सौन्दर्यलहरी
आनन्दलहरी
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम्
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम्
अविद्यानामन्तस्तिमिर-मिहिरद्वीपनगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटितवराभीत्यभिनया
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरुदायोधनरथः
तथाऽप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः
क्षितौ षट्पञ्चाशद्-द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमुकुटां
वरत्रासत्राणस्फटिकघुटिकापुस्तककराम्
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः कणितयः
कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्योहरमहिषि ते मन्मथकलाम्
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाऽऽधारसिरया
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम्
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम्
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम्
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम्
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत्
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमुकुटम्
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः
तवाऽऽज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन् मुकुलितकरोत्तंसमकुटाः
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम्
वितन्द्री माहेन्द्री विततिरपि सम्मीलित-दृशां
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम्
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते
स्वदेहोद्भूताभिर्घृणिभिरणिमाऽऽद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम्
चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत् तत् सिद्धिप्रसवपरतन्त्रैः पशुपतिः
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम्
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः
निधायैके नित्ये निरवधिमहाभोगरसिकाः
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः
शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवाऽऽत्मानं मन्ये भगवति नवात्मानमनघम्
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः सम्बन्धो वां समरसपरानन्दपरयोः
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे
तवाऽऽज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभवने
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम्
ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम्
यदालापादष्टादशगुणितविद्यापरिणतिः
यदादत्ते दोषाद्-गुणमखिलमद्भ्यः पय इव
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम्
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्
तवाऽऽधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम्
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्
\\
सौन्दर्यलहरी
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरम्बं तव शिवे
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम्
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी
परीवाहस्रोतःसरणिरिव सीमन्तसरणिः
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः
ललाटं लावण्यद्युतिविमलमाभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्
विपर्यासन्यासादुभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः
भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे
अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुरा भोगवतिका
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते
कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ
असूयासंसर्गादलिकनयनं किञ्चिदरुणम्
शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम्
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः
तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम्
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्
यमारुह्य द्रुह्यत्यवनिरथम् अर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम्
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्
वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं
समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः
प्रकृत्याऽऽरक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता
न बिम्बं त्वद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया
अविश्रान्तं पत्युर्गुणगणकथाऽऽम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिः
निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः
विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयाऽऽरब्धे वक्तुं चलितशिरसा साधुवचने
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम्
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चुबुकमौपम्यरहितम्
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम्
स्वतः श्वेता कालागरुबहुलजम्बालमलिना
मृणालीलालित्यम् वहति यदधो हारलतिका
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते
मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः
नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपोः
चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया
नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम्
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्
यदालोक्याशङ्काऽऽकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न सन्देहस्पन्दो नगपतिपताके मनसि नः
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम्
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता
हरक्रोधज्वालाऽऽवलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति
यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्जननि तव तद्भाति सुधियाम्
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता
निजावालं कुण्डं कुसुमशरतेजोहुतभुजः
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये
कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च
करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीम्
उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत
यदग्रे दृश्यन्ते दश शरफलाः पादयुगली
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः
नमोवाकं ब्रूमो नयनरमणीयाय पदयोः
तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणां निशि चरमभागे च विशदौ
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा
नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशीम्
अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः षट्चरणताम्
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते
गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम्
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः
कलत्रं वैधात्रं कति कति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम्
तुरीया काऽपि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम्
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा॥
समानीतः पद्भ्यां मणिमुकुरतामम्बरमणिः
भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः
दधाति त्वद्वक्त्रप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव
समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं
कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः
हरस्य त्वद्भ्रान्तिं मनसि जनयन्तः समयिनो
भवत्या ये भक्ताः परिणतिरमीषामियमुमे
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
निराघाटज्ञाने नियमपरचित्तैकनिलये
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतपदे
निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम्
సౌన్దర్యలహరీ
ఆనన్దలహరీ
శివః శక్త్యా యుక్తో యది భవతి శక్తః ప్రభవితుం
న చేదేవం దేవో న ఖలు కుశలః స్పన్దితుమపి
అతస్త్వామారాధ్యాం హరిహరవిరిఞ్చాదిభిరపి
ప్రణన్తుం స్తోతుం వా కథమకృతపుణ్యః ప్రభవతి
తనీయాంసం పాంసుం తవ చరణపఙ్కేరుహభవం
విరిఞ్చిః సఞ్చిన్వన్ విరచయతి లోకానవికలమ్
వహత్యేనం శౌరిః కథమపి సహస్రేణ శిరసాం
హరః సఙ్క్షుద్యైనం భజతి భసితోద్ధూలనవిధిమ్
అవిద్యానామన్తస్తిమిర-మిహిరద్వీపనగరీ
జడానాం చైతన్య-స్తబక-మకరన్ద-స్రుతిఝరీ
దరిద్రాణాం చిన్తామణిగుణనికా జన్మజలధౌ
నిమగ్నానాం దంష్ట్రా మురరిపు-వరాహస్య భవతీ
త్వదన్యః పాణిభ్యామభయవరదో దైవతగణః
త్వమేకా నైవాసి ప్రకటితవరాభీత్యభినయా
భయాత్ త్రాతుం దాతుం ఫలమపి చ వాఞ్ఛాసమధికం
శరణ్యే లోకానాం తవ హి చరణావేవ నిపుణౌ
హరిస్త్వామారాధ్య ప్రణతజనసౌభాగ్యజననీం
పురా నారీ భూత్వా పురరిపుమపి క్షోభమనయత్
స్మరోఽపి త్వాం నత్వా రతినయనలేహ్యేన వపుషా
మునీనామప్యన్తః ప్రభవతి హి మోహాయ మహతామ్
ధనుః పౌష్పం మౌర్వీ మధుకరమయీ పఞ్చ విశిఖాః
వసన్తః సామన్తో మలయమరుదాయోధనరథః
తథాఽప్యేకః సర్వం హిమగిరిసుతే కామపి కృపామ్
అపాఙ్గాత్తే లబ్ధ్వా జగదిదమనఙ్గో విజయతే
క్వణత్కాఞ్చీదామా కరికలభకుమ్భస్తననతా
పరిక్షీణా మధ్యే పరిణతశరచ్చన్ద్రవదనా
ధనుర్బాణాన్ పాశం సృణిమపి దధానా కరతలైః
పురస్తాదాస్తాం నః పురమథితురాహోపురుషికా
సుధాసిన్ధోర్మధ్యే సురవిటపివాటీపరివృతే
మణిద్వీపే నీపోపవనవతి చిన్తామణిగృహే
శివాకారే మఞ్చే పరమశివపర్యఙ్కనిలయాం
భజన్తి త్వాం ధన్యాః కతిచన చిదానన్దలహరీమ్
మహీం మూలాధారే కమపి మణిపూరే హుతవహం
స్థితం స్వాధిష్ఠానే హృది మరుతమాకాశముపరి
మనోఽపి భ్రూమధ్యే సకలమపి భిత్వా కులపథం
సహస్రారే పద్మే సహ రహసి పత్యా విహరసే
సుధాధారాసారైశ్చరణయుగలాన్తర్విగలితైః
ప్రపఞ్చం సిఞ్చన్తీ పునరపి రసామ్నాయమహసః
అవాప్య స్వాం భూమిం భుజగనిభమధ్యుష్టవలయం
స్వమాత్మానం కృత్వా స్వపిషి కులకుణ్డే కుహరిణి
చతుర్భిః శ్రీకణ్ఠైః శివయువతిభిః పఞ్చభిరపి
ప్రభిన్నాభిః శమ్భోర్నవభిరపి మూలప్రకృతిభిః
చతుశ్చత్వారింశద్వసుదలకలాశ్రత్రివలయ
త్రిరేఖాభిః సార్ధం తవ శరణకోణాః పరిణతాః
త్వదీయం సౌన్దర్యం తుహినగిరికన్యే తులయితుం
కవీన్ద్రాః కల్పన్తే కథమపి విరిఞ్చిప్రభృతయః
యదాలోకౌత్సుక్యాదమరలలనా యాన్తి మనసా
తపోభిర్దుష్ప్రాపామపి గిరిశసాయుజ్యపదవీమ్
నరం వర్షీయాంసం నయనవిరసం నర్మసు జడం
తవాపాఙ్గాలోకే పతితమనుధావన్తి శతశః
గలద్వేణీబన్ధాః కుచకలశవిస్రస్తసిచయా
హఠాత్ త్రుట్యత్కాఞ్చ్యో విగలితదుకూలా యువతయః
క్షితౌ షట్పఞ్చాశద్-ద్విసమధికపఞ్చాశదుదకే
హుతాశే ద్వాషష్టిశ్చతురధికపఞ్చాశదనిలే
దివి ద్విష్షట్త్రింశన్మనసి చ చతుష్షష్టిరితి యే
మయూఖాస్తేషామప్యుపరి తవ పాదామ్బుజయుగమ్
శరజ్జ్యోత్స్నాశుద్ధాం శశియుతజటాజూటముకుటాం
వరత్రాసత్రాణస్ఫటికఘుటికాపుస్తకకరామ్
సకృన్న త్వా నత్వా కథమివ సతాం సన్నిదధతే
మధుక్షీరద్రాక్షామధురిమధురీణాః కణితయః
కవీన్ద్రాణాం చేతఃకమలవనబాలాతపరుచిం
భజన్తే యే సన్తః కతిచిదరుణామేవ భవతీమ్
విరిఞ్చిప్రేయస్యాస్తరుణతరశృఙ్గారలహరీ
గభీరాభిర్వాగ్భిర్విదధతి సతాం రఞ్జనమమీ
సవిత్రీభిర్వాచాం శశిమణిశిలాభఙ్గరుచిభిః
వశిన్యాద్యాభిస్త్వాం సహ జనని సఞ్చిన్తయతి యః
స కర్తా కావ్యానాం భవతి మహతాం భఙ్గిరుచిభిః
వచోభిర్వాగ్దేవీవదనకమలామోదమధురైః
తనుచ్ఛాయాభిస్తే తరుణతరణిశ్రీసరణిభిః
దివం సర్వాముర్వీమరుణిమనిమగ్నాం స్మరతి యః
భవన్త్యస్య త్రస్యద్వనహరిణశాలీననయనాః
సహోర్వశ్యా వశ్యాః కతి కతి న గీర్వాణగణికాః
ముఖం బిన్దుం కృత్వా కుచయుగమధస్తస్య తదధో
హరార్ధం ధ్యాయేద్యోహరమహిషి తే మన్మథకలామ్
స సద్యః సఙ్క్షోభం నయతి వనితా ఇత్యతిలఘు
త్రిలోకీమప్యాశు భ్రమయతి రవీన్దుస్తనయుగామ్
కిరన్తీమఙ్గేభ్యః కిరణనికురుమ్బామృతరసం
హృది త్వామాధత్తే హిమకరశిలామూర్తిమివ యః
స సర్పాణాం దర్పం శమయతి శకున్తాధిప ఇవ
జ్వరప్లుష్టాన్ దృష్ట్యా సుఖయతి సుధాఽఽధారసిరయా
తటిల్లేఖాతన్వీం తపనశశివైశ్వానరమయీం
నిషణ్ణాం షణ్ణామప్యుపరి కమలానాం తవ కలామ్
మహాపద్మాటవ్యాం మృదితమలమాయేన మనసా
మహాన్తః పశ్యన్తో దధతి పరమాహ్లాదలహరీమ్
భవాని త్వం దాసే మయి వితర దృష్టిం సకరుణామ్
ఇతి స్తోతుం వాఞ్ఛన్ కథయతి భవాని త్వమితి యః
తదైవ త్వం తస్మై దిశసి నిజసాయుజ్యపదవీం
ముకున్దబ్రహ్మేన్ద్రస్ఫుటముకుటనీరాజితపదామ్
త్వయా హృత్వా వామం వపురపరితృప్తేన మనసా
శరీరార్ధం శమ్భోరపరమపి శఙ్కే హృతమభూత్
యదేతత్త్వద్రూపం సకలమరుణాభం త్రినయనం
కుచాభ్యామానమ్రం కుటిలశశిచూడాలముకుటమ్
జగత్సూతే ధాతా హరిరవతి రుద్రః క్షపయతే
తిరస్కుర్వన్నేతత్స్వమపి వపురీశస్తిరయతి
సదాపూర్వః సర్వం తదిదమనుగృహ్ణాతి చ శివః
తవాఽఽజ్ఞామాలమ్బ్య క్షణచలితయోర్భ్రూలతికయోః
త్రయాణాం దేవానాం త్రిగుణజనితానాం తవ శివే
భవేత్ పూజా పూజా తవ చరణయోర్యా విరచితా
తథా హి త్వత్పాదోద్వహనమణిపీఠస్య నికటే
స్థితా హ్యేతే శశ్వన్ ముకులితకరోత్తంసమకుటాః
విరిఞ్చిః పఞ్చత్వం వ్రజతి హరిరాప్నోతి విరతిం
వినాశం కీనాశో భజతి ధనదో యాతి నిధనమ్
వితన్ద్రీ మాహేన్ద్రీ వితతిరపి సమ్మీలిత-దృశాం
మహాసంహారేఽస్మిన్ విహరతి సతి త్వత్పతిరసౌ
జపో జల్పః శిల్పం సకలమపి ముద్రావిరచనా
గతిః ప్రాదక్షిణ్యక్రమణమశనాద్యాహుతివిధిః
ప్రణామః సంవేశః సుఖమఖిలమాత్మార్పణదృశా
సపర్యాపర్యాయస్తవ భవతు యన్మే విలసితమ్
సుధామప్యాస్వాద్య ప్రతిభయజరామృత్యుహరిణీం
విపద్యన్తే విశ్వే విధిశతమఖాద్యా దివిషదః
కరాలం యత్క్ష్వేలం కబలితవతః కాలకలనా
న శమ్భోస్తన్మూలం తవ జనని తాటఙ్కమహిమా
కిరీటం వైరిఞ్చం పరిహర పురః కైటభభిదః
కఠోరే కోటీరే స్ఖలసి జహి జమ్భారిమకుటమ్
ప్రణమ్రేష్వేతేషు ప్రసభముపయాతస్య భవనం
భవస్యాభ్యుత్థానే తవ పరిజనోక్తిర్విజయతే
స్వదేహోద్భూతాభిర్ఘృణిభిరణిమాఽఽద్యాభిరభితో
నిషేవ్యే నిత్యే త్వామహమితి సదా భావయతి యః
కిమాశ్చర్యం తస్య త్రినయనసమృద్ధిం తృణయతో
మహాసంవర్తాగ్నిర్విరచయతి నీరాజనవిధిమ్
చతుష్షష్ట్యా తన్త్రైః సకలమతిసన్ధాయ భువనం
స్థితస్తత్ తత్ సిద్ధిప్రసవపరతన్త్రైః పశుపతిః
పునస్త్వన్నిర్బన్ధాదఖిలపురుషార్థైకఘటనా
స్వతన్త్రం తే తన్త్రం క్షితితలమవాతీతరదిదమ్
శివః శక్తిః కామః క్షితిరథ రవిః శీతకిరణః
స్మరో హంసః శక్రస్తదను చ పరామారహరయః
అమీ హృల్లేఖాభిస్తిసృభిరవసానేషు ఘటితా
భజన్తే వర్ణాస్తే తవ జనని నామావయవతామ్
స్మరం యోనిం లక్ష్మీం త్రితయమిదమాదౌ తవ మనోః
నిధాయైకే నిత్యే నిరవధిమహాభోగరసికాః
భజన్తి త్వాం చిన్తామణిగుణనిబద్ధాక్షవలయాః
శివాఽగ్నౌ జుహ్వన్తః సురభిఘృతధారాఽఽహుతిశతైః
శరీరం త్వం శమ్భోః శశిమిహిరవక్షోరుహయుగం
తవాఽఽత్మానం మన్యే భగవతి నవాత్మానమనఘమ్
అతః శేషః శేషీత్యయముభయసాధారణతయా
స్థితః సమ్బన్ధో వాం సమరసపరానన్దపరయోః
మనస్త్వం వ్యోమ త్వం మరుదసి మరుత్సారథిరసి
త్వమాపస్త్వం భూమిస్త్వయి పరిణతాయాం న హి పరమ్
త్వమేవ స్వాత్మానం పరిణమయితుం విశ్వవపుషా
చిదానన్దాకారం శివయువతి భావేన బిభృషే
తవాఽఽజ్ఞాచక్రస్థం తపనశశికోటిద్యుతిధరం
పరం శమ్భుం వన్దే పరిమిలితపార్శ్వం పరచితా
యమారాధ్యన్ భక్త్యా రవిశశిశుచీనామవిషయే
నిరాలోకేఽలోకే నివసతి హి భాలోకభవనే
విశుద్ధౌ తే శుద్ధస్ఫటికవిశదం వ్యోమజనకం
శివం సేవే దేవీమపి శివసమానవ్యవసితామ్
యయోః కాన్త్యా యాన్త్యా శశికిరణసారూప్యసరణిం
విధూతాన్తర్ధ్వాన్తా విలసతి చకోరీవ జగతీ
సమున్మీలత్ సంవిత్ కమలమకరన్దైకరసికం
భజే హంసద్వన్ద్వం కిమపి మహతాం మానసచరమ్
యదాలాపాదష్టాదశగుణితవిద్యాపరిణతిః
యదాదత్తే దోషాద్-గుణమఖిలమద్భ్యః పయ ఇవ
తవ స్వాధిష్ఠానే హుతవహమధిష్ఠాయ నిరతం
తమీడే సంవర్తం జనని మహతీం తాం చ సమయామ్
యదాలోకే లోకాన్ దహతి మహతి క్రోధకలితే
దయార్ద్రా యద్దృష్టిః శిశిరముపచారం రచయతి
తటిత్త్వన్తం శక్త్యా తిమిరపరిపన్థిస్ఫురణయా
స్ఫురన్నానారత్నాభరణపరిణద్ధేన్ద్రధనుషమ్
తవ శ్యామం మేఘం కమపి మణిపూరైకశరణం
నిషేవే వర్షన్తం హరమిహిరతప్తం త్రిభువనమ్
తవాఽఽధారే మూలే సహ సమయయా లాస్యపరయా
నవాత్మానం మన్యే నవరసమహాతాణ్డవనటమ్
ఉభాభ్యామేతాభ్యాముదయవిధిముద్దిశ్య దయయా
సనాథాభ్యాం జజ్ఞే జనకజననీమజ్జగదిదమ్
\\
సౌన్దర్యలహరీ
గతైర్మాణిక్యత్వం గగనమణిభిః సాన్ద్రఘటితం
కిరీటం తే హైమం హిమగిరిసుతే కీర్తయతి యః
స నీడేయచ్ఛాయాచ్ఛురణశబలం చన్ద్రశకలం
ధనుః శౌనాసీరం కిమితి న నిబధ్నాతి ధిషణామ్
ధునోతు ధ్వాన్తం నస్తులితదలితేన్దీవరవనం
ఘనస్నిగ్ధశ్లక్ష్ణం చికురనికురమ్బం తవ శివే
యదీయం సౌరభ్యం సహజముపలబ్ధుం సుమనసో
వసన్త్యస్మిన్ మన్యే వలమథనవాటీవిటపినామ్
తనోతు క్షేమం నస్తవ వదనసౌన్దర్యలహరీ
పరీవాహస్రోతఃసరణిరివ సీమన్తసరణిః
వహన్తీ సిన్దూరం ప్రబలకబరీభారతిమిర
ద్విషాం బృన్దైర్బన్దీకృతమివ నవీనార్కకిరణమ్
అరాలైః స్వాభావ్యాదలికలభసశ్రీభిరలకైః
పరీతం తే వక్త్రం పరిహసతి పఙ్కేరుహరుచిమ్
దరస్మేరే యస్మిన్ దశనరుచికిఞ్జల్కరుచిరే
సుగన్ధౌ మాద్యన్తి స్మరదహనచక్షుర్మధులిహః
లలాటం లావణ్యద్యుతివిమలమాభాతి తవ యత్
ద్వితీయం తన్మన్యే మకుటఘటితం చన్ద్రశకలమ్
విపర్యాసన్యాసాదుభయమపి సమ్భూయ చ మిథః
సుధాలేపస్యూతిః పరిణమతి రాకాహిమకరః
భ్రువౌ భుగ్నే కిఞ్చిద్భువనభయభఙ్గవ్యసనిని
త్వదీయే నేత్రాభ్యాం మధుకరరుచిభ్యాం ధృతగుణమ్
ధనుర్మన్యే సవ్యేతరకరగృహీతం రతిపతేః
ప్రకోష్ఠే ముష్టౌ చ స్థగయతి నిగూఢాన్తరముమే
అహః సూతే సవ్యం తవ నయనమర్కాత్మకతయా
త్రియామాం వామం తే సృజతి రజనీనాయకతయా
తృతీయా తే దృష్టిర్దరదలితహేమామ్బుజరుచిః
సమాధత్తే సన్ధ్యాం దివసనిశయోరన్తరచరీమ్
విశాలా కల్యాణీ స్ఫుటరుచిరయోధ్యా కువలయైః
కృపాధారాధారా కిమపి మధురా భోగవతికా
అవన్తీ దృష్టిస్తే బహునగరవిస్తారవిజయా
ధ్రువం తత్తన్నామవ్యవహరణయోగ్యా విజయతే
కవీనాం సన్దర్భస్తబకమకరన్దైకరసికం
కటాక్షవ్యాక్షేపభ్రమరకలభౌ కర్ణయుగలమ్
అముఞ్చన్తౌ దృష్ట్వా తవ నవరసాస్వాదతరలౌ
అసూయాసంసర్గాదలికనయనం కిఞ్చిదరుణమ్
శివే శృఙ్గారార్ద్రా తదితరజనే కుత్సనపరా
సరోషా గఙ్గాయాం గిరిశచరితే విస్మయవతీ
హరాహిభ్యో భీతా సరసిరుహసౌభాగ్యజననీ
సఖీషు స్మేరా తే మయి జనని దృష్టిః సకరుణా
గతే కర్ణాభ్యర్ణం గరుత ఇవ పక్ష్మాణి దధతీ
పురాం భేత్తుశ్చిత్తప్రశమరసవిద్రావణఫలే
ఇమే నేత్రే గోత్రాధరపతికులోత్తంసకలికే
తవాకర్ణాకృష్టస్మరశరవిలాసం కలయతః
విభక్తత్రైవర్ణ్యం వ్యతికరితలీలాఞ్జనతయా
విభాతి త్వన్నేత్రత్రితయమిదమీశానదయితే
పునః స్రష్టుం దేవాన్ ద్రుహిణహరిరుద్రానుపరతాన్
రజః సత్త్వం బిభ్రత్ తమ ఇతి గుణానాం త్రయమివ
పవిత్రీకర్తుం నః పశుపతిపరాధీనహృదయే
దయామిత్రైర్నేత్రైరరుణధవలశ్యామరుచిభిః
నదః శోణో గఙ్గా తపనతనయేతి ధ్రువమముం
త్రయాణాం తీర్థానాముపనయసి సమ్భేదమనఘమ్
నిమేషోన్మేషాభ్యాం ప్రలయముదయం యాతి జగతీ
తవేత్యాహుః సన్తో ధరణిధరరాజన్యతనయే
త్వదున్మేషాజ్జాతం జగదిదమశేషం ప్రలయతః
పరిత్రాతుం శఙ్కే పరిహృతనిమేషాస్తవ దృశః
తవాపర్ణే కర్ణేజపనయనపైశున్యచకితా
నిలీయన్తే తోయే నియతమనిమేషాః శఫరికాః
ఇయం చ శ్రీర్బద్ధచ్ఛదపుటకవాటం కువలయం
జహాతి ప్రత్యూషే నిశి చ విఘటయ్య ప్రవిశతి
దృశా ద్రాఘీయస్యా దరదలితనీలోత్పలరుచా
దవీయాంసం దీనం స్నపయ కృపయా మామపి శివే
అనేనాయం ధన్యో భవతి న చ తే హానిరియతా
వనే వా హర్మ్యే వా సమకరనిపాతో హిమకరః
అరాలం తే పాలీయుగలమగరాజన్యతనయే
న కేషామాధత్తే కుసుమశరకోదణ్డకుతుకమ్
తిరశ్చీనో యత్ర శ్రవణపథముల్లఙ్ఘ్య విలసన్
అపాఙ్గవ్యాసఙ్గో దిశతి శరసన్ధానధిషణామ్
స్ఫురద్గణ్డాభోగప్రతిఫలితతాటఙ్కయుగలం
చతుశ్చక్రం మన్యే తవ ముఖమిదం మన్మథరథమ్
యమారుహ్య ద్రుహ్యత్యవనిరథమ్ అర్కేన్దుచరణం
మహావీరో మారః ప్రమథపతయే సజ్జితవతే
సరస్వత్యాః సూక్తీరమృతలహరీకౌశలహరీః
పిబన్త్యాః శర్వాణి శ్రవణచులుకాభ్యామవిరలమ్
చమత్కారశ్లాఘాచలితశిరసః కుణ్డలగణో
ఝణత్కారైస్తారైః ప్రతివచనమాచష్ట ఇవ తే
అసౌ నాసావంశస్తుహినగిరివంశధ్వజపటి
త్వదీయో నేదీయః ఫలతు ఫలమస్మాకముచితమ్
వహత్యన్తర్ముక్తాః శిశిరకరనిశ్వాసగలితం
సమృద్ధ్యా యస్తాసాం బహిరపి చ ముక్తామణిధరః
ప్రకృత్యాఽఽరక్తాయాస్తవ సుదతి దన్తచ్ఛదరుచేః
ప్రవక్ష్యే సాదృశ్యం జనయతు ఫలం విద్రుమలతా
న బిమ్బం త్వద్బిమ్బప్రతిఫలనరాగాదరుణితం
తులామధ్యారోఢుం కథమివ విలజ్జేత కలయా
స్మితజ్యోత్స్నాజాలం తవ వదనచన్ద్రస్య పిబతాం
చకోరాణామాసీదతిరసతయా చఞ్చుజడిమా
అతస్తే శీతాంశోరమృతలహరీమామ్లరుచయః
పిబన్తి స్వచ్ఛన్దం నిశి నిశి భృశం కాఞ్జికధియా
అవిశ్రాన్తం పత్యుర్గుణగణకథాఽఽమ్రేడనజపా
జపాపుష్పచ్ఛాయా తవ జనని జిహ్వా జయతి సా
యదగ్రాసీనాయాః స్ఫటికదృషదచ్ఛచ్ఛవిమయీ
సరస్వత్యా మూర్తిః పరిణమతి మాణిక్యవపుషా
రణే జిత్వా దైత్యానపహృతశిరస్త్రైః కవచిభిః
నివృత్తైశ్చణ్డాంశత్రిపురహరనిర్మాల్యవిముఖైః
విశాఖేన్ద్రోపేన్ద్రైః శశివిశదకర్పూరశకలా
విలీయన్తే మాతస్తవ వదనతామ్బూలకబలాః
విపఞ్చ్యా గాయన్తీ వివిధమపదానం పశుపతేః
త్వయాఽఽరబ్ధే వక్తుం చలితశిరసా సాధువచనే
తదీయైర్మాధుర్యైరపలపితతన్త్రీకలరవాం
నిజాం వీణాం వాణీ నిచులయతి చోలేన నిభృతమ్
కరాగ్రేణ స్పృష్టం తుహినగిరిణా వత్సలతయా
గిరీశేనోదస్తం ముహురధరపానాకులతయా
కరగ్రాహ్యం శమ్భోర్ముఖముకురవృన్తం గిరిసుతే
కథఙ్కారం బ్రూమస్తవ చుబుకమౌపమ్యరహితమ్
భుజాశ్లేషాన్ నిత్యం పురదమయితుః కణ్టకవతీ
తవ గ్రీవా ధత్తే ముఖకమలనాలశ్రియమియమ్
స్వతః శ్వేతా కాలాగరుబహులజమ్బాలమలినా
మృణాలీలాలిత్యమ్ వహతి యదధో హారలతికా
గలే రేఖాస్తిస్రో గతిగమకగీతైకనిపుణే
వివాహవ్యానద్ధప్రగుణగుణసఙ్ఖ్యాప్రతిభువః
విరాజన్తే నానావిధమధురరాగాకరభువాం
త్రయాణాం గ్రామాణాం స్థితినియమసీమాన ఇవ తే
మృణాలీమృద్వీనాం తవ భుజలతానాం చతసృణాం
చతుర్భిః సౌన్దర్యం సరసిజభవః స్తౌతి వదనైః
నఖేభ్యః సన్త్రస్యన్ ప్రథమమథనాదన్ధకరిపోః
చతుర్ణాం శీర్షాణాం సమమభయహస్తార్పణధియా
నఖానాముద్ద్యోతైర్నవనలినరాగం విహసతాం
కరాణాం తే కాన్తిం కథయ కథయామః కథముమే
కయాచిద్వా సామ్యం భజతు కలయా హన్త కమలం
యది క్రీడల్లక్ష్మీచరణతలలాక్షారసచణమ్
సమం దేవి స్కన్దద్విపవదనపీతం స్తనయుగం
తవేదం నః ఖేదం హరతు సతతం ప్రస్నుతముఖమ్
యదాలోక్యాశఙ్కాఽఽకులితహృదయో హాసజనకః
స్వకుమ్భౌ హేరమ్బః పరిమృశతి హస్తేన ఝటితి
అమూ తే వక్షోజావమృతరసమాణిక్యకుతుపౌ
న సన్దేహస్పన్దో నగపతిపతాకే మనసి నః
పిబన్తౌ తౌ యస్మాదవిదితవధూసఙ్గరసికౌ
కుమారావద్యాపి ద్విరదవదనక్రౌఞ్చదలనౌ
వహత్యమ్బ స్తమ్బేరమదనుజకుమ్భప్రకృతిభిః
సమారబ్ధాం ముక్తామణిభిరమలాం హారలతికామ్
కుచాభోగో బిమ్బాధరరుచిభిరన్తః శబలితాం
ప్రతాపవ్యామిశ్రాం పురదమయితుః కీర్తిమివ తే
తవ స్తన్యం మన్యే ధరణిధరకన్యే హృదయతః
పయఃపారావారః పరివహతి సారస్వతమివ
దయావత్యా దత్తం ద్రవిడశిశురాస్వాద్య తవ యత్
కవీనాం ప్రౌఢానామజని కమనీయః కవయితా
హరక్రోధజ్వాలాఽఽవలిభిరవలీఢేన వపుషా
గభీరే తే నాభీసరసి కృతసఙ్గో మనసిజః
సముత్తస్థౌ తస్మాదచలతనయే ధూమలతికా
జనస్తాం జానీతే తవ జనని రోమావలిరితి
యదేతత్ కాలిన్దీతనుతరతరఙ్గాకృతి శివే
కృశే మధ్యే కిఞ్చిజ్జనని తవ తద్భాతి సుధియామ్
విమర్దాదన్యోఽన్యం కుచకలశయోరన్తరగతం
తనూభూతం వ్యోమ ప్రవిశదివ నాభిం కుహరిణీమ్
స్థిరో గఙ్గావర్తః స్తనముకులరోమావలిలతా
నిజావాలం కుణ్డం కుసుమశరతేజోహుతభుజః
రతేర్లీలాగారం కిమపి తవ నాభిర్గిరిసుతే
బిలద్వారం సిద్ధేర్గిరిశనయనానాం విజయతే
నిసర్గక్షీణస్య స్తనతటభరేణ క్లమజుషో
నమన్మూర్తేర్నారీతిలక శనకైస్త్రుట్యత ఇవ
చిరం తే మధ్యస్య త్రుటితతటినీతీరతరుణా
సమావస్థాస్థేమ్నో భవతు కుశలం శైలతనయే
కుచౌ సద్యఃస్విద్యత్తటఘటితకూర్పాసభిదురౌ
కషన్తౌ దోర్మూలే కనకకలశాభౌ కలయతా
తవ త్రాతుం భఙ్గాదలమితి వలగ్నం తనుభువా
త్రిధా నద్ధం దేవి త్రివలి లవలీవల్లిభిరివ
గురుత్వం విస్తారం క్షితిధరపతిః పార్వతి నిజాత్
నితమ్బాదాచ్ఛిద్య త్వయి హరణరూపేణ నిదధే
అతస్తే విస్తీర్ణో గురురయమశేషాం వసుమతీం
నితమ్బప్రాగ్భారః స్థగయతి లఘుత్వం నయతి చ
కరీన్ద్రాణాం శుణ్డాన్ కనకకదలీకాణ్డపటలీమ్
ఉభాభ్యామూరుభ్యాముభయమపి నిర్జిత్య భవతి
సువృత్తాభ్యాం పత్యుః ప్రణతికఠినాభ్యాం గిరిసుతే
విధిజ్ఞే జానుభ్యాం విబుధకరికుమ్భద్వయమసి
పరాజేతుం రుద్రం ద్విగుణశరగర్భౌ గిరిసుతే
నిషఙ్గౌ జఙ్ఘే తే విషమవిశిఖో బాఢమకృత
యదగ్రే దృశ్యన్తే దశ శరఫలాః పాదయుగలీ
నఖాగ్రచ్ఛద్మానః సురమకుటశాణైకనిశితాః
శ్రుతీనాం మూర్ధానో దధతి తవ యౌ శేఖరతయా
మమాప్యేతౌ మాతః శిరసి దయయా ధేహి చరణౌ
యయోః పాద్యం పాథః పశుపతిజటాజూటతటినీ
యయోర్లాక్షాలక్ష్మీరరుణహరిచూడామణిరుచిః
నమోవాకం బ్రూమో నయనరమణీయాయ పదయోః
తవాస్మై ద్వన్ద్వాయ స్ఫుటరుచిరసాలక్తకవతే
అసూయత్యత్యన్తం యదభిహననాయ స్పృహయతే
పశూనామీశానః ప్రమదవనకఙ్కేలితరవే
మృషా కృత్వా గోత్రస్ఖలనమథ వైలక్ష్యనమితం
లలాటే భర్తారం చరణకమలే తాడయతి తే
చిరాదన్తఃశల్యం దహనకృతమున్మూలితవతా
తులాకోటిక్వాణైః కిలికిలితమీశానరిపుణా
హిమానీహన్తవ్యం హిమగిరినివాసైకచతురౌ
నిశాయాం నిద్రాణాం నిశి చరమభాగే చ విశదౌ
వరం లక్ష్మీపాత్రం శ్రియమతిసృజన్తౌ సమయినాం
సరోజం త్వత్పాదౌ జనని జయతశ్చిత్రమిహ కిమ్
పదం తే కీర్తీనాం ప్రపదమపదం దేవి విపదాం
కథం నీతం సద్భిః కఠినకమఠీకర్పరతులామ్
కథం వా బాహుభ్యాముపయమనకాలే పురభిదా
యదాదాయ న్యస్తం దృషది దయమానేన మనసా
నఖైర్నాకస్త్రీణాం కరకమలసఙ్కోచశశిభిః
తరూణాం దివ్యానాం హసత ఇవ తే చణ్డి చరణౌ
ఫలాని స్వఃస్థేభ్యః కిసలయకరాగ్రేణ దదతాం
దరిద్రేభ్యో భద్రాం శ్రియమనిశమహ్నాయ దదతౌ
దదానే దీనేభ్యః శ్రియమనిశమాశానుసదృశీమ్
అమన్దం సౌన్దర్యప్రకరమకరన్దం వికిరతి
తవాస్మిన్ మన్దారస్తబకసుభగే యాతు చరణే
నిమజ్జన్ మజ్జీవః కరణచరణః షట్చరణతామ్
పదన్యాసక్రీడాపరిచయమివారబ్ధుమనసః
స్ఖలన్తస్తే ఖేలం భవనకలహంసా న జహతి
అతస్తేషాం శిక్షాం సుభగమణిమఞ్జీరరణిత-
చ్ఛలాదాచక్షాణం చరణకమలం చారుచరితే
గతాస్తే మఞ్చత్వం ద్రుహిణహరిరుద్రేశ్వరభృతః
శివః స్వచ్ఛచ్ఛాయాఘటితకపటప్రచ్ఛదపటః
త్వదీయానాం భాసాం ప్రతిఫలనరాగారుణతయా
శరీరీ శృఙ్గారో రస ఇవ దృశాం దోగ్ధి కుతుకమ్
అరాలా కేశేషు ప్రకృతిసరలా మన్దహసితే
శిరీషాభా చిత్తే దృషదుపలశోభా కుచతటే
భృశం తన్వీ మధ్యే పృథురురసిజారోహవిషయే
జగత్త్రాతుం శమ్భోర్జయతి కరుణా కాచిదరుణా
కలఙ్కః కస్తూరీ రజనికరబిమ్బం జలమయం
కలాభిః కర్పూరైర్మరకతకరణ్డం నిబిడితమ్
అతస్త్వద్భోగేన ప్రతిదినమిదం రిక్తకుహరం
విధిర్భూయో భూయో నిబిడయతి నూనం తవ కృతే
పురారాతేరన్తఃపురమసి తతస్త్వచ్చరణయోః
సపర్యామర్యాదా తరలకరణానామసులభా
తథా హ్యేతే నీతాః శతమఖముఖాః సిద్ధిమతులాం
తవ ద్వారోపాన్తస్థితిభిరణిమాద్యాభిరమరాః
కలత్రం వైధాత్రం కతి కతి భజన్తే న కవయః
శ్రియో దేవ్యాః కో వా న భవతి పతిః కైరపి ధనైః
మహాదేవం హిత్వా తవ సతి సతీనామచరమే
కుచాభ్యామాసఙ్గః కురవకతరోరప్యసులభః
గిరామాహుర్దేవీం ద్రుహిణగృహిణీమాగమవిదో
హరేః పత్నీం పద్మాం హరసహచరీమద్రితనయామ్
తురీయా కాఽపి త్వం దురధిగమనిఃసీమమహిమా
మహామాయా విశ్వం భ్రమయసి పరబ్రహ్మమహిషి
కదా కాలే మాతః కథయ కలితాలక్తకరసం
పిబేయం విద్యార్థీ తవ చరణనిర్ణేజనజలమ్
ప్రకృత్యా మూకానామపి చ కవితాకారణతయా
కదా ధత్తే వాణీముఖకమలతామ్బూలరసతామ్
సరస్వత్యా లక్ష్మ్యా విధిహరిసపత్నో విహరతే
రతేః పాతివ్రత్యం శిథిలయతి రమ్యేణ వపుషా
చిరం జీవన్నేవ క్షపితపశుపాశవ్యతికరః
పరానన్దాభిఖ్యం రసయతి రసం త్వద్భజనవాన్
ప్రదీపజ్వాలాభిర్దివసకరనీరాజనవిధిః
సుధాసూతేశ్చన్ద్రోపలజలలవైరర్ఘ్యరచనా
స్వకీయైరమ్భోభిః సలిలనిధిసౌహిత్యకరణం
త్వదీయాభిర్వాగ్భిస్తవ జనని వాచాం స్తుతిరియమ్
॥ఇతి శ్రీమత్పరమహంసపరివ్రాజకాచార్యస్య శ్రీ-గోవిన్ద-భగవత్పూజ్య-పాద-శిష్యస్య
శ్రీమచ్ఛఙ్కరభగవతః కృతౌ సౌన్దర్యలహరీ సమ్పూర్ణా॥
సమానీతః పద్భ్యాం మణిముకురతామమ్బరమణిః
భయాదాస్యాదన్తఃస్తిమితకిరణశ్రేణిమసృణః
దధాతి త్వద్వక్త్రప్రతిఫలనమశ్రాన్తవికచం
నిరాతఙ్కం చన్ద్రాన్నిజహృదయపఙ్కేరుహమివ
సముద్భూతస్థూలస్తనభరమురశ్చారు హసితం
కటాక్షే కన్దర్పః కతిచన కదమ్బద్యుతి వపుః
హరస్య త్వద్భ్రాన్తిం మనసి జనయన్తః సమయినో
భవత్యా యే భక్తాః పరిణతిరమీషామియముమే
నిధే నిత్యస్మేరే నిరవధిగుణే నీతినిపుణే
నిరాఘాటజ్ఞానే నియమపరచిత్తైకనిలయే
నియత్యా నిర్ముక్తే నిఖిలనిగమాన్తస్తుతపదే
నిరాతఙ్కే నిత్యే నిగమయ మమాపి స్తుతిమిమామ్
saundaryalaharī
ānandalaharī
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
viriñciḥ sañcinvan viracayati lokānavikalam
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
haraḥ saṅkṣudyainaṃ bhajati bhasitoddhūlanavidhim
avidyānāmantastimira-mihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavatī
tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭitavarābhītyabhinayā
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau
haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥ prabhavati hi mohāya mahatām
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ
vasantaḥ sāmanto malayamarudāyodhanarathaḥ
tathā'pyekaḥ sarvaṃ himagirisute kāmapi kṛpām
apāṅgātte labdhvā jagadidamanaṅgo vijayate
kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastādāstāṃ naḥ puramathiturāhopuruṣikā
sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm
mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari
mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharase
sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi
caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ
catuścatvāriṃśadvasudalakalāśratrivalaya
trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥ
yadālokautsukyādamaralalanā yānti manasā
tapobhirduṣprāpāmapi giriśasāyujyapadavīm
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥ
galadveṇībandhāḥ kucakalaśavisrastasicayā
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ
kṣitau ṣaṭpañcāśad-dvisamadhikapañcāśadudake
hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile
divi dviṣṣaṭtriṃśanmanasi ca catuṣṣaṣṭiriti ye
mayūkhāsteṣāmapyupari tava pādāmbujayugam
śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamukuṭāṃ
varatrāsatrāṇasphaṭikaghuṭikāpustakakarām
sakṛnna tvā natvā kathamiva satāṃ sannidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ kaṇitayaḥ
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥ katicidaruṇāmeva bhavatīm
viriñcipreyasyāstaruṇataraśṛṅgāralaharī
gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī
savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥ
vaśinyādyābhistvāṃ saha janani sañcintayati yaḥ
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥ
vacobhirvāgdevīvadanakamalāmodamadhuraiḥ
tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥ
divaṃ sarvāmurvīmaruṇimanimagnāṃ smarati yaḥ
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyoharamahiṣi te manmathakalām
sa sadyaḥ saṅkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām
kirantīmaṅgebhyaḥ kiraṇanikurumbāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhā''dhārasirayā
taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm
bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇām
iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamukuṭanīrājitapadām
tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā
śarīrārdhaṃ śambhoraparamapi śaṅke hṛtamabhūt
yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭilaśaśicūḍālamukuṭam
jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurvannetatsvamapi vapurīśastirayati
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śivaḥ
tavā''jñāmālambya kṣaṇacalitayorbhrūlatikayoḥ
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvan mukulitakarottaṃsamakuṭāḥ
viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam
vitandrī māhendrī vitatirapi sammīlita-dṛśāṃ
mahāsaṃhāre'smin viharati sati tvatpatirasau
japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ
praṇāmaḥ saṃveśaḥ sukhamakhilamātmārpaṇadṛśā
saparyāparyāyastava bhavatu yanme vilasitam
sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥ
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭīre skhalasi jahi jambhārimakuṭam
praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktirvijayate
svadehodbhūtābhirghṛṇibhiraṇimā''dyābhirabhito
niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnirviracayati nīrājanavidhim
catuṣṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṃ
sthitastat tat siddhiprasavaparatantraiḥ paśupatiḥ
punastvannirbandhādakhilapuruṣārthaikaghaṭanā
svatantraṃ te tantraṃ kṣititalamavātītaradidam
śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ
amī hṛllekhābhistisṛbhiravasāneṣu ghaṭitā
bhajante varṇāste tava janani nāmāvayavatām
smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava manoḥ
nidhāyaike nitye niravadhimahābhogarasikāḥ
bhajanti tvāṃ cintāmaṇiguṇanibaddhākṣavalayāḥ
śivā'gnau juhvantaḥ surabhighṛtadhārā''hutiśataiḥ
śarīraṃ tvaṃ śambhoḥ śaśimihiravakṣoruhayugaṃ
tavā''tmānaṃ manye bhagavati navātmānamanagham
ataḥ śeṣaḥ śeṣītyayamubhayasādhāraṇatayā
sthitaḥ sambandho vāṃ samarasaparānandaparayoḥ
manastvaṃ vyoma tvaṃ marudasi marutsārathirasi
tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param
tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe
tavā''jñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ
paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye
nirāloke'loke nivasati hi bhālokabhavane
viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīmapi śivasamānavyavasitām
yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ
vidhūtāntardhvāntā vilasati cakorīva jagatī
samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram
yadālāpādaṣṭādaśaguṇitavidyāpariṇatiḥ
yadādatte doṣād-guṇamakhilamadbhyaḥ paya iva
tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām
yadāloke lokān dahati mahati krodhakalite
dayārdrā yaddṛṣṭiḥ śiśiramupacāraṃ racayati
taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhendradhanuṣam
tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam
tavā''dhāre mūle saha samayayā lāsyaparayā
navātmānaṃ manye navarasamahātāṇḍavanaṭam
ubhābhyāmetābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṃ jajñe janakajananīmajjagadidam
\\
saundaryalaharī
gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām
dhunotu dhvāntaṃ nastulitadalitendīvaravanaṃ
ghanasnigdhaślakṣṇaṃ cikuranikurambaṃ tava śive
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso
vasantyasmin manye valamathanavāṭīviṭapinām
tanotu kṣemaṃ nastava vadanasaundaryalaharī
parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥ
vahantī sindūraṃ prabalakabarībhāratimira
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam
arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharucim
darasmere yasmin daśanarucikiñjalkarucire
sugandhau mādyanti smaradahanacakṣurmadhulihaḥ
lalāṭaṃ lāvaṇyadyutivimalamābhāti tava yat
dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam
viparyāsanyāsādubhayamapi sambhūya ca mithaḥ
sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ
bhruvau bhugne kiñcidbhuvanabhayabhaṅgavyasanini
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam
dhanurmanye savyetarakaragṛhītaṃ ratipateḥ
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume
ahaḥ sūte savyaṃ tava nayanamarkātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā
tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ
samādhatte sandhyāṃ divasaniśayorantaracarīm
viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurā bhogavatikā
avantī dṛṣṭiste bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate
kavīnāṃ sandarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam
amuñcantau dṛṣṭvā tava navarasāsvādataralau
asūyāsaṃsargādalikanayanaṃ kiñcidaruṇam
śive śṛṅgārārdrā taditarajane kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī
harāhibhyo bhītā sarasiruhasaubhāgyajananī
sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā
gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettuścittapraśamarasavidrāvaṇaphale
ime netre gotrādharapatikulottaṃsakalike
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ
vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannetratritayamidamīśānadayite
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayamiva
pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye
dayāmitrairnetrairaruṇadhavalaśyāmarucibhiḥ
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ
trayāṇāṃ tīrthānāmupanayasi sambhedamanagham
nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī
tavetyāhuḥ santo dharaṇidhararājanyatanaye
tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥ
paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥ
tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatamanimeṣāḥ śapharikāḥ
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayaṃ
jahāti pratyūṣe niśi ca vighaṭayya praviśati
dṛśā drāghīyasyā daradalitanīlotpalarucā
davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakaranipāto himakaraḥ
arālaṃ te pālīyugalamagarājanyatanaye
na keṣāmādhatte kusumaśarakodaṇḍakutukam
tiraścīno yatra śravaṇapathamullaṅghya vilasan
apāṅgavyāsaṅgo diśati śarasandhānadhiṣaṇām
sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham
yamāruhya druhyatyavaniratham arkenducaraṇaṃ
mahāvīro māraḥ pramathapataye sajjitavate
sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo
jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva te
asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi
tvadīyo nedīyaḥ phalatu phalamasmākamucitam
vahatyantarmuktāḥ śiśirakaraniśvāsagalitaṃ
samṛddhyā yastāsāṃ bahirapi ca muktāmaṇidharaḥ
prakṛtyā''raktāyāstava sudati dantacchadaruceḥ
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā
na bimbaṃ tvadbimbapratiphalanarāgādaruṇitaṃ
tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇāmāsīdatirasatayā cañcujaḍimā
ataste śītāṃśoramṛtalaharīmāmlarucayaḥ
pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā
aviśrāntaṃ patyurguṇagaṇakathā''mreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā
raṇe jitvā daityānapahṛtaśirastraiḥ kavacibhiḥ
nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ
viśākhendropendraiḥ śaśiviśadakarpūraśakalā
vilīyante mātastava vadanatāmbūlakabalāḥ
vipañcyā gāyantī vividhamapadānaṃ paśupateḥ
tvayā''rabdhe vaktuṃ calitaśirasā sādhuvacane
tadīyairmādhuryairapalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam
karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
girīśenodastaṃ muhuradharapānākulatayā
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
kathaṅkāraṃ brūmastava cubukamaupamyarahitam
bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī
tava grīvā dhatte mukhakamalanālaśriyamiyam
svataḥ śvetā kālāgarubahulajambālamalinā
mṛṇālīlālityam vahati yadadho hāralatikā
gale rekhāstisro gatigamakagītaikanipuṇe
vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te
mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ
nakhebhyaḥ santrasyan prathamamathanādandhakaripoḥ
caturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā
nakhānāmuddyotairnavanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam
samaṃ devi skandadvipavadanapītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham
yadālokyāśaṅkā''kulitahṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaṭiti
amū te vakṣojāvamṛtarasamāṇikyakutupau
na sandehaspando nagapatipatāke manasi naḥ
pibantau tau yasmādaviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau
vahatyamba stamberamadanujakumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām
kucābhogo bimbādhararucibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥpārāvāraḥ parivahati sārasvatamiva
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā
harakrodhajvālā''valibhiravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ
samuttasthau tasmādacalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti
yadetat kālindītanutarataraṅgākṛti śive
kṛśe madhye kiñcijjanani tava tadbhāti sudhiyām
vimardādanyo'nyaṃ kucakalaśayorantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm
sthiro gaṅgāvartaḥ stanamukularomāvalilatā
nijāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ
raterlīlāgāraṃ kimapi tava nābhirgirisute
biladvāraṃ siddhergiriśanayanānāṃ vijayate
nisargakṣīṇasya stanataṭabhareṇa klamajuṣo
namanmūrternārītilaka śanakaistruṭyata iva
ciraṃ te madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye
kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhiriva
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt
nitambādācchidya tvayi haraṇarūpeṇa nidadhe
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalīm
ubhābhyāmūrubhyāmubhayamapi nirjitya bhavati
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vidhijñe jānubhyāṃ vibudhakarikumbhadvayamasi
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta
yadagre dṛśyante daśa śaraphalāḥ pādayugalī
nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ
śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥ śirasi dayayā dhehi caraṇau
yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī
yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ
namovākaṃ brūmo nayanaramaṇīyāya padayoḥ
tavāsmai dvandvāya sphuṭarucirasālaktakavate
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnāmīśānaḥ pramadavanakaṅkelitarave
mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te
cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā
tulākoṭikvāṇaiḥ kilikilitamīśānaripuṇā
himānīhantavyaṃ himagirinivāsaikacaturau
niśāyāṃ nidrāṇāṃ niśi caramabhāge ca viśadau
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataścitramiha kim
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām
kathaṃ vā bāhubhyāmupayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā
nakhairnākastrīṇāṃ karakamalasaṅkocaśaśibhiḥ
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau
dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśīm
amandaṃ saundaryaprakaramakarandaṃ vikirati
tavāsmin mandārastabakasubhage yātu caraṇe
nimajjan majjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām
padanyāsakrīḍāparicayamivārabdhumanasaḥ
skhalantaste khelaṃ bhavanakalahaṃsā na jahati
atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite
gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam
arālā keśeṣu prakṛtisaralā mandahasite
śirīṣābhā citte dṛṣadupalaśobhā kucataṭe
bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye
jagattrātuṃ śambhorjayati karuṇā kācidaruṇā
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte
purārāterantaḥpuramasi tatastvaccaraṇayoḥ
saparyāmaryādā taralakaraṇānāmasulabhā
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntasthitibhiraṇimādyābhiramarāḥ
kalatraṃ vaidhātraṃ kati kati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ
mahādevaṃ hitvā tava sati satīnāmacarame
kucābhyāmāsaṅgaḥ kuravakatarorapyasulabhaḥ
girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido
hareḥ patnīṃ padmāṃ harasahacarīmadritanayām
turīyā kā'pi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi
kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam
prakṛtyā mūkānāmapi ca kavitākāraṇatayā
kadā dhatte vāṇīmukhakamalatāmbūlarasatām
sarasvatyā lakṣmyā vidhiharisapatno viharate
rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā
ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān
pradīpajvālābhirdivasakaranīrājanavidhiḥ
sudhāsūteścandropalajalalavairarghyaracanā
svakīyairambhobhiḥ salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhistava janani vācāṃ stutiriyam
||iti śrīmatparamahaṃsaparivrājakācāryasya śrī-govinda-bhagavatpūjya-pāda-śiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā||
samānītaḥ padbhyāṃ maṇimukuratāmambaramaṇiḥ
bhayādāsyādantaḥstimitakiraṇaśreṇimasṛṇaḥ
dadhāti tvadvaktrapratiphalanamaśrāntavikacaṃ
nirātaṅkaṃ candrānnijahṛdayapaṅkeruhamiva
samudbhūtasthūlastanabharamuraścāru hasitaṃ
kaṭākṣe kandarpaḥ katicana kadambadyuti vapuḥ
harasya tvadbhrāntiṃ manasi janayantaḥ samayino
bhavatyā ye bhaktāḥ pariṇatiramīṣāmiyamume
nidhe nityasmere niravadhiguṇe nītinipuṇe
nirāghāṭajñāne niyamaparacittaikanilaye
niyatyā nirmukte nikhilanigamāntastutapade
nirātaṅke nitye nigamaya mamāpi stutimimām