧౩.౧॥ ఓం ఐం శ్రౌం నమః ॥ ౧॥
ఏతత్తే కథితం భూప దేవీమాహాత్మ్యముత్తమమ్ ।
ఏవం ప్రభావా సా దేవీ యయేదం ధార్యతే జగత్ ॥ ౧౩.౨॥ ఓం ఐం వ్రీం నమః ॥ ౨॥
విద్యా తథైవ క్రియతే భగవద్విష్ణుమాయయా ।
తయా త్వమేష వైశ్యశ్చ తథైవాన్యే వివేకినః ॥ ౧౩.౩॥ ఓం ఐం ఓం నమః ॥ ౩॥
మోహ్యన్తే మోహితాశ్చైవ మోహమేష్యన్తి చాపరే ।
తాముపైహి మహారాజ శరణం పరమేశ్వరీమ్ ॥ ౧౩.౪॥ ఓం ఐం ఔం నమః ॥ ౪॥
ఆరాధితా సైవ నృణాం భోగస్వర్గాపవర్గదా ॥ ౧౩.౫॥ ఓం ఐం హ్రాం నమః ॥ ౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౬॥ ఓం ఐం శ్రీం నమః ॥ ౬॥
ఇతి తస్య వచః శ్రుత్వా సురథః స నరాధిపః ॥ ౧౩.౭॥ ఓం ఐం శ్రాం నమః ॥ ౭॥
ప్రణిపత్య మహాభాగం తమృషిం సంశితవ్రతమ్ ।
నిర్విణ్ణోఽతిమమత్వేన రాజ్యాపహరణేన చ ॥ ౧౩.౮॥ ఓం ఐం ఓం నమః ॥ ౮॥
జగామ సద్యస్తపసే స చ వైశ్యో మహామునే ।
సన్దర్శనార్థమమ్బాయా నదీపులినమాస్థితః ॥ ౧౩.౯॥ ఓం ఐం ప్లీం నమః ॥ ౯॥
స చ వైశ్యస్తపస్తేపే దేవీసూక్తం పరం జపన్ ।
తౌ తస్మిన్ పులినే దేవ్యాః కృత్వా మూర్తిం మహీమయీమ్ ॥ ౧౩.౧౦॥ ఓం ఐం సౌం నమః ॥ ౧౦॥
అర్హణాం చక్రతుస్తస్యాః పుష్పధూపాగ్నితర్పణైః ।
నిరాహారౌ యతాత్మానౌ తన్మనస్కౌ సమాహితౌ ॥ ౧౩.౧౧॥ ఓం ఐం హ్రీం నమః ॥ ౧౧॥
దదతుస్తౌ బలిం చైవ నిజగాత్రాసృగుక్షితమ్ ।
ఏవం సమారాధయతోస్త్రిభిర్వర్షైర్యతాత్మనోః ॥ ౧౩.౧౨॥ ఓం ఐం క్రీం నమః ॥ ౧౨॥
పరితుష్టా జగద్ధాత్రీ ప్రత్యక్షం ప్రాహ చణ్డికా ॥ ౧౩.౧౩॥ ఓం ఐం ల్లూం నమః ॥ ౧౩॥
దేవ్యువాచ ॥ ౧౩.౧౪॥ ఓం ఐం క్లీం నమః ॥ ౧౪॥
యత్ప్రార్థ్యతే త్వయా భూప త్వయా చ కులనన్దన ।
మత్తస్తత్ప్రాప్యతాం సర్వం పరితుష్టా దదామితే ॥ ౧౩.౧౫॥ ఓం ఐం హ్రీం నమః ॥ ౧౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౧౬॥ ఓం ఐం ప్లీం నమః ॥ ౧౬॥
తతో వవ్రే నృపో రాజ్యమవిభ్రంశ్యన్యజన్మని ।
అత్రైవ చ నిజం రాజ్యం హతశత్రుబలం బలాత్ ॥ ౧౩.౧౭॥ ఓం ఐం శ్రీం నమః ॥ ౧౭॥
సోఽపి వైశ్యస్తతో జ్ఞానం వవ్రే నిర్విణ్ణమానసః ।
మమేత్యహమితి ప్రాజ్ఞః సఙ్గవిచ్యుతికారకమ్ ॥ ౧౩.౧౮॥ ఓం ఐం ల్లీం నమః ॥ ౧౮॥
దేవ్యువాచ ॥ ౧౩.౧౯॥ ఓం ఐం శ్రూం నమః ॥ ౧౯॥
స్వల్పైరహోభిర్నృపతే స్వం రాజ్యం ప్రాప్స్యతే భవాన్ ॥ ౧౩.౨౦॥ ఓం ఐం హ్రీం నమః ॥ ౨౦॥
హత్వా రిపూనస్ఖలితం తవ తత్ర భవిష్యతి ॥ ౧౩.౨౧॥ ఓం ఐం త్రూం నమః ॥ ౨౧॥
మృతశ్చ భూయః సమ్ప్రాప్య జన్మ దేవాద్వివస్వతః ॥ ౧౩.౨౨॥ ఓం ఐం హూఁ (హూం, హ్రీం) నమః ॥ ౨౨॥
సావర్ణికో మనుర్నామ భవాన్భువి భవిష్యతి ॥ ౧౩.౨౩॥ ఓం ఐం హ్రాం (ప్రీం) నమః ॥ ౨౩॥
వైశ్యవర్య త్వయా యశ్చ వరోఽస్మత్తోఽభివాఞ్ఛితః ॥ ౧౩.౨౪॥ ఓం ఐం ప్రీం (ఓం) నమః ॥ ౨౪॥
తం ప్రయచ్ఛామి సంసిద్ధ్యై తవ జ్ఞానం భవిష్యతి ॥ ౧౩.౨౫॥ ఓం ఐం ఓం (సూం) నమః ॥ ౨౫॥
మార్కణ్డేయ ఉవాచ ॥ ౧౩.౨౬॥ ఓం ఐం సూం (శ్రీం) నమః ॥ ౨౬॥
ఇతి దత్త్వా తయోర్దేవీ యథాభిలషితం వరమ్ ॥ ౧౩.౨౭॥ ఓం ఐం హ్లౌం నమః ॥ ౨౭॥
బభూవాన్తర్హితా సద్యో భక్త్యా తాభ్యామభిష్టుతా ।
ఏవం దేవ్యా వరం లబ్ధ్వా సురథః క్షత్రియర్షభః ॥ ౧౩.౨౮॥ ఓం ఐం యౌం నమః ॥ ౨౮॥
సూర్యాజ్జన్మ సమాసాద్య సావర్ణిర్భవితా మనుః ॥ ౧౩.౨౯॥ ఓం ఐం ఆం ల్హీం (ఓం) నమః ॥ ౨౯॥
ఏవం దేవ్యా వరం లబ్ధ్వా సురథః క్షత్రియర్షభః ।
సూర్యాజ్జన్మ సమాసాద్య సావర్ణిర్భవితా మనుః ॥ ౧౩.౩౦॥ ఓం ఐం ఓం నమః ॥ ౩౦॥
। క్లీం ఓం ।
``ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే''
(హవన కా బీజమన్త్ర ఉపలబ్ధ నహీ హై । అతః యహాఁ నవార్ణమన్త్ర సే హవన కియా జా సకతా హై ।
ఓం అమ్బే అమ్బికే అమ్బాలికే న మానయతి కశ్చన్ ।
ససస్త్యశ్వకః సుభద్రికాం కామ్పీలవాసినీం నమః ॥
ఓం సాఙ్గాయై సపరివారాయై సవాహనాయై సర్వాయుధాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వత్యై మహాహుతింసమర్పయామి నమః స్వాహా ॥
Variation shloka
ఓం క్లీం జయన్తీ సాఙ్గాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై
కామబీజాధిష్ఠాత్ర్యై మహాసరస్వ్త్యై నమః అహమాహుతి సమర్పయామి స్వాహా ॥
॥ స్వస్తి శ్రీమార్కణ్డేయపురాణే సావర్ణికే మన్వన్తరే దేవీమాహాత్మ్యే
సురథవైశ్యయోర్వరప్రదానం నామ త్రయోదశోఽధ్యాయః ॥ ౧౩॥
ఉవాచ ౬, అర్ధశ్లోకాః ౧౧, శ్లోకాః ౧౨, ఏవమాదితః ॥ ౭౦౦॥
సమస్తా ఉవాచమన్త్రాః ౫౭, అర్ధశ్లోకాః ౪౨, శ్లోకాః ౫౩౫, అవదానాని ౬౬॥
॥ ఇతి తన్త్రరూపేణపరిణతాశ్రీతన్త్రదుర్గాసప్తశతీదేవీమాహాత్మ్యం సమాప్తమ్ ॥
॥ ఓం తత్ సత్ ఓం ॥
ఇస ప్రకార శ్రీతన్త్రదుర్గాసప్తశతీ కా పాఠ పురా హోనే పర ప్రథమ నవర్ణమన్త్ర కా జప కరకే పశ్చాత్ తాన్త్రిక దేవీ సూక్త కా పాఠ కరే । సభీ కార్య నవార్ణ మన్త్ర కే న్యాస ఆది తథా సప్తశతీ న్యాస ఆది పాఠ ఆరమ్భ కే పూర్వ కీ తరహ హోంగే ।
ఇతి శ్రీ బీజాత్మక తన్త్ర దుర్గా సప్తశతీ సమ్పూర్ణా ॥
॥ అథ నవార్ణమన్త్రజపవిధిః ॥
॥ వినియోగః ॥
శ్రీగణపతిర్జయతి ।
ఓం అస్య నవార్ణమన్త్రస్య బ్రహ్మవిష్ణురుద్రా ఋషయః,
గాయత్ర్యుష్ణిగనుష్టుభశ్ఛదాంసి,
శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వత్యో దేవతాః,
ఐం బీజమ్,
హ్రీం శక్తిః,
క్లీం కీలకమ్,
శ్రీమహాకాలీ మహాలక్ష్మీ మహాసరస్వతీ ప్రీత్యర్థే జపే వినియోగః ।
॥ ఋష్యాదిన్యాసః ॥
బ్రహ్మవిష్ణురుద్రౠషిభ్యో నమః, శిరసి ।
గాయత్ర్యుష్ణిగనుష్టుప్ఛన్దోభ్యో నమః, ముఖే ।
మహాకాలీ మహాలక్ష్మీ మహాసరస్వతీ దేవతాభ్యో నమః, హృది ।
ఐం బీజాయ నమః, గుహ్యే ।
హ్రీం శక్తయే నమః, పాదయోః ।
క్లీం కీలకాయ నమః, నాభౌ ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే, సర్వాఙ్గే, ఇతి మూలేనకరౌ సంశోధ్య....
॥ కరన్యాసః ॥
ఓం ఐం అఙ్గుష్ఠాభ్యాం నమః । (దోనోం హాథోం కే తర్జనీ అఁగులియోం సే దోనోం అఁగుఠోం కా స్పర్శ)
ఓం హ్రీం తర్జనీభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం తర్జనీ అఁగులియోం కా స్పర్శ)
ఓం క్లీం మధ్యమాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం మాధ్యమా అఁగులియోం కా స్పర్శ)
ఓం చాముణ్డాయై అనామికాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం అనామికా అఁగులియోం కా స్పర్శ)
ఓం విచ్చే కనిష్ఠికాభ్యాం నమః । (దోనోం హాథోం కే అఁగూఠోం సే దోనోం కనిష్ఠకా అఁగులియోం కా స్పర్శ)
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే కరతల కరపృష్ఠాభ్యాం నమః । (హథేలింయోం ఔర ఉనకే పృష్ఠ భాగోం కా పరస్పర స్పర్శ)
॥ హృదయాదిన్యాసః ॥
ఇసమేం దాహినే హాథ కీ పాఁచోం అఁగులియోం సే హృదయ ఆది అఙ్గోం కా స్పర్శ కియా జాతా హై ।
ఓం ఐం హృదయాయ నమః । (దాహినే హాథ కీ పాఁచోం అఁగులియోం సే హృదయ కా స్పర్శ)
ఓం హ్రీం శిరసే స్వాహా । (సిర కా స్పర్శ)
ఓం క్లీం శిఖాయై వషట్ । (శిఖా కా స్పర్శ)
ఓం చాముణ్డాయై కవచాయ హుమ్ । (దాహినే హాథ కీ అఁగులియోం సే బాయేం కన్ధే కా ఔర బాఁయేం హాథ కీ అఙ్గులియోం సే దాహినే కన్ధే కా సాథ హీ స్పర్శ)
ఓం విచ్చే నేత్రత్రయాయ వౌషట్ । (దాహినే హాథ కీ అఁగులియోం కే అగ్ర భాగ సే దోనోం నేత్రోం ఔర లలాట కే మధ్య భాగ కా స్పర్శ)
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే అస్త్రాయ ఫట్ ।
॥ అక్షరన్యాసః ॥
నిమ్నాఙ్కిత వాక్యోం కో పఢ़కర క్రమశః శిఖా ఆది కా దాహినే హాథ కీ అఙ్గులియోం సే స్పర్శ కరే ।
ఓం ఐం నమః శిఖాయామ్ ।
ఓం హ్రీం నమః దక్షిణనేత్రే ।
ఓం క్లీం నమః వామనేత్రే ।
ఓం చాం నమః దక్షిణకర్ణే ।
ఓం ముం నమః వామకర్ణే ।
ఓం డాం నమః దక్షిణనాసాపుటే ।
ఓం యైం నమః వామనాసాపుటే ।
ఓం విం నమః ముఖే ।
ఓం చ్చేం నమః గుహ్యే ।
॥ దిఙ్న్యాసః ॥
ఓం ఐం ప్రాచ్యై నమః ।
ఓం ఐం ఆగ్నేయ్యై నమః ।
ఓం హ్రీం దక్షిణాయై నమః ।
ఓం హ్రీం నైరౄత్యై నమః ।
ఓం క్లీం ప్రతీచ్యై నమః ।
ఓం క్లీం వాయవ్యై నమః ।
ఓం చాముణ్డాయై ఉదీచ్యై నమః ।
ఓం చాముణ్డాయై ఐశాన్యై నమః ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే ఊర్ధ్వాయై నమః ।
ఓం ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే భూమ్యై నమః ।
॥ ధ్యానం ॥
మహాకాలీ -
ఖడ్గఞ్చక్రగదేషు చాపపరిఘాఞ్ఛూలమ్భుశుణ్డీం శిరః
శఙ్ఖంసన్దధతీం కరైస్త్రినయనాం సర్వాఙ్గభూషావృతామ్ ।
నీలాశ్మద్యుతిమాస్యపాదదశకాం సేవే మహాకాలికాం
యామస్తౌత్స్వపితే హరౌకమలజో హన్తుమ్మధుఙ్కైటభమ్ ॥ ౧॥
మహాలక్ష్మీ -
అక్షస్రక్పరశుం గదేషుకులిశం పద్మన్ధనుష్కుణ్డికాం (పద్మన్ధనుఃకుణ్డికాం)
దణ్డంశక్తిమసిం చ చర్మ జలజం ఘణ్టాం సురాభాజనమ్ ।
శూలం పాశసుదర్శనే చ దధతీం హస్తైః ప్రసన్నాననాం
సేవే సైరిభమర్దినీమిహ మహాలక్ష్మీం సరోజస్థితామ్ ॥ ౨॥
మహాసరస్వతీ -
ఘణ్టాశూలహలాని శఙ్ఖముసలే చక్రం ధనుః సాయకం
హస్తాబ్జైర్దధతీం ఘనాన్తవిలసచ్ఛీతాంశుతుల్యప్రభామ్ ।
గౌరీదేహసముద్భవాం త్రిజగతామాధారభూతాం మహా-
పూర్వామత్ర సరస్వతీమనుభజే శుమ్భాదిదైత్యార్దినీమ్ ॥ ౩॥
సఙ్కేత - ఇస ప్రకార న్యాస ఔర ధ్యాన కరకే మానసిక ఉపచార సే దేవీ కీ పూజా కరే । పశ్చాత్ ౧౦౮ యా ౧౦౦౮ బార నవార్ణ మన్త్ర కా జప కరనా చాహియే । జప కరనే కే పహలే హీ ``ఐం హ్రీం అక్షమాలికాయై నమః'' ఇస మన్త్ర సే మాలా కీ పూజా కరకే నిమ్నలిఖిత మన్త్రోం సే మాలా కీ ప్రార్థనా కరేం-
ఓం మాం మాలే మహామాయే సర్వశక్తి స్వరూపిణి ।
చతుర్వర్గస్త్వయి న్యస్తస్తస్మాన్మే సిద్ధిదా భవ ॥ ౧॥
ఓం అవిఘ్నం కురు మాలే త్వం గృహ్ణామి దక్షిణేకరే ।
జపకాలే చ సిద్ధ్యర్థం ప్రసీద మమ సిద్ధయే ॥ ౨॥
ఓం అక్షమాలాధిపతయే సుసిద్ధిం దేహి దేహి సర్వమన్త్రార్థసాధిని
సాధయ సాధయ సర్వసిద్ధిం పరికల్పయ పరికల్పయ మే స్వాహా ॥
ఇస ప్రకార ప్రార్థనా కరకే జప ఆరమ్భ కరే । జప పూరా కరకే జప కో భగవతీ కో సమర్పిత కరతే హుయే కహే ।
గుహ్యాతిగుహ్యగోప్త్రీ త్వం గృహాణాస్మత్కృతం జపమ్ ।
సిద్ధిర్భవతు మే దేవి త్వత్ప్రసాదాన్ మహేశ్వరి ॥
పశ్చాత్ నీచే లిఖే అనుసార సప్తశతీ కా న్యాస కరే ।
॥ ఇతినవార్ణజపవిధిః సమాప్తః ॥
అథతన్త్రదుర్గాసప్తశతీన్యాసః
॥ కరన్యాసః ॥
ఓం హ్రీం అఙ్గుష్ఠాభ్యాం నమః ।
ఓం చం తర్జనీభ్యాం నమః ।
ఓం డిం మధ్యమాభ్యాం నమః ।
ఓం కాం అనామికాభ్యాం నమః ।
ఓం యైం కనిష్ఠకాభ్యాం నమః ।
ఓం హ్రీం చణ్డికాయై కరతలకరపృష్ఠాభ్యాం నమః ।
॥ హృదయాదిన్యాసః ॥
ఓం ఐం స్లూం నమః ఖడ్గినీశూలినీఘోరా చక్రిణీ గదినీతథా ।
ఓం ఐం నోం నమః శఙ్ఖినీ చాపినీ బాణభుశుణ్డీ పరిఘాయుధా ॥ హృదయాయ నమః ।
ఓం ఐం ఫ్రైం నమః ఓం శూలేనపాహి నో దేవి పాహిఖడ్గేనచామ్బికే ।
ఘణ్టాస్వనేన నః పాహి చాపజ్యానిస్వనేన చ ॥ శిరసే స్వాహా ।
ఓం ఐం క్రీం నమః ఓం ప్రాచ్యాంరక్ష ప్రతీచ్యాఞ్చ చణ్డికేరక్ష దక్షిణేం ।
భ్రామణేనాత్మశూలస్య ఉత్తరస్యాన్తథేశ్వరి ॥ శిఖాయై వషట్ ।
ఓం ఐం మ్లూం నమః ఓం సౌమ్యానియానిరూపాణి త్రైలోక్యేవిచరన్తితే ।
యాని చాత్యర్థఘోరాణి తైరక్షాస్మాఁస్తథా భువమ్ ॥ కవచాయహుమ్ ।
ఓం ఐం ఘ్రేం నమః ఓం ఖడ్గశూలగదాదీని యానిచాస్త్రాణితేఽమ్బికే ।
కరపల్లవసఙ్గీని తైరస్మాన్ రక్షసర్వతః ॥ నేత్రత్రయాయవౌషట్ ।
ఓం ఐం శ్రూం నమః ఓం సర్వస్వరూపే సర్వేశే సర్వశక్తిసమన్వితే ।
భయేభ్యస్త్రాహి నో దేవి దుర్గే దేవి నమోఽస్తుతే ॥ అస్త్రాయ ఫట్ ।
॥ ధ్యానం ॥
విద్యుద్దామసమప్రభాం మృగపతిస్కన్ధస్థితాం భీషణాం
కన్యాభిఃకరవాలఖేటవిలసద్ధస్తాభిరాసేవితామ్ ॥
హస్తైశ్చక్రగదాసిఖేటవిశిఖాం శ్చాపం గుణం తర్జనీం
విభ్రాణామనలాత్మికాం శశిధరాం దుర్గాం త్రినేత్రాం భజే ॥
అర్థ - జినకే అఙ్గోం కీ శోభా బిజలీ కే సమాన హైం, జో సింహ కీ సవరీ పర బైఠీం హుఈం భయఙ్కర ప్రతీత హోతీ హై, హాథోం మేం తలవార వ ఢాల లియే ఐసీ అనేక కన్యాయేం జినకీ సేవా మేం ఖడ़ీ హైం, జో అపనే హాథోం మేం చక్ర-గదా-తలవార-ఢాల-బాణ-ధనుష-పాశ ఔర తర్జనీముద్రా ధారణ కియే హుయే హైం, జినకా స్వరూప అగ్నిమయ హైం, తథా జినకే మాథే పర చన్ద్రమా కా ముకుట శోభా పా రహా హై, ఐసీ తీన నేత్రవాలీ శ్రీ దుర్గా దేవీ కా ధ్యాన కరతా (యా కరతీ) హూఁ ।
ఇస ప్రకార శ్రీ దుర్గా దేవీ కా ధ్యాన కరకే ఆగే లిఖా తన్త్ర రూప దేవీ సూక్త కా పాఠ కరేం ।
॥ తన్త్రరూపదేవీసూక్తమ్ ॥
దేవా ఊచుః ॥ ౫.౮॥ ఓం ఐం హ్సోం (హ్సౌం) నమః ॥ ౧॥
నమో దేవ్యై మహాదేవ్యై శివాయై సతతం నమః ।
నమః ప్రకృత్యై భద్రాయై నియతాః ప్రణతాః స్మ తామ్ ॥ ౫.౯॥ ఓం ఐం హ్రీం నమః ॥ ౨॥
రౌద్రాయై నమో నిత్యాయై గౌర్యై ధాత్ర్యై నమో నమః ।
జ్యోత్స్నాయై చేన్దురూపిణ్యై సుఖాయై సతతం నమః ॥ ౫.౧౦॥ ఓం ఐం శ్రీం నమః ॥ ౩॥
కల్యాణ్యై ప్రణతాం వృద్ధ్యై సిద్ధ్యై కుర్మో నమో నమః ।
నైరృత్యై భూభృతాం లక్ష్మ్యై శర్వాణ్యై తే నమో నమః ॥ ౫.౧౧॥ ఓం ఐం హూం నమః ॥ ౪॥
దుర్గాయై దుర్గపారాయై సారాయై సర్వకారిణ్యై ।
ఖ్యాత్యై తథైవ కృష్ణాయై ధూమ్రాయై సతతం నమః ॥ ౫.౧౨॥ ఓం ఐం క్లీం నమః ॥ ౫॥
అతిసౌమ్యాతిరౌద్రాయై నతాస్తస్యై నమో నమః ।
నమో జగత్ప్రతిష్ఠాయై దేవ్యై కృత్యై నమో నమః ॥ ౫.౧౩॥ ఓం ఐం రౌం నమః ॥ ౬॥
యా దేవీ సర్వభూతేషు విష్ణుమాయేతి శబ్దితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౪-౧౬॥ ఓం ఐం స్త్రీం నమః ॥ ౭॥ ఓం ఐం మ్లీం నమః ॥ ౮॥ ఓం ఐం ప్లూం నమః ॥ ౯॥
యా దేవీ సర్వభూతేషు చేతనేత్యభిధీయతే ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౧౭-౧౯॥ ఓం ఐం స్హౌం (స్హాం) నమః ॥ ౧౦॥ ఓం ఐం స్త్రీం నమః ॥ ౧౧॥ ఓం ఐం గ్లూం నమః ॥ ౧౨॥
యా దేవీ సర్వభూతేషు బుద్ధిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౦-౨౨॥ ఓం ఐం వ్రీం నమః ॥ ౧౩॥ ఓం ఐం సౌం (సౌం) నమః ॥ ౧౪॥ ఓం ఐం లూం నమః ॥ ౧౫॥
యా దేవీ సర్వభూతేషు నిద్రారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౩-౨౫॥ ఓం ఐం ల్లూం నమః ॥ ౧౬॥ ఓం ఐం ద్రాం నమః ॥ ౧౭॥ ఓం ఐం క్సాం నమః ॥ ౧౮॥
యా దేవీ సర్వభూతేషు క్షుధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౬-౨౮॥ ఓం ఐం క్ష్మ్రీం నమః ॥ ౧౯॥ ఓం ఐం గ్లౌం నమః ॥ ౨౦॥ ఓం ఐం స్కేం (స్కూఁ, స్కూం, స్కం) నమః ॥ ౨౧॥
యా దేవీ సర్వభూతేషు ఛాయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౨౯-౩౧॥ ఓం ఐం త్రూం నమః ॥ ౨౨॥ ఓం ఐం స్క్లూం నమః ॥ ౨౩॥ ఓం ఐం క్రౌం నమః ॥ ౨౪॥
యా దేవీ సర్వభూతేషు శక్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౨-౩౪॥ ఓం ఐం శ్రీం (ఛ్రీం) నమః ॥ ౨౫॥ ఓం ఐం మ్లూం నమః ॥ ౨౬॥ ఓం ఐం క్లూం నమః ॥ ౨౭॥
యా దేవీ సర్వభూతేషు తృష్ణారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౫-౩౭॥ ఓం ఐం శాం నమః ॥ ౨౮॥ ఓం ఐం ల్హీం నమః ॥ ౨౯॥ ఓం ఐం స్త్రూం నమః ॥ ౩౦॥
యా దేవీ సర్వభూతేషు క్షాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౩౮-౪౦॥ ఓం ఐం ల్లీం నమః ॥ ౩౧॥ ఓం ఐం లీం నమః ॥ ౩౨॥ ఓం ఐం సం నమః ॥ ౩౩॥
యా దేవీ సర్వభూతేషు జాతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౧-౪౩॥ ఓం ఐం లూం నమః ॥ ౩౪॥ ఓం ఐం హ్సూం నమః ॥ ౩౫॥ ఓం ఐం శ్రూం నమః ॥ ౩౬॥
యా దేవీ సర్వభూతేషు లజ్జారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౪-౪౬॥ ఓం ఐం జూం నమః ॥ ౩౭॥ ఓం ఐం హ్స్ల్రీం నమః ॥ ౩౮॥ ఓం ఐం స్క్రీం (స్కీం) నమః ॥ ౩౯॥
యా దేవీ సర్వభూతేషు శాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౪౭-౪౯॥ ఓం ఐం క్లాం నమః ॥ ౪౦॥ ఓం ఐం శ్రూం నమః ॥ ౪౧॥ ఓం ఐం హం నమః ॥ ౪౨॥
యా దేవీ సర్వభూతేషు శ్రద్ధారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౦-౫౨॥ ఓం ఐం హ్లీం నమః ॥ ౪౩॥ ఓం ఐం క్స్రూం నమః ॥ ౪౪॥ ఓం ఐం ద్రౌం నమః ॥ ౪౫॥
యా దేవీ సర్వభూతేషు కాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౩-౫౫॥ ఓం ఐం క్లూం నమః ॥ ౪౬॥ ఓం ఐం గాం నమః ॥ ౪౭॥ ఓం ఐ సం నమః ॥ ౪౮॥
యా దేవీ సర్వభూతేషు లక్ష్మీరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౬-౫౮॥ ఓం ఐం ల్స్రాం నమః ॥ ౪౯॥ ఓం ఐం ఫ్రీం నమః ॥ ౫౦॥ ఓం ఐం స్లాం నమః ॥ ౫౧॥
యా దేవీ సర్వభూతేషు వృత్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౫౯-౬౧॥ ఓం ఐం ల్లూం నమః ॥ ౫౨॥ ఓం ఐం ఫ్రేం నమః ॥ ౫౩॥ ఓం ఐం ఓం నమః ॥ ౫౪॥
యా దేవీ సర్వభూతేషు స్మృతిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౨-౬౪॥ ఓం ఐం సమ్లీం నమః ॥ ౫౫॥ ఓం ఐం హ్రాం నమః ॥ ౫౬॥ ఓం ఐం ఓం నమః ॥ ౫౭॥
యా దేవీ సర్వభూతేషు దయారూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౫-౬౭॥ ఓం ఐం హ్లూం నమః ॥ ౫౮॥ ఓం ఐం హూం (హూఁ) నమః ॥ ౫౯॥ ఓం ఐం నం నమః ॥ ౬౦॥
యా దేవీ సర్వభూతేషు తుష్టిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౬౮-౭౦॥ ఓం ఐం స్రాం నమః ॥ ౬౧॥ ఓం ఐం వం నమః ॥ ౬౨॥ ఓం ఐం మం నమః ॥ ౬౩॥
యా దేవీ సర్వభూతేషు మాతృరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౧-౭౩॥ ఓం ఐం మ్క్లీం నమః ॥ ౬౪॥ ఓం ఐం శాం నమః ॥ ౬౫॥ ఓం ఐం లం నమః ॥ ౬౬॥
యా దేవీ సర్వభూతేషు భ్రాన్తిరూపేణ సంస్థితా ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౪-౭౬॥ ఓం ఐం భౌం (భైం) నమః ॥ ౬౭॥ ఓం ఐం ల్లూం నమః ॥ ౬౮॥ ఓం ఐం హౌం నమః ॥ ౬౯॥
ఇన్ద్రియాణామధిష్ఠాత్రీ భూతానాం చాఖిలేషు యా ।
భూతేషు సతతం తస్యై వ్యాప్త్యై దేవ్యై నమో నమః ॥ ౫.౭౭॥ ఓం ఐం ఈం నమః ॥ ౭౦॥
చితిరూపేణ యా కృత్స్నమేతద్ వ్యాప్య స్థితా జగత్ ।
నమస్తస్యై నమస్తస్యై నమస్తస్యై నమో నమః ॥ ౫.౭౮-౮౦॥ ఓం ఐం చేం నమః ॥ ౭౧॥ ఓం ఐం ల్క్రీం నమః ॥ ౭౨॥ ఓం ఐం హ్ల్రీం నమః ॥ ౭౩॥
స్తుతా సురైః పూర్వమభీష్టసంశ్రయా-
త్తథా సురేన్ద్రేణ దినేషు సేవితా ।
కరోతు సా నః శుభహేతురీశ్వరీ
శుభాని భద్రాణ్యభిహన్తు చాపదః ॥ ౫.౮౧॥ ఓం ఐం క్ష్మ్ల్రీం నమః ॥ ౭౪॥
యా సామ్ప్రతం చోద్ధతదైత్యతాపితై-
రస్మాభిరీశా చ సురైర్నమస్యతే ।
యా చ స్మృతా తత్క్షణమేవ హన్తి నః
సర్వాపదో భక్తివినమ్రమూర్తిభిః ॥ ౫.౮౨॥ ఓం ఐం పూం (యూం) నమః ॥ ౭౫॥
ఋషిరువాచ ॥ ౫.౮౩॥ ఓం ఐం శ్రౌం నమః ॥ ౭౬॥
ఏవం స్తవాభియుక్తానాం దేవానాం తత్ర పార్వతీ ।
స్నాతుమభ్యాయయౌ తోయే జాహ్నవ్యా నృపనన్దన ॥ ౫.౮౪॥ ఓం ఐం హ్రౌం నమః ॥ ౭౭॥
సాబ్రవీత్తాన్ సురాన్ సుభ్రూర్భవద్భిః స్తూయతేఽత్ర కా ।
శరీరకోశతశ్చాస్యాః సముద్భూతాబ్రవీచ్ఛివా ॥ ౫.౮౫॥ ఓం ఐం భ్రూం నమః ॥ ౭౮॥
స్తోత్రం మమైతత్క్రియతే శుమ్భదైత్యనిరాకృతైః ।
దేవైః సమేతైః సమరే నిశుమ్భేన పరాజితైః ॥ ౫.౮౬॥ ఓం ఐం క్స్త్రీం నమః ॥ ౭౯॥
శరీరకోశాద్యత్తస్యాః పార్వత్యా నిఃసృతామ్బికా ।
కౌశికీతి సమస్తేషు తతో లోకేషు గీయతే ॥ ౫.౮౭॥ ఓం ఐం ఆం నమః ॥ ౮౦॥
తస్యాం వినిర్గతాయాం తు కృష్ణాభూత్సాపి పార్వతీ ।
కాలికేతి సమాఖ్యాతా హిమాచలకృతాశ్రయా ॥ ౫.౮౮॥ ఓం ఐం క్రూం నమః ॥ ౮౧॥
తతోఽమ్బికాం పరం రూపం బిభ్రాణాం సుమనోహరమ్ ।
దదర్శ చణ్డో ముణ్డశ్చ భృత్యౌ శుమ్భనిశుమ్భయోః ॥ ౫.౮౯॥ ఓం ఐం త్రూం నమః ॥ ౮౨॥
॥ ఇతి తన్త్రరూపన్దేవీసూక్తమ్ ॥
తన్త్ర రుప దేవీ సూక్త కా పాఠ కరనే కే పశ్చాత్ భగవతీ కీ ప్రార్థనా కరతా హుఆ (కరతీ హుఈ) క్షమా యాచనా కరకే పాఠ కార్య సమాప్త కరేం ।
హరివిరఞ్చిమహేశ్వరపూజితామ్-
భగవతీం జనదుర్గతిహారిణీమ్ ।
సకలతన్త్రమయీం జగదీశ్వరీం
సుఖమయీం జగతాం జననీం భజే ॥ ౧॥
సర్వార్థసాధనకరీం మహతీముదారాం-
స్వర్గాపవర్గగతిదాం కరుణావతారామ్ ।
సంసారతారణపరాం హృతపాపభారాం-
దుర్గాన్నమామి శిరసాఽహమనన్తసారామ్ ॥ ౨॥
॥ క్షమా-ప్రార్థనా ॥
అపరాధసహస్రాణి క్రియన్తేఽహర్నిశం మయా ।
దాసోఽయమితి మాం మత్వా క్షమస్వ పరమేశ్వరి ॥ ౧॥
ఆవాహనం న జానామి న జానామి విసర్జనమ్ ।
పూజాం చైవ న జానామి క్షమ్యతాం పరమేశ్వరి ॥ ౨॥
మన్త్రహీనం క్రియాహీనం భక్తిహీనం సురేశ్వరి ।
యత్పూజితం మయాదేవి పరిపూర్ణతదస్తుమే ॥ ౩॥
అపరాధశతం కృత్వా జగదమ్బేతిచోచ్చరేత్ ।
యాం గతిం సమవాప్నోతి న తాం బ్రహ్మాదయః సురాః ॥ ౪॥
సాపరాధోఽస్మిశరణం ప్రాప్తస్త్వాం జగదమ్బికే ।
ఇదానీమనుకమ్ప్యోఽహం యథేచ్ఛసి తథా కురు ॥ ౫॥
అజ్ఞానాద్విస్మృతేర్భ్రాన్త్యా యన్న్యూనమధికం కృతమ్ ।
తత్సర్వం క్షమ్యతాం దేవి ప్రసీదపరమేశ్వరి ॥ ౬॥
కామేశ్వరిజగన్మాతః సచ్చిదానన్దవిగ్రహే ।
గృహాణామిమాం ప్రీత్యా ప్రసీద పరమేశ్వరి ॥ ౭॥
గుహ్యాతిగుహ్యగోత్రీత్వం గృహాణాస్మత్కృతం జపమ్ ।
సిద్ధిర్భవతుమేదేవి త్వత్ప్రసాదాన్మహేశ్వరి ॥ ౮॥
జగదమ్బా కా ప్రధాన - నవార్ణ మన్త్ర
ఐం హ్రీం క్లీం చాముణ్డాయై విచ్చే ।
అర్థ - హే చిత్స్వరూపిణీ మహాసరస్వతీ! హే సత్ స్వరూపిణీ మహాలక్ష్మీ ! హే ఆనన్దరూపిణీ మహాకాలీ । బ్రహ్మ విద్యా పానే కే లిఏ హమ సబ తుమ్హారా ధ్యాన కరతే హైం ।
సరల అర్థ - హే మహాకాలీ-మహాలక్ష్మీ-మహాసరస్వతీ-స్వరూపిణీ (దుర్గా దేవీ) మనోఽభీష్ట పూర్ణ కీజియే ।
It is recommended to consult an expert to perform the sacred ceremony. The above work is a combination of the 700 śloka of Durgā Saptaśatī and its 700 tantra bīja.
Proofread and revised by Preeti Bhandare
% Text title : Bijatmak Tantra Durga Saptashati
% File name : tantradurgA700.itx
% itxtitle : tantradurgAsaptashatI bIjAtmakam
% engtitle : tantradurgAsaptashatI
% Category : devii, durgA, shatI, devI, saptashatI, tantra
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : pramukha
% Language : Sanskrit
% Subject : religious
% Proofread by : Preeti Bhandare
% Description-comments : 700 shlokas for Devi Durga and mantra of each verse. See standard Durga saptashati mUlam
% Indexextra : (Scans 1, 2, 3, 4, 5, saptashati mUlam,
% Latest update : September 30, 2025
% Site access : https://sanskritdocuments.org