शिवसहस्रनामस्तोत्रम् (विष्णुकृतम्)
sec:start_ShivaSahasranamaStotram-VishnuKrtam
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
ऋषय ऊचुः
कथं देवेन वै सूत देवदेवान्महेश्वरात्
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना
सूत उवाच
देवानामसुरेन्द्राणामभवच्च सुदारुणः
सर्वेषामेव भूतानां विनाशकरणो महान्
ते देवाः शक्तिमुसलैः सायकैर्नतपर्वभिः
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः
पराजितास्तदा देवा देवदेवेश्वरं हरिम्
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः
प्रणिपत्य स्थितान् देवानिदं वचनमब्रवीत्
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः
समागताः ससन्तापा वक्तुमर्हथ सुव्रताः
तस्य तद् वचनं श्रुत्वा तथाभूताः सुरोत्तमाः
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे
भगवन् देवदेवेश विष्णो जिष्णो जनार्दन
दानवैः पीडिताः सर्वे वयं शरणमागताः
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम
त्वमेव परमात्मा हि त्वं पिता जगतामपि
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन
हन्तुमर्हसि तस्मात् त्वं दानवान् दानवार्दन
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः
कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः
वायव्यैश्च तथाऽऽग्नेयैरेशानैर्वार्षिकैः शुभैः
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः
अवध्या वरलाभात् ते सर्वे वारिजलोचन
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम्
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः
पुरा जलन्धरं हेतुं निर्मितं त्रिपुरारिणा
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि
तस्मात् तेन निहन्तव्या नान्यैः शस्त्रशतैरपि
ततो निशम्य तेषां वै वचनं वारिजेक्षणः
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्।
श्रीविष्णुरुवाच
भो भो देवा महादेवं सर्वैर्देवैः सनातनैः॥१७॥
shlokacount1
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम्
देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान्
सर्वान् धुन्धुमुखान् दैत्यान् अष्टषष्टिशतान् सुरान्
सबान्धवान् क्षणादेव युष्मान् सन्तारयाम्यहम्।
सूत उवाच
एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्॥२०॥
shlokacount1
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम्
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे
मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम्
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम्
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम्
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम्
प्रतिनाम स पद्मेन पूजयामास शङ्करम्
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम्
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम्।
न्यासः
अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य \\
श्रीविष्णुः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्रीशङ्करो देवता।
ध्यानम्
मूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं
वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम्
नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिनेत्रं
वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम्
स्तोत्रम्
श्रीविष्णुरुवाच
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः
अर्थितव्यः सदाचारः सर्वशम्भुमहेश्वरः
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात्
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः
चन्द्रापीडश्चन्द्रमौलिर्विद्वान् विश्वामरेश्वरः
वेदान्तसारसन्दोहः कपाली नीललोहितः
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः
वामदेवो महादेवः पाण्डुः परिदृढोऽदृढः
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः
सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः
उन्मत्तवेषश्चक्षुष्यो दुर्वासाः स्मरशासनः
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित्
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः
दान्तोदयाकरो दक्षः कपर्दी कामशासनः
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः
लोककर्ता भूतपतिर्महाकर्ता महौषधी
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी
सोमपोऽमृतपः सोमो महानीतिर्महामतिः
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः
लोककारो वेदकारः सूत्रकारः सनातनः
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः
पिनाकपाणिर्भूर्देवः स्वस्तिदः स्वस्तिकृत् सदा
त्रिधामा सौभगः शर्वसर्वज्ञः सर्वगोचरः
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः
शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः
गङ्गाप्लवोदको भावः सकलः स्थपतिस्थिरः
विजितात्मा विधेयात्मा भूतवाहनसारथिः
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः
कामदेवः कामपालो भस्मोद्धूलितविग्रहः
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः
शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः
पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः
वीतरागो विनीतात्मा तपस्वी भूतभावनः
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः
तपःस्वी तारको धीमान् प्रधानप्रभुरव्ययः
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः
चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः
भक्तिगम्यः परब्रह्ममृगबाणार्पणोऽनघः
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः
योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः
वसुर्वसुमनाः सत्यसर्वपापहरो हरः
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान्
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः
कालयोगी महानादो महोत्साहो महाबलः
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः
निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः
ओजस्तेजोद्युतिकरो नर्तकः सर्वकामकः
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः
बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः
युगादिकृद् युगावर्तो गम्भीरो वृषवाहनः
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः
अपां निधिरधिष्ठानविजयो जयकालवित्
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः
विरोचनः सुरगणो विद्येशो विबुधाश्रयः
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः
करणं कारणं कर्ता सर्वबन्धविमोचनः
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः
दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट्
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः
मघवान् कौशिको गोमान् विश्रामः सर्वशासनः
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत्
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी
परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतोऽजनः
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः
कैलासपतिकामारिः सविता रविलोचनः
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः
जननो जनजन्मादिः प्रीतिमान् नीतिमान् नयः
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः
प्रणवः सप्तधाचारो महाकायो महाधनुः
जन्माधिपो महादेवः सकलागमपारगः
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः
आत्मयोनिरनाद्यन्तः षड्विंशत्सप्तलोकधृक्
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः
शिशुर्गिरिरतः सम्राट्सुषेणः सुरशत्रुहा
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः
स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रत्रयीतनुः
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽर्थननाशनः
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः
जगद्धितैषिसुगतः कुमारः कुशलागमः
हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः
मातामहो मातरिश्वा नभस्वान् नागहारधृक्
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः
आत्मभूरनिरुद्धोऽत्रिज्ञानमूर्तिर्महायशाः
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः
अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः
जर्यो जराधिशमनो लोहितश्च तनूनपात्
पृषदश्वो नभो योनिः सुप्रतीकस्तमिस्रहा
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः
अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः
मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः
चारुधीर्जनकश्चारुविशल्यो लोकशल्यकृत्
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः
बहुरूपो महारूपः सर्वरूपश्चराचरः
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत्
पद्मासनः परञ्ज्योतिः परावरपरम्फलः
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरमहाश्रयः
देवादिदेवो देवर्षिदेवासुरवरप्रदः
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः
जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः
स्ववशः सवशः स्वर्गस्वरः स्वरमयस्वनः
बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः
दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः
वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत्
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः
आधारः सकलाधारः पाण्डुराभो मृडो नटः
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः
मानी मान्यो महाकालः सद्भूतिः सत्परायणः
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः
तुम्बवीणी महाकायो विशोकः शोकनाशनः
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशां पतिः
वरशीलो वरतुलो मानो मानधनो मयः
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः
कैलासशिखरावासी सर्वावासी सतां गतिः
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः
संयोगी योगविद् ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः
निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः
सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत्
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः
अपराजितः सर्वसहो विदग्धः सर्ववाहनः
अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः
वराहशृङ्गधृग् वायुर्बलवानेकनायकः
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक्
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः
अकायो भक्तकायस्थः कालज्ञानी कलावपुः
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा
स्वभावरुद्द्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली
मेखली कवची खड्गी मायी संसारसारथिः
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः
असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् कार्यकोविदः
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः
सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः
एकज्योतिर्निरातङ्को नरो नारायणप्रियः
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः
निरवद्यपदोपायो विद्याराशिरविक्रमः
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः
॥इति श्रीलिङ्गमहापुराणे पूर्वभागे अष्टनवतितमे अध्याये भगवता विष्णुना प्रोक्तं श्रीशिवसहस्रनामस्तोत्रम्॥
सूत उवाच
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्॥१५९॥
shlokacount159
स्नापयामास च विभुः पूजयामास पङ्कजैः
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः
गोपयामास कमलं तदैकं भुवनेश्वरः
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत्
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम्
पूजयामास भावेन नाम्ना तेन जगद्गुरुम्
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम्
तस्मादवतताराशु मण्डलात् पावकस्य च
कोटिभास्करसङ्काशं जटामुकुटमण्डितम्
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम्
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम्
वरदाभयहस्तं च द्वीपिचर्मोत्तरीयकम्
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम्
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम्
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम्
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले
तदा प्राह महादेवः प्रहसन्निव शङ्करः
सम्प्रेक्ष्य प्रणयाद् विष्णुं कृताञ्जलिपुटं स्थितम्
ज्ञातं मयेदमधुना देवकार्यं जनार्दन
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम्
यद् रूपं भवता दृष्टं सर्वलोकभयङ्करम्
हिताय तव यत्नेन तव भावाय सुव्रत
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम्
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम्
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनम्
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः
देवैरशान्तैर्यद् रूपं मदीयं भावयाव्ययम्
किमायुधेन कार्यं वै योद्धुं देवारिसूदन
क्षमा युधि न कार्या वै योद्धुं देवारिसूदन
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे
अकालिके त्वधर्मे च अनर्थे वाऽरिसूदन
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम्
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम्
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम्
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह
वरदोऽहं वरश्रेष्ठ वरान् वरय चेप्सितान्
भक्त्या वशीकृतो नूनं त्वयाऽहं पुरुषोत्तम
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम्
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम्
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत् प्रभो
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः
प्राह चैवं महादेवः परमात्मानमच्युतम्
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः
भविष्यसि न सन्देहो मत्प्रसादात् सुरोत्तम
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना
मातरं पितरं दक्षं भविष्यति सुरेश्वरी
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम्
नियोगाद् ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम्
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि
मां दिव्येन च भावेन तदा प्रभृति शङ्करम्
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना
इत्युक्त्वाऽन्तर्दधे रुद्रो भगवान् नीललोहितः
जनार्दनोऽपि भगवान् देवानामपि सन्निधौ
अयाचत महादेवं ब्रह्माणं मुनिभिः समम्
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम्
यः पठेच्छृणुयाद् वाऽपि श्रावयेद् वा द्विजोत्तमान्
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात्
अश्वमेधसहस्रेण फलं भवति तस्य वै
घृताद्यैः स्नापयेद् रुद्रं स्थाल्या वै कलशैः शुभैः
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम्
सोऽपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै
तथाऽस्त्विति तथा प्राह पद्मयोनिर्जनार्दनम्
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम्
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः
जपेन्नाम्नां सहस्रं च स याति परमां गतिम्
॥इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद् विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः॥
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्य
दुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि
उत्पाततापविषभीतिम् असद्ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः
॥इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम्॥
[sec:start_ShivaSahasranamaStotram-VishnuKrtam]
శివసహస్రనామస్తోత్రమ్ (విష్ణుకృతమ్)
sec:start_ShivaSahasranamaStotram-VishnuKrtam
శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే
నమోఽస్తు తే వ్యాస విశాలబుద్ధే ఫుల్లారవిన్దాయతపత్రనేత్ర
యేన త్వయా భారతతైలపూర్ణః ప్రజ్వాలితో జ్ఞానమయః ప్రదీపః
నారాయణం నమస్కృత్య నరం చైవ నరోత్తమమ్
దేవీం సరస్వతీం వ్యాసం తతో జయముదీరయేత్
వన్దే శమ్భుముమాపతిం సురగురుం వన్దే జగత్కారణం
వన్దే పన్నగభూషణం మృగధరం వన్దే పశూనాం పతిమ్
వన్దే సూర్యశశాఙ్కవహ్నినయనం వన్దే ముకున్దప్రియం
వన్దే భక్తజనాశ్రయం చ వరదం వన్దే శివం శఙ్కరమ్
ఋషయ ఊచుః
కథం దేవేన వై సూత దేవదేవాన్మహేశ్వరాత్
సుదర్శనాఖ్యం వై లబ్ధం వక్తుమర్హసి విష్ణునా
సూత ఉవాచ
దేవానామసురేన్ద్రాణామభవచ్చ సుదారుణః
సర్వేషామేవ భూతానాం వినాశకరణో మహాన్
తే దేవాః శక్తిముసలైః సాయకైర్నతపర్వభిః
ప్రభిద్యమానాః కున్తైశ్చ దుద్రువుర్భయవిహ్వలాః
పరాజితాస్తదా దేవా దేవదేవేశ్వరం హరిమ్
ప్రణేముస్తం సురేశానం శోకసంవిగ్నమానసాః
తాన్ సమీక్ష్యాథ భగవాన్ దేవదేవేశ్వరో హరిః
ప్రణిపత్య స్థితాన్ దేవానిదం వచనమబ్రవీత్
వత్సాః కిమితి వై దేవాశ్చ్యుతాలఙ్కారవిక్రమాః
సమాగతాః ససన్తాపా వక్తుమర్హథ సువ్రతాః
తస్య తద్ వచనం శ్రుత్వా తథాభూతాః సురోత్తమాః
ప్రణమ్యాహుర్యథావృత్తం దేవదేవాయ విష్ణవే
భగవన్ దేవదేవేశ విష్ణో జిష్ణో జనార్దన
దానవైః పీడితాః సర్వే వయం శరణమాగతాః
త్వమేవ దేవదేవేశ గతిర్నః పురుషోత్తమ
త్వమేవ పరమాత్మా హి త్వం పితా జగతామపి
త్వమేవ భర్తా హర్తా చ భోక్తా దాతా జనార్దన
హన్తుమర్హసి తస్మాత్ త్వం దానవాన్ దానవార్దన
దైత్యాశ్చ వైష్ణవైర్బ్రాహ్మై రౌద్రైర్యామ్యైః సుదారుణైః
కౌబేరైశ్చైవ సౌమ్యైశ్చ నైర్ఋత్యైర్వారుణైర్దృఢైః
వాయవ్యైశ్చ తథాఽఽగ్నేయైరేశానైర్వార్షికైః శుభైః
సౌరై రౌద్రైస్తథా భీమైః కమ్పనైర్జృమ్భణైర్దృఢైః
అవధ్యా వరలాభాత్ తే సర్వే వారిజలోచన
సూర్యమణ్డలసమ్భూతం త్వదీయం చక్రముద్యతమ్
కుణ్ఠితం హి దధీచేన చ్యావనేన జగద్గురో
దణ్డం శార్ఙ్గం తవాస్త్రం చ లబ్ధం దైత్యైః ప్రసాదతః
పురా జలన్ధరం హేతుం నిర్మితం త్రిపురారిణా
రథాఙ్గం సుశితం ఘోరం తేన తాన్ హన్తుమర్హసి
తస్మాత్ తేన నిహన్తవ్యా నాన్యైః శస్త్రశతైరపి
తతో నిశమ్య తేషాం వై వచనం వారిజేక్షణః
వాచస్పతిముఖానాహ స హరిశ్చక్రభృత్ స్వయమ్।
శ్రీవిష్ణురువాచ
భో భో దేవా మహాదేవం సర్వైర్దేవైః సనాతనైః॥౧౭॥
shlokacount1
సమ్ప్రాప్య సామ్ప్రతం సర్వం కరిష్యామి దివౌకసామ్
దేవా జలన్ధరం హన్తుం నిర్మితం హి పురారిణా
లబ్ధ్వా రథాఙ్గం తేనైవ నిహత్య చ మహాసురాన్
సర్వాన్ ధున్ధుముఖాన్ దైత్యాన్ అష్టషష్టిశతాన్ సురాన్
సబాన్ధవాన్ క్షణాదేవ యుష్మాన్ సన్తారయామ్యహమ్।
సూత ఉవాచ
ఏవముక్త్వా సురశ్రేష్ఠాన్ సురశ్రేష్ఠమనుస్మరన్॥౨౦॥
shlokacount1
సురశ్రేష్ఠస్తదా శ్రేష్ఠం పూజయామాస శఙ్కరమ్
లిఙ్గం స్థాప్య యథాన్యాయం హిమవచ్ఛిఖరే శుభే
మేరుపర్వతసఙ్కాశం నిర్మితం విశ్వకర్మణా
త్వరితాఖ్యేన రుద్రేణ రౌద్రేణ చ జనార్దనః
స్నాప్య సమ్పూజ్య గన్ధాద్యైర్జ్వాలాకారం మనోరమమ్
తుష్టావ చ తదా రుద్రం సమ్పూజ్యాగ్నౌ ప్రణమ్య చ
దేవం నామ్నాం సహస్రేణ భవాద్యేన యథాక్రమమ్
పూజయామాస చ శివం ప్రణవాద్యం నమోన్తకమ్
దేవం నామ్నాం సహస్రేణ భవాద్యేన మహేశ్వరమ్
ప్రతినామ స పద్మేన పూజయామాస శఙ్కరమ్
అగ్నౌ చ నామభిర్దేవం భవాద్యైః సమిదాదిభిః
స్వాహాన్తైర్విధివద్ధుత్వా ప్రత్యేకమయుతం ప్రభుమ్
తుష్టావ చ పునః శమ్భుం భవాద్యైర్భవమీశ్వరమ్।
న్యాసః
అస్య శ్రీశివసహస్రనామస్తోత్రమహామన్త్రస్య \\
శ్రీవిష్ణుః ఋషిః, అనుష్టుప్ ఛన్దః, పరమాత్మా శ్రీశఙ్కరో దేవతా।
ధ్యానమ్
మూలే కల్పద్రుమస్య ద్రుతకనకనిభం చారుపద్మాసనస్థం
వామాఙ్కారూఢగౌరీనిబిడకుచభరాభోగగాఢోపగూఢమ్
నానాలఙ్కారకాన్తం వరపరశుమృగాభీతిహస్తం త్రినేత్రం
వన్దే బాలేన్దుమౌలిం గజవదనగుహాశ్లిష్టపార్శ్వం మహేశమ్
స్తోత్రమ్
శ్రీవిష్ణురువాచ
భవః శివో హరో రుద్రః పురుషః పద్మలోచనః
అర్థితవ్యః సదాచారః సర్వశమ్భుమహేశ్వరః
ఈశ్వరః స్థాణురీశానః సహస్రాక్షః సహస్రపాత్
వరీయాన్ వరదో వన్ద్యః శఙ్కరః పరమేశ్వరః
గఙ్గాధరః శూలధరః పరార్థైకప్రయోజనః
సర్వజ్ఞః సర్వదేవాదిగిరిధన్వా జటాధరః
చన్ద్రాపీడశ్చన్ద్రమౌలిర్విద్వాన్ విశ్వామరేశ్వరః
వేదాన్తసారసన్దోహః కపాలీ నీలలోహితః
ధ్యానాధారోఽపరిచ్ఛేద్యో గౌరీభర్తా గణేశ్వరః
అష్టమూర్తిర్విశ్వమూర్తిస్త్రివర్గః స్వర్గసాధనః
జ్ఞానగమ్యో దృఢప్రజ్ఞో దేవదేవస్త్రిలోచనః
వామదేవో మహాదేవః పాణ్డుః పరిదృఢోఽదృఢః
విశ్వరూపో విరూపాక్షో వాగీశః శుచిరన్తరః
సర్వప్రణయసంవాదీ వృషాఙ్కో వృషవాహనః
ఈశః పినాకీ ఖట్వాఙ్గీ చిత్రవేషశ్చిరన్తనః
తమోహరో మహాయోగీ గోప్తా బ్రహ్మాఙ్గహృజ్జటీ
కాలకాలః కృత్తివాసాః సుభగః ప్రణవాత్మకః
ఉన్మత్తవేషశ్చక్షుష్యో దుర్వాసాః స్మరశాసనః
దృఢాయుధః స్కన్దగురుః పరమేష్ఠీ పరాయణః
అనాదిమధ్యనిధనో గిరిశో గిరిబాన్ధవః
కుబేరబన్ధుః శ్రీకణ్ఠో లోకవర్ణోత్తమోత్తమః
సామాన్యదేవః కోదణ్డీ నీలకణ్ఠః పరశ్వధీ
విశాలాక్షో మృగవ్యాధః సురేశః సూర్యతాపనః
ధర్మకర్మాక్షమః క్షేత్రం భగవాన్ భగనేత్రభిత్
ఉగ్రః పశుపతిస్తార్క్ష్యప్రియభక్తః ప్రియంవదః
దాన్తోదయాకరో దక్షః కపర్దీ కామశాసనః
శ్మశాననిలయః సూక్ష్మః శ్మశానస్థో మహేశ్వరః
లోకకర్తా భూతపతిర్మహాకర్తా మహౌషధీ
ఉత్తరో గోపతిర్గోప్తా జ్ఞానగమ్యః పురాతనః
నీతిః సునీతిః శుద్ధాత్మా సోమసోమరతః సుఖీ
సోమపోఽమృతపః సోమో మహానీతిర్మహామతిః
అజాతశత్రురాలోకః సమ్భావ్యో హవ్యవాహనః
లోకకారో వేదకారః సూత్రకారః సనాతనః
మహర్షిః కపిలాచార్యో విశ్వదీప్తిస్త్రిలోచనః
పినాకపాణిర్భూర్దేవః స్వస్తిదః స్వస్తికృత్ సదా
త్రిధామా సౌభగః శర్వసర్వజ్ఞః సర్వగోచరః
బ్రహ్మధృగ్విశ్వసృక్స్వర్గః కర్ణికారః ప్రియః కవిః
శాఖో విశాఖో గోశాఖః శివో నైకః క్రతుః సమః
గఙ్గాప్లవోదకో భావః సకలః స్థపతిస్థిరః
విజితాత్మా విధేయాత్మా భూతవాహనసారథిః
సగణో గణకార్యశ్చ సుకీర్తిశ్ఛిన్నసంశయః
కామదేవః కామపాలో భస్మోద్ధూలితవిగ్రహః
భస్మప్రియో భస్మశాయీ కామీ కాన్తః కృతాగమః
సమాయుక్తో నివృత్తాత్మా ధర్మయుక్తః సదాశివః
చతుర్ముఖశ్చతుర్బాహుర్దురావాసో దురాసదః
దుర్గమో దుర్లభో దుర్గః సర్వాయుధవిశారదః
అధ్యాత్మయోగనిలయః సుతన్తుస్తన్తువర్ధనః
శుభాఙ్గో లోకసారఙ్గో జగదీశోఽమృతాశనః
భస్మశుద్ధికరో మేరురోజస్వీ శుద్ధవిగ్రహః
హిరణ్యరేతాస్తరణిర్మరీచిర్మహిమాలయః
మహాహ్రదో మహాగర్భః సిద్ధవృన్దారవన్దితః
వ్యాఘ్రచర్మధరో వ్యాలీ మహాభూతో మహానిధిః
అమృతాఙ్గోఽమృతవపుః పఞ్చయజ్ఞః ప్రభఞ్జనః
పఞ్చవింశతితత్త్వజ్ఞః పారిజాతః పరావరః
సులభః సువ్రతః శూరో వాఙ్మయైకనిధిర్నిధిః
వర్ణాశ్రమగురుర్వర్ణీ శత్రుజిచ్ఛత్రుతాపనః
ఆశ్రమః క్షపణః క్షామో జ్ఞానవానచలాచలః
ప్రమాణభూతో దుర్జ్ఞేయః సుపర్ణో వాయువాహనః
ధనుర్ధరో ధనుర్వేదో గుణరాశిర్గుణాకరః
అనన్తదృష్టిరానన్దో దణ్డో దమయితా దమః
అభివాద్యో మహాచార్యో విశ్వకర్మా విశారదః
వీతరాగో వినీతాత్మా తపస్వీ భూతభావనః
ఉన్మత్తవేషః ప్రచ్ఛన్నో జితకామోఽజితప్రియః
కల్యాణప్రకృతిః కల్పః సర్వలోకప్రజాపతిః
తపఃస్వీ తారకో ధీమాన్ ప్రధానప్రభురవ్యయః
లోకపాలోఽన్తర్హితాత్మా కల్పాదిః కమలేక్షణః
వేదశాస్త్రార్థతత్త్వజ్ఞో నియమో నియమాశ్రయః
చన్ద్రః సూర్యః శనిః కేతుర్విరామో విద్రుమచ్ఛవిః
భక్తిగమ్యః పరబ్రహ్మమృగబాణార్పణోఽనఘః
అద్రిరాజాలయః కాన్తః పరమాత్మా జగద్గురుః
సర్వకర్మాచలస్త్వష్టా మఙ్గల్యో మఙ్గలావృతః
మహాతపా దీర్ఘతపాః స్థవిష్ఠః స్థవిరో ధ్రువః
అహః సంవత్సరో వ్యాప్తిః ప్రమాణం పరమం తపః
సంవత్సరకరో మన్త్రః ప్రత్యయః సర్వదర్శనః
అజః సర్వేశ్వరః స్నిగ్ధో మహారేతా మహాబలః
యోగీ యోగ్యో మహారేతాః సిద్ధః సర్వాదిరగ్నిదః
వసుర్వసుమనాః సత్యసర్వపాపహరో హరః
అమృతః శాశ్వతః శాన్తో బాణహస్తః ప్రతాపవాన్
కమణ్డలుధరో ధన్వీ వేదాఙ్గో వేదవిన్మునిః
భ్రాజిష్ణుర్భోజనం భోక్తా లోకనేతా దురాధరః
అతీన్ద్రియో మహామాయః సర్వావాసశ్చతుష్పథః
కాలయోగీ మహానాదో మహోత్సాహో మహాబలః
మహాబుద్ధిర్మహావీర్యో భూతచారీ పురన్దరః
నిశాచరః ప్రేతచారిమహాశక్తిర్మహాద్యుతిః
అనిర్దేశ్యవపుః శ్రీమాన్ సర్వహార్యమితో గతిః
బహుశ్రుతో బహుమయో నియతాత్మా భవోద్భవః
ఓజస్తేజోద్యుతికరో నర్తకః సర్వకామకః
నృత్యప్రియో నృత్యనృత్యః ప్రకాశాత్మా ప్రతాపనః
బుద్ధస్పష్టాక్షరో మన్త్రః సన్మానః సారసమ్ప్లవః
యుగాదికృద్ యుగావర్తో గమ్భీరో వృషవాహనః
ఇష్టో విశిష్టః శిష్టేష్టః శరభః శరభో ధనుః
అపాం నిధిరధిష్ఠానవిజయో జయకాలవిత్
ప్రతిష్ఠితః ప్రమాణజ్ఞో హిరణ్యకవచో హరిః
విరోచనః సురగణో విద్యేశో విబుధాశ్రయః
బాలరూపో బలోన్మాథీ వివర్తో గహనో గురుః
కరణం కారణం కర్తా సర్వబన్ధవిమోచనః
విద్వత్తమో వీతభయో విశ్వభర్తా నిశాకరః
వ్యవసాయో వ్యవస్థానః స్థానదో జగదాదిజః
దున్దుభో లలితో విశ్వో భవాత్మాత్మని సంస్థితః
వీరేశ్వరో వీరభద్రో వీరహా వీరభృద్విరాట్
వీరచూడామణిర్వేత్తా తీవ్రనాదో నదీధరః
ఆజ్ఞాధారస్త్రిశూలీ చ శిపివిష్టః శివాలయః
వాలఖిల్యో మహాచాపస్తిగ్మాంశుర్నిధిరవ్యయః
అభిరామః సుశరణః సుబ్రహ్మణ్యః సుధాపతిః
మఘవాన్ కౌశికో గోమాన్ విశ్రామః సర్వశాసనః
లలాటాక్షో విశ్వదేహః సారః సంసారచక్రభృత్
అమోఘదణ్డీ మధ్యస్థో హిరణ్యో బ్రహ్మవర్చసీ
పరమార్థః పరమయః శమ్బరో వ్యాఘ్రకోఽనలః
రుచిర్వరరుచిర్వన్ద్యో వాచస్పతిరహర్పతిః
రవిర్విరోచనః స్కన్ధః శాస్తా వైవస్వతోఽజనః
యుక్తిరున్నతకీర్తిశ్చ శాన్తరాగః పరాజయః
కైలాసపతికామారిః సవితా రవిలోచనః
విద్వత్తమో వీతభయో విశ్వహర్తాఽనివారితః
నిత్యో నియతకల్యాణః పుణ్యశ్రవణకీర్తనః
దూరశ్రవా విశ్వసహో ధ్యేయో దుఃస్వప్ననాశనః
ఉత్తారకో దుష్కృతిహా దుర్ధర్షో దుఃసహోఽభయః
అనాదిర్భూర్భువో లక్ష్మీః కిరీటిత్రిదశాధిపః
విశ్వగోప్తా విశ్వభర్తా సుధీరో రుచిరాఙ్గదః
జననో జనజన్మాదిః ప్రీతిమాన్ నీతిమాన్ నయః
విశిష్టః కాశ్యపో భానుర్భీమో భీమపరాక్రమః
ప్రణవః సప్తధాచారో మహాకాయో మహాధనుః
జన్మాధిపో మహాదేవః సకలాగమపారగః
తత్త్వాతత్త్వవివేకాత్మా విభూష్ణుర్భూతిభూషణః
ఋషిర్బ్రాహ్మణవిజ్జిష్ణుర్జన్మమృత్యుజరాతిగః
యజ్ఞో యజ్ఞపతిర్యజ్వా యజ్ఞాన్తోఽమోఘవిక్రమః
మహేన్ద్రో దుర్భరః సేనీ యజ్ఞాఙ్గో యజ్ఞవాహనః
పఞ్చబ్రహ్మసముత్పత్తిర్విశ్వేశో విమలోదయః
ఆత్మయోనిరనాద్యన్తః షడ్వింశత్సప్తలోకధృక్
గాయత్రీవల్లభః ప్రాంశుర్విశ్వావాసః ప్రభాకరః
శిశుర్గిరిరతః సమ్రాట్సుషేణః సురశత్రుహా
అమోఘోఽరిష్టమథనో ముకున్దో విగతజ్వరః
స్వయఞ్జ్యోతిరనుజ్యోతిరాత్మజ్యోతిరచఞ్చలః
పిఙ్గలః కపిలశ్మశ్రుః శాస్త్రనేత్రత్రయీతనుః
జ్ఞానస్కన్ధో మహాజ్ఞానీ నిరుత్పత్తిరుపప్లవః
భగో వివస్వానాదిత్యో యోగాచార్యో బృహస్పతిః
ఉదారకీర్తిరుద్యోగీ సద్యోగీ సదసన్మయః
నక్షత్రమాలీ రాకేశః సాధిష్ఠానః షడాశ్రయః
పవిత్రపాణిః పాపారిర్మణిపూరో మనోగతిః
హృత్పుణ్డరీకమాసీనః శుక్లః శాన్తో వృషాకపిః
విష్ణుర్గ్రహపతిః కృష్ణః సమర్థోఽర్థననాశనః
అధర్మశత్రురక్షయ్యః పురుహూతః పురుష్టుతః
బ్రహ్మగర్భో బృహద్గర్భో ధర్మధేనుర్ధనాగమః
జగద్ధితైషిసుగతః కుమారః కుశలాగమః
హిరణ్యవర్ణో జ్యోతిష్మాన్ నానాభూతధరో ధ్వనిః
అరోగో నియమాధ్యక్షో విశ్వామిత్రో ద్విజోత్తమః
బృహజ్జ్యోతిః సుధామా చ మహాజ్యోతిరనుత్తమః
మాతామహో మాతరిశ్వా నభస్వాన్ నాగహారధృక్
పులస్త్యః పులహోఽగస్త్యో జాతూకర్ణ్యః పరాశరః
నిరావరణధర్మజ్ఞో విరిఞ్చో విష్టరశ్రవాః
ఆత్మభూరనిరుద్ధోఽత్రిజ్ఞానమూర్తిర్మహాయశాః
లోకచూడామణిర్వీరశ్చణ్డసత్యపరాక్రమః
వ్యాలకల్పో మహాకల్పో మహావృక్షః కలాధరః
అలఙ్కరిష్ణుస్త్వచలో రోచిష్ణుర్విక్రమోత్తమః
ఆశుశబ్దపతిర్వేగీ ప్లవనః శిఖిసారథిః
అసంసృష్టోఽతిథిః శక్రః ప్రమాథీ పాపనాశనః
వసుశ్రవాః కవ్యవాహః ప్రతప్తో విశ్వభోజనః
జర్యో జరాధిశమనో లోహితశ్చ తనూనపాత్
పృషదశ్వో నభో యోనిః సుప్రతీకస్తమిస్రహా
నిదాఘస్తపనో మేఘః పక్షః పరపురఞ్జయః
ముఖానిలః సునిష్పన్నః సురభిః శిశిరాత్మకః
వసన్తో మాధవో గ్రీష్మో నభస్యో బీజవాహనః
అఙ్గిరా మునిరాత్రేయో విమలో విశ్వవాహనః
పావనః పురుజిచ్ఛక్రస్త్రివిద్యో నరవాహనః
మనోబుద్ధిరహఙ్కారః క్షేత్రజ్ఞః క్షేత్రపాలకః
తేజోనిధిర్జ్ఞాననిధిర్విపాకో విఘ్నకారకః
అధరోఽనుత్తరో జ్ఞేయో జ్యేష్ఠో నిఃశ్రేయసాలయః
శైలో నగస్తనుర్దోహో దానవారిరరిన్దమః
చారుధీర్జనకశ్చారువిశల్యో లోకశల్యకృత్
చతుర్వేదశ్చతుర్భావశ్చతురశ్చతురప్రియః
ఆమ్నాయోఽథ సమామ్నాయస్తీర్థదేవశివాలయః
బహురూపో మహారూపః సర్వరూపశ్చరాచరః
న్యాయనిర్వాహకో న్యాయో న్యాయగమ్యో నిరఞ్జనః
సహస్రమూర్ధా దేవేన్ద్రః సర్వశస్త్రప్రభఞ్జనః
ముణ్డో విరూపో వికృతో దణ్డీ దాన్తో గుణోత్తమః
పిఙ్గలాక్షోఽథ హర్యక్షో నీలగ్రీవో నిరామయః
సహస్రబాహుః సర్వేశః శరణ్యః సర్వలోకభృత్
పద్మాసనః పరఞ్జ్యోతిః పరావరపరమ్ఫలః
పద్మగర్భో మహాగర్భో విశ్వగర్భో విచక్షణః
పరావరజ్ఞో బీజేశః సుముఖః సుమహాస్వనః
దేవాసురగురుర్దేవో దేవాసురనమస్కృతః
దేవాసురమహామాత్రో దేవాసురమహాశ్రయః
దేవాదిదేవో దేవర్షిదేవాసురవరప్రదః
దేవాసురేశ్వరో దివ్యో దేవాసురమహేశ్వరః
సర్వదేవమయోఽచిన్త్యో దేవతాత్మాఽఽత్మసమ్భవః
ఈడ్యోఽనీశః సురవ్యాఘ్రో దేవసింహో దివాకరః
విబుధాగ్రవరశ్రేష్ఠః సర్వదేవోత్తమోత్తమః
శివజ్ఞానరతః శ్రీమాన్ శిఖిశ్రీపర్వతప్రియః
జయస్తమ్భో విశిష్టమ్భో నరసింహనిపాతనః
బ్రహ్మచారీ లోకచారీ ధర్మచారీ ధనాధిపః
నన్దీ నన్దీశ్వరో నగ్నో నగ్నవ్రతధరః శుచిః
లిఙ్గాధ్యక్షః సురాధ్యక్షో యుగాధ్యక్షో యుగావహః
స్వవశః సవశః స్వర్గస్వరః స్వరమయస్వనః
బీజాధ్యక్షో బీజకర్తా ధనకృద్ ధర్మవర్ధనః
దమ్భోఽదమ్భో మహాదమ్భః సర్వభూతమహేశ్వరః
శ్మశాననిలయస్తిష్యః సేతురప్రతిమాకృతిః
లోకోత్తరస్ఫుటాలోకస్త్ర్యమ్బకో నాగభూషణః
అన్ధకారిర్మఖద్వేషీ విష్ణుకన్ధరపాతనః
వీతదోషోఽక్షయగుణో దక్షారిః పూషదన్తహృత్
ధూర్జటిః ఖణ్డపరశుః సకలో నిష్కలోఽనఘః
ఆధారః సకలాధారః పాణ్డురాభో మృడో నటః
పూర్ణః పూరయితా పుణ్యః సుకుమారః సులోచనః
సామగేయః ప్రియకరః పుణ్యకీర్తిరనామయః
మనోజవస్తీర్థకరో జటిలో జీవితేశ్వరః
జీవితాన్తకరో నిత్యో వసురేతా వసుప్రియః
సద్గతిః సత్కృతిః సక్తః కాలకణ్ఠః కలాధరః
మానీ మాన్యో మహాకాలః సద్భూతిః సత్పరాయణః
చన్ద్రసఞ్జీవనః శాస్తా లోకగూఢోఽమరాధిపః
లోకబన్ధుర్లోకనాథః కృతజ్ఞః కృతిభూషణః
అనపాయ్యక్షరః కాన్తః సర్వశాస్త్రభృతాం వరః
తేజోమయో ద్యుతిధరో లోకమాయోఽగ్రణీరణుః
శుచిస్మితః ప్రసన్నాత్మా దుర్జయో దురతిక్రమః
జ్యోతిర్మయో నిరాకారో జగన్నాథో జలేశ్వరః
తుమ్బవీణీ మహాకాయో విశోకః శోకనాశనః
త్రిలోకాత్మా త్రిలోకేశః శుద్ధః శుద్ధీ రథాక్షజః
అవ్యక్తలక్షణోఽవ్యక్తో వ్యక్తావ్యక్తో విశాం పతిః
వరశీలో వరతులో మానో మానధనో మయః
బ్రహ్మా విష్ణుః ప్రజాపాలో హంసో హంసగతిర్యమః
వేధా ధాతా విధాతా చ అత్తా హర్తా చతుర్ముఖః
కైలాసశిఖరావాసీ సర్వావాసీ సతాం గతిః
హిరణ్యగర్భో హరిణః పురుషః పూర్వజః పితా
భూతాలయో భూతపతిర్భూతిదో భువనేశ్వరః
సంయోగీ యోగవిద్ బ్రహ్మా బ్రహ్మణ్యో బ్రాహ్మణప్రియః
దేవప్రియో దేవనాథో దేవజ్ఞో దేవచిన్తకః
విషమాక్షః కలాధ్యక్షో వృషాఙ్కో వృషవర్ధనః
నిర్మదో నిరహఙ్కారో నిర్మోహో నిరుపద్రవః
దర్పహా దర్పితో దృప్తః సర్వర్తుపరివర్తకః
సప్తజిహ్వః సహస్రార్చిః స్నిగ్ధః ప్రకృతిదక్షిణః
భూతభవ్యభవన్నాథః ప్రభవో భ్రాన్తినాశనః
అర్థోఽనర్థో మహాకోశః పరకార్యైకపణ్డితః
నిష్కణ్టకః కృతానన్దో నిర్వ్యాజో వ్యాజమర్దనః
సత్త్వవాన్ సాత్త్వికః సత్యకీర్తిస్తమ్భకృతాగమః
అకమ్పితో గుణగ్రాహీ నైకాత్మా నైకకర్మకృత్
సుప్రీతః సుముఖః సూక్ష్మః సుకరో దక్షిణోఽనలః
స్కన్ధః స్కన్ధధరో ధుర్యః ప్రకటః ప్రీతివర్ధనః
అపరాజితః సర్వసహో విదగ్ధః సర్వవాహనః
అధృతః స్వధృతః సాధ్యః పూర్తమూర్తిర్యశోధరః
వరాహశృఙ్గధృగ్ వాయుర్బలవానేకనాయకః
శ్రుతిప్రకాశః శ్రుతిమానేకబన్ధురనేకధృక్
శ్రీవల్లభశివారమ్భః శాన్తభద్రః సమఞ్జసః
భూశయో భూతికృద్భూతిర్భూషణో భూతవాహనః
అకాయో భక్తకాయస్థః కాలజ్ఞానీ కలావపుః
సత్యవ్రతమహాత్యాగీ నిష్ఠాశాన్తిపరాయణః
పరార్థవృత్తిర్వరదో వివిక్తః శ్రుతిసాగరః
అనిర్విణ్ణో గుణగ్రాహీ కలఙ్కాఙ్కః కలఙ్కహా
స్వభావరుద్ద్రో మధ్యస్థః శత్రుఘ్నో మధ్యనాశకః
శిఖణ్డీ కవచీ శూలీ చణ్డీ ముణ్డీ చ కుణ్డలీ
మేఖలీ కవచీ ఖడ్గీ మాయీ సంసారసారథిః
అమృత్యుః సర్వదృక్ సింహస్తేజోరాశిర్మహామణిః
అసఙ్ఖ్యేయోఽప్రమేయాత్మా వీర్యవాన్ కార్యకోవిదః
వేద్యో వేదార్థవిద్గోప్తా సర్వాచారో మునీశ్వరః
అనుత్తమో దురాధర్షో మధురః ప్రియదర్శనః
సురేశః శరణం సర్వః శబ్దబ్రహ్మసతాం గతిః
కాలభక్షః కలఙ్కారిః కఙ్కణీకృతవాసుకిః
మహేష్వాసో మహీభర్తా నిష్కలఙ్కో విశృఙ్ఖలః
ద్యుమణిస్తరణిర్ధన్యః సిద్ధిదః సిద్ధిసాధనః
నివృత్తః సంవృతః శిల్పో వ్యూఢోరస్కో మహాభుజః
ఏకజ్యోతిర్నిరాతఙ్కో నరో నారాయణప్రియః
నిర్లేపో నిష్ప్రపఞ్చాత్మా నిర్వ్యగ్రో వ్యగ్రనాశనః
స్తవ్యస్తవప్రియః స్తోతా వ్యాసమూర్తిరనాకులః
నిరవద్యపదోపాయో విద్యారాశిరవిక్రమః
ప్రశాన్తబుద్ధిరక్షుద్రః క్షుద్రహా నిత్యసున్దరః
ధైర్యాగ్ర్యధుర్యో ధాత్రీశః శాకల్యః శర్వరీపతిః
పరమార్థగురుర్దృష్టిర్గురురాశ్రితవత్సలః
రసో రసజ్ఞః సర్వజ్ఞః సర్వసత్త్వావలమ్బనః
॥ఇతి శ్రీలిఙ్గమహాపురాణే పూర్వభాగే అష్టనవతితమే అధ్యాయే భగవతా విష్ణునా ప్రోక్తం శ్రీశివసహస్రనామస్తోత్రమ్॥
సూత ఉవాచ
ఏవం నామ్నాం సహస్రేణ తుష్టావ వృషభధ్వజమ్॥౧౫౯॥
shlokacount159
స్నాపయామాస చ విభుః పూజయామాస పఙ్కజైః
పరీక్షార్థం హరేః పూజాకమలేషు మహేశ్వరః
గోపయామాస కమలం తదైకం భువనేశ్వరః
హృతపుష్పో హరిస్తత్ర కిమిదం త్వభ్యచిన్తయత్
జ్ఞాత్వా స్వనేత్రముద్ధృత్య సర్వసత్త్వావలమ్బనమ్
పూజయామాస భావేన నామ్నా తేన జగద్గురుమ్
తతస్తత్ర విభుర్దృష్ట్వా తథాభూతం హరో హరిమ్
తస్మాదవతతారాశు మణ్డలాత్ పావకస్య చ
కోటిభాస్కరసఙ్కాశం జటాముకుటమణ్డితమ్
జ్వాలామాలావృతం దివ్యం తీక్ష్ణదంష్ట్రం భయఙ్కరమ్
శూలటఙ్కగదాచక్రకున్తపాశధరం హరమ్
వరదాభయహస్తం చ ద్వీపిచర్మోత్తరీయకమ్
ఇత్థమ్భూతం తదా దృష్ట్వా భవం భస్మవిభూషితమ్
హృష్టో నమశ్చకారాశు దేవదేవం జనార్దనః
దుద్రువుస్తం పరిక్రమ్య సేన్ద్రా దేవాస్త్రిలోచనమ్
చచాల బ్రహ్మభువనం చకమ్పే చ వసున్ధరా
దదాహ తేజస్తచ్ఛమ్భోః ప్రాన్తం వై శతయోజనమ్
అధస్తాచ్చోర్ధ్వతశ్చైవ హాహేత్యకృత భూతలే
తదా ప్రాహ మహాదేవః ప్రహసన్నివ శఙ్కరః
సమ్ప్రేక్ష్య ప్రణయాద్ విష్ణుం కృతాఞ్జలిపుటం స్థితమ్
జ్ఞాతం మయేదమధునా దేవకార్యం జనార్దన
సుదర్శనాఖ్యం చక్రం చ దదామి తవ శోభనమ్
యద్ రూపం భవతా దృష్టం సర్వలోకభయఙ్కరమ్
హితాయ తవ యత్నేన తవ భావాయ సువ్రత
శాన్తం రణాజిరే విష్ణో దేవానాం దుఃఖసాధనమ్
శాన్తస్య చాస్త్రం శాన్తం స్యాచ్ఛాన్తేనాస్త్రేణ కిం ఫలమ్
శాన్తస్య సమరే చాస్త్రం శాన్తిరేవ తపస్వినమ్
యోద్ధుః శాన్త్యా బలచ్ఛేదః పరస్య బలవృద్ధిదః
దేవైరశాన్తైర్యద్ రూపం మదీయం భావయావ్యయమ్
కిమాయుధేన కార్యం వై యోద్ధుం దేవారిసూదన
క్షమా యుధి న కార్యా వై యోద్ధుం దేవారిసూదన
అనాగతే వ్యతీతే చ దౌర్బల్యే స్వజనోత్కరే
అకాలికే త్వధర్మే చ అనర్థే వాఽరిసూదన
ఏవముక్త్వా దదౌ చక్రం సూర్యాయుతసమప్రభమ్
నేత్రం చ నేతా జగతాం ప్రభుర్వై పద్మసన్నిభమ్
తదాప్రభృతి తం ప్రాహుః పద్మాక్షమితి సువ్రతమ్
దత్త్వైనం నయనం చక్రం విష్ణవే నీలలోహితః
పస్పర్శ చ కరాభ్యాం వై సుశుభాభ్యామువాచ హ
వరదోఽహం వరశ్రేష్ఠ వరాన్ వరయ చేప్సితాన్
భక్త్యా వశీకృతో నూనం త్వయాఽహం పురుషోత్తమ
ఇత్యుక్తో దేవదేవేన దేవదేవం ప్రణమ్య తమ్
త్వయి భక్తిర్మహాదేవ ప్రసీద వరముత్తమమ్
నాన్యమిచ్ఛామి భక్తానామార్తయో నాస్తి యత్ ప్రభో
తచ్ఛ్రుత్వా వచనం తస్య దయావాన్ సుతరాం భవః
పస్పర్శ చ దదౌ తస్మై శ్రద్ధాం శీతాంశుభూషణః
ప్రాహ చైవం మహాదేవః పరమాత్మానమచ్యుతమ్
మయి భక్తశ్చ వన్ద్యశ్చ పూజ్యశ్చైవ సురాసురైః
భవిష్యసి న సన్దేహో మత్ప్రసాదాత్ సురోత్తమ
యదా సతీ దక్షపుత్రీ వినిన్ద్యైవ సులోచనా
మాతరం పితరం దక్షం భవిష్యతి సురేశ్వరీ
దివ్యా హైమవతీ విష్ణో తదా త్వమపి సువ్రత
భగినీం తవ కల్యాణీం దేవీం హైమవతీముమామ్
నియోగాద్ బ్రహ్మణః సాధ్వీం ప్రదాస్యసి మమైవ తామ్
మత్సమ్బన్ధీ చ లోకానాం మధ్యే పూజ్యో భవిష్యసి
మాం దివ్యేన చ భావేన తదా ప్రభృతి శఙ్కరమ్
ద్రక్ష్యసే చ ప్రసన్నేన మిత్రభూతమివాత్మనా
ఇత్యుక్త్వాఽన్తర్దధే రుద్రో భగవాన్ నీలలోహితః
జనార్దనోఽపి భగవాన్ దేవానామపి సన్నిధౌ
అయాచత మహాదేవం బ్రహ్మాణం మునిభిః సమమ్
మయా ప్రోక్తం స్తవం దివ్యం పద్మయోనే సుశోభనమ్
యః పఠేచ్ఛృణుయాద్ వాఽపి శ్రావయేద్ వా ద్విజోత్తమాన్
ప్రతినామ్ని హిరణ్యస్య దత్తస్య ఫలమాప్నుయాత్
అశ్వమేధసహస్రేణ ఫలం భవతి తస్య వై
ఘృతాద్యైః స్నాపయేద్ రుద్రం స్థాల్యా వై కలశైః శుభైః
నామ్నాం సహస్రేణానేన శ్రద్ధయా శివమీశ్వరమ్
సోఽపి యజ్ఞసహస్రస్య ఫలం లబ్ధ్వా సురేశ్వరైః
పూజ్యో భవతి రుద్రస్య ప్రీతిర్భవతి తస్య వై
తథాఽస్త్వితి తథా ప్రాహ పద్మయోనిర్జనార్దనమ్
జగ్మతుః ప్రణిపత్యైనం దేవదేవం జగద్గురుమ్
తస్మాన్నామ్నాం సహస్రేణ పూజయేదనఘో ద్విజాః
జపేన్నామ్నాం సహస్రం చ స యాతి పరమాం గతిమ్
॥ఇతి శ్రీలిఙ్గమహాపురాణే పూర్వభాగే సహస్రనామభిః పూజనాద్ విష్ణుచక్రలాభో నామాష్టనవతితమోఽధ్యాయః॥
దుఃస్వప్నదుఃశకునదుర్గతిదౌర్మనస్య
దుర్భిక్షదుర్వ్యసనదుఃసహదుర్యశాంసి
ఉత్పాతతాపవిషభీతిమ్ అసద్గ్రహార్తిం
వ్యాధీంశ్చ నాశయతు మే జగతామధీశః
॥ఇతి శ్రీశివసహస్రనామస్తోత్రం సమ్పూర్ణమ్॥
[sec:start_ShivaSahasranamaStotram-VishnuKrtam]
śivasahasranāmastotram (viṣṇukṛtam)
sec:start_ShivaSahasranamaStotram-VishnuKrtam
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
namo'stu te vyāsa viśālabuddhe phullāravindāyatapatranetra
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet
vande śambhumumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram
ṛṣaya ūcuḥ
kathaṃ devena vai sūta devadevānmaheśvarāt
sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā
sūta uvāca
devānāmasurendrāṇāmabhavacca sudāruṇaḥ
sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān
te devāḥ śaktimusalaiḥ sāyakairnataparvabhiḥ
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ
parājitāstadā devā devadeveśvaraṃ harim
praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ
tān samīkṣyātha bhagavān devadeveśvaro hariḥ
praṇipatya sthitān devānidaṃ vacanamabravīt
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ
samāgatāḥ sasantāpā vaktumarhatha suvratāḥ
tasya tad vacanaṃ śrutvā tathābhūtāḥ surottamāḥ
praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave
bhagavan devadeveśa viṣṇo jiṣṇo janārdana
dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ
tvameva devadeveśa gatirnaḥ puruṣottama
tvameva paramātmā hi tvaṃ pitā jagatāmapi
tvameva bhartā hartā ca bhoktā dātā janārdana
hantumarhasi tasmāt tvaṃ dānavān dānavārdana
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ
vāyavyaiśca tathā''gneyaireśānairvārṣikaiḥ śubhaiḥ
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ
avadhyā varalābhāt te sarve vārijalocana
sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakramudyatam
kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro
daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ
purā jalandharaṃ hetuṃ nirmitaṃ tripurāriṇā
rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantumarhasi
tasmāt tena nihantavyā nānyaiḥ śastraśatairapi
tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ
vācaspatimukhānāha sa hariścakrabhṛt svayam|
śrīviṣṇuruvāca
bho bho devā mahādevaṃ sarvairdevaiḥ sanātanaiḥ||17||
shlokacount1
samprāpya sāmprataṃ sarvaṃ kariṣyāmi divaukasām
devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā
labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān
sarvān dhundhumukhān daityān aṣṭaṣaṣṭiśatān surān
sabāndhavān kṣaṇādeva yuṣmān santārayāmyaham|
sūta uvāca
evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran||20||
shlokacount1
suraśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram
liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe
meruparvatasaṅkāśaṃ nirmitaṃ viśvakarmaṇā
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ
snāpya sampūjya gandhādyairjvālākāraṃ manoramam
tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca
devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramam
pūjayāmāsa ca śivaṃ praṇavādyaṃ namontakam
devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvaram
pratināma sa padmena pūjayāmāsa śaṅkaram
agnau ca nāmabhirdevaṃ bhavādyaiḥ samidādibhiḥ
svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum
tuṣṭāva ca punaḥ śambhuṃ bhavādyairbhavamīśvaram|
nyāsaḥ
asya śrīśivasahasranāmastotramahāmantrasya \\
śrīviṣṇuḥ ṛṣiḥ, anuṣṭup chandaḥ, paramātmā śrīśaṅkaro devatā|
dhyānam
mūle kalpadrumasya drutakanakanibhaṃ cārupadmāsanasthaṃ
vāmāṅkārūḍhagaurīnibiḍakucabharābhogagāḍhopagūḍham
nānālaṅkārakāntaṃ varaparaśumṛgābhītihastaṃ trinetraṃ
vande bālendumauliṃ gajavadanaguhāśliṣṭapārśvaṃ maheśam
stotram
śrīviṣṇuruvāca
bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ
arthitavyaḥ sadācāraḥ sarvaśambhumaheśvaraḥ
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ
sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ
candrāpīḍaścandramaulirvidvān viśvāmareśvaraḥ
vedāntasārasandohaḥ kapālī nīlalohitaḥ
dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ
aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ
vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho'dṛḍhaḥ
viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ
sarvapraṇayasaṃvādī vṛṣāṅko vṛṣavāhanaḥ
īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ
tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ
unmattaveṣaścakṣuṣyo durvāsāḥ smaraśāsanaḥ
dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ
anādimadhyanidhano giriśo giribāndhavaḥ
kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ
sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ
dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit
ugraḥ paśupatistārkṣyapriyabhaktaḥ priyaṃvadaḥ
dāntodayākaro dakṣaḥ kapardī kāmaśāsanaḥ
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ
lokakartā bhūtapatirmahākartā mahauṣadhī
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ
nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī
somapo'mṛtapaḥ somo mahānītirmahāmatiḥ
ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ
lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ
maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ
pinākapāṇirbhūrdevaḥ svastidaḥ svastikṛt sadā
tridhāmā saubhagaḥ śarvasarvajñaḥ sarvagocaraḥ
brahmadhṛgviśvasṛksvargaḥ karṇikāraḥ priyaḥ kaviḥ
śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ
gaṅgāplavodako bhāvaḥ sakalaḥ sthapatisthiraḥ
vijitātmā vidheyātmā bhūtavāhanasārathiḥ
sagaṇo gaṇakāryaśca sukīrtiśchinnasaṃśayaḥ
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ
bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ
samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ
caturmukhaścaturbāhurdurāvāso durāsadaḥ
durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ
adhyātmayoganilayaḥ sutantustantuvardhanaḥ
śubhāṅgo lokasāraṅgo jagadīśo'mṛtāśanaḥ
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ
hiraṇyaretāstaraṇirmarīcirmahimālayaḥ
mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ
vyāghracarmadharo vyālī mahābhūto mahānidhiḥ
amṛtāṅgo'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ
pañcaviṃśatitattvajñaḥ pārijātaḥ parāvaraḥ
sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ
varṇāśramagururvarṇī śatrujicchatrutāpanaḥ
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ
pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ
dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ
anantadṛṣṭirānando daṇḍo damayitā damaḥ
abhivādyo mahācāryo viśvakarmā viśāradaḥ
vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ
unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ
kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ
tapaḥsvī tārako dhīmān pradhānaprabhuravyayaḥ
lokapālo'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ
vedaśāstrārthatattvajño niyamo niyamāśrayaḥ
candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ
bhaktigamyaḥ parabrahmamṛgabāṇārpaṇo'naghaḥ
adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ
sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ
mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ
ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ
saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ
ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ
yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ
vasurvasumanāḥ satyasarvapāpaharo haraḥ
amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān
kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ
bhrājiṣṇurbhojanaṃ bhoktā lokanetā durādharaḥ
atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ
kālayogī mahānādo mahotsāho mahābalaḥ
mahābuddhirmahāvīryo bhūtacārī purandaraḥ
niśācaraḥ pretacārimahāśaktirmahādyutiḥ
anirdeśyavapuḥ śrīmān sarvahāryamito gatiḥ
bahuśruto bahumayo niyatātmā bhavodbhavaḥ
ojastejodyutikaro nartakaḥ sarvakāmakaḥ
nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ
buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasamplavaḥ
yugādikṛd yugāvarto gambhīro vṛṣavāhanaḥ
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ
apāṃ nidhiradhiṣṭhānavijayo jayakālavit
pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ
virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ
bālarūpo balonmāthī vivarto gahano guruḥ
karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ
vidvattamo vītabhayo viśvabhartā niśākaraḥ
vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ
dundubho lalito viśvo bhavātmātmani saṃsthitaḥ
vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭ
vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ
ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ
vālakhilyo mahācāpastigmāṃśurnidhiravyayaḥ
abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ
maghavān kauśiko gomān viśrāmaḥ sarvaśāsanaḥ
lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt
amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī
paramārthaḥ paramayaḥ śambaro vyāghrako'nalaḥ
rucirvararucirvandyo vācaspatiraharpatiḥ
ravirvirocanaḥ skandhaḥ śāstā vaivasvato'janaḥ
yuktirunnatakīrtiśca śāntarāgaḥ parājayaḥ
kailāsapatikāmāriḥ savitā ravilocanaḥ
vidvattamo vītabhayo viśvahartā'nivāritaḥ
nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ
dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ
uttārako duṣkṛtihā durdharṣo duḥsaho'bhayaḥ
anādirbhūrbhuvo lakṣmīḥ kirīṭitridaśādhipaḥ
viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ
janano janajanmādiḥ prītimān nītimān nayaḥ
viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ
praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ
janmādhipo mahādevaḥ sakalāgamapāragaḥ
tattvātattvavivekātmā vibhūṣṇurbhūtibhūṣaṇaḥ
ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ
yajño yajñapatiryajvā yajñānto'moghavikramaḥ
mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ
pañcabrahmasamutpattirviśveśo vimalodayaḥ
ātmayoniranādyantaḥ ṣaḍviṃśatsaptalokadhṛk
gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ
śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā
amogho'riṣṭamathano mukundo vigatajvaraḥ
svayañjyotiranujyotirātmajyotiracañcalaḥ
piṅgalaḥ kapilaśmaśruḥ śāstranetratrayītanuḥ
jñānaskandho mahājñānī nirutpattirupaplavaḥ
bhago vivasvānādityo yogācāryo bṛhaspatiḥ
udārakīrtirudyogī sadyogī sadasanmayaḥ
nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ
pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ
hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ
viṣṇurgrahapatiḥ kṛṣṇaḥ samartho'rthananāśanaḥ
adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ
jagaddhitaiṣisugataḥ kumāraḥ kuśalāgamaḥ
hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ
arogo niyamādhyakṣo viśvāmitro dvijottamaḥ
bṛhajjyotiḥ sudhāmā ca mahājyotiranuttamaḥ
mātāmaho mātariśvā nabhasvān nāgahāradhṛk
pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ
nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ
ātmabhūraniruddho'trijñānamūrtirmahāyaśāḥ
lokacūḍāmaṇirvīraścaṇḍasatyaparākramaḥ
vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ
alaṅkariṣṇustvacalo rociṣṇurvikramottamaḥ
āśuśabdapatirvegī plavanaḥ śikhisārathiḥ
asaṃsṛṣṭo'tithiḥ śakraḥ pramāthī pāpanāśanaḥ
vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ
jaryo jarādhiśamano lohitaśca tanūnapāt
pṛṣadaśvo nabho yoniḥ supratīkastamisrahā
nidāghastapano meghaḥ pakṣaḥ parapurañjayaḥ
mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ
vasanto mādhavo grīṣmo nabhasyo bījavāhanaḥ
aṅgirā munirātreyo vimalo viśvavāhanaḥ
pāvanaḥ purujicchakrastrividyo naravāhanaḥ
manobuddhirahaṅkāraḥ kṣetrajñaḥ kṣetrapālakaḥ
tejonidhirjñānanidhirvipāko vighnakārakaḥ
adharo'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ
śailo nagastanurdoho dānavārirarindamaḥ
cārudhīrjanakaścāruviśalyo lokaśalyakṛt
caturvedaścaturbhāvaścaturaścaturapriyaḥ
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ
bahurūpo mahārūpaḥ sarvarūpaścarācaraḥ
nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ
sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ
muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ
piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ
sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt
padmāsanaḥ parañjyotiḥ parāvaraparamphalaḥ
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ
parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ
devāsuragururdevo devāsuranamaskṛtaḥ
devāsuramahāmātro devāsuramahāśrayaḥ
devādidevo devarṣidevāsuravarapradaḥ
devāsureśvaro divyo devāsuramaheśvaraḥ
sarvadevamayo'cintyo devatātmā''tmasambhavaḥ
īḍyo'nīśaḥ suravyāghro devasiṃho divākaraḥ
vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ
śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ
jayastambho viśiṣṭambho narasiṃhanipātanaḥ
brahmacārī lokacārī dharmacārī dhanādhipaḥ
nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ
liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ
svavaśaḥ savaśaḥ svargasvaraḥ svaramayasvanaḥ
bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ
dambho'dambho mahādambhaḥ sarvabhūtamaheśvaraḥ
śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ
lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ
andhakārirmakhadveṣī viṣṇukandharapātanaḥ
vītadoṣo'kṣayaguṇo dakṣāriḥ pūṣadantahṛt
dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo'naghaḥ
ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ
sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ
manojavastīrthakaro jaṭilo jīviteśvaraḥ
jīvitāntakaro nityo vasuretā vasupriyaḥ
sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ
mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ
candrasañjīvanaḥ śāstā lokagūḍho'marādhipaḥ
lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ
anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ
tejomayo dyutidharo lokamāyo'graṇīraṇuḥ
śucismitaḥ prasannātmā durjayo duratikramaḥ
jyotirmayo nirākāro jagannātho jaleśvaraḥ
tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ
trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ
avyaktalakṣaṇo'vyakto vyaktāvyakto viśāṃ patiḥ
varaśīlo varatulo māno mānadhano mayaḥ
brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ
vedhā dhātā vidhātā ca attā hartā caturmukhaḥ
kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ
hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā
bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ
saṃyogī yogavid brahmā brahmaṇyo brāhmaṇapriyaḥ
devapriyo devanātho devajño devacintakaḥ
viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ
nirmado nirahaṅkāro nirmoho nirupadravaḥ
darpahā darpito dṛptaḥ sarvartuparivartakaḥ
saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ
bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ
artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ
niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ
sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ
akampito guṇagrāhī naikātmā naikakarmakṛt
suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo'nalaḥ
skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ
aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ
adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ
varāhaśṛṅgadhṛg vāyurbalavānekanāyakaḥ
śrutiprakāśaḥ śrutimānekabandhuranekadhṛk
śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ
akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ
satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ
parārthavṛttirvarado viviktaḥ śrutisāgaraḥ
anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā
svabhāvaruddro madhyasthaḥ śatrughno madhyanāśakaḥ
śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī
mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ
amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ
asaṅkhyeyo'prameyātmā vīryavān kāryakovidaḥ
vedyo vedārthavidgoptā sarvācāro munīśvaraḥ
anuttamo durādharṣo madhuraḥ priyadarśanaḥ
sureśaḥ śaraṇaṃ sarvaḥ śabdabrahmasatāṃ gatiḥ
kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ
maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ
dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ
nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ
ekajyotirnirātaṅko naro nārāyaṇapriyaḥ
nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ
stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ
niravadyapadopāyo vidyārāśiravikramaḥ
praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ
dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ
paramārthagururdṛṣṭirgururāśritavatsalaḥ
raso rasajñaḥ sarvajñaḥ sarvasattvāvalambanaḥ
||iti śrīliṅgamahāpurāṇe pūrvabhāge aṣṭanavatitame adhyāye bhagavatā viṣṇunā proktaṃ śrīśivasahasranāmastotram||
sūta uvāca
evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam||159||
shlokacount159
snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ
parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ
gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ
hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat
jñātvā svanetramuddhṛtya sarvasattvāvalambanam
pūjayāmāsa bhāvena nāmnā tena jagadgurum
tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim
tasmādavatatārāśu maṇḍalāt pāvakasya ca
koṭibhāskarasaṅkāśaṃ jaṭāmukuṭamaṇḍitam
jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram
śūlaṭaṅkagadācakrakuntapāśadharaṃ haram
varadābhayahastaṃ ca dvīpicarmottarīyakam
itthambhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitam
hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ
dudruvustaṃ parikramya sendrā devāstrilocanam
cacāla brahmabhuvanaṃ cakampe ca vasundharā
dadāha tejastacchambhoḥ prāntaṃ vai śatayojanam
adhastāccordhvataścaiva hāhetyakṛta bhūtale
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ
samprekṣya praṇayād viṣṇuṃ kṛtāñjalipuṭaṃ sthitam
jñātaṃ mayedamadhunā devakāryaṃ janārdana
sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam
yad rūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṅkaram
hitāya tava yatnena tava bhāvāya suvrata
śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam
śāntasya cāstraṃ śāntaṃ syācchāntenāstreṇa kiṃ phalam
śāntasya samare cāstraṃ śāntireva tapasvinam
yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ
devairaśāntairyad rūpaṃ madīyaṃ bhāvayāvyayam
kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana
kṣamā yudhi na kāryā vai yoddhuṃ devārisūdana
anāgate vyatīte ca daurbalye svajanotkare
akālike tvadharme ca anarthe vā'risūdana
evamuktvā dadau cakraṃ sūryāyutasamaprabham
netraṃ ca netā jagatāṃ prabhurvai padmasannibham
tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam
dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ
pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha
varado'haṃ varaśreṣṭha varān varaya cepsitān
bhaktyā vaśīkṛto nūnaṃ tvayā'haṃ puruṣottama
ityukto devadevena devadevaṃ praṇamya tam
tvayi bhaktirmahādeva prasīda varamuttamam
nānyamicchāmi bhaktānāmārtayo nāsti yat prabho
tacchrutvā vacanaṃ tasya dayāvān sutarāṃ bhavaḥ
pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ
prāha caivaṃ mahādevaḥ paramātmānamacyutam
mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ
bhaviṣyasi na sandeho matprasādāt surottama
yadā satī dakṣaputrī vinindyaiva sulocanā
mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī
divyā haimavatī viṣṇo tadā tvamapi suvrata
bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām
niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām
matsambandhī ca lokānāṃ madhye pūjyo bhaviṣyasi
māṃ divyena ca bhāvena tadā prabhṛti śaṅkaram
drakṣyase ca prasannena mitrabhūtamivātmanā
ityuktvā'ntardadhe rudro bhagavān nīlalohitaḥ
janārdano'pi bhagavān devānāmapi sannidhau
ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam
mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam
yaḥ paṭhecchṛṇuyād vā'pi śrāvayed vā dvijottamān
pratināmni hiraṇyasya dattasya phalamāpnuyāt
aśvamedhasahasreṇa phalaṃ bhavati tasya vai
ghṛtādyaiḥ snāpayed rudraṃ sthālyā vai kalaśaiḥ śubhaiḥ
nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram
so'pi yajñasahasrasya phalaṃ labdhvā sureśvaraiḥ
pūjyo bhavati rudrasya prītirbhavati tasya vai
tathā'stviti tathā prāha padmayonirjanārdanam
jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum
tasmānnāmnāṃ sahasreṇa pūjayedanagho dvijāḥ
japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim
||iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo'dhyāyaḥ||
duḥsvapnaduḥśakunadurgatidaurmanasya
durbhikṣadurvyasanaduḥsahaduryaśāṃsi
utpātatāpaviṣabhītim asadgrahārtiṃ
vyādhīṃśca nāśayatu me jagatāmadhīśaḥ
||iti śrīśivasahasranāmastotraṃ sampūrṇam||
[sec:start_ShivaSahasranamaStotram-VishnuKrtam]