शिवसहस्रनामस्तोत्रम्
sec:start_ShivaSahasranamaStotram
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
पूर्वभागः
युधिष्ठिर उवाच
त्वयाऽऽपगेय नामानि श्रुतानीह जगत्पतेः
पितामहेशाय विभोर्नामान्याचक्ष्व शम्भवे
बभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः
सुरासुरगुरौ देवे शङ्करेऽव्यक्तयोनये
भीष्म उवाच
अशक्तोऽहं गुणान् वक्तुं महादेवस्य धीमतः
यो हि सर्वगतो देवो न च सर्वत्र दृश्यते
ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च
ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते
प्रकृतीनां परत्वेन पुरुषस्य च यः परः
चिन्त्यते यो योगविद्भिरृषिभिस्तत्त्वदर्शिभिः
प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा
ब्रह्माणमसृजत् तस्माद्देवदेवः प्रजापतिः
को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः
गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः
को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम्
ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात्
एष विद्वान् गुणश्रेष्ठो विष्णुः परमदुर्जयः
दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा
रुद्रभक्त्या तु कृष्णेन जगद्व्याप्तं महात्मना
तं प्रसाद्य तदा देवं बदर्यां किल भारत
अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा
प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात्
पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः
प्रसाद्य वरदं देवं चराचरगुरुं शिवम्
युगे युगे तु कृष्णेन तोषितो वै महेश्वरः
भक्त्या परमया चैव प्रीतश्चैव महात्मनः
ऐश्वर्यं यादृशं तस्य जगद्योनेर्महात्मनः
तदयं दृष्टवान् साक्षात् पुत्रार्थे हरिरच्युतः
यस्मात् परतरं चैव नान्यं पश्यामि भारत
व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः
एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान्
विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप
सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना
निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराऽभवत्
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव
वासुदेव उवाच
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः
न विदुर्यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः
तस्याहम् असुरघ्नस्य कांश्चिद्भगवतो गुणान्
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम्
वैशम्पायन उवाच
एवमुक्त्वा तु भगवान् गुणांस्तस्य महात्मनः
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः
वासुदेव उवाच
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहामादितः
उपमन्युरुवाच
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम्
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः
सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम्
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम्
तेन ते श्रावयिष्यामि यत् तद्ब्रह्म सनातनम्
न शक्यं विस्तरात् कृत्स्नं वक्तुं शर्वस्य केनचित्
युक्तेनापि विभूतीनामपि वर्षशतैरपि
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम्
शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया
अनादिनिधनस्याहं जगद्योनेर्महात्मनः
नाम्नां कञ्चित् समुद्देश्यं वक्ष्याम्यव्यक्तयोनिनः
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः
शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना
दशनामसहस्राणि यान्याह प्रपितामहः
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम्
गिरेः सारं यथा हेम पुष्पसारं यथा मधु
घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम्
सर्वपापापहमिदं चतुर्वेदसमन्वितम्
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि
ध्यानम्
शान्तं पद्मानस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम्
नागं पाशं घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि
स्तोत्रम्
ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः
महारूपो महाकायो वृषरूपो महायशाः
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः
पवित्रं च महांश्चैव नियमो नियमाश्रितः
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः
अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः
महातपा घोरतपा अदीनो दीनसाधकः
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः
योगी योज्यो महाबीजो महारेता महाबलः
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः
गणकर्ता गणपतिर्दिग्वासाः काम एव च
मन्त्रवित् परमोमन्त्रः सर्वभावकरो हरः
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
अशनी शतघ्नी खड्गी पट्टिशी चाऽऽयुधी महान्
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः
उष्णिषी च सुवक्त्रश्च उदग्रो विनतस्तथा
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः
गजहा दैत्यहा कालो लोकधाता गुणाकरः
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः
कालयोगी महानादः सर्वकामश्चतुष्पथः
निशाचरः प्रेतचारी भूतचारी महेश्वरः
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः
दक्षयागापहारी च सुसहो मध्यमस्तथा
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
सुतीक्ष्णदशनश्चैव महाकायो महाननः
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्
विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः
हुताशनसहायश्च प्रशान्तात्मा हुताशनः
उग्रतेजा महातेजा जन्यो विजयकालवित्
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धजो बली
वैणवी पणवी ताली खली कालकटङ्कटः
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः
विमोचनः सुसरणो हिरण्यकवचोद्भवः
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा
सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः
व्यालरूपो गुहावासी गुहो माली तरङ्गवित्
त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः
प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित्
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः
सर्वकालप्रसादश्च सुबलो बलरूपधृक्
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः
रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी
वसुवेगो महावेगो मनोवेगो निशाचरः
सर्ववासी श्रियावासी उपदेशकरोऽकरः
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः
महासेनो विशाखश्च षष्ठिभागो गवां पतिः
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः
वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः
ब्रह्मचारी लोकचारी सर्वचारी विचारवित्
ईशान ईश्वरः कालो निशाचारी पिनाकवान्
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः
भगहारी निहन्ता च कालो ब्रह्मा पितामहः
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः
बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः
अक्षरं परमं ब्रह्म बलवच्चक्र एव च
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः
महामेघनिवासी च महाघोरो वशीकरः
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्
महापादो महाहस्तो महाकायो महायशाः
महामूर्धा महामात्रो महानेत्रो निशालयः
महान्तको महाकर्णो महोष्ठश्च महाहनुः
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः
महानखो महारोमो महाकोशो महाजटः
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः
गण्डली मेरुधामा च देवाधिपतिरेव च
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः
नक्तं कलिश्च कालश्च मकरः कालपूजितः
सगणो गणकारश्च भूतवाहनसारथिः
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः
परश्वधायुधो देव अनुकारी सुबान्धवः
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः
अमरेशो महादेवो विश्वदेवः सुरारिहा
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः
प्रभावः सर्वगो वायुरर्यमा सविता रविः
उषङ्गुश्च विधाता च मान्धाता भूतभावनः
विभुर्वर्णविभावी च सर्वकामगुणावहः
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः
देवदेवः सुखासक्तः सदसत् सर्वरत्नवित्
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः
सारग्रीवो महाजत्रुरलोलश्च महौषधः
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः
भूतालयो भूतपतिरहोरात्रमनिन्दितः
वाहिता सर्वभूतानां निलयश्च विभुर्भवः
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः
महागीतो महानृत्यो ह्यप्सरोगणसेवितः
महाकेतुर्महाधातुर्नैकसानुचरश्चलः
आवेदनीय आदेशः सर्वगन्धसुखावहः
तोरणस्तारणो वातः परिधीः पतिखेचरः
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः
नित्यमात्मसहायश्च देवासुरपतिः पतिः
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः
अक्षश्च रथयोगी च सर्वयोगी महाबलः
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित्
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः
आरोहणोऽधिरोहश्च शीलधारी महायशाः
सेनाकल्पो महाकल्पो योगो युगकरो हरिः
युगरूपो महारूपो महानागहनो वधः
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः
बहुमालो महामालः शशी हरसुलोचनः
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः
निवेदनः सुखाजातः सुगन्धारो महाधनुः
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्
मन्थानो बहुलो वायुः सकलः सर्वलोचनः
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान्
छत्त्रं सुच्छत्त्रो विख्यातो लोकः सर्वाश्रयः क्रमः
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः
गभस्तिर्ब्रह्मकृद्-ब्रह्मी ब्रह्मविद्-ब्राह्मणो गतिः
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक्
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः
वरो वराहो वरदो वरेण्यः सुमहास्वनः
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृक्
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः
कलाः काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः
देवासुरविनिर्माता देवासुरपरायणः
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरगणाश्रयः
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
देवातिदेवो देवर्षिर्देवासुरवरप्रदः
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः
अभिरामः सुरगणो विरामः सर्वसाधनः
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत्
श्रीमान् श्रीवर्धनो जगत् ॐ नम इति।
उत्तरभागः
यथा प्रधानं भगवान् इति भक्त्या स्तुतो मया
यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्
भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम्
स्तूयमानो महादेवस्तुष्यते नियमात्मभिः
भक्तानुकम्पी भगवान् आत्मसंस्थाकरो विभुः
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्
कर्मणा मनसा वाचा भावेनामिततेजसः
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च
जन्मकोटिसहस्रेषु नानासंसारयोनिषु
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्
येन यान्ति परां सिद्धिं तद्भावगतचेतसः
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्
प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत्
एवम् अन्ये विकुर्वन्ति देवाः संसारमोचनम्
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम्
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्
गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा
एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम्
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम्
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम्
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः
वैवस्वताय मनवे गौतमः प्राह माधव
नारायणाय साध्याय समाधिष्ठाय धीमते
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः
नाचिकेताय भगवान् आह वैवस्वतो यमः
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन
तवाप्यहम् अमित्रघ्न स्तवं दद्यां ह्यविश्रुतम्
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम्
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्
जैगीषव्य उवाच
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर
वाराणस्यां युधिष्ठिर ॐ नम इति
गर्ग उवाच
चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम्
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव\\[-1.6em]
मनोयज्ञेन पाण्डव ॐ नम इति।
वैशम्पायन उवाच
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः
उपमन्युर्मयि प्राह तपन्निव दिवाकरः
अशुभैः पापकर्माणो ये नराः कलुषीकृताः
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः
एवमेव महादेव भक्ता ये मानवा भुवि
न ते संसारवशगा इति मे निश्चिता मतिः\\[-1.6em]
इति मे निश्चिता मतिः ॐ नम इति।
॥इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् आनुशासनिकपर्वणि अष्टादशोऽध्यायः॥
दुःस्वप्न-दुःशकुन-दुर्गति-दौर्मनस्य
दुर्भिक्ष-दुर्व्यसन-दुःसह-दुर्यशांसि
उत्पात-ताप-विषभीतिम् असद्-ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः
॥इति श्री-शिवसहस्रनामस्तोत्रं सम्पूर्णम्॥
[sec:start_ShivaSahasranamaStotram]
శివసహస్రనామస్తోత్రమ్
sec:start_ShivaSahasranamaStotram
శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే
నమోఽస్తు తే వ్యాస విశాలబుద్ధే ఫుల్లారవిన్దాయతపత్రనేత్ర
యేన త్వయా భారతతైలపూర్ణః ప్రజ్వాలితో జ్ఞానమయః ప్రదీపః
నారాయణం నమస్కృత్య నరం చైవ నరోత్తమమ్
దేవీం సరస్వతీం వ్యాసం తతో జయముదీరయేత్
వన్దే శమ్భుముమాపతిం సురగురుం వన్దే జగత్కారణం
వన్దే పన్నగభూషణం మృగధరం వన్దే పశూనాం పతిమ్
వన్దే సూర్యశశాఙ్కవహ్నినయనం వన్దే ముకున్దప్రియం
వన్దే భక్తజనాశ్రయం చ వరదం వన్దే శివం శఙ్కరమ్
పూర్వభాగః
యుధిష్ఠిర ఉవాచ
త్వయాఽఽపగేయ నామాని శ్రుతానీహ జగత్పతేః
పితామహేశాయ విభోర్నామాన్యాచక్ష్వ శమ్భవే
బభ్రవే విశ్వరూపాయ మహాభాగ్యం చ తత్త్వతః
సురాసురగురౌ దేవే శఙ్కరేఽవ్యక్తయోనయే
భీష్మ ఉవాచ
అశక్తోఽహం గుణాన్ వక్తుం మహాదేవస్య ధీమతః
యో హి సర్వగతో దేవో న చ సర్వత్ర దృశ్యతే
బ్రహ్మవిష్ణుసురేశానాం స్రష్టా చ ప్రభురేవ చ
బ్రహ్మాదయః పిశాచాన్తా యం హి దేవా ఉపాసతే
ప్రకృతీనాం పరత్వేన పురుషస్య చ యః పరః
చిన్త్యతే యో యోగవిద్భిరృషిభిస్తత్త్వదర్శిభిః
ప్రకృతిం పురుషం చైవ క్షోభయిత్వా స్వతేజసా
బ్రహ్మాణమసృజత్ తస్మాద్దేవదేవః ప్రజాపతిః
కో హి శక్తో గుణాన్ వక్తుం దేవదేవస్య ధీమతః
గర్భజన్మజరాయుక్తో మర్త్యో మృత్యుసమన్వితః
కో హి శక్తో భవం జ్ఞాతుం మద్విధః పరమేశ్వరమ్
ఋతే నారాయణాత్ పుత్ర శఙ్ఖచక్రగదాధరాత్
ఏష విద్వాన్ గుణశ్రేష్ఠో విష్ణుః పరమదుర్జయః
దివ్యచక్షుర్మహాతేజా వీక్ష్యతే యోగచక్షుషా
రుద్రభక్త్యా తు కృష్ణేన జగద్వ్యాప్తం మహాత్మనా
తం ప్రసాద్య తదా దేవం బదర్యాం కిల భారత
అర్థాత్ ప్రియతరత్వం చ సర్వలోకేషు వై తదా
ప్రాప్తవానేవ రాజేన్ద్ర సువర్ణాక్షాన్మహేశ్వరాత్
పూర్ణం వర్షసహస్రం తు తప్తవానేష మాధవః
ప్రసాద్య వరదం దేవం చరాచరగురుం శివమ్
యుగే యుగే తు కృష్ణేన తోషితో వై మహేశ్వరః
భక్త్యా పరమయా చైవ ప్రీతశ్చైవ మహాత్మనః
ఐశ్వర్యం యాదృశం తస్య జగద్యోనేర్మహాత్మనః
తదయం దృష్టవాన్ సాక్షాత్ పుత్రార్థే హరిరచ్యుతః
యస్మాత్ పరతరం చైవ నాన్యం పశ్యామి భారత
వ్యాఖ్యాతుం దేవదేవస్య శక్తో నామాన్యశేషతః
ఏష శక్తో మహాబాహుర్వక్తుం భగవతో గుణాన్
విభూతిం చైవ కార్త్స్న్యేన సత్యాం మాహేశ్వరీం నృప
సురాసురగురో దేవ విష్ణో త్వం వక్తుమ్ అర్హసి
శివాయ శివరూపాయ యన్మాఽపృచ్ఛద్యుధిష్ఠిరః
నామ్నాం సహస్రం దేవస్య తణ్డినా బ్రహ్మవాదినా
నివేదితం బ్రహ్మలోకే బ్రహ్మణో యత్ పురాఽభవత్
ద్వైపాయనప్రభృతయస్తథా చేమే తపోధనాః
ఋషయః సువ్రతా దాన్తాః శృణ్వన్తు గదతస్తవ
వాసుదేవ ఉవాచ
న గతిః కర్మణాం శక్యా వేత్తుమీశస్య తత్త్వతః
హిరణ్యగర్భప్రముఖా దేవాః సేన్ద్రా మహర్షయః
న విదుర్యస్య నిధనమ్ ఆదిం వా సూక్ష్మదర్శినః
స కథం నామమాత్రేణ శక్యో జ్ఞాతుం సతాం గతిః
తస్యాహమ్ అసురఘ్నస్య కాంశ్చిద్భగవతో గుణాన్
భవతాం కీర్తయిష్యామి వ్రతేశాయ యథాతథమ్
వైశమ్పాయన ఉవాచ
ఏవముక్త్వా తు భగవాన్ గుణాంస్తస్య మహాత్మనః
ఉపస్పృశ్య శుచిర్భూత్వా కథయామాస ధీమతః
వాసుదేవ ఉవాచ
తతః స ప్రయతో భూత్వా మమ తాత యుధిష్ఠిర
ప్రాఞ్జలిః ప్రాహ విప్రర్షిర్నామసఙ్గ్రహామాదితః
ఉపమన్యురువాచ
బ్రహ్మప్రోక్తైరృషిప్రోక్తైర్వేదవేదాఙ్గసమ్భవైః
సర్వలోకేషు విఖ్యాతం స్తుత్యం స్తోష్యామి నామభిః
మహద్భిర్విహితైః సత్యైః సిద్ధైః సర్వార్థసాధకైః
ఋషిణా తణ్డినా భక్త్యా కృతైర్వేదకృతాత్మనా
యథోక్తైః సాధుభిః ఖ్యాతైర్మునిభిస్తత్త్వదర్శిభిః
ప్రవరం ప్రథమం స్వర్గ్యం సర్వభూతహితం శుభమ్
శ్రుతైః సర్వత్ర జగతి బ్రహ్మలోకావతారితైః
సత్యైస్తత్ పరమం బ్రహ్మ బ్రహ్మప్రోక్తం సనాతనమ్
వక్ష్యే యదుకులశ్రేష్ఠ శృణుష్వావహితో మమ
వరయైనం భవం దేవం భక్తస్త్వం పరమేశ్వరమ్
తేన తే శ్రావయిష్యామి యత్ తద్బ్రహ్మ సనాతనమ్
న శక్యం విస్తరాత్ కృత్స్నం వక్తుం శర్వస్య కేనచిత్
యుక్తేనాపి విభూతీనామపి వర్షశతైరపి
యస్యాదిర్మధ్యమన్తం చ సురైరపి న గమ్యతే
కస్తస్య శక్నుయాద్వక్తుం గుణాన్ కార్త్స్న్యేన మాధవ
కిం తు దేవస్య మహతః సఙ్క్షిప్తార్థపదాక్షరమ్
శక్తితశ్చరితం వక్ష్యే ప్రసాదాత్ తస్య ధీమతః
అప్రాప్య తు తతోఽనుజ్ఞాం న శక్యః స్తోతుమీశ్వరః
యదా తేనాభ్యనుజ్ఞాతః స్తుతో వై స తదా మయా
అనాదినిధనస్యాహం జగద్యోనేర్మహాత్మనః
నామ్నాం కఞ్చిత్ సముద్దేశ్యం వక్ష్యామ్యవ్యక్తయోనినః
వరదస్య వరేణ్యస్య విశ్వరూపస్య ధీమతః
శృణు నామ్నాం చయం కృష్ణ యదుక్తం పద్మయోనినా
దశనామసహస్రాణి యాన్యాహ ప్రపితామహః
తాని నిర్మథ్య మనసా దధ్నో ఘృతమివోద్ధృతమ్
గిరేః సారం యథా హేమ పుష్పసారం యథా మధు
ఘృతాత్ సారం యథా మణ్డస్తథైతత్ సారముద్ధృతమ్
సర్వపాపాపహమిదం చతుర్వేదసమన్వితమ్
ప్రయత్నేనాధిగన్తవ్యం ధార్యం చ ప్రయతాత్మనా
సర్వభూతాత్మభూతస్య హరస్యామితతేజసః
అష్టోత్తరసహస్రం తు నామ్నాం శర్వస్య మే శృణు
యచ్ఛ్రుత్వా మనుజవ్యాఘ్ర సర్వాన్ కామానవాప్స్యసి
ధ్యానమ్
శాన్తం పద్మానస్థం శశిధరముకుటం పఞ్చవక్త్రం త్రినేత్రం
శూలం వజ్రం చ ఖడ్గం పరశుమభయదం దక్షభాగే వహన్తమ్
నాగం పాశం ఘణ్టాం ప్రలయహుతవహం సాఙ్కుశం వామభాగే
నానాలఙ్కారయుక్తం స్ఫటికమణినిభం పార్వతీశం నమామి
స్తోత్రమ్
ఓం స్థిరః స్థాణుః ప్రభుర్భీమః ప్రవరో వరదో వరః
సర్వాత్మా సర్వవిఖ్యాతః సర్వః సర్వకరో భవః
జటీ చర్మీ శిఖణ్డీ చ సర్వాఙ్గః సర్వభావనః
హరశ్చ హరిణాక్షశ్చ సర్వభూతహరః ప్రభుః
ప్రవృత్తిశ్చ నివృత్తిశ్చ నియతః శాశ్వతో ధ్రువః
శ్మశానవాసీ భగవాన్ ఖచరో గోచరోఽర్దనః
అభివాద్యో మహాకర్మా తపస్వీ భూతభావనః
ఉన్మత్తవేషప్రచ్ఛన్నః సర్వలోకప్రజాపతిః
మహారూపో మహాకాయో వృషరూపో మహాయశాః
మహాత్మా సర్వభూతాత్మా విశ్వరూపో మహాహనుః
లోకపాలోఽన్తర్హితాత్మా ప్రసాదో హయగర్దభిః
పవిత్రం చ మహాంశ్చైవ నియమో నియమాశ్రితః
సర్వకర్మా స్వయమ్భూత ఆదిరాదికరో నిధిః
సహస్రాక్షో విశాలాక్షః సోమో నక్షత్రసాధకః
చన్ద్రః సూర్యః శనిః కేతుర్గ్రహో గ్రహపతిర్వరః
అత్రిరత్ర్యానమస్కర్తా మృగబాణార్పణోఽనఘః
మహాతపా ఘోరతపా అదీనో దీనసాధకః
సంవత్సరకరో మన్త్రః ప్రమాణం పరమం తపః
యోగీ యోజ్యో మహాబీజో మహారేతా మహాబలః
సువర్ణరేతాః సర్వజ్ఞః సుబీజో బీజవాహనః
దశబాహుస్త్వనిమిషో నీలకణ్ఠ ఉమాపతిః
విశ్వరూపః స్వయంశ్రేష్ఠో బలవీరోఽబలో గణః
గణకర్తా గణపతిర్దిగ్వాసాః కామ ఏవ చ
మన్త్రవిత్ పరమోమన్త్రః సర్వభావకరో హరః
కమణ్డలుధరో ధన్వీ బాణహస్తః కపాలవాన్
అశనీ శతఘ్నీ ఖడ్గీ పట్టిశీ చాఽఽయుధీ మహాన్
స్రువహస్తః సురూపశ్చ తేజస్తేజస్కరో నిధిః
ఉష్ణిషీ చ సువక్త్రశ్చ ఉదగ్రో వినతస్తథా
దీర్ఘశ్చ హరికేశశ్చ సుతీర్థః కృష్ణ ఏవ చ
సృగాలరూపః సిద్ధార్థో ముణ్డః సర్వశుభఙ్కరః
అజశ్చ బహురూపశ్చ గన్ధధారీ కపర్ద్యపి
ఊర్ధ్వరేతా ఊర్ధ్వలిఙ్గ ఊర్ధ్వశాయీ నభఃస్థలః
త్రిజటీ చీరవాసాశ్చ రుద్రః సేనాపతిర్విభుః
అహశ్చరో నక్తఞ్చరస్తిగ్మమన్యుః సువర్చసః
గజహా దైత్యహా కాలో లోకధాతా గుణాకరః
సింహశార్దూలరూపశ్చ ఆర్ద్రచర్మామ్బరావృతః
కాలయోగీ మహానాదః సర్వకామశ్చతుష్పథః
నిశాచరః ప్రేతచారీ భూతచారీ మహేశ్వరః
బహుభూతో బహుధరః స్వర్భానురమితో గతిః
నృత్యప్రియో నిత్యనర్తో నర్తకః సర్వలాలసః
ఘోరో మహాతపాః పాశో నిత్యో గిరిరుహో నభః
సహస్రహస్తో విజయో వ్యవసాయో హ్యతన్ద్రితః
అధర్షణో ధర్షణాత్మా యజ్ఞహా కామనాశకః
దక్షయాగాపహారీ చ సుసహో మధ్యమస్తథా
తేజోపహారీ బలహా ముదితోఽర్థోఽజితో వరః
గమ్భీరఘోషో గమ్భీరో గమ్భీరబలవాహనః
న్యగ్రోధరూపో న్యగ్రోధో వృక్షకర్ణస్థితిర్విభుః
సుతీక్ష్ణదశనశ్చైవ మహాకాయో మహాననః
విష్వక్సేనో హరిర్యజ్ఞః సంయుగాపీడవాహనః
తీక్ష్ణతాపశ్చ హర్యశ్వః సహాయః కర్మకాలవిత్
విష్ణుప్రసాదితో యజ్ఞః సముద్రో బడవాముఖః
హుతాశనసహాయశ్చ ప్రశాన్తాత్మా హుతాశనః
ఉగ్రతేజా మహాతేజా జన్యో విజయకాలవిత్
జ్యోతిషామయనం సిద్ధిః సర్వవిగ్రహ ఏవ చ
శిఖీ ముణ్డీ జటీ జ్వాలీ మూర్తిజో మూర్ధజో బలీ
వైణవీ పణవీ తాలీ ఖలీ కాలకటఙ్కటః
నక్షత్రవిగ్రహమతిర్గుణబుద్ధిర్లయోఽగమః
ప్రజాపతిర్విశ్వబాహుర్విభాగః సర్వగోఽముఖః
విమోచనః సుసరణో హిరణ్యకవచోద్భవః
మేఢ్రజో బలచారీ చ మహీచారీ స్రుతస్తథా
సర్వతూర్యవినోదీ చ సర్వాతోద్యపరిగ్రహః
వ్యాలరూపో గుహావాసీ గుహో మాలీ తరఙ్గవిత్
త్రిదశస్త్రికాలధృక్ కర్మసర్వబన్ధవిమోచనః
బన్ధనస్త్వసురేన్ద్రాణాం యుధి శత్రువినాశనః
సాఙ్ఖ్యప్రసాదో దుర్వాసాః సర్వసాధునిషేవితః
ప్రస్కన్దనో విభాగజ్ఞోఽతుల్యో యజ్ఞవిభాగవిత్
సర్వవాసః సర్వచారీ దుర్వాసా వాసవోఽమరః
హైమో హేమకరో యజ్ఞః సర్వధారీ ధరోత్తమః
లోహితాక్షో మహాక్షశ్చ విజయాక్షో విశారదః
సఙ్గ్రహో నిగ్రహః కర్తా సర్పచీరనివాసనః
ముఖ్యోఽముఖ్యశ్చ దేహశ్చ కాహలిః సర్వకామదః
సర్వకాలప్రసాదశ్చ సుబలో బలరూపధృక్
సర్వకామవరశ్చైవ సర్వదః సర్వతోముఖః
ఆకాశనిర్విరూపశ్చ నిపాతీ హ్యవశః ఖగః
రౌద్రరూపోంఽశురాదిత్యో బహురశ్మిః సువర్చసీ
వసువేగో మహావేగో మనోవేగో నిశాచరః
సర్వవాసీ శ్రియావాసీ ఉపదేశకరోఽకరః
మునిరాత్మనిరాలోకః సమ్భగ్నశ్చ సహస్రదః
పక్షీ చ పక్షరూపశ్చ అతిదీప్తో విశామ్పతిః
ఉన్మాదో మదనః కామో హ్యశ్వత్థోఽర్థకరో యశః
వామదేవశ్చ వామశ్చ ప్రాగ్దక్షిణశ్చ వామనః
సిద్ధయోగీ మహర్షిశ్చ సిద్ధార్థః సిద్ధసాధకః
భిక్షుశ్చ భిక్షురూపశ్చ విపణో మృదురవ్యయః
మహాసేనో విశాఖశ్చ షష్ఠిభాగో గవాం పతిః
వజ్రహస్తశ్చ విష్కమ్భీ చమూస్తమ్భన ఏవ చ
వృత్తావృత్తకరస్తాలో మధుర్మధుకలోచనః
వాచస్పత్యో వాజసనో నిత్యమాశ్రితపూజితః
బ్రహ్మచారీ లోకచారీ సర్వచారీ విచారవిత్
ఈశాన ఈశ్వరః కాలో నిశాచారీ పినాకవాన్
నిమిత్తస్థో నిమిత్తం చ నన్దిర్నన్దికరో హరిః
నన్దీశ్వరశ్చ నన్దీ చ నన్దనో నన్దివర్ధనః
భగహారీ నిహన్తా చ కాలో బ్రహ్మా పితామహః
చతుర్ముఖో మహాలిఙ్గశ్చారులిఙ్గస్తథైవ చ
లిఙ్గాధ్యక్షః సురాధ్యక్షో యోగాధ్యక్షో యుగావహః
బీజాధ్యక్షో బీజకర్తా అధ్యాత్మాఽనుగతో బలః
ఇతిహాసః సకల్పశ్చ గౌతమోఽథ నిశాకరః
దమ్భో హ్యదమ్భో వైదమ్భో వశ్యో వశకరః కలిః
లోకకర్తా పశుపతిర్మహాకర్తా హ్యనౌషధః
అక్షరం పరమం బ్రహ్మ బలవచ్చక్ర ఏవ చ
నీతిర్హ్యనీతిః శుద్ధాత్మా శుద్ధో మాన్యో గతాగతః
బహుప్రసాదః సుస్వప్నో దర్పణోఽథ త్వమిత్రజిత్
వేదకారో మన్త్రకారో విద్వాన్ సమరమర్దనః
మహామేఘనివాసీ చ మహాఘోరో వశీకరః
అగ్నిజ్వాలో మహాజ్వాలో అతిధూమ్రో హుతో హవిః
వృషణః శఙ్కరో నిత్యం వర్చస్వీ ధూమకేతనః
నీలస్తథాఽఙ్గలుబ్ధశ్చ శోభనో నిరవగ్రహః
స్వస్తిదః స్వస్తిభావశ్చ భాగీ భాగకరో లఘుః
ఉత్సఙ్గశ్చ మహాఙ్గశ్చ మహాగర్భపరాయణః
కృష్ణవర్ణః సువర్ణశ్చ ఇన్ద్రియం సర్వదేహినామ్
మహాపాదో మహాహస్తో మహాకాయో మహాయశాః
మహామూర్ధా మహామాత్రో మహానేత్రో నిశాలయః
మహాన్తకో మహాకర్ణో మహోష్ఠశ్చ మహాహనుః
మహానాసో మహాకమ్బుర్మహాగ్రీవః శ్మశానభాక్
మహావక్షా మహోరస్కో హ్యన్తరాత్మా మృగాలయః
లమ్బనో లమ్బితోష్ఠశ్చ మహామాయః పయోనిధిః
మహాదన్తో మహాదంష్ట్రో మహాజిహ్వో మహాముఖః
మహానఖో మహారోమో మహాకోశో మహాజటః
ప్రసన్నశ్చ ప్రసాదశ్చ ప్రత్యయో గిరిసాధనః
స్నేహనోఽస్నేహనశ్చైవ అజితశ్చ మహామునిః
వృక్షాకారో వృక్షకేతురనలో వాయువాహనః
గణ్డలీ మేరుధామా చ దేవాధిపతిరేవ చ
అథర్వశీర్షః సామాస్య ఋక్సహస్రామితేక్షణః
యజుః పాదభుజో గుహ్యః ప్రకాశో జఙ్గమస్తథా
అమోఘార్థః ప్రసాదశ్చ అభిగమ్యః సుదర్శనః
ఉపకారః ప్రియః సర్వః కనకః కాఞ్చనచ్ఛవిః
నాభిర్నన్దికరో భావః పుష్కరః స్థపతిః స్థిరః
ద్వాదశస్త్రాసనశ్చాద్యో యజ్ఞో యజ్ఞసమాహితః
నక్తం కలిశ్చ కాలశ్చ మకరః కాలపూజితః
సగణో గణకారశ్చ భూతవాహనసారథిః
భస్మశయో భస్మగోప్తా భస్మభూతస్తరుర్గణః
లోకపాలస్తథాఽలోకో మహాత్మా సర్వపూజితః
శుక్లస్త్రిశుక్లః సమ్పన్నః శుచిర్భూతనిషేవితః
ఆశ్రమస్థః క్రియావస్థో విశ్వకర్మమతిర్వరః
విశాలశాఖస్తామ్రోష్ఠో హ్యమ్బుజాలః సునిశ్చలః
కపిలః కపిశః శుక్ల ఆయుశ్చైవ పరోఽపరః
గన్ధర్వో హ్యదితిస్తార్క్ష్యః సువిజ్ఞేయః సుశారదః
పరశ్వధాయుధో దేవ అనుకారీ సుబాన్ధవః
తుమ్బవీణో మహాక్రోధ ఊర్ధ్వరేతా జలేశయః
ఉగ్రో వంశకరో వంశో వంశనాదో హ్యనిన్దితః
సర్వాఙ్గరూపో మాయావీ సుహృదో హ్యనిలోఽనలః
బన్ధనో బన్ధకర్తా చ సుబన్ధనవిమోచనః
సయజ్ఞారిః సకామారిర్మహాదంష్ట్రో మహాయుధః
బహుధా నిన్దితః శర్వః శఙ్కరః శఙ్కరోఽధనః
అమరేశో మహాదేవో విశ్వదేవః సురారిహా
అహిర్బుధ్న్యోఽనిలాభశ్చ చేకితానో హవిస్తథా
అజైకపాచ్చ కాపాలీ త్రిశఙ్కురజితః శివః
ధన్వన్తరిర్ధూమకేతుః స్కన్దో వైశ్రవణస్తథా
ధాతా శక్రశ్చ విష్ణుశ్చ మిత్రస్త్వష్టా ధ్రువో ధరః
ప్రభావః సర్వగో వాయురర్యమా సవితా రవిః
ఉషఙ్గుశ్చ విధాతా చ మాన్ధాతా భూతభావనః
విభుర్వర్ణవిభావీ చ సర్వకామగుణావహః
పద్మనాభో మహాగర్భశ్చన్ద్రవక్త్రోఽనిలోఽనలః
బలవాంశ్చోపశాన్తశ్చ పురాణః పుణ్యచఞ్చురీ
కురుకర్తా కురువాసీ కురుభూతో గుణౌషధః
సర్వాశయో దర్భచారీ సర్వేషాం ప్రాణినాం పతిః
దేవదేవః సుఖాసక్తః సదసత్ సర్వరత్నవిత్
కైలాసగిరివాసీ చ హిమవద్గిరిసంశ్రయః
కూలహారీ కూలకర్తా బహువిద్యో బహుప్రదః
వణిజో వర్ధకీ వృక్షో వకులశ్చన్దనశ్ఛదః
సారగ్రీవో మహాజత్రురలోలశ్చ మహౌషధః
సిద్ధార్థకారీ సిద్ధార్థశ్ఛన్దోవ్యాకరణోత్తరః
సింహనాదః సింహదంష్ట్రః సింహగః సింహవాహనః
ప్రభావాత్మా జగత్కాలస్థాలో లోకహితస్తరుః
సారఙ్గో నవచక్రాఙ్గః కేతుమాలీ సభావనః
భూతాలయో భూతపతిరహోరాత్రమనిన్దితః
వాహితా సర్వభూతానాం నిలయశ్చ విభుర్భవః
అమోఘః సంయతో హ్యశ్వో భోజనః ప్రాణధారణః
ధృతిమాన్ మతిమాన్ దక్షః సత్కృతశ్చ యుగాధిపః
గోపాలిర్గోపతిర్గ్రామో గోచర్మవసనో హరిః
హిరణ్యబాహుశ్చ తథా గుహాపాలః ప్రవేశినామ్
ప్రకృష్టారిర్మహాహర్షో జితకామో జితేన్ద్రియః
గాన్ధారశ్చ సువాసశ్చ తపఃసక్తో రతిర్నరః
మహాగీతో మహానృత్యో హ్యప్సరోగణసేవితః
మహాకేతుర్మహాధాతుర్నైకసానుచరశ్చలః
ఆవేదనీయ ఆదేశః సర్వగన్ధసుఖావహః
తోరణస్తారణో వాతః పరిధీః పతిఖేచరః
సంయోగో వర్ధనో వృద్ధో అతివృద్ధో గుణాధికః
నిత్యమాత్మసహాయశ్చ దేవాసురపతిః పతిః
యుక్తశ్చ యుక్తబాహుశ్చ దేవో దివి సుపర్వణః
ఆషాఢశ్చ సుషాఢశ్చ ధ్రువోఽథ హరిణో హరః
వపురావర్తమానేభ్యో వసుశ్రేష్ఠో మహాపథః
శిరోహారీ విమర్శశ్చ సర్వలక్షణలక్షితః
అక్షశ్చ రథయోగీ చ సర్వయోగీ మహాబలః
సమామ్నాయోఽసమామ్నాయస్తీర్థదేవో మహారథః
నిర్జీవో జీవనో మన్త్రః శుభాక్షో బహుకర్కశః
రత్నప్రభూతో రక్తాఙ్గో మహార్ణవనిపానవిత్
మూలం విశాలో హ్యమృతో వ్యక్తావ్యక్తస్తపోనిధిః
ఆరోహణోఽధిరోహశ్చ శీలధారీ మహాయశాః
సేనాకల్పో మహాకల్పో యోగో యుగకరో హరిః
యుగరూపో మహారూపో మహానాగహనో వధః
న్యాయనిర్వపణః పాదః పణ్డితో హ్యచలోపమః
బహుమాలో మహామాలః శశీ హరసులోచనః
విస్తారో లవణః కూపస్త్రియుగః సఫలోదయః
త్రిలోచనో విషణ్ణాఙ్గో మణివిద్ధో జటాధరః
బిన్దుర్విసర్గః సుముఖః శరః సర్వాయుధః సహః
నివేదనః సుఖాజాతః సుగన్ధారో మహాధనుః
గన్ధపాలీ చ భగవానుత్థానః సర్వకర్మణామ్
మన్థానో బహులో వాయుః సకలః సర్వలోచనః
తలస్తాలః కరస్థాలీ ఊర్ధ్వసంహననో మహాన్
ఛత్త్రం సుచ్ఛత్త్రో విఖ్యాతో లోకః సర్వాశ్రయః క్రమః
ముణ్డో విరూపో వికృతో దణ్డీ కుణ్డీ వికుర్వణః
హర్యక్షః కకుభో వజ్రీ శతజిహ్వః సహస్రపాత్
సహస్రమూర్ధా దేవేన్ద్రః సర్వదేవమయో గురుః
సహస్రబాహుః సర్వాఙ్గః శరణ్యః సర్వలోకకృత్
పవిత్రం త్రికకున్మన్త్రః కనిష్ఠః కృష్ణపిఙ్గలః
బ్రహ్మదణ్డవినిర్మాతా శతఘ్నీపాశశక్తిమాన్
పద్మగర్భో మహాగర్భో బ్రహ్మగర్భో జలోద్భవః
గభస్తిర్బ్రహ్మకృద్-బ్రహ్మీ బ్రహ్మవిద్-బ్రాహ్మణో గతిః
అనన్తరూపో నైకాత్మా తిగ్మతేజాః స్వయమ్భువః
ఊర్ధ్వగాత్మా పశుపతిర్వాతరంహా మనోజవః
చన్దనీ పద్మనాలాగ్రః సురభ్యుత్తరణో నరః
కర్ణికారమహాస్రగ్వీ నీలమౌలిః పినాకధృక్
ఉమాపతిరుమాకాన్తో జాహ్నవీధృగుమాధవః
వరో వరాహో వరదో వరేణ్యః సుమహాస్వనః
మహాప్రసాదో దమనః శత్రుహా శ్వేతపిఙ్గలః
పీతాత్మా పరమాత్మా చ ప్రయతాత్మా ప్రధానధృక్
సర్వపార్శ్వముఖస్త్ర్యక్షో ధర్మసాధారణో వరః
చరాచరాత్మా సూక్ష్మాత్మా అమృతో గోవృషేశ్వరః
సాధ్యర్షిర్వసురాదిత్యో వివస్వాన్ సవితాఽమృతః
వ్యాసః సర్గః సుసఙ్క్షేపో విస్తరః పర్యయో నరః
ఋతుః సంవత్సరో మాసః పక్షః సఙ్ఖ్యాసమాపనః
కలాః కాష్ఠా లవా మాత్రా ముహూర్తాహః క్షపాః క్షణాః
విశ్వక్షేత్రం ప్రజాబీజం లిఙ్గమాద్యస్తు నిర్గమః
సదసద్వ్యక్తమవ్యక్తం పితా మాతా పితామహః
స్వర్గద్వారం ప్రజాద్వారం మోక్షద్వారం త్రివిష్టపమ్
నిర్వాణం హ్లాదనశ్చైవ బ్రహ్మలోకః పరా గతిః
దేవాసురవినిర్మాతా దేవాసురపరాయణః
దేవాసురగురుర్దేవో దేవాసురనమస్కృతః
దేవాసురమహామాత్రో దేవాసురగణాశ్రయః
దేవాసురగణాధ్యక్షో దేవాసురగణాగ్రణీః
దేవాతిదేవో దేవర్షిర్దేవాసురవరప్రదః
దేవాసురేశ్వరో విశ్వో దేవాసురమహేశ్వరః
సర్వదేవమయోఽచిన్త్యో దేవతాత్మాఽఽత్మసమ్భవః
ఉద్భిత్త్రివిక్రమో వైద్యో విరజో నీరజోఽమరః
ఈడ్యో హస్తీశ్వరో వ్యాఘ్రో దేవసింహో నరర్షభః
విబుధోఽగ్రవరః సూక్ష్మః సర్వదేవస్తపోమయః
సుయుక్తః శోభనో వజ్రీ ప్రాసానాం ప్రభవోఽవ్యయః
గుహః కాన్తో నిజః సర్గః పవిత్రం సర్వపావనః
శృఙ్గీ శృఙ్గప్రియో బభ్రూ రాజరాజో నిరామయః
అభిరామః సురగణో విరామః సర్వసాధనః
లలాటాక్షో విశ్వదేవో హరిణో బ్రహ్మవర్చసః
స్థావరాణాం పతిశ్చైవ నియమేన్ద్రియవర్ధనః
సిద్ధార్థః సిద్ధభూతార్థోఽచిన్త్యః సత్యవ్రతః శుచిః
వ్రతాధిపః పరం బ్రహ్మ భక్తానాం పరమా గతిః
విముక్తో ముక్తతేజాశ్చ శ్రీమాన్ శ్రీవర్ధనో జగత్
శ్రీమాన్ శ్రీవర్ధనో జగత్ ఓం నమ ఇతి।
ఉత్తరభాగః
యథా ప్రధానం భగవాన్ ఇతి భక్త్యా స్తుతో మయా
యం న బ్రహ్మాదయో దేవా విదుస్తత్త్వేన నర్షయః
స్తోతవ్యమర్చ్యం వన్ద్యం చ కః స్తోష్యతి జగత్పతిమ్
భక్తిం త్వేవం పురస్కృత్య మయా యజ్ఞపతిర్విభుః
తతోఽభ్యనుజ్ఞాం సమ్ప్రాప్య స్తుతో మతిమతాం వరః
శివమేభిః స్తువన్ దేవం నామభిః పుష్టివర్ధనైః
నిత్యయుక్తః శుచిర్భక్తః ప్రాప్నోత్యాత్మానమాత్మనా
ఋషయశ్చైవ దేవాశ్చ స్తువన్త్యేతేన తత్పరమ్
స్తూయమానో మహాదేవస్తుష్యతే నియమాత్మభిః
భక్తానుకమ్పీ భగవాన్ ఆత్మసంస్థాకరో విభుః
తథైవ చ మనుష్యేషు యే మనుష్యాః ప్రధానతః
ఆస్తికాః శ్రద్దధానాశ్చ బహుభిర్జన్మభిః స్తవైః
భక్త్యా హ్యనన్యమీశానం పరం దేవం సనాతనమ్
కర్మణా మనసా వాచా భావేనామితతేజసః
శయానా జాగ్రమాణాశ్చ వ్రజన్నుపవిశంస్తథా
ఉన్మిషన్నిమిషంశ్చైవ చిన్తయన్తః పునః పునః
శృణ్వన్తః శ్రావయన్తశ్చ కథయన్తశ్చ తే భవమ్
స్తువన్తః స్తూయమానాశ్చ తుష్యన్తి చ రమన్తి చ
జన్మకోటిసహస్రేషు నానాసంసారయోనిషు
జన్తోర్విగతపాపస్య భవే భక్తిః ప్రజాయతే
ఉత్పన్నా చ భవే భక్తిరనన్యా సర్వభావతః
భావినః కారణే చాస్య సర్వయుక్తస్య సర్వథా
ఏతద్దేవేషు దుష్ప్రాపం మనుష్యేషు న లభ్యతే
నిర్విఘ్నా నిశ్చలా రుద్రే భక్తిరవ్యభిచారిణీ
తస్యైవ చ ప్రసాదేన భక్తిరుత్పద్యతే నృణామ్
యేన యాన్తి పరాం సిద్ధిం తద్భావగతచేతసః
యే సర్వభావానుగతాః ప్రపద్యన్తే మహేశ్వరమ్
ప్రపన్నవత్సలో దేవః సంసారాత్ తాన్ సముద్ధరేత్
ఏవమ్ అన్యే వికుర్వన్తి దేవాః సంసారమోచనమ్
మనుష్యాణామృతే దేవం నాన్యా శక్తిస్తపోబలమ్
ఇతి తేనేన్ద్రకల్పేన భగవాన్ సదసత్పతిః
కృత్తివాసాః స్తుతః కృష్ణ తణ్డినా శుద్ధబుద్ధినా
స్తవమేతం భగవతో బ్రహ్మా స్వయమధారయత్
గీయతే చ స బుద్ధ్యేత బ్రహ్మా శఙ్కరసన్నిధౌ
ఇదం పుణ్యం పవిత్రం చ సర్వదా పాపనాశనమ్
యోగదం మోక్షదం చైవ స్వర్గదం తోషదం తథా
ఏవమేతత్ పఠన్తే య ఏకభక్త్యా తు శఙ్కరమ్
యా గతిః సాఙ్ఖ్యయోగానాం వ్రజన్త్యేతాం గతిం తదా
స్తవమేతం ప్రయత్నేన సదా రుద్రస్య సన్నిధౌ
అబ్దమేకం చరేద్భక్తః ప్రాప్నుయాదీప్సితం ఫలమ్
ఏతద్రహస్యం పరమం బ్రహ్మణో హృది సంస్థితమ్
బ్రహ్మా ప్రోవాచ శక్రాయ శక్రః ప్రోవాచ మృత్యవే
మృత్యుః ప్రోవాచ రుద్రేభ్యో రుద్రేభ్యస్తణ్డిమాగమత్
మహతా తపసా ప్రాప్తస్తణ్డినా బ్రహ్మసద్మని
తణ్డిః ప్రోవాచ శుక్రాయ గౌతమాయ చ భార్గవః
వైవస్వతాయ మనవే గౌతమః ప్రాహ మాధవ
నారాయణాయ సాధ్యాయ సమాధిష్ఠాయ ధీమతే
యమాయ ప్రాహ భగవాన్ సాధ్యో నారాయణోఽచ్యుతః
నాచికేతాయ భగవాన్ ఆహ వైవస్వతో యమః
మార్కణ్డేయాయ వార్ష్ణేయ నాచికేతోఽభ్యభాషత
మార్కణ్డేయాన్మయా ప్రాప్తం నియమేన జనార్దన
తవాప్యహమ్ అమిత్రఘ్న స్తవం దద్యాం హ్యవిశ్రుతమ్
స్వర్గ్యమారోగ్యమాయుష్యం ధన్యం వేదేన సమ్మితమ్
నాస్య విఘ్నం వికుర్వన్తి దానవా యక్షరాక్షసాః
పిశాచా యాతుధానాశ్చ గుహ్యకా భుజగా అపి
యః పఠేత శుచిర్భూత్వా బ్రహ్మచారీ జితేన్ద్రియః
అభగ్నయోగో వర్షం తు సోఽశ్వమేధఫలం లభేత్
జైగీషవ్య ఉవాచ
మమాష్టగుణమైశ్వర్యం దత్తం భగవతా పురా
యత్నేనాన్యేన బలినా వారాణస్యాం యుధిష్ఠిర
వారాణస్యాం యుధిష్ఠిర ఓం నమ ఇతి
గర్గ ఉవాచ
చతుఃషష్ట్యఙ్గమదదత్ కలాజ్ఞానం మమాద్భుతమ్
సరస్వత్యాస్తటే తుష్టో మనోయజ్ఞేన పాణ్డవ\\[-1.6em]
మనోయజ్ఞేన పాణ్డవ ఓం నమ ఇతి।
వైశమ్పాయన ఉవాచ
తతః కృష్ణోఽబ్రవీద్వాక్యం పునర్మతిమతాం వరః
యుధిష్ఠిరం ధర్మనిధిం పురుహూతమివేశ్వరః
ఉపమన్యుర్మయి ప్రాహ తపన్నివ దివాకరః
అశుభైః పాపకర్మాణో యే నరాః కలుషీకృతాః
ఈశానం న ప్రపద్యన్తే తమోరాజసవృత్తయః
ఈశ్వరం సమ్ప్రపద్యన్తే ద్విజా భావితభావనాః
ఏవమేవ మహాదేవ భక్తా యే మానవా భువి
న తే సంసారవశగా ఇతి మే నిశ్చితా మతిః\\[-1.6em]
ఇతి మే నిశ్చితా మతిః ఓం నమ ఇతి।
॥ఇతి శ్రీమన్మహాభారతే శతసాహస్ర్యాం సంహితాయాం వైయాసిక్యామ్ ఆనుశాసనికపర్వణి అష్టాదశోఽధ్యాయః॥
దుఃస్వప్న-దుఃశకున-దుర్గతి-దౌర్మనస్య
దుర్భిక్ష-దుర్వ్యసన-దుఃసహ-దుర్యశాంసి
ఉత్పాత-తాప-విషభీతిమ్ అసద్-గ్రహార్తిం
వ్యాధీంశ్చ నాశయతు మే జగతామధీశః
॥ఇతి శ్రీ-శివసహస్రనామస్తోత్రం సమ్పూర్ణమ్॥
[sec:start_ShivaSahasranamaStotram]
śivasahasranāmastotram
sec:start_ShivaSahasranamaStotram
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
namo'stu te vyāsa viśālabuddhe phullāravindāyatapatranetra
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet
vande śambhumumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram
pūrvabhāgaḥ
yudhiṣṭhira uvāca
tvayā''pageya nāmāni śrutānīha jagatpateḥ
pitāmaheśāya vibhornāmānyācakṣva śambhave
babhrave viśvarūpāya mahābhāgyaṃ ca tattvataḥ
surāsuragurau deve śaṅkare'vyaktayonaye
bhīṣma uvāca
aśakto'haṃ guṇān vaktuṃ mahādevasya dhīmataḥ
yo hi sarvagato devo na ca sarvatra dṛśyate
brahmaviṣṇusureśānāṃ sraṣṭā ca prabhureva ca
brahmādayaḥ piśācāntā yaṃ hi devā upāsate
prakṛtīnāṃ paratvena puruṣasya ca yaḥ paraḥ
cintyate yo yogavidbhirṛṣibhistattvadarśibhiḥ
prakṛtiṃ puruṣaṃ caiva kṣobhayitvā svatejasā
brahmāṇamasṛjat tasmāddevadevaḥ prajāpatiḥ
ko hi śakto guṇān vaktuṃ devadevasya dhīmataḥ
garbhajanmajarāyukto martyo mṛtyusamanvitaḥ
ko hi śakto bhavaṃ jñātuṃ madvidhaḥ parameśvaram
ṛte nārāyaṇāt putra śaṅkhacakragadādharāt
eṣa vidvān guṇaśreṣṭho viṣṇuḥ paramadurjayaḥ
divyacakṣurmahātejā vīkṣyate yogacakṣuṣā
rudrabhaktyā tu kṛṣṇena jagadvyāptaṃ mahātmanā
taṃ prasādya tadā devaṃ badaryāṃ kila bhārata
arthāt priyataratvaṃ ca sarvalokeṣu vai tadā
prāptavāneva rājendra suvarṇākṣānmaheśvarāt
pūrṇaṃ varṣasahasraṃ tu taptavāneṣa mādhavaḥ
prasādya varadaṃ devaṃ carācaraguruṃ śivam
yuge yuge tu kṛṣṇena toṣito vai maheśvaraḥ
bhaktyā paramayā caiva prītaścaiva mahātmanaḥ
aiśvaryaṃ yādṛśaṃ tasya jagadyonermahātmanaḥ
tadayaṃ dṛṣṭavān sākṣāt putrārthe hariracyutaḥ
yasmāt parataraṃ caiva nānyaṃ paśyāmi bhārata
vyākhyātuṃ devadevasya śakto nāmānyaśeṣataḥ
eṣa śakto mahābāhurvaktuṃ bhagavato guṇān
vibhūtiṃ caiva kārtsnyena satyāṃ māheśvarīṃ nṛpa
surāsuraguro deva viṣṇo tvaṃ vaktum arhasi
śivāya śivarūpāya yanmā'pṛcchadyudhiṣṭhiraḥ
nāmnāṃ sahasraṃ devasya taṇḍinā brahmavādinā
niveditaṃ brahmaloke brahmaṇo yat purā'bhavat
dvaipāyanaprabhṛtayastathā ceme tapodhanāḥ
ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava
vāsudeva uvāca
na gatiḥ karmaṇāṃ śakyā vettumīśasya tattvataḥ
hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ
na viduryasya nidhanam ādiṃ vā sūkṣmadarśinaḥ
sa kathaṃ nāmamātreṇa śakyo jñātuṃ satāṃ gatiḥ
tasyāham asuraghnasya kāṃścidbhagavato guṇān
bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham
vaiśampāyana uvāca
evamuktvā tu bhagavān guṇāṃstasya mahātmanaḥ
upaspṛśya śucirbhūtvā kathayāmāsa dhīmataḥ
vāsudeva uvāca
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira
prāñjaliḥ prāha viprarṣirnāmasaṅgrahāmāditaḥ
upamanyuruvāca
brahmaproktairṛṣiproktairvedavedāṅgasambhavaiḥ
sarvalokeṣu vikhyātaṃ stutyaṃ stoṣyāmi nāmabhiḥ
mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ
ṛṣiṇā taṇḍinā bhaktyā kṛtairvedakṛtātmanā
yathoktaiḥ sādhubhiḥ khyātairmunibhistattvadarśibhiḥ
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ
satyaistat paramaṃ brahma brahmaproktaṃ sanātanam
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama
varayainaṃ bhavaṃ devaṃ bhaktastvaṃ parameśvaram
tena te śrāvayiṣyāmi yat tadbrahma sanātanam
na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit
yuktenāpi vibhūtīnāmapi varṣaśatairapi
yasyādirmadhyamantaṃ ca surairapi na gamyate
kastasya śaknuyādvaktuṃ guṇān kārtsnyena mādhava
kiṃ tu devasya mahataḥ saṅkṣiptārthapadākṣaram
śaktitaścaritaṃ vakṣye prasādāt tasya dhīmataḥ
aprāpya tu tato'nujñāṃ na śakyaḥ stotumīśvaraḥ
yadā tenābhyanujñātaḥ stuto vai sa tadā mayā
anādinidhanasyāhaṃ jagadyonermahātmanaḥ
nāmnāṃ kañcit samuddeśyaṃ vakṣyāmyavyaktayoninaḥ
varadasya vareṇyasya viśvarūpasya dhīmataḥ
śṛṇu nāmnāṃ cayaṃ kṛṣṇa yaduktaṃ padmayoninā
daśanāmasahasrāṇi yānyāha prapitāmahaḥ
tāni nirmathya manasā dadhno ghṛtamivoddhṛtam
gireḥ sāraṃ yathā hema puṣpasāraṃ yathā madhu
ghṛtāt sāraṃ yathā maṇḍastathaitat sāramuddhṛtam
sarvapāpāpahamidaṃ caturvedasamanvitam
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā
sarvabhūtātmabhūtasya harasyāmitatejasaḥ
aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu
yacchrutvā manujavyāghra sarvān kāmānavāpsyasi
dhyānam
śāntaṃ padmānasthaṃ śaśidharamukuṭaṃ pañcavaktraṃ trinetraṃ
śūlaṃ vajraṃ ca khaḍgaṃ paraśumabhayadaṃ dakṣabhāge vahantam
nāgaṃ pāśaṃ ghaṇṭāṃ pralayahutavahaṃ sāṅkuśaṃ vāmabhāge
nānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi
stotram
oṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ
śmaśānavāsī bhagavān khacaro gocaro'rdanaḥ
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ
mahātmā sarvabhūtātmā viśvarūpo mahāhanuḥ
lokapālo'ntarhitātmā prasādo hayagardabhiḥ
pavitraṃ ca mahāṃścaiva niyamo niyamāśritaḥ
sarvakarmā svayambhūta ādirādikaro nidhiḥ
sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ
candraḥ sūryaḥ śaniḥ keturgraho grahapatirvaraḥ
atriratryānamaskartā mṛgabāṇārpaṇo'naghaḥ
mahātapā ghoratapā adīno dīnasādhakaḥ
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ
yogī yojyo mahābījo mahāretā mahābalaḥ
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ
viśvarūpaḥ svayaṃśreṣṭho balavīro'balo gaṇaḥ
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca
mantravit paramomantraḥ sarvabhāvakaro haraḥ
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān
aśanī śataghnī khaḍgī paṭṭiśī cā''yudhī mahān
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ
uṣṇiṣī ca suvaktraśca udagro vinatastathā
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca
sṛgālarūpaḥ siddhārtho muṇḍaḥ sarvaśubhaṅkaraḥ
ajaśca bahurūpaśca gandhadhārī kapardyapi
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhaḥsthalaḥ
trijaṭī cīravāsāśca rudraḥ senāpatirvibhuḥ
ahaścaro naktañcarastigmamanyuḥ suvarcasaḥ
gajahā daityahā kālo lokadhātā guṇākaraḥ
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ
kālayogī mahānādaḥ sarvakāmaścatuṣpathaḥ
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ
bahubhūto bahudharaḥ svarbhānuramito gatiḥ
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ
ghoro mahātapāḥ pāśo nityo giriruho nabhaḥ
sahasrahasto vijayo vyavasāyo hyatandritaḥ
adharṣaṇo dharṣaṇātmā yajñahā kāmanāśakaḥ
dakṣayāgāpahārī ca susaho madhyamastathā
tejopahārī balahā mudito'rtho'jito varaḥ
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ
nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ
sutīkṣṇadaśanaścaiva mahākāyo mahānanaḥ
viṣvakseno hariryajñaḥ saṃyugāpīḍavāhanaḥ
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit
viṣṇuprasādito yajñaḥ samudro baḍavāmukhaḥ
hutāśanasahāyaśca praśāntātmā hutāśanaḥ
ugratejā mahātejā janyo vijayakālavit
jyotiṣāmayanaṃ siddhiḥ sarvavigraha eva ca
śikhī muṇḍī jaṭī jvālī mūrtijo mūrdhajo balī
vaiṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ
nakṣatravigrahamatirguṇabuddhirlayo'gamaḥ
prajāpatirviśvabāhurvibhāgaḥ sarvago'mukhaḥ
vimocanaḥ susaraṇo hiraṇyakavacodbhavaḥ
meḍhrajo balacārī ca mahīcārī srutastathā
sarvatūryavinodī ca sarvātodyaparigrahaḥ
vyālarūpo guhāvāsī guho mālī taraṅgavit
tridaśastrikāladhṛk karmasarvabandhavimocanaḥ
bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ
sāṅkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ
praskandano vibhāgajño'tulyo yajñavibhāgavit
sarvavāsaḥ sarvacārī durvāsā vāsavo'maraḥ
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ
lohitākṣo mahākṣaśca vijayākṣo viśāradaḥ
saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ
mukhyo'mukhyaśca dehaśca kāhaliḥ sarvakāmadaḥ
sarvakālaprasādaśca subalo balarūpadhṛk
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ
raudrarūpoṃ'śurādityo bahuraśmiḥ suvarcasī
vasuvego mahāvego manovego niśācaraḥ
sarvavāsī śriyāvāsī upadeśakaro'karaḥ
munirātmanirālokaḥ sambhagnaśca sahasradaḥ
pakṣī ca pakṣarūpaśca atidīpto viśāmpatiḥ
unmādo madanaḥ kāmo hyaśvattho'rthakaro yaśaḥ
vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ
siddhayogī maharṣiśca siddhārthaḥ siddhasādhakaḥ
bhikṣuśca bhikṣurūpaśca vipaṇo mṛduravyayaḥ
mahāseno viśākhaśca ṣaṣṭhibhāgo gavāṃ patiḥ
vajrahastaśca viṣkambhī camūstambhana eva ca
vṛttāvṛttakarastālo madhurmadhukalocanaḥ
vācaspatyo vājasano nityamāśritapūjitaḥ
brahmacārī lokacārī sarvacārī vicāravit
īśāna īśvaraḥ kālo niśācārī pinākavān
nimittastho nimittaṃ ca nandirnandikaro hariḥ
nandīśvaraśca nandī ca nandano nandivardhanaḥ
bhagahārī nihantā ca kālo brahmā pitāmahaḥ
caturmukho mahāliṅgaścāruliṅgastathaiva ca
liṅgādhyakṣaḥ surādhyakṣo yogādhyakṣo yugāvahaḥ
bījādhyakṣo bījakartā adhyātmā'nugato balaḥ
itihāsaḥ sakalpaśca gautamo'tha niśākaraḥ
dambho hyadambho vaidambho vaśyo vaśakaraḥ kaliḥ
lokakartā paśupatirmahākartā hyanauṣadhaḥ
akṣaraṃ paramaṃ brahma balavaccakra eva ca
nītirhyanītiḥ śuddhātmā śuddho mānyo gatāgataḥ
bahuprasādaḥ susvapno darpaṇo'tha tvamitrajit
vedakāro mantrakāro vidvān samaramardanaḥ
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ
agnijvālo mahājvālo atidhūmro huto haviḥ
vṛṣaṇaḥ śaṅkaro nityaṃ varcasvī dhūmaketanaḥ
nīlastathā'ṅgalubdhaśca śobhano niravagrahaḥ
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ
utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ
kṛṣṇavarṇaḥ suvarṇaśca indriyaṃ sarvadehinām
mahāpādo mahāhasto mahākāyo mahāyaśāḥ
mahāmūrdhā mahāmātro mahānetro niśālayaḥ
mahāntako mahākarṇo mahoṣṭhaśca mahāhanuḥ
mahānāso mahākamburmahāgrīvaḥ śmaśānabhāk
mahāvakṣā mahorasko hyantarātmā mṛgālayaḥ
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ
mahānakho mahāromo mahākośo mahājaṭaḥ
prasannaśca prasādaśca pratyayo girisādhanaḥ
snehano'snehanaścaiva ajitaśca mahāmuniḥ
vṛkṣākāro vṛkṣaketuranalo vāyuvāhanaḥ
gaṇḍalī merudhāmā ca devādhipatireva ca
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ
yajuḥ pādabhujo guhyaḥ prakāśo jaṅgamastathā
amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ
upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ
nābhirnandikaro bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ
dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ
sagaṇo gaṇakāraśca bhūtavāhanasārathiḥ
bhasmaśayo bhasmagoptā bhasmabhūtastarurgaṇaḥ
lokapālastathā'loko mahātmā sarvapūjitaḥ
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣevitaḥ
āśramasthaḥ kriyāvastho viśvakarmamatirvaraḥ
viśālaśākhastāmroṣṭho hyambujālaḥ suniścalaḥ
kapilaḥ kapiśaḥ śukla āyuścaiva paro'paraḥ
gandharvo hyaditistārkṣyaḥ suvijñeyaḥ suśāradaḥ
paraśvadhāyudho deva anukārī subāndhavaḥ
tumbavīṇo mahākrodha ūrdhvaretā jaleśayaḥ
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ
sarvāṅgarūpo māyāvī suhṛdo hyanilo'nalaḥ
bandhano bandhakartā ca subandhanavimocanaḥ
sayajñāriḥ sakāmārirmahādaṃṣṭro mahāyudhaḥ
bahudhā ninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro'dhanaḥ
amareśo mahādevo viśvadevaḥ surārihā
ahirbudhnyo'nilābhaśca cekitāno havistathā
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ
uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ
vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ
padmanābho mahāgarbhaścandravaktro'nilo'nalaḥ
balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī
kurukartā kuruvāsī kurubhūto guṇauṣadhaḥ
sarvāśayo darbhacārī sarveṣāṃ prāṇināṃ patiḥ
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit
kailāsagirivāsī ca himavadgirisaṃśrayaḥ
kūlahārī kūlakartā bahuvidyo bahupradaḥ
vaṇijo vardhakī vṛkṣo vakulaścandanaśchadaḥ
sāragrīvo mahājatruralolaśca mahauṣadhaḥ
siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ
prabhāvātmā jagatkālasthālo lokahitastaruḥ
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ
bhūtālayo bhūtapatirahorātramaninditaḥ
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ
dhṛtimān matimān dakṣaḥ satkṛtaśca yugādhipaḥ
gopālirgopatirgrāmo gocarmavasano hariḥ
hiraṇyabāhuśca tathā guhāpālaḥ praveśinām
prakṛṣṭārirmahāharṣo jitakāmo jitendriyaḥ
gāndhāraśca suvāsaśca tapaḥsakto ratirnaraḥ
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ
mahāketurmahādhāturnaikasānucaraścalaḥ
āvedanīya ādeśaḥ sarvagandhasukhāvahaḥ
toraṇastāraṇo vātaḥ paridhīḥ patikhecaraḥ
saṃyogo vardhano vṛddho ativṛddho guṇādhikaḥ
nityamātmasahāyaśca devāsurapatiḥ patiḥ
yuktaśca yuktabāhuśca devo divi suparvaṇaḥ
āṣāḍhaśca suṣāḍhaśca dhruvo'tha hariṇo haraḥ
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ
śirohārī vimarśaśca sarvalakṣaṇalakṣitaḥ
akṣaśca rathayogī ca sarvayogī mahābalaḥ
samāmnāyo'samāmnāyastīrthadevo mahārathaḥ
nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ
ratnaprabhūto raktāṅgo mahārṇavanipānavit
mūlaṃ viśālo hyamṛto vyaktāvyaktastaponidhiḥ
ārohaṇo'dhirohaśca śīladhārī mahāyaśāḥ
senākalpo mahākalpo yogo yugakaro hariḥ
yugarūpo mahārūpo mahānāgahano vadhaḥ
nyāyanirvapaṇaḥ pādaḥ paṇḍito hyacalopamaḥ
bahumālo mahāmālaḥ śaśī harasulocanaḥ
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ
trilocano viṣaṇṇāṅgo maṇividdho jaṭādharaḥ
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇām
manthāno bahulo vāyuḥ sakalaḥ sarvalocanaḥ
talastālaḥ karasthālī ūrdhvasaṃhanano mahān
chattraṃ succhattro vikhyāto lokaḥ sarvāśrayaḥ kramaḥ
muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ
haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāt
sahasramūrdhā devendraḥ sarvadevamayo guruḥ
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt
pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ
brahmadaṇḍavinirmātā śataghnīpāśaśaktimān
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ
gabhastirbrahmakṛd-brahmī brahmavid-brāhmaṇo gatiḥ
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ
candanī padmanālāgraḥ surabhyuttaraṇo naraḥ
karṇikāramahāsragvī nīlamauliḥ pinākadhṛk
umāpatirumākānto jāhnavīdhṛgumādhavaḥ
varo varāho varado vareṇyaḥ sumahāsvanaḥ
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ
pītātmā paramātmā ca prayatātmā pradhānadhṛk
sarvapārśvamukhastryakṣo dharmasādhāraṇo varaḥ
carācarātmā sūkṣmātmā amṛto govṛṣeśvaraḥ
sādhyarṣirvasurādityo vivasvān savitā'mṛtaḥ
vyāsaḥ sargaḥ susaṅkṣepo vistaraḥ paryayo naraḥ
ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ
kalāḥ kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ
viśvakṣetraṃ prajābījaṃ liṅgamādyastu nirgamaḥ
sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
nirvāṇaṃ hlādanaścaiva brahmalokaḥ parā gatiḥ
devāsuravinirmātā devāsuraparāyaṇaḥ
devāsuragururdevo devāsuranamaskṛtaḥ
devāsuramahāmātro devāsuragaṇāśrayaḥ
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ
devātidevo devarṣirdevāsuravarapradaḥ
devāsureśvaro viśvo devāsuramaheśvaraḥ
sarvadevamayo'cintyo devatātmā''tmasambhavaḥ
udbhittrivikramo vaidyo virajo nīrajo'maraḥ
īḍyo hastīśvaro vyāghro devasiṃho nararṣabhaḥ
vibudho'gravaraḥ sūkṣmaḥ sarvadevastapomayaḥ
suyuktaḥ śobhano vajrī prāsānāṃ prabhavo'vyayaḥ
guhaḥ kānto nijaḥ sargaḥ pavitraṃ sarvapāvanaḥ
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ
lalāṭākṣo viśvadevo hariṇo brahmavarcasaḥ
sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ
siddhārthaḥ siddhabhūtārtho'cintyaḥ satyavrataḥ śuciḥ
vratādhipaḥ paraṃ brahma bhaktānāṃ paramā gatiḥ
vimukto muktatejāśca śrīmān śrīvardhano jagat
śrīmān śrīvardhano jagat oṃ nama iti|
uttarabhāgaḥ
yathā pradhānaṃ bhagavān iti bhaktyā stuto mayā
yaṃ na brahmādayo devā vidustattvena narṣayaḥ
stotavyamarcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim
bhaktiṃ tvevaṃ puraskṛtya mayā yajñapatirvibhuḥ
tato'bhyanujñāṃ samprāpya stuto matimatāṃ varaḥ
śivamebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ
nityayuktaḥ śucirbhaktaḥ prāpnotyātmānamātmanā
ṛṣayaścaiva devāśca stuvantyetena tatparam
stūyamāno mahādevastuṣyate niyamātmabhiḥ
bhaktānukampī bhagavān ātmasaṃsthākaro vibhuḥ
tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ
āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ
bhaktyā hyananyamīśānaṃ paraṃ devaṃ sanātanam
karmaṇā manasā vācā bhāvenāmitatejasaḥ
śayānā jāgramāṇāśca vrajannupaviśaṃstathā
unmiṣannimiṣaṃścaiva cintayantaḥ punaḥ punaḥ
śṛṇvantaḥ śrāvayantaśca kathayantaśca te bhavam
stuvantaḥ stūyamānāśca tuṣyanti ca ramanti ca
janmakoṭisahasreṣu nānāsaṃsārayoniṣu
jantorvigatapāpasya bhave bhaktiḥ prajāyate
utpannā ca bhave bhaktirananyā sarvabhāvataḥ
bhāvinaḥ kāraṇe cāsya sarvayuktasya sarvathā
etaddeveṣu duṣprāpaṃ manuṣyeṣu na labhyate
nirvighnā niścalā rudre bhaktiravyabhicāriṇī
tasyaiva ca prasādena bhaktirutpadyate nṛṇām
yena yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ
ye sarvabhāvānugatāḥ prapadyante maheśvaram
prapannavatsalo devaḥ saṃsārāt tān samuddharet
evam anye vikurvanti devāḥ saṃsāramocanam
manuṣyāṇāmṛte devaṃ nānyā śaktistapobalam
iti tenendrakalpena bhagavān sadasatpatiḥ
kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā
stavametaṃ bhagavato brahmā svayamadhārayat
gīyate ca sa buddhyeta brahmā śaṅkarasannidhau
idaṃ puṇyaṃ pavitraṃ ca sarvadā pāpanāśanam
yogadaṃ mokṣadaṃ caiva svargadaṃ toṣadaṃ tathā
evametat paṭhante ya ekabhaktyā tu śaṅkaram
yā gatiḥ sāṅkhyayogānāṃ vrajantyetāṃ gatiṃ tadā
stavametaṃ prayatnena sadā rudrasya sannidhau
abdamekaṃ caredbhaktaḥ prāpnuyādīpsitaṃ phalam
etadrahasyaṃ paramaṃ brahmaṇo hṛdi saṃsthitam
brahmā provāca śakrāya śakraḥ provāca mṛtyave
mṛtyuḥ provāca rudrebhyo rudrebhyastaṇḍimāgamat
mahatā tapasā prāptastaṇḍinā brahmasadmani
taṇḍiḥ provāca śukrāya gautamāya ca bhārgavaḥ
vaivasvatāya manave gautamaḥ prāha mādhava
nārāyaṇāya sādhyāya samādhiṣṭhāya dhīmate
yamāya prāha bhagavān sādhyo nārāyaṇo'cyutaḥ
nāciketāya bhagavān āha vaivasvato yamaḥ
mārkaṇḍeyāya vārṣṇeya nāciketo'bhyabhāṣata
mārkaṇḍeyānmayā prāptaṃ niyamena janārdana
tavāpyaham amitraghna stavaṃ dadyāṃ hyaviśrutam
svargyamārogyamāyuṣyaṃ dhanyaṃ vedena sammitam
nāsya vighnaṃ vikurvanti dānavā yakṣarākṣasāḥ
piśācā yātudhānāśca guhyakā bhujagā api
yaḥ paṭheta śucirbhūtvā brahmacārī jitendriyaḥ
abhagnayogo varṣaṃ tu so'śvamedhaphalaṃ labhet
jaigīṣavya uvāca
mamāṣṭaguṇamaiśvaryaṃ dattaṃ bhagavatā purā
yatnenānyena balinā vārāṇasyāṃ yudhiṣṭhira
vārāṇasyāṃ yudhiṣṭhira oṃ nama iti
garga uvāca
catuḥṣaṣṭyaṅgamadadat kalājñānaṃ mamādbhutam
sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava\\[-1.6em]
manoyajñena pāṇḍava oṃ nama iti|
vaiśampāyana uvāca
tataḥ kṛṣṇo'bravīdvākyaṃ punarmatimatāṃ varaḥ
yudhiṣṭhiraṃ dharmanidhiṃ puruhūtamiveśvaraḥ
upamanyurmayi prāha tapanniva divākaraḥ
aśubhaiḥ pāpakarmāṇo ye narāḥ kaluṣīkṛtāḥ
īśānaṃ na prapadyante tamorājasavṛttayaḥ
īśvaraṃ samprapadyante dvijā bhāvitabhāvanāḥ
evameva mahādeva bhaktā ye mānavā bhuvi
na te saṃsāravaśagā iti me niścitā matiḥ\\[-1.6em]
iti me niścitā matiḥ oṃ nama iti|
||iti śrīmanmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām ānuśāsanikaparvaṇi aṣṭādaśo'dhyāyaḥ||
duḥsvapna-duḥśakuna-durgati-daurmanasya
durbhikṣa-durvyasana-duḥsaha-duryaśāṃsi
utpāta-tāpa-viṣabhītim asad-grahārtiṃ
vyādhīṃśca nāśayatu me jagatāmadhīśaḥ
||iti śrī-śivasahasranāmastotraṃ sampūrṇam||
[sec:start_ShivaSahasranamaStotram]