सरस्वती-सहस्रनाम-स्तोत्रम्
ध्यानम्
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित-कुन्तला प्रविलसन्मुक्तावलीशोभना
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा
श्री-नारद उवाच
भगवन् परमेशान सर्वलोकैकनायक
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः
कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम्
एतन्मे वद तत्त्वेन महायोगीश्वरप्रभो
श्री-सनत्कुमार उवाच
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम्
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते
पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम्
निर्विकारं निराभासं स्तम्भीभूतमचेतसम्
सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम्
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः
दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम्
ततः कदाचित्सञ्जाता वाणी सर्वार्थशोभिता
अहमस्मि महाविद्या सर्ववाचामधीश्वरी
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम्
अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम्
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति
इदं रहस्यं परमं मम नामसहस्रकम्
सर्वपापौघशमनं महासारस्वतप्रदम्
महाकवित्वदं लोके वागीशत्वप्रदायकम्
त्वं वा परः पुमान्यस्तु स्तवेनानेन तोषयेत्
तस्याहं किङ्करी साक्षाद्भविष्यामि न संशयः
इत्युक्त्वाऽन्तर्दधे वाणी तदारभ्य पितामहः
स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान्
वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने
तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः
स्तोत्रम्
वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा
विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी
वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी
विश्वाराध्या विश्वमाता विश्वधात्री विनायका
विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका
वेदज्ञा वेदजननी विश्वा विश्वविभावरी
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी
विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका
व्यालघ्नी व्यालभूषाङ्गी विरजा वेदनायिका
वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया
वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा
गौरी गुणवती गोप्या गन्धर्वनगरप्रिया
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया
गिरिविद्या गानतुष्टा गायकप्रियकारिणी
गायत्री गिरिशाराध्या गीर्गिरीशप्रियङ्करी
गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता
गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका
गुर्वी गुर्वम्बिका गुह्या गेयजा ग्रहनाशिनी
गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी
गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता
गरुडासनसंसेव्या गोमती गुणशालिनी
शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका
श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना
शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया
शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी
शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका
श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा
शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियङ्करी
शीललभ्या शीलवती श्रीमाता शुभकारिणी
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता
श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता
शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता
शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी
सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी
सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता
सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी
सहस्राक्षी सहस्रास्या सहस्रपदसंयुता
सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा
सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता
स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी
संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी
सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी
सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा
सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा
सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला
सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका
सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा
सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी
सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी
सुरूपिणी सुखमयी सेवकप्रियकारिणी
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका
साररूपा सरोरूपा सत्यभूता समाश्रया
सितासिता सरोजाक्षी सरोजासनवल्लभा
सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता
महादेवी महेशानी महासारस्वतप्रदा
महासरस्वती मुक्ता मुक्तिदा मलनाशिनी
महेश्वरी महानन्दा महामन्त्रमयी मही
महालक्ष्मीर्महाविद्या माता मन्दरवासिनी
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा
महामुक्तिर्महानित्या महासिद्धिप्रदायिनी
महासिद्धा महामाता महदाकारसंयुता
महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी
मदिराक्षी मदावासा मखरूपा मखेश्वरी
महामोहा महामाया मातॄणां~मूर्ध्निसंस्थिता
महापुण्या मुदावासा महासम्पत्प्रदायिनी
मणिपूरैकनिलया मधुरूपा महोत्कटा
महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया
मा महादेवसंस्तुत्या महिषीगणपूजिता
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी
मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी
मुख्या महानिवासा च महाभाग्यजनाश्रिता
महिला महिमा मृत्युहारी मेधाप्रदायिनी
मेध्या महावेगवती महामोक्षफलप्रदा
महाप्रभाभा महती महादेवप्रियङ्करी
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा
माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा
मनोरूपा मनःशुद्धिर्मनःशुद्धिप्रदायिनी
महाकारुण्यसम्पूर्णा मनोनमनवन्दिता
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा
मनोन्मनी महास्थूला महाक्रतुफलप्रदा
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी
महानसा महामेधा महामोदा महेश्वरी
मालाधरी महोपाया महातीर्थफलप्रदा
महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी
महामखा महामेघा महाकाली महाप्रिया
महाभूषा महादेहा महाराज्ञी मुदालया
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी
भवानी भूतिदा भूतिर्भूमिर्भूमिसुनायिका
भूतधात्री भयहरी भक्तसारस्वतप्रदा
भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा
भागीरथी भवाराध्या भाग्यासज्जनपूजिता
भवस्तुत्या भानुमती भवसागरतारणी
भूतिर्भूषा च भूतेशी भाललोचनपूजिता
भूता भव्या भविष्या च भवविद्या भवात्मिका
बाधापहारिणी बन्धुरूपा भुवनपूजिता
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा
भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी
भाविनी भ्रातृरूपा च भारती भवनायिका
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया
भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका
भास्वती भगमाला च भिक्षादानकृतोद्यमा
भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी
भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा
भोगवती भोगरूपा भोगमोक्षफलप्रदा
भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा
ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया
बालेन्दुशेखरा बाला बलिपूजाकरप्रिया
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा
ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी
बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता
बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी
ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता
बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी
अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा
अनन्ताऽऽनन्दसुखदाऽनन्तचन्द्रनिभानना
अनन्तमहिमाऽघोराऽनन्तगम्भीरसम्मिता
अदृष्टाऽदृष्टदाऽनन्ताऽदृष्टभाग्यफलप्रदा
अरुन्धत्यव्ययीनाथाऽनेकसद्गुणसंयुता
अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता
अनन्ताऽनन्तसुखदाऽघोराऽघोरस्वरूपिणी
अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी
अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा
अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता
अविद्याऽज्ञानसंहर्त्री ह्यविद्याजालनाशिनी
अभिरूपाऽनवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा
अकलङ्कारूपिणी च ह्यनुग्रहपरायणा
अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा
अम्बिकाऽब्जकराऽब्जस्थांऽशुमत्यंशुशतान्विता
अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया
अजरामरसंसेव्याऽजरसेवितपद्युगा
अतुलार्थप्रदाऽर्थैक्याऽत्युदारा त्वभयान्विता
अनाथवत्सलाऽनन्तप्रियाऽनन्तेप्सितप्रदा
अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया
अखण्डा त्वमरस्तुत्याऽमरनायकपूजिता
अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा
अक्ताऽघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा
अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता
अभीष्टाऽमर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता
आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा
अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी
अस्खलत्सिद्धिदाऽऽनन्दाऽम्बुजाताऽमरनायिका
अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा
जया जयन्ती जयदा जन्मकर्मविवर्जिता
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा
जातिर्जया जितामित्रा जप्या जपनकारिणी
जीवनी जीवनिलया जीवाख्या जीवधारिणी
जाह्नवी ज्या जपवती जातिरूपा जयप्रदा
जनार्दनप्रियकरी जोषनीया जगत्स्थिता
जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी
जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका
जगदानन्दजननी जम्बूश्च जलजेक्षणा
जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा
जटा जटावती जप्या जपकर्तृप्रियङ्करी
जपकृत्पापसंहर्त्री जपकृत्फलदायिनी
जपापुष्पसमप्रख्या जपाकुसुमधारिणी
जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा
जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी
जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा
जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी
जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका
जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया
जरामरणशून्या च जनित्री जन्मनाशिनी
जलजाभा जलमयी जलजासनवल्लभा
जलजस्था जपाराध्या जनमङ्गलकारिणी
कामिनी कामरूपा च काम्या कामप्रदायिनी
कमाली कामदा कर्त्री क्रतुकर्मफलप्रदा
कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी
कञ्जाक्षी करुणारूपा केवलामरसेविता
कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी
कमला कमलावासा कमलोत्पलमालिनी
कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा
कामेश्वरी कमलिनी कामदा कामबन्धिनी
कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी
क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी
कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना
कन्दर्पजननी कान्ता करुणा करुणावती
क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी
क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी
कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता
कालिका कल्मषघ्नी च कमनीयजटान्विता
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा
कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा
कूर्मयाना कल्पलता कालकूटविनाशिनी
कल्पोद्यानवती कल्पवनस्था कल्पकारिणी
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया
कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा
कुलमाता कुलावासा कुलाचारप्रियङ्करी
कुलानाथा कामकला कलानाथा कलेश्वरी
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका
कवित्वदा काव्यमाता कविमाता कलाप्रदा
तरुणी तरुणीताता ताराधिपसमानना
तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी
त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका
त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी
तमालसदृशी त्राता तरुणादित्यसन्निभा
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्त्वरूपिणी
तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता
तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी
तुला तुलादिरहिता तत्तद् ब्रह्मस्वरूपिणी
त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी
तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा
तेजस्विनी तापहारी तापोपप्लवनाशिनी
तेजोगर्भा तपःसारा त्रिपुरारिप्रियङ्करी
तन्वी तापससन्तुष्टा तपताङ्गजभीतिनुत्
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता
त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी
शीतला शूलिनी शीता श्रीमती च शुभान्विता
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता
यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता
यामिनीयप्रभा याम्या यजनीया यशस्करी
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता
यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी
योगिनी योगरूपा च योगकर्तृप्रियङ्करी
योगयुक्ता योगमयी योगयोगीश्वराम्बिका
योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता
यन्त्रिताघौघसंहारा यमलोकनिवारिणी
यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक्
योगीश्वरी योगमाता योगसिद्धा च योगदा
योगारूढा योगमयी योगरूपा यवीयसी
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता
युगकर्त्री युगमयी युगधर्मविवर्जिता
यमुना यमिनी याम्या यमुनाजलमध्यगा
यातायातप्रशमनी यातनानान्निकृन्तनी
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी
योगक्षेममयी यन्त्रा यावदक्षरमातृका
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी
यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता
योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी
योगिवन्द्या योगिमाता योगीशफलदायिनी
यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी
यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा
यजनीया यमस्तुत्या योगयुक्ता यशस्करी
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी
योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी
फलश्रुतिः
इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम्
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम्
यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान्
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम्
लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः
मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः
भूत्वा प्राप्नोति सान्निध्यम् अन्ते धातुर्मुनीश्वर
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम्
महाकवित्वदं पुंसां महासिद्धिप्रदायकम्
कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि
महारहस्यं सततं वाणीनामसहस्रकम्
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम्
॥इति श्रीस्कान्दपुराणान्तर्गत-सनत्कुमार-संहितायां नारद-सनत्कुमार-संवादे सरस्वती-सहस्रनाम-स्तोत्रं सम्पूर्णम्॥
సరస్వతీ-సహస్రనామ-స్తోత్రమ్
ధ్యానమ్
శ్రీమచ్చన్దనచర్చితోజ్జ్వలవపుః శుక్లామ్బరా మల్లికా-
మాలాలాలిత-కున్తలా ప్రవిలసన్ముక్తావలీశోభనా
సర్వజ్ఞాననిధానపుస్తకధరా రుద్రాక్షమాలాఙ్కితా
వాగ్దేవీ వదనామ్బుజే వసతు మే త్రైలోక్యమాతా శుభా
శ్రీ-నారద ఉవాచ
భగవన్ పరమేశాన సర్వలోకైకనాయక
కథం సరస్వతీ సాక్షాత్ప్రసన్నా పరమేష్ఠినః
కథం దేవ్యా మహావాణ్యాః సతత్ప్రాప సుదుర్లభమ్
ఏతన్మే వద తత్త్వేన మహాయోగీశ్వరప్రభో
శ్రీ-సనత్కుమార ఉవాచ
సాధు పృష్టం త్వయా బ్రహ్మన్ గుహ్యాద్గుహ్యమనుత్తమమ్
భయానుగోపితం యత్నాదిదానీం సత్ప్రకాశ్యతే
పురా పితామహం దృష్ట్వా జగత్స్థావరజఙ్గమమ్
నిర్వికారం నిరాభాసం స్తమ్భీభూతమచేతసమ్
సృష్ట్వా త్రైలోక్యమఖిలం వాగభావాత్తథావిధమ్
ఆధిక్యాభావతః స్వస్య పరమేష్ఠీ జగద్గురుః
దివ్యవర్షాయుతం తేన తపో దుష్కరముత్తమమ్
తతః కదాచిత్సఞ్జాతా వాణీ సర్వార్థశోభితా
అహమస్మి మహావిద్యా సర్వవాచామధీశ్వరీ
మమ నామ్నాం సహస్రం తు ఉపదేక్ష్యామ్యనుత్తమమ్
అనేన సంస్తుతా నిత్యం పత్నీ తవ భవామ్యహమ్
త్వయా సృష్టం జగత్సర్వం వాణీయుక్తం భవిష్యతి
ఇదం రహస్యం పరమం మమ నామసహస్రకమ్
సర్వపాపౌఘశమనం మహాసారస్వతప్రదమ్
మహాకవిత్వదం లోకే వాగీశత్వప్రదాయకమ్
త్వం వా పరః పుమాన్యస్తు స్తవేనానేన తోషయేత్
తస్యాహం కిఙ్కరీ సాక్షాద్భవిష్యామి న సంశయః
ఇత్యుక్త్వాఽన్తర్దధే వాణీ తదారభ్య పితామహః
స్తుత్వా స్తోత్రేణ దివ్యేన తత్పతిత్వమవాప్తవాన్
వాణీయుక్తం జగత్సర్వం తదారభ్యాభవన్మునే
తత్తేహం సమ్ప్రవక్ష్యామి శృణు యత్నేన నారద
సావధానమనా భూత్వా క్షణం శుద్ధో మునీశ్వరః
స్తోత్రమ్
వాగ్వాణీ వరదా వన్ద్యా వరారోహా వరప్రదా
వృత్తిర్వాగీశ్వరీ వార్తా వరా వాగీశవల్లభా
విశ్వేశ్వరీ విశ్వవన్ద్యా విశ్వేశప్రియకారిణీ
వాగ్వాదినీ చ వాగ్దేవీ వృద్ధిదా వృద్ధికారిణీ
వృద్ధిర్వృద్ధా విషఘ్నీ చ వృష్టిర్వృష్టిప్రదాయినీ
విశ్వారాధ్యా విశ్వమాతా విశ్వధాత్రీ వినాయకా
విశ్వశక్తిర్విశ్వసారా విశ్వా విశ్వవిభావరీ
వేదాన్తవేదినీ వేద్యా విత్తా వేదత్రయాత్మికా
వేదజ్ఞా వేదజననీ విశ్వా విశ్వవిభావరీ
వరేణ్యా వాఙ్మయీ వృద్ధా విశిష్టప్రియకారిణీ
విశ్వతోవదనా వ్యాప్తా వ్యాపినీ వ్యాపకాత్మికా
వ్యాలఘ్నీ వ్యాలభూషాఙ్గీ విరజా వేదనాయికా
వేదవేదాన్తసంవేద్యా వేదాన్తజ్ఞానరూపిణీ
విభావరీ చ విక్రాన్తా విశ్వామిత్రా విధిప్రియా
వరిష్ఠా విప్రకృష్టా చ విప్రవర్యప్రపూజితా
వేదరూపా వేదమయీ వేదమూర్తిశ్చ వల్లభా
గౌరీ గుణవతీ గోప్యా గన్ధర్వనగరప్రియా
గుణమాతా గుహాన్తస్థా గురురూపా గురుప్రియా
గిరివిద్యా గానతుష్టా గాయకప్రియకారిణీ
గాయత్రీ గిరిశారాధ్యా గీర్గిరీశప్రియఙ్కరీ
గిరిజ్ఞా జ్ఞానవిద్యా చ గిరిరూపా గిరీశ్వరీ
గీర్మాతా గణసంస్తుత్యా గణనీయగుణాన్వితా
గూఢరూపా గుహా గోప్యా గోరూపా గౌర్గుణాత్మికా
గుర్వీ గుర్వమ్బికా గుహ్యా గేయజా గ్రహనాశినీ
గృహిణీ గృహదోషఘ్నీ గవఘ్నీ గురువత్సలా
గృహాత్మికా గృహారాధ్యా గృహబాధావినాశినీ
గఙ్గా గిరిసుతా గమ్యా గజయానా గుహస్తుతా
గరుడాసనసంసేవ్యా గోమతీ గుణశాలినీ
శారదా శాశ్వతీ శైవీ శాఙ్కరీ శఙ్కరాత్మికా
శ్రీః శర్వాణీ శతఘ్నీ చ శరచ్చన్ద్రనిభాననా
శర్మిష్ఠా శమనఘ్నీ చ శతసాహస్రరూపిణీ
శివా శమ్భుప్రియా శ్రద్ధా శ్రుతిరూపా శ్రుతిప్రియా
శుచిష్మతీ శర్మకరీ శుద్ధిదా శుద్ధిరూపిణీ
శివా శివఙ్కరీ శుద్ధా శివారాధ్యా శివాత్మికా
శ్రీమతీ శ్రీమయీ శ్రావ్యా శ్రుతిః శ్రవణగోచరా
శాన్తిః శాన్తికరీ శాన్తా శాన్తాచారప్రియఙ్కరీ
శీలలభ్యా శీలవతీ శ్రీమాతా శుభకారిణీ
శుభవాణీ శుద్ధవిద్యా శుద్ధచిత్తప్రపూజితా
శ్రీకరీ శ్రుతపాపఘ్నీ శుభాక్షీ శుచివల్లభా
శివేతరఘ్నీ శబరీ శ్రవణీయగుణాన్వితా
శారీ శిరీషపుష్పాభా శమనిష్ఠా శమాత్మికా
శమాన్వితా శమారాధ్యా శితికణ్ఠప్రపూజితా
శుద్ధిః శుద్ధికరీ శ్రేష్ఠా శ్రుతానన్తా శుభావహా
సరస్వతీ చ సర్వజ్ఞా సర్వసిద్ధిప్రదాయినీ
సరస్వతీ చ సావిత్రీ సన్ధ్యా సర్వేప్సితప్రదా
సర్వార్తిఘ్నీ సర్వమయీ సర్వవిద్యాప్రదాయినీ
సర్వేశ్వరీ సర్వపుణ్యా సర్గస్థిత్యన్తకారిణీ
సర్వారాధ్యా సర్వమాతా సర్వదేవనిషేవితా
సర్వైశ్వర్యప్రదా సత్యా సతీ సత్వగుణాశ్రయా
స్వరక్రమపదాకారా సర్వదోషనిషూదినీ
సహస్రాక్షీ సహస్రాస్యా సహస్రపదసంయుతా
సహస్రహస్తా సాహస్రగుణాలఙ్కృతవిగ్రహా
సహస్రశీర్షా సద్రూపా స్వధా స్వాహా సుధామయీ
షడ్గ్రన్థిభేదినీ సేవ్యా సర్వలోకైకపూజితా
స్తుత్యా స్తుతిమయీ సాధ్యా సవితృప్రియకారిణీ
సంశయచ్ఛేదినీ సాఙ్ఖ్యవేద్యా సఙ్ఖ్యా సదీశ్వరీ
సిద్ధిదా సిద్ధసమ్పూజ్యా సర్వసిద్ధిప్రదాయినీ
సర్వజ్ఞా సర్వశక్తిశ్చ సర్వసమ్పత్ప్రదాయినీ
సర్వాశుభఘ్నీ సుఖదా సుఖా సంవిత్స్వరూపిణీ
సర్వసమ్భీషణీ సర్వజగత్సమ్మోహినీ తథా
సర్వప్రియఙ్కరీ సర్వశుభదా సర్వమఙ్గలా
సర్వమన్త్రమయీ సర్వతీర్థపుణ్యఫలప్రదా
సర్వపుణ్యమయీ సర్వవ్యాధిఘ్నీ సర్వకామదా
సర్వవిఘ్నహరీ సర్వవన్దితా సర్వమఙ్గలా
సర్వమన్త్రకరీ సర్వలక్ష్మీః సర్వగుణాన్వితా
సర్వానన్దమయీ సర్వజ్ఞానదా సత్యనాయికా
సర్వజ్ఞానమయీ సర్వరాజ్యదా సర్వముక్తిదా
సుప్రభా సర్వదా సర్వా సర్వలోకవశఙ్కరీ
సుభగా సున్దరీ సిద్ధా సిద్ధామ్బా సిద్ధమాతృకా
సిద్ధమాతా సిద్ధవిద్యా సిద్ధేశీ సిద్ధరూపిణీ
సురూపిణీ సుఖమయీ సేవకప్రియకారిణీ
స్వామినీ సర్వదా సేవ్యా స్థూలసూక్ష్మాపరామ్బికా
సారరూపా సరోరూపా సత్యభూతా సమాశ్రయా
సితాసితా సరోజాక్షీ సరోజాసనవల్లభా
సరోరుహాభా సర్వాఙ్గీ సురేన్ద్రాదిప్రపూజితా
మహాదేవీ మహేశానీ మహాసారస్వతప్రదా
మహాసరస్వతీ ముక్తా ముక్తిదా మలనాశినీ
మహేశ్వరీ మహానన్దా మహామన్త్రమయీ మహీ
మహాలక్ష్మీర్మహావిద్యా మాతా మన్దరవాసినీ
మన్త్రగమ్యా మన్త్రమాతా మహామన్త్రఫలప్రదా
మహాముక్తిర్మహానిత్యా మహాసిద్ధిప్రదాయినీ
మహాసిద్ధా మహామాతా మహదాకారసంయుతా
మహా మహేశ్వరీ మూర్తిర్మోక్షదా మణిభూషణా
మేనకా మానినీ మాన్యా మృత్యుఘ్నీ మేరురూపిణీ
మదిరాక్షీ మదావాసా మఖరూపా మఖేశ్వరీ
మహామోహా మహామాయా మాతౄణాం~మూర్ధ్నిసంస్థితా
మహాపుణ్యా ముదావాసా మహాసమ్పత్ప్రదాయినీ
మణిపూరైకనిలయా మధురూపా మహోత్కటా
మహాసూక్ష్మా మహాశాన్తా మహాశాన్తిప్రదాయినీ
మునిస్తుతా మోహహన్త్రీ మాధవీ మాధవప్రియా
మా మహాదేవసంస్తుత్యా మహిషీగణపూజితా
మృష్టాన్నదా చ మాహేన్ద్రీ మహేన్ద్రపదదాయినీ
మతిర్మతిప్రదా మేధా మర్త్యలోకనివాసినీ
ముఖ్యా మహానివాసా చ మహాభాగ్యజనాశ్రితా
మహిలా మహిమా మృత్యుహారీ మేధాప్రదాయినీ
మేధ్యా మహావేగవతీ మహామోక్షఫలప్రదా
మహాప్రభాభా మహతీ మహాదేవప్రియఙ్కరీ
మహాపోషా మహర్ద్ధిశ్చ ముక్తాహారవిభూషణా
మాణిక్యభూషణా మన్త్రా ముఖ్యచన్ద్రార్ధశేఖరా
మనోరూపా మనఃశుద్ధిర్మనఃశుద్ధిప్రదాయినీ
మహాకారుణ్యసమ్పూర్ణా మనోనమనవన్దితా
మహాపాతకజాలఘ్నీ ముక్తిదా ముక్తభూషణా
మనోన్మనీ మహాస్థూలా మహాక్రతుఫలప్రదా
మహాపుణ్యఫలప్రాప్యా మాయాత్రిపురనాశినీ
మహానసా మహామేధా మహామోదా మహేశ్వరీ
మాలాధరీ మహోపాయా మహాతీర్థఫలప్రదా
మహామఙ్గలసమ్పూర్ణా మహాదారిద్ర్యనాశినీ
మహామఖా మహామేఘా మహాకాలీ మహాప్రియా
మహాభూషా మహాదేహా మహారాజ్ఞీ ముదాలయా
భూరిదా భాగ్యదా భోగ్యా భోగ్యదా భోగదాయినీ
భవానీ భూతిదా భూతిర్భూమిర్భూమిసునాయికా
భూతధాత్రీ భయహరీ భక్తసారస్వతప్రదా
భుక్తిర్భుక్తిప్రదా భేకీ భక్తిర్భక్తిప్రదాయినీ
భక్తసాయుజ్యదా భక్తస్వర్గదా భక్తరాజ్యదా
భాగీరథీ భవారాధ్యా భాగ్యాసజ్జనపూజితా
భవస్తుత్యా భానుమతీ భవసాగరతారణీ
భూతిర్భూషా చ భూతేశీ భాలలోచనపూజితా
భూతా భవ్యా భవిష్యా చ భవవిద్యా భవాత్మికా
బాధాపహారిణీ బన్ధురూపా భువనపూజితా
భవఘ్నీ భక్తిలభ్యా చ భక్తరక్షణతత్పరా
భక్తార్తిశమనీ భాగ్యా భోగదానకృతోద్యమా
భుజఙ్గభూషణా భీమా భీమాక్షీ భీమరూపిణీ
భావినీ భ్రాతృరూపా చ భారతీ భవనాయికా
భాషా భాషావతీ భీష్మా భైరవీ భైరవప్రియా
భూతిర్భాసితసర్వాఙ్గీ భూతిదా భూతినాయికా
భాస్వతీ భగమాలా చ భిక్షాదానకృతోద్యమా
భిక్షురూపా భక్తికరీ భక్తలక్ష్మీప్రదాయినీ
భ్రాన్తిఘ్నా భ్రాన్తిరూపా చ భూతిదా భూతికారిణీ
భిక్షణీయా భిక్షుమాతా భాగ్యవద్దృష్టిగోచరా
భోగవతీ భోగరూపా భోగమోక్షఫలప్రదా
భోగశ్రాన్తా భాగ్యవతీ భక్తాఘౌఘవినాశినీ
బ్రాహ్మీ బ్రహ్మస్వరూపా చ బృహతీ బ్రహ్మవల్లభా
బ్రహ్మదా బ్రహ్మమాతా చ బ్రహ్మాణీ బ్రహ్మదాయినీ
బ్రహ్మేశీ బ్రహ్మసంస్తుత్యా బ్రహ్మవేద్యా బుధప్రియా
బాలేన్దుశేఖరా బాలా బలిపూజాకరప్రియా
బలదా బిన్దురూపా చ బాలసూర్యసమప్రభా
బ్రహ్మరూపా బ్రహ్మమయీ బ్రధ్నమణ్డలమధ్యగా
బ్రహ్మాణీ బుద్ధిదా బుద్ధిర్బుద్ధిరూపా బుధేశ్వరీ
బన్ధక్షయకరీ బాధనాశనీ బన్ధురూపిణీ
బిన్ద్వాలయా బిన్దుభూషా బిన్దునాదసమన్వితా
బీజరూపా బీజమాతా బ్రహ్మణ్యా బ్రహ్మకారిణీ
బహురూపా బలవతీ బ్రహ్మజా బ్రహ్మచారిణీ
బ్రహ్మస్తుత్యా బ్రహ్మవిద్యా బ్రహ్మాణ్డాధిపవల్లభా
బ్రహ్మేశవిష్ణురూపా చ బ్రహ్మవిష్ణ్వీశసంస్థితా
బుద్ధిరూపా బుధేశానీ బన్ధీ బన్ధవిమోచనీ
అక్షమాలాఽక్షరాకారాఽక్షరాఽక్షరఫలప్రదా
అనన్తాఽఽనన్దసుఖదాఽనన్తచన్ద్రనిభాననా
అనన్తమహిమాఽఘోరాఽనన్తగమ్భీరసమ్మితా
అదృష్టాఽదృష్టదాఽనన్తాఽదృష్టభాగ్యఫలప్రదా
అరున్ధత్యవ్యయీనాథాఽనేకసద్గుణసంయుతా
అనేకభూషణాఽదృశ్యాఽనేకలేఖనిషేవితా
అనన్తాఽనన్తసుఖదాఽఘోరాఽఘోరస్వరూపిణీ
అశేషదేవతారూపాఽమృతరూపాఽమృతేశ్వరీ
అనవద్యాఽనేకహస్తాఽనేకమాణిక్యభూషణా
అనేకవిఘ్నసంహర్త్రీ హ్యనేకాభరణాన్వితా
అవిద్యాఽజ్ఞానసంహర్త్రీ హ్యవిద్యాజాలనాశినీ
అభిరూపాఽనవద్యాఙ్గీ హ్యప్రతర్క్యగతిప్రదా
అకలఙ్కారూపిణీ చ హ్యనుగ్రహపరాయణా
అమ్బరస్థాఽమ్బరమయాఽమ్బరమాలాఽమ్బుజేక్షణా
అమ్బికాఽబ్జకరాఽబ్జస్థాంఽశుమత్యంశుశతాన్వితా
అమ్బుజాఽనవరాఽఖణ్డాఽమ్బుజాసనమహాప్రియా
అజరామరసంసేవ్యాఽజరసేవితపద్యుగా
అతులార్థప్రదాఽర్థైక్యాఽత్యుదారా త్వభయాన్వితా
అనాథవత్సలాఽనన్తప్రియాఽనన్తేప్సితప్రదా
అమ్బుజాక్ష్యమ్బురూపాఽమ్బుజాతోద్భవమహాప్రియా
అఖణ్డా త్వమరస్తుత్యాఽమరనాయకపూజితా
అజేయా త్వజసఙ్కాశాఽజ్ఞాననాశిన్యభీష్టదా
అక్తాఽఘనేనా చాస్త్రేశీ హ్యలక్ష్మీనాశినీ తథా
అనన్తసారాఽనన్తశ్రీరనన్తవిధిపూజితా
అభీష్టాఽమర్త్యసమ్పూజ్యా హ్యస్తోదయవివర్జితా
ఆస్తికస్వాన్తనిలయాఽస్త్రరూపాఽస్త్రవతీ తథా
అస్ఖలత్యస్ఖలద్రూపాఽస్ఖలద్విద్యాప్రదాయినీ
అస్ఖలత్సిద్ధిదాఽఽనన్దాఽమ్బుజాతాఽమరనాయికా
అమేయాఽశేషపాపఘ్న్యక్షయసారస్వతప్రదా
జయా జయన్తీ జయదా జన్మకర్మవివర్జితా
జగత్ప్రియా జగన్మాతా జగదీశ్వరవల్లభా
జాతిర్జయా జితామిత్రా జప్యా జపనకారిణీ
జీవనీ జీవనిలయా జీవాఖ్యా జీవధారిణీ
జాహ్నవీ జ్యా జపవతీ జాతిరూపా జయప్రదా
జనార్దనప్రియకరీ జోషనీయా జగత్స్థితా
జగజ్జ్యేష్ఠా జగన్మాయా జీవనత్రాణకారిణీ
జీవాతులతికా జీవజన్మీ జన్మనిబర్హణీ
జాడ్యవిధ్వంసనకరీ జగద్యోనిర్జయాత్మికా
జగదానన్దజననీ జమ్బూశ్చ జలజేక్షణా
జయన్తీ జఙ్గపూగఘ్నీ జనితజ్ఞానవిగ్రహా
జటా జటావతీ జప్యా జపకర్తృప్రియఙ్కరీ
జపకృత్పాపసంహర్త్రీ జపకృత్ఫలదాయినీ
జపాపుష్పసమప్రఖ్యా జపాకుసుమధారిణీ
జననీ జన్మరహితా జ్యోతిర్వృత్యభిదాయినీ
జటాజూటనచన్ద్రార్ధా జగత్సృష్టికరీ తథా
జగత్త్రాణకరీ జాడ్యధ్వంసకర్త్రీ జయేశ్వరీ
జగద్బీజా జయావాసా జన్మభూర్జన్మనాశినీ
జన్మాన్త్యరహితా జైత్రీ జగద్యోనిర్జపాత్మికా
జయలక్షణసమ్పూర్ణా జయదానకృతోద్యమా
జమ్భరాద్యాదిసంస్తుత్యా జమ్భారిఫలదాయినీ
జగత్త్రయహితా జ్యేష్ఠా జగత్త్రయవశఙ్కరీ
జగత్త్రయామ్బా జగతీ జ్వాలా జ్వాలితలోచనా
జ్వాలినీ జ్వలనాభాసా జ్వలన్తీ జ్వలనాత్మికా
జితారాతిసురస్తుత్యా జితక్రోధా జితేన్ద్రియా
జరామరణశూన్యా చ జనిత్రీ జన్మనాశినీ
జలజాభా జలమయీ జలజాసనవల్లభా
జలజస్థా జపారాధ్యా జనమఙ్గలకారిణీ
కామినీ కామరూపా చ కామ్యా కామప్రదాయినీ
కమాలీ కామదా కర్త్రీ క్రతుకర్మఫలప్రదా
కృతఘ్నఘ్నీ క్రియారూపా కార్యకారణరూపిణీ
కఞ్జాక్షీ కరుణారూపా కేవలామరసేవితా
కల్యాణకారిణీ కాన్తా కాన్తిదా కాన్తిరూపిణీ
కమలా కమలావాసా కమలోత్పలమాలినీ
కుముద్వతీ చ కల్యాణీ కాన్తిః కామేశవల్లభా
కామేశ్వరీ కమలినీ కామదా కామబన్ధినీ
కామధేనుః కాఞ్చనాక్షీ కాఞ్చనాభా కలానిధిః
క్రియా కీర్తికరీ కీర్తిః క్రతుశ్రేష్ఠా కృతేశ్వరీ
క్రతుసర్వక్రియాస్తుత్యా క్రతుకృత్ప్రియకారిణీ
క్లేశనాశకరీ కర్త్రీ కర్మదా కర్మబన్ధినీ
కర్మబన్ధహరీ కృష్టా క్లమఘ్నీ కఞ్జలోచనా
కన్దర్పజననీ కాన్తా కరుణా కరుణావతీ
క్లీఙ్కారిణీ కృపాకారా కృపాసిన్ధుః కృపావతీ
కరుణార్ద్రా కీర్తికరీ కల్మషఘ్నీ క్రియాకరీ
క్రియాశక్తిః కామరూపా కమలోత్పలగన్ధినీ
కలా కలావతీ కూర్మీ కూటస్థా కఞ్జసంస్థితా
కాలికా కల్మషఘ్నీ చ కమనీయజటాన్వితా
కరపద్మా కరాభీష్టప్రదా క్రతుఫలప్రదా
కౌశికీ కోశదా కావ్యా కర్త్రీ కోశేశ్వరీ కృశా
కూర్మయానా కల్పలతా కాలకూటవినాశినీ
కల్పోద్యానవతీ కల్పవనస్థా కల్పకారిణీ
కదమ్బకుసుమాభాసా కదమ్బకుసుమప్రియా
కదమ్బోద్యానమధ్యస్థా కీర్తిదా కీర్తిభూషణా
కులమాతా కులావాసా కులాచారప్రియఙ్కరీ
కులానాథా కామకలా కలానాథా కలేశ్వరీ
కున్దమన్దారపుష్పాభా కపర్దస్థితచన్ద్రికా
కవిత్వదా కావ్యమాతా కవిమాతా కలాప్రదా
తరుణీ తరుణీతాతా తారాధిపసమాననా
తృప్తిస్తృప్తిప్రదా తర్క్యా తపనీ తాపినీ తథా
తర్పణీ తీర్థరూపా చ త్రిదశా త్రిదశేశ్వరీ
త్రిదివేశీ త్రిజననీ త్రిమాతా త్ర్యమ్బకేశ్వరీ
త్రిపురా త్రిపురేశానీ త్ర్యమ్బకా త్రిపురామ్బికా
త్రిపురశ్రీస్త్రయీరూపా త్రయీవేద్యా త్రయీశ్వరీ
త్రయ్యన్తవేదినీ తామ్రా తాపత్రితయహారిణీ
తమాలసదృశీ త్రాతా తరుణాదిత్యసన్నిభా
త్రైలోక్యవ్యాపినీ తృప్తా తృప్తికృత్తత్త్వరూపిణీ
తుర్యా త్రైలోక్యసంస్తుత్యా త్రిగుణా త్రిగుణేశ్వరీ
త్రిపురఘ్నీ త్రిమాతా చ త్ర్యమ్బకా త్రిగుణాన్వితా
తృష్ణాచ్ఛేదకరీ తృప్తా తీక్ష్ణా తీక్ష్ణస్వరూపిణీ
తులా తులాదిరహితా తత్తద్ బ్రహ్మస్వరూపిణీ
త్రాణకర్త్రీ త్రిపాపఘ్నీ త్రిపదా త్రిదశాన్వితా
తథ్యా త్రిశక్తిస్త్రిపదా తుర్యా త్రైలోక్యసున్దరీ
తేజస్కరీ త్రిమూర్త్యాద్యా తేజోరూపా త్రిధామతా
త్రిచక్రకర్త్రీ త్రిభగా తుర్యాతీతఫలప్రదా
తేజస్వినీ తాపహారీ తాపోపప్లవనాశినీ
తేజోగర్భా తపఃసారా త్రిపురారిప్రియఙ్కరీ
తన్వీ తాపససన్తుష్టా తపతాఙ్గజభీతినుత్
త్రిలోచనా త్రిమార్గా చ తృతీయా త్రిదశస్తుతా
త్రిసున్దరీ త్రిపథగా తురీయపదదాయినీ
శుభా శుభావతీ శాన్తా శాన్తిదా శుభదాయినీ
శీతలా శూలినీ శీతా శ్రీమతీ చ శుభాన్వితా
యోగసిద్ధిప్రదా యోగ్యా యజ్ఞేనపరిపూరితా
యజ్యా యజ్ఞమయీ యక్షీ యక్షిణీ యక్షివల్లభా
యజ్ఞప్రియా యజ్ఞపూజ్యా యజ్ఞతుష్టా యమస్తుతా
యామినీయప్రభా యామ్యా యజనీయా యశస్కరీ
యజ్ఞకర్త్రీ యజ్ఞరూపా యశోదా యజ్ఞసంస్తుతా
యజ్ఞేశీ యజ్ఞఫలదా యోగయోనిర్యజుస్తుతా
యమిసేవ్యా యమారాధ్యా యమిపూజ్యా యమీశ్వరీ
యోగినీ యోగరూపా చ యోగకర్తృప్రియఙ్కరీ
యోగయుక్తా యోగమయీ యోగయోగీశ్వరామ్బికా
యోగజ్ఞానమయీ యోనిర్యమాద్యష్టాఙ్గయోగతా
యన్త్రితాఘౌఘసంహారా యమలోకనివారిణీ
యష్టివ్యష్టీశసంస్తుత్యా యమాద్యష్టాఙ్గయోగయుక్
యోగీశ్వరీ యోగమాతా యోగసిద్ధా చ యోగదా
యోగారూఢా యోగమయీ యోగరూపా యవీయసీ
యన్త్రరూపా చ యన్త్రస్థా యన్త్రపూజ్యా చ యన్త్రితా
యుగకర్త్రీ యుగమయీ యుగధర్మవివర్జితా
యమునా యమినీ యామ్యా యమునాజలమధ్యగా
యాతాయాతప్రశమనీ యాతనానాన్నికృన్తనీ
యోగావాసా యోగివన్ద్యా యత్తచ్ఛబ్దస్వరూపిణీ
యోగక్షేమమయీ యన్త్రా యావదక్షరమాతృకా
యావత్పదమయీ యావచ్ఛబ్దరూపా యథేశ్వరీ
యత్తదీయా యక్షవన్ద్యా యద్విద్యా యతిసంస్తుతా
యావద్విద్యామయీ యావద్విద్యాబృన్దసువన్దితా
యోగిహృత్పద్మనిలయా యోగివర్యప్రియఙ్కరీ
యోగివన్ద్యా యోగిమాతా యోగీశఫలదాయినీ
యక్షవన్ద్యా యక్షపూజ్యా యక్షరాజసుపూజితా
యజ్ఞరూపా యజ్ఞతుష్టా యాయజూకస్వరూపిణీ
యన్త్రారాధ్యా యన్త్రమధ్యా యన్త్రకర్తృప్రియఙ్కరీ
యన్త్రారూఢా యన్త్రపూజ్యా యోగిధ్యానపరాయణా
యజనీయా యమస్తుత్యా యోగయుక్తా యశస్కరీ
యోగబద్ధా యతిస్తుత్యా యోగజ్ఞా యోగనాయకీ
యోగిజ్ఞానప్రదా యక్షీ యమబాధావినాశినీ
యోగికామ్యప్రదాత్రీ చ యోగిమోక్షప్రదాయినీ
ఫలశ్రుతిః
ఇతి నామ్నాం సరస్వత్యాః సహస్రం సముదీరితమ్
మన్త్రాత్మకం మహాగోప్యం మహాసారస్వతప్రదమ్
యః పఠేచ్ఛృణుయాద్భక్త్యా త్రికాలం సాధకః పుమాన్
సర్వవిద్యానిధిః సాక్షాత్ స ఏవ భవతి ధ్రువమ్
లభతే సమ్పదః సర్వాః పుత్రపౌత్రాదిసంయుతాః
మూకోఽపి సర్వవిద్యాసు చతుర్ముఖ ఇవాపరః
భూత్వా ప్రాప్నోతి సాన్నిధ్యమ్ అన్తే ధాతుర్మునీశ్వర
సర్వమన్త్రమయం సర్వవిద్యామానఫలప్రదమ్
మహాకవిత్వదం పుంసాం మహాసిద్ధిప్రదాయకమ్
కస్మైచిన్న ప్రదాతవ్యం ప్రాణైః కణ్ఠగతైరపి
మహారహస్యం సతతం వాణీనామసహస్రకమ్
సుసిద్ధమస్మదాదీనాం స్తోత్రం తే సముదీరితమ్
॥ఇతి శ్రీస్కాన్దపురాణాన్తర్గత-సనత్కుమార-సంహితాయాం నారద-సనత్కుమార-సంవాదే సరస్వతీ-సహస్రనామ-స్తోత్రం సమ్పూర్ణమ్॥
sarasvatī-sahasranāma-stotram
dhyānam
śrīmaccandanacarcitojjvalavapuḥ śuklāmbarā mallikā-
mālālālita-kuntalā pravilasanmuktāvalīśobhanā
sarvajñānanidhānapustakadharā rudrākṣamālāṅkitā
vāgdevī vadanāmbuje vasatu me trailokyamātā śubhā
śrī-nārada uvāca
bhagavan parameśāna sarvalokaikanāyaka
kathaṃ sarasvatī sākṣātprasannā parameṣṭhinaḥ
kathaṃ devyā mahāvāṇyāḥ satatprāpa sudurlabham
etanme vada tattvena mahāyogīśvaraprabho
śrī-sanatkumāra uvāca
sādhu pṛṣṭaṃ tvayā brahman guhyādguhyamanuttamam
bhayānugopitaṃ yatnādidānīṃ satprakāśyate
purā pitāmahaṃ dṛṣṭvā jagatsthāvarajaṅgamam
nirvikāraṃ nirābhāsaṃ stambhībhūtamacetasam
sṛṣṭvā trailokyamakhilaṃ vāgabhāvāttathāvidham
ādhikyābhāvataḥ svasya parameṣṭhī jagadguruḥ
divyavarṣāyutaṃ tena tapo duṣkaramuttamam
tataḥ kadācitsañjātā vāṇī sarvārthaśobhitā
ahamasmi mahāvidyā sarvavācāmadhīśvarī
mama nāmnāṃ sahasraṃ tu upadekṣyāmyanuttamam
anena saṃstutā nityaṃ patnī tava bhavāmyaham
tvayā sṛṣṭaṃ jagatsarvaṃ vāṇīyuktaṃ bhaviṣyati
idaṃ rahasyaṃ paramaṃ mama nāmasahasrakam
sarvapāpaughaśamanaṃ mahāsārasvatapradam
mahākavitvadaṃ loke vāgīśatvapradāyakam
tvaṃ vā paraḥ pumānyastu stavenānena toṣayet
tasyāhaṃ kiṅkarī sākṣādbhaviṣyāmi na saṃśayaḥ
ityuktvā'ntardadhe vāṇī tadārabhya pitāmahaḥ
stutvā stotreṇa divyena tatpatitvamavāptavān
vāṇīyuktaṃ jagatsarvaṃ tadārabhyābhavanmune
tattehaṃ sampravakṣyāmi śṛṇu yatnena nārada
sāvadhānamanā bhūtvā kṣaṇaṃ śuddho munīśvaraḥ
stotram
vāgvāṇī varadā vandyā varārohā varapradā
vṛttirvāgīśvarī vārtā varā vāgīśavallabhā
viśveśvarī viśvavandyā viśveśapriyakāriṇī
vāgvādinī ca vāgdevī vṛddhidā vṛddhikāriṇī
vṛddhirvṛddhā viṣaghnī ca vṛṣṭirvṛṣṭipradāyinī
viśvārādhyā viśvamātā viśvadhātrī vināyakā
viśvaśaktirviśvasārā viśvā viśvavibhāvarī
vedāntavedinī vedyā vittā vedatrayātmikā
vedajñā vedajananī viśvā viśvavibhāvarī
vareṇyā vāṅmayī vṛddhā viśiṣṭapriyakāriṇī
viśvatovadanā vyāptā vyāpinī vyāpakātmikā
vyālaghnī vyālabhūṣāṅgī virajā vedanāyikā
vedavedāntasaṃvedyā vedāntajñānarūpiṇī
vibhāvarī ca vikrāntā viśvāmitrā vidhipriyā
variṣṭhā viprakṛṣṭā ca vipravaryaprapūjitā
vedarūpā vedamayī vedamūrtiśca vallabhā
gaurī guṇavatī gopyā gandharvanagarapriyā
guṇamātā guhāntasthā gururūpā gurupriyā
girividyā gānatuṣṭā gāyakapriyakāriṇī
gāyatrī giriśārādhyā gīrgirīśapriyaṅkarī
girijñā jñānavidyā ca girirūpā girīśvarī
gīrmātā gaṇasaṃstutyā gaṇanīyaguṇānvitā
gūḍharūpā guhā gopyā gorūpā gaurguṇātmikā
gurvī gurvambikā guhyā geyajā grahanāśinī
gṛhiṇī gṛhadoṣaghnī gavaghnī guruvatsalā
gṛhātmikā gṛhārādhyā gṛhabādhāvināśinī
gaṅgā girisutā gamyā gajayānā guhastutā
garuḍāsanasaṃsevyā gomatī guṇaśālinī
śāradā śāśvatī śaivī śāṅkarī śaṅkarātmikā
śrīḥ śarvāṇī śataghnī ca śaraccandranibhānanā
śarmiṣṭhā śamanaghnī ca śatasāhasrarūpiṇī
śivā śambhupriyā śraddhā śrutirūpā śrutipriyā
śuciṣmatī śarmakarī śuddhidā śuddhirūpiṇī
śivā śivaṅkarī śuddhā śivārādhyā śivātmikā
śrīmatī śrīmayī śrāvyā śrutiḥ śravaṇagocarā
śāntiḥ śāntikarī śāntā śāntācārapriyaṅkarī
śīlalabhyā śīlavatī śrīmātā śubhakāriṇī
śubhavāṇī śuddhavidyā śuddhacittaprapūjitā
śrīkarī śrutapāpaghnī śubhākṣī śucivallabhā
śivetaraghnī śabarī śravaṇīyaguṇānvitā
śārī śirīṣapuṣpābhā śamaniṣṭhā śamātmikā
śamānvitā śamārādhyā śitikaṇṭhaprapūjitā
śuddhiḥ śuddhikarī śreṣṭhā śrutānantā śubhāvahā
sarasvatī ca sarvajñā sarvasiddhipradāyinī
sarasvatī ca sāvitrī sandhyā sarvepsitapradā
sarvārtighnī sarvamayī sarvavidyāpradāyinī
sarveśvarī sarvapuṇyā sargasthityantakāriṇī
sarvārādhyā sarvamātā sarvadevaniṣevitā
sarvaiśvaryapradā satyā satī satvaguṇāśrayā
svarakramapadākārā sarvadoṣaniṣūdinī
sahasrākṣī sahasrāsyā sahasrapadasaṃyutā
sahasrahastā sāhasraguṇālaṅkṛtavigrahā
sahasraśīrṣā sadrūpā svadhā svāhā sudhāmayī
ṣaḍgranthibhedinī sevyā sarvalokaikapūjitā
stutyā stutimayī sādhyā savitṛpriyakāriṇī
saṃśayacchedinī sāṅkhyavedyā saṅkhyā sadīśvarī
siddhidā siddhasampūjyā sarvasiddhipradāyinī
sarvajñā sarvaśaktiśca sarvasampatpradāyinī
sarvāśubhaghnī sukhadā sukhā saṃvitsvarūpiṇī
sarvasambhīṣaṇī sarvajagatsammohinī tathā
sarvapriyaṅkarī sarvaśubhadā sarvamaṅgalā
sarvamantramayī sarvatīrthapuṇyaphalapradā
sarvapuṇyamayī sarvavyādhighnī sarvakāmadā
sarvavighnaharī sarvavanditā sarvamaṅgalā
sarvamantrakarī sarvalakṣmīḥ sarvaguṇānvitā
sarvānandamayī sarvajñānadā satyanāyikā
sarvajñānamayī sarvarājyadā sarvamuktidā
suprabhā sarvadā sarvā sarvalokavaśaṅkarī
subhagā sundarī siddhā siddhāmbā siddhamātṛkā
siddhamātā siddhavidyā siddheśī siddharūpiṇī
surūpiṇī sukhamayī sevakapriyakāriṇī
svāminī sarvadā sevyā sthūlasūkṣmāparāmbikā
sārarūpā sarorūpā satyabhūtā samāśrayā
sitāsitā sarojākṣī sarojāsanavallabhā
saroruhābhā sarvāṅgī surendrādiprapūjitā
mahādevī maheśānī mahāsārasvatapradā
mahāsarasvatī muktā muktidā malanāśinī
maheśvarī mahānandā mahāmantramayī mahī
mahālakṣmīrmahāvidyā mātā mandaravāsinī
mantragamyā mantramātā mahāmantraphalapradā
mahāmuktirmahānityā mahāsiddhipradāyinī
mahāsiddhā mahāmātā mahadākārasaṃyutā
mahā maheśvarī mūrtirmokṣadā maṇibhūṣaṇā
menakā māninī mānyā mṛtyughnī merurūpiṇī
madirākṣī madāvāsā makharūpā makheśvarī
mahāmohā mahāmāyā mātṝṇāṃ~mūrdhnisaṃsthitā
mahāpuṇyā mudāvāsā mahāsampatpradāyinī
maṇipūraikanilayā madhurūpā mahotkaṭā
mahāsūkṣmā mahāśāntā mahāśāntipradāyinī
munistutā mohahantrī mādhavī mādhavapriyā
mā mahādevasaṃstutyā mahiṣīgaṇapūjitā
mṛṣṭānnadā ca māhendrī mahendrapadadāyinī
matirmatipradā medhā martyalokanivāsinī
mukhyā mahānivāsā ca mahābhāgyajanāśritā
mahilā mahimā mṛtyuhārī medhāpradāyinī
medhyā mahāvegavatī mahāmokṣaphalapradā
mahāprabhābhā mahatī mahādevapriyaṅkarī
mahāpoṣā maharddhiśca muktāhāravibhūṣaṇā
māṇikyabhūṣaṇā mantrā mukhyacandrārdhaśekharā
manorūpā manaḥśuddhirmanaḥśuddhipradāyinī
mahākāruṇyasampūrṇā manonamanavanditā
mahāpātakajālaghnī muktidā muktabhūṣaṇā
manonmanī mahāsthūlā mahākratuphalapradā
mahāpuṇyaphalaprāpyā māyātripuranāśinī
mahānasā mahāmedhā mahāmodā maheśvarī
mālādharī mahopāyā mahātīrthaphalapradā
mahāmaṅgalasampūrṇā mahādāridryanāśinī
mahāmakhā mahāmeghā mahākālī mahāpriyā
mahābhūṣā mahādehā mahārājñī mudālayā
bhūridā bhāgyadā bhogyā bhogyadā bhogadāyinī
bhavānī bhūtidā bhūtirbhūmirbhūmisunāyikā
bhūtadhātrī bhayaharī bhaktasārasvatapradā
bhuktirbhuktipradā bhekī bhaktirbhaktipradāyinī
bhaktasāyujyadā bhaktasvargadā bhaktarājyadā
bhāgīrathī bhavārādhyā bhāgyāsajjanapūjitā
bhavastutyā bhānumatī bhavasāgaratāraṇī
bhūtirbhūṣā ca bhūteśī bhālalocanapūjitā
bhūtā bhavyā bhaviṣyā ca bhavavidyā bhavātmikā
bādhāpahāriṇī bandhurūpā bhuvanapūjitā
bhavaghnī bhaktilabhyā ca bhaktarakṣaṇatatparā
bhaktārtiśamanī bhāgyā bhogadānakṛtodyamā
bhujaṅgabhūṣaṇā bhīmā bhīmākṣī bhīmarūpiṇī
bhāvinī bhrātṛrūpā ca bhāratī bhavanāyikā
bhāṣā bhāṣāvatī bhīṣmā bhairavī bhairavapriyā
bhūtirbhāsitasarvāṅgī bhūtidā bhūtināyikā
bhāsvatī bhagamālā ca bhikṣādānakṛtodyamā
bhikṣurūpā bhaktikarī bhaktalakṣmīpradāyinī
bhrāntighnā bhrāntirūpā ca bhūtidā bhūtikāriṇī
bhikṣaṇīyā bhikṣumātā bhāgyavaddṛṣṭigocarā
bhogavatī bhogarūpā bhogamokṣaphalapradā
bhogaśrāntā bhāgyavatī bhaktāghaughavināśinī
brāhmī brahmasvarūpā ca bṛhatī brahmavallabhā
brahmadā brahmamātā ca brahmāṇī brahmadāyinī
brahmeśī brahmasaṃstutyā brahmavedyā budhapriyā
bālenduśekharā bālā balipūjākarapriyā
baladā bindurūpā ca bālasūryasamaprabhā
brahmarūpā brahmamayī bradhnamaṇḍalamadhyagā
brahmāṇī buddhidā buddhirbuddhirūpā budheśvarī
bandhakṣayakarī bādhanāśanī bandhurūpiṇī
bindvālayā bindubhūṣā bindunādasamanvitā
bījarūpā bījamātā brahmaṇyā brahmakāriṇī
bahurūpā balavatī brahmajā brahmacāriṇī
brahmastutyā brahmavidyā brahmāṇḍādhipavallabhā
brahmeśaviṣṇurūpā ca brahmaviṣṇvīśasaṃsthitā
buddhirūpā budheśānī bandhī bandhavimocanī
akṣamālā'kṣarākārā'kṣarā'kṣaraphalapradā
anantā''nandasukhadā'nantacandranibhānanā
anantamahimā'ghorā'nantagambhīrasammitā
adṛṣṭā'dṛṣṭadā'nantā'dṛṣṭabhāgyaphalapradā
arundhatyavyayīnāthā'nekasadguṇasaṃyutā
anekabhūṣaṇā'dṛśyā'nekalekhaniṣevitā
anantā'nantasukhadā'ghorā'ghorasvarūpiṇī
aśeṣadevatārūpā'mṛtarūpā'mṛteśvarī
anavadyā'nekahastā'nekamāṇikyabhūṣaṇā
anekavighnasaṃhartrī hyanekābharaṇānvitā
avidyā'jñānasaṃhartrī hyavidyājālanāśinī
abhirūpā'navadyāṅgī hyapratarkyagatipradā
akalaṅkārūpiṇī ca hyanugrahaparāyaṇā
ambarasthā'mbaramayā'mbaramālā'mbujekṣaṇā
ambikā'bjakarā'bjasthāṃ'śumatyaṃśuśatānvitā
ambujā'navarā'khaṇḍā'mbujāsanamahāpriyā
ajarāmarasaṃsevyā'jarasevitapadyugā
atulārthapradā'rthaikyā'tyudārā tvabhayānvitā
anāthavatsalā'nantapriyā'nantepsitapradā
ambujākṣyamburūpā'mbujātodbhavamahāpriyā
akhaṇḍā tvamarastutyā'maranāyakapūjitā
ajeyā tvajasaṅkāśā'jñānanāśinyabhīṣṭadā
aktā'ghanenā cāstreśī hyalakṣmīnāśinī tathā
anantasārā'nantaśrīranantavidhipūjitā
abhīṣṭā'martyasampūjyā hyastodayavivarjitā
āstikasvāntanilayā'strarūpā'stravatī tathā
askhalatyaskhaladrūpā'skhaladvidyāpradāyinī
askhalatsiddhidā''nandā'mbujātā'maranāyikā
ameyā'śeṣapāpaghnyakṣayasārasvatapradā
jayā jayantī jayadā janmakarmavivarjitā
jagatpriyā jaganmātā jagadīśvaravallabhā
jātirjayā jitāmitrā japyā japanakāriṇī
jīvanī jīvanilayā jīvākhyā jīvadhāriṇī
jāhnavī jyā japavatī jātirūpā jayapradā
janārdanapriyakarī joṣanīyā jagatsthitā
jagajjyeṣṭhā jaganmāyā jīvanatrāṇakāriṇī
jīvātulatikā jīvajanmī janmanibarhaṇī
jāḍyavidhvaṃsanakarī jagadyonirjayātmikā
jagadānandajananī jambūśca jalajekṣaṇā
jayantī jaṅgapūgaghnī janitajñānavigrahā
jaṭā jaṭāvatī japyā japakartṛpriyaṅkarī
japakṛtpāpasaṃhartrī japakṛtphaladāyinī
japāpuṣpasamaprakhyā japākusumadhāriṇī
jananī janmarahitā jyotirvṛtyabhidāyinī
jaṭājūṭanacandrārdhā jagatsṛṣṭikarī tathā
jagattrāṇakarī jāḍyadhvaṃsakartrī jayeśvarī
jagadbījā jayāvāsā janmabhūrjanmanāśinī
janmāntyarahitā jaitrī jagadyonirjapātmikā
jayalakṣaṇasampūrṇā jayadānakṛtodyamā
jambharādyādisaṃstutyā jambhāriphaladāyinī
jagattrayahitā jyeṣṭhā jagattrayavaśaṅkarī
jagattrayāmbā jagatī jvālā jvālitalocanā
jvālinī jvalanābhāsā jvalantī jvalanātmikā
jitārātisurastutyā jitakrodhā jitendriyā
jarāmaraṇaśūnyā ca janitrī janmanāśinī
jalajābhā jalamayī jalajāsanavallabhā
jalajasthā japārādhyā janamaṅgalakāriṇī
kāminī kāmarūpā ca kāmyā kāmapradāyinī
kamālī kāmadā kartrī kratukarmaphalapradā
kṛtaghnaghnī kriyārūpā kāryakāraṇarūpiṇī
kañjākṣī karuṇārūpā kevalāmarasevitā
kalyāṇakāriṇī kāntā kāntidā kāntirūpiṇī
kamalā kamalāvāsā kamalotpalamālinī
kumudvatī ca kalyāṇī kāntiḥ kāmeśavallabhā
kāmeśvarī kamalinī kāmadā kāmabandhinī
kāmadhenuḥ kāñcanākṣī kāñcanābhā kalānidhiḥ
kriyā kīrtikarī kīrtiḥ kratuśreṣṭhā kṛteśvarī
kratusarvakriyāstutyā kratukṛtpriyakāriṇī
kleśanāśakarī kartrī karmadā karmabandhinī
karmabandhaharī kṛṣṭā klamaghnī kañjalocanā
kandarpajananī kāntā karuṇā karuṇāvatī
klīṅkāriṇī kṛpākārā kṛpāsindhuḥ kṛpāvatī
karuṇārdrā kīrtikarī kalmaṣaghnī kriyākarī
kriyāśaktiḥ kāmarūpā kamalotpalagandhinī
kalā kalāvatī kūrmī kūṭasthā kañjasaṃsthitā
kālikā kalmaṣaghnī ca kamanīyajaṭānvitā
karapadmā karābhīṣṭapradā kratuphalapradā
kauśikī kośadā kāvyā kartrī kośeśvarī kṛśā
kūrmayānā kalpalatā kālakūṭavināśinī
kalpodyānavatī kalpavanasthā kalpakāriṇī
kadambakusumābhāsā kadambakusumapriyā
kadambodyānamadhyasthā kīrtidā kīrtibhūṣaṇā
kulamātā kulāvāsā kulācārapriyaṅkarī
kulānāthā kāmakalā kalānāthā kaleśvarī
kundamandārapuṣpābhā kapardasthitacandrikā
kavitvadā kāvyamātā kavimātā kalāpradā
taruṇī taruṇītātā tārādhipasamānanā
tṛptistṛptipradā tarkyā tapanī tāpinī tathā
tarpaṇī tīrtharūpā ca tridaśā tridaśeśvarī
tridiveśī trijananī trimātā tryambakeśvarī
tripurā tripureśānī tryambakā tripurāmbikā
tripuraśrīstrayīrūpā trayīvedyā trayīśvarī
trayyantavedinī tāmrā tāpatritayahāriṇī
tamālasadṛśī trātā taruṇādityasannibhā
trailokyavyāpinī tṛptā tṛptikṛttattvarūpiṇī
turyā trailokyasaṃstutyā triguṇā triguṇeśvarī
tripuraghnī trimātā ca tryambakā triguṇānvitā
tṛṣṇācchedakarī tṛptā tīkṣṇā tīkṣṇasvarūpiṇī
tulā tulādirahitā tattad brahmasvarūpiṇī
trāṇakartrī tripāpaghnī tripadā tridaśānvitā
tathyā triśaktistripadā turyā trailokyasundarī
tejaskarī trimūrtyādyā tejorūpā tridhāmatā
tricakrakartrī tribhagā turyātītaphalapradā
tejasvinī tāpahārī tāpopaplavanāśinī
tejogarbhā tapaḥsārā tripurāripriyaṅkarī
tanvī tāpasasantuṣṭā tapatāṅgajabhītinut
trilocanā trimārgā ca tṛtīyā tridaśastutā
trisundarī tripathagā turīyapadadāyinī
śubhā śubhāvatī śāntā śāntidā śubhadāyinī
śītalā śūlinī śītā śrīmatī ca śubhānvitā
yogasiddhipradā yogyā yajñenaparipūritā
yajyā yajñamayī yakṣī yakṣiṇī yakṣivallabhā
yajñapriyā yajñapūjyā yajñatuṣṭā yamastutā
yāminīyaprabhā yāmyā yajanīyā yaśaskarī
yajñakartrī yajñarūpā yaśodā yajñasaṃstutā
yajñeśī yajñaphaladā yogayoniryajustutā
yamisevyā yamārādhyā yamipūjyā yamīśvarī
yoginī yogarūpā ca yogakartṛpriyaṅkarī
yogayuktā yogamayī yogayogīśvarāmbikā
yogajñānamayī yoniryamādyaṣṭāṅgayogatā
yantritāghaughasaṃhārā yamalokanivāriṇī
yaṣṭivyaṣṭīśasaṃstutyā yamādyaṣṭāṅgayogayuk
yogīśvarī yogamātā yogasiddhā ca yogadā
yogārūḍhā yogamayī yogarūpā yavīyasī
yantrarūpā ca yantrasthā yantrapūjyā ca yantritā
yugakartrī yugamayī yugadharmavivarjitā
yamunā yaminī yāmyā yamunājalamadhyagā
yātāyātapraśamanī yātanānānnikṛntanī
yogāvāsā yogivandyā yattacchabdasvarūpiṇī
yogakṣemamayī yantrā yāvadakṣaramātṛkā
yāvatpadamayī yāvacchabdarūpā yatheśvarī
yattadīyā yakṣavandyā yadvidyā yatisaṃstutā
yāvadvidyāmayī yāvadvidyābṛndasuvanditā
yogihṛtpadmanilayā yogivaryapriyaṅkarī
yogivandyā yogimātā yogīśaphaladāyinī
yakṣavandyā yakṣapūjyā yakṣarājasupūjitā
yajñarūpā yajñatuṣṭā yāyajūkasvarūpiṇī
yantrārādhyā yantramadhyā yantrakartṛpriyaṅkarī
yantrārūḍhā yantrapūjyā yogidhyānaparāyaṇā
yajanīyā yamastutyā yogayuktā yaśaskarī
yogabaddhā yatistutyā yogajñā yoganāyakī
yogijñānapradā yakṣī yamabādhāvināśinī
yogikāmyapradātrī ca yogimokṣapradāyinī
phalaśrutiḥ
iti nāmnāṃ sarasvatyāḥ sahasraṃ samudīritam
mantrātmakaṃ mahāgopyaṃ mahāsārasvatapradam
yaḥ paṭhecchṛṇuyādbhaktyā trikālaṃ sādhakaḥ pumān
sarvavidyānidhiḥ sākṣāt sa eva bhavati dhruvam
labhate sampadaḥ sarvāḥ putrapautrādisaṃyutāḥ
mūko'pi sarvavidyāsu caturmukha ivāparaḥ
bhūtvā prāpnoti sānnidhyam ante dhāturmunīśvara
sarvamantramayaṃ sarvavidyāmānaphalapradam
mahākavitvadaṃ puṃsāṃ mahāsiddhipradāyakam
kasmaicinna pradātavyaṃ prāṇaiḥ kaṇṭhagatairapi
mahārahasyaṃ satataṃ vāṇīnāmasahasrakam
susiddhamasmadādīnāṃ stotraṃ te samudīritam
||iti śrīskāndapurāṇāntargata-sanatkumāra-saṃhitāyāṃ nārada-sanatkumāra-saṃvāde sarasvatī-sahasranāma-stotraṃ sampūrṇam||