स्तुतिकुसुमाञ्जलिः
ॐ श्रीगणेशाय नमः ।
नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥
सूचिपत्रम् ।
१. स्तुतिप्रस्तावना प्रथमं स्तोत्रम् ।
२. नमस्कारात्मकं द्वितीयं स्तोत्रम् ।
३. आशीर्वादाख्यं तृतीयं स्तोत्रम् ।
४. मङ्गलाष्टकं चतुर्थं स्तोत्रम् ।
५. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् ।
६. हराष्टकं षष्ठं स्तोत्रम् ।
७. सेवाभिनन्दनं सप्तमं स्तोत्रम् ।
८. शरणाश्रयणं अष्टमं स्तोत्रम् ।
९. कृपणाक्रन्दनं नवमं स्तोत्रम् ।
१०. करुणाक्रन्दनं दशमं स्तोत्रम् ।
११. दीनाक्रन्दनं एकादशं स्तोत्रम् ।
१२. तमःशमनं द्वादशं स्तोत्रम् ।
१३. प्रभुप्रसादनं त्रयोदशं स्तोत्रम् ।
१४. हितस्तोत्रं चतुर्दशं स्तोत्रम् ।
१५. करुणाराधनं पञ्चदशं स्तोत्रम् ।
१६. उपदेशनं षोडशं स्तोत्रम् ।
१७. भक्तिस्तोत्रं सप्तदशं स्तोत्रम् ।
१८. सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् ।
१९. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् ।
२०. हसितस्तोत्रं विंशं स्तोत्रम् ।
२१. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् ।
२२. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् ।
२३. शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् ।
२४. द्विपदयमकं चतुर्विंशं स्तोत्रम् ।
२५. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् ।
२६. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् ।
२७. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् ।
२८. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् ।
२९. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् ।
३०. महायमकस्तोत्रं त्रिंशं स्तोत्रम् ।
३१. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् ।
३२. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् ।
३३. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् ।
३४. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ।
३५. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् ।
३६. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् ।
३७. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् ।
३८. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ।
३९. ग्रन्थकर्तुर्वंशवर्णनम् ।
१. स्तुतिप्रस्तावना प्रथमं स्तोत्रम्
ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् ।
स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति मनः सरस्वती ॥ १॥
स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः ।
कर्त्तुमर्हति मुहूर्त्तमुज्झितस्वैरचापलमियं सरस्वती ॥ २॥
रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता ।
रञ्जयत्वियमलङ्कृता मनः स्वामिनः प्रणयिनी सरस्वती ॥ ३॥
सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् ।
निर्मलं सघनकालविप्लवा मानसं स्मरजितः सरस्वती ॥ ४॥
भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेऽनया ।
आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥ ५॥
ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् ।
दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥ ६॥
भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् ।
येन तज्झगिति(झटिति)शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ ७॥
कीचकादिकुहरेष्विवाऽम्बरं बिम्बमम्बरमणेरिवोर्मिषु ।
एकमेव चिदचित्स्वनेकधा यच्चकास्ति तदुपास्महे महः ॥ ८॥
तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् ।
मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे महः ॥ ९॥
स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् ।
चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ १०॥
हृद्गुहागहनगेहगूहितं भासिताऽखिलजगत्त्रयोदरम् ।
कन्दकन्दरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् ॥ ११॥
त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् ।
यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ १२॥
यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः ।
अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं स्तुमः ॥ १३॥
चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् ।
अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ १४॥
इच्छयैव भुवनानि भावयन् यः प्रियोपकरणग्रहोऽपि सन् ।
अप्रियोपकरणग्रहोऽभवत् तं स्वशक्तिसचिवं शिवं स्तुमः ॥ १५॥
पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् ।
पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥ १६॥
अङ्घ्रियुग्मममरेशमस्तकस्रग्भिरुज्ज्वलमुरश्च भस्मभिः ।
शेखरञ्च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥ १७॥
मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् ।
देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥ १८॥
कर्त्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् ।
नैति शान्तनवविग्रहोऽपि सन् भीष्मतां न च विचित्रवीर्यताम् ॥ १९॥
आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् ।
दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥ २०॥
अम्बरेण गननेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् ।
भोगिभिश्च भुजगैर्विभूषितं शङ्करं शुभकरं भजामहे ॥ २१॥
पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना ।
भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ २२॥
अभयङ्करमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् ।
शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ २३॥
मीलद्विलोचनसमुद्गसमुद्गताऽश्रु-
श्रोतःस्रु तिस्नपितमूलकपोलभागाः ।
देवं शशाङ्ककलया कलिताऽवतंसं
शंसन्ति सन्त इह शङ्कर शङ्करेति ॥ २४॥
भ्रान्तोऽस्मि वैशसमये समयेऽहमत्र
मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् ।
विश्रम्य नन्दनवने नवने शिवस्य
खेदस्तु सम्प्रति समेति स मेऽवसानम् ॥ २५॥
यत्पार्वणेन्दुकरसुन्दरवाहहंस-
संवासदुर्ललितयाऽपि वचोधिदेव्या ।
विश्रम्यते मनसि नः समले सलीलं
तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ २६॥
यं भूषयन्ति कमनीयमहीनभोगाः
स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः ।
चित्तोचितं तमपहाय महीनभोगाः
कर्तुं परत्र धृतसंयम ! ही न भो गाः ॥ २७॥
अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत-
स्तमीरमणशेखरं भवति गौरवन्ध्या यतः ।
अतस्तमुमया समं कृतमहाविलासं प्रति
स्तुतौ विरचिता मया मतिरनाविला सम्प्रति ॥ २८॥
मत्त्वा सद्यः सुकृतसुलभं दुर्लभं जीवलोकं
लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् ।
धन्याः केचित्कृतकुमुदिनीकान्तलेखाऽवतंसं
हंसं शंसन्त्यमलमधुरैर्भक्तिसिक्तैर्वचोभिः ॥ २९॥
अन्तःशून्यं गुणविरहितं नीरसं सर्गहीनं
काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् ।
तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध-
प्रोद्यद्भक्तिप्रगुणितमदः कर्त्तुमर्हत्यगर्हम् ॥ ३०॥
अथवाऽमृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती ।
नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ ३१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``स्तुतिप्रस्तावना'' नामकं प्रथमं स्तोत्रं सम्पूर्णम् ।
२. नमस्कारात्मकं द्वितीयं स्तोत्रम्
ॐ नमः परमार्थैकरूपाय परमात्मने ।
स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे ॥ १॥
नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥ २॥
नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये ।
जगन्नगरनिर्म्माणनर्मशर्मदकर्म्मणे ॥ ३॥
नमस्तमस्वतीकान्तखण्डमण्डितमौलये ।
तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥ ४॥
नमः समस्तसङ्कल्पकल्पनाकल्पशाखिने ।
विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥ ५॥
नमस्तमःपराभूतभूतवर्गानुकम्पिने ।
श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥ ६॥
नमः शमनहुङ्कारकतराऽऽतुरहर्षिणे ।
भवाय भवदावाग्निविविग्नाऽमृतवर्षिणे ॥ ७॥
नमः समदकन्दर्पदर्पज्वरभरच्छिदे ।
दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥ ८॥
नमो जन्मजरामृत्युभीतिसातङ्कपालिने ।
करुणामृतसम्पर्कपेशलाय कपालिने ॥ ९॥
नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे ।
संसारमरुसन्तापतापितापन्नबन्धवे ॥ १०॥
नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने ।
महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥ ११॥
नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये ॥ १२॥
हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे ।
स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ १३॥
यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना ।
काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ १४॥
निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे ।
नमः स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे ॥ १५॥
निःसामान्याय मान्याय न्यायमार्गोपदेशिने ।
मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ १६॥
नमः संहृतकालाय कालायसगलत्विषे ।
गङ्गाधौतकलापाय कलापायमविन्दते ॥ १७॥
जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना ।
ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ १८॥
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।
नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ १९॥
निमित्तमन्तरेणापि यः सपङ्कजनाभये ।
प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ २०॥
नमः सोमार्धदेहाय सोमार्धकृतमौलये ।
श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥ २१॥
विनतानन्दनं नागविग्रहोग्रमुखं दृशा ।
विनायकमुपासीनं भजते स्वामिने नमः ॥ २२॥
नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे ।
जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥ २३॥
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४॥
यमेकमेव श्रयतो न जायते
स्पृहा परस्मै महतेऽपि नाकिने ।
नमः समस्तापदुपेतपालन-
व्रताय तस्मै विभवे पिनाकिने ॥ २५॥
विधौ जगत्सर्गविधौ यदाहितं
प्रतिष्ठितं यत्स्थितिकारणे विधौ ।
समूढमूढार्धविधौ लये च यत्
पराय तस्मै महसे नमो नमः ॥ २६॥
नमः समुत्पादिततारकद्विषे
नमस्त्रिधामाश्रिततारकत्विषे ।
नमो जगत्तारकपुण्यकर्म्मणे
नमो नमस्तारकराजमौलये ॥ २७॥
नमो नमस्तेऽमृतभानुमौलये
नमो नमस्तेऽमृतसिद्धिदायिने ।
नमो नमस्तेऽमृतकुम्भपाणये
नमो नमस्तेऽमृतभैरवात्मने ॥ २८॥
नमस्तमःपारपरार्ध्यवृत्तये
नमः समस्ताध्वविभक्तशक्तये ।
नमः क्रमव्यस्तसमस्तमूर्त्तये
नमः शमस्थार्पितभक्तिमुक्तये ॥ २९॥
विजयजयप्रदाय शबराय वराय नमः
सकलकलङ्कसङ्करहराय हराय नमः ।
जगदगदप्रगल्भविभवाय भवाय नमः
प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ ३०॥
इति काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``नमस्कारात्मकं'' नामकं द्वितीयं स्तोत्रं सम्पूर्णम् ।
३. आशीर्वादाख्यं तृतीयं स्तोत्रम्
नित्यं निरावृति निजानुभवैकमान-
मानन्दधाम जगदङ्कुरबीजमेकम् ।
दिग्देशकालकलनादिसमस्तहस्त-
मर्दासहं दिशतु शर्म महन्महो नः ॥ १॥
व्योम्नीव नीरदभरः सरसीव वीचि-
व्यूहः सहस्रमहसीव सुधांशुधाम ।
यस्मिन्निदं जगदुदेति च लीयते च
तच्छाम्भवं भवतु वैभवमृद्धये नः ॥ २॥
लोकत्रयस्थितिलयोदयकेलिकारः
कार्य्येण यो हरिहरद्रुहिणत्वमेति ।
देवः स विश्वजनवाङ्मनसातिवृत्त-
शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ३॥
सर्वः किलायमवशः पुरुषाणुकर्म-
कालादिकारणगणो यदनुग्रहेण ।
विश्वप्रपञ्चरचनाचतुरत्वमेति
स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ४॥
एकस्य यस्य सकलः करणानपेक्ष-
ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः ।
पश्यञ्जगत् करतलाऽमलकीफलाभं
लाभं स पुष्यतु परं परमेश्वरो वः ॥ ५॥
यः कन्दुकैरिव पुरन्दरपद्मसद्म-
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६॥
सेवानमन्निखिलखेचरमौलिरत्न-
रश्मिच्छटापटलपाटलपादपीठः ।
पुष्णातु धाम कपिशीकृतशैलशृङ्ग-
त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥ ७॥
अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गं
त्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् ।
बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग-
मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८॥
यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा-
ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।
भोगापवर्गदमनुग्रहमानतानां
व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥ ९॥
शम्भोरदभ्रशरदभ्रतुषारशुभ्रं
भ्राजिष्णुभूतिभरशीभरभास्वराभम् ।
दिश्याद्वपुर्भसलनीलगलं कलङ्का-
लङ्कारशारदशशाङ्कनिभं शुभं वः ॥ १०॥
येनोपदिष्टमनपायमुपायमाप्य
स्वर्गापवर्गविभवैर्विभवो भवन्ति ।
देवः स वः सकलकर्मफलोपलम्भ-
विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ ११॥
मूलोज्झितेन कलिकाकलितेन ताप-
शान्तिक्षमेण नमतामविपल्लवेन ।
सद्यःफलेन सुमनोभिरुपासितेन
स्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥ १२॥
दिव्यापगाप्लवनपावकसेवनाभ्यां
विभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।
दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यै
भूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥ १३॥
दानाम्बुनिर्भरकरस्तनयः स यस्य
श्रीमान् स यस्य धनदः सविधे विधेयः ।
यः संश्रितः शिरसि मुक्तकरेण राज्ञा
पुष्णातु वः कनकवर्षघनः स देवः ॥ १४॥
निर्मत्सरौ निवसतः सममर्कचन्द्रौ
नीरानलावमृतहालहलौ च यत्र ।
राज्ञा नवेन तदधिष्ठितमुज्ज्वलेन
शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥ १५॥
वक्ता च यः सुखयिता च विभुः श्रुतीनां
वक्षः करं च वहते कमलाङ्कितं यः ।
यो मूर्ध्नि वर्ष्मणि च हैमवतीं बिभर्ति
त्रैधं भवन् भवतु वः स शिवः शिवाय ॥ १६॥
तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग-
सिद्ध्यै त्रिधामलयनं नयनत्रयं च ।
त्रिःस्रोतसोऽपि सलिलं त्रिमलापनुत्यै
भूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥ १७॥
यद्दर्शनाऽमृतसुखानुभवेन धन्या
नेत्रोत्पलानि चिरमर्धनिमीलितानि ।
दृङ्मार्गगोचररवीन्दुकरप्रसङ्ग-
भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ १८॥
कालं दृशैव शमयन् सफलप्रयासं
यः श्वेतमुत्तमचमत्कृतिकृच्चकार ।
श्वेतं यशः प्रशमयन्नसतां सतां च
कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९॥
बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो
यत्राहिरेति शिखिना सह सामरस्यम् ।
जूटः स वः सममरातिभिरप्यमर्ष-
मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २०॥
अव्यात्स वः शिरसि यस्य विलोचनाग्नि-
ज्वालावलीढसुरसिन्धुजलोपगूढः ।
अद्यापि वाडवशिखापरिणद्धमुग्ध-
दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥ २१॥
अव्यात्स वः सुकृतिनामलिकेषु धूली-
पट्टीकृतेषु पदरेणुभरेण यस्य ।
धाताक्षराणि लिखति क्षितिपालमौलि-
मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥ २२॥
शैवी शिवं दिशतु शीतमरीचिलेखा
जूटाहिरत्नकिरणच्छुरणारुणा वः ।
देवी नवीननखलक्ष्मधिया पिधत्ते
यत्सङ्क्रमं कुचतटे पटपल्लवेन ॥ २३॥
देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि-
देहार्धबद्धवसतेरमृताप्तये वः ।
अभ्येति यन्मदनपूज्यसुवर्णपीठ-
पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४॥
याः क्षीरसिन्धुलहरीवृतमन्दराद्रि-
मुद्रामनङ्गदमनस्य नयन्ति जूटम् ।
द्विर्भाविताविरलसिद्धसरित्तरङ्गा-
स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ २५॥
लोकत्रयाऽभ्युदयजन्ममही महीयः
स्थानाधिरोहणविधावधिरोहिणी या ।
सा चन्द्रचूडमुकुटध्वजवैजयन्ती
जह्नोरनिह्नुतनया तनयाऽवताद्वः ॥ २६॥
भालाग्निकीलकलिताखिलरन्ध्रभागं
भर्गस्य वो दिशतु शर्म शिरःकपालम् ।
यत्कालवह्निवपुषः पचतः प्रभूत-
भूतव्रजं व्रजति तस्य महानसत्वम् ॥ २७॥
चान्द्रं च धाम सुरनिर्झरिणी जलं च
हस्तस्थहेमकलशाऽमृतजीवनं च ।
स्निग्धं च दृग्विलसितं हसितं सितं च
युष्माकमूष्मशमनाय भवन्तु शम्भोः ॥ २८॥
मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा
कैलासशैलशिखरे धवलश्च वाहः ।
नीहारहारिणि वपुष्यपि भूतिरेषा
पुष्णातु वः सदृशसङ्घटना शिवस्य ॥ २९॥
उत्तप्तहेमरुचि चन्द्रकला कलापे
बालप्रवालरुचिरे च करे कपालम् ।
ताम्रेऽधरे च हसितं सितमद्भुतेयं
विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३०॥
श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा
पूर्णाभिलाषविबुधाधिपवन्दनीया ।
पुण्या कविप्रवरवागिव बालचन्द्र-
चूडामणेश्चरणरेणुकणावली वः ॥ ३१॥
हारीकृतोल्बणफणीन्द्रफणेन्द्रनील-
नीलच्छविच्छुरणशारमुरःस्थलं वः ।
पुष्णातु निह्नु तनगेन्द्रसुताकुचाग्र-
कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२॥
युष्माकमस्तु नवनीलसरोजदाम-
श्यामद्युतिः सुमतये शितिकण्ठकण्ठः ।
यः केतकीधवलवासुकिभोगयोगा-
द्नाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ ३३॥
क्षीरार्णवस्य चरणाब्जतले निवास-
मासेदुषस्तनयमप्रतिमप्रसादः ।
यो मूर्ध्नि लालयति बालमसौ दयाब्धि-
र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥ ३४॥
या राजहंसशिखिसम्भृतकान्तिरेति
सद्यस्तिरोहितघनावरणा प्रसादम् ।
सा प्रावृडन्तशरदादिदिनेष्विव द्यौः
शम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥ ३५॥
अन्तर्धृताहिमकरज्वलनोदितेन्दुः
स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य ।
औदन्वतीव तनुरस्तु गजाश्वरत्न-
श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६॥
यत्राग्निरीप्सति कणं न विवृत्य जिह्वां
नैति प्रतिक्षपमपेतवसुस्तमर्कः ।
क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तु
श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥ ३७॥
अर्कस्य नोदगयनं शिशिरेऽपि यत्र
शीतत्विषो न बहुलेऽपि कलापलापः ।
क्षामं च धाम न वहत्यपि वह्निरह्नि
तत्त्रायतां पुररिपोर्नयनत्रयं वः ॥ ३८॥
यामाश्रितोऽम्बरमणी रमणीयधामा
कामान्तकावनलसाऽनलसाद्व्यधाद्या ।
यापीन्दुसम्भवसुधावसुधा दृशस्ताः
शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥ ३९॥
पुष्णातु वः प्रथमसङ्गमभीरुगौरी-
विस्रम्भणप्रणयभङ्गभयाकुलस्य ।
तत्कालकार्यकरदर्पकदेहदाह-
जातानुतापमुरगाभरणस्य चेतः ॥ ४०॥
जूटे कपालशकलानि कलानिधिश्च
हस्ते सुधाम्बु सरलं गरलं गले च ।
शक्रादिभिश्च नमनं गमनं गवा च
यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१॥
यस्य क्षितिः शिरसि सौमनसीव शेषा
शेषाहिरङ्गदपदे स चकास्ति यस्य ।
तस्य प्रभोरमृतनिर्झरनिर्विशेषा-
शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२॥
श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै
तृष्णा रसायनरसाय न यं समेत्य ।
लभ्यो न यो गहनयोगहवैः स वोऽघ-
मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३॥
मुक्तिर्हि नाम परमः पुरुषार्थ एक-
स्तामन्तरायमवयन्ति यदन्तरज्ञाः ।
किं भूयसा भवतु सैव सुधामयूख-
लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४॥
स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै-
र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः ।
स चार्कसुतसैरिभो रवितुरङ्गहेषारवै-
र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥ ४५॥
यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो
यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः ।
यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः
श्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥ ४६॥
यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द-
च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।
नेतुं यश्च प्रभवति मतिह्रासमस्तं समस्तं
निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ ४७॥
पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः
श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव ।
यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल-
त्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८॥
अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा
मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति ।
तस्य प्रभोरघमलोष्मशमादमन्दा
मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ ४९॥
भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर-
स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः ।
देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि-
क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ ५०॥
त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां
हन्ता भक्तिमतां मतां स्वसमतां कर्ताऽपकर्ताऽसताम् ।
देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी-
निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥ ५१॥
कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनं
भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।
यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं
कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ ५२॥
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ ५३॥
भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भय
क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् ।
पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः
प्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥ ५४॥
भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी-
निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः ।
त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव-
व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः ॥ ५५॥
आदौ पादतले कृतस्थितिरथो(अथ)प्राप्तः करालम्बनं
वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः ।
अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु-
र्भूत्यै स क्रमवर्द्धमानमहिमा स्वामिप्रसादोऽस्तु वः ॥ ५६॥
यस्यैकस्य सुवर्णसम्भृतपदन्यासानवद्यक्रम-
व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः ।
प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः
काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥ ५७॥
राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना-
मुग्धालापकथामृतादपि परं हारीणि हारादपि ।
अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत-
स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥ ५८॥
शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले
संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः ।
यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम-
भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥ ५९॥
यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी-
कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः ।
दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः
प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥ ६०॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``आशीर्वादाख्यं'' नामकं तृतीयं स्तोत्रं सम्पूर्णम् ।
४. मङ्गलाष्टकं चतुर्थं स्तोत्रम्
श्रीकम्बुकौस्तुभसुधांशुविषामृतानां
सौदर्यसौहृदसुखानुभवैकधाम ।
यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ १॥
आपीडबन्धनविधौ शयने च वर्ष्म
पर्याप्तभोगविभवं बहुमन्यमानः ।
यत्र प्रहृष्यतितरामुरगाधिराज-
स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २॥
अर्धं यदुत्पलदलैरुमयेन्दुगौर-
मर्धं श्रियार्चितमलिद्युति मालतीभिः ।
विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३॥
केशाश्रिता नयनवह्निशिखाभ्रसिन्धु-
झाङ्कारगर्भवपुषो जलदा वहन्ति ।
यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गं
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ४॥
हीनार्धनाभिनलिनालयसङ्कटत्व-
सातङ्कसङ्कुचितवृत्तिकदर्थिताङ्गः ।
अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्र
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ५॥
दृग्वर्तिनौ रवितमीरमणावखण्ड-
मूर्ती निजं च वपुरर्धमवेत्य वह्निः ।
यत्राधिकं ज्वलति लाघवमागतोपि
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ६॥
यस्मिन् गुणी सहृदयः सफलः समूलः
स्वातन्त्र्यधामनि करात् पतितः स पद्मः ।
कम्बुः स्थितस्तु धृततद्विपरीतरीति-
स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७॥
पादाग्रनिर्गतमवारितमेव वारि
यत्राधिरोहति शिरस्त्रिदशापगायाः ।
अत्यद्भुतं च रुचिरं च निरङ्कुशञ्च
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८॥
इति काश्मीरकमहाकविश्रीजगद्धरविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``मङ्गलाष्टकं'' नाम चतुर्थं स्तोत्रं सम्पूर्णम् ।
५. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम्
आपन्नतापहरणप्रवणा घृणेव
त्वङ्गत्तरङ्गसुभगा गगनापगेव ।
पीयूषसारशिशिरा शशभृत्कलेव
वाणी शिवैकशरणा जयतीश्वरीव ॥ १॥
यो मूर्धनि स्रजमिवोद्वहते धरित्री-
मुष्णीषतां श्रयति यस्य स भोगिराजः ।
यस्यामसौ वसति वाक्पतिरुक्तिदेवीं
तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ २॥
धन्याः शुचीनि सुरभीणि गुणोम्भितानि
वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।
उच्चित्य सूक्तिकुसुमानि सतां
विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३॥
श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ-
सन्दर्भसुन्दरपदोपचितैर्वचोभिः ।
धन्याः सतां सुकवयः सुखयन्ति तेऽपि
तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४॥
ते केचिदस्खलितबन्धनवप्रबन्ध-
सन्धानबन्धुरगिरः कवयो जयन्ति ।
येषामचर्वितरसापि चमत्करोति
कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५॥
तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः
सांयात्रिका इव महाकवयो जयन्ति ।
यत्सूक्तिपेलवलवङ्गलवैरवैमि
सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६॥
जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास-
लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।
भ्रूकाण्डकुण्डलकिरीटशिरोधराणां
नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७॥
आवर्जयन्ति मठराञ्जठरार्थमात्र-
पात्रीकृतार्थकणिका गणिकाविटाद्याः ।
प्रौढान् पुनर्भुजगभूषणभक्तिसिक्त-
सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥ ८॥
धन्यः स कोऽपि सुकविः कविकर्मकृत्त-
लोकार्ति कार्तिकतुषारकरानुकारि ।
गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं
चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥ ९॥
त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु-
रेकश्चकास्ति सविता कविता द्वितीयः ।
शंसन्ति यस्य महिमातिशयं शिरोभिः
पादग्रहं विदधतः पृथिवीभृतोऽपि ॥ १०॥
यस्य स्रवन्त्यमृतमेव मुखे तुषार-
हाराभिरामरुचिरञ्चितवक्रभङ्गिः ।
सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र-
लेखेव वा वसति तं सुकविं नमामः ॥ ११॥
याता गुणैरुपचयं विमला प्रकृत्या
नैसर्गिकीं परिणतिं प्रथमां वहन्ती ।
बुद्धिः सतां शशिकलामुकुटप्रसादा-
द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२॥
चन्द्रावचूडचरणस्मरणप्रसाद-
सन्दर्भनिर्भरगभीरगिरां कवीनाम् ।
सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य-
द्वाग्देवताकनकनूपुरनादलीलाम् ॥ १३॥
काव्यं विभाव्य निजमर्धनिमीलितानि
नैसर्गिकं जहति चापलमीक्षणानि ।
गृह्णन्ति तन्मसृणतां सहजां विहाय
भ्रूवल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥ १४॥
नीहारहारधवलस्य जयत्यपूर्वः
पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् ।
यः सम्प्रति प्रतिफलत्यमलासु बाल-
चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥ १५॥
सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ-
भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् ।
आस्वाद्य यत्सुमतयो मुखमुद्वहन्ति
सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ १६॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि
यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।
संरुद्धसर्वकरणप्रसरा भवन्ति
चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ १७॥
लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य
भ्रूकन्दलीयुगलमाकलयन्ति यस्य ।
नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग-
भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥ १८॥
स्फारेण सौरभभरेण किमेणनाभे-
स्तद्घानसारमपि सारमसारमेव ।
स्रक्सौमनस्यपि न पुष्यति सौमनस्यं
प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ १९॥
संसारमारवपथप्रथमानखेद-
विच्छेदकोविदमिदं कविकर्म्म जीयात् ।
विस्मारितं यदमुना यमुनासनाथं
पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ २०॥
गाम्भीर्यशालिनि शुचावमृतौघशीते
नीते सदा सदनतां मदनान्तकेन ।
यस्यैकपिङ्गलगिरेरिव मानसेऽन्त-
रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥ २१॥
यस्य द्युसिन्धुलहरीशुचयो न कस्य
दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः ।
गावः सुधारसमुचः प्रसरन्ति दिक्षु
विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२॥
संयोगमेत्य परमर्थपरिष्कृतस्य
पादान्तगोऽपि गुरुतां लघुरेति यस्य ।
तं शङ्करस्तुतिपरं परिशुद्धवृत्तं
सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३॥
इह हि महिमा मायामोहप्ररोहतिरोहित-
त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् ।
प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन-
व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥ २४॥
चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां
दिशन्ती सा काचिज्जयति कविवाचां परिणतिः ।
यदासृष्टे (यदातुष्टे)चेतस्यमृतमिति निश्रेयसमिति
प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ २५॥
मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-
भ्रमक्लेशावेशप्रशमकमनीयो विजयते ।
अखण्डश्रीखण्डद्रवनवसुधासारसरसः
प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६॥
घनानन्दस्यन्दोद्गत (स्पन्दोद्गत)विपुलवाष्पार्द्रनयनं
सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् ।
उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधते
सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ २७॥
धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका-
लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि ।
शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमा
श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः ॥ २८॥
धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका-
धाम्नः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः ।
किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयः
किं मौलीन्दुमरीचयः किममरस्रोतस्वतीवीचयः ॥ २९॥
सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरे
न प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।
गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरे
यः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादःसुधासोदरे ॥ ३०॥
ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा-
भक्ति व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालङ्कृतिः ।
वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः
शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥ ३१॥
प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि
प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा ।
अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै-
रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥ ३२॥
विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा
साहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः ।
क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै-
र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥ ३३॥
उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः
प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् ।
वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा
नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ ३४॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
चेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३५॥
एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन-
क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् ।
केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां
यास्यन्ति स्पृहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥ ३६॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कविकाव्यप्रशंसाख्यं'' नाम पञ्चमं स्तोत्रं सम्पूर्णम् ।
६. हराष्टकं षष्ठं स्तोत्रम्
जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा-
प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः ।
विशालनयनत्रयीरचितधामधामत्रयी-
तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥ १॥
जयत्यमरदीर्घिकासलिलसेकसंवर्धित-
प्रचण्डनयनानलग्लपिततीव्रतापव्यथः ।
अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण-
प्रभावमहिमाहितत्रिभुवनापकारो हरः ॥ २॥
जयत्यचलकन्यकाललितदोर्लतालिङ्गित-
स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः ।
तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम-
प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥ ३॥
जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा-
सटालफणभीषणक्षपणपाशमोक्षक्षमः ।
उदारकरुणारसप्रसरसारसिक्ताशयः
प्रपन्नविपदर्णवोत्तरणकणधारो हरः ॥ ४॥
जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय-
प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः ।
रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस-
न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५॥
जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर-
ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः ।
दशास्यभुजमणडलीतरलितैकपिङ्गाचल-
त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः ॥ ६॥
जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर-
प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः ।
जगत्त्रयभयङ्करत्रिपुरघोरदावावली-
सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७॥
जयत्यघवनाशनिः सुमतिमाधवीमाधवः
कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः ।
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः
समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८॥
॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हराष्टकं'' नाम षष्ठं स्तोत्रं सम्पूर्णम् ।
७. सेवाभिनन्दनं सप्तमं स्तोत्रम्
निशान्तनिद्रेव दशेव शैशवी
नवीनवध्वाश्चकितेव दृक्छटा ।
सुरस्रवन्तीव कथेव शाम्भवी
कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥ १॥
अलौकिकाह्लादनिबन्धनं मनः
प्रसादनं स्वानुभवैकसक्षिकम् ।
प्रकाशतां वो हृदि पारमेश्वरं
महो रहस्यं सुकवेर्गिरामिव ॥ २॥
स यस्य चापात्सपदि च्युतोऽच्युतः
शिखाभिरुग्रो विशिखः शिखावतः ।
पुराण्यकार्षीदपुराणि भैरवो
भयानि भिन्द्यादभवो भवः स वः ॥ ३॥
स यस्य पृष्ठे चरणार्पणं वृषा
वृषाधिरोहे कलयत्यनुग्रहम् ।
त्रिलोकनाथः स गिरा सुधावृषा
वृषाकपिस्तापमपाकरोतु वः ॥ ४॥
स यस्य पादद्वयमिद्धशासनः
सदा समभ्यर्चति पाकशासनः ।
प्रभुः प्रसादाऽमलया दृशा स नः
क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५॥
चमूर्जयन्भीजनकानका न काः
स यस्य सूनुः क्लमहा महामहाः ।
जटाः स बिभ्रत्तरुणारुणारुणाः
श्रियः क्रियाद्वः शुभयाभयाऽभया ॥ ६॥
मयि ध्रुवं दृग्भवता वताऽवता
कृपामृतार्द्रा महिता हिताऽऽहिता ।
अतस्तवास्तप्रमयामया मया
कृता नुतिः सातिशयाशयाऽऽशया ॥ ७॥
अनभ्रवर्षप्रतिमं विमत्सरा
नरा जरारुङ्मरणार्त्तिभीरवः ।
मुधा सुधासूतिवतंसशंसनं
विहाय धावन्ति रसायनाय किम् ॥ ८॥
मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं
कृशोपि वह्निः सुमहद्यथा तृणम् ।
शिशुर्मृगेन्द्रोपि यथा गजव्रजं
तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९॥
यथाल्पमप्यौषधमुन्मदं गदं
यथामृतं स्तोकमपि क्षयाद्भयम् ।
ध्रुवं तथैवाणुरपि स्तवः प्रभोः
क्षणादघं दीर्घमपि व्यपोहति ॥ १०॥
अमन्दसन्दर्भगभीरविभ्रमः
प्रगल्भवैदर्भपरिश्रमः क्रमः ।
अवश्यमासाद्य गुणोचितं विभुं
बिभर्त्ति सौभाग्यमभङ्गुरं गिरः ॥ ११॥
यथा हि शीलेन विना कुलाङ्गना
यथा विवेकेन विना मनीषिता ।
सदर्थबोधेन विना यथा श्रुति-
र्महीभुजङ्गेन विना यथा मही ॥ १२॥
यथा विना द्यौररविन्दबन्धुना
विना शशाङ्केन यथा निशीथिनी ।
विदग्धवर्गेण विना यथा सभा
विना विभूतिर्विनयेन वा यथा ॥ १३॥
कृपाविपाकेन विना यथा मति-
र्यथा सुपुत्रेण विना गृहस्थितिः ।
तथैव शोच्या हरिणाङ्कशेखर-
स्तवोपयोगेन विना सरस्वती ॥ १४॥
रमापि देवी मम नो मनोरमा
क्षमापि मामभ्यवपत्तुमक्षमा ।
मम क्षमैका भगवत्परानुति-
र्भवार्त्तिभङ्गे सरसा सरस्वती ॥ १५॥
अचेतनो यः किल कुस्थितिप्रियः
पृथग्विधोपाधिशतक्षताशयः ।
निषेव्यते पादतले स यद्गिरि-
श्चिरं मुनीन्द्रैरपि शुद्धमानसः ॥ १६॥
निसर्गतः सत्पथगर्हितस्थिति-
र्मलीमसो जिह्मगतिश्च यः फणी ।
स कुण्डली यन्मणिमौलिमण्डितो
महाभुजङ्गः पृथुभोगभागपि ॥ १७॥
यदप्यजस्रं जडसङ्गमोचितः
स्वभावतुच्छः शशभृत् कलामयः ।
कलङ्कमुक्तं वहते सुधामयं
विधूतदोषोदयमुज्ज्वलं वपुः ॥ १८॥
स एष गौरीश्वरसंश्रयात्मनः
फलोद्गमः कल्पमहामहीरुहः ।
अमुं समासादयितुं हितायति-
र्यतेत को नाम न चेतनो जनः ॥ १९॥
निदाघनिर्दग्धमहामरुभ्रम-
क्लमच्छिदो मार्गमहीरुहादपि ।
कलिन्दकन्यासलिलौघसङ्गत-
त्रिमार्गगाम्भोभरसम्प्लवादपि ॥ २०॥
सरस्वतीसौभगसारसम्भृत-
प्रसन्नगम्भीरपदक्रमादपि ।
कुरङ्गनाभीघनकुङ्कुमाङ्कित-
स्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१॥
अमन्दमानन्दसुधारसद्रवं
स्रवन्नवन्ध्यं भवदुःखिते हृदि ।
इयत्यमुष्मिन्भुवनाध्वनि ध्वनि-
र्नमः शिवायेति चमत्करोति मे ॥ २२॥
विचिन्तयञ्जीवनमेव जीवनं
समर्थयन् पार्थिवमेव पार्थिवम् ।
विभावयन् वैभवमेव वै भवं
कदाऽऽश्रये शङ्करमेव शङ्करम् ॥ २३॥
वरं भवेदप्यवरं कलेवरं
परं हराराधनसाधनं हि यत् ।
न तु क्रतुध्वंसिनिषेवणोत्सवं
विनिघ्नती मुक्तिरयुक्तिपातिनी ॥ २४॥
क्व नीलकण्ठायतनोपसर्पण-
स्फुटोपकारौ चरणौ महागुणौ ।
क्व चाञ्चनोद्वर्त्तनचर्चनादिभिः
पुरारिपूजार्पणतर्पणौ करौ ॥ २५॥
क्व नाम नामग्रहणोत्सवं विभो-
रभिप्रवृत्ता रसना दिने दिने ।
क्व चाद्रिपुत्रीपतिपादपङ्कज-
स्फुरद्रजोराजिविराजितं शिरः ॥ २६॥
क्व दृक्चिरं पारितचन्द्रशेखर-
स्वरूपसौभाग्यविलोकनस्पृहा ।
क्व सन्तताकर्णितदर्पकद्विष-
द्विचित्रचारित्रपवित्रिता श्रुतिः ॥ २७॥
क्व निर्धुताऽनल्पविकल्पविप्लव-
त्रिलोचनध्याननिबन्धनं मनः ।
क्व चाऽपवर्गोऽयममार्ग एव यः
स्मरारिसेवासुखसर्वसम्पदाम् ॥ २८॥
इदं विदन्तः सुधियो भियोज्झिताः
समाधिमाधिच्छिदमाश्रिता अपि ।
प्रभुप्रणामस्तुतिचिन्तनार्चन-
स्फुटोपयोगं बहु मन्वते वपुः ॥ २९॥
किमङ्गमङ्गल्यमनङ्गभङ्गद-
प्रसादनादन्यदधन्यमन्यसे ।
यदर्थमर्थक्षतिकृत्सुदुष्करप्रयास-
साध्येषु मखेषु खिद्यसे ॥ ३०॥
इमा हिमानीविमला हविर्भुजां
प्रभुप्रसादप्रभवा विभूतयः ।
करोषि यत्तर्पणमात्रकाम्यया
दयास्पदप्राण्युपघातपातकम् ॥ ३१॥
सखे ! सखेदस्य धनार्जनं प्रति
प्रतिग्रहाध्यापनयाजनादिभिः ।
प्रयाति ते वायुरिवायुरिङ्गितं
विहन्ति हन्त क्रतवे तवेहितम् ॥ ३२॥
अतः स्वतः प्रार्थितसम्पदां पदं
कदर्थनाहीनमदीनमेनसा ।
निदानमानन्दभुवः स्वयम्भुवो
भजस्व पादाम्बुजसेवनोत्सवम् ॥ ३३॥
अक्लेशपेशलमलङ्घ्यकृतान्तदूत-
हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् ।
को नाम नामयहरं हरपादपद्म-
सेवासुखं सुमतिरन्वहमाद्रियेत ॥ ३४॥
रोमन्थमन्थरकुरङ्गशताश्रितेषु
भागीरथीशिशिरशीकरशीतलेषु ।
रोहन्महार्हफलकन्दलसुन्दरेषु
बद्धास्पदास्तुहिनभूधरकन्दरेषु ॥ ३५॥
धन्याः समाधिमवधानधना धनादि-
सम्बन्धबन्धमवधूय धियाऽधियन्तः ।
ज्योतिः परं गलदनल्पविकल्पजाल-
मालोकयन्ति भगवन्तमनन्तमन्तः ॥ ३६॥
धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र-
हुङ्कारकातरधियस्तरुणेन्दुमौलिम् ।
वैराग्यनिर्वृतमनस्विजनावकीर्ण-
स्वर्गापगापुलिनबाललतालयेषु ॥ ३७॥
सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा-
हेवाकिनः सुरसरित्पुलिनस्थलेषु ।
लक्ष्मीलवोल्लसदमन्दमदाऽवलेप-
भूपालवालिशविलङ्घनविप्लवानाम् ॥ ३८॥
इदं मधुमुखं विषं हरति जीवितं तत्क्षणा-
दपथ्यमिदमाशितं व्यथयते विपाके वपुः ।
इदं तृणगणावृतं विलमधो विधत्ते क्षणा-
द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९॥
अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा-
पतिप्रणयसम्भवं भुवि विडम्बनाडम्बरम् ।
विहाय सुरवाहिनीपुलिनवासहेवाकिनो
भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४०॥
किं भूयोभिः परुषविषयैः श्रीविकारैरसारैः
किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।
मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणां
मुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१॥
दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त-
व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु ।
श्रद्धाबन्धं शशधरशिरःपादराजीवसेवा-
हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ ४२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``सेवाभिनन्दनं'' नामकं सप्तमं स्तोत्रं सम्पूर्णम् ।
८. शरणाश्रयणं अष्टमं स्तोत्रम्
कल्याणिनः सुरगिरेरिव संश्रितस्य
लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः ।
पद्यस्य शम्भुविषयस्य जयन्ति पादा
ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ १॥
याः पङ्किलेन कलिलेन वियोजयन्ति
नित्योज्ज्वलेन कुशलेन च योजयन्ति ।
ता धूर्जटेरमरनिर्झरिणीतरङ्ग-
भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ २॥
संसारदारुणदवानलदह्यमान-
वाक्चित्तकायकुशलीकरणौषधानि ।
श्रीभुक्तिमुक्तिवशकर्म्मणि कार्मणानि
शम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥ ३॥
दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग-
च्छेदं विधेरविरहं नरवाहनस्य ।
भस्मीकृतिं त्रिपुरपाशधरस्मराणां
वश्यं दिशाञ्च दशकं दशकन्धरस्य ॥ ४॥
शौर्यानलस्य परशुव्यजनेन दीप्तिं
रामस्य बाहुपरिघप्रतिघं मघोनः ।
हैमं मरुत्तनृपतेर्दिवसानि सप्त
वर्षं सुदर्शनसमर्पणमच्युतस्य ॥ ५॥
श्वेतस्य कण्ठपुलिनात्समवर्तिपाश-
प्रोत्सारणं नयननिर्हरणं भगस्य ।
दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु
दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६॥
शूलाधिरोहणपराभवमन्धकस्य
पूष्णो हनुग्रहमनुग्रहमर्जुनस्य ।
नन्दीश्वरस्य रविजादभयं भुजङ्ग-
भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ ७॥
किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्य
सर्गस्थितिप्रशमनानि जगत्त्रयस्य ।
क्रीडन्निव व्यधित येन निरङ्कुशं तत्
स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८॥
यस्याऽतिघोरगरलादपि कण्ठपीठा-
त्सञ्जीवनौषधमुदेति वचो नतानाम् ।
यस्य ज्वलद्घनकृशानुशिखोल्बणापि
वर्षत्यमोघममृतद्रवमेव दृष्टिः ॥ ९॥
दंष्ट्राकरालमपि घोरमघोरवक्त्त्रं
यस्य प्रपन्नभयभञ्जनभङ्गिमेति ।
यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु
कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १०॥
यस्यापि कृष्णभुजगा भुजगा भजन्त-
मिन्दीवरस्रज इव प्रविनन्दयन्ति ।
किं चाङ्गसङ्गि मरुदीरितमेति यस्य
मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥ ११॥
यस्येभचर्मघनशोणितपङ्कलिप्त-
मङ्गेषु मङ्गलदुगूल विलासमेति ।
यस्यापि तापविधुरेषु करे कपाल-
मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२॥
यत्पादपांसुपरिमर्शशुचि श्मशानं
श्रीशैलनैमिषमुखान्यधरीकरोति ।
यत्संस्तवादविकलं कुशलं कपाल-
पाली करोति कृतिनां कमलावलीव ॥ १३॥
यं देवमस्तशिरसं सुरभर्त्तुरङ्के
लङ्केशवैरिकरवीजिततालवृन्तम् ।
आसीनसुप्तसुखितं शतरुद्रियादि-
मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४॥
हेलावलीढभुवनत्रितयेन येन
गीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि ।
यस्य ज्वलद्विपुलभालविलोचनाग्नि-
ज्वालावलीशलभतामगमत्स कालः ॥ १५॥
श्वेतं विधोरुदयहेतुमवेत्य पक्षं
कालं च यः क्षयकरं दृशमाश्रितस्य ।
श्वेतं दयाविशदयाशु दृशानुगृह्य
कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६॥
चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा-
लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य ।
यस्यागमन्निधनसाधनतां पुराणां
वाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७॥
चक्रायुधं विशिखतामुडुचक्रवर्ति-
चक्राभिधानसुहृदौ रथचक्रभावम् ।
नीत्वाऽसृजत्त्रिदशधाम्नि रसातले च
यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ १८॥
आरूढरीढमपि येन समर्पितेन
प्रीतिं रतिं च हृदि विस्मरति स्म कामः ।
तं दृष्टिपातमधिगम्य बिभर्ति यस्य
प्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥ १९॥
कृष्णोपदर्शितपथः पृथुलोष्मभीष्म-
श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः ।
व्याधाकृतेरपि धनञ्जय एव यस्य
दृग्गोचरे कृतपदो महसा दिदीपे ॥ २०॥
युक्तं सुधाकरसुधाकरकद्युसिन्धु-
तोयादि यन्मनसि तापमपाकरोति ।
यस्याङ्गसङ्गि शवभस्मकपालमाला-
हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१॥
मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टा
दृष्टा रुजामसुहृतं सृजती जनानाम् ।
सौरी तनुर्ननु सहस्रपदी यदीय-
नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२॥
आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि-
राधूतमूर्धसुरनिर्झरिणीकणौघैः ।
उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र-
संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३॥
उद्गाढभक्तिविधुरव्यपनीततीव्र-
दोषान्धकारमतिमात्रशुचिप्रकाशम् ।
पीयूषमुद्वमति यस्य विविक्तवर्णं
कर्णान्तगामि वचनं च विलोचनं च ॥ २४॥
पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु-
मैत्रीपवित्रशिरसः स्थिरसत्यवाचः ।
साटोपकोपविकटभ्रुकुटिच्छटाना-
मुत्तालकालभटवक्रविभीषिकाणाम् ॥ २५॥
सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तीं
वक्रामभङ्गुरगुणां महतीं वहन्तः ।
गायन्ति यं श्रितवतः परिशुद्धवंश-
विद्या यशांसि कवयः परिवादकाश्च ॥ २६॥
यत्सेवकस्य मदनोल्बणबाणपूग-
क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः ।
सेव्या भवत्यवसरे कलकण्ठनाद-
हृद्या वधूः कुसुमितोपवनस्थली च ॥ २७॥
यस्मिन्नखिन्नमनसो व्यसनावसन्न-
सन्तापशान्तिकृतसम्मतयो वसन्ति ।
कात्यायनी च करुणा च कला च चान्द्री
स्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥ २८॥
सन्तापसम्पदपहारपटूनि सिद्ध-
सिन्धोरिवेन्दुधवलानि जलानि यस्य ।
आकल्पयन्ति मदयन्ति पवित्रयन्ति
सञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥ २९॥
दुष्कालसङ्कटकटाहकदर्थितानां
तीव्राभिमानमनसां घनसारभांसि ।
भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द-
सन्दोहदोहदमहो चरितानि यस्य ॥ ३०॥
फुल्लारविन्दमकरन्दधृतप्रसङ्ग-
भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् ।
गायन्ति यस्य चरितं हरितामधीशा
धीशालिनः कमलिनीपुलिनस्थलीषु ॥ ३१॥
व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं
विस्तीर्णकर्णिकमनर्गलरूढनालम् ।
यं शंसतोऽधिवसति स्वयमुक्तिदेवी
राजीवसद्मकमला विजिगीषयेव ॥ ३२॥
आपन्नबान्धवमबन्ध्यवचोविलास-
मासन्नमज्जननमज्जनसान्त्वनेषु ।
देवं सुधाकरकिशोरकृतावतंसं
तं संश्रितार्त्तिहरणं शरणं श्रयामि ॥ ३३॥
देवं श्रयामि तमहं मुकुटोरगेन्द्र-
स्फूर्जत्फणामणिसहस्रमिषेण यस्य ।
भालानलेन सुरसिन्धुजलोक्षितेन
प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥ ३४॥
सानुग्रहोत्तमगणाश्रितपादमूलं
मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् ।
आसेवितं विषधरैः कटकेषु ताप-
शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ ३५॥
यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः-
कुम्भं करे शिरसि देवनदीमदीनाम् ।
हर्तुं बिभर्ती भविनामणुकर्ममाया-
मूलं मलत्रयमयं तमहं श्रयामि ॥ ३६॥
यस्यापगा स्रगिव सौमनसी जटासु
यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते ।
देवीं वराऽभयकरामपि यो बिभर्ति
प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ ३७॥
गौरीं गजास्यजननीं हिमवत्प्रसूतिं
सद्यःपवित्रितजगत्त्रितयां य एकः ।
कात्यायनीं सुरधुनिं च विभुर्बिभर्ति
निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ ३८॥
क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग-
मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् ।
क्रूरं क्वचिन्मृगवधैकरतिं किरातं
वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ ३९॥
उद्दामदोषमपि दीर्घगुणं भुजङ्ग-
भोगोपगूढमपि रूढशिखिप्रसङ्गम् ।
कापालिकव्रतसमेतमपि द्विजेन्द्र-
चूडामणिं विभुमनङ्कुशमाश्रयामि ॥ ४०॥
अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं
विश्वाधिनाथमथ खण्डकपालपाणिम् ।
उग्रं शिवं हरमघोरमजं च सद्यो-
जातं च विस्मयनिधिं विभुमाश्रयामि ॥ ४१॥
अस्मिन्भवाध्वनि महाविषमेऽसमेषु-
रोषादितस्करतिरस्करणैकवीरम् ।
भीरुः श्रयामि शरणं क्षणदाकुटुम्ब-
लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥ ४२॥
किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान्
कैलास एव जगदेकगुरुर्गिरीशः ।
यस्याऽभयङ्करमसङ्करमस्तशङ्क-
मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥ ४३॥
उल्लङ्घ्य शासनमनन्यजशासनस्य
कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् ।
हित्वा वनं हि नवनागरपर्णपूर्ण-
मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ ४४॥
अन्यार्थमप्युपहिता शितिकण्ठसेवा
लोकस्य कल्पलतिकेव फलत्यवश्यम् ।
उद्दीपिता खलु परस्य कृतेऽपि येन
तस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥ ४५॥
यद्यर्चितः (यद्यर्थितः)स भगवानपि जीविकार्थं
तत्रापि किल्विषविपाकमपाकरोति ।
योऽपि द्युसिन्धुपयसि प्लवते निदाघ-
घर्मच्छिदे भवति सोपि हि धौतपापः ॥ ४६॥
कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता
भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति ।
स्तन्यार्थमप्युपहिता पृथुकस्य धात्री
पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ ४७॥
दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः
सेवाविधिः प्रमदसम्पद(प्रमदसम्मद)मादधाति ।
वेश्याजनस्य न सुखाय किमङ्गराग-
मालादुगूलधवलः कृतकोऽपि वेषः ॥ ४८॥
तस्मादुपेत विभुमेव यथातथापि
मुक्तिर्न चेद्भवति किं न गलन्त्यघानि ।
यः स्वेच्छयैव निपतत्यमृतहृदेऽन्त-
र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥ ४९॥
क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं
हेम्नः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् ।
यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतं
क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ ५०॥
स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता-
माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः ।
सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा
देवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ ५१॥
उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै-
रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः ।
ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः
स्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव क्रीडति ॥ ५२॥
इति काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``शरणाश्रयणं'' नामाऽष्टमं स्तोत्रं सम्पूर्णम् ।
९. कृपणाक्रन्दनं नवमं स्तोत्रम्
दीपोत्करैरविरुचां परिपूरणेयं
नीहारवारिभिरिदं भरणं पयोधेः ।
अस्मादृशां मितदृशां नियतैर्वचोभिः
प्रस्तूयते भव तव (तव भव)स्तवचापलं यत् ॥ १॥
अत्राऽपराध्यति गिरो हर धृष्टतेय-
मेषा निसर्गमुखरा मुखरागिणी यत् ।
प्रौढिं परामनुपयत्यपि वाञ्छति त्वां
स्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥ २॥
यद्वा भवत्यसुलभो भवदाश्रितस्य
शस्यः स कोऽपि महिमा न हि मादृशोऽपि ।
स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा
धत्ते मही भवति हेममयी हि तत्र ॥ ३॥
भीष्मो विषादपि विषादपिनद्धमेत-
च्चेतश्चकार सविकारमकारणारिः ।
मोहामयस्तमयमस्तमयं नयामि
स्वामिँस्तव स्तवरसायनसेवनेन ॥ ४॥
एषः स्तवस्तव नवप्रमदोपदेश-
मादेशयञ्जयति कोऽपि गुरुर्गिरीश ।
सद्यः पुरः स्फुरति मे दुरतिक्रमेण
यत्सङ्कमक्रमवशेन वचोधिदेवी ॥ ५॥
नास्य स्पृहाऽस्ति सरसाय रसायनाय
नाऽयन्त्रितेन्दुवदनावदनाऽमृताय ।
निर्बन्धमेति तु भवत्सविधे विधेहि
निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६॥
आभाति शक्रनगरी न गरीयसी मे
प्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः ।
जाने परं हर शरण्यमरण्यमेव
यत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥ ७॥
पुष्पेषु दोहदवशादवशा(शं)भृशं या
बभ्राम वामनयनाभुजमञ्जरीषु ।
सा साम्प्रतं दृगलिनी वलिनी(नीं)व्यनक्ति
त्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥ ८॥
किं निर्मिता मुकुटचन्द्रकलां निपीड्य
किं वा शिरःशरणनिर्झरिणीजलेन ।
किं वा करस्थकलशामृतसम्प्लवेन
भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९॥
स्वामिन्विचित्रचरितस्य तवाऽपदान-
गीतामृतेषु दृढरूढरतिर्ममेयम् ।
दूरीकृताऽन्यसरणिर्हरिणीव वाणी
सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १०॥
आश्वासनं यमभयाकुलतामृतानां
सञ्जीवनं भवदवव्यथया मृतानाम् ।
आलम्बनं सुकविराजगिरामृतानां
सङ्कीर्तनं जयति ते चरितामृतानाम् ॥ ११॥
दानं तरङ्गतरलः किल दुग्धसिन्धु-
र्मुक्तिः करालतरकालभयात्प्रसादः ।
त्यागोऽपि सप्तदिवसानि सुवर्णवृष्टिः
किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२॥
स्वामिन् रजःपरिचितं चपलस्वभावं
जात्या मलीमसमिदं हृदयं मदीयम् ।
त्वत्पादपद्मविषये कृतपक्षपातं
धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३॥
त्वां वामदेवमपि दक्षिणमाश्रितेषु
सर्वत्र शङ्कर वसन्तमपि स्मरारिम् ।
अप्यन्तकोपशमहेतुमनन्तकोप-
शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥ १४॥
क्वापि प्रसीदसि दिशन्विशदं प्रकाशं
क्वापि प्रयच्छसि घनावरणोपरोधम् ।
कुर्मः किमत्र महनीयमहामहिम्नो
नास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥ १५॥
चित्तं नतापदुपतापहृतिप्रवृत्तिं
भीताऽभयार्पणपणप्रवणां च वाणीम् ।
लोकोपकारपरतन्त्रमिदं वपुश्च
कस्त्वत्परः परमकारुणिको बिभर्ति ॥ १६॥
चित्तं विषादमगमन्न परं प्रसाद-
मौज्झद्विचारमुचितं न बहिः प्रचारम् ।
लेभे न कुत्र विवरं प्रवरं न बोध-
मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ १७॥
अश्रान्तमान्तरमशान्तरजोविकारं
सारङ्गकेतुमुकुटस्फुटमन्धकारम् ।
युक्तं यदन्धयति यद्बधिरीकरोति
कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८॥
लीलाविलोलललनानयनान्तवास-
मासाद्य यः क्व न भनक्ति मनस्विनोऽपि ।
सोऽयं निविश्य विमले हृदये मदीये
धिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥ १९॥
स्वामिन्नसन्तमिव तत्र वसन्तमेव
सत्वामवैति किमिदं यदि वा किमन्यत् ।
दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वं
सर्वङ्कषो विजयते स तव प्रसादः ॥ २०॥
श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि-
कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।
उद्यन्नवीनकदलीदलसौकुमार्यं
बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥ २१॥
फुल्लारविन्दवदना विकसच्छिरीष-
मालाभुजाभिनवनीलसरोजनेत्रा ।
ब्रह्मास्त्रमप्रतिहतं विहिता हिताय
पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२॥
नाथेति जीवितहरेति दयापरेति
सप्रेमकोपमतिकोमलमालपन्ती ।
गाढानुरागविवृताखिलगूढभाव-
मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३॥
किंवा परं कुपितनिर्घृणपञ्चबाण-
बाणौघभिन्नहृदया परिरभ्य गाढम् ।
मुग्धाजनस्य सहजामवजित्य लज्जा-
मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४॥
आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-
भावत्कभक्तिरसपारणनित्यतृप्तम् ।
प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं
न त्वत्परं हरति सा हरिणेक्षणाऽपि ॥ २५॥
हेलावलन्मलयमारुतकम्पितानां
शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।
वृत्तिर्हरस्मरणघूर्णितचेतसः क्व
दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६॥
नेत्रत्वमीश तव मूर्तिविलोकनेषु
वाक्त्वं भवच्चरितचर्वणविभ्रमेषु ।
त्वत्सङ्कथाश्रवणकर्मणि कर्णभाव-
मिच्छन्ति गन्तुमपराणि (इतराणि)ममेन्द्रियाणि ॥ २७॥
यच्छत्रचामरसिता कृतिनां विभूतिः
सः स्वल्प एव भगवन् भवतः प्रसादः ।
त्वत्साम्यमेव (तत्साम्यं)तु सतामधिकस्ततोऽपि
यद्वल्कलं च वसनं विपिनं च वासः ॥ २८॥
त्वत्पादपङ्कजरजश्छुरितौ च पाणी
वाणी भवच्चरितचर्वणगर्विता च ।
चित्तं भवद्गुणगणस्मरणव्रतं च
भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ २९॥
भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपि
जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि ।
किं वा परं वरद घस्मर भस्मरूक्ष-
गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ ३०॥
याचे न किञ्चिदपरं वसतिर्गिरीन्द्रे
कैलासनाम्नि भवदध्युषिते ममास्तु ।
किं वा न तत्र भगवन् मम ये सखाय-
स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥ ३१॥
वाचाममी न विषये विषयेषु येषु
तृष्णाऽन्वभावि विषमा विषमाकिरन्ती ।
तन्मां भजोज्ज्वलविलोलविलोचनान्त-
विन्यासभासुरसुधारसुधारसेन ॥ ३२॥
नानुग्रहस्तव विना त्वयि भक्तियोगं
नानुग्रहं तव विना त्वयि भक्तियोगः ।
बीजप्ररोहवदसावनयोर्न कस्य
भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३॥
शान्तं मनो यदि यमैर्नियमैः किमन्यै-
र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् ।
कारुण्यमस्ति यदि किं व्रतहोमदानै-
र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ ३४॥
भुक्तं विकल्पकवलैः सुरलोकसौख्य-
मालोकिता विविधशास्त्रदृशैव मुक्तिः ।
पीता सुधा श्रवणशुक्तिपुटैः समक्ष-
मास्वादिता पुनरियं शिवभक्तिरेव ॥ ३५॥
दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि
हानिर्बलस्य शरदीव नदीजलस्य ।
दुःखान्यसत्परिभवा इव दुःसहानि
हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ ३६॥
निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानी
मा नीरसं स्पृशतु नाम मनो विवेकः ।
विद्यां निदाघ इव घर्मरुचिर्हिमानी-
मानीयनाशमुपतापयते तु मोहः ॥ ३७॥
तस्मादुपैति न तनुस्तरसाऽवसायं
सायन्तनी प्रतिपदिन्दुकलेव यावत् ।
तावत्कृपां कुरु हतोऽस्म्यहमंहसाऽयं
सा यन्त्रिता मयि तवास्तनयेन येन ॥ ३८॥
अभ्येति मृत्युभटसंहतिरस्तकम्पा
कम्पामहे मनसि यां विनिवेशयन्तः ।
एका गतिर्गिरिश तत्र तवानुकम्पा
कम्पात्रतां नयति या न शुभोदयानाम् ॥ ३९॥
यन्निःस्पृहोप्यजनयस्तनयं कुमारं
मारं विधाय शलभं नयनानलस्य ।
तत्ते परार्थमिति विश्रुतमाकुमारं
मा रंहसा जहिहि देहि तदेहि वाचम् ॥ ४०॥
सर्वस्वमेव मम दत्तमहाप्रहारा
हारामलं हर हरन्त्यरयो विवेकम् ।
रक्षाकरी तव कृपाऽत्र कृताऽवहारा
हा राजशेखरमणेः पुरतो हतोऽहम् ॥ ४१॥
देवालये वसतिमर्थयते कपोतः
सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः ।
पृष्ठे श्रियं वहति नित्यमनेकपोऽत-
स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ ४२॥
लब्धा धृतिर्दिवि कदाचन वासवेन
सैन्येन सा परिवृतेन न वासवेन ।
नो वा बलेन भुवि पीतनवासवेन
त्वां भेजुषो भवति याऽभिनवा सवेन ॥ ४३॥
या दुर्लभा दिवि महर्षभयान कस्य
कालस्य या निधनधाम भयानकस्य ।
वाचा तया कृतनतेरभयानकस्य
तुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥ ४४॥
यं वीक्षसे क्षतमहाकलिकाल सन्तं
क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् ।
इन्दोरिवाऽमृतमयी कलिका लसन्तं
बालाऽवलोकयति सोत्कलिकालसं तम् ॥ ४५॥
मुक्तावलीव रहिता शिव नायकेन
मुक्ता भवद्गणसभेव विनायकेन ।
वाणी त्वया परिहृताऽखिलनायकेन
सम्भाव्यते हृदयसंवननाय केन ॥ ४६॥
यस्योचितः प्रथितमान समाधिनान्त-
स्तेनार्तिमुद्वहति मानसमाधिनान्तः ।
शुद्धां मतिं स्पृशति पांसुलभावलेप-
स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ ४७॥
कामं भवेऽत्र बहवः सुभगस्वभावा
भावा भवन्तु मम तु द्वितयं स्पृहायै ।
शब्दार्थपाकरुचिरा कविराजगीर्वा
गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ ४८॥
ज्योत्स्नाछटाभिरिव देव चकोरकस्य
भास्वत्प्रभाभिरिव पङ्कजकोरकस्य ।
दैवीभिरद्भिरिव बर्हिकिशोरकस्य
प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ ४९॥
वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं
चेतः स्खलद्गति भवावरणात्क्व चेतः ।
वित्रासवन्तमिति मामनुदत्पवित्रा
भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ ५०॥
वन्दामहे च विविधं विवदामहे च
लज्जामहे च कलुषाणि भजामहे च ।
ईहामहे च कुवचांसि सहामहे च
दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ ५१॥
लब्धं चिरेण सुकृतैरचिरस्थिरं च
मानुष्यकं पुनरिदं सुलभं च चेति ।
जानीम एव च न च स्वहितं विधातु-
मीहामहे वयमहो बत यद्भविष्याः ॥ ५२॥
तस्मादवश्यमवशानविशङ्कमेव
भोगोपभोगरसिकानसमाप्तकृत्यान् ।
यावन्न धीवर इवैत्य तिमीनकस्मा-
न्मृत्युः क्षणादशरणान् हरते हठेन ॥ ५३॥
तावत्प्रसीद कुरु नः करुणाममन्द-
माक्रन्दमिन्दुधर मर्षय मा विहासीः ।
ब्रूहि त्वमेव भगवन् करुणार्णवेन
त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ ५४॥
जातस्य मृत्युरिति चेत्स न लङ्घितः किं
श्वेतेन शीतकरशेखरनन्दिना च ।
ताभ्यामसौ यदि जितो विपुलैस्तपोभि-
रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५॥
तर्ह्यर्चनान्तसमये तव पादपीठ-
मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः ।
निद्रानिभेन विनिमीलितलोचनस्य
प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६॥
एतेन किं निविडबन्धभृतो भुजङ्गाः
किं वा न वक्रिमविलासविकासभाजः ।
किन्तु क्रमादपचिताः पदगुम्फहीनाः
सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ ५७॥
तस्माद्भयङ्करमदः फणिकर्णपूर-
हेवाकदुर्ललितमस्तनयं विहाय ।
स्वामिन्निमाः श्रवणयोः प्रणयोपचार-
गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥ ५८॥
स्वामिन्नबन्धवतया वत या तवेयं
वाणी मया निजगदे जगदेकबन्धोः ।
तामन्तकान्तकर शङ्कर शंसतो मे
कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ ५९॥
पश्यन्तमन्धमभिमानिनमस्तमानं
विस्तीर्णकर्णमपि या बधिरं करोति ।
साऽऽर्त्तिर्न नर्तयति किं कुनृणामिव श्रीः
तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६०॥
उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त-
मन्तः कृतान्तमविकल्पमनल्पदर्पम् ।
आशङ्क्य शङ्करचरित्रपवित्रचित्र-
सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥ ६१॥
प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यं
तथ्यं सतोषमपदोषमरोषपोषम् ।
सन्धित्सवस्तव कृतान्तहितं मितं च
यद्ब्रूमहे तदवधारय सावधानः ॥ ६२॥
अन्यत्र दर्शय निरङ्कुश हुङ्कृतानि
कीनाश नाशय दुराशय माऽभिमानम् ।
नाथीकृतेन्दुमुकुटानपि नाम मन्ये
निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३॥
येनेश्वरेण महता विहितागसस्ते
कृत्वाऽपि शासनमकारि पुनः प्रसादः ।
तत्सेवका वयमतस्तव विद्विषोऽपि
यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ ६४॥
रे दुर्विनीत खल काल पुरा पुरारे-
र्यामाप्तवानसि निजाविनयप्रशास्तिम् ।
श्रुत्वैव तां धृतिमतामपि कम्पमेति
चेतः कथं पुनरुपक्रमसे तदेव ॥ ६५॥
पाणौ निधेहि पवनाशनपाशमाशु
नास्तीह ते पुरुषपाश रुषोऽवकाशः ।
निःसङ्करेषु शरणीकृतशङ्करेषु
रे काल कातरभयङ्कर किं करोषि ॥ ६६॥
व्यापारय स्वपुरुषं पुरुषं परेषु
मा रोषमङ्कुरय शङ्करकिङ्कराणाम् ।
किं विस्मृतं विषधरायुध निर्निरोध-
क्रोधप्रबोधपटहं हरहुङ्कृतं ते (तत्)॥ ६७॥
कीनाश बालिश निरङ्कुश निर्विमर्श
निस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् ।
निष्कारणं निरनुरोध करोषि रोषं
तत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥ ६८॥
कुर्वन् विरोधमनिरोधमबान्धवेषु
धत्से मुधा यम समुद्धतकन्धरत्वम् ।
तीव्राऽपराधविधुरेष्वपि साधवो हि
बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९॥
यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं
प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् ।
तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्य
तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७०॥
तत्तथ्यमेव किमकारणकण्टकं त्वां
यद्धर्मराज इति काल जनाः स्तुवन्ति ।
लोका न किं जगदमङ्गलमूलकोषं
शंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥ ७१॥
त्वां जीवितेश इति यत्स्तुवते रुदत्यः
कापालिकाः शवदहो गुरवो द्विजाश्च ।
तद्युक्तमन्तक यतः परमः सुहृत्त्वं
तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२॥
क्लिश्यन्त्यवश्यमपमार्जनभूतयाग-
निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः ।
ये दैशिकाः परमकारुणिकाः परार्थे
त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३॥
देशं न यत्त्यजति सन्तमसन्तमन्तं
ध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः ।
त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि
सद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥ ७४॥
कोपं विधाय तव येन कृतः प्रसाद-
स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् ।
किं तत्र वर्तयसि मां समवर्त्यतोऽपि
त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५॥
भालस्थलानि कलयस्यमलेन्दुमौलि-
पादारविन्दमकरन्दसितानि येषाम् ।
त्वं मानवानसि विमानय मा नयज्ञ
तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६॥
दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं
यद्वा यमोऽस्यधमसंयमनात्तदन्यत् ।
मन्ये मदं शमयितुं प्रभवस्तवैव
त्वामेव वा यमयितुं भवभक्तिभाजः ॥ ७७॥
उद्वृत्तमन्तक नृशंस भृशं सगर्व
शर्वस्तवव्यवसितेष्वपि चेष्टसे यत् ।
तद्भावि भाविभवभैरवभैरवोग्र-
भालानलोद्भवपराभवकृत्पुनस्ते ॥ ७८॥
किं वाऽन्यदर्कज विशङ्क विशङ्कटास्य
हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् ।
तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ
सानुग्रहोप्यनुचितं क्षमते महेशः ॥ ७९॥
भालस्थलीव तिलकेन वधूकटाक्ष-
विक्षोभितेन तिलकेन वनावलीव ।
विज्ञप्तिरेणतिलकेन विभावरीव
शोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥ ८०॥
वासः क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमं
निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि ।
व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः
कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥ ८१॥
अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी-
श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् ।
आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः
कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥ ८२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कृपणाक्रन्दनं'' नाम नवमं स्तोत्रं सम्पूर्णम् ।
१०. करुणाक्रन्दनं दशमं स्तोत्रम्
जयति चित्तचकोरकचन्द्रिका
सुकृतिनां वदनाब्जरविच्छविः ।
श्रवणबर्हिणवर्षणवर्तनी
हरिणकेतुकलामुकुटस्तुतिः ॥ १॥
जयति भक्तिलतानवमाधवः
सुकृतपादपपक्वफलोद्भवः ।
विपदुपद्रवविक्लवबान्धवः
सुकविसूक्तिवधूवदनासवः ॥ २॥
भवमहार्णवनिस्तरणप्लवः
प्रवरसूरिमयूरघनारवः ।
हृदयदाहहृतावमृतद्रवः
कुमुदिनीरमणाभरणस्तवः ॥ ३॥
मधुरमिन्दुमुखीवदनादपि
क्लमहरं सुरसिन्धुजलादपि ।
त्रिभुवनाधिपतिस्तुतिपावनं
जयति सत्कविसूक्तिरसायनम् ॥ ४॥
नवनवभ्रमरस्वनशोभिनी
भवमरुभ्रमघर्मशमक्षमा ।
हृदयनन्दनचन्दनकन्दली
जयति शङ्करभक्तिरभङ्गुरा ॥ ५॥
अथ कथञ्चन रूढमपि क्षणं
मनसि वीक्ष्य विवेकनवाङ्कुरम् ।
बहुविधव्यसनौघविघट्टितं
सपदि विज्ञपयामि जगद्गुरुम् ॥ ६॥
अपि जगद्विदितः करुणापरः
परहिताऽऽहितमूर्त्तिपरिग्रहः ।
किमिति हंसि न हंस हृदम्बुजे
कृतपदो विपदः शरणार्थिनाम् ॥ ७॥
यदि भवान् विदधीत हृदि स्थितिं
व्यसनसम्पदसौ प्रसरेत्कथम् ।
यदि न सा प्रसरेत्प्रसजेत्कथं
बुधजनोऽप्यसमञ्जसकर्म्मसु ॥ ८॥
इह बृहद्भिरुदग्रपरिग्रह-
ग्रहगृहीतमतिर्व्यसनोद्गमैः ।
यदि न कातरतां परतन्त्रता-
मफलतां खलतां च भजेज्जनः ॥ ९॥
यदि भजेत न सज्जनसङ्गम-
व्यसनसर्पदनल्पकृपास्पदम् ।
हृदयमिन्दुमयूखसुखाहति-
व्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ १०॥
अभिलषेयुरनर्गलदुर्गति-
प्रसरदीर्घनिदाघनिपीडिताः ।
यदि घनागमवन्न धनागमं
प्रणयिनस्तृषिता हरिणा इव ॥ ११॥
यदि न पीनघनस्तनभङ्गुर-
त्रिवलिभङ्गितरङ्गितमध्यमाः ।
इह हरेयुरपाङ्गविलोकितैर्धृत-
रतिप्रमदाः प्रमदा मनः ॥ १२॥
बलवदिन्द्रियतस्करसङ्कुले
विषयभीमभुजङ्गमभीषणे ।
दुरितदीर्घदवानलदुःसहे
बहलमोहतमोहतसंविदि ॥ १३॥
कृतधियोऽपि भवाध्वनि धावतः
प्रबलकर्मरयापहृतात्मनः ।
अवसरे प्रहरेयुरमी न चे-
न्मदन मानमुखाः परिपन्थिनः ॥ १४॥
उपचितोऽभिनवाम्रदलावली
कवलनाकुलकोकिलकूजितैः ।
यदि न तर्जयितुं प्रभवेन्मधौ
मदनदिग्विजयोद्यमडिण्डिमः ॥ १५॥
यदि मधौ मधुपानमदोन्मद
भ्रमरगायनगुञ्जितगीतयः ।
सुखलवानुभवाय कृतस्पृहं
हर हरेयुरिमं न मनोमृगम् ॥ १६॥
अभिनवस्तवकस्तनसन्नताः
पवननर्तितपल्लवपाणयः ।
यदि न बन्धनिबन्धनमृध्नुयु-
र्मधुपगुञ्जितमञ्जुगिरो लताः ॥ १७॥
यदि शुचौ मनसीव न मानिनां
घनमनेहसि तापमुपावहेत् ।
सरजसो हरितस्तरुणैः करै-
रविरलं परिरिप्सुरहर्पतिः ॥ १८॥
पृथुलसज्जघनोरुपयोधरा
गुरुमरुच्चपलाकुलिताम्बराः ।
यदि भवेयुरिमा न घनागमे
मृगदृशश्च दिशश्च धृतिच्छिदः ॥ १९॥
सुरभिगन्धिसहासमुखाम्बुजा
धृतमनोहरहंसकविभ्रमाः ।
यदि न मज्जनधाम नतभ्रुवः
शरदि संस्मरयेयुरगापगाः ॥ २०॥
यदि न दीर्घतमाः समवाप्नुयुः
सहसि दुर्विषहोल्बणवायवः ।
धृतघनोष्मबृहत्तरुणीस्तन-
स्मरणकारणतामपि रात्रयः ॥ २१॥
यदि भवेन्न घनावरणोद्गम-
ग्लपितधामनि घमनिधौ बहिः ।
तपसि चेतसि च व्यसनाकुले
तपसि रूढरसोऽप्यलसो जनः ॥ २२॥
तदखिलापदुपोद्धरणक्षमं
समधिगम्य दुरापमिदं पुनः ।
पवनवेल्लितबालमृणालिनी-
दलचलज्जलबिन्दुनिभं वपुः ॥ २३॥
भव भवत्पदपङ्कजपूजन-
व्यसनसौमनसीमपहाय कः ।
इह सहेत विभूतिलवोन्मिष-
न्मदकदर्यविकारकदर्थनाम् ॥ २४॥
इदमुदञ्चति मेघमयं महत्
पिहितभास्वदमन्दमहस्तमः ।
घनबलोऽपि स काल उपस्थित-
स्तदिह हंस पदं कुरु मानसे ॥ २५॥
इति यदन्तरनन्त तिरोदधन्
मुदमुदञ्चति मोहमहातमः ।
तव रवीन्दुहुताशनचक्षुषो
हृदि निवेदयतीदमसन्निधिम् ॥ २६॥
न हि महेश मनस्त्वदधिष्ठितं
भ्रमयितुं प्रभवन्ति भवोर्मयः ।
न हि वनं हरिणाधिपरक्षितं
क्षपयितुं कपयः क्वचन क्षमाः ॥ २७॥
वरमरण्यसरित्पुलिनस्थली-
तरुतले फलमूलजलाशिनः ।
स्थितिरनर्गलवल्कलवाससो
न शिवभक्तिमृते त्रिदशेन्द्रता ॥
भवति पश्यति नश्यति दुर्गतिः
स्फुरति शक्तिरुपैति धृतिं मतिः ।
स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृति-
भृति स्थितिमेति च निर्वृतिः ॥ २८॥
कति न बुद्बुदवद्भववारिधा-
विह लसन्ति गलन्ति च जन्तवः ।
समजनि स्पृहणीयजनिः पुन-
र्जगति कश्चन यः शिवसेवकः ॥ २९॥
सपदि पीठविलोठितमूर्तिभि-
र्भगवतः शुचिभिर्धृतभक्तिभिः ।
चरणरेणुकणैरिव मादृशै-
र्दिविषदामपि मूर्ध्नि पदं कृतम् ॥ ३०॥
निपततां विषमे विपदम्बुधौ
यदवलम्बनमस्तविडम्बनम् ।
जगदमङ्गलभङ्गविधायि त-
ज्जयति रत्नमहो शिवसेवनम् ॥ ३१॥
जयति जन्मजरामरणव्यथा-
शमसमर्थमनर्थ निवर्हणम् ।
सकलमङ्गलधाम सुधामयं
भगवदर्चननाम महौषधम् ॥ ३२॥
इदमसाधितमेव रसायनं
निरुपभोगमिदं सुखमक्षयम् ।
अमृतमेतदनम्बुधिमन्थनं
यदविनश्वरमीश्वरसेवनम् ॥ ३३॥
किमफलैरपरैर्भवशम्बरैः
करितुरङ्गरथाम्बरडम्बरैः ।
भगवदङ्घ्रिसरोरुहसेवन-
व्यसनमस्तु ममानिधनं धनम् ॥ ३४॥
वहतु सा रमणी रमणीयता-
ममृतमस्त्वमृतं मधु वा मधु ।
भवतु निर्वृतिधम तु यामिनी-
रमणमण्डनसेवनमेव नः ॥ ३५॥
अहमहर्निशमेकमना मना-
गुपरमन्मदमन्मथमत्सरः ।
भगवतीरवगत्य दुरत्ययाः
शरधराभरणं शरणं श्रये ॥ ३६॥
इदमह करुणामृतसागरं
शशिकिशोरशिरोमणिमर्थये ।
व्रजतु जन्मनि जन्मनि मे वपु-
र्भवदुपासनसाधनतामिति ॥ ३७॥
कमपि नाम निकाममनोहरं
वहति टङ्कमनङ्कुशमेव यत् ।
तदकलङ्कमलङ्करणं मुखे
भवतु मे शिवनाम निरामयम् ॥ ३८॥
हृदय भावय भावमनाविलं
निरवधान बधान दृढां धृतिम् ।
त्वमसमर्थ समर्थयसे सुखं
किमविनाशि विना शिवसेवनम् ॥ ३९॥
भवरसं प्रति सम्प्रति तृष्णया
त्यजसि मानस मानसमुन्नतिम् ।
मदनशासनशासनतः परं
कमनपायमुपायमुदीक्षसे ॥ ४०॥
उपवने पवनेरितमाधवी-
धवलिते वलिते तरुपङ्क्तिभिः ।
अमलकोमलकोषनिषण्णषट्-
चरणपारणपावनपङ्कजे ॥ ४१॥
समदने मदनेन वशीकृता
वरवधूरवधूय भज प्रभुम् ।
अशरणोद्धरणोद्धतधीः शुचा-
मुपरमं परमं स करोति ते ॥ ४२॥
जहिहि मोहमुपेहि निजां स्थितिं
त्यज शुचं भज मानपरिग्रहम् ।
अहरहर्हरपादसरोरुह-
स्मृतिरसायनपानपरं भव ॥ ४३॥
तदसमञ्जसमङ्ग यदङ्गना-
नयनचापलशापमुपेयताम् ।
नयसि नित्यबहिर्मुख शङ्कर-
स्मरणसौमनसीमपि हेयताम् ॥ ४४॥
यदि समर्थयसे दुरतिक्रमं
कुपितकालभटभ्रुकुटीभयम् ।
तदचिकित्स्यभवामयभेषजं
भज भुजङ्गमभूषणतोषणम् ॥ ४५॥
यदि चिकीर्षसि सौहृदमात्मनः
परिजिहीर्षसि यद्यघबन्धनम् ।
यदि तितीर्षसि संसृतिसागरं
श्रयमयस्करमीश्वरसेवनम् ॥ ४६॥
यदि वराक सुकर्मविपाकतः
करतले पतितस्तव शेवधिः ।
तमखिलापदपाकरणक्षमं
नयसि मूढ निरर्थकतां कथम् ॥ ४७॥
अमलशीलकुलश्रुतविश्रुतं
सदसदर्थविचारविशारदम् ।
पुरजिदर्चनसौख्यपराङ्मुखं
नयसि मानस मानुषजन्म यत् ॥ ४८॥
भ्रमदमन्थरमन्थरयाहति-
ध्वनदमुद्रसमुद्रसमानया ।
शमितशापदशापदमेहि मे
हर गिरा वितरावितथं वरम् ॥ ४९॥
अनुगृहाण गृहाण घृणार्णव
प्रणयिनः प्रणयानुगुणं वचः ।
उपकुरुष्व कुरुष्व दृढं मना-
गशरणोद्धरणप्रवणं मनः ॥ ५०॥
पृथुशिरस्त्रिदशापगया श्रितं
करुणया हृदयं शिवया वपुः ।
कथमतिप्रमिते भगवन् धृतिः
श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ५१॥
त्वदनुरागभरेण कदर्थिता
त्वदनुरञ्जनकर्मणि चाक्षमा ।
इति मतिर्मम चाटुपराङ्मुखी
हर करोति निजार्तिनिवेदनम् ॥ ५२॥
प्रियतमोऽसि मतेर्मम सा पुन-
र्न गुणवत्यपि ते हृदयङ्गमा ।
इति महेश भवद्विरहातुरा
भजति कामपि कामकदर्थनाम् ॥ ५३॥
भव भवत्परिरम्भसुखोऽस्तु मा
त्वदुपभोगविधौ तु कथैव का ।
तव तु दर्शनमात्रककाङ्क्षिणीं
मम मतिं कथमित्थमुपेक्षसे ॥ ५४॥
कुटिलतां न जगाम निकामतो
न सहजं मलिनत्वमुपेयुषी ।
वहसि किं घनरागकदर्थितां
मम मतिं प्रति कर्कशमाशयम् ॥ ५५॥
अथ गता परिणामदशामिति
त्यजसि चेन्मम मुग्धतमां मतिम् ।
किमपरं घनमोहविमूर्छिता
प्रथयतां तव निर्दयतामियम् ॥ ५६॥
इदमनङ्गजनङ्गमसङ्गम-
भ्रमदमन्दमलं चपलं मनः ।
अमृतकुम्भकर द्युतरङ्गिणी-
धर सुधाकरशेखर शोधय ॥ ५७॥
भव मरुभ्रमखेदकदर्थितं
सुविषमैस्तृषितं विषयोष्मभिः ।
मदयते हृदयं मम निर्भरं
भव भवच्चरणस्मरणामृतम् ॥ ५८॥
विषयपन्नगपाशवशीकृतं
भवमहार्णवमग्नमनीश्वरम् ।
बहलमोहमहोपलपीडितं
हर समुद्धर मां शरणागतम् ॥ ५९॥
यमभटैर्ह्वियमाणमयन्त्रणै-
रशरणं शरणं चरणौ श्रितम् ।
घनघृणामृतनिर्भरया दृशा
मदनमर्दन मामवलोकय ॥ ६०॥
अभयघोषमिषोन्मिषिताऽमृत-
द्रवमबन्ध्यधृतस्मितचन्द्रकम् ।
वदनचन्द्रमसं तव पश्यतो
मम कदा नु तमः शममेष्यति ॥ ६१॥
प्रबलतापकदर्थितविग्रहं
द्विजपतिं परिपालयितुं शिशुम् ।
वहसि किं न विभो हृदये दयां
शिरसि निर्जरनिर्झरिणीमिव ॥ ६२॥
प्रणततापविपत्क्षपणक्षमां
दलितसन्ततसन्तमसस्थितिम् ।
हृदि निधेहि दयाममृतस्रुतं
हरिणकेतुकलामिव मूर्धनि ॥ ६३॥
अभिमताधिकसिद्धिविधायिनीं
भवदवच्छिदमव्यभिचारिणीम् ।
वह विभो हृदये दयितां दयां
वपुषि भूधरराजसुतामिव ॥ ६४॥
चिन्तामणिः स्फटिकजातिरचेतनोऽपि
कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि ।
तिर्यग्दशामपि गता किल कामधेनु-
र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥ ६५॥
त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि
पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि ।
आक्रन्दतोऽपि करुणं विधिवञ्चितस्य
त्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥ ६६॥
चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधिया
तिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः ।
मुखं दीनं कृत्वा विभवलवगर्वान्धितदृशां
कदीशानामग्रे क इव न विसोढः परिभवः ॥ ६७॥
परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां
मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च ।
कथापि क्लेशानामवतरति नोच्छेदपदवीं
दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ ६८॥
तदेवं दुर्वारव्यसनशतसम्पातविषमं
विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् ।
अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं
जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९॥
कदर्याणामग्रे तरलनलिनीपल्लवतल-
प्रलीनप्रालेयप्रचलकमलामूढमनसाम् ।
अदभ्रभ्रूभङ्गप्रभवमवमानं हतधियः
सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७०॥
अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा
पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् ।
भ्रुकुंसत्वं बिभ्रत्प्रमदभरसन्दर्भरभसा-
द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥ ७१॥
सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौ
गिरिग्रावग्रामस्खलनमुखरस्रोतसि जले ।
श्रमक्षामैरङ्गैरगणितभवक्लेशविपदां
कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥ ७२॥
अमन्दानन्दानां दलदलघुसन्तापविपदां
पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः ।
कदा नः कालिन्दीसलिलशबलैरम्बरसरि-
त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३॥
सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी
भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।
सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः
स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४॥
अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां
क इव सदसि प्रह्वीकर्त्तुं क्षमेत (सहेत)शिरोधराम् ।
विदधति मुहुर्हेलाखेलं भवत्यवधीरणं
भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७५॥
मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः
कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते ।
किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिः
क्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥ ७६॥
स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि-
र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे ।
यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे
तत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥ ७७॥
दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्-
बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः ।
यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं
सत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः ॥ ७८॥
यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना
ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् ।
तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा
वाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥ ७९॥
अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः
क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः ।
क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं
मा मा मुञ्च महेश पेशलदृशा सत्रासप्राश्वासय ॥ ८०॥
यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि ते
मामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्म्मणः ।
देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां (स्तृणन्त्याम्)कणा
द्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ ८१॥
शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तः
स्वान्तं शान्तप्रणतजनताक्लेशलेशप्रवेशम् ।
प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग-
व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ ८२॥
अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला
गलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी (मोहजननी)।
नयन्त्येते शान्तिं विषमविषयोत्पातमरुतः
प्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥ ८३॥
शरीरं नीरोगं नवमपि वयः संस्कृतिमती
मतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः ।
इतीयं सामग्री सुकृतशतलभ्या विघटते न
यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥ ८४॥
जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा
विकस्वरशरत्सुधाकरकरानुकारित्विषः ।
पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः
समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥ ८५॥
शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता-
गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् ।
नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी-
भुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥ ८६॥
अदूरबहिरङ्गनोपवनजातचूतावली-
विलीनकलकोकिलाकलितकाकलीकूजितैः ।
वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका-
विकासिकुसुमस्खलद्भ्रमरमण्डलीगुञ्जितैः ॥ ८७॥
निगूढतिमिघट्टनस्फुरितदीर्घिकासम्भ्रम-
त्रसत्कमलकोटरस्थितमरालबालस्वनैः ।
रटत्पटहझल्लरीमुरजतूर्यभेरीगण-
प्रणादमुखरीभवद्भवनबर्हिकेकारवैः ॥ ८८॥
सुधामधुरवारुणीरसकषायकण्ठोद्भव-
न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः ।
प्रवीणपरिवादकोदितविभासरागस्वर-
क्रमानुगतवल्लकीविकचकीचकप्रक्वणैः ॥ ८९॥
प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति-
प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः ।
बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण-
क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९०॥
खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष-
त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः ।
स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस-
स्त्यजन्ति शयनं शनैरुषसि शम्भुशंसाजुषः ॥ ९१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``करुणाक्रन्दनं'' नामकं दशमं स्तोत्रं सम्पूर्णम् ।
११. दीनाक्रन्दनं एकादशं स्तोत्रम्
धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती
सञ्जीवनं भगवती विदधाति यस्य ।
स्नेहस्नुतस्तनयुगा जननीव जीव-
रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥ १॥
धन्योऽस्मि दुःसहविपत्पतितस्य यस्य
वाणीधृतोन्नतिरपुण्यकृतामभूमिः ।
कल्याणिनी सुमनसामुपसेवनीया
सौमेरवीव पदवी न दवीयसीयम् ॥ २॥
धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य
सानुग्रहेण विधिना परिकल्पिता मे ।
वल्गुस्वना गुणवती धृतवक्रभङ्गि-
राराधनाय गिरिशस्य सरस्वतीयम् ॥ ३॥
सञ्जीवनौषधिरबैमि नवा भवाग्नि-
भस्मीकृतस्य विधिना मम निर्मितेयम् ।
वाणी शिवैकविषयाभिनवोढगौरी-
दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ ४॥
जाने कथञ्चिदुदिता मम शोकवह्नि-
तप्तात्स्खलन्मृदुपदा हृदयादियं गौः ।
चेतः प्रवेक्ष्यति शनैः करुणामृतौघ-
निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ ५॥
यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं
मोहं वहन्निह मुहुर्मुहुराचरामि ।
तत्र स्पृहावहमहार्यमहार्यपुत्री-
भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ ६॥
यो मूर्धनि ध्वनदनर्गलनिर्झरौघ-
झाङ्कारिणीममरनिर्झरिणीं दधानः ।
गृह्णाति भक्तजनतः कलशाभिषेकं
कस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥ ७॥
दग्धोस्मि तावदमुना दमुना ममाऽन्त-
र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा ।
मुक्तस्य मे प्रतिभयातिभयाकुलस्य
वाणी कथं विगलतो गलतोऽभ्युदेति ॥ ८॥
क्रन्दाम्यतः किमपि नाम पिनाकपाणे
तीव्रार्त्तिनिस्तरणकारण कातरोऽहम् ।
मोहाटवीविकटसङ्कटसंस्थितस्य
तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९॥
आक्रन्दमिन्दुधर धारय देव कर्णे
कस्त्वत्परः परमकारण कर्णधारः ।
मूर्ध्ना वहन्नुडुपखण्डमखण्डपुण्यं
कं कं न तारयसि संसृतिसागराद्यः ॥ १०॥
अस्मादृशैरशुचिभिश्चटुचापलानि
कॢप्तान्यवैमि न मनस्तव नन्दयन्ति ।
आवर्जनाय विहितान्यपि चन्द्रमौले
कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११॥
यद्वा न मुग्धचरितान्यपि न प्रसाद-
मुत्पादयन्ति भवतः करुणार्णवस्य ।
स्वामिन्दरत्पुरविहारपरस्य किं न
चेतो हरन्ति तव बालकवल्गितानि ॥ १२॥
दीनैर्विमुग्धवचनैरसमञ्जसार्थै-
र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् ।
तद्वन्न दृष्टसभसप्रतिभप्रगल्भ-
सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ १३॥
दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषि
दीपं त्रिधामनयनोऽप्युररीकरोषि ।
वाचां प्रसूतिरपि मुग्धवचः शृणोषि
किं किं करोषि न विनीतजनानुरोधात् ॥ १४॥
यत्सत्यवत्यपि जगद्विदिताऽनसूया
वाणी ममेयमिदमेव हि देव चित्रम् ।
अत्यद्भुतं पुनरिदं यदरुन्धतीयं
त्वामारिराधयिषुरेवमुदीरिताऽपि ॥ १५॥
स्वे धाम्नि हृदि कृतस्थितिमुक्तिदेवीं
कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् ।
धाराधिरूढविरहव्यथितामिदानी-
माधाय धैर्यमवधारयसीत्ययुक्तम् ॥ १६॥
एका त्वमेव भवितासि मम प्रियेति
दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः ।
प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु-
लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७॥
एतां निसर्गसरलामभिजातमुग्धा-
मद्धाऽवधीरयसि धीरगभीरमानी ।
जानासि किं न शतशो नतसान्त्वनेषु
यद्वृद्धया करुणया नरिनर्तितोऽसि ॥ १८॥
प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयं
चाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि ।
कात्यायनीवचनदुर्ललितस्य तानि
मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९॥
अस्यामसह्यविरहज्वरकातरायां
प्रीतिर्न ते यदि परं निरवग्रहस्य ।
सर्वान्तरार्त्तिदलनाय दृढा प्रतिज्ञा
विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २०॥
सत्यं कलां वहसि बिभ्रदुमां यदर्धे
धत्से दयां हृदि ययार्थिषु नर्तयन्त्या ।
नीतोऽसि नीलगल नीलगलत्वमेव
मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥ २१॥
गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै-
रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् ।
एतामनन्यगतिमुज्झसि साधुवृत्तां
वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥ २२॥
किं भूयसा यदि न ते हृदयङ्गमेय-
मस्या गृहे वससि किं हृदये मदीये ।
सार्धं प्रियेण वसनं तदुपेक्षणं च
दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३॥
मातः सरस्वति बधान धृतिं त्वदीयां
विज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य ।
देवी शिवा शशिकला गगनापगा च
कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥ २४॥
एषा निसर्गकुटिला यदि चन्द्रलेखा
स्वर्गापगा च यदि नित्यतरङ्गितेयम् ।
देवी दयार्द्रहृदया तु नगेन्द्रकन्या
धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५॥
त्वामेव देवि शरणीकरवाणि वाणि
कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् ।
मातर्नयामि न पुनभवतीमलीक-
वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६॥
देवि प्रपन्नवरदे गुणगौरि गौरि
यद्गौरियं परिमितं स्रवतीह किञ्चित् ।
तत्स्वामिने समुचिते समये सुपाक-
माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७॥
स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं
मात्राविहीनमिदमार्यजनैरजुष्टम् ।
उन्मत्तभाषितमथापि भवत्यवश्यं
सद्भेषजं विषमयस्य भवामयस्य ॥ २८॥
भालानलं तव यथा मुकुटस्थितैव
शक्नोति नो शमयितुं किल सिद्धसिन्धुः ।
तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निं
वक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥ २९॥
प्राक्चेन्मया विहितमाविलमेव कर्म
स्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः ।
एकान्तशुक्लमथ चेदतिदुःसहोऽयं
शोकानलो हृदयदाहकरः किमन्तः ॥ ३०॥
क्वाप्यन्यजन्मनि विधाय विभोरवश्य-
माराधनामनुशयालु मनो ममाभूत् ।
नो चेत् कथं कुलगुणादिपवित्रमेत-
त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ ३१॥
मानुष्यनावमधिगम्य चिरादवाप्य
निस्तारकं च करुणाभरणं भवन्तम् ।
यस्याऽभवद्भरवशस्तरितुं भवाब्धिं
सोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥ ३२॥
स्वामी प्रसादमुपकारिषु सेवकेषु
योग्येषु साधुषु करोति किमत्र चित्रम् ।
सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं
चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३॥
तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय-
मायस्तचेतसमसम्भवभग्नवृत्तम् ।
सीदन्तमन्तकभयादभयार्पणेन
सम्भावय स्वयमनर्थकदर्थितं माम् ॥ ३४॥
त्वां नीतिमान् भजति यः स भवत्यनीति-
र्मुक्तः स यो हि भवता हृदयान्न मुक्तः ।
यस्ते रतोऽपचितयेऽपचितिं स नैति
तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ ३५॥
स्वापः सचिन्तमनसो निशि मे दुरापो
निर्दाह एव गमयामि कदा सदाहः ।
रक्ष त्वदेकवशगं शिव मामवश्यं
कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ ३६॥
पापः खलोऽहमिति नाऽर्हसि मां विहातुं
किं रक्षया कृतमतेरकुतोभयस्य ।
यस्मादसाधुरधमोऽहमपुण्यकर्मा
तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७॥
स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै-
स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् ।
दृप्तः पशुः पतति यः स्वयमन्धकूपे
नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८॥
अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयं
भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् ।
मत्वेति चेत्त्यजसि मामयमीदृगेव
गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९॥
हन्ताऽयमार्तिमपि नारकिणां धृतश्चे-
न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् ।
एतत्तवोचितमनाथजनार्तिभङ्ग-
हेवाकिनो घनघृणामृतसागरस्य ॥ ४०॥
अस्मादृशस्य रसना तु सहस्रधेयं
गच्छेदवाप्य तव शीर्षमितीरयन्ती ।
किं तूद्धरामि भवदग्रपदावमर्श-
मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ ४१॥
क्षामो निकामजडिमा कुटिलः कलावान्
दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् ।
एतादृशैरुपगतोऽपि समस्तदोषैः
कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ ४२॥
शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क-
मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि ।
एवंविधोऽपि भवता कथमङ्घ्रि पीठ-
प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥ ४३॥
पापग्रहो धृतिमुपैति विना परेषां
न स्वापहारमयमित्यथ मां जहासि ।
एवंविधोऽपि तव दक्षिणदृष्टिपात-
पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४॥
मित्रत्वमेष भवतो गुणिबन्धुतां च
प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् ।
दासत्वमेव तव नित्यमुपेत्य भूत्वा
सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५॥
अत्यूष्मलं मलिनमार्गमनेकजिह्वं
स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् ।
एतादृशोऽपि शुभदृष्टिनिवेशनस्य
पात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥ ४६॥
यद्बन्धुजीवदलसद्रुचिरर्थिभाव-
मायाति साधुविबुधव्रजजीवनाय ।
यन्मित्रमण्डलमुखेन च विश्वमेषः
पुष्णाति तेन दहने यदि सादरोऽसि ॥ ४७॥
आप्यायनं सुमनसामनिशं विधातु-
मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता ।
कर्तुं च बन्धुजनजीवनमक्षमोऽहं
विश्वं च पोषयितुमीश सुहृन्मुखेन ॥ ४८॥
तेनाऽत्र मां निरपराधमवेहि देहि
दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् ।
दीनं दयास्पदमदभ्रमदभ्रमेण
भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ ४९॥
अन्वग्रहीरमलदृष्टिसमर्पणेन
मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् ।
एवंविधेऽपि भगवन् दृशमप्रसन्नां
धत्से मयीति विधिरेष पराङ्मुखो मे ॥ ५०॥
निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो
मत्वेति चेत्त्यजसि निःशरणं प्रभो माम् ।
एतादृशोऽपि पवनाशन एष कस्मा-
च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ५१॥
जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व-
मेतेन तेन यदि तिष्ठति कण्ठपीठे ।
एकैव मे तव नुतौ रसनाऽस्ति तेन
स्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥ ५२॥
शृङ्गी विवेकरहितः पशुरुन्मदोऽयं
मत्वेति चेत्परिहरस्यतिकातरं माम् ।
एवंविधोऽपि वृषभश्चरणार्पणेन
नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ ५३॥
पृष्ठे भवन्तमयमुद्वहते कदाचि-
देतावता यदि तवैति दयास्पदत्वम् ।
स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामि
त्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥ ५४॥
क्रूरः पराङ्मुखमसावनृजुर्जहाति
योग्यं गुणग्रहणकर्मणि मार्गणौघम् ।
मत्वेति चेत्त्यजसि मां कथमीदृगेव
स्वामिन्धृतः करतले भवता पिनाकः ॥ ५५॥
कोटिं परामुपगतेऽपि गुणे नितान्तं
नम्रं विमृश्य यदि नाऽजगवं जहासि ।
स्वल्पे गुणेऽपि नतिमानतिमात्रमेव
किं तच्च येन न भवामि तवानुकम्प्यः ॥ ५६॥
अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन
कृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् ।
मत्वा जहासि यदि नाथ किमर्थमेत-
देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ ५७॥
ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यं
कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि ।
निःस्वं न किं समरसं हितकर्मयोग्यं
मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ ५८॥
न्यग्भावितद्विजमखर्वितपूर्वदेव-
गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् ।
सम्भाव्य चेत्त्यजसि मां कथमीदृगेव
नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९॥
मत्त्वाऽथ नाथ शुचिजातिममुं विशाख-
मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।
एवंविधोऽप्यहमनन्यपरायणस्ते
कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६०॥
सर्वापहाररतिरुन्मदवक्रवक्त्र-
स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते ।
एवंविधोऽपि भगवन् गणनायकत्वे
कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१॥
हस्तं सदा वहति दानजलावसिक्तं
तेनैष चेदलभत प्रमथाधिपत्यम् ।
दानं प्रदातुमधनो यदि न क्षमोऽहं
दासत्वमस्तु मम देव भवद्गणानाम् ॥ ६२॥
हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषु
कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् ।
द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा-
वेतावता परिहृता भवता किमन्ये ॥ ६३॥
बलावुभौ द्विजपती तव नाथ भक्ता-
वेकस्तयोर्हरति सन्तमसं प्रजानाम् ।
तेनावृतं यदि परं सहसे महेश
द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ ६४॥
युक्तं रिपौ सुहृदि वा समदर्शनस्य
दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् ।
तत्साम्प्रतं गतिविहीनमनात्मनीनं
दीनं जनं प्रति कुतः करुणाऽवलेपः ॥ ६५॥
अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा-
त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः ।
युष्मादृशस्य कौणाम्बुनिधेरकस्मा-
दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६॥
स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहं
मृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् ।
गङ्गाधरस्त्वमहमुग्रभवोपताप-
तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७॥
भवजीर्णज्वराताप-मोहकम्पाकुलाय मे ।
एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥
भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्य
पानोत्सवैकरसिकोऽपि पिपासितस्य ।
तापातुरस्य घनसेवनसादरोऽपि
जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८॥
सर्वज्ञ सर्वमवगच्छसि भूतभावि
भाग्यक्षयः पुनरसौ भगवन् ममैव ।
जानासि यस्य हृदयस्थित एव नार्तीं
ज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥ ६९॥
भालेऽनलं तव गले गरलं करे च
शूलं प्रकाशमखिलोऽयमवैति लोकः ।
अन्तर्गतं त्रयमिदं तु मम त्वमेव
जानासि नासि च दयालुरतो हतोऽहम् ॥ ७०॥
एकस्त्वमेव भविनामनिमित्तबन्धु-
र्नैसर्गिकी तव कृपा सवितुः प्रभेव ।
वामः पुनर्मम विधिः परिदेवितानि
जातान्य(जानासि)रण्यरुदितेन समानि यस्य ॥ ७१॥
अत्यन्तदुर्भगमयोग्यमभाग्यभाज-
माजन्मनर्मविमुखं मुखरोग्रवाचम् ।
दैवादवाप्य सकलापसदं महेश
नैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२॥
मुक्त्वा समाधिमसमाधिहरं परं च
प्रोद्दामधाम शिव धाम सुधामयं ते ।
भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान-
कल्लोललोलनिधनानि धनानि लब्धुम् ॥ ७३॥
आराधिताः प्रचपलाश्चपलावदेव
दुष्टेश्वरा न गुरवो गुरवो गुणौघैः ।
यातानि तानि मम हानिमहानि मिथ्या
श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७४॥
तृष्णा दिनाद्दिनमबृंहत बंहिमन-
मायामिनी मनसि हैमनयामिनीव ।
नाथ त्रिधामनयनाऽर्पयदृक्प्रसादं
सादं नयान्धतमसं भ्रमसम्भृतं मे ॥ ७५॥
स्तम्भं विजृम्भयति दम्भमयं भ्रमं च
कञ्चित्प्रपञ्चयति यच्छति वाचि मुद्राम् ।
कं नाम नाऽऽमयमयं प्रथयत्यखर्व-
गर्वज्वरज्वलनदुःसहसन्निपातः ॥ ७६॥
तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिं
त्वामोषधीपतिशिखामणिमाश्रयामि ।
मौनं विमुद्रय दरिद्रय मोहनिद्रां
विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ ७७॥
विस्रम्भमम्भसि भजे भगवन्नगाधे
बाधे रिपुव्यवसितेऽप्यलसीभवामि ।
जागर्मि यन्न समवर्तिनि हन्तुकामे
का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ ७८॥
मोहान्ध्यहरणात्तीव्रभवज्वर-निवारणे ।
देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥
यस्ते ददाति रवमस्य वरं ददासि
यो वा मदं वहति तस्य दमं विधत्से ।
इत्यक्षरद्वयविपर्ययकेलिशीलः
किं नाम कुर्वति नमो न मनः करोषि ॥ ७९॥
चन्द्रः करे शिरसि चक्षुषि पादमूले
मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् ।
तापान्धकारविधुरं शरणागतं कि-
मायातु लङ्घितवतस्तव मोघभावम् ॥ ८०॥
कौटिल्यमिन्दुदलतो न सुधामयत्व-
मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् ।
मालिन्यमेव गलतो न गभीरभावं
त्वत्तोऽपि मे तितउ कल्पमवाप चेतः ॥ ८१॥
किं वर्णयामि गुरुतां विपदः पदे मां
स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य ।
निःशाखतां सुमनसामनुमेयभावं
विच्छायतां विफलतां रसहीनतां च ॥ ८२॥
सर्वज्ञशम्भुशिवशङ्करविश्वनाथ-
मृत्युञ्जयेश्वरमृडप्रभृतीनि देव ।
नामानि तेऽन्यविषये फलवन्ति किन्तु
त्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥ ८३॥
श्वेते सुदर्शनसमर्पणतत्परस्य
कृष्णे च यस्य न बभूव विशेषबुद्धिः ।
सत्त्वं श्रियं सृजसि पुण्यजनेषु मां च
मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ ८४॥
आवर्जनं क्रतुभुजां गजवाजिरत्न-
श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन ।
कृत्वाऽग्रहीर्गरलमात्मनि यन्महिम्ना
सा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥ ८५॥
दृप्तेषु ते मदनदक्षयमाऽन्धकेषु
प्रादुर्भवन्मनसि रोषविषप्ररोहः ।
सिक्तः सुधामयमसूत यया प्रसादं
सा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥ ८६॥
केचिद्वरस्य भगवन्नभयस्य केचि-
त्सान्द्रस्य केचिदमृतस्य करस्थितस्य ।
प्रापुः कृपाप्रणयिनस्तव भाजनत्वं
शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७॥
अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे
चेतः प्रकाशवपुषा रविणेव बिम्बम् ।
सोपप्लवं यदि कृतं तमसा कदाचि-
दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८॥
जानामि नाऽमृतमयं हृदयं प्रवेष्टु-
मुद्दामदुःखदवदाहहतस्तवाऽहम् ।
धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु-
शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥ ८९॥
क्षीणः क्षताऽखिलकलः प्रविलीनधामा
त्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः ।
नास्त्येव जीवनकला मम काचिदन्या
पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९०॥
घोरान्धकारविधुरं विविधोपताप-
तप्तं विपद्गुरुतुषारपराहतं माम् ।
त्वं चेज्जहासि वद कस्तपनेन्दुवह्नि-
नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ ९१॥
व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति-
र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य ।
तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां
मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ ९२॥
त्वं निर्गुणः शिव तथाहमथ त्वदीयं
शून्यं परं किमपि धाम तथा मदीयम् ।
त्वं चेद्गवि प्रविदधासि धृतिं तथाऽहं
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९३॥
कामस्त्वयीव मयि निष्फलतामवाप
क्षिप्तो मयापि विफलो भवतेव कालः ।
विध्वस्तधाम मम देव वपुस्तवेव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९४॥
यद्वद्विभो तव हृदि प्रविभाति नाग-
स्तद्वन्ममापि भवदेकपरायणस्य ।
यद्वत्स्वधर्मनिरतस्त्वमहं तथैव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९५॥
मूर्त्तिस्तवेव शिव मे विधुरोचितेयं
दृष्टिस्तवेव भगवन् विषमा ममापि ।
शूली विषादहतशक्तिरहं यथा त्वं
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६॥
कण्ठे विषं वसति मे विषमं तवेव
भूतेश्वरः पशुपतिश्च भवानिवाऽहम् ।
अङ्गं ममापि गुरुरुग्जवलितं तवेव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७॥
स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं
बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।
श्रीखण्डचन्दनमिवाऽजगरोपगूढं
व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥ ९८॥
हालाहलाक्तमिव दुग्धमहाब्धिनीरं
तीरं महामकररुद्धमिव द्युसिन्धोः ।
दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं
चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९॥
विद्याविहीनमिव सत्कुलजस्य रूपं
निर्दानभोगमिव कापुरुषस्य वित्तम् ।
मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं
जातं विपद्विधुरितं मम शोचनीयम् ॥ १००॥
पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य-
न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् ।
भूमौ पतामि कृपणं प्रलपामि पाद-
पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१॥
आः किं न रक्षसि नयत्ययमन्तको मां
हेलावलेपसमयः किमयं महेश ।
मा नाम भूत्करुणया हृदयस्य पीडा
व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२॥
अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि
व्यग्रोऽसि किं किमघृणोसि किमक्षमोऽसि ।
निद्रालसः किमसि किं मदघूर्णितोऽसि
क्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥ १०३॥
द्वेषः किमेष कृपणे किमुताऽक्षमेयं
निस्त्रिंशता किमथवा किमशक्तिरेव ।
हुङ्कारमात्रकनिराकरणीयगर्वे
सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४॥
इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी
यत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः ।
आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि
तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०५॥
भीते भवार्तिविधुरे चरणावलग्ने
भग्नेप्सिते गतिमपश्यति काञ्चिदन्याम् ।
कस्मादनागसि मनागसि विश्वसाक्षि-
न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥ १०६॥
स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह-
मेतादृगेव च रिपुर्मम मृत्युपाशः ।
भ्रूपल्लवस्तव तथाविध एव तस्य
शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७॥
किं कार्यमेभिरनिशं पुनरुक्तशुक्तै-
रुद्वेगकारिभिरलब्धफलैः प्रलापैः ।
एवं विदन्नपि मुहुर्मुखरं विरौमि
पश्यामि न त्वदितरं हि परं शरण्यम् ॥ १०८॥
त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं
त्वं चेदनादरपरः प्रणयोक्तिभिः किम् ।
भाग्योदये सति वृथैव गुणेषु यत्न-
स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ १०९॥
जानन्नपीति विरमामि न यत्प्रलापा-
दार्त्तेर्महेश महिमैष दृशस्तवैव ।
या रात्रिमेव दिवसं तिमिरं प्रकाश-
मग्निं हिमं गरलमप्यमृतं करोति ॥ ११०॥
आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त-
रुत्पादयत्यनिशमग्निशिखां शमीव ।
जातैव निर्दहति तामियमित्यमुत्र
किं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥ १११॥
यन्नाम पामरजनोचितमत्र किञ्चि-
दौचित्यमुक्तमसमञ्जसमभ्यधायि ।
तत्रापि भर्तुरुचिता रुचिरीश्वराणां
चेतश्चमत्कृतिकरी कपिझम्पिकाऽपि(एव)॥ ११२॥
चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै-
र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः ।
व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि-
रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३॥
भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नं
भग्नं रणेऽपि पतितं दवपावकेऽपि ।
किं भूयसा यमभटैरपि कृष्यमाणं
कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४॥
तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य-
द्दुःखैकधाम वपुरस्थिरमर्थयामि ।
यद्वा भवाब्धितरणाय पुराणमुग्र-
शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११५॥
दृङ्मार्गमात्रपतिताः सहसैव यस्य
पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः ।
धीमानहं बत तमेव सदाशिवं य-
द्देवं श्रयामि शरणम्मरणार्त्तिभीरुः ॥ ११६॥
स्थाणुः स यत्र विभुरस्य वधूरपर्णा
सा यत्र यत्र च तयोस्तनयो विशाखः ।
प्रज्ञावतामहमहो प्रवरः प्रवेष्टु-
मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७॥
मार्जारशूकरशृगालकरालवक्त्र-
वेतालभूतशतसङ्कुलमीश्वरस्य ।
भीष्मं निशाचरपिशाचरवैः प्रवेष्टु-
मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८॥
कर्णेक्षणादचरणात्त्रिफणात्कृतान्त-
पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् ।
प्राज्ञः सहस्रशिरसं पुरुषं सहस्र-
नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९॥
त्रस्तः समस्तजनताऽपहृतिप्रगल्भा-
द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् ।
प्राज्ञः समस्तजनतापहृतिप्रगल्-भं
त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२०॥
निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां
संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः ।
यत्कामवैरिणमवेत्य सकाम एव
त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१॥
पद्माश्रितः शतधृतिश्चतुराननोऽपि
यस्मात्पराभवमवापदवाच्यमेव ।
त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः
प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२॥
आजन्म कर्म विरचय्य फलं यदाप्तं
हृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् ।
यः स्वीकरोत्यपुनरागमनाय भक्तं
सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३॥
श्मशानैकस्थानव्यसनमनलोत्तालनयनं
विषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् ।
विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः
श्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥ १२४॥
अहो तत्त्वज्ञोहं करतलविलीनैकफणिनः
समुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः ।
महाकालं सर्वावयवसुलभानल्पभुजगं
सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५॥
शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः
शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः ।
तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः
प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ १२६॥
विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्ते
चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।
तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे
मामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥ १२७॥
येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्था
पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।
तेषामेषामकृपण कृपाभाजनानां जनाना-
माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८॥
उदञ्चय मुखं मनागभयघोषमुद्घोषय
प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय (धृतिविहीनमाश्वासय)।
किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरः
कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ १२९॥
मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः
स्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः ।
धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति
स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥ १३०॥
दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां
यत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः ।
यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दने
स्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने ॥ १३१॥
द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौ
मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् ।
यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो
वह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥ १३२॥
नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय-
स्तारुण्यं विहतं विराधितवधूविस्रम्भणारम्भणैः ।
स्वामिन्सम्प्रति जर्जरस्य जरसा यावन्न धावन्नयं
मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ १३३॥
आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति-
स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।
अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये
किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥ १३४॥
जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विना
यातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य कः ।
धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति
स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥ १३५॥
त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि
द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।
यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-
स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ १३६॥
किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः
किं वा तेन कृपावता परहितं कर्तुं समर्थो न यः ।
शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः
प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३७॥
भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे
सम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि ।
अस्ति स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदे
प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३८॥
आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता
सूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः ।
तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो-
र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥ १३९॥
लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि-
र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो दीर्घकालोऽस्तु भोगः ।
सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः
सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥ १४०॥
जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति
श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः ।
को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो-
रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ १४१॥
धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्विता
वैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं सेविता ।
उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद्
विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति विश्रम्यते ॥ १४२॥
इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत-
व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।
तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलं
वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममाऽतिक्रमम् ॥ १४३॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``दीनाक्रन्दनं'' नामैकादशं स्तोत्रं सम्पूर्णम् ।
१२. तमःशमनं द्वादशं स्तोत्रम्
मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः ।
वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्यशक्तिम् ॥ १॥
स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् ।
इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥ २॥
स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव ।
रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो विना न ह्यपरोऽस्त्युपायः ॥ ३॥
विजृम्भमाणे तमसि प्रगल्-भे यथा भवासक्तमतिः स्थितोऽहम् ।
हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥ ४॥
जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः ।
सा दीनताया नमतां विधेया ममाऽस्त्ययत्नोपनतैव सेति ॥ ५॥
जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवँस्तथापि ।
विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥ ६॥
पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च ।
सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥ ७॥
मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः ।
अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्ड्रक(पुण्ड्रक)पिण्डखण्डम् ॥ ८॥
यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः ।
विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥ ९॥
मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् ।
कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ १०॥
गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् ।
सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन् भवेयम् ॥ ११॥
यमेकमाराध्य महारिसङ्गमा-
दसंशयं भक्तजनः प्रमुच्यते ।
उपस्थितस्तस्य भवत्प्रसादतः
कथं हरेरुग्र महारिसङ्गमः ॥ १२॥
सुदुर्लभोऽयं भवति ग्रहः पुन-
र्मुखेऽप्यसौ सन्निहिता सरस्वती ।
इदं कुरुक्षेत्रमतीवपावनं
किमर्थमर्थिन्युचिते विलम्बसे ॥ १३॥
न कस्य सौभाग्यवती चमत्कृतिं
दिशत्यसौ भाग्यवती सरस्वती ।
विभुं जितक्लेशमपि स्थिराजिनं
करोति यत्सम्मुखमस्थिराजिनम् ॥ १४॥
अनुज्झितानुत्तमदानसम्पदः
सदाखिलज्ञानविहीनचेतसः ।
अकालभीतिग्लपितान्करोति यः
प्रभुः प्रसन्नः कुपितश्च देहिनः ॥ १५॥
पुरा चिरं यो विदधे वनान्तरे
विधुः पदं रूढकुरङ्गसौहृदः ।
सदा परस्वापहरोऽपि यो रवि-
स्तयोः समत्वं दृशि यस्य भासते ॥ १६॥
कथं विभो तस्य तव प्रवर्ततां
सतामसेव्ये पथि पातितात्मसु ।
दयाविधेयस्य सदाऽस्मदादिषु
प्रसादपात्रेषु मनागनादरः ॥ १७॥
विभो भवद्भालविलोचनाऽनल-
प्रसूतधूमैरिव साश्रुलोचनः ।
सघर्मलेशस्तव दक्षिणेक्षण-
प्ररूढचण्डद्युतिभाभरैरिव ॥ १८॥
घनप्ररोहत्पुलकाङ्कुरो भव-
च्छिखण्डखण्डेन्दुकरोत्करैरिव ।
सदन्तवीणस्तुहिनौघशीतल-
त्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९॥
तरङ्गिताङ्गो भवदङ्गदस्फुर-
त्फणीन्द्रफूत्कारसमीरणैरिव ।
भवेयमानन्दसुधापरिप्लुतः
प्रसन्नमालोक्य भवन्तमग्रतः ॥ २०॥
यदेष सेहे परशुक्षतव्यथां
प्रभोः प्रियः स्यामिति चन्दनद्रुमः ।
भुजङ्गमालिङ्गितकन्धरो द्रुवं
बिभर्ति साम्यं गिरिजापतेरतः ॥ २१॥
यच्चक्रिरे धृतनखान्तनिपातपीडाः
प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् ।
यत्स्वामिनो न दहनेऽपि निपत्य सेवा-
हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२॥
आदौ प्रदर्श्य परमामृजुतामथान्त-
राविश्य मर्मणि न यन्निशितास्तुदन्ति ।
स्वामिन् शरा इव खलाः कृतिनो वनेषु
स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३॥
त्वन्नाम पामरजनैरपि गीयमान-
मानन्दमर्पयति यं हृदि भक्तिभाजाम् ।
स्वामिन्नमानवयवेष्वखिलेषु नून-
मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४॥
घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व-
मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः ।
त्वद्दर्शनात्कृतधियां दधताममन्द-
मानन्दमन्तकभयाद्भगवन् परेषाम् ॥ २५॥
अन्त्यक्षणे भव भवच्चरणाब्जसेवा-
हेवाकिनो दधति केचन कण्ठपीठे ।
भोगीन्द्रभोगमधिगम्य भवद्गणत्व-
मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ २६॥
भीताभयार्पणविधौ किल कालनाशं
कर्तुं न यः क्षणमपि क्षमते कदापि ।
श्वेताभयार्पणपरस्य कथं नु काल-
नाशक्षमत्वमभवत्तव तस्य देव ॥ २७॥
भङ्क्तुं न पारयति यः क्वचिदेव देव
कामं कृपामृतमृदुस्तव दृष्टिपातः ।
उद्दामरोषपरुषः किल कामभङ्ग-
मङ्गीचकार कथमेष महेश पूर्वम् ॥ २८॥
किं मेरुमन्दरमुखा गिरयः शिरोभि-
रत्युन्नतैर्दधति गर्वमखर्वमेते ।
एतत्तुषारकिरणाभरणप्रणाम-
प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥ २९॥
गात्रान्तरातिशयशंसि यदेतदुच्चै-
र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति ।
तद्युज्यते भव भवच्चरणारविन्द-
पीठप्रणामपरमस्य नमस्यमस्य ॥ ३०॥
किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपि
न त्वं कदाचन जनार्दनतां बिभर्षि ।
स्वामिन् गजारिरपि किं नगजाप्रियस्त्वं
स्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥ ३१॥
अरुणद्युतिग्लपितशीतदीधिति-
प्रकटीकृतालिकमलं विलोक्य मे ।
भवतः प्रभातमिव भाललोचनं
भजते कदा नु विषमं शमं तमः ॥ ३२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``तमःशमनं'' नामकं द्वादशं स्तोत्रं सम्पूर्णम् ।
१३. प्रभुप्रसादनं त्रयोदशं स्तोत्रम्
अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।
विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १॥
सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्कुरकेसराभिरामम् ।
पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्च्छया किम् ॥ २॥
कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः ।
अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ ३॥
कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् ।
हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ ४॥
इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् ।
नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ ५॥
त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।
शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥ ६॥
स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी ।
रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥ ७॥
इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् ।
प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥ ८॥
वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे ।
विषमतमतमः प्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण ॥ ९॥
शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ ।
दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ १०॥
प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् ।
सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥ ११॥
समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः ।
इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥ १२॥
शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् ।
जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥ १३॥
वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः ।
स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥ १४॥
मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः ।
न तु भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥ १५॥
कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् ।
इति शितिगल शीतरश्मिप्रसरसितं रसितं तवाऽर्थयामः ॥ १६॥
नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः ।
अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ १७॥
तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः ।
परिचरणपरः पुराविरासीत् स जयति दैवतमुत्तमं कृशानुः ॥ १८॥
समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः ।
उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ १९॥
जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुङ्गवस्य तस्य ।
मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ २०॥
अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः ।
तव भव शवभस्मरूषितोंऽघ्रिः शिरसि धृतो विनयानतेन येन ॥ २१॥
जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य ।
त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ २२॥
स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः ।
तव कवलभुवं जवादवाप्तः कलयति यःशितिकण्ठ कण्ठपीठम् ॥ २३॥
परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः ।
इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥ २४॥
हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः ।
इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ २५॥
धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः ।
त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव महाकलिकालभग्नशक्तिः ॥ २६॥
कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् ।
द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि सम्मुखे भवेयम् ॥ २७॥
जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् ।
हर हर दुरितं ममाऽद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥ २८॥
निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् ।
क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥ २९॥
प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् ।
किमिति परिजने दयामृतार्द्रां दृशमपकारवतीव नो दधासि ॥ ३०॥
स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः ।
बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१॥
हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् ।
रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२॥
रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः ।
भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् (भक्तिम्)॥ ३३॥
यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् ।
विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥ ३४॥
नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् ।
यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥ ३५॥
अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः ।
स सकलकलधौतधौत मूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥ ३६॥
मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः ।
महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् (गुणानाम्)॥ ३७॥
गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य ।
हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ ३८॥
अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः ।
अधिकंसरुषोऽपि चेद्भवत्तो झगितिप्रागभवत्सुदर्शनाप्तिः ॥ ३९॥
अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि ।
न कथं मम साधुनाऽपि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥ ४०॥
सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् ।
सुमनःसु च नाश्नुते सुधार्द्रासु मनः सुष्ठु यथा भवत्कथासु ॥ ४१॥
श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः ।
सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥ ४२॥
नार्हत्यमन्दरयमन्दरयत्नलब्धा
स्पर्धां सुधा न वसुधाऽनवधिश्च यस्य ।
सोऽयं नवः शिवनवः शिवतातयेऽस्तु
विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``प्रभुप्रसादनं'' नाम त्रयोदशं स्तोत्रं सम्पूर्णम् ।
१४. हितस्तोत्रं चतुर्दशं स्तोत्रम्
येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः ।
ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ १॥
भक्तिनिर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः ।
शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ २॥
उल्लसत्पुलकलाञ्छितं वपुर्बाष्पपूरितपुटे विलोचने ।
गद्गदा हरहरेति भारती सम्भवन्ति भवभक्तिशालिनाम् ॥ ३॥
नीलकण्ठ तरुणेन्दुशेखर त्र्यम्बक त्रिनयनेति भक्तितः ।
गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ ४॥
अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् ।
मां प्रति प्रतिपदं कदर्थितं तत्क्व सम्प्रति कृपामृतं तव ॥ ५॥
वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव ।
शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ ६॥
सम्भ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा ।
त्रातुमर्हसि कृतान्तकिङ्करैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥ ७॥
कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् ।
अन्तरेण भवदीयहुङ्कृतिं नाथ मोचयितुमुत्सहेत कः ॥ ८॥
उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः ।
द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥ ९॥
स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् ।
कञ्चिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥ १०॥
अन्तरेण भवदङ्घ्रिसेवनं देव केवलमियं विडम्बना ।
यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥ ११॥
यत्तु निर्जरतरङ्गिणीतटे सौहृदंहरिणबालकैः समम् ।
भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥ १२॥
त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् ।
दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥ १३॥
गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् ।
शंसतः शिव शिवेति शाम्भवं नाम कामपि दशां प्रशास्ति मे ॥ १४॥
वारि वारितभवार्ति मूर्ध्नि ते भाति भाऽतिधवले हिमत्विषः ।
तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥ १५॥
मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् ।
मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥ १६॥
यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे ।
मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ १७॥
बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तवं स्तवः ।
वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ १८॥
त्वां सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः ।
अर्चयन्ति सदिनं दिनन्दिनं गीर्भिरम्बरसदःसदः सदः ॥ १९॥
न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताऽङ्कपाली ।
यथोक्तिदेवी स विभुः कपाली ययाऽर्च्यते सेवकलोकपाली ॥ २०॥
भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् ।
भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शाम्भवम् ॥ २१॥
न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कञ्चन नौमि मानवम् ।
नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥ २२॥
धनञ्जयाक्षं सकलार्थसाधनं धनञ्जयाराधितमाधिबाधनम् ।
धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ २३॥
कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः ।
कलापिनद्धस्फुटजूटधारिणस्तथाऽमृतं वर्षतु गीः कलापि नः ॥ २४॥
नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीक्षते यम् ।
त्यजत्यजातोपरमा समानं रमाऽसमानन्दकरी न चैनम् ॥ २५॥
अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः ।
सहस्रशश्चिरमपि चर्विता पुनर्नवन्नवं स्रवति रसं शिवस्तुतिः ॥ २६॥
मृत्युं मृत्युञ्जय जय जगद्घस्मरं भस्मभावं
कामं कामं नय नयनजोद्धामधामच्छटाभिः ।
भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं
सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ २७॥
यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण-
व्यापाराऽवसरावसक्तमथ यत्संवर्तसंवर्तकम् ।
स्वाभासं भवसम्भवस्थितिलयस्फारोचितं रोचितं
भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥ २८॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हितस्तोत्रं'' नाम चतुर्दशं स्तोत्रं सम्पूर्णम् ।
१५. करुणाराधनं पञ्चदशं स्तोत्रम्
अधुना तपसेव देवतामभि योगेन सरस्वतीमिव ।
सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ १॥
प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना ।
मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ २॥
करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् ।
विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ ३॥
करुणां भवतो विकासिनीममलैरीश गुणैरलङ्कृताम् ।
नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥ ४॥
उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता ।
विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥ ५॥
तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः ।
धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥ ६॥
तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता ।
करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥ ७॥
ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः ।
वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव तावकी ॥ ८॥
करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि ।
उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ ९॥
करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः ।
इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ १०॥
जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता ।
धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ ११॥
अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसम्पदम् ।
शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ १२॥
प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा ।
तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ १३॥
भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् ।
परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥ १४॥
करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् ।
समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥ १५॥
स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा ।
परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति योषितः ॥ १६॥
भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः ।
अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥ १७॥
अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा ।
यमलाऽर्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥ १८॥
न विधिर्निधिलाभसम्भृतो न विनोदो मृगनाभिसम्भवः ।
न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥ १९॥
न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः ।
मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥ २०॥
न रसायनपानकौतुकं न च शक्रासनवासवासना ।
परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥ २१॥
सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा ।
सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥ २२॥
समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् ।
पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥ २३॥
क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् ।
शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ २४॥
भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे ।
करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ २५॥
भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् ।
जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ २६॥
कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् ।
न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति कन्धराम् ॥ २७॥
न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना ।
गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८॥
यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी ।
बत दुःसहतापसम्पदामितरा का शरणार्थिनां गतिः ॥ २९॥
न समानसमागमां तथा प्रमदाय प्रमदा यतात्मनाम् ।
शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमाऽनघा मतिः ॥ ३०॥
एकः पुरन्दरपुरं दरवेल्लितभ्रूः
किंस्विज्जनङ्गमजनं गमयेन्महर्षिः ।
किं तामसं पदमसम्पदमिन्द्रमन्यो
धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१॥
आर्द्रे मनस्युदितमार्तजनोपताप-
सम्पर्कतोऽथ दृशि कन्दलितं शुभायाम् ।
वाचि क्षणात्कुसुमितं फलितं च कृत्ये
कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ ३२॥
रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः
पर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः ।
यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः
स्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥ ३३॥
तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि-
र्यत्सम्प्राप्तं कथमपि(कृशमपि)भृशं क्लेशयित्वा शरीरम् ।
रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे
पश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः(शुचार्त्तः)॥ ३४॥
शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिः
सत्पत्नीभिश्चकितचकितं(चकितैः)लोचनैरीक्ष्यमाणः ।
पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै-
राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥ ३५॥
स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा-
दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः ।
यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिं
तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ ३६॥
वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः
शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।
तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो-
रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७॥
जय जितामय जय सुधामय जय धृतामृतदीधिते
जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।
जय परापर जय दयापर जय नताऽर्पितसद्गते
जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८॥
स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः
सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः ।
तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ-
न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥ ३९॥
बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् ।
भजताऽनिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``करुणाराधनं'' नामकं पञ्चदशं स्तोत्रं सम्पूर्णम् ।
१६. उपदेशनं षोडशं स्तोत्रम्
वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः ।
द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १॥
अमलैः फलैरविरलैरलङ्कृता हरिताऽरुणप्रणतशालिशालिनी ।
प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाद्युतिवतंस शंसतःम् ॥ २॥
तिमिरं चिरन्तनमनन्त सन्ततग्लपितावलोकमवलोकनार्थिनः ।
सृजताऽमृतं दशसु दिक्षु चक्षुषाकलिकालकल्मषमुषामुषाण मे ॥ ३॥
वहता हतान्धतमसामसादितां
द्युतिभिः कलामविकलां कलावतः ।
दिशता प्रकाशविशदाशमाशयं
वपुषा शिवं शिवपुषा पुषाण मे ॥ ४॥
घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः ।
धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ ५॥
तदनन्तरं तरलिताक्षरां गिरं चिरसम्भृतप्रमदसादगद्गदाम् ।
विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६॥
अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् ।
गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति यान्ति च परं पराभवम् ॥ ७॥
इति दीर्घदुर्भरकुटुम्बडम्बरा धनसङ्ग्रहग्रहगृहीतचेतसः ।
सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिःप्रहसितप्रवृत्तयः ॥ ८॥
कृतिनः पुनर्मृदुमृदङ्गमङ्गल-
स्वनसन्निभध्वनितनिर्झरोर्मिषु ।
कृतवृत्तयः सुलभशाद्वलावली-
वलितस्थलेषु (ललितस्थलीषु)तुहिनाद्रिसानुषु ॥ ९॥
सुरसिन्धुरोधसि गृहीतकेतकी-
चलिता(दलित)ङ्गुलीकिसलयेन पाणिना ।
विविधां विधाय विधिना पिनाकिनः
करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥ १०॥
हरिणैः कुशाग्रकवलाभिलाषिभि-
र्भरणार्थिभिश्च कलविङ्कशावकैः ।
अतिथीभवद्भिरहताह्निकक्रियाः
फलमूलकल्पितशरीरवृत्तयः ॥ ११॥
दिवसावसानसमये सरन्मरु-
त्परिकीर्णजीर्णतृणपर्णमर्मराः ।
तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः
शिवाय (चिराय)चरिता वनस्थलीः ॥ १२॥
धवलीकृतास्वमलभानुभानुभि-
र्ज्वलितौषधीषु रजनीष्वनन्तरम् ।
कलकण्ठकण्ठकुहरोद्गतस्वर-
स्वरसार्पितश्रुतिसुखासु शेरते ॥ १३॥
इति बिभ्रतः परिकरं प्रियङ्करं
हरपादपङ्कजरजःप्रसादजम् ।
विहसन्ति मूढमनसां महीभुजां
गजकर्णतालतरलाश्रयाः श्रियः ॥ १४॥
दधदुद्धतं हर पुरः पुरन्ध्रिभिः प्रबलं बलं गलदपाङ्गभङ्गिभिः ।
हृदयं भिनत्ति मम घस्मरः स्मरः शरपातकातरदृशो भृशं कृशम् ॥ १५॥
जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसम्भ्रमाम् ।
श्लथयन्प्रयत्नकृतसङ्गमं शमं हसनीयतां नयति रोष ईश माम् ॥ १६॥
धनलाभसम्भ्रतविलासवासनाव्यथमानमानसमसत्यसङ्गरम् ।
न विशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥ १७॥
उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् ।
कृतमेधसामधिसदः सदःसदः सदसद्विवेकविकलं कलङ्कितम् ॥ १८॥
इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः ।
न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः ॥ १९॥
क्व महेश्वरस्मरणसम्भवं भव-
भ्रमभीमघर्मशमसम्मुखं सुखम् ।
विपदां पदं मृदुमृणालिनीदल-
स्खलदम्बुबिन्दुतरलाः क्व सम्पदः ॥ २०॥
क्व शिवेश्वरेति कृतगण्डमण्डली
पुलकोद्गमप्रमदमन्थरा गिरः ।
क्व यथार्थपार्थिवनिरर्थकाऽनृत-
स्तुतिविस्तरैरपथपातपातकम् ॥ २१॥
क्व समाधिबाधितदुराधिसाधिमा
भवसम्भवश्रमदमक्षमः शमः ।
क्व मदः प्रदर्शितसमग्रविग्रहः
प्रहसन्मनस्विजनगर्हितस्थितिः ॥ २२॥
इति मामनर्गलममार्गमार्गण-
प्रवणाविवेकविकलीकृताशयम् ।
करुणानिधान परिबोधय क्षणं
क्षणदाविशेषकशिखाशिखामणे ॥ २३॥
प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः ।
सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरश्च बन्धवः ॥ २४॥
दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः ।
मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५॥
न भयं भयङ्करकृतान्तकिङ्करभ्रुकुटीभवं झटिति हन्तुमीशते ।
भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ २६॥
हन्ताऽहन्ता प्रथयति मतिह्रासमासञ्जयन्ती
मायामायासितसितशमा यामिनी यामिनीव ।
तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम
क्षिप्त्वा चक्षुर्मुदितमुदिताऽवन्ध्यबोधान्विधेहि ॥ २७॥
इति काश्मीरकमहाकविश्रीमजगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``उपदेशनं'' नामकं षोडशं स्तोत्रं सम्पूर्णम् ।
१७. भक्तिस्तोत्रं सप्तदशं स्तोत्रम्
मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो
हृद्योद्योगा विहर वरदे भारति स्वारतिस्ते ।
मातर्जातस्पृहमिव महामोहनिद्रावसाने
जनीहीमं जनमनलसं शंसितुं शम्भुभक्तिम् ॥ १॥
द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा-
द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्च्छना वंशगर्भात् ।
सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं
निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्त्रम् ॥ २॥
ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं
स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः ।
मत्त्वा च त्वा सदयहृदयं भक्तिवाल्लभ्यलभ्यं
सभ्यम्मन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ ३॥
कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो-
र्हेलोन्मीलद्विपुलपुलकोद्भृतभूतेशभक्तेः ।
यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं
गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४॥
तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः
सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु ।
तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी
वाणी सापि प्रथयति रतिं शाङ्करी यत्र भक्तिः ॥ ५॥
येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा
द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः ।
नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता
धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ ६॥
नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता
कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव ।
मा मा भैषीरिति यमभये तावकीनेव वाणी
भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ ७॥
येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति-
र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु ।
लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं
युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥ ८॥
ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य-
न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः ।
तद्विध्वस्तप्रमदमदमोद्दीपितोद्दामदोष-
प्लोषं नेतुं प्रभवति भवे शाम्भवी भक्तिरेव ॥ ९॥
ये सन्तोषप्रशमपिशुने क्लेशराशौ निमग्ना
भग्नाशाभिर्विषमविषयोपासनावासनाभिः ।
तेषामेषा भवभयभिदारम्भसम्भावनाभू-
र्भूत्यै भूयस्त्रिजगति गतिः शाम्भवी भक्तिरेव ॥ १०॥
दम्भस्तम्भस्थगितगतयः सावहेलामहेला-
हेलालापभ्रमितमतयः सन्त्यसङ्ख्याः पुमांसः ।
भार्गीं भक्तिं दधति हृदये निस्तरङ्गामभङ्गां
गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ ११॥
शम्भो दम्भो दहति कुहकारम्भसम्भावनाभिः
साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः ।
सावष्टम्भं भ्रमयति बृहन्मामहङ्कारभारः
पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ १२॥
द्राक्सन्धत्ते युधमधिधनुर्बद्धबाणाभिरामैः
सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः ।
दोषप्लोषक्षमशमपथापातमातन्वती मे
भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ १३॥
कामः कामं धनुरनुनिशं कौसुमं संवृणोतु
व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् ।
भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली
लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥ १४॥
राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः
स श्रीलेशस्तनुरनुचितप्रार्थनस्तावदास्ताम् ।
ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी-
लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शम्भुभक्तिम् ॥ १५॥
कान्तैकान्तव्यसनमनसां वल्कलालङ्कृतानां
ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् ।
गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां
नानाकारा भवति कृतिनां मुक्तये भर्गभक्तिः ॥ १६॥
मूर्तिर्धूतिं प्रथयति यथा मञ्जरी जीर्णपर्णा
कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती ।
भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते
हन्तेदानीं शरणमपरं नास्ति नः शम्भुभक्तेः ॥ १७॥
यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं
सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः ।
यत्र प्रेङ्खन्न कचति शिखी तेजसाऽन्येन सत्रा
तत्रालोकं दिशति विषमे शाम्भवी भक्तिरेका ॥ १८॥
मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या
हृद्या दूरे विहरतु विपत्खण्डिनी दण्डनीतिः ।
क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता
नार्तावर्हं किमपि शरणं शम्भुभक्तिं विनाऽन्यत् ॥ १९॥
संसाराब्धेः प्रथमलहरी पातकापातकामा
रामा नाम स्थगयति गतिं मज्जतां सज्जनानाम् ।
मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः
सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ २०॥
तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का-
च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् ।
आशापाशग्रथितवपुषां क्रन्दतामातुराणां
प्राणापाते वितरति करालम्बनं शम्भुभक्तिः ॥ २१॥
एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः
प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति ।
कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां
भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥ २२॥
बाहुद्वन्द्वं तुलितविवलद्बालमार्णालनालं
सालङ्कारं रणितवलयं वेष्टितं कण्ठपीठे ।
मोहान्धानां महति पततां यातनातङ्कपङ्के
शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ २३॥
यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं
सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः ।
रागान्धानां निरयनिलये तद्दुरापावसाने
जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४॥
रागोद्रेकात्कनककलशाकारमालम्बि हारं
सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् ।
तन्मूढानां नरककलिले मज्जतामन्तकाले
नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५॥
किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका
लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् ।
दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं
गाङ्गं लब्ध्वा सलिलममलं शम्भुभक्तिं भजध्वम् ॥ २६॥
त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा-
रेखालङ्कारभक्तिप्रमुदितमनसो निर्मलं धाम लब्धुम् ।
धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरि भिन्दन्त्यमन्दा
मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७॥
एवं देव प्रभेव स्मरहर सकलद्वीपदीपस्य भर्त्तु-
र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् ।
कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे-
भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ २८॥
ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं
सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः ।
यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते
तां भक्तिं भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं स्तुमः ॥ २९॥
गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं
भक्तिर्भर्गेनिसर्गक्लमशमनचमत्कारभोगैकभूमिः ।
तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि-
द्विश्रान्त्येकान्तहेतोरितिसपदि विपत्किङ्करी किङ्करोतु ॥ ३०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``भक्तिस्तोत्रं'' नाम सप्तदशं स्तोत्रं सम्पूर्णम् ।
१८. सिद्धिस्तोत्रं अष्टादशं स्तोत्रम्
जयति जितविकारः कॢप्तलोकोपकारः
कृतविपदपकारः शान्तमोहान्धकारः ।
अतुलपुरुषकारः प्राप्तविश्वाधिकारः
स्मररचितनिकारः पार्वतीचाटुकारः ॥ १॥
अतनुमतनुतामुं प्राणिनां पूर्णशक्ति-
स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै ।
दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै
स भवतु भवदोषप्लोषकृद्वो महेशः ॥ २॥
अनलसहितवृत्तौ सत्कलाभासशुद्धे
बुधवरमुखपद्मे भारती निर्मलोर्मिः ।
वरद परमतापक्लेशजित्त्वत्प्रसादात्
प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३॥
भव भवमरुचारश्रान्तसन्तापतान्ति-
प्रशमनघनवर्षावारिवाहं तवाहम् ।
नमदमरकिरीटप्रोतरत्नांशुपूर-
स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ ४॥
करकलितकपोला बालशैवालशय्या-
तललुलितमृणालीपेलवम्लानमूर्तिः ।
चिरविरहविनिद्रा रुद्रदृक्पातपात्रं
दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ ५॥
हरचरणसरोजद्वन्द्वभक्तिप्रसादा-
दुपरि करिवराणां सञ्चरन्तः सहेलम् ।
घनमदभरनिर्यन्निर्भरामोदलोभ-
स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ ६॥
चरणकमलयुग्मं देव निर्दम्भभक्ति-
ग्रहपुलकितदेहस्तावकं यो ननाम ।
अधिवसति स सेवानम्रसामन्तमौलि-
स्खलितबकुलमालालालितं पादपीठम् ॥ ७॥
शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः
सितकरधवलाभ्यां चामराभ्यां विभान्ति ।
उभयत इव वक्त्रं भाविरुद्रत्वलाभ-
प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ ८॥
क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा-
द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् ।
घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत-
त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥ ९॥
अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी
त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः ।
यदि हिमकरलेखाशेखरः कोऽपरस्ते
भवदवविनिवृत्तौ शंस शीतोपचारः ॥ १०॥
सुरवरनुतधैर्या वैरिदुर्वारवीर्या
जगति विविधशास्त्रप्रस्तुताचार्यचर्याः ।
दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः
कृतसततसपर्या ये पुरा शङ्करस्य ॥ ११॥
गिरि गिरिवरकन्याकान्त शान्तप्रथायां
करचरणगणेऽपि क्षामतामश्नुवाने ।
गलगलदवकाशे वापि कीनाशपाशे
भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ १२॥
शयशयननिविष्टं वक्त्रमापाण्डुगण्डं
मतिमतिविरहेण ग्लानिभाजं वहन्ती ।
तनुतनुलतिकार्तिं मानिनी व्याहरन्ती
हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ १३॥
दलदलघुविवेकं व्यक्तशोकातिरेकं
विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् ।
भव भव भवदाहध्वंसवर्षाम्बुवाहः
कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४॥
दहदहतममोघं पाप्मनां दीर्घमोघं
रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् ।
दिश दिशदुपदेशं नाशितक्लेशलेशं
मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५॥
सरति सरतिरन्तर्घस्मरो मारवीर-
श्चलति च लतिकेव स्फीतभीतिर्मनीषा ।
तमहितमहिमानं नाथ निक्षिप्य चक्षुः
शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६॥
जघनजघनशोभा स्पर्धमाना सभृङ्गं
कमलकमलकान्तक्रान्तभासा मुखेन ।
मुदितमुदितरागा सेवते देव रामा
मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७॥
जनितजनितरङ्गं जृम्भयन्ती भवाब्धिं
कलितकलितमिस्रा नाथ कादम्बिनीव ।
हरति हर तितिक्षोन्माथिनी मोहमूर्च्छा
महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥ १८॥
भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां
कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् ।
तिरयति रयमीश व्यापदां दुःसहानां
शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९॥
समरसमरजोभिः स्वान्तमन्तर्वहद्भि-
र्हितविहितवियोगं मोहमाहन्तुकामैः ।
भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत-
स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २०॥
अकलितमहिमानं ध्वस्तमिथ्याभिमानं
दददमृतसमानं बोधमाभासमानम् ।
प्रकटितलघिमानं दुर्वहं वर्धमानं
भवभवमवभानं भिन्द्धि मे बाधमानम् ॥ २१॥
किमिव मणिभिः किं वा मन्त्रैः किमौषधिसङ्ग्रहै-
रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः ।
अमृतमपि न प्रायः पापोपतापशमक्षमं
व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२॥
इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु-
र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् ।
सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी
प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥ २३॥
न यावदवहीयते धृतिधुरा जराविप्लवै-
र्न जीर्यति सरस्वती न च विशीर्यते शेमुषी ।
न चामयभुजङ्गमैरवशमङ्गमालिङ्ग्यते
भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥ २४॥
अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो-
रभावि भवभावनामुदितचेतसान्तर्मुहुः ।
अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे
किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ २५॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``सिद्धिस्तोत्रं'' नामाष्टादशं स्तोत्रं सम्पूर्णम् ।
१९. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम्
यत्ते परं वरद रूपमतीतमेव
मार्गं गिरां तदिह कः क्षमते गृणातुम् ।
अग्राहि यत्तु नतलोकमनुग्रहीतुं
बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १॥
आस्तां परं यदपरं तदपि स्वकीयं
दिव्यं वपुर्नहि महेश विमर्शयोग्यम् ।
यत्किञ्चिदेव तु विकल्पविकल्प्यमान-
मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्)॥ २॥
मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना-
मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।
नश्यत्यघौघपटलं तिमिरं व्यपैति
रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३॥
सत्यं महार्घगुणरत्न निधानमेत-
दालम्बनं तव वपुर्विपदर्दितानाम् ।
नो चेन्नखांशुभरकेसरितं किमत्र
पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ ४॥
पादद्वयं तव भव प्रणतिप्रकर्ष-
हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
नीहारशीकरपरिष्कृतपत्रपङ्क्ति-
पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ ५॥
भस्मोज्ज्वलं त्रिदशशेखरपद्मराग-
दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।
वन्दामहे घुसृणरेणुपरागगर्भ-
कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥ ६॥
जङ्घालतायुगलमाश्रितगुल्फमूल-
भोगीन्द्रभोगसुभगाभिनवालवालम् ।
शम्भोरभीष्टफलदं भवतापतान्ति-
शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७॥
वन्दे युगान्तसमयोषितसप्तलोकं
लोकोत्तरं जठरमीश्वरभैरवस्य ।
यत्रैति नाभिकुहरं जगदादिसर्ग-
निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ ८॥
सिन्दूरिताऽमरमतङ्गजकुम्भशोभि
सन्ध्याभिताम्रशरदम्बुधरानुकारि ।
वन्दे फणीन्द्रफणरत्नरुचारुणाभं
भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥ ९॥
स्वामिन्नमी तव भुजा भुजगाधिराज-
भोगोपगूढवपुषो हृदयं मदीयम् ।
आनन्दयन्ति बत भीमभवोपताप-
निर्वापणेन विटपा इव चन्दनस्य ॥ १०॥
मध्यस्थितेरुभयपार्श्वगता चकास्ति
हस्तस्य मेरुपरिमर्शविनाकृतेयम् ।
अव्याहतग्रहवशाहितयोगसिद्धि-
र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥ ११॥
त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि
लोलाङ्गुलीवलनमण्डलितं दधानः ।
संहाररात्रिषु निनर्तिषुरीश शूलं
बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२॥
शाणोपलोत्कषणशुद्धनवेन्द्रनील-
नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।
यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द-
कन्याहृदान्तरितकालियभङ्गिमेति ॥ १३॥
कण्ठो वहन्नपि विषं विषमं तवैषः
सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।
स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं
श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४॥
अन्तर्विमृश्य गरलेन गले सलील-
मालिङ्गितं विमलमाननमिन्दुमौलेः ।
हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त-
रोलम्बडम्बरविडम्बनपण्डितेन ॥ १५॥
यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-
मम्भस्तवेश विशदं सुमनःस्रवन्त्याः ।
मन्ये तथैव भगवन् भवतो गलस्थं
सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६॥
तद्युक्तमीश वदनाद्भवतः सुधाच्छ-
कान्तेर्यदग्निरपतद्वपुषि स्मरस्य ।
यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु-
रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७॥
दिष्ट्या विरुद्धजनता दमयन्त्यपीयं
दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।
दिष्ट्या वनैकरतिरप्यवनैकसक्ति-
रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८॥
धन्यस्य यस्य वपुषि ग्लपिते तपोभिः
स्वामिन् पतन्ति विषमाणि तवेक्षणानि ।
मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-
सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९॥
सत्येव दृग्विलसिते करुणामृतौघ-
शीते जरामरणहारिणि तावकीने ।
नाथ व्यधायि विबुधैरबुधैर्मुधैव
दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २०॥
श्वेतेऽमृतं यदसृजद्रविजे च वह्नि-
मेकैव दृक्तव तयोः स निजः प्रभावः ।
इक्षौ सुधा विषमुषाणफले च सार्धं
यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१॥
नूनं पयोधिमथनावसरे परेश
पीतं त्वया तदमृतं न तु कालकूटम् ।
अद्यापि यद्वसति ते वचनक्रमे च
दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२॥
सत्यं प्रसादसमये चपलत्वमेति
धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।
एतां विना पुनरनर्गलकालपाश-
पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३॥
आपूरितः सुरसरित्पयसाऽमृताय
जूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।
स्वामिन्नसौ तव नवातपताम्रवेला-
शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४॥
स्वामिन्सुधावदवदातरुचिस्तवेय-
माभाति हन्त मुकुटे नृकपालमाला ।
जूटान्तरालविलसत्सुरसिन्धुतीर-
लीलाविहाररसिकेव मरालमाला ॥ २५॥
ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि
यान्यर्पितानि परमेश्वर पादपीठे ।
तान्येव मूर्धनि यदाभरणीकरोषि
स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६॥
निर्वाणमेति न जलैरपि यत्र वह्नि-
र्यत्रैष नो पचति तानि महाशिखोऽपि ।
मान्द्यं न विन्दति तमीरमणः कृशोऽपि
ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७॥
भालस्थले हुतवहं वहतो जलं च
चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।
एकत्र मुण्डमपरत्र सुधाघटं च
हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८॥
दाने नदीनमुपकल्पयतः सहर्ष-
माक्रम्य गामनुपमां गतिमास्थितस्य ।
नागेन्द्रसम्भृतमहाकटकस्य कस्य
शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ २९॥
कण्ठे विषं विषभृतोऽपि विभूषणानि
गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः ।
इत्थं विषैकवसतेरपि ते चकास्ति
कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३०॥
क्षतविभवविशेषाः प्राणमात्रावशेषा
विपदमनुभवामः कर्मपाको हि वामः ।
तदिह भुजगहारः कॢप्तमोहापहारः
स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``भगवद्रूपवर्णनं'' नामैकोनविंशं स्तोत्रं सम्पूर्णम् ।
२०. हसितस्तोत्रं विंशं स्तोत्रम्
यत्सौभगेन घनमोघममोघमेघ-
सङ्घातसम्भवमवन्ध्यमधः करोति ।
तच्छाम्भवं भवमरुभ्रमखेदभेद-
दक्षं विलासहसितं नुतिभिर्भजामः ॥ १॥
यद्वाङ्मयं सकलवाङ्मनसातिवृत्त-
सीमानमीश महिमानममानमेयम् ।
अस्मादृशं कृशदृशं भृशमामृशन्त-
मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ २॥
येनोपमन्युमपमन्युमनन्यभाज-
माजन्मतृष्णजमजस्रमज श्रमार्तम् ।
आनन्दयः स्वयमदीननदीनदान-
भास्वन्महाफललसत्कुसुमोपमेन ॥ ३॥
येनापि तापविपदं प्रथमं जहर्थ
नाथ प्रसादसुभगेन भगीरथस्य ।
मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह-
निर्वापणेन पुनरस्य पितामहानाम् ॥ ४॥
उत्प्रासनाय शमनस्य मनस्यनल्प-
दर्पोद्गमप्रशमविक्लवविक्रमस्य ।
आश्वासनाय च समं समभावि येन
कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५॥
भावत्कभक्तिभरसम्भृतभूरिभूति-
सम्भाररूढगुरुगर्वगलद्विवेकम् ।
मोहान्धमन्धकमुपाहितसाहसिक्य-
हेवाकमाकलयतो भवतो यदासीत् ॥ ६॥
लङ्केशकम्पितकुबेरगिरिप्ररूढ-
संरम्भभीरुगिरिजापरिरम्भभाजः ।
यत्ते रुषामवसरेऽप्युदितानवद्य-
हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७॥
पूजार्थमम्बुजसहस्रमुपाहितं य-
देकं ततो हृतवतस्तव कैतवेन ।
विष्णुं विलोक्य निजलोचनमुत्खनन्त-
मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८॥
दृष्ट्वा वधूजनमनुत्तमरूपसम्प-
त्सन्दर्शनोद्भवमनोभवभग्नवृत्तम् ।
आषाढपाणिषु रुषा मुनिषु प्रहर्त्तु-
मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥ ९॥
अभ्यर्णवर्तिकरगोचरकालकूट-
कूटप्रभानिचयमेचकितेऽधरोष्ठे ।
यत्पूर्वपर्वतशिखाश्रितशीतरश्मि-
रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १०॥
यत्कर्णतालवलनानिलधूतकुम्भ-
सिन्दूररेणुकणकूणितलोचनस्य ।
बालस्य नागवदनस्य मनस्यभीष्टां
दृष्टैव नाट्यघटनां तव सम्बभूव ॥ ११॥
शैलादिवादितमृदङ्गलयानुयात-
नृत्तप्रवृत्तगुहवाहविलोकनेन ।
स्वामिन् महाप्रलयभैरवरूपिणो य-
दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२॥
व्योम प्रचण्डभुजदण्डविघट्यमान-
तारावलीविरहबन्धुरितान्धकारम् ।
स्वामिन् युगान्तसमयाभिनयेषु येन
सम्भाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३॥
दिक्चक्रवालमुखरीकरणप्रगल्भ-
प्रावृट्पयोधरगभीररवानुकारि ।
स्वामिन् कठोरहृदयस्य भयं विधातुं
भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४॥
यत्कालकूटकवलीकरणप्ररूढ-
नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।
नीरन्ध्रनीरभरमेदुरमेघखण्ड-
लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५॥
ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-
मद्य क्षपामगमयं सखि कल्पकल्पाम् ।
प्राणेशसङ्गमनिमित्तमथ प्रभाते
निद्रा सखीव मम सम्मुखमाजगाम ॥ १६॥
तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः
शंसन् दृशा मधुरयैव मनःप्रसादम् ।
चक्रे पदं मम तमोमुकुलीकृतायाः
स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७॥
अस्मत्कृते सितमयूखमुखि त्वयै-
तत्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् ।
उद्यानचङ्क्रमणकेलिषु खिद्यते या
सा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥ १८॥
मूर्तिः क्व बालकदलीदलकोमलेयं
तीव्रं तपः क्व मनसोऽपि न गोचरं यत् ।
क्वेषद्विकासि कुसुमं सुमनोलतायाः
क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥ १९॥
एतेन कर्कशकुशग्रहणं करेण
सोढं कथं प्रथमपल्लवकोमलेन ।
पादौ कथं कमलगर्भनिभौ शिलाश्रि-
श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥ २०॥
हारोपि भार इव यत्र कुचद्वयं त-
त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् ।
एतत्कथं मृदुमृणाललताभिजातं
पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१॥
इत्यादिभिर्दशनचन्द्रिकयानुविद्धै-
रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः ।
आश्वासयन्निव निवर्तिततीव्रखेदं
गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२॥
यावत्त्रपापरवशं क्षितिमीक्षमाणं
मुक्ताफलोपमसमुद्गतघर्मलेशम् ।
किञ्चित्करेण मुखमुन्नमयन्नियेष
पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३॥
तावत्प्रबोधितवता कृकवाकुनादै-
र्दुर्वेधसा सखि तदाचरितं शठेन ।
यत्रैष एव शरणं मम जीवितेशो-
यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥ २४॥
इत्यादि तीव्रविरहज्वरया जयायै
यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या ।
तच्छृण्वतो वनलतान्तरितस्य यत्ते
जातं प्रमोदभरनिर्भरमानसस्य ॥ २५॥
सञ्जीवनौषधमिदं हरहुङ्कृताग्नि-
ज्वालावलीढवपुषः कुसुमायुधस्य ।
बाले सुधारसमये समये किमर्थ-
मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६॥
कल्पद्रुमैर्निधिभिरोषधिकामधेनु-
चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य ।
किं दुर्लभं तव पितुर्भुवनातिशायि-
श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ २७॥
त्वं जीवितादपि गुरोरधिका स ताव-
दुत्पादयेत्तव न मन्युमधीतनीतिः ।
सम्भाव्यते तव च नान्यकृतो निकारः
कुर्वीत केसरिसटाहठकर्षणं कः ॥ २८॥
श्रद्धानुबन्धविहितव्रतहोमदान-
स्वाध्यायतीर्थगमनादिनिबन्धनानि ।
धन्यस्य कस्य फलितानि तुषारहार-
गौराणि गौरि सुकृतानि पुराकृतानि ॥ २९॥
दुर्वारदुर्गतिनिकारकदर्थ्यमान-
मालोक्य लोकमखिलं विपुलाशयेन ।
सद्यःकृतं कनकवर्षणमिन्दुकान्त-
वर्ष्मत्विषा परमकारुणिकेन केन ॥ ३०॥
गायन्ति कस्य विषदं विषमोग्रकाल-
संरुद्धशक्तिशरणागतरक्षणोत्थम् ।
द्वन्द्वानि नन्दनसदामपदानमिन्दु-
धौतासु कौमुदमहोत्सवयामिनीषु ॥ ३१॥
केनेश्वरेण महता वहतात्रिनेत्र-
सञ्जातकान्ति वपुरद्भुतभूतिभूषम् ।
उद्दामकामशितमार्गणदौर्मनस्य-
वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२॥
धन्याः कमस्खलितपौरुषभग्नभूरि-
दर्पान्धकन्दलितलोकविषादमुच्चैः ।
हेलावलीढविषमश्रमवीर्यवह्नि-
भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३॥
कः स्वर्धुनीसवनवह्निनिषेवणादि-
धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः ।
कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म-
चर्यारतः क्षपितवानजिनावृताङ्गः ॥ ३४॥
उद्धूलितश्चितिरजोभिरखण्डमुण्ड-
मालाकरालशिखरः सुचिरं चचार ।
भीष्मश्मशानवसनव्यसनः कपाल-
खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ ३५॥
मन्ये भवान्तरशतोपचितस्य पुण्य-
पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् ।
यस्या दृगञ्चलविलोकनमात्रमेव
सम्भावनं तु वचसा वचसामभूमिः ॥ ३६॥
सा त्वं महार्घगुणरत्नसमुद्रवेला-
लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।
सौभाग्यभाग्यविभवादिभवाऽभिमान-
भूमानमानयसि यं तपसा प्रसादम् ॥ ३७॥
इत्थं विदग्धरसदिग्धकथाक्रमेण
देव्या समं समभिभाषणलोलुभस्य ।
यद्व्याजवर्णितरुणस्य तवाऽवहित्थ-
संरुद्धमप्यतिभरेण समुद्बभूव ॥ ३८॥
रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं
दिव्यं धृतामृतरसं गिरिसानुकम्पम् ।
येन व्यधा मुखमखण्डसितांशुकान्तं
देव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥ ३९॥
स्वामिन्नुदारघनसारतुषारहार-
कह्लारशारदनिशारमणोपमेन ।
तापं तमश्च विषमं जहि मे सहेल-
मुल्लासितेन हसितेन सितेन तेन ॥ ४०॥
सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं
सहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् ।
विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं
प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥ ४१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हसितस्तोत्रं'' नामकं विंशं स्तोत्रं सम्पूर्णम् ।
२१. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम्
वन्देमह्यमलमयूखमौलिरत्नं
देवस्य प्रकटितसर्वमङ्गलाख्यम् ।
अन्योन्यं सदृशमहीनकङ्कणाङ्कं
देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥
तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रं
श्रैकण्ठं वपुरपुनर्भवाय यत्र ।
वक्त्रेन्दोर्घटयति खण्डितस्य देव्या
साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥
एकत्र स्फटिकशिलामलं यदर्धे
प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।
बालार्कद्युतिभरपिञ्जरैकभाग-
प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३॥
यत्रैकं चकितकुरङ्गभङ्गि चक्षुः
प्रोन्मीलत्कुचकलशोपशोभि वक्षः ।
मध्यं च क्रशिमसमेतमुत्तमाङ्गं
भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥
साभोगं घननिबिडं नितम्बबिम्बं
पादोपि स्फुटमणिनूपुराभिरामः ।
आलोक्य क्षणमिति नन्दिनोप्यकस्मा-
दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५॥
यत्रार्धं घटयति भूरिभूतिशुभ्रं
चन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।
अर्धं च प्रणिहितकुङ्कुमाङ्गराग-
म्पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६॥
यत्कान्तिं दधदपि काञ्चनाभिरामां
प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् ।
विभ्राणं मुकुटमुपोढचारुचन्द्रं
सन्धत्ते सपदि परस्परोपमानम् ॥ ७॥
आश्चर्यं तव दयिते हितं विधातुं
प्रागल्भ्यं किमपि भवोपतापभाजाम् ।
अन्योन्यं गतमिति वाक्यमेकवक्त्र-
प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८॥
प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं
वामार्धं भुजगभयादिवैति यत्र ।
यत्रापि स्फुटपुलकं चकास्ति शीत-
स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९॥
एकत्र स्फुरति भुजङ्गभोगभङ्गि-
र्नीलेन्दीवरदलमालिका परत्र ।
एकत्र प्रथयति भस्मनोऽङ्गरागः
शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १०॥
एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यं
कस्तूरीकृतमपि पुण्ड्रकं परत्र ।
एकत्र द्युतिरमलाऽस्थिमालिकाना-
मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ ११॥
एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः
कौसुम्भं वसनमनश्वरं परत्र ।
इत्यादीन्यपि हि परस्परं विरुद्धा-
न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ १२॥
दन्तानां सितिमनि कज्जलप्रयुक्ते-
मालिन्येऽप्यलिकविलोचनस्य यत्र ।
रक्तत्वे करचरणाधरस्य चान्यो
नाऽन्योन्यं समजनि नूतनो विशेषः ॥ १३॥
कण्ठस्य भ्रमरनिभा विभार्धभागं
मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे ।
अर्धं वा कनकसदृग्रुचिः कचानां
सन्त्यज्य न्यविशत किं गलैकदेशे ॥ १४॥
सौवर्णः करकमले यथैव वामे
सव्येऽपि ध्रुवमभवत्तथैव कुम्भः ।
क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति
स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १५॥
यत्रासीज्जगदखिलं युगावसाने
पूर्णत्वं यदुचितमत्र मध्यभागे ।
संरम्भाद्गलितमदस्तदेव नूनं
विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६॥
इत्यादीन्प्रविदधुरेव यत्र ताव-
त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः ।
यावत्स प्रणतिविधौ पदारविन्दं
भृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥ १७॥
किमयं शिवः किमु शिवाऽथ शिवा-
विति यत्र वन्दनविधौ भवति ।
अविभाव्यमेव वचनं विदुषा-
मविभाव्यमेव वचनं विदुषाम् ॥ १८॥
एकः स्तनः समुचितोन्नतिरेकमक्षि
लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति ।
लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि
यत्राऽव्ययत्वमविखण्डितमेव भाति ॥ १९॥
यत्र ध्रुवं हृदय एव यदैक्यमासी-
द्वाक्काययोरपि पुनः पतितं तदेव ।
यस्मात्सतां हृदि यदेव तदेव वाचि
यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २०॥
कान्ते शिवे त्वयि विरूढमिदं मनश्च
मूर्तिश्च मे हृदयसम्मददायिनीति ।
अन्योन्यमभ्यभिहितं वितनोति यत्र
साधारणस्मितमनोरमतां मुखस्य ॥ २१॥
उद्यन्निरुत्तरपरस्परसामरस्य-
सम्भावनव्यसनिनोरनवद्यहृद्यम् ।
अद्वैतमुत्तमचमत्कृतिसाधनं त-
द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ २२॥
लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि ।
साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३॥
जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं
भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः ।
धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु-
र्युष्माकं स पयोधरो भगवतोर्हर्षामृतं वर्षतु ॥ २४॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``अर्धनारीश्वरस्तोत्रं'' नामैकविंशं स्तोत्रं सम्पूर्णम् ।
२२. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम्
काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् ।
कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ १॥
केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः ।
किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २॥
केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः ।
कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥ ३॥
कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः ।
कालकामकदनः कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥ ४॥
कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् ।
क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ ५॥
कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः ।
कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ ६॥
किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः ।
कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥ ७॥
कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः ।
क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८॥
कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः ।
कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ ९॥
काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते ।
काङ्क्षितः क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ १०॥
कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती ।
कल्पतां कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥ ११॥
कल्लोलिनीकुटिलकैरविणीकुटुम्ब-
कङ्कालकल्पितकरालकिरीटकोटिः ।
कात्यायनीकरकरम्बितकीर्यमाण-
कर्पूरकुङ्कुमकणः करुणां करोतु ॥ १२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कादिपदबन्धस्तोत्रं'' नामकं द्वाविंशं स्तोत्रं सम्पूर्णम् ।
२३. शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम्
जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् ।
गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥ १॥
न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् ।
महतां भजति हि सहसा सहसा तव भारती मधुरा ॥ २॥
मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा ।
प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥ ३॥
भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् ।
करुणां गिरं नवतया बत याऽर्पयति तव श्रयताम् ॥ ४॥
श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् ।
चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥ ५॥
त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना ।
कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ ६॥
विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् ।
कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७॥
कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते ।
कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ ८॥
दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे ।
नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा तमसा ॥ ९॥
तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् ।
सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ १०॥
सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः ।
वज नः करुणापरतां परतां मा गा नमो भवते ॥ ११॥
भव तेजःप्रसरसितं रसितं श्रुत्वाऽमृतोपमं भवतः ।
भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥ १२॥
मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् ।
वद नन्दयितुं जगतीं जगतीशः कोस्तु नामान्यः ॥ १३॥
नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् ।
विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥ १४॥
तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् ।
शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥ १५॥
वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव ।
यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ १६॥
रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् ।
नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥ १७॥
वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् ।
महितं पदमपि मा नय मानय विधुरं दृशामलया ॥ १८॥
मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् ।
तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ १९॥
कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः ।
शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥ २०॥
न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते ।
क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम् ॥ २१॥
मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् ।
बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥ २२॥
दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा ।
तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥ २३॥
त्यमलङ्कृतभूभवनं भव नन्दितलोकमीश भावपुषा ।
वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु कृती ॥ २४॥
सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् ।
जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥ २५॥
रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् ।
वसतां दिवि भयहृदयं हृदयं कुरुते घनोत्कलिकम् ॥ २६॥
कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् ।
विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥ २७॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``शृङ्खलाबन्धस्तोत्रं'' नामकं स्तोत्रं सम्पूर्णम् ।
२४. द्विपदयमकं चतुर्विंशं स्तोत्रम्
वचसि सरस्वति मे विभवं प्रकटय जातरसारम् ।
नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥ १॥
अविरलभस्मरजोधवलं विहितमहाशमलाभम् ।
भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ २॥
दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् ।
नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ ३॥
भक्तिरसस्तव देव सतां जयति महामृतहृद्यः ।
चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥ ४॥
नयनमुदीर्य तमो हर मे निहतमहाविषमेषु ।
येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ ५॥
त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः ।
सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ ६॥
हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि ।
वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥ ७॥
उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् ।
रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥ ८॥
रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्करवाणि ।
दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥ ९॥
प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण ।
शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ १०॥
भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् ।
विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥ ११॥
मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् ।
भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२॥
वितर नदीरमणं शमनं शकलय खण्डय कामम् ।
प्रथय धनञ्जयभयशमनं रचय पुरं हतकामम् ॥ १३॥
इति सदयेन यदाचरितं भुवनहिताय हरेण ।
भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४॥
गतिरशुभं हर का तरतां भवति विनाश भवन्तम् ।
इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ १५॥
वरद भवन्तमृते धरते भुवनमिदं सकलं कः ।
इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६॥
इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः ।
सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७॥
तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् ।
शमय महेश ममालसतां येन भजामि न मोहम् ॥ १८॥
भजसि यया किल कामदया नतजनमीश समस्तम् ।
सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९॥
येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण ।
तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २०॥
मदयसि येन जनं सकलं मधुरगिरा वदनेन ।
मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१॥
येन सतां विपदानयनं दुरितमदभ्रमहारि ।
दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२॥
जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन ।
इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३॥
दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः ।
अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥ २४॥
भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् ।
मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ २५॥
भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् ।
विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ २६॥
मलक्षयमलक्षयं भव भवत्प्रसादादहं
शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया ।
समुद्धर समुद्धर व्यसनसङ्कटादर्कजः
समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥ २७॥
सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरा
न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते ।
वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा-
त्तन्मन्ये महिमानमानयति ते स्थेमानमानन्दकृत् ॥ २८॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वर्स्य स्तुतिकुसुमाञ्जलौ
``द्विपदयमकं'' नाम चतुर्विंशं स्तोत्रं सम्पूर्णम् ।
२५. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम्
किल यस्य कल्पितमहोदयया-
हृदयं समाश्रितमहो दयया ।
विभवं यतश्च परमाप दिवः
प्रभुरेष पातु परमापदि वः ॥ १॥
तव सेवकस्य परमेश मनः
कुरुते न हन्तुमपि मे शमनः ।
भगवन्नतो वपुरनीरसदृ-
क्तव नौमि सिद्धधुनिनीरसदृक् ॥ २॥
स्रगिवाऽर्प्यते कलितसारसना
त्वयि गीर्यया जयति सा रसना ।
त्वयि यन्महेश वरदेऽवहितं
हृदयं तदेव वरदेव हितम् ॥ ३॥
तव दृक्सुधाकरकलोपमिता-
पतिता विपत्तदनुलोपमिता ।
भगवन् दृशैव कमला भवतः
सहसाऽङ्कमेति शमला भवतः ॥ ४॥
कुरु नाथ चेतसि वचो दयिता
तव गीरहं न तव चोदयिता ।
अथवा महेश पृथुकामतया
न किमारटन्ति पृथुका मतया ॥ ५॥
विषयैर्मुखे वरद कामधुरै-
र्विवशीकृतं घटितकामधुरैः ।
भज मां महेश्वर मुदा रहितं
दिश भाषितामृतमुदारहितम् ॥ ६॥
विजितं मया जगदमोहतया
न रुषा क्षतो मम दमो हतया ।
तृणवत्सुरक्षितिधरोऽपि तया
विहितो महेश हृदि रोपितया ॥ ७॥
मरुतायतेव मलयाचलतः
क्षपिता धृतिः कमलया चलतः ।
तदिमां प्रसादनपरां करुणां
शृणु मे गिरं कुरु परां करुणाम् ॥ ८॥
भवतः प्रसादमधुरामहतां
दृशमीयुषां शमधुरा महताम् ।
धृतिमेत्यपास्य च रमा लसतां
सुलभत्वमेति चरमालसताम् ॥ ९॥
समरे विकीर्णगजराजघटे
बत तस्य शक्तिरजरा जघटे ।
तव येन सेवनविधौ तरसा
मतिरर्पिताऽन्यभविधौतरसा ॥ १०॥
विषयान्प्रति प्रयतमानमदः
सुजनो मनः प्रयतमानमदः ।
तव शासनेन वशमानयते
शरणं ततो नवशमानयते ॥ ११॥
रविजं रजोभिरिव मेचकितं
हृदयं विभाव्य शिव मे चकितम् ।
वचनं जितामृतरसं भ्रमतः
पथि सङ्कटे वितर सम्भ्रमतः ॥ १२॥
त्वयि चक्षुरीश कलितापकृति
क्षिपति क्षणं शकलितापकृति ।
परशक्तिरिद्धवपुरङ्गमिता
जनता यया तव पुरं गमिता ॥ १३॥
रविजस्य वर्ष्म सहसा रचितं
भवताग्निसादसहसारचितम् ।
वपुराप ते मदनघस्मरतां न
तथापि भीमदनघस्मरताम् ॥ १४॥
करुणा क्षतानवधिकोपचया-
धिगता मया त्वदधिकोपचया ।
शशिना यथाकुलतरं गलता
द्युसरिन्निरर्गलतरङ्गलता ॥ १५॥
गरुडेन यद्विषमपक्षतिना
कवलीकृतं विषमपक्षतिना ।
स तव प्रसादमहिमा न परः
प्रभुरानतं प्रति हि मानपरः ॥ १६॥
पदमाप्तुमार्तिशमनं गहनं
प्रभुमर्थये भृशमनङ्गहनम् ।
वसनं यथार्त्तिहरणं सहिमे
समये तथैव शरणं स हि मे ॥ १७॥
सुरसुन्दरीषु रमणीयतमा
स्ववपुर्गुणेन रमणी यतमा ।
तव भक्तमक्षतरसाजर सा
भजते समेत्य तरसा जरसा ॥ १८॥
त्वयि गीर्मया निजगदे बत
या निखिलं जयामि जगदेव तया ।
मुदितस्य भक्तिसुधया भवतः
सभयस्य किं वसुधया भवतः ॥ १९॥
शिरसि स्रजेव विधुरोचितया
हृदि मद्गिरात्र विधुरोचितया ।
क्रियतां पदं शिव धिया सहतेऽ-
विपदं सदानवधि या सहते ॥ २०॥
विभुमाश्रये विगलदङ्गलतः
प्रमये बिभेमि यदमङ्गलतः ।
स विमुच्य पाशमशमं गलतः
कुरुते हि मे भयशमं गलतः ॥ २१॥
चरणौ यथा मुरजितः क्षमया-
धिगतौ भरं धरितुमक्षमया ।
नमतां तथैव कृतरक्ष मया
भवतो धिया समुचितक्षमया ॥ २२॥
तिमिरं रवेरिव विभामुदितां
दृशमाप्य ते जहति या मुदिताम् ।
भगवन् रसाद्गिरमिमामुदिता-
मुपकर्णयन्मयि दिशाऽमुदिताम् ॥ २३॥
करुणा सुरैः प्रतिपदानत या
भवतः स्तुता सदपदानतया ।
किमु मां भियाप्तमपदानतया
भजसे निरस्तविपदा न तया ॥ २४॥
तव दृग्जयत्यलसतां लसतां
मदनस्य या व्यतनुताऽतनुताम् ।
कुशलाय सा किल सतां लसतां
निबिडं शमप्यतनुता तनुताम् ॥ २५॥
यया भजन्ते भुवि मानवा हितां
विभूतिमन्ते च विमानवाहिताम् ।
यमं च याऽधाद्दलशो भयानकं
तया दृशा पास्युरुशोभया न कम् ॥ २६॥
परमया रमया रहितस्य मे
न रुचिरं रुचिरङ्गमिमं व्यधात् ।
हर मयाऽरमयाचि भवानतः
कुरु चिरं रुचिरञ्जनमेहि मे ॥ २७॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``रुचिरञ्जनाख्यं'' पञ्चविंशं स्तोत्रं सम्पूर्णम् ।
२६. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम्
हन्तापहन्तापदुपद्रवाणां
यस्याऽक्षयस्याक्षणिकः प्रसादः ।
सन्तापसन्तापहरा प्रपेव
कान्तारकान्ता रसना च यस्य ॥ १॥
तादृङ्मता दृङ्महतां समन्ता-
दालोकदा लोकहिता च यस्य ।
तं सन्ततं सन्तमसार्त्तलोक-
पालं कृपालङ्कृतमीशमीडे ॥ २॥
हृद्यः सुहृद्यः सुकृतोर्जिताना-
मन्यूनमन्यूनपि यः पृणाति ।
योऽनामयो नामगृहीतिमात्रा-
दस्तापदस्तापमपाकरोति ॥ ३॥
चेतः प्रचेतःप्रमुखा यदेक-
तानन्ततानन्तगुणा वहन्ति ।
योगीति यो गीतिषु गीयमानः
सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥ ४॥
मान्योऽधमान्योऽधरयत्युदग्र-
रंहोभिरंहोभिरपास्तवृत्तान् ।
नामापि नामापिदधाति वीता-
लोकस्य लोकस्य तमांसि यस्य ॥ ५॥
भूतिर्विभूतिर्विपुला दिशश्च
वासो निवासो निलयः पितॄणाम् ।
हीनैरहीनैरपि यस्य भूषाऽ-
राला कराला कलिका च मौलौ ॥ ६॥
यः खेऽलयः खेलति यः शिखाभिः
सत्यं हसत्यंहतिहारिणीभिः ।
भानां शुभानां शुचिरीश्वरो य-
स्तानक्षतानक्षिषु यो बिभर्ति ॥ ७॥
सङ्ख्येष्वसङ्ख्येष्वपि यो भटानां
वैरस्य वैरस्यभुवो निदानम् ।
निन्दावनिं दावहुताशवन्तं
रोषं खरोषं खलु यः प्रमार्ष्टि ॥ ८॥
यज्ञे नयज्ञेन वृतो न पूर्वं
दक्षेण दक्षेण शुभे विधौ यः ।
तस्याऽऽनतस्याऽनघमुज्झिताव-
सादं प्रसादं प्रददौ दयाब्धिः ॥ ९॥
नीतावनीतावचलैरलभ्यः
साध्यैरसाध्यैरपि यस्तपोभिः ।
सेवालसे बालमुनौ किलोप-
मन्यावमन्यावकरोत्प्रसादः ॥ १०॥
नायं विनाऽयं विदधाति लोकः
कर्मण्यकर्मण्यतयाभियोगम् ।
सत्त्वानसत्त्वानपि नेतुमास्था-
मर्थः समर्थः स यतोऽभ्युदेति ॥ ११॥
धर्मेण धर्मेण निजोचितेन
कामेन कामेन वृताभयेन ।
कालेन काले नतिमागतेन
वातेन वा तेन सुखावहेन ॥ १२॥
जीवेन जीवेन तदर्पितेन
काव्येन काव्येन मनोहरेण ।
मित्रेण मित्रेण तमोवृतानां
सौम्येन सौम्येन च सेव्यते यः ॥ १३॥
लोकान् सलोकान् सदयोऽसृजद्यो
धाता विधाता विभुरीप्सितानाम् ।
देवः पदे वः परमे नियोक्ता
कामं सकामं सफलीकरोतु ॥ १४॥
तं वन्दितं वन्दिभिरर्चयन्ते
सन्तो लसन्तो ललितैर्वचोभिः ।
तस्याऽजितस्याजिषु नौति लीला-
मुत्तालमुत्तालरवेण लोकः ॥ १५॥
धीरस्य धीरस्यति तस्यतीक्ष्णा-
बन्धानुबन्धानुगतां प्रवृत्तिम् ।
दानं ददानं दयितेव रागा-
दानन्ददा नन्दयते च तं श्रीः ॥ १६॥
सम्पन्नसम्पन्नवसिद्धिहेतुं
धुर्यामधुर्याममरेन्द्रमुख्याः ।
भासा शुभा सा शुचिरीशभक्ति-
र्यस्याऽभयस्याभरणत्वमेति ॥ १७॥
शङ्का भृशं का भृतकप्रियश्चे-
दासन्नदासं न जहाति शम्भुः ।
नाराधनाराधयितुश्च मिथ्या
किं चित्त किञ्चित्तरलत्वमेषि ॥ १८॥
सानन्द सा नन्दनभूस्तृणं ते
कल्याण कल्याणगिरिः क्व गण्यः ।
सा तेजसा ते जडतामुदस्त-
कम्पाऽनुकम्पा नुदतीन्दुमौलेः ॥ १९॥
जम्बालजं बालरवेरिवाभा-
ऽदीनं नदीनं नवचन्द्रिकेव ।
साशङ्क सा शङ्करभक्तिरुच्चै-
रक्षामरक्षा मदयिष्यति त्वाम् ॥ २०॥
नो भोगिनो भोगिभिरर्चितो यः
सातङ्क सातं कलयञ्जहाति ।
स त्वाऽलसत्वालयदैन्यहारी
पास्यत्यपासत्यशुभं च शम्भुः ॥ २१॥
दोषप्रदोषप्रसृतापि सक्ता
सेवारसे वारविलासिनीव ।
या निर्भया निर्भररागिणी त्वा-
मायाति मायातिमिरेऽभिसर्त्तुम् ॥ २२॥
भावानुभावानुगमेन रूढा
बाला नवालानगता वशेव ।
साऽनेहसा नेह विहास्यति त्वां
कण्ठोपकण्ठोपगतैव वाणी ॥ २३॥
दिव्या यदि व्यायतकान्तयस्ते
गौरीश गौरी शशिनः कला च ।
विघ्नन्ति विघ्नं तिमिराभिधानं
तेनाऽहतेनाऽहमुपद्रुतः किम् ॥ २४॥
मुद्योगमुद्योगभृतो भजन्ते
शंसन्ति शं सन्ति च निर्विकल्पाः ।
भक्ता विभक्ता विपदस्त्वदीयाः
कस्मादकस्मादहमेव मग्नः ॥ २५॥
वाचां तवाचान्तशुचां शुभाना
मोघा न मोघा नमतां कदाचित् ।
तैरुद्धतैरुद्धर मामनाथं
लीनं कुलीनं कुदशान्धकारे ॥ २६॥
कल्पान्तकल्पान्तकभीतियुक्तं
रक्षामि रक्षामिह योऽर्हतीति ।
यस्ते नयस्तेन दिश प्रसन्ना-
मत्राऽसमत्रासहरां दृशं मे ॥ २७॥
कन्दर्प कं दर्पमुपैषि यात-
मस्तं समस्तं सहसा बलं ते ।
भीरो गभीरो गलितः किमुच्चै-
रक्षोभरक्षो भगवत्प्रसादः ॥ २८॥
विद्यामविद्यामपि तां यया त्वा-
माराध्यमाराध्य सुखी भवामि ।
मायापि मा यापितभीरुपैतु
याता न या तानवमर्चितुं त्वाम् ॥ २९॥
रामाभिरामाभिमता धृतार्धे
भोगोपभोगोपगतेन केन ।
कस्यान्तकस्यान्तकरी च लक्ष्मी-
धामानि धामानि बिभर्ति दृष्टिः ॥ ३०॥
कः स्तम्भकः स्तम्भनिभस्य जिष्णोः
कस्तापकस्तापकृतः स्मरस्य ।
कारानुकारानुभवे भवेऽस्मिन्
को जीवको जीवभृतां विना त्वाम् ॥ ३१॥
या शंसया शंसति शम्भुभक्तिं
चेष्टासु चेष्टासु रतिं स्मरस्य ।
तामक्षतामक्षयपुण्यकोषा-
दन्यो वदन्यो वहते तनुं कः ॥ ३२॥
याहन्तया हन्त नृपेऽप्यवज्ञा-
मानञ्ज मानं जनयन्त्यभङ्गम् ।
हा निःसहा निःसरणेऽपि भक्त्या
सा वागसावागमदन्तिकं ते ॥ ३३॥
देवं यदेवं यमकैर्महेशं
तुष्टाव तुष्टावसरोचितं गीः ।
शस्यो यशस्योऽयमुपस्थितोऽस्मा-
देनोभिदे नोऽभिमतः प्रसादः ॥ ३४॥
तरलतरलताग्रस्पर्द्धिनी चञ्चलत्वं
रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः ।
चरति च रतिकान्तध्वंसिशंसारतानां
मधुरमधुरसार्द्रा भारती वक्त्रपद्मे ॥ ३५॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पादादियमकस्तोत्रं'' नाम षड्विंशं स्तोत्रं सम्पूर्णम् ।
२७. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम्
जयति संयति सङ्गतपाण्डव-
प्रहरणाहरणाहितकैतवः ।
तरुणदारुणदाशवपुर्धृत-
स्थिरयशा रयशालिशरो हरः ॥ १॥
भुवनपावनपादमधर्षितं
मघवताऽघवतामपि सस्पृहम् ।
मुनिजनीनिजनीतिपरीक्षणे
धवलकेवलकेलिकृतं स्तुमः ॥ २॥
स्थिरमगारमगात्मजया श्रितं
स्मरविकारविकासपराङ्मुखम् ।
भुजगराजगराग्निशिखावली-
विषमवेषमवेपथुदायिनम् ॥ ३॥
शमिषु कामिषु कारुणिकेषु वा
वरमघोरमघोपशमक्षमम् ।
घनविपन्नविपन्निधने सदा
परमधीरमधीशमुपास्महे ॥ ४॥
श्रुतनयास्तनयास्तनुमध्यमा
युवतयो बत योगिमनोहृतः ।
यदघनामघनामयवैशसं
तदमृतेशमृते शमयन्ति किम् ॥ ५॥
न हरिणा हरिणाङ्कशिखामणे
न विधिना विधिनाऽपि सपर्यता ।
तव पुरा वपुराममृशे वयं
क्व नु भवानुभवावृतचेतसः ॥ ६॥
चतुरगास्तुरगा नगजा गजाः
स्थिरमुदारमुदात्तबलं बलम् ।
प्रभवता भवता विहिते हिते
प्रतिदिशन्ति दिशं कमलामलाम् ॥ ७॥
द्विजसमाजसमाधिकदर्थन-
प्रवणरावणराज्यहृतौ कृती ।
चरणयो रणयोग्यबलोऽभव-
न्नवनतो वनतो भरताग्रजः ॥ ८॥
शुभरतो भरतोऽप्यभवद्द्विषद्-
गरिमहारिमहाः समवाप्य यम् ।
दिश तमीश तमीपतिशेखर
स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९॥
भृशमनीशमनीतिपथस्थितं
मदवशादवशाक्षमुपप्लुतम् ।
अहरहर्हर हर्षयते न किं
हितवती तव तीव्रशुचं रुचिः ॥ १०॥
कुशलपेशलपेलवदृग्वमन्
रसनया सनयार्त्तिहृतामृतम् ।
मदनसादन सान्त्वय सम्पदा-
मपदमापदमाश्रितमेहि माम् ॥ ११॥
कथमनाथमनागसमन्तिके
मदनमर्दन मर्षयसे न माम् ।
भुवनभावन भाति विना त्वया
जगति कोऽगतिकोद्धरणक्षमः ॥ १२॥
यदि कृपापर पापरतस्य मे
न कुरुषे परुषे पदमाशये ।
हिततमा कतमा कलुषात्मनो
मम हराऽमहरा घटते गतिः ॥ १३॥
स्थिरविभा रविभातिरिवोन्मदं
मदमयं दमयन्त्यसमन्तमः ।
तव दया वद यात्युदयं न चेद्
भवतमी बत मीलति मे कथम् ॥ १४॥
रजनिराजनिराकरणक्षमः
क्षतनिशातनिशातिमिरोत्करः ।
कृतविभातविभाभरभास्वरो
दिनकरो न करोत्युदयं यदा ॥ १५॥
दिवि यदा वियदाभरणं कृपा-
परमते रमते न सुधाकरः ।
न शुचिराशु चिरापतितं यदा
स्थिरमपारमपाकुरुते तमः ॥ १६॥
तनुकृशानुकृशां ग्रसते यदा
मिहिरजाहिरजातघृणस्तनुम् ।
शिव तदा बत दास्यति मे धृतिं
त्वदितरः कतरः करुणापरः ॥ १७॥
निधनसाधनसान्द्रलसद्विषा-
नलकरालकरात्तमहोरगः ।
नियमनाय मनाङ्मम सस्पृहे
भवति धावति धाम यमः कथम् ॥ १८॥
पलितमीलितमीश मम स्मर-
श्चतुरमातुरमारचयन्वपुः ।
घनबलेऽनवलेपपरे त्वयि
प्रभविता भवितापकरः कथम् ॥ १९॥
किमधुना मधुनापि युतो वहन्
रतिमभीतिमभीष्टतमामपि ।
श्रितमवन्तमवन्ध्यबलं विभुं
जयति मां यतिमानहरः स्मरः ॥ २०॥
विषमरोषमरोः पथि पातय-
न्मतिमनीतिमनीक्षितसत्पथाम् ।
भृशमयं शमयन्नियमं कथं
तव पुरो वपुरोषति मे मदः ॥ २१॥
मम निकामनिकारकृतो वृथा
वपुरवापुरवार्यरुषोऽरयः ।
न हि तदाहितदाहमदन्त्यमी
तव हितावहिता हि नतेषु धीः ॥ २२॥
यदि विभा दिवि भाति न तावकी
यदि न मे दिनमेति भवन्मयम् ।
वद महादमहारि तमः कथं
विषमदोषमदो विनिवर्तते ॥ २३॥
कमलिनी मलिनीक्रियते यया
विहतसन्ततसन्तमसापि या ।
स्मरचिता रचितापि च यत्र तां
वितर कातरकामदुघां दृशम् ॥ २४॥
तुहिनवाहिनवानिलजे मनः
सहसि रंहसि रञ्जयति प्रिया ।
न रसिकोरसि कोष्णकुचा तथा
तव गुणानुगुणा नुतिगीर्यथा ॥ २५॥
अयमसौ यमसौष्ठवहृत्पुरः
परुषपौरुषपौष्टिकचेष्टितः ।
विधुरबन्धुरवन्ध्यपरिग्रहः
स्फुरति मे रतिमेत्य महेश्वरः ॥ २६॥
अनिधनेन धनेन मनस्विना-
मनुगुणेन गुणेन गरीयसा ।
अभिजनेन जनेन सुदुष्कृतै-
रशबलेन बलेन च वर्धते ॥ २७॥
अभिनवेन नवेन शिवस्य यः
स्तुतिमुदारमुदारभतेऽमुना ।
अवहितस्य हि तस्य तनोति शं
विभवदो भवदोषहरो हरः ॥ २८॥
स सकलासु कलासु विचक्षणः
स मतिमानतिमानसमुन्नतः ।
न शशिखण्डशिखण्डमृते स्तुतिं
सुकृतवान् कृतवानपरस्य यः ॥ २९॥
रविरहो विरहोद्धरणाद्दि-
शन्धृतिमुदेति मुदे रथपक्षिणाम् ।
यदविषादविषाभिभवं जग-
त्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३०॥
विनयशोभिः यशोभिरतं मनः
परहितारहिता विमला मतिः ।
विपुलमङ्गलमङ्गमिति प्रभोः
प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ ३१॥
जितसुधारसुधारसभारती-
विभवसम्भवसम्भृतकीर्तयः ।
कविबुधा विबुधाधिपवन्दितं
सुकृतिनः कृतिनः स्तुवते शिवम् ॥ ३२॥
न महतामहतामलसंविदां
मदयिता दयिताधिगमस्तथा ।
मधुरसाधुरसार्द्रपदा यथा
सयमका यमकामरिपुस्तुतिः ॥ ३३॥
का नाम नामरवधूरवधूतकान्ता
कान्ता न का नरजनी रजनीपतिश्रीः ।
श्रीमन्तमन्तकरिपुं करिपुङ्गवान्त-
हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पादमध्ययमकाख्यं'' सप्तविंशं स्तोत्रं सम्पूर्णम् ।
२८. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम्
अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया
नैषा पुष्यति तेन संहृतगतिः शोभारती भारती ।
भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो
यादृक्तादृगतः किमप्यभिदधे सम्प्रत्यहं प्रत्यहम् ॥ १॥
वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भ-
यन्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् ।
प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां
श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥ २॥
मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं
तत्सेवारसमादधत्तव सुधा संवादिनं वा दिनम् ।
यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं
कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३॥
तस्योदेति सदःसदां विदलितग्लानिर्भरो निर्भरो
वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः ।
लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता
येन त्वं हृदयाम्बुजे भवभयात्त्रातोषितस्तोषितः ॥ ४॥
सेव्यन्ते भगवन्नपास्य(अवाप्य)कलितोल्लासं मदं समदम् (पदं सम्पदं)
बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा ।
वीज्यन्ते दिवि चन्द्ररश्मिरुचितैः किञ्चाऽमरैश्चामरै-
राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५॥
तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय-
न्नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्त्रासकृत् ।
तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं
दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥ ६॥
मुञ्चद्भिर्यमकिङ्करैः कृतमहाजृम्भैरवं भैरवं
यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् ।
तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं
या दूरीकुरुते निरन्तरसुधासन्दोहदं दोहदम् ॥ ७॥
यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं
जन्तूनां भगवन् भजामि नरकं नाहं सदाहं सदा ।
तावन्मुञ्च वचो यथा मरुपथे बाधावतां धावतां
भीष्मग्रीष्मकदर्थ्यमानवपुषां सञ्जीवनं जीवनम् ॥ ८॥
न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाऽहन्तया
गाढोद्वेगविधायिनी घटयते सायासतां या सताम् ।
तं भोगैरुपसेवते सुमनसामानन्दने नन्दने
दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९॥
यस्या हन्ति धृतिं विवेकविहितह्रासा विलासाविला
मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा ।
रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो
येनाऽज्ञानमयं मनस्युपरमत्तापप्रथे पप्रथे ॥ १०॥
लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता-
सम्मूढेन मया यया विधृतवानेतामहन्तामहम् ।
किं किं श्रीमदमोहितेन विभवस्थेनाऽहितं नाहितं
येनैतां न भजे पुनर्मयि वरं बाधे हितं धेहि तम् ॥ ११॥
आनीता चरणान्तिकप्रणयितां कामेन का मेनका
कार्यं किं घनभोगसम्भृतविधौ सारम्भया रम्भया ।
कान्ता मे परमेश्वरे हतविपत्सम्भावना भावना
चित्ते कापि रतिर्ययाहितहितव्रातायते तायते ॥ १२॥
धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं
हंसानामिव रुन्धतीं भगवतीं गङ्गां तरङ्गान्तरम् ।
तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं
भक्त्या निश्चलया नृजन्म सकलं सम्मानयामानया ॥ १३॥
कञ्चिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं
कञ्चिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः ।
मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं
यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ १४॥
रूपं यद्भवतो दधत्परिकरं भौजङ्गं जङ्गमं
सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् ।
प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं
लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ १५॥
स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं
लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् ।
भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते
तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६॥
दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं
पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माध्वम् ।
सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं
सेवा कस्य न सिद्धये हतवृथासङ्कल्प ते कल्पते ॥ १७॥
तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय-
न्नार्तिं नाकसदामुपेत्य विभवं वैभीषणं भीषणम् ।
वैदेहीमनघां लभेत स कथं रामो हि तां मोहितां
त्वद्भक्तिं यदि न व्यधास्यतनुतो भ्राजिष्णुना जिष्णुना ॥ १८॥
लोकं शोकहरं परं प्रति भृशं सन्देहिनां देहिनां
माया मोहतमोविमोहितदृशामायासदा या सदा ।
तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो दयां
यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ १९॥
दोषाणां सहसा विधातुमुदयं नो साम्प्रतं साम्प्रतं
स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् ।
ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय-
न्नार्तिं न प्रकटीकरोति बत कामाशां करः शाङ्करः ॥ २०॥
शीतस्निग्धं परिमलसुखं घानसारं न सारं
नापि प्रेम्णा कलितललितोद्दामहेलामहेला ।
तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं
भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ २१॥
दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते
चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् ।
तत्सम्पर्कादहमिव सहे देव मानाऽवमाना-
वार्त्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२॥
प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य-
द्रश्मिस्रोतःस्नपितचरणं क्रान्तसामन्तसाम् ।
सभ्रूभङ्गं मुनिजनमनःक्षोभिरामाऽभिरामा
वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३॥
द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां
का वा सङ्ख्या प्रकटितविपद्बाधनानां धनानाम् ।
इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं
स्याच्चेन्नैकस्तव कृतरिपुक्षिप्रसादः प्रसादः ॥ २४॥
भीमां पङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश-
प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् ।
सैव श्रेयः प्रथयति यथा देव राजीव राजी
त्वत्सम्पर्काद्घटयति न किं मङ्गलाभङ्गलाभम् ॥ २५॥
कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां
सम्पत्तिं मानयन्तः कुसुमबलगलद्बालतानां लतानाम् ।
सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा-
मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥ २६॥
हन्ताऽहन्तावृतानां मह इव रजनी भासमानं समानं
ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा ।
वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन
श्रेयः श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥ २७॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पादान्तयमकस्तोत्रं'' नामाष्टाविंशं स्तोत्रं सम्पूर्णम् ।
२९. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम्
उदारवर्णैरथ सङ्गतैरहं
मुदाभिधावद्भिरुपोढलक्षणैः ।
पदैरमन्दध्वनिभिर्महेश्वरं
प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥ १॥
शिवेन देव्या जगृहे करोहित-
स्त्रसन्यदा कुङ्कुमपङ्करोहितः ।
तदास्य योऽर्काग्निनिशाकरोहितः
स्तवः स वः स्यादभयङ्करो हितः ॥ २॥
अनञ्जनं नेत्रविकासकारणं
निरङ्कुशं कर्णकरेणुवारणम् ।
अचन्द्रिकं चित्तचकोरपारणं
क्रियाद्व ईशार्चनमार्तिदारणम् ॥ ३॥
सुखाकरोति क्लमहृन्न माधव-
स्तथामरौ वोपवनेऽपि माधवः ।
यथा शरीरार्धनिरुद्धमाधवः
प्रशस्यमानो भगवानुमाध्वः ॥ ४॥
दिनान्तरात्र्यागमयोरिवाथवा
सुरस्रवन्तीयमुनौघयोरिव ।
उमारमाकामुकयोः समागमः
सिताऽसितस्तापमघं च हन्तु वः ॥ ५॥
उमाख्यमासाद्य महानियोऽगतः
प्रियं निधिं सौख्यमहानि यो गतः ।
करोतु युष्माकमहानि योगतः
शुभान्यसाविद्धमहा नियोगतः ॥ ६॥
द्विजाधिपाधिष्ठितशेखरं महा-
भुजं गविन्यस्तभरं समुद्वहन् ।
वपुः सदाभङ्गदयासमाश्रितं
तनोतु वः सम्पदमच्युतः शिवः ॥ ७॥
अघद्रुमध्वंसमहाकरेणवः
सुधासिताः पावककल्करेणवः ।
वसन्ति यस्मिन्नभयङ्करेऽणवः
करोतु शं तेन हरः करेण वः ॥ ८॥
धृतिस्त्वदीयेन सुदर्शनेन मे
भवत्यभेदस्तु हरे किमुच्यते ।
परस्परं शङ्करकृष्णयोरिदं
वचः सुखायैकमुखोत्थमस्तु वः ॥ ९॥
न जन्म यस्याद्रिनिवास दारुणः
स ते ज्वलत्यक्ष्णि शिखी सदारुणः ।
यमं न किं तेन शिरःसदाऽरुण-
स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥ १०॥
सदा नगोपाहितबन्धुरस्थितिं
स्तुवे पिनाकेन समेधितश्रियम् ।
महर्द्धिकं सोपशमे कृतादरं
हरं हरिं वा तरसा रसादहम् ॥ ११॥
मनो भृशं भ्राम्यति बालिशं भवे
जहाति भक्तिं च दिवानिशं भवे ।
अतः परं नाम किमस्य शं भवे-
न्निवेदयेत्स्वं यदि कर्म शम्भवे ॥ १२॥
समुद्रजन्मानमुपादधत्करे
सितद्युतिं वक्त्रनिवेशनोचितम् ।
रतः सदास्कन्दकदर्थनाहतौ
हरो हरिर्वा दुरितं धुनोति वः ॥ १३॥
जिगीषवः क्लेशपरम्पराभवं
वनेषु भिक्षाधृतकर्परा भवम् ।
असोढवन्तः कुनृपात्पराभवं
भजन्ति सन्तः स्तुतितत्परा भवम् ॥ १४॥
कदा दधानो घनशान्तिशोभिनीं
शुभाम्बरालङ्करणोचितां तनुम् ।
भजाम्यहं दृष्टिनिवेशनौचितीं
शशीव तिग्मांशुरिवाऽच्युतस्य ते ॥ १५॥
किमाम्रवन्या सृमरालवालया
प्रियाकबर्या किमरालबालया ।
सरःश्रिया किं समरालबालया
धृतेशभक्तिर्ह्यमराऽलवाऽलया ॥ १६॥
कदाऽनवद्यामतिनिर्मलामहं
महानदीनां सलिलैः प्रसादिभिः ।
वहामि हंसैरुपशोभिताम्बरां
प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७॥
प्रभुं प्रपत्तुं स्थलमेहि मालयं
महीधरं मानस वा हिमालयम् ।
रसातले वौपयिकाहिमालयं
श्रयन्तमन्वेषय याहि मा लयम् ॥ १८॥
निधाय चक्षुर्दहतो मनोभवं
न कामहानिं प्रवितन्वतो दृशा ।
अनष्टमूर्तेर्दधतोऽष्टमूर्तितां
जयन्ति शम्भोर्विविधा विभूतयः ॥ १९॥
समाश्रितस्त्वां करुणापराऽज यः
क्वचिन्न तस्यास्ति रणे पराजयः ।
परे तमारब्धपरस्पराजयः
श्रयन्ति नाथं धृतचापराजयः ॥ २०॥
ध्रुवं स कृष्णस्तमधश्चकार य-
श्चिराय पक्षद्वयकल्पितस्थितिम् ।
द्विजाधिराजं विनतार्तिहारिणं
बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ २१॥
विभुं विरिञ्चोऽपि न वेद नाम यं
नतस्य दुःखं घनवेदनामयम् ।
निहन्ति तस्यापि भवेदनामयं
शुचं भजेन्नाप्यनिवेदनामयम् ॥ २२॥
समुद्रजालिङ्गितकण्ठपीठं
सदैव सत्याहितसक्तिमच्युतम् ।
अनन्यगा यस्य नवोक्तिमौक्तिकै-
रलङ्करोति प्रचुरा सरस्वती ॥ २३॥
अभीष्टदायी यमधामहोदयाद्-
ध्वनिर्यया श्वेतनृपे महोदया ।
धृतिं दिशन्ती नमतामहो दया
क्व सा तवास्मास्वधुना महोदया ॥ २४॥
अयमहं पुरुषोत्तममच्युतं
बलिजितं कृतसत्यपरिग्रहम् ।
अचलितश्रियमाश्रितनन्दकं
धृतसुदर्शनमीश्वरमाश्रये ॥ २५॥
वितन्वती भक्तिमतां समानतां
बिभर्ति या कल्पलतासमानताम् ।
कथं दधन्मूर्तिमिमां समान्तां
तव स्तुतिं वच्मि शतं समा न ताम् ॥ २६॥
इह परशुचितोर्जिताकृति-
द्विजपतिशेखरतां बिभर्ति यः ।
त्रिजगति गिरिशं सतां हितं
प्रणमतरामतनुं तमच्युतम् ॥ २७॥
यमं ययारब्धमहामहाऽनयः क्षयं
दृशा यस्य स शर्महाऽनयः ।
ददासि चेत्तामुदितो महानयः
क्षताश्च विघ्नाः कृतकामहानयः ॥ २८॥
अनलसम्भृतकान्ति दधत्सदा
रुचिरमारचितास्पदमीक्षणम् ।
सुमतये विधुरोपकृतिप्रियो
भवतु वो भगवान् भगवानिव ॥ २९॥
न जातु तज्ज्ञाः कृतिनोऽवहन्त या-
मधोगतौ कारणमेव हन्त या ।
त्वयि प्रसन्ने सुमतावहन्तया
न यामि दुःखं नरकावहं तया ॥ ३०॥
प्रियां मुखे यो धृतपञ्चमस्वरां
गिरं वहन्तीममृतस्य सोदराम् ।
विशेषविश्रान्तरुचिर्बिभर्ति मां
वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१॥
नुतिर्मयेयं भजतां हिताय ते
कृताऽनया शर्म सतां हि तायते ।
मनस्यपि ग्लानिरपोहिता यते
धृता यदेषा श्रुतिसंहितायते ॥ ३२॥
अमेयमहिमा हिमाद्रितनया-
नयात्तहृदयो दयोर्जितमतिः ।
विभुर्भवरुजं रुजन्नविकलं
कलङ्करहितं हितं दिशतु वः ॥ ३३॥
उदारकरुणोऽरुणोर्जितमहा
महाहिवलयो लयोज्झितवपुः ।
अघौघशमनो मनोधृतमुदा-
मुदात्तविभवो भवो भवतु वः ॥ ३४॥
एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते
चक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः ।
इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां
हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५॥
यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं
वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।
यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ
निष्प्रत्यूहमसौ महापुरुषयोः सन्धिर्निबध्नातु वः ॥ ३६॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``एकान्तरयमकस्तोत्रं'' नामैकोनत्रिंशं स्तोत्रं सम्पूर्णम् ।
३०. महायमकस्तोत्रं त्रिंशं स्तोत्रम्
शारदीमिव नदीं प्रसादिनी-
मुच्चकैरवसरोजराजिताम् ।
स्तोतुमेष मम मूर्तिमैश्वरी-
मुच्चकैरवसरोऽजराजिताम् ॥ १॥
रोहिणीरमणखण्डमण्डनं
नन्दिनन्दिनमनं दिनं दिनम् ।
नौमि बिभ्रतमुपोढकालिका-
सङ्गमं गलमसङ्गमङ्गलम् ॥ २॥
नौमि भक्तजनकण्ठनिःसर-
न्नादरञ्जितमकालकामदम् ।
कालकामदमनादरं जित-
क्लेशमीशममृतांशुशेखरम् ॥ ३॥
भ्राम्यतु द्रविणतृष्णया भृशं
मानसं सदिनमानसंसदि ।
त्वत्स्तवामृतमृते तु दुस्तरे
बन्धुरध्वनि न बन्धुरध्वनि ॥ ४॥
साधु नाथ नुतिरीप्सया मया
या मयार्चित कृतात्र साधुना ।
सा धुनातु विपदं भवामया-
यामयापनलसद्रसाऽधुना ॥ ५॥
न मेऽभिभूतस्य पिता न माता
न वा सनाभिर्धनवासनाभिः ।
अरिस्तु रुन्धे सुहृदा वियुक्तं
समाधिना मानसमाधिनामा ॥ ६॥
दर्पकान्तक विराजमानया-
ऽदर्पकान्तकविराजमानया ।
त्वत्प्रसादविधिलब्धया धिया
साधवो दधति वैबुधीं धुरम् ॥ ७॥
येन शीतकरखण्डशेखर
त्वत्प्रसादवशतः करोत्करः ।
कोऽपि तामरसभासनोऽर्जितः
कोपिताऽमरसभासनोर्जित ॥ ८॥
रविरलङ्कुरुते नवरञ्जनं
स किल यत्तव दक्षिणमीक्षणम् ।
इममपास्य तमः सहजं शनै-
रविरलं कुरु तेन वरं जनम् ॥ ९॥
महतामतामसमहावपुषं
तव भक्तिमर्थितवतां भगवन् ।
महतामतामसमहावपुषं
प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ १०॥
अध्यास्यते शमजुषा भवतः प्रसादा-
दामोदराजितरुचारु चिरं जनेन ।
दामोदराजितरुचा रुचिरञ्जनेन
कीर्णं तृणेन मृदुना वनमार्तवेन ॥ ११॥
तव सवहरिणं घ्नती महर्षिं
यमकृत चापलता नवासमाधिम् ।
पुनरपि दृगलम्भयत्तवैनं
यमकृतचापलतानवा समाधिम् ॥ १२॥
सभाजनेऽनल्परतेर्नृपस्य
त्वद्भक्तिभाजः प्रसभाजनेन ।
सभाजनेन प्रगुणेन पूर्णा
विभाति निःश्रेयसभाजनेन ॥ १३॥
अनन्तराऽयन्त्रितवाग्भवस्त्वां
गृणाति यो नित्यमनन्तरायम् ।
अनन्तरायं स्वयमेत्य लक्ष्मी-
र्निषेवते तं समनन्तरायम् ॥ १४॥
सहो मयाद्यैरपि यस्य दुर्धरं
यमः स धर्तुं हृदि दुःसहो मया ।
सहोमयाऽभ्येत्य भज प्रसन्नया
दृशा कृतानङ्गभुजांसहोमया ॥ १५॥
कले वरं दातुमुदीरितेऽस्ति या
सुधा सुवाक्ये तव निष्कले वरम् ।
कलेव रङ्क्वङ्कतनोरसौ कदा
ममेदमाप्याययते कलेवरम् ॥ १६॥
सदानवारिद्विरदा वरूथिनी
हरेरिव ध्वस्तसहिंसदानवा ।
सदा नवाराद्धशिवा शिवाप्तये
न कस्य गीर्भक्तिविकासदा नवा ॥ १७॥
घनैरहन्ताकृतलङ्घनैरहं
महारिभिर्निर्मलशर्महारिभिः ।
निराकृतौजा धृतहानिराकृतौ
न तेऽवलेपावसरो नतेऽबले ॥ १८॥
मनस्यदोषेऽप्यतिदौर्मनस्यदो
महारयः पन्नगभीमहार यः ।
तमन्तकम्पैकनिमित्तमन्तकं
नयाशु भङ्गं हतदुर्नयाशुभम् ॥ १९॥
न वारबाणा न हया नवारवा
न दन्तिनः सद्मनि वा नदन्ति नः ।
क्षतापदाज्ञा तु विपक्षतापदा
जितो भवः साधु हि पूजितो भवः ॥ २०॥
जलाशया यान्ति मृगा जलाशया
मरावलङ्घ्ये घ्नति पामरा बलम् ।
परं हसन्तो जितकोपरंहसं
जना भवेऽप्युज्झितपूजना भवे ॥ २१॥
अमन्दरागाश्रितमन्दरागा-
स्ते देवजाताविह देव जाताः ।
ये सिद्धसाध्यार्चित सिद्धसाध्या
रता नवं तेनुरतानवं ते ॥ २२॥
सदय मोदय मोदयमोक्षदं
कृशमदः शमदः शमदः कुरु ।
न हि तता हितताऽऽहिततायनैः
कृतनुते तनु ते तनुते शुभम् ॥ २३॥
रसमये समयेऽसमयेहया
धनमहीनमहीनमहीष्वपि ।
कृतमुदात्तमुदात्तमुदाहृतं
तदिदमापदमाप दमापहम् ॥ २४॥
मदनवादनवादनवासना-
यतनयातनया तनयाऽम्बुधेः ।
अकृत वै कृतवैकृतवैशसा
सकमला कमला कमलाघवम् ॥ २५॥
कमलयाऽमलया मलयाद्रिव-
त्त्रसदयासदया सदयाप्यया ।
प्रवरधीवर धीवर धीरया
कलयमाऽलयमालयमापदाम् ॥ २६॥
वितरणाभरणा भरणाभय-
क्षममना मम नाम मनागपि ।
शुभवने भवने भव नेप्सित-
प्रद रमाऽदरमादरमादधे ॥ २७॥
अनयतो नयतो न यतो धृति-
प्रद यमादयमादयमाश्रितः ।
त्रसति शंसति शंसति शं च यो
धृतमुदं तमुदन्तमुदञ्चय ॥ २८॥
शुभवता भवता भवतारिणा
शकलिताऽकलिता कलितापभूः ।
हर कृतान्तकृतान्तकृतान्त नो
किममता ममता मम तादृशी ॥ २९॥
विशदशोभयशोभय शोभय
त्रिजगदक्षमदक्षमदक्षम ।
स्वपदमानय मानय मा नय-
क्षतसमक्षयमक्षयमक्षय ॥ ३०॥
घनाऽघनाशनैः शनैर्नवैर्नवैरिहाऽरिहा ।
भवान्भवाऽन्वहं वहन्नहीनहीनदानदाः ॥ ३१॥
दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः ।
यतेय ते हितेहिते रवैरवैरधीरधीः ॥ ३२॥
तवात्तबाधने धने गदं गदन्ति केऽन्तिके ।
मयाऽऽमयाविना विना विभो विभोजना जनाः ॥ ३३॥
स्तवास्तवाऽऽहिता हिता न केन केवलं बलम् ।
शुभाऽऽशु भारती रतीशनाशनाऽऽपदापदा ॥ ३४॥
नतानतानवानवारितारितापदं पदम् ।
हराहरामि तेऽमिते शमे शमेवमेव मे ॥ ३५॥
पराऽपराधबान्धवाः सवासवाः सुरासुराः ।
सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ ३६॥
स मा समाहितं हितं बताऽवतादमन्दमम् ।
कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥ ३७॥
अलं घना अलङ्घनास्तपस्यतस्तपस्यतः ।
तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ ३८॥
मलमलक्षवलक्षबलस्मर-
स्मरणकारणकार कदङ्कदम् ।
हर हरस्व भजस्व भजन् दिशं
दिश विभासविभासदृशं दृशम् ॥ ३९॥
भवसम्भवसंहतमोहतमो-
दमनेदमनेकमशङ्कमशम् ।
सविकासविकारचित्तं रचितं
हर मे हर मेदुरितं दुरितम् ॥ ४०॥
कृपणं भगवन् बहुशोऽभिहितं
बहुशोभि हितं दिश मे वचनम् ।
दिशमेव च नन्दितमानस तां
दितमान सतां न पतामि यतः ॥ ४१॥
मन्यामहे गतिमृते त्वयि भक्तिमन्या-
मन्यायगां तव दृशैव तमःशमन्या ।
मन्याभिधाभृति नतिं सहते धमन्या-
मन्याभिधेषु नहि धीरभिमानिमन्या ॥ ४२॥
माऽनारतं निजपरैरुपभुज्यमाना
मानातिवृत्तविभवाऽन्वहमेधमाना ।
मा नाथ भूद्भवतु धीरभिनन्द्यमाना
मानाऽलसैः सुहृदरातिषु मे समाना ॥ ४३॥
दोषारयस्तरलयन्ति महामदोषा
दोषा धृतिं हरति मोहमयप्रदोषा ।
दोषाकराङ्कवपुरेष्यति मां कदोषा
दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४॥
का रामणीयककृतेन्दुकरानुकारा-
कारा विना तव कृपां प्रथितोपकारा ।
कारागृहेऽत्र भवनामनि मोचिका रा-
काराजखण्डशिखर क्षपितान्धकारा ॥ ४५॥
काशान्तचित्तधृतमुक्तिपथाऽवकाशा-
काशान्तवर्तिरविवत् प्रचुरप्रकाशा ।
काशावकीर्णखिलतुल्यकृतान्तकाशा
का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६॥
कां तापतान्तिमुपयान्ति शुचौ न कान्ताः
कान्तावलम्बितकराः स्खलितांशुकान्ताः ।
कान्ता हठाद्वनचरैर्मृदितालकान्ताः
कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७॥
मायाऽर्करश्मिपटलीं मरुक्षमाया-
मायासमर्पयति मे दुरितक्रमा या ।
मायाः पदं तव कृपाऽत्र महातमाया-
मायात्युषेव हि कदा कलितोत्तमाऽयाः ॥ ४८॥
रामादिसेव्यभवभक्तिभृतोऽभिरामा-
रामाश्रितौषधिरिव क्षतदुस्तरामा ।
रामा सतीव कृतसाधुविपद्विरामा
रा मान्यमुज्झति न सद्म न चाऽस्थिरा मा ॥ ४९॥
वारान्निधेरिव सुधा तव दुर्निवारा
वाराणसीव दृगघक्षयकृद्ध्रुवारा ।
वाराङ्गनेव पृतनेव च साश्ववारा
वारानुवारमुदयत्युरुकूर्चवारा ॥ ५०॥
भद्राभिधे गज इवेशमकॢप्तभद्रा
भद्रासनेऽर्चितवतः कृतभालभद्रा ।
भद्रा सिता तिथिरिवेप्सितदा विभद्रा
भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ५१॥
नाऽगाधमाप तव हृन्मम धीरनागा
नागालयं सुरपुरीव सकाञ्चनागा ।
नाऽगात् परत्र च सृजन्त्यकदर्थना गा
नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ ५२॥
सारासहाऽपि मम धीस्त्वयि मन्दसारा
साराधना विहितमोहतमोऽभिसारा ।
सारावकोकिलवचःसमसूक्तिसारा
सारावलीव गुरुतापकृतापसारा ॥ ५३॥
सामात्यभूपसदसीक्षितसूक्तिसामा
सामाजिकाहितनुतिः कृतसेर्ष्यसामा ।
सामान्यवर्त्म न ययाश्रयमोजसा मा
सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ ५४॥
धारा गिरेरिव तरीव सकर्णधारा-
धाराऽर्पणी तव दृगूषरवर्षधारा ।
धारापुरीव सुखदा दुरितासिधारा
धारा परार्तिहरणे हतषड्विधारा ॥ ५५॥
कालायसोपमरुचिर्गलभूः सुकाला
कालाग्निवद्दृगपि ते क्षणदग्धकाला ।
काला यथोक्तिरमृदुः क्षतसेवकाला
का लाभकृन्मम विनाऽऽभिरनन्तकाला ॥ ५६॥
मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता
मुक्तार्चनादिरतिनाऽऽर्किभयाद्विमुक्ता ।
मुक्तावलीव विमला त्वयि गीरमुक्ता
मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ ५७॥
कल्पाह्ववल्लिरिव धौतविपद्विकल्पा
कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा ।
कल्पाख्यसूत्रविदुरागमदृष्टकल्पाऽऽ-
कल्पाक्षयाऽस्तु मम गीरमृतानुकल्पा ॥ ५८॥
सहसाऽर्क इवाऽस्मि कृतः सहसा-
ऽसहसारभृदात्मभुवा सहसा ।
स ह सायकमस्यति या सहसा
सहसाध्वसमेत्यपि दुःसहसा ॥ ५९॥
जनयाऽशुचमार्तमभाजनया-
जनयाचनरञ्जनवेजनया ।
जनयामलखिन्नमखञ्जनया-
ऽजनयाऽमृतमात्मनियोजनया ॥ ६०॥
शमनाय शुचां त्वमुमेश मनाक्
शमनार्तिकरः कृतभीशम ना ।
शमनामय देहि विपाशमना-
शमनाथजनप्रथिताशमनाः ॥ ६१॥
मधुनाशिनाऽर्चित समं मधुना
मधुनामपुष्पजनुषा मधुना ।
मधुनाऽलसामिव वधूमधुना-
मधुनाप्लुतां त्वयि गिरं मधुना ॥ ६२॥
वसु धान्यमुज्झितुमपीवसु धा-
व सुधासितच्छवियशोवसुधा ।
वसुधातृवन्द्य यदसावसुधा
वसुधाम दृक्तव नवेव सुधा ॥ ६३॥
समयासिषुः क्व न विकासमयाः
समयापतिं जगति यं समया ।
समया भवन्ति च विलासमयाः
स मया गिराऽर्च्यत सुधासमया ॥ ६४॥
कलिकालताम्यदमृतोत्कलिका
कलिकातरे हृदि नवोत्कलिका ।
कलिका स्रजीव जितशाकलिका-
ऽकलि कान्तिभृच्च मुकुटे कलिका ॥ ६५॥
कलयाऽऽश्रितं विरुजमेकलया
कलया विधोर्दलितपाकलया ।
कलया गिरा च सकलाऽकल या
कलया विना विहितशोकलया ॥ ६६॥
परमारकाऽन्तककृतोपरमा-
ऽपरमानतं तव दृशाऽऽप रमा ।
परमार्थसद्गुणपरम्पर मा
परमार्त्तमुज्झ करुणापर मा ॥ ६७॥
कलकलकलकलकण्ठवदस्मा-
नव नवनवनवरोचितवाचः ।
भव भव भवभवभीतिभिदस्य-
न्मदमदमदमदनाऽन्तक दूरम् ॥ ६८॥
अविकलकल कलकलकलकण्ठं
दिश नवनवनवनवन वरवचः ।
सविभव भव भव भवभवभयभि-
द्धर मदमदमदमदमदयमिमम् ॥ ६९॥
देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां
सक्ता तवाऽस्तविजया विजयाय दृष्टिः ।
वृष्ट्येव भूर्दिविजया विजयाख्यया ते
मूर्त्त्या त्रसद्रविजयाऽऽवि जयाह्वया च ॥ ७०॥
हरमुपेत रसादमलं घनं
दमलङ्घनं तनुत मा कृतिनः ।
तनुतमाकृति नः श्रयताऽऽदृतं
श्रयतादृतं भवत इत्युदितम् ॥ ७१॥
शमितसङ्गमसज्जनतापदं
शमितसङ्गमसज्जनतापदम् ।
नमतकाममहीनविभासितं
नमत काममहीनविभासितम् ॥ ७२॥
कलितमोहनमारवराजितं
स्मर हरं शिखिचन्द्रकलाञ्छितम् ।
कलितमोहनमारवराजितं
स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥ ७३॥
असौ हृदन्तर्हितमोहरोधने
सदा यते रक्ष यशो भियो जय ।
असौहृदं तर्हि तमोहरो धने
सदायतेरक्षयशोभि योजय ॥ ७४॥
सकलशं सकपालमलङ्कृत-
प्रमदमस्थिरसं मदनाशनम् ।
भवमदभ्रमहानिधने हितं
शमनमज्जनमानमताऽलयम् ॥ ७५॥
सकलशंसकपालमलं कृत-
प्रमदमस्थिरसम्मदनाशनम् ।
भवमदभ्रमहानिधनेहितं
शमनमज्जनमानमतालयम् ॥ ७६॥
तनुशङ्करवैरसमाऽयतया-
ऽतनु शङ्कर वै रस माऽयतया ।
तनु शं करवै रसमायतया-
ऽतनुशं कर वैरसमायतया ॥ ७७॥
प्रकाशकलितापदं शकलितापदं शंसता-
मसारसमये हितं रसमयेहितं शङ्करम् ।
हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां
नयन्तमसमानसन्तमसमानसं चान्तकम् ॥ ७८॥
इयं विचित्रताविराजिता मया मनोहरा
जितामया मनो हराऽऽहिता नुतिर्धिनोतु ते ।
त्वयि प्रसन्नमानसेऽसमस्तमोहराशये
समस्तमोहराशये करोमि न स्पृहां पुनः ॥ ७९॥
कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां
याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन ।
साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः
स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥ ८०॥
वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां
दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् ।
कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती
विश्वं विश्वम्भरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ ८१॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``महायमकस्तोत्रं'' नामकं त्रिंशं स्तोत्रं सम्पूर्णम् ।
३१. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम्
मनः समाधौ परमान्तरङ्गं
विधाय निःस्पन्दमनुत्तरङ्गम् ।
बुधा विधातुं भवभीतिभङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥
पाश्यावशेनेव महाविहङ्गं
वल्गाबलेनेव महातुरङ्गम् ।
निरुध्य योगेन मनःप्लवङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥
मन्त्रौषधादिक्रियया भुजङ्गं
यथा यथा वागुरया कुरङ्गम् ।
मनस्तथाऽऽयम्य धियाऽस्तसङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥
भित्त्वाऽलिकं सभ्रुकुटीविभङ्गं
यस्याऽग्निरुद्यन्रभसादनङ्गम् ।
ददाह तं मोहतमःपतङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ४॥
वहन्तमुद्दामभुजङ्गमङ्गं
जटाभरं निर्भरनाकगङ्गम् ।
विलोचनं चाग्निशिखापिशङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ५॥
भवबन्धबद्धविधुरोद्धरणं
फणिमण्डलज्वलदलङ्करणम् ।
व्रजत क्षमाधरदरीशरणं
शरणं तुषारकिरणाभरणम् ॥ ६॥
कृतघस्मरस्मरनिराकरणं
कटुकालकूटकवलीकरणम् ।
व्रजत प्रपन्नजनताशरणं
शरणं तुषारकिरणाभरणम् ॥ ७॥
मरुमेदिनीरचितसञ्चरणं
त्रिदशेन्द्रशेखरसरच्चरणम् ।
व्रजत त्रिदुःखहरणस्मरणं
शरणं तुषारकिरणाभरणम् ॥ ८॥
प्रणतं जनं जितजरामरणं
रचयन्तमाप्तभवनिस्तरणम् ।
व्रजताऽऽहितत्रिपुरसंहरणं
शरणं तुषारकिरणाभरणम् ॥ ९॥
अवधूतमोहतिमिरावरणं
करिकृत्तिकल्पितपरावरणम् ।
व्रजत प्रकल्पितपुरेशरणं
शरणं तुषारकिरणाभरणम् ॥ १०॥
तरुणतमालमलीमसनालं
ज्वलनशिखापटलोज्ज्वलभालम् ।
शिरसि लसत्परमेष्ठिकपालं
श्रयत विभुं हतकल्मषजालम् ॥ ११॥
नरमुखकल्पितशेखरमालं
नतजनजम्भितमोहतमालम् ।
नयनशिखाशतशातितकालं
श्रयत विभुं हतकिल्विषजालम् ॥ १२॥
विषमविषाग्निशिखाविकरालं
फणिपतिहारमतीवविशालम् ।
गलभुवि बिभ्रतमुग्रसिरालं
श्रयत विभुं हतकल्मषजालम् ॥ १३॥
विदलयितुं यमृते भवतालं
त्रिभुवनसीमनि कश्चन नाऽलम् ।
तममलमानसवासमरालं
श्रयत विभुं हतकिल्बिषजालम् ॥ १४॥
कमलपरागपिशङ्गजटालं
जलधिसमर्पणतर्पितबालम् ।
भवभटभङ्गमहाकरवालं
श्रयत विभुं हतकल्मषजालम् ॥ १५॥
अतिघस्मरभस्मरजोधवलं
नतलोकसमर्पितबोधबलम् ।
ध्वजधामविराजिमहाधवलं
भजत प्रभुमद्रिसुताधवलम् ॥ १६॥
प्रभया परिभूतदलद्गवलं
गलमङ्गदरत्नशिखाशबलम् ।
दधतं विषकॢप्तमहाकवलं
भजत प्रभुमद्रिसुताधवलम् ॥ १७॥
शिखरं द्युनदीलहरीतरलं
गलमूलमुपोढमहागरलम् ।
दधतं हृदयं च सुधासरलं
भजत प्रभुमद्रिसुताधवलम् ॥ १८॥
अपनीतकुकर्मकलङ्कमलं
नतलोकवितीर्णमहाकमलम् ।
ददतं शुभसिद्धिविपाकमलं
भजत प्रभुमद्रिसुताधवलम् ॥ १९॥
ददतं वचनं घनहासकलं
नमतां दलयन्तमघं सकलम् ।
भजतां च दिशन्तमभीष्टफलं
भजत प्रभुमद्रिसुताधवलम् ॥ २०॥
अविरतनतिपरसुरवरशिखर-
प्रणिहितमणिगणमसृणितचरणम् ।
सितकरकरभरधवलितमुकुटं
प्रणमत पुरहरमशरणशरणम् ॥ २१॥
भवभवपरिभवधुतविधुरधिया-
मधिगतशमदमनियमितमनसाम् ।
अभिमतवितरणपरिणतकरुणं
प्रणमत पुरहरमशरणशरणम् ॥ २२॥
तनुतृणगणनिभमनसिजशमन-
प्रशमनपरिचितहुतवहमहितम् ।
परहितकृतमतिमतिमृदुहृदयं
प्रणमत पुरहरमशरणशरणम् ॥ २३॥
दिनकरहिमकरहुतवहनयनं
पदकरकचभरधृतसितकिरणम् ।
विघटितनतजनघनतमतमसं
प्रणमत पुरहरमशरणशरणम् ॥ २४॥
अविरलजलभरसुरसरिदुदय-
त्सरसिजभरनिभधृतनरशिरसम् ।
भवदवहुतवहविदलनजलदं
प्रणमत पुरहरमशरणशरणम् ॥ २५॥
जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं
त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् ।
भजत निर्जितविषमवैभवभवमहार्णवमज्जनं
क्षितिधराधिप दुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६॥
(क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम्)॥ २६॥
सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं
विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् ।
हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं
भजतदुस्तरदुरितवारिधितर(वर)तरण्डमखण्डितम् ॥ २७॥
जितसुधाकरगिरिसुताकरसरसिजादरलालितं
नतपुरन्दररुचिरशेखरकुसुमकेसररञ्जितम् ।
द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २८॥
अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनं
कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् ।
त्रिपुरमारणदुरितदारणदरनिवारणकारणं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २९॥
इदमकृत्रिमरसमसम्भृतबहुविधौषधसाधनं
स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे ।
वरमुदाहर वरमुदा हर परमदाहरुजाहरं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ ३०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``नतोपदेशस्तोत्रं'' नामैकत्रिंशं स्तोत्रं सम्पूर्णम् ।
३२. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम्
भवमरुभ्रमविषमसम्भ्रमसमुदितक्लमविक्लवं
कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् ।
अतिभयङ्कररविजकिङ्करविकृतहुङ्कृतिकातरं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ १॥
कृतनिकेतनमकरकेतनदलितचेतनवेतनं
ललितलोचनवरवधूजनवचनतर्जनभाजनम् ।
गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ २॥
प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं
प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् ।
ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३॥
पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं
विभवयौवनसुतसुखादिकमितिविवेकविसंस्थुलम् ।
बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ४॥
समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं
भुवनभावन परमपावन सुदृढभावनमानतम् ।
शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ५॥
जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रहं
त्रिपुरशासन शबलवासनमसदुपासनलालसम् ।
घनचमत्कृतिकृतनमस्कृतिमुचितसत्कृतिसस्पृहं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६॥
वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी
कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् ।
दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७॥
अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं
मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् ।
भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``शरणागतोद्धरणं'' नामकं द्वात्रिंशं स्तोत्रं सम्पूर्णम् ।
३३. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम्
काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजो
झाङ्कारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः ।
वाग्देव्याः प्रचलस्ख (प्रचलोच्छलत्)लद्भुजलताक्षेपक्वणत्कङ्कण-
क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ १॥
स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया-
क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् ।
नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा-
दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥ २॥
स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत-
स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः ।
धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप-
त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥ ३॥
यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसन्दर्शनै-
श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुःसहस्रद्वयम् ।
साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते
त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥ ४॥
राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनः
सम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि ।
शम्भो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर
त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥ ५॥
श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका-
काश्मीरादिनिरादरं मलयजालेपावलेपावहम् ।
कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं
चेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥ ६॥
यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित-
ज्वालाजालजटालकालरसनासंरम्भसम्भावनाः ।
वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा-
बाणश्रेणिशरव्यदिव्यवपुषः स्वर्वन्दिवृन्दोक्तयः ॥ ७॥
हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी-
र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् ।
मान्द्यं विन्दति नन्दनेन्दुवदनासन्दिग्धमुग्धाधर-
प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासन्दोहदो दोहदः ॥ ८॥
सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः
शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः ।
सह्लादोल्लसनः प्रसन्नहसनः सम्पन्नसद्वासनः
सत्काव्यव्यसनः सुधार्द्ररसनः शम्भोः कृतोपासनः ॥ ९॥
राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः
स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः सङ्गीतभङ्गीभृतः ।
शम्भोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन-
ह्लादस्वादसुखस्पृहामिह जहत्त्यन्तर्मृशन्तः स्तुतीः ॥ १०॥
सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः
कारुण्यार्द्रहृदः प्रसन्नसुहृदः स्फारीभवत्संविदः ।
त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः
कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११॥
दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः
सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः ।
उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस-
श्चित्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२॥
कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत-
स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः ।
तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव-
व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥ १३॥
खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं
ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति प्रभुः ।
तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण-
ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ १४॥
रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर-
प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः ।
ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका-
पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ १५॥
अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे-
र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः ।
तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः
साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥ १६॥
स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि-
र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः ।
दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन-
स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥ १७॥
स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुः
पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः ।
तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण-
श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥ १८॥
त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-
संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः ।
नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं
कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९॥
आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै-
रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः पदम् ।
दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती-
मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥ २०॥
धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं
स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति ।
ग्रासीकर्त्तुमुदग्रविग्रहगलद्वह्निस्फुलिङ्गं विषं
को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥ २१॥
क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित-
व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम् ।
चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं
काङ्क्षन्कं शरणं वृणोति मरणे त्वामन्तरेणातुरः ॥ २२॥
वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं
पीयूषं विशदांशु(डशनांशु)भिर्दश दिशत्काशप्रकाशा दिशः ।
कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी-
श्चान्द्री मूर्ध्नि कलेव देव भवतो वक्त्रे विधत्तां पदम् ॥ २३॥
यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव
स्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि ।
स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन-
स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ २४॥
यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर-
व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः ।
सेवासन्निधिशंसिसम्भ्रमनमत्सामन्तमौलिस्थली-
लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ २५॥
यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति-
क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः ।
उन्मीलन्मृदुशाद्वले तरुतले स्वर्ल्लोककल्लोलिनी-
कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६॥
यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन-
व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।
दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण-
व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ २७॥
निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितं
यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः ।
यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन-
प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ २८॥
सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः
कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः ।
कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः
प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥ २९॥
दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी
पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ ।
चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम
त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ ३०॥
तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः
क्षोणीपालाः शिरोभिः करपुटघटितैरञ्जसा रञ्जयन्ति ।
धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयां
लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥ ३१॥
तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा
गीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् ।
विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता
कीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥ ३२॥
किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग-
स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् ।
स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते
शान्तेर्ष्यस्त्वामविद्याजडजगदगदङ्कारमाराधयेद्यः ॥ ३३॥
आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी
नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः ।
फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः
कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥ ३४॥
तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप-
व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः ।
भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला-
ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥ ३५॥
या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प-
त्सम्पर्को यत्र यत्र स्थितिरुपरि परिभ्रंशभाजां जनानाम् ।
एषा शेषाहिपीठप्रकटितवसतिः सम्पदां भूतधात्री
पात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥ ३६॥
संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं
धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः ।
शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनाऽऽपद्विनाश-
स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥ ३७॥
यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त-
र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः ।
गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः
सङ्कल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥ ३८॥
अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः
सन्धाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् ।
यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां
भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९॥
यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी
स्थैर्यं झाङ्कारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य ।
सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं
धाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥ ४०॥
धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यः
साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् ।
तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिः
साफल्यं यः स यज्वा वपुरधृतविपत्सङ्गमस्ते नमस्ते ॥ ४१॥
प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां
प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् ।
कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां
पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२॥
प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-
ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः ।
सायं ध्यायन्ति सन्ध्याविधिमधि सुधियो बाधिताधिं समाधिं
साधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३॥
दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं
भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्त्तः ।
यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते
तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ ४४॥
इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ-
प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः ।
तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा-
दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ ४५॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कर्णपूरस्तोत्रं'' नामकं त्रयस्त्रिंशं स्तोत्रं सम्पूर्णम् ।
३४. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम्
सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च-
प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः ।
शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष-
स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥ १॥
यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भं
मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् ।
तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द-
न्यस्तं वक्त्रं प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥ २॥
षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः
प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः ।
दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः
संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥ ३॥
वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं
कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः ।
धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थं
शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययःस्यत्वघं वः ॥ ४॥
संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यं
धन्यम्मन्यं वदन्यं प्रणयपरवशं पर्षदग्र्यव्यवस्थम् ।
वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग-
स्वर्गङ्गः शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥ ५॥
अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं
ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ।
स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं
प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६॥
सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं
सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसम्बन्धबन्धम् ।
यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं
यच्छत्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७॥
सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध-
श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् ।
तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पं
सम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८॥
अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं
व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् ।
सर्वज्ञः सत्त्वसङ्घक्लमकरणचणं जन्मकर्मप्रबन्धं
मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ ९॥
गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त-
र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् ।
भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं
गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥ १०॥
पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं
पर्जन्यं हंसमब्जं दशशतनयनं हव्यभक्षं सदण्डम् ।
रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नं
सम्पश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ ११॥
अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स-
न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः ।
स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व-
ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥ १२॥
द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं
प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शङ्करः सङ्करघ्नः ।
वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प-
श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ १३॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``अग्र्यवर्णस्तोत्रं'' नामकं चतुस्त्रिंशं स्तोत्रं सम्पूर्णम् ।
३५. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम्
अनाथानां नाथो गतिरगतिकानां व्यसनिनां
विनेता भीतानां शरणमधृतीनां भरवशः ।
सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः
पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥ १॥
उदारैर्मन्दारैरचितशिखरं चन्द्रशिखरं
समभ्यर्च्य प्रेम्णा विपुलपुलकालङ्कृततनुः ।
कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप-
स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ २॥
इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो
जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् ।
महामोहैर्घोरैरुपहतमितो बोधलसितं
कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ ३॥
अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय-
न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् ।
विवेकाख्यं चक्षुस्तिरयति सतां येन सहसा
भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ ४॥
भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशः
प्रसादं तन्वानां घनमहसमासाद्य सुधियः ।
प्रकाशात्मानं त्वामतिविमलया हंसमुदितं
दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५॥
अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता-
मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् ।
चतुर्धा दुर्भेद्यामविरतमविद्यां परिणतां
हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६॥
नरास्तत्त्वालोके नियतमनया दूषितदृशो
विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् ।
उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियः
समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७॥
चकाशे नाकाशे रविरविरलैरंशुपटलै-
रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः ।
न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि-
त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८॥
तमोभूतं विश्वं किमपि गहनं धाम तदभू-
दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् ।
विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन-
स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९॥
अनादौ संसारे विदधति रजोबाधितधियः
शुभं वा घोरं वा शबलमथ वा कृत्यमणवः ।
ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो
विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १०॥
तदेतत्सङ्कल्पप्रकटितसमस्तत्रिजगतः
प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः ।
तवैकस्य स्वामिन्यदिह सहजे सर्वविषये
क्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥ ११॥
प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना
विना यत्कर्तारं स च न भवति ज्ञानरहितः ।
अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः
स च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ १२॥
अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः
स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते ।
अमुष्याद्ये पक्षे नहि परविधेयस्य विभुता
परस्मिन्पक्षे वा फलमपि किमुद्दिश्य यतते ॥ १३॥
अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते
नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः ।
विनाधारं भोगो न भवति वपुर्नापि भुवनं
ततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ १४॥
इदं युक्तं सान्द्रामृतमधुरयाऽन्तः करुणया
प्रयुक्तस्याऽजस्रं परहितविधानव्यसनिनः ।
दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं
कुतो वाऽऽधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५॥
अथोपादानं यद्भवति परमाण्वादि जगत-
स्तथा कर्माऽनेहःप्रभृति सहकार्येतदुभयम् ।
विना सृष्टौ नैष प्रभवति यदीशः किममुना
तदेवाऽस्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६॥
इतीत्थं मुग्धानामिह मतिविमोहाय कुधियः
कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः ।
अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं
न जानन्ति स्वामिन् परमपुरुषं चेतनममी ॥ १७॥
यथोपादानं मृत्तदनु सहकारीह लगुडो
जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः ।
न यत्नं कौलालं प्रभवति विना कुम्भघटने
तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८॥
अविज्ञायैवाऽज्ञः परुषविषमं कर्म कुरुते
विपाके तस्यासौ निपतति भवक्लेशकलिले ।
अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो
महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९॥
उपायस्तत्प्राप्तौ भवति न विना शास्त्रमपरो
न शास्त्रं तत्वामिन्निह यदुपदिष्टं न भवता ।
विविञ्चन्तः सन्तो हितमहितमेते विदधते
हिते सक्तिं मुञ्चन्त्यहितमिति नार्हन्ति पतनम् ॥ २०॥
भवान्धर्मं साक्षादकृत सहजज्ञानमहसा
तमोध्वंसं पुंसामथ तदुपदेशेन विदधे ।
प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो
जगद्भर्त्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१॥
तदेतत्कारुण्यं घनतमतमःपङ्कपटली-
विलीनोऽयं लोकस्तव वरद सम्भाव्य सहजम् ।
दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृत्
प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२॥
इत्येवं भगवन्नबन्ध्यमहिमा निर्माय निर्मानुषं
विश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः ।
संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन-
क्लेशावेशविरामसम्भृतसुखं कैवल्यमाकाङ्क्षसि ॥ २३॥
इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदं
भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर ।
यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु-
र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४॥
एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे
भूयो जन्म भविष्यतीति भगवन् मन्ये खपुष्पोपमम् ।
स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा
भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ २५॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``ईश्वरप्रशंसास्तोत्रं'' नामकं पञ्चत्रिंशं स्तोत्रं सम्पूर्णम् ।
३६. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम्
ते नाथ जन्म सकलं न कलङ्कयन्ति
न द्रोहकर्मरसिकानपि शङ्कयन्ति ।
तान्सस्पृहं मृगदृशः प्रविलोकयन्ति
ये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥ १॥
ते विद्विषामभिमतं हृदि मोघयन्ति
ज्ञानामृतं च कृपणेषु समर्पयन्ति ।
तेषां वचः क्षितिभुजोऽपि न लङ्घयन्ति
ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ २॥
ते जन्मनः फलमनल्पमुदञ्चयन्ति
क्लेशापदः स्वमपरं च विमोचयन्ति ।
तान्वैरिणः सहभुवोऽपि न वञ्चयन्ति
ये त्वामनाथजनबान्धवमर्चयन्ति ॥ ३॥
ते धर्ममिन्दुकरसुन्दरमर्जयन्ति
गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति ।
तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति
ये त्वां भवामयहरं हर पूजयन्ति ॥ ४॥
ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति
दुःखद्रुमं च दृढमापदि पाटयन्ति ।
भावं तवैव भुवि बालमिवाटयन्ति
ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥ ५॥
ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति
सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति ।
त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति
ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६॥
पापानि तेऽश्मशकलानि व चूर्णयन्ति
गीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति ।
लोके निजानि च यशांस्युपकर्णयन्ति
ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ ७॥
ते मारकानपि न संयति घातयन्ति
कारुण्यतः कृतरुषोपि न यातयन्ति ।
लोकस्य शोकमभयेन च शातयन्ति
ये शेखरं चरणयोस्तव पातयन्ति ॥ ८॥
ते पापपाश(कर्मबन्ध)मधिकं हृदि कर्तयन्ति
भोगस्पृहां च विषयेषु निवर्तयन्ति ।
सूक्तैः सचेतनमनांस्यपि नर्तयन्ति
ये चन्द्रचूडचरितं तव कीर्तयन्ति ॥ ९॥
ते जान्मिकानि दुरितान्यवसादयन्ति
सूक्तानि निर्मलमतीननुवादयन्ति ।
गीतानि वैणिकनटानपि नादयन्ति
ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ १०॥
ते सत्सु कर्मसु रिपूनपि चोदयन्ति
गीर्भिः सतां च हृदयानि विनोदयन्ति ।
तेषां शुचः क्वचन चेतसि नोदयन्ति
ये तावकानि चरितान्यनुमोदयन्ति ॥ ११॥
ते विग्रहोग्रमनसोपि न खेदयन्ति
मोहं दृढार्गलनिभं हृदि भेदयन्ति ।
स्वं कौशलं मृदुमतीनपि वेदयन्ति
सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२॥
ते भेजुषां भवति भक्तिममन्दयन्ति
वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति ।
त्वामन्यदर्शनगतानपि वन्दयन्ति
ये वाग्भरेण हृदयं तव नन्दयन्ति ॥ १३॥
ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्ति
सत्कर्म शर्म शमिताधि च साधयन्ति ।
ये त्वां नवैरभिनवैरभिराधयन्ति
यानिक्षुसारमधुरान् सुधियो धयन्ति ॥ १४॥
ते सङ्गरे गुरुरुषोऽपि न योधयन्ति
ज्ञानामृतेन हृदयं च विशोधयन्ति ।
रोषोद्भवं हृदि रिपोरपि रोधयन्ति
ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ १५॥
ते दुर्मदान्बुधसदस्यवमानयन्ति
प्रौढान्प्रणम्य विनयेन च मानयन्ति ।
तान्भूतयः स्वयमनन्यसमानयन्ति
ये वासरांस्तव नवैः सशमा नयन्ति ॥ १६॥
ते निर्भये नतिमतः पथि यापयन्ति
नोत्कम्पदानपि रिपूनुपतापयन्ति ।
क्लेशापदं पशुसमानपि हापयन्ति
ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ १७॥
ते दुर्मदं शमनमुग्रमदर्पयन्ति
गर्धं च साधुसदनादपसर्पयन्ति ।
दानादिनार्थिनिवहानपि तर्पयन्ति
ये तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥ १८॥
ते सद्गृहेषु गुरुमापदमल्पयन्ति
स्वं चाशयं शिशयिषोस्तव तल्पयन्ति ।
आर्तिस्पृशामुपकृतीरपि कल्पयन्ति
ये बालकानपि नवं तव जल्पयन्ति ॥ १९॥
ते सापराधमनसोऽपि न कोपयन्ति
तापं ह्विया विपुलमापदि गोपयन्ति ।
त्वद्धाम चामलमतीनधिरोपयन्ति
ये नार्चनं तव कदाचन लोपयन्ति ॥ २०॥
ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति
प्रीतिं परां कृतमतीनुपलम्भयन्ति ।
वंशत्रयीमपि निजामभिशोभयन्ति
ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१॥
ते मग्नमार्त्तजनमापदि तारयन्ति
बुद्ध्या विमृश्य सदसच्च विचारयन्ति ।
अज्ञानमानतिमतां च निवारयन्ति
त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२॥
ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति
मोहं महीरुहमिव प्रविमूलयन्ति ।
आज्ञां च मूर्ध्नि महतामवचूलयन्ति
ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥ २३॥
ते पङ्कमङ्कगतमात्मनि धावयन्ति
दिङ्मण्डलं च परितः परिपावयन्ति ।
क्लेशान् क्षणात्तृणगणानिव लावयन्ति
ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४॥
ते पीवरीं विपदमोकसि कर्शयन्ति
स्वं कौशलं सुमनसश्च विमर्शयन्ति ।
प्रीतिं सतां च हृदयेषु निवेशयन्ति
ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २५॥
ते निर्मलं सुकृतमात्मनि पोषयन्ति
दुष्कर्मकर्दममलं हृदि शोषयन्ति ।
क्रूरान् विरोधबिधुरानपि तोषयन्ति
ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६॥
ते विश्वमेव चरितैरभिभूषयन्ति
क्रुद्धान् विरुद्धहृदयाँश्च न दूषयन्ति ।
नात्युद्भटान्यमभटानपि रोषयन्ति
रागेण ये शिव मनस्तव तोषयन्ति ॥ २७॥
ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति
स्वान्तौकसोऽघभुजगानपि कर्षयन्ति ।
कम्पं विधाय च यमं भ्रुवि धर्षयन्ति
ये त्वां निजै(नवै)र्नुतिपदैर्हर हर्षयन्ति ॥ २८॥
ते मौनमुद्रि तगिरोऽप्युपहासयन्ति
गीर्भिर्मुखानि सुधियामधिवासयन्ति ।
विश्वं यशोभिरमलैरभिभासयन्ति
ये मानसं तव नवैः प्रविकासयन्ति ॥ २९॥
ते चित्तभित्तिमसतामपि चित्रयन्ति
रोषोद्धतानरिजनानपि मित्रयन्ति ।
सूक्तामृतैश्च भुवमेव पवित्रयन्ति
वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ ३०॥
चेतांसि ते सुकृतिनामुपबृंहयन्ति
बाह्यान्तरानसुहृदश्च निबर्हयन्ति ।
नात्मानमानतमरीनपि गर्हयन्ति
ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१॥
आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति
ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति ।
स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति
त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ ३२॥
ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति
श्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति ।
तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति
त्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ ३३॥
ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्ति
क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति ।
चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति
स्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥ ३४॥
तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्ति
क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति ।
तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति
त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५॥
ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति
ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।
तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति
त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ ३६॥
ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति
क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति ।
मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति
त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७॥
ते निर्वेदं मनसि शमिनामह्नु तं ह्रासयन्ति
त्रस्तानस्तङ्गमितविपदः शश्वदाश्वासयन्ति ।
त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्ति
स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥ ३८॥
ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति
स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति ।
क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति
प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ ३९॥
ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति
त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति ।
स्वं चाघौघं यममदनवत्त्वद्दृशा दाहयन्ति
त्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ ४०॥
ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति
प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति ।
प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति
त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥ ४१॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``स्तुतिफलप्राप्तिस्तोत्रं'' नामकं षट्त्रिंशं स्तोत्रं सम्पूर्णम् ।
३७. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम्
इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः ।
कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥ १॥
कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता ।
या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ २॥
जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् ।
यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥ ३॥
शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः ।
तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥ ४॥
इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् ।
सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ ५॥
उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः ।
जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः ॥ ६॥
किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः ।
किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ ७॥
अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः ।
यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ ८॥
क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् ।
तदिह तपोवनमनघं यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ ९॥
सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः ।
साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ १०॥
तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् ।
सा खलु परमा दीक्षा यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ ११॥
यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् ।
भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शम्भोः ॥ १२॥
अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् ।
तदिमा गृहाण निभृतं दृढगुणगुणगुम्फिताः स्तुतीः शम्भोः ॥ १३॥
यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः ।
इति यदि हृदि तव कौतुकमाकर्णय तत्स्तुतीरिमाः शम्भोः ॥ १४॥
विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः ।
तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शम्भोः ॥ १५॥
अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् ।
भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥ १६॥
यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् ।
तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं शम्भोः ॥ १७॥
सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः ।
लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शम्भोः ॥ १८॥
मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् ।
मम सदृशोऽस्ति न कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥ १९॥
प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् ।
ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥ २०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``स्तुतिप्रशंसा'' नामकं सप्तत्रिंशं स्तोत्रं सम्पूर्णम् ।
३८. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम्
सहस्रशीर्षा पुरुषः पुनातु वः
सहस्रचक्षुर्भगवान् सहस्रपात् ।
गलेऽङ्घ्रिमूले नयने च निश्चला-
स्त्रयोऽप्यमी यं पुरुषा उपासते ॥ १॥
(उपासते यं पुरुषास्त्रयोऽप्यमी)॥ १॥
सरस्वतीवेन्दुकलोद्गता करैः
सरस्वतीव श्रवणामृतैः स्वरैः ।
सरस्वतीवोर्मिभिरीश्वरस्तवैः
सरस्वती वर्षतु वः सुधामियम् ॥ २॥
विमर्शशून्येन मया निरर्थकः
खलेन कालः सकलोऽतिवाहितः ।
इदं त्वसारादतिसारमुद्धृतं
धृतं यदीशस्तुतिवेतनं मनः ॥ ३॥
न हृद्यतामेति परस्य दुर्मुखः
शिशुः स्रवत्पीनसदिग्धनासिकः ।
पितुः स्वकीयस्य तु जीविताधिक-
स्तथोपहास्योऽपि ममाऽयमुद्यमः ॥ ४॥
अवैमि भाग्योपचयः स पुष्कलः
सशक्तिपातः खलु पारमेश्वरः ।
स वा महार्हो महतामनुग्रहो
यदीश्वराराधनसाधनं मनः ॥ ५॥
अहो कृतार्थोऽस्मि मनोभिरामया
गिरा गुणालङ्कृतयेह रामया ।
तनुः स्थिरेयं ध्रियते निरामया
भवे च यद्भक्तिरभङ्गुरा मया ॥ ६॥
न विद्यया प्रीतिरनर्घमानया
तथा श्रिया वाऽन्वहमेधमानया ।
शिवस्तवैकव्रतयाऽसमानया (ममानया)
यथा गिरा सान्द्रसुधासमानया ॥ ७॥
पुरः स्फुरन्तं विमृशन्महेश्वरं
विलीनवेद्यान्तरवेदनो दशाम् ।
नवस्तवोल्लेखविधौ स्पृशामि यां
ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ ८॥
मनुष्यता पूरुषताऽग्र्यवर्णता
मनीषिता सत्कविता शिवैकता ।
इयं मम क्षेमपरम्परा विभोः
स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ ९॥
ध्रुवं नवानां रसगर्भनिर्भर-
ध्वनिर्घनानामनघेयमावलिः ।
पृथुप्रभावं शशिखण्डमण्डितं
प्रहर्षिणं नीलगलं करिष्यति ॥ १०॥
यदि ह्ययोग्याश्चरणान्तिके वयं
तथापि नः प्राङ्गणसीमसेविनाम् ।
चमत्करिष्यन्ति गिरः प्रभोरिमा
जनङ्गमानामिव गीतरीतयः ॥ ११॥
परोपकारैरिव राजसेवनं
दरिद्रगार्हस्थ्यमिवार्थितर्पणैः ।
इदं बहुक्लेशमपीश्वरस्तवै-
रवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२॥
(वपुर्बहुक्लेशमपीदमीश्वरस्तवै-
रवैमि स्पृहणीयमात्मनः)॥ १२॥
सहस्रपत्रैरिव पल्वलोदकं
शिरः फणीन्द्रस्य मणिव्रजैरिव ।
सदोषमप्येतदवैमि मानुषं
मनोरमं जन्म महेश्वरस्तवैः ॥ १३॥
मृगेन्द्रशावा इव कन्दरोदरा-
त्करीन्द्रकुम्भादिव मौक्तिकोत्कराः ।
विनिःसरन्तः कवितुर्मुखादमी
मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥ १४॥
मरालमाला सरसीव निर्मले
कुचस्थले हारलतेव सुभ्रुवाम् ।
इयं भवत्वाभरणं महेश्वर-
स्तवावली वक्त्रसरोरुहे सताम् ॥ १५॥
इमां घनश्रेणिमिवोन्मुखः शिखी
चकोरकः कार्तिकचन्द्रिकामिव ।
रथाङ्गनामा तरणेरिव त्विषं
स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६॥
मधुव्रतः सौमनसीमिव स्रजं
सितच्छदः पङ्कजकर्णिकामिव ।
पिको विकोषामिव चूतमञ्जरी-
मिमां न कश्चर्वयति स्तवावलीम् ॥ १७॥
मनस्विनीनामिव साचि वीक्षितं
स्तनन्धयानामिव मुग्धजल्पितम् ।
अवश्यमासां मधु सूक्तिवीरुधां
मनीषिणां मानसमार्द्रयिष्यति ॥ १८॥
इयं मधुश्रीरिव केलिकाननं
सरोवरं प्रावृडिवातपक्षतम् ।
स्तवावली काव्यकुतूहलं सता-
मकालजीर्णं तरुणीकरिष्यति ॥ १९॥
विमत्सराणां सदसद्विवेकिनां
महात्मनां मूर्ध्नि धृतोऽयमञ्जलिः ।
विलोकयन्तु प्रभुगौरवादिमां
प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥ २०॥
स्तवावलीढौकनकार्पणच्छला-
दलभ्यमभ्यर्णचरैः सुरैरपि ।
प्रभोः पदस्पर्शमशङ्कमीप्सतो
विकत्थनत्वेपि न मे विडम्बना ॥ २१॥
कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः
स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभवत्क्षमः ।
सपदि विशदैः शब्दब्रह्मोर्मिभिर्विमलीकृते
करबदरवत्पश्यामोऽस्मिन् समस्तमिदं जगत् ॥ २२॥
आनन्दिनि स्तुवति नन्दिनि गूढमर्थं
देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः ।
अङ्गस्थितां भगवतीमधिरूढहासा-
मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३॥
मन्ये मनोवचनकर्मभिरद्भुतानि
यान्यूर्जितानि सुकृतानि पुराकृतानि ।
एतानि तानि शिवभक्तिपवित्रितानि
कर्णामृतानि फलितानि सुभाषितानि ॥ २४॥
एते प्रभोः प्रमथभर्त्तुरभीष्टमष्टा-
त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु ।
तेनैव दृक्षु धृतघर्मकरामृतांशु-
सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥ २५॥
अयमिह किङ्करेण रचितश्चरणाम्बुजयोः
``स्तुतिकुसुमाञ्जलि''र्भगवतस्तरुणेन्दुभृतः ।
अविरलभक्तिसिक्तनवसूक्तिलताऽवचितः
कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ २६॥
अयि प्रमथनायक त्रिजगतामधिष्ठायक
प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर ।
निवेदयत भक्तितश्चरणकिङ्करेणाऽर्पितं
पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ २७॥
इति परिषदि सिंहस्यन्दनस्कन्दनन्दि-
प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् ।
स्तुतिकुसुमसमूहं प्राभृतीकृत्य शम्भो-
र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ २८॥
भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं
धुरि धुरि दुरितौघं वर्द्धतां शुद्धबोधः ।
पथि पथि मथितोग्रव्यापदापन्नतापा
नरि नरि परिपूर्णा जृम्भतां शम्भुभक्तिः ॥ २९॥
इति शुभं भगवच्चरितस्तुति-
व्यतिकरेण यदर्जितमूर्जितम् ।
भवतु तेन मनस्यनपायिनी
सुकृतिनां शिवभक्तिचमत्कृतिः ॥ ३०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पुण्यपरिणामस्तोत्रं'' नामष्टात्रिंशं स्तोत्रं सम्पूर्णम् ।
३९. ग्रन्थकर्तुर्वंशवर्णनम्
पुरा पुरारेः पदधूलिधूसरः
सरस्वतीस्वैरविहारभूरभूत् ।
विशालवंशश्रुतवृत्तविश्रुतो
विपश्चितां ``गौरधरः'' किलाऽग्रणीः ॥ १॥
भ्रमादनिर्माय पुरातनः कवि-
र्यमग्रिमश्लोकमवश्यमग्रतः ।
विमृश्य पङ्क्तेरुपरि द्विजन्मनां
न्यवीविशत्काकपदाङ्कितं पुनः ॥ २॥
अनन्तसिद्धान्तपथान्तगामिनः
समस्तशास्त्रार्णवपारदृश्वनः ।
ऋजुर्यजुर्वेदपदार्थवर्णना
व्यनक्ति यस्याऽद्भुतविश्रुतं श्रुतम् ॥ ३॥
सुतोऽभवद्रत्नधरः शिरोमणि-
र्मनीषिणामस्य गुणौघसागरः ।
यमाश्रिताह्वास्त सरस्वती हरे-
रुरःस्थलं ``रत्नधरं'' श्रितां श्रियम् ॥ ४॥
उदारसत्त्वं विपुलं सुनिर्मलं
प्ररूढमर्यादमगाधमाशयम् ।
प्रविश्य यस्य स्ववशा सरस्वती
पदं बबन्ध स्थिरमम्बुधेरिव ॥ ५॥
कपोलदोलायितकर्णभूषणं
तरङ्गितभ्रूयुगभङ्गुरालिकम् ।
सचेतसामर्धनिमीलितेक्षणं
क्षणं वितन्वन्ति मुखं यदुक्तयः ॥ ६॥
अथाऽस्य धीमानुदपादि वादिनां
वितीर्णमुद्रो वदनेष्वनेकशः ।
उदारसंस्कारसुसारभारती-
पवित्रवक्त्राम्बुरुहो ``जगद्धरः'' ॥ ७॥
अपि स्थवीयःस्वकृतस्थिरस्थितिः
कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् ।
अहो बत स्वैरविहारलीलया
पदं न्यधादस्खलितं सरस्वती ॥ ८॥
निर्मत्सरः सहृदयः श्रुतपारदृश्वा
विश्वातिशायिविनयः प्रियवाक् सुशीलः ।
किं वाऽपरं कविगिरां सदसद्विचार-
चातुर्यधुर्यधिषणः शरणं य एकः ॥ ९॥
तेनादृतेन शिशुनैव निवेद्यमान-
मानन्दकन्दलितभक्तिकुतूहलेन ।
एतं मृगाङ्ककलिकाकलितावतंस-
शंसारसायनरसं रसयन्तु सन्तः ॥ १०॥
गृह्णन्तु कञ्चन विशेषमशेषमस्मा-
दस्माकमात्तवचनाः(नात्)क्वचनाऽन्तरज्ञाः ।
चिन्वन्ति पल्वलजलात्कुशला विशाल-
शेवालजालकलिलात्कमलौघमेव ॥ ११॥
यद्यप्यासामनलसरसस्फारसारं न किञ्चि-
द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् ।
तत्राऽप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः
कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ १२॥
प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं
मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् ।
भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे
देवस्य स्मरशासनस्य यदिमाः स्तोत्रावलीसूक्तयः ॥ १३॥
निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया
निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे ।
प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे
पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥ १४॥
कारङ्कारमकारि वारितशमैरक्षैररक्षैरिदं
निघ्नं विघ्नितशम्भुसेवनसुखाभोगोपभोगं मनः ।
किन्तु क्वापि कदापि काऽपि पतिता सा साधुदृष्टिर्यतः
प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसादः प्रभोः ॥ १५॥
यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी-
मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः ।
मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः
सञ्जातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥ १६॥
इति श्रीमज्जगद्धरभट्टकविवंशावलीविवरणं सम्पूर्णम् ।
॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितः स्तुतिकुसुमाञ्जलिः सम्पूर्णा ॥
Notes
Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः is a composition by Kāśmīra Mahākavi काश्मीर महाकवि Jagaddhara Bhaṭṭa जगद्धरभट्ट who belongs to the lineage of Ratnadhara रत्नधर (father)and Gauradhara गौरधर (grandfather).
Proofread by Ruma Dewan
% Text title : Stutikusumanjalih
% File name : stutikusumAnjaliH.itx
% itxtitle : stutikusumAnjaliH (jagaddharabhaTTavirachite)
% engtitle : stutikusumAnjaliH
% Category : major_works, sangraha, jagaddharabhatta, kAshmIrashaivadarshanam
% Location : doc_z_misc_major_works
% Sublocation : major_works
% Author : jagaddharabhaTTa
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Ruma Dewan
% Indexextra : (1, 2, 3)
% Latest update : June 25, 2024
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
stutikusumāñjaliḥ
oṃ śrīgaṇeśāya namaḥ |
namaḥ śivāya niḥśeṣakleśapraśamaśāline |
triguṇagranthidurbhedabhavabhedavibhedine ||
sūcipatram |
1. stutiprastāvanā prathamaṃ stotram |
2. namaskārātmakaṃ dvitīyaṃ stotram |
3. āśīrvādākhyaṃ tṛtīyaṃ stotram |
4. maṅgalāṣṭakaṃ caturthaṃ stotram |
5. kavikāvyapraśaṃsākhyaṃ pañcamaṃ stotram |
6. harāṣṭakaṃ ṣaṣṭhaṃ stotram |
7. sevābhinandanaṃ saptamaṃ stotram |
8. śaraṇāśrayaṇaṃ aṣṭamaṃ stotram |
9. kṛpaṇākrandanaṃ navamaṃ stotram |
10. karuṇākrandanaṃ daśamaṃ stotram |
11. dīnākrandanaṃ ekādaśaṃ stotram |
12. tamaḥśamanaṃ dvādaśaṃ stotram |
13. prabhuprasādanaṃ trayodaśaṃ stotram |
14. hitastotraṃ caturdaśaṃ stotram |
15. karuṇārādhanaṃ pañcadaśaṃ stotram |
16. upadeśanaṃ ṣoḍaśaṃ stotram |
17. bhaktistotraṃ saptadaśaṃ stotram |
18. siddhistotraṃ aṣṭādaśaṃ stotram |
19. bhagavadrūpavarṇanaṃ ekonaviṃśaṃ stotram |
20. hasitastotraṃ viṃśaṃ stotram |
21. ardhanārīśvarastotraṃ ekaviṃśaṃ stotram |
22. kādipadabandhastotraṃ dvāviṃśaṃ stotram |
23. śaṛṅkhalābandhastotraṃ trayoviṃśaṃ stotram |
24. dvipadayamakaṃ caturviṃśaṃ stotram |
25. rucirañjanākhyaṃ pañcaviṃśaṃ stotram |
26. pādādiyamakastotraṃ ṣaḍviṃśaṃ stotram |
27. pādamadhyayamakākhyaṃ saptaviṃśaṃ stotram |
28. pādāntayamakastotraṃ aṣṭāviṃśaṃ stotram |
29. ekāntarayamakastotraṃ ekonatriṃśaṃ stotram |
30. mahāyamakastotraṃ triṃśaṃ stotram |
31. natopadeśastotraṃ ekatriṃśaṃ stotram |
32. śaraṇāgatoddharaṇaṃ dvātriṃśaṃ stotram |
33. karṇapūrastotraṃ trayastriṃśaṃ stotram |
34. agryavarṇastotraṃ catustriṃśaṃ stotram |
35. īśvarapraśaṃsāstotraṃ pañcatriṃśaṃ stotram |
36. stutiphalaprāptistotraṃ ṣaṭtriṃśaṃ stotram |
37. stutipraśaṃsāstotraṃ saptatriṃśaṃ stotram |
38. puṇyapariṇāmastotraṃ aṣṭātriṃśaṃ stotram |
39. granthakarturvaṃśavarṇanam |
1. stutiprastāvanā prathamaṃ stotram
hlādavadbhiramalairanargalairjīvanairaghaharairnavairiyam |
svāminaḥ klamaśamakṣamaiḥ kṣaṇaṃ roddhumarhati manaḥ sarasvatī || 1||
svāminaḥ sthiraguṇā savakrimā karṇayoramṛtavarṣiṇī manaḥ |
karttumarhati muhūrttamujjhitasvairacāpalamiyaṃ sarasvatī || 2||
ramyarītiranaghā guṇojjvalā cāruvṛttarucirā rasānvitā |
rañjayatviyamalaṅkṛtā manaḥ svāminaḥ praṇayinī sarasvatī || 3||
sattvadhāma varalābhayācitaślāghyavarṇaviśadā viśatviyam |
nirmalaṃ saghanakālaviplavā mānasaṃ smarajitaḥ sarasvatī || 4||
bhaktitaḥ sapadi sarvamaṅgalā bodhitā nijadhiyaiva me'nayā |
ārirādhayiṣatīśvaraṃ varaṃ labdhumīpsitamiyaṃ sarasvatī || 5||
omiti sphuradurasyanāhataṃ garbhagumphitasamastavāṅmayam |
dandhvanīti hṛdi yatparaṃ padaṃ tatsadakṣaramupāsmahe mahaḥ || 6||
bhānunā tuhinabhānunā bṛhadbhānunā ca vinivartitaṃ na yat |
yena tajjhagiti(jhaṭiti)śāntimāntaraṃ dhvāntameti tadupāsmahe mahaḥ || 7||
kīcakādikuhareṣvivā'mbaraṃ bimbamambaramaṇerivormiṣu |
ekameva cidacitsvanekadhā yaccakāsti tadupāsmahe mahaḥ || 8||
tarkakarkaśagirāmagocaraṃ svānubhūtisamayaikasākṣiṇam |
mīlitākhilavikalpaviplavaṃ pārameśvaramupāsmahe mahaḥ || 9||
svāvabhāsamayameva māyayā yena bhinnamavabhāsyate jagat |
citramindradhanurabhralekhayā bhāsvateva tadupāsmahe mahaḥ || 10||
hṛdguhāgahanagehagūhitaṃ bhāsitā'khilajagattrayodaram |
kandakandaradarīmukhodgataprāṇamārutakṛtasthirasthitim || 11||
tyaktasarvadaśamakṣayodayaṃ rūpavarjitamabhittisaṃśrayam |
yaṃ nirañjanamanakṣagocaraṃ dīpamadbhutamuśanti taṃ stumaḥ || 12||
yasya śasyamahaso nirargalaṃ yogamāpya caraṇābjareṇubhiḥ |
adbhutāṃ dadhati nīrajaskatāṃ taṃ jagatpatimumāpatiṃ stumaḥ || 13||
cārucandrakalayopaśobhitaṃ bhogibhiḥ saha gṛhītasauhṛdam |
abhyupetaghanakālaśātravaṃ nīlakaṇṭhamatikautukaṃ stumaḥ || 14||
icchayaiva bhuvanāni bhāvayan yaḥ priyopakaraṇagraho'pi san |
apriyopakaraṇagraho'bhavat taṃ svaśaktisacivaṃ śivaṃ stumaḥ || 15||
padmasadmakaramardalālitaṃ padmanābhanayanābjapūjitam |
padmabandhumukuṭāṃśurañjitaṃ pādapadmayugamaiśvaraṃ stumaḥ || 16||
aṅghriyugmamamareśamastakasragbhirujjvalamuraśca bhasmabhiḥ |
śekharañca himaraśmiraśmibhiryo bibharti tamupāsmahe vibhum || 17||
mūrdhni candrakarasundaratviṣaṃ phenapiṇḍaparipāṇḍurasmitām |
dehināṃ vahati tāpahāriṇīṃ siddhasindhumatanuṃ tanuṃ ca yaḥ || 18||
karttumutsahata eva sevako yasya kasya na manaḥ sakautukam |
naiti śāntanavavigraho'pi san bhīṣmatāṃ na ca vicitravīryatām || 19||
āpatantamayamaṃ yamaṃ puro yaḥ savigrahamavigrahaṃ vyadhāt |
darpakaṃ vyadhita yo'pyadarpakaṃ taṃ viṣādamaviṣādamāśraye || 20||
ambareṇa gananena saṃvṛtaṃ jīvanaiḥ śirasi vāribhiḥ śritam |
bhogibhiśca bhujagairvibhūṣitaṃ śaṅkaraṃ śubhakaraṃ bhajāmahe || 21||
pāvakena śikhinopaśobhitaṃ bhāsitaṃ sitarucā himāṃśunā |
bhāsvatā ca raviṇā virājitaṃ locanatrayamupāsmahe vibhoḥ || 22||
abhayaṅkaramāśritaṃ svarūpaṃ dadhaduddāmasamagradhāmayogam |
śucitārakamīśvarasya netratritayaṃ śūlaśikhātrayaṃ ca vande || 23||
mīladvilocanasamudgasamudgatā'śru-
śrotaḥsru tisnapitamūlakapolabhāgāḥ |
devaṃ śaśāṅkakalayā kalitā'vataṃsaṃ
śaṃsanti santa iha śaṅkara śaṅkareti || 24||
bhrānto'smi vaiśasamaye samaye'hamatra
mithyaiva digbhramahato mahato'pamārgān |
viśramya nandanavane navane śivasya
khedastu samprati sameti sa me'vasānam || 25||
yatpārvaṇendukarasundaravāhahaṃsa-
saṃvāsadurlalitayā'pi vacodhidevyā |
viśramyate manasi naḥ samale salīlaṃ
tatsaubhagaṃ bhagavato jayatīndumauleḥ || 26||
yaṃ bhūṣayanti kamanīyamahīnabhogāḥ
stutvā bhavanti kṛtino yamahīnabhogāḥ |
cittocitaṃ tamapahāya mahīnabhogāḥ
kartuṃ paratra dhṛtasaṃyama ! hī na bho gāḥ || 27||
avāpya gurubhirguṇairjagati gauravaṃ dhyāyata-
stamīramaṇaśekharaṃ bhavati gauravandhyā yataḥ |
atastamumayā samaṃ kṛtamahāvilāsaṃ prati
stutau viracitā mayā matiranāvilā samprati || 28||
mattvā sadyaḥ sukṛtasulabhaṃ durlabhaṃ jīvalokaṃ
labdhvā sarvavyasanaśamanaṃ mitramekaṃ vivekam |
dhanyāḥ kecitkṛtakumudinīkāntalekhā'vataṃsaṃ
haṃsaṃ śaṃsantyamalamadhurairbhaktisiktairvacobhiḥ || 29||
antaḥśūnyaṃ guṇavirahitaṃ nīrasaṃ sargahīnaṃ
kāvyaṃ hṛdyaṃ nanu sumanasāṃ na sthalāmbhoruhābham |
tatrāpīśaḥ śravaṇapuline gāḍharāgānubandha-
prodyadbhaktipraguṇitamadaḥ karttumarhatyagarham || 30||
athavā'mṛtabinduvarṣiṇīndudyutirānandamamandamarpayantī |
nayati dhruvamārdratāmiyaṃ gīrgirijājīvitanāthamindukāntam || 31||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``stutiprastāvanā'' nāmakaṃ prathamaṃ stotraṃ sampūrṇam |
2. namaskārātmakaṃ dvitīyaṃ stotram
oṃ namaḥ paramārthaikarūpāya paramātmane |
svecchāvabhāsitā'satyabhedabhinnāya śambhave || 1||
namaḥ śivāya niḥśeṣakleśapraśamaśāline |
triguṇagranthidurbhedabhavabhedavibhedine || 2||
namaḥ samastagīrvāṇakirīṭaghaṭitāṅghraye |
jagannagaranirmmāṇanarmaśarmadakarmmaṇe || 3||
namastamasvatīkāntakhaṇḍamaṇḍitamaulaye |
tāpāndhakāranirvedakhedavicchedavedine || 4||
namaḥ samastasaṅkalpakalpanākalpaśākhine |
vikāsikalikākāntakalāpāya svayambhuve || 5||
namastamaḥparābhūtabhūtavargānukampine |
śvetabhānubṛhadbhānubhānubhāsitacakṣuṣe || 6||
namaḥ śamanahuṅkārakatarā''turaharṣiṇe |
bhavāya bhavadāvāgnivivignā'mṛtavarṣiṇe || 7||
namaḥ samadakandarpadarpajvarabharacchide |
durvārabhavarugbhaṅgabhiṣaje vṛṣalakṣmaṇe || 8||
namo janmajarāmṛtyubhītisātaṅkapāline |
karuṇāmṛtasamparkapeśalāya kapāline || 9||
namo nisarganirvighnaprasādāmṛtasindhave |
saṃsāramarusantāpatāpitāpannabandhave || 10||
namaḥ sāndrā'mṛtasyandighanadhvanitaśobhine |
mahākālāya bhīṣmoṣmabhavagrīṣmaklamacchide || 11||
namo vāṅmanasātītamahimne parameṣṭhine |
triguṇāṣṭaguṇā'nantaguṇanirguṇamūrttaye || 12||
haṃsāya dīrghadoṣāntakāriṇe'mbaracāriṇe |
svamahomahimadhvastasamastatamase namaḥ || 13||
yaḥ suvarṇena candreṇa gāṅgeyenāgnijanmanā |
kāñcanenaśriyaṃ dhatte tasmai smarajite namaḥ || 14||
nijāṅgabhaṅgabhaṅgyāpi bhaktānugrahakāriṇe |
namaḥ stambhitajambhāribhujastambhāya śambhave || 15||
niḥsāmānyāya mānyāya nyāyamārgopadeśine |
mūrdhanyāya vadānyāya dhanyāya svāmine namaḥ || 16||
namaḥ saṃhṛtakālāya kālāyasagalatviṣe |
gaṅgādhautakalāpāya kalāpāyamavindate || 17||
jiṣṇunā jiṣṇunā lokān viṣṇunā prabhaviṣṇunā |
brahmaṇā brahmaṇādyena stutāya svāmine namaḥ || 18||
kulaśailadalaṃ pūrṇasuvarṇagirikarṇikam |
namo'dhitiṣṭhate'nantanālaṃ kamalaviṣṭaram || 19||
nimittamantareṇāpi yaḥ sapaṅkajanābhaye |
pravartate vibhustasmai namaḥ paṅkajanābhaye || 20||
namaḥ somārdhadehāya somārdhakṛtamaulaye |
śvetābhayasamudbhūtaśvetābhayaśase namaḥ || 21||
vinatānandanaṃ nāgavigrahogramukhaṃ dṛśā |
vināyakamupāsīnaṃ bhajate svāmine namaḥ || 22||
namo brahmaharitryakṣaśravase bhavasetave |
jagatsargasthitihrāsahetave vṛṣaketave || 23||
karṇikādiṣviva svarṇamarṇavādiṣvivodakam |
bhediṣvabhedi yattasmai parasmai mahase namaḥ || 24||
yamekameva śrayato na jāyate
spṛhā parasmai mahate'pi nākine |
namaḥ samastāpadupetapālana-
vratāya tasmai vibhave pinākine || 25||
vidhau jagatsargavidhau yadāhitaṃ
pratiṣṭhitaṃ yatsthitikāraṇe vidhau |
samūḍhamūḍhārdhavidhau laye ca yat
parāya tasmai mahase namo namaḥ || 26||
namaḥ samutpāditatārakadviṣe
namastridhāmāśritatārakatviṣe |
namo jagattārakapuṇyakarmmaṇe
namo namastārakarājamaulaye || 27||
namo namaste'mṛtabhānumaulaye
namo namaste'mṛtasiddhidāyine |
namo namaste'mṛtakumbhapāṇaye
namo namaste'mṛtabhairavātmane || 28||
namastamaḥpāraparārdhyavṛttaye
namaḥ samastādhvavibhaktaśaktaye |
namaḥ kramavyastasamastamūrttaye
namaḥ śamasthārpitabhaktimuktaye || 29||
vijayajayapradāya śabarāya varāya namaḥ
sakalakalaṅkasaṅkaraharāya harāya namaḥ |
jagadagadapragalbhavibhavāya bhavāya namaḥ
pravaravaraprakāśitaśivāya śivāya namaḥ || 30||
iti kāśmīrakamahākaviśrījagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``namaskārātmakaṃ'' nāmakaṃ dvitīyaṃ stotraṃ sampūrṇam |
3. āśīrvādākhyaṃ tṛtīyaṃ stotram
nityaṃ nirāvṛti nijānubhavaikamāna-
mānandadhāma jagadaṅkurabījamekam |
digdeśakālakalanādisamastahasta-
mardāsahaṃ diśatu śarma mahanmaho naḥ || 1||
vyomnīva nīradabharaḥ sarasīva vīci-
vyūhaḥ sahasramahasīva sudhāṃśudhāma |
yasminnidaṃ jagadudeti ca līyate ca
tacchāmbhavaṃ bhavatu vaibhavamṛddhaye naḥ || 2||
lokatrayasthitilayodayakelikāraḥ
kāryyeṇa yo hariharadruhiṇatvameti |
devaḥ sa viśvajanavāṅmanasātivṛtta-
śaktiḥ śivaṃ diśatu śaśvadanaśvaraṃ vaḥ || 3||
sarvaḥ kilāyamavaśaḥ puruṣāṇukarma-
kālādikāraṇagaṇo yadanugraheṇa |
viśvaprapañcaracanācaturatvameti
sa trāyatāṃ tribhuvanaikamaheśvaro vaḥ || 4||
ekasya yasya sakalaḥ karaṇānapekṣa-
jñānakriyasya purataḥ sphurati prapañcaḥ |
paśyañjagat karatalā'malakīphalābhaṃ
lābhaṃ sa puṣyatu paraṃ parameśvaro vaḥ || 5||
yaḥ kandukairiva purandarapadmasadma-
padmāpatiprabhṛtibhiḥ prabhuraprameyaḥ |
khelatyalaṅghyamahimā sa himādrikanyā-
kāntaḥ kṛtāntadalano laghayatvaghaṃ vaḥ || 6||
sevānamannikhilakhecaramauliratna-
raśmicchaṭāpaṭalapāṭalapādapīṭhaḥ |
puṣṇātu dhāma kapiśīkṛtaśailaśaṛṅga-
tvaṅganmṛgāṅkamadhurākṛtirīśvaro vaḥ || 7||
aṅgaṃ bhujaṅgaracitāṅgadabhaṅgi tuṅgaṃ
tvaṅgattaraṅga gaganāṅganasaṅgi gaṅgam |
bibhradvibhurvihitaraṅgadanaṅgabhaṅga-
maṅgīkarotvaramabhaṅguramiṅgitaṃ vaḥ || 8||
yaḥ kuṇḍamaṇḍalakamaṇḍalumantramudrā-
dhyānārcanastutijapādyupadeśayuktyā |
bhogāpavargadamanugrahamānatānāṃ
vyānañja rañjayatu sa trijagadgururvaḥ || 9||
śambhoradabhraśaradabhratuṣāraśubhraṃ
bhrājiṣṇubhūtibharaśībharabhāsvarābham |
diśyādvapurbhasalanīlagalaṃ kalaṅkā-
laṅkāraśāradaśaśāṅkanibhaṃ śubhaṃ vaḥ || 10||
yenopadiṣṭamanapāyamupāyamāpya
svargāpavargavibhavairvibhavo bhavanti |
devaḥ sa vaḥ sakalakarmaphalopalambha-
visrambhabhūmirabhivāñchitasiddhaye'stu || 11||
mūlojjhitena kalikākalitena tāpa-
śāntikṣameṇa namatāmavipallavena |
sadyaḥphalena sumanobhirupāsitena
sthāṇuḥ śriye'stu bhavatāṃ vapuṣā'dbhutena || 12||
divyāpagāplavanapāvakasevanābhyāṃ
vibhrattanuṃ śucimapetakalaṅkaśaṅkām |
doṣānuṣaṅgarahitastimiroṣmaśāntyai
bhūyāddvijādhipatirīśvaravandito vaḥ || 13||
dānāmbunirbharakarastanayaḥ sa yasya
śrīmān sa yasya dhanadaḥ savidhe vidheyaḥ |
yaḥ saṃśritaḥ śirasi muktakareṇa rājñā
puṣṇātu vaḥ kanakavarṣaghanaḥ sa devaḥ || 14||
nirmatsarau nivasataḥ samamarkacandrau
nīrānalāvamṛtahālahalau ca yatra |
rājñā navena tadadhiṣṭhitamujjvalena
śārvaṃ vapurbhavatu vāñchitasiddhaye vaḥ || 15||
vaktā ca yaḥ sukhayitā ca vibhuḥ śrutīnāṃ
vakṣaḥ karaṃ ca vahate kamalāṅkitaṃ yaḥ |
yo mūrdhni varṣmaṇi ca haimavatīṃ bibharti
traidhaṃ bhavan bhavatu vaḥ sa śivaḥ śivāya || 16||
tāpatrayā'pahṛtaye triśikhaṃ trivarga-
siddhyai tridhāmalayanaṃ nayanatrayaṃ ca |
triḥsrotaso'pi salilaṃ trimalāpanutyai
bhūyāttrilokamahitaṃ tripuradviṣo vaḥ || 17||
yaddarśanā'mṛtasukhānubhavena dhanyā
netrotpalāni ciramardhanimīlitāni |
dṛṅmārgagocararavīndukaraprasaṅga-
bhaṅgyeva bibhrati śivaḥ śivadaḥ sa vo'stu || 18||
kālaṃ dṛśaiva śamayan saphalaprayāsaṃ
yaḥ śvetamuttamacamatkṛtikṛccakāra |
śvetaṃ yaśaḥ praśamayannasatāṃ satāṃ ca
kālaṃ kṛtārthayati yaḥ sa śivo'vatādvaḥ || 19||
babhrurbibhartyalikapāvakasauhṛdaṃ yo
yatrāhireti śikhinā saha sāmarasyam |
jūṭaḥ sa vaḥ samamarātibhirapyamarṣa-
muktāṃ sthitiṃ prathayatu pramathādhipasya || 20||
avyātsa vaḥ śirasi yasya vilocanāgni-
jvālāvalīḍhasurasindhujalopagūḍhaḥ |
adyāpi vāḍavaśikhāpariṇaddhamugdha-
dugdhābdhimadhyaga iva śriyameti candraḥ || 21||
avyātsa vaḥ sukṛtināmalikeṣu dhūlī-
paṭṭīkṛteṣu padareṇubhareṇa yasya |
dhātākṣarāṇi likhati kṣitipālamauli-
mālārcitāṅghrikamalo bhavitā bhuvīti || 22||
śaivī śivaṃ diśatu śītamarīcilekhā
jūṭāhiratnakiraṇacchuraṇāruṇā vaḥ |
devī navīnanakhalakṣmadhiyā pidhatte
yatsaṅkramaṃ kucataṭe paṭapallavena || 23||
devyāstadastu kucacūcukamindumauli-
dehārdhabaddhavasateramṛtāptaye vaḥ |
abhyeti yanmadanapūjyasuvarṇapīṭha-
pṛṣṭhapratiṣṭhitaharinmaṇiliṅgabhaṅgim || 24||
yāḥ kṣīrasindhulaharīvṛtamandarādri-
mudrāmanaṅgadamanasya nayanti jūṭam |
dvirbhāvitāviralasiddhasarittaraṅgā-
stā laṅghayantvaghamagharmaruco ruco vaḥ || 25||
lokatrayā'bhyudayajanmamahī mahīyaḥ
sthānādhirohaṇavidhāvadhirohiṇī yā |
sā candracūḍamukuṭadhvajavaijayantī
jahnoranihnutanayā tanayā'vatādvaḥ || 26||
bhālāgnikīlakalitākhilarandhrabhāgaṃ
bhargasya vo diśatu śarma śiraḥkapālam |
yatkālavahnivapuṣaḥ pacataḥ prabhūta-
bhūtavrajaṃ vrajati tasya mahānasatvam || 27||
cāndraṃ ca dhāma suranirjhariṇī jalaṃ ca
hastasthahemakalaśā'mṛtajīvanaṃ ca |
snigdhaṃ ca dṛgvilasitaṃ hasitaṃ sitaṃ ca
yuṣmākamūṣmaśamanāya bhavantu śambhoḥ || 28||
mūrdhni dyusindhudhavale dhavalendulekhā
kailāsaśailaśikhare dhavalaśca vāhaḥ |
nīhārahāriṇi vapuṣyapi bhūtireṣā
puṣṇātu vaḥ sadṛśasaṅghaṭanā śivasya || 29||
uttaptahemaruci candrakalā kalāpe
bālapravālarucire ca kare kapālam |
tāmre'dhare ca hasitaṃ sitamadbhuteyaṃ
vicchittirinduśirasaḥ kuśalaṃ kriyādvaḥ || 30||
śreyaḥ prayacchatu paraṃ suviśuddhavarṇā
pūrṇābhilāṣavibudhādhipavandanīyā |
puṇyā kavipravaravāgiva bālacandra-
cūḍāmaṇeścaraṇareṇukaṇāvalī vaḥ || 31||
hārīkṛtolbaṇaphaṇīndraphaṇendranīla-
nīlacchavicchuraṇaśāramuraḥsthalaṃ vaḥ |
puṣṇātu nihnu tanagendrasutākucāgra-
kastūrikāmakarikākiṇamindumauleḥ || 32||
yuṣmākamastu navanīlasarojadāma-
śyāmadyutiḥ sumataye śitikaṇṭhakaṇṭhaḥ |
yaḥ ketakīdhavalavāsukibhogayogā-
dnāṅgaughabhinnagaganāṅganabhaṅgimeti || 33||
kṣīrārṇavasya caraṇābjatale nivāsa-
māseduṣastanayamapratimaprasādaḥ |
yo mūrdhni lālayati bālamasau dayābdhi-
rdevastanotu mudamāśritavallabho vaḥ || 34||
yā rājahaṃsaśikhisambhṛtakāntireti
sadyastirohitaghanāvaraṇā prasādam |
sā prāvṛḍantaśaradādidineṣviva dyauḥ
śambhorabhīṣṭaphalapākakṛdastu dṛgvaḥ || 35||
antardhṛtāhimakarajvalanoditenduḥ
svaḥsindhusaṅgasubhagā parameśvarasya |
audanvatīva tanurastu gajāśvaratna-
śrīlābhakṛtsumanasāmamṛtāya dṛgvaḥ || 36||
yatrāgnirīpsati kaṇaṃ na vivṛtya jihvāṃ
naiti pratikṣapamapetavasustamarkaḥ |
kṣīṇastamindurapi na śrayati śriye'stu
śrīdhāma tatpuraripornayanatrayaṃ vaḥ || 37||
arkasya nodagayanaṃ śiśire'pi yatra
śītatviṣo na bahule'pi kalāpalāpaḥ |
kṣāmaṃ ca dhāma na vahatyapi vahnirahni
tattrāyatāṃ puraripornayanatrayaṃ vaḥ || 38||
yāmāśrito'mbaramaṇī ramaṇīyadhāmā
kāmāntakāvanalasā'nalasādvyadhādyā |
yāpīndusambhavasudhāvasudhā dṛśastāḥ
śarvasya vaḥ śivapuṣo vapuṣo bhavantu || 39||
puṣṇātu vaḥ prathamasaṅgamabhīrugaurī-
visrambhaṇapraṇayabhaṅgabhayākulasya |
tatkālakāryakaradarpakadehadāha-
jātānutāpamuragābharaṇasya cetaḥ || 40||
jūṭe kapālaśakalāni kalānidhiśca
haste sudhāmbu saralaṃ garalaṃ gale ca |
śakrādibhiśca namanaṃ gamanaṃ gavā ca
yasyāstu durgatiharaḥ sa haraḥ sadā vaḥ || 41||
yasya kṣitiḥ śirasi saumanasīva śeṣā
śeṣāhiraṅgadapade sa cakāsti yasya |
tasya prabhoramṛtanirjharanirviśeṣā-
śeṣāṇi hantu duritāni sarasvatī vaḥ || 42||
śrīmānakalpata na kalpataruryadāptyai
tṛṣṇā rasāyanarasāya na yaṃ sametya |
labhyo na yo gahanayogahavaiḥ sa vo'gha-
maprākṛto harakṛto haratu prasādaḥ || 43||
muktirhi nāma paramaḥ puruṣārtha eka-
stāmantarāyamavayanti yadantarajñāḥ |
kiṃ bhūyasā bhavatu saiva sudhāmayūkha-
lekhāśikhābharaṇabhaktirabhaṅgurā vaḥ || 44||
sa yatra guhabarhiṇo bhavabhujaṅgajihvāñcanai-
rgajāsyakarakarṣaṇaiḥ sa ca girīndrakanyāhariḥ |
sa cārkasutasairibho ravituraṅgaheṣāravai-
rmudaṃ dadhati dhāma taddiśatu śāmbhavaṃ dhāma vaḥ || 45||
yasmiñjātastribhuvanajayī bhagnakāmaḥ sa kāmo
yasmiṃllebhe śalabhalaghutāṃ prāptakālaḥ sa kālaḥ |
yasyaugho na prabhavati mahonihnave jāhnavīyaḥ
śreyaḥ preyaḥ prathayatu sa vaḥ śāmbhavo dṛktribhāgaḥ || 46||
yaḥ krodhāgneḥ samidhamakaroddarpakaṃ darpakanda-
cchedābhijñaṃ vyadhita jagatāṃ yaḥ kṛtāntaṃ kṛtāntam |
netuṃ yaśca prabhavati matihrāsamastaṃ samastaṃ
niṣpratyūhaṃ prathayatu pathi trāsade vaḥ sa devaḥ || 47||
pāyādvastrijagadguruḥ smaraharaḥ sopagrahāṇāṃ śiraḥ
śyāmākāmukamatsareṇa caraṇau paṅktirgrahāṇāmiva |
yasya prahvasurāsureśvaraśiromandāramālāgala-
tkiñjalkotkarapiñjaronmukhanakhaśreṇīnibhenāśritā || 48||
arkendubhaumabudhavākpatikāvyamandā
mandārakundakumudairyamudarcayanti |
tasya prabhoraghamaloṣmaśamādamandā
mandākinīva mudamarpayatu stutirvaḥ || 49||
bhasmoddhūlitamūrtirindudhavalajyotīrasorvīdhara-
skandhāsaktatuṣāragauravṛṣabhārūḍho'stu bhadrāya vaḥ |
devo dugdhamahābdhimadhyavikasatsatpuṇḍarīkopari-
krīḍadbālamarālanirmalaruciḥ kātyāyanīkāmukaḥ || 50||
trātā bhītibhṛtāṃ patiścidacitāṃ kleśaṃ satāṃ śaṃsatāṃ
hantā bhaktimatāṃ matāṃ svasamatāṃ kartā'pakartā'satām |
devaḥ sevakabhuktimuktighaṭanābhūrbhūrbhuvaḥsvastrayī-
nirmmāṇasthitisaṃhatiprakaṭitakrīḍo mṛḍaḥ pātu vaḥ || 51||
kṛṣṇena trijagatprasiddhavijayaprakhyātinā locanaṃ
bhaktyā vāsavasūnunā kṛtavatā pādābjapūjāvidhau |
yasmādāptasudarśanena nikhilaṃ viśvaṃ vidheyīkṛtaṃ
kṛṣṇeneva sa dhūrjaṭirghaṭayatu śreyāṃsi bhūyāṃsi naḥ || 52||
śrīkaṇṭhasya sakṛttikārtabharaṇī mūrtiḥ sadārohiṇī
jyeṣṭhā bhadrapadā punarvasuyutā citrā viśākhānvitā |
diśyādakṣatahastamūlaghaṭitāṣāḍhā maghālaṅkṛtā
śreyo vaiśravaṇāśritā bhagavato nakṣatrapālīva vaḥ || 53||
bhinddhi kṣmādharasandhibandhamudadherambhobharaṃ jṛmbhaya
kṣunddhi kṣmāpaṭalaṃ dalatphaṇiphaṇāpīṭhīluṭhatsauṣṭhavam |
piṇḍḍhi prauḍhacapeṭapāṭitaraṭattārākuṭumbaṃ nabhaḥ
prārabdhoddhatasāndhyatāṇḍava iti śrībhairavaḥ pātu vaḥ || 54||
bhūtyai vo'stu viḍambitasmitarutaṃ mūrdhnodhṛtasvardhunī-
nidhvānadhvanadānanairabhinaye bhūṣākapālaiḥ prabhoḥ |
tvaṅgattumburunāradāhatanadadgambhīrabherīrava-
vyāvalgadguhavāhabarhivihitakrīḍānusāraṃ vapuḥ || 55||
ādau pādatale kṛtasthitiratho(atha)prāptaḥ karālambanaṃ
vāllabhyaṃ śubhadṛṅniveśanavaśotpannaṃ prapannastataḥ |
ante yena śirodhiropaṇamahāmāhātmyamāpto vidhu-
rbhūtyai sa kramavarddhamānamahimā svāmiprasādo'stu vaḥ || 56||
yasyaikasya suvarṇasambhṛtapadanyāsānavadyakrama-
vyaktiḥ preṅkhati gauranargalagatisvācchandyahṛdyākṛtiḥ |
prakhyātādbhutasargabandharacanāsaṃrabdhirojasvinaḥ
kāvyasyodayabhūrasau bhavatu vaḥ prītyai purāṇaḥ kavi || 57||
rākendorapi sundarāṇi hṛdayagrāhīṇi bālāṅganā-
mugdhālāpakathāmṛtādapi paraṃ hārīṇi hārādapi |
apyuttālaśikhālabālavacasaḥ sampūrṇakarṇāmṛta-
syandīni trijagadguroḥ stutikathāsūktāni puṣṇantu vaḥ || 58||
śāṇollīḍhanavendranīlamahasi śrīkaṇṭhakaṇṭhasthale
saṃsaktā kanakacchavirgirisutādoḥkandalī pātu vaḥ |
yāmālokya sanīranīradadalaśliṣyattaḍidvibhrama-
bhrāntyā nojjhati caṇḍatāṇḍavanavollekhaṃ śikhī ṣāṇmukhaḥ || 59||
yatsargābharaṇāyamānavapuṣaḥ kecitkakupkāminī-
karṇālaṅkaraṇāyamānayaśasaḥ svargāyamāṇaśriyaḥ |
duṣkālānalasannasajjanasudhāvarṣāyamāṇoktayaḥ
prekṣyante mahimā sa yasya kurutāṃ śārvaḥ stavaḥ śaṃ sa vaḥ || 60||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``āśīrvādākhyaṃ'' nāmakaṃ tṛtīyaṃ stotraṃ sampūrṇam |
4. maṅgalāṣṭakaṃ caturthaṃ stotram
śrīkambukaustubhasudhāṃśuviṣāmṛtānāṃ
saudaryasauhṛdasukhānubhavaikadhāma |
yatsatyadharmakṛtaniṣpratighapratiṣṭhaṃ
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 1||
āpīḍabandhanavidhau śayane ca varṣma
paryāptabhogavibhavaṃ bahumanyamānaḥ |
yatra prahṛṣyatitarāmuragādhirāja-
stanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 2||
ardhaṃ yadutpaladalairumayendugaura-
mardhaṃ śriyārcitamalidyuti mālatībhiḥ |
vicchittimetyanimiṣekṣaṇaśuktipeyāṃ
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 3||
keśāśritā nayanavahniśikhābhrasindhu-
jhāṅkāragarbhavapuṣo jaladā vahanti |
yatrādbhutaṃ sthirataḍidrasitaprasaṅgaṃ
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 4||
hīnārdhanābhinalinālayasaṅkaṭatva-
sātaṅkasaṅkucitavṛttikadarthitāṅgaḥ |
ardhīcikīrṣati tanuṃ druhiṇo'pi yatra
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 5||
dṛgvartinau ravitamīramaṇāvakhaṇḍa-
mūrtī nijaṃ ca vapurardhamavetya vahniḥ |
yatrādhikaṃ jvalati lāghavamāgatopi
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 6||
yasmin guṇī sahṛdayaḥ saphalaḥ samūlaḥ
svātantryadhāmani karāt patitaḥ sa padmaḥ |
kambuḥ sthitastu dhṛtatadviparītarīti-
stanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 7||
pādāgranirgatamavāritameva vāri
yatrādhirohati śirastridaśāpagāyāḥ |
atyadbhutaṃ ca ruciraṃ ca niraṅkuśañca
tanmaṅgalaṃ diśatu hāriharaṃ vapurvaḥ || 8||
iti kāśmīrakamahākaviśrījagaddharaviracite
bhagavato maheśvarasya stutikusumāñjalau
``maṅgalāṣṭakaṃ'' nāma caturthaṃ stotraṃ sampūrṇam |
5. kavikāvyapraśaṃsākhyaṃ pañcamaṃ stotram
āpannatāpaharaṇapravaṇā ghṛṇeva
tvaṅgattaraṅgasubhagā gaganāpageva |
pīyūṣasāraśiśirā śaśabhṛtkaleva
vāṇī śivaikaśaraṇā jayatīśvarīva || 1||
yo mūrdhani srajamivodvahate dharitrī-
muṣṇīṣatāṃ śrayati yasya sa bhogirājaḥ |
yasyāmasau vasati vākpatiruktidevīṃ
tāṃ ye vahanti hṛdi te kavayo jayanti || 2||
dhanyāḥ śucīni surabhīṇi guṇombhitāni
vāgvīrudhaḥ svavadanopavanodgatāyāḥ |
uccitya sūktikusumāni satāṃ
viviktavarṇāni karṇapulineṣvavataṃsayanti || 3||
śrotrāṇyanargalagalanmadhubindugarbha-
sandarbhasundarapadopacitairvacobhiḥ |
dhanyāḥ satāṃ sukavayaḥ sukhayanti te'pi
teṣāmakṛtrimacamatkṛtisādhuvādaiḥ || 4||
te kecidaskhalitabandhanavaprabandha-
sandhānabandhuragiraḥ kavayo jayanti |
yeṣāmacarvitarasāpi camatkaroti
karṇe kṛtaiva bhaṇitirmadhurā sudheva || 5||
te'nantavāṅmayamahārṇavadṛṣṭapārāḥ
sāṃyātrikā iva mahākavayo jayanti |
yatsūktipelavalavaṅgalavairavaimi
santaḥ sadaḥsu vadanānyadhivāsayanti || 6||
jihvāgraraṅgabhuvi satkaviturvilāsa-
lāsyotsavavyasaninī svayamuktidevī |
bhrūkāṇḍakuṇḍalakirīṭaśirodharāṇāṃ
nṛttopadeśagurutāṃ kṛtināmupaiti || 7||
āvarjayanti maṭharāñjaṭharārthamātra-
pātrīkṛtārthakaṇikā gaṇikāviṭādyāḥ |
prauḍhān punarbhujagabhūṣaṇabhaktisikta-
sūktāvalīviracanācaturāḥ kavīndrāḥ || 8||
dhanyaḥ sa ko'pi sukaviḥ kavikarmakṛtta-
lokārti kārtikatuṣārakarānukāri |
gāyanti yasya kṛtinastrijagatpavitraṃ
citraṃ caritramiva bālamṛgāṅkamauleḥ || 9||
trailokyabhūṣaṇamaṇirguṇivargabandhu-
rekaścakāsti savitā kavitā dvitīyaḥ |
śaṃsanti yasya mahimātiśayaṃ śirobhiḥ
pādagrahaṃ vidadhataḥ pṛthivībhṛto'pi || 10||
yasya sravantyamṛtameva mukhe tuṣāra-
hārābhirāmarucirañcitavakrabhaṅgiḥ |
sūktirdyusindhuriva mūrdhni harasya candra-
lekheva vā vasati taṃ sukaviṃ namāmaḥ || 11||
yātā guṇairupacayaṃ vimalā prakṛtyā
naisargikīṃ pariṇatiṃ prathamāṃ vahantī |
buddhiḥ satāṃ śaśikalāmukuṭaprasādā-
dvāṇī ca na kvacidapi pratighātameti || 12||
candrāvacūḍacaraṇasmaraṇaprasāda-
sandarbhanirbharagabhīragirāṃ kavīnām |
sūktirbibharti mukhapaṅkajaraṅganṛtya-
dvāgdevatākanakanūpuranādalīlām || 13||
kāvyaṃ vibhāvya nijamardhanimīlitāni
naisargikaṃ jahati cāpalamīkṣaṇāni |
gṛhṇanti tanmasṛṇatāṃ sahajāṃ vihāya
bhrūvallayastu kṛtināṃ kavipuṅgavānām || 14||
nīhārahāradhavalasya jayatyapūrvaḥ
pākaḥ sa ko'pi sukṛtasya kṛtasya pūrvam |
yaḥ samprati pratiphalatyamalāsu bāla-
candrāvacūlanutisūktiṣu satkavīnām || 15||
sūkṣmārthadarśanavimarśavaśaprarūḍha-
bhrūkāṇḍatāṇḍavaniveditacidvikāsam |
āsvādya yatsumatayo mukhamudvahanti
sūktāmṛtaṃ jayati tatkavikuñjarāṇām || 16||
śabdārthamātramapi ye na vidanti te'pi
yāṃ mūrchanāmiva mṛgāḥ śravaṇaiḥ pibantaḥ |
saṃruddhasarvakaraṇaprasarā bhavanti
citrasthitā iva kavīndragiraṃ numastām || 17||
labhyaḥ sa kutra sujanaḥ svakṛtīḥ pradarśya
bhrūkandalīyugalamākalayanti yasya |
netrotpalopariparisphuraduttaraṅga-
bhṛṅgāvalidvitayavibhramabhṛt kavīndrāḥ || 18||
sphāreṇa saurabhabhareṇa kimeṇanābhe-
stadghānasāramapi sāramasārameva |
sraksaumanasyapi na puṣyati saumanasyaṃ
prasyandate yadi madhudravamuktidevī || 19||
saṃsāramāravapathaprathamānakheda-
vicchedakovidamidaṃ kavikarmma jīyāt |
vismāritaṃ yadamunā yamunāsanāthaṃ
pāthaḥ prasiddhamapi vaibudhasaindhavaṃ naḥ || 20||
gāmbhīryaśālini śucāvamṛtaughaśīte
nīte sadā sadanatāṃ madanāntakena |
yasyaikapiṅgalagireriva mānase'nta-
rarthāḥ sphuranti sa vinā sukṛtaiḥ kva labhyaḥ || 21||
yasya dyusindhulaharīśucayo na kasya
dṛṣṭiprasādamavalokayato'rpayantyaḥ |
gāvaḥ sudhārasamucaḥ prasaranti dikṣu
viśvaikabhūṣaṇamasau jayati dvijendraḥ || 22||
saṃyogametya paramarthapariṣkṛtasya
pādāntago'pi gurutāṃ laghureti yasya |
taṃ śaṅkarastutiparaṃ pariśuddhavṛttaṃ
suślokamāpya mudameti na kasya cetaḥ || 23||
iha hi mahimā māyāmohaprarohatirohita-
trijagadagadaṅkāraḥ sārasvataḥ prathate satām |
prabhavati jarāmṛtyuvyādhiprabandhanibandhana-
vyasanajanitavyāpattāpaklamāpagamāya yaḥ || 24||
camatkārotkarṣaṃ kamapi kamanīyaṃ vimṛśatāṃ
diśantī sā kācijjayati kavivācāṃ pariṇatiḥ |
yadāsṛṣṭe (yadātuṣṭe)cetasyamṛtamiti niśreyasamiti
priyaṃ dhāmetyuccaiḥ padamiti samudyanti matayaḥ || 25||
madhusyandī mandīkṛtavipadupādhirbhavamaru-
bhramakleśāveśapraśamakamanīyo vijayate |
akhaṇḍaśrīkhaṇḍadravanavasudhāsārasarasaḥ
prasādo vāgdevyāḥ pravarakavikāvyāmṛtavapuḥ || 26||
ghanānandasyandodgata (spandodgata)vipulavāṣpārdranayanaṃ
salīlabhrūvallīvalanavivaladbhālapulinam |
udañcadromāñcastavakitakapolaṃ vidadhate
sudhārdrā dhanyānāṃ vadanamanavadyāḥ kavigiraḥ || 27||
dhanyānāmamṛtaṃ dravanti hṛdaye karṇe valanmallikā-
laṅkārastavakanti kaṇṭhapuline muktākalāpantyapi |
śailāndolitadugdhasindhulaharībhaṅgābhirāmodgamā
śyāmākāmukakhaṇḍamaṇḍanakathāsandarbhagarbhā giraḥ || 28||
dhanyānāṃ bhaṇiticchalena vadaneṣūdyanti hṛtkarṇikā-
dhāmnaḥ sūktisudhāvabodhavidhutāpīḍasya caṇḍīpateḥ |
kiṃ jūṭāhikirīṭaratnarucayaḥ kiṃ sragrajaḥsūcayaḥ
kiṃ maulīndumarīcayaḥ kimamarasrotasvatīvīcayaḥ || 29||
sāndrānandakare dhṛtāmṛtakare nāstyeṣa rākākare
na prauḍhaprasare nisargaśiśire svargāpagānirjhare |
gāḍhapremabhare smarajvarahare noddāmarāmādhare
yaḥ śambhormadhure stutivyatikare hlādaḥsudhāsodare || 30||
ojasvī madhuraḥ prasādaviśadaḥ saṃskāraśuddho'bhidhā-
bhakti vyaktiviśiṣṭarītirucitairarthairdhṛtālaṅkṛtiḥ |
vṛttasthaḥ paripākavānavirasaḥ sadvṛttiraprākṛtaḥ
śasyaḥ kasya na satkavirbhuvi yathā tasyaiva sūktikramaḥ || 31||
prāptā kalpalateva cedbhagavatī vāgīśvarī kairapi
prākpuṇyaiḥ svaparopakārakaraṇaprauḍhā punardurlabhā |
ajñaistajjñajanopadeśavihitāvajñairdurāśāhatai-
rastā durmadakardame phalati kiṃ pāpaṃ saśāpaṃ vinā || 32||
visrabdhaṃ vilasantyupaskṛtapadanyāsā vilāsālasā
sāhaṅkāramakāraṇāribhirabhidhyātā'bhijātākṛtiḥ |
kṣiptā dṛptanṛpāndhakūpakuhare dāśairivāśāgrahai-
rgrastaiḥ sūktinibhena tārakaruṇaṃ gaurīdṛśī roditi || 33||
uṣṇaṃ niḥśvasiti kṣitiṃ vilikhati prastauti na preyasaḥ
prītiṃ sūktibhirīśituḥ karatale dhatte kapolasthalam |
vāgdevī hṛdayajvareṇa guruṇā krāntā hatāśairvṛthā
nītāviṣkṛtakopaniṣkṛpanṛpastotratrapāpātratām || 34||
asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate
dhikkārāya parābhavāya mahate tāpāya pāpāya vā |
sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye
ceto nirvṛtaye paropakṛtaye prānte śivāvāptaye || 35||
etāḥ pūrvakavipraṇītavividhagranthā'mṛtāsvādana-
krīḍādurlalitaṃ haranti hṛdayaṃ vācaḥ kathaṃ dhīmatām |
keṣāñcitpunarīśvarastutipadavyāhārahevākināṃ
yāsyanti spṛhaṇīyatāṃ bhuvi bhavakleśaspṛśāṃ mādṛśām || 36||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``kavikāvyapraśaṃsākhyaṃ'' nāma pañcamaṃ stotraṃ sampūrṇam |
6. harāṣṭakaṃ ṣaṣṭhaṃ stotram
jayatyakhilakhecarapravaramauliratnaprabhā-
prarohaparipīvarīkṛtanakhāṃśupādāmbujaḥ |
viśālanayanatrayīracitadhāmadhāmatrayī-
tiraskṛtajagatrayīpariṇatāndhakāro haraḥ || 1||
jayatyamaradīrghikāsalilasekasaṃvardhita-
pracaṇḍanayanānalaglapitatīvratāpavyathaḥ |
acintyacaritojjvalajvaladananyasādhāraṇa-
prabhāvamahimāhitatribhuvanāpakāro haraḥ || 2||
jayatyacalakanyakālalitadorlatāliṅgita-
sphuradgaralakālimākalitakāntakaṇaṭhasthalaḥ |
taḍidvalayalaṅghitollasadamoghameghabhrama-
pramattaguhabarhiṇopahṛtanṛttaharṣo haraḥ || 3||
jayatyaviralocchaladgaralavahniheticchaṭā-
saṭālaphaṇabhīṣaṇakṣapaṇapāśamokṣakṣamaḥ |
udārakaruṇārasaprasarasārasiktāśayaḥ
prapannavipadarṇavottaraṇakaṇadhāro haraḥ || 4||
jayatyudadhiniḥsaradgaranigāralabdhā'bhaya-
pramodabharanibharatridaśadaityavṛndastutaḥ |
rasātalatalodgatajvaladalaṅghyaliṅgāllasa-
nmahāmahimamohitadruhiṇavāsudevo haraḥ || 5||
jayatyatulavikramonmiṣadakharvagarvajjvara-
jvalaccapalamanmathonmathanabhagnabhogaspṛhaḥ |
daśāsyabhujamaṇaḍalītaralitaikapiṅgācala-
trasadgirisutāhaṭhagrathitakaṇaṭhapīṭho haraḥ || 6||
jayatyakalitollasanmadabharoddharāndhāsura-
pratiṣkaraṇasāntvanaprathitanigrahā'nugrahaḥ |
jagattrayabhayaṅkaratripuraghoradāvāvalī-
salīlakavalīkṛtipralayavārivāho haraḥ || 7||
jayatyaghavanāśaniḥ sumatimādhavīmādhavaḥ
kṛpāmṛtapayonidhirbhavamahārṇavaikaplavaḥ |
vipattṛṇasamīraṇaḥ praṇayicittacintāmaṇiḥ
samastabhuvanodayapralayakelikāro haraḥ || 8||
|| iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``harāṣṭakaṃ'' nāma ṣaṣṭhaṃ stotraṃ sampūrṇam |
7. sevābhinandanaṃ saptamaṃ stotram
niśāntanidreva daśeva śaiśavī
navīnavadhvāścakiteva dṛkchaṭā |
surasravantīva katheva śāmbhavī
kavīndravāṅnirvṛtimātanotu vaḥ || 1||
alaukikāhlādanibandhanaṃ manaḥ
prasādanaṃ svānubhavaikasakṣikam |
prakāśatāṃ vo hṛdi pārameśvaraṃ
maho rahasyaṃ sukavergirāmiva || 2||
sa yasya cāpātsapadi cyuto'cyutaḥ
śikhābhirugro viśikhaḥ śikhāvataḥ |
purāṇyakārṣīdapurāṇi bhairavo
bhayāni bhindyādabhavo bhavaḥ sa vaḥ || 3||
sa yasya pṛṣṭhe caraṇārpaṇaṃ vṛṣā
vṛṣādhirohe kalayatyanugraham |
trilokanāthaḥ sa girā sudhāvṛṣā
vṛṣākapistāpamapākarotu vaḥ || 4||
sa yasya pādadvayamiddhaśāsanaḥ
sadā samabhyarcati pākaśāsanaḥ |
prabhuḥ prasādā'malayā dṛśā sa naḥ
kriyādvipadbhaṅgamanaṅgaśāsanaḥ || 5||
camūrjayanbhījanakānakā na kāḥ
sa yasya sūnuḥ klamahā mahāmahāḥ |
jaṭāḥ sa bibhrattaruṇāruṇāruṇāḥ
śriyaḥ kriyādvaḥ śubhayābhayā'bhayā || 6||
mayi dhruvaṃ dṛgbhavatā vatā'vatā
kṛpāmṛtārdrā mahitā hitā''hitā |
atastavāstapramayāmayā mayā
kṛtā nutiḥ sātiśayāśayā''śayā || 7||
anabhravarṣapratimaṃ vimatsarā
narā jarāruṅmaraṇārttibhīravaḥ |
mudhā sudhāsūtivataṃsaśaṃsanaṃ
vihāya dhāvanti rasāyanāya kim || 8||
maṇiḥ susūkṣmo'pi yatholbaṇaṃ viṣaṃ
kṛśopi vahniḥ sumahadyathā tṛṇam |
śiśurmṛgendropi yathā gajavrajaṃ
tanuḥ pradīpo'pi yathā tamobharam || 9||
yathālpamapyauṣadhamunmadaṃ gadaṃ
yathāmṛtaṃ stokamapi kṣayādbhayam |
dhruvaṃ tathaivāṇurapi stavaḥ prabhoḥ
kṣaṇādaghaṃ dīrghamapi vyapohati || 10||
amandasandarbhagabhīravibhramaḥ
pragalbhavaidarbhapariśramaḥ kramaḥ |
avaśyamāsādya guṇocitaṃ vibhuṃ
bibhartti saubhāgyamabhaṅguraṃ giraḥ || 11||
yathā hi śīlena vinā kulāṅganā
yathā vivekena vinā manīṣitā |
sadarthabodhena vinā yathā śruti-
rmahībhujaṅgena vinā yathā mahī || 12||
yathā vinā dyauraravindabandhunā
vinā śaśāṅkena yathā niśīthinī |
vidagdhavargeṇa vinā yathā sabhā
vinā vibhūtirvinayena vā yathā || 13||
kṛpāvipākena vinā yathā mati-
ryathā suputreṇa vinā gṛhasthitiḥ |
tathaiva śocyā hariṇāṅkaśekhara-
stavopayogena vinā sarasvatī || 14||
ramāpi devī mama no manoramā
kṣamāpi māmabhyavapattumakṣamā |
mama kṣamaikā bhagavatparānuti-
rbhavārttibhaṅge sarasā sarasvatī || 15||
acetano yaḥ kila kusthitipriyaḥ
pṛthagvidhopādhiśatakṣatāśayaḥ |
niṣevyate pādatale sa yadgiri-
ściraṃ munīndrairapi śuddhamānasaḥ || 16||
nisargataḥ satpathagarhitasthiti-
rmalīmaso jihmagatiśca yaḥ phaṇī |
sa kuṇḍalī yanmaṇimaulimaṇḍito
mahābhujaṅgaḥ pṛthubhogabhāgapi || 17||
yadapyajasraṃ jaḍasaṅgamocitaḥ
svabhāvatucchaḥ śaśabhṛt kalāmayaḥ |
kalaṅkamuktaṃ vahate sudhāmayaṃ
vidhūtadoṣodayamujjvalaṃ vapuḥ || 18||
sa eṣa gaurīśvarasaṃśrayātmanaḥ
phalodgamaḥ kalpamahāmahīruhaḥ |
amuṃ samāsādayituṃ hitāyati-
ryateta ko nāma na cetano janaḥ || 19||
nidāghanirdagdhamahāmarubhrama-
klamacchido mārgamahīruhādapi |
kalindakanyāsalilaughasaṅgata-
trimārgagāmbhobharasamplavādapi || 20||
sarasvatīsaubhagasārasambhṛta-
prasannagambhīrapadakramādapi |
kuraṅganābhīghanakuṅkumāṅkita-
stanāṅganāliṅganavibhramādapi || 21||
amandamānandasudhārasadravaṃ
sravannavandhyaṃ bhavaduḥkhite hṛdi |
iyatyamuṣminbhuvanādhvani dhvani-
rnamaḥ śivāyeti camatkaroti me || 22||
vicintayañjīvanameva jīvanaṃ
samarthayan pārthivameva pārthivam |
vibhāvayan vaibhavameva vai bhavaṃ
kadā''śraye śaṅkarameva śaṅkaram || 23||
varaṃ bhavedapyavaraṃ kalevaraṃ
paraṃ harārādhanasādhanaṃ hi yat |
na tu kratudhvaṃsiniṣevaṇotsavaṃ
vinighnatī muktirayuktipātinī || 24||
kva nīlakaṇṭhāyatanopasarpaṇa-
sphuṭopakārau caraṇau mahāguṇau |
kva cāñcanodvarttanacarcanādibhiḥ
purāripūjārpaṇatarpaṇau karau || 25||
kva nāma nāmagrahaṇotsavaṃ vibho-
rabhipravṛttā rasanā dine dine |
kva cādriputrīpatipādapaṅkaja-
sphuradrajorājivirājitaṃ śiraḥ || 26||
kva dṛkciraṃ pāritacandraśekhara-
svarūpasaubhāgyavilokanaspṛhā |
kva santatākarṇitadarpakadviṣa-
dvicitracāritrapavitritā śrutiḥ || 27||
kva nirdhutā'nalpavikalpaviplava-
trilocanadhyānanibandhanaṃ manaḥ |
kva cā'pavargo'yamamārga eva yaḥ
smarārisevāsukhasarvasampadām || 28||
idaṃ vidantaḥ sudhiyo bhiyojjhitāḥ
samādhimādhicchidamāśritā api |
prabhupraṇāmastuticintanārcana-
sphuṭopayogaṃ bahu manvate vapuḥ || 29||
kimaṅgamaṅgalyamanaṅgabhaṅgada-
prasādanādanyadadhanyamanyase |
yadarthamarthakṣatikṛtsuduṣkaraprayāsa-
sādhyeṣu makheṣu khidyase || 30||
imā himānīvimalā havirbhujāṃ
prabhuprasādaprabhavā vibhūtayaḥ |
karoṣi yattarpaṇamātrakāmyayā
dayāspadaprāṇyupaghātapātakam || 31||
sakhe ! sakhedasya dhanārjanaṃ prati
pratigrahādhyāpanayājanādibhiḥ |
prayāti te vāyurivāyuriṅgitaṃ
vihanti hanta kratave tavehitam || 32||
ataḥ svataḥ prārthitasampadāṃ padaṃ
kadarthanāhīnamadīnamenasā |
nidānamānandabhuvaḥ svayambhuvo
bhajasva pādāmbujasevanotsavam || 33||
akleśapeśalamalaṅghyakṛtāntadūta-
huṅkārabhaṅgabhiduraṃ duritendhanāgnim |
ko nāma nāmayaharaṃ harapādapadma-
sevāsukhaṃ sumatiranvahamādriyeta || 34||
romanthamantharakuraṅgaśatāśriteṣu
bhāgīrathīśiśiraśīkaraśītaleṣu |
rohanmahārhaphalakandalasundareṣu
baddhāspadāstuhinabhūdharakandareṣu || 35||
dhanyāḥ samādhimavadhānadhanā dhanādi-
sambandhabandhamavadhūya dhiyā'dhiyantaḥ |
jyotiḥ paraṃ galadanalpavikalpajāla-
mālokayanti bhagavantamanantamantaḥ || 36||
dhanyā bhajanti nṛpaveśmasu vetrivaktra-
huṅkārakātaradhiyastaruṇendumaulim |
vairāgyanirvṛtamanasvijanāvakīrṇa-
svargāpagāpulinabālalatālayeṣu || 37||
santaḥ smaranti śaśikhaṇḍaśikhaṇḍasevā-
hevākinaḥ surasaritpulinasthaleṣu |
lakṣmīlavollasadamandamadā'valepa-
bhūpālavāliśavilaṅghanaviplavānām || 38||
idaṃ madhumukhaṃ viṣaṃ harati jīvitaṃ tatkṣaṇā-
dapathyamidamāśitaṃ vyathayate vipāke vapuḥ |
idaṃ tṛṇagaṇāvṛtaṃ vilamadho vidhatte kṣaṇā-
dyadatra malinolbaṇairdraviṇamarjitaṃ karmabhiḥ || 39||
ataḥ pratanuvaibhavodbhavadakhardagarvakṣamā-
patipraṇayasambhavaṃ bhuvi viḍambanāḍambaram |
vihāya suravāhinīpulinavāsahevākino
bhajanti kṛtinastamīramaṇakhaṇḍacūḍāmaṇim || 40||
kiṃ bhūyobhiḥ paruṣaviṣayaiḥ śrīvikārairasāraiḥ
kiṃ vā bhūyaḥ patanavirasaiḥ svargabhogābhilāṣaiḥ |
manye nā'nyadbhavabhayavipatkātarāṇāṃ narāṇāṃ
muktvā bhaktiṃ bhagavati bhave śasyamāśāsyamasti || 41||
dūrodañcaccaṭulalaharīhārihastavyudasta-
vyāpattāpatridaśataṭinīmajjanonmajjaneṣu |
śraddhābandhaṃ śaśadharaśiraḥpādarājīvasevā-
hevākaikavyasanamanasastena tanvanti santaḥ || 42||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``sevābhinandanaṃ'' nāmakaṃ saptamaṃ stotraṃ sampūrṇam |
8. śaraṇāśrayaṇaṃ aṣṭamaṃ stotram
kalyāṇinaḥ suragireriva saṃśritasya
lakṣmyā hareriva raveriva dīptibhājaḥ |
padyasya śambhuviṣayasya jayanti pādā
ye maṇḍayanti ca punanti ca viṣṭapāni || 1||
yāḥ paṅkilena kalilena viyojayanti
nityojjvalena kuśalena ca yojayanti |
tā dhūrjaṭeramaranirjhariṇītaraṅga-
bhaṅgābhirāmagatayaḥ stutayo jayanti || 2||
saṃsāradāruṇadavānaladahyamāna-
vākcittakāyakuśalīkaraṇauṣadhāni |
śrībhuktimuktivaśakarmmaṇi kārmaṇāni
śambhorjayanti nuticintanapūjanāni || 3||
doṣākarasya śirasi sthitimuttamāṅga-
cchedaṃ vidheravirahaṃ naravāhanasya |
bhasmīkṛtiṃ tripurapāśadharasmarāṇāṃ
vaśyaṃ diśāñca daśakaṃ daśakandharasya || 4||
śauryānalasya paraśuvyajanena dīptiṃ
rāmasya bāhuparighapratighaṃ maghonaḥ |
haimaṃ maruttanṛpaterdivasāni sapta
varṣaṃ sudarśanasamarpaṇamacyutasya || 5||
śvetasya kaṇṭhapulinātsamavartipāśa-
protsāraṇaṃ nayananirharaṇaṃ bhagasya |
dugdhābdhidānamupamanyumuneḥ kriyāsu
dakṣasya vighnakaraṇaṃ makhadīkṣitasya || 6||
śūlādhirohaṇaparābhavamandhakasya
pūṣṇo hanugrahamanugrahamarjunasya |
nandīśvarasya ravijādabhayaṃ bhujaṅga-
bhaṅgyābhimānamathanaṃ munimāninīnām || 7||
kiṃ vā'paraṃ druhiṇakṛṣṇaharatvametya
sargasthitipraśamanāni jagattrayasya |
krīḍanniva vyadhita yena niraṅkuśaṃ tat
svātantryamapratihataṃ jayatīśvarasya || 8||
yasyā'tighoragaralādapi kaṇṭhapīṭhā-
tsañjīvanauṣadhamudeti vaco natānām |
yasya jvaladghanakṛśānuśikholbaṇāpi
varṣatyamoghamamṛtadravameva dṛṣṭiḥ || 9||
daṃṣṭrākarālamapi ghoramaghoravakttraṃ
yasya prapannabhayabhañjanabhaṅgimeti |
yasyāṅgabhasmakaṇikāścaraṇāśriteṣu
karpūradhūlipaṭalaśriyamāśrayanti || 10||
yasyāpi kṛṣṇabhujagā bhujagā bhajanta-
mindīvarasraja iva pravinandayanti |
kiṃ cāṅgasaṅgi marudīritameti yasya
muṇḍaṃ namatsvamalamaṅgalakambuśobhām || 11||
yasyebhacarmaghanaśoṇitapaṅkalipta-
maṅgeṣu maṅgaladugūla vilāsameti |
yasyāpi tāpavidhureṣu kare kapāla-
mālambate'mṛtakamaṇḍalukhaṇḍalīlām || 12||
yatpādapāṃsuparimarśaśuci śmaśānaṃ
śrīśailanaimiṣamukhānyadharīkaroti |
yatsaṃstavādavikalaṃ kuśalaṃ kapāla-
pālī karoti kṛtināṃ kamalāvalīva || 13||
yaṃ devamastaśirasaṃ surabhartturaṅke
laṅkeśavairikaravījitatālavṛntam |
āsīnasuptasukhitaṃ śatarudriyādi-
mantraiḥ svareṇa madhureṇa gṛṇāti vedhāḥ || 14||
helāvalīḍhabhuvanatritayena yena
gīrṇāḥ purandaramukundaravīndavo'pi |
yasya jvaladvipulabhālavilocanāgni-
jvālāvalīśalabhatāmagamatsa kālaḥ || 15||
śvetaṃ vidhorudayahetumavetya pakṣaṃ
kālaṃ ca yaḥ kṣayakaraṃ dṛśamāśritasya |
śvetaṃ dayāviśadayāśu dṛśānugṛhya
kālaṃ dṛśaiva nayati sma śamaṃ vipakṣam || 16||
cakrī mukhāgravilasajjvalanograjihvā-
līḍhāmbaraḥ kṣitidharendradhanurdharasya |
yasyāgamannidhanasādhanatāṃ purāṇāṃ
vāṇīkṛtaśca raṇamūrdhni guṇīkṛtaśca || 17||
cakrāyudhaṃ viśikhatāmuḍucakravarti-
cakrābhidhānasuhṛdau rathacakrabhāvam |
nītvā'sṛjattridaśadhāmni rasātale ca
yo harṣaśokamayamaśru purāṅganānām || 18||
ārūḍharīḍhamapi yena samarpitena
prītiṃ ratiṃ ca hṛdi vismarati sma kāmaḥ |
taṃ dṛṣṭipātamadhigamya bibharti yasya
prītiṃ ratiṃ ca hṛdi ko na susiddhakāmaḥ || 19||
kṛṣṇopadarśitapathaḥ pṛthuloṣmabhīṣma-
ślāghyaṃ dadhadvapurupāttavanāntavāsaḥ |
vyādhākṛterapi dhanañjaya eva yasya
dṛggocare kṛtapado mahasā didīpe || 20||
yuktaṃ sudhākarasudhākarakadyusindhu-
toyādi yanmanasi tāpamapākaroti |
yasyāṅgasaṅgi śavabhasmakapālamālā-
hālāhalāhidahanādyapi hṛdyameva || 21||
mūrtiḥ kṛmeḥ śatapadī śravaṇaṃ praviṣṭā
dṛṣṭā rujāmasuhṛtaṃ sṛjatī janānām |
saurī tanurnanu sahasrapadī yadīya-
netrasthitā harati mṛtyubhayaṃ śritānām || 22||
ākarṇya yaḥ kṛpaṇamārttavacaḥ kṛpābdhi-
rādhūtamūrdhasuranirjhariṇīkaṇaughaiḥ |
utsaṅgasaṅgatagirīndrasutākucāgra-
saṃsaktamauktikamaṇīndviguṇīkaroti || 23||
udgāḍhabhaktividhuravyapanītatīvra-
doṣāndhakāramatimātraśuciprakāśam |
pīyūṣamudvamati yasya viviktavarṇaṃ
karṇāntagāmi vacanaṃ ca vilocanaṃ ca || 24||
pātrībhavanti na yadaṅghrisarojareṇu-
maitrīpavitraśirasaḥ sthirasatyavācaḥ |
sāṭopakopavikaṭabhrukuṭicchaṭānā-
muttālakālabhaṭavakravibhīṣikāṇām || 25||
sūktiṃ śuciṃ śravaṇayoramṛtaṃ sravantīṃ
vakrāmabhaṅguraguṇāṃ mahatīṃ vahantaḥ |
gāyanti yaṃ śritavataḥ pariśuddhavaṃśa-
vidyā yaśāṃsi kavayaḥ parivādakāśca || 26||
yatsevakasya madanolbaṇabāṇapūga-
krāntā'likāntavikasattilakojjvalaśrīḥ |
sevyā bhavatyavasare kalakaṇṭhanāda-
hṛdyā vadhūḥ kusumitopavanasthalī ca || 27||
yasminnakhinnamanaso vyasanāvasanna-
santāpaśāntikṛtasammatayo vasanti |
kātyāyanī ca karuṇā ca kalā ca cāndrī
snigdhā ca dṛk surasaricca sarasvatī ca || 28||
santāpasampadapahārapaṭūni siddha-
sindhorivendudhavalāni jalāni yasya |
ākalpayanti madayanti pavitrayanti
sañjīvayanti ca jaganti bhṛśaṃ yaśāṃsi || 29||
duṣkālasaṅkaṭakaṭāhakadarthitānāṃ
tīvrābhimānamanasāṃ ghanasārabhāṃsi |
bhindantyamandaharicandanabinduvṛnda-
sandohadohadamaho caritāni yasya || 30||
phullāravindamakarandadhṛtaprasaṅga-
bhṛṅgāṅganāgumagumāravagītigarbham |
gāyanti yasya caritaṃ haritāmadhīśā
dhīśālinaḥ kamalinīpulinasthalīṣu || 31||
vyaktojjvalālikacitaṃ mukhamāyatākṣaṃ
vistīrṇakarṇikamanargalarūḍhanālam |
yaṃ śaṃsato'dhivasati svayamuktidevī
rājīvasadmakamalā vijigīṣayeva || 32||
āpannabāndhavamabandhyavacovilāsa-
māsannamajjananamajjanasāntvaneṣu |
devaṃ sudhākarakiśorakṛtāvataṃsaṃ
taṃ saṃśritārttiharaṇaṃ śaraṇaṃ śrayāmi || 33||
devaṃ śrayāmi tamahaṃ mukuṭoragendra-
sphūrjatphaṇāmaṇisahasramiṣeṇa yasya |
bhālānalena surasindhujalokṣitena
pronmuktamaṅkurasahasramivācakāsti || 34||
sānugrahottamagaṇāśritapādamūlaṃ
mūrdhnā dhṛtābhrasaritaṃ satuṣāramūrtim |
āsevitaṃ viṣadharaiḥ kaṭakeṣu tāpa-
śāntyai girīśamatihṛdyaguhaṃ śrayāmi || 35||
yaḥ kṣīranīranidhimaṅghritale sudhāmbhaḥ-
kumbhaṃ kare śirasi devanadīmadīnām |
hartuṃ bibhartī bhavināmaṇukarmamāyā-
mūlaṃ malatrayamayaṃ tamahaṃ śrayāmi || 36||
yasyāpagā sragiva saumanasī jaṭāsu
yaḥ kaumudīṃ viracanāmiva mūrdhni dhatte |
devīṃ varā'bhayakarāmapi yo bibharti
prītaḥ śivāṃ dṛśamiva prabhumāśraye tam || 37||
gaurīṃ gajāsyajananīṃ himavatprasūtiṃ
sadyaḥpavitritajagattritayāṃ ya ekaḥ |
kātyāyanīṃ suradhuniṃ ca vibhurbibharti
nirvāṇadaṃ śaraṇamemi tamindumaulim || 38||
kvāpyuddhṛtakratuvidhātṛmṛgottamāṅga-
mutsaṅgasaṅgatamṛgaṃ kvacidoṣadhīśam |
krūraṃ kvacinmṛgavadhaikaratiṃ kirātaṃ
vātaṃ kvacinmṛgarathaṃ vibhumāśrayāmi || 39||
uddāmadoṣamapi dīrghaguṇaṃ bhujaṅga-
bhogopagūḍhamapi rūḍhaśikhiprasaṅgam |
kāpālikavratasametamapi dvijendra-
cūḍāmaṇiṃ vibhumanaṅkuśamāśrayāmi || 40||
aṅge dhṛtāṅganamanaṅgakṛtāṅgabhaṅgaṃ
viśvādhināthamatha khaṇḍakapālapāṇim |
ugraṃ śivaṃ haramaghoramajaṃ ca sadyo-
jātaṃ ca vismayanidhiṃ vibhumāśrayāmi || 41||
asminbhavādhvani mahāviṣame'sameṣu-
roṣāditaskaratiraskaraṇaikavīram |
bhīruḥ śrayāmi śaraṇaṃ kṣaṇadākuṭumba-
lekhāśikhāmaṇimanuttamaśaktimīśam || 42||
kiṃ merumandaramukhairgiribhirgarīyān
kailāsa eva jagadekagururgirīśaḥ |
yasyā'bhayaṅkaramasaṅkaramastaśaṅka-
maṅkaṃ suṭaṅkamakalaṅkamalaṅkaroti || 43||
ullaṅghya śāsanamananyajaśāsanasya
ko'pyanyaśāsanamupāsitumeti niṣṭhām |
hitvā vanaṃ hi navanāgaraparṇapūrṇa-
muṣṭraḥ śrayatyavaṭameva sakaṇṭakaugham || 44||
anyārthamapyupahitā śitikaṇṭhasevā
lokasya kalpalatikeva phalatyavaśyam |
uddīpitā khalu parasya kṛte'pi yena
tasyāpi darśayati dīpaśikhā'rthasārtham || 45||
yadyarcitaḥ (yadyarthitaḥ)sa bhagavānapi jīvikārthaṃ
tatrāpi kilviṣavipākamapākaroti |
yo'pi dyusindhupayasi plavate nidāgha-
gharmacchide bhavati sopi hi dhautapāpaḥ || 46||
kurvanti bhaktimaparairapi ye niyuktā
bhargasya te'pi bhavadurgatimutsṛjanti |
stanyārthamapyupahitā pṛthukasya dhātrī
pātrībhavatyakhilabhogasukhāsikānām || 47||
dambhādapi dhruvamanaṅgajitaḥ prayuktaḥ
sevāvidhiḥ pramadasampada(pramadasammada)mādadhāti |
veśyājanasya na sukhāya kimaṅgarāga-
mālādugūladhavalaḥ kṛtako'pi veṣaḥ || 48||
tasmādupeta vibhumeva yathātathāpi
muktirna cedbhavati kiṃ na galantyaghāni |
yaḥ svecchayaiva nipatatyamṛtahṛde'nta-
rmajjatyasau yadi na tatkimudetyasiktaḥ || 49||
kṣīrābdheravahelayā vitaraṇaṃ niryantraṇaṃ varṣaṇaṃ
hemnaḥ kruddhakṛtāntamuktaphaṇabhṛtpāśagrahodvarhaṇam |
yaccāpyutkaṭakālakūṭakavalīkārādikarmādbhutaṃ
krīḍāmātrakameva yasya tadasau devaḥ kathaṃ varṇyate || 50||
svacchandasya yadṛcchayā gamayataḥ preṅkholatāṃ bhrūlatā-
mājñā'nugrahalābhakatthanaghanaspardhānubandhoddhurāḥ |
soṣmāṇaḥ kalayanti yasya kalahaṃ sevāsu devāsurā
devasyā'sya maheśvarasya mahimaślāghāvidhau ke vayam || 51||
urvīnīrasamīraṇāruṇaśikhivyomātmasomātmakai-
raṣṭābhirvibhavairbibharti bhuvanaṃ bhoktā ca bhogyaśca yaḥ |
brūmastasya kimīśvarasya mahataḥ svairī svakaireva yaḥ
sphārairbrahmapurandaraprabhṛtibhiḥ śārairiva krīḍati || 52||
iti kāśmīrakamahākaviśrīmajjaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``śaraṇāśrayaṇaṃ'' nāmā'ṣṭamaṃ stotraṃ sampūrṇam |
9. kṛpaṇākrandanaṃ navamaṃ stotram
dīpotkarairavirucāṃ paripūraṇeyaṃ
nīhāravāribhiridaṃ bharaṇaṃ payodheḥ |
asmādṛśāṃ mitadṛśāṃ niyatairvacobhiḥ
prastūyate bhava tava (tava bhava)stavacāpalaṃ yat || 1||
atrā'parādhyati giro hara dhṛṣṭateya-
meṣā nisargamukharā mukharāgiṇī yat |
prauḍhiṃ parāmanupayatyapi vāñchati tvāṃ
svāmin haṭhādiva paraṃ puruṣaṃ gṛhītum || 2||
yadvā bhavatyasulabho bhavadāśritasya
śasyaḥ sa ko'pi mahimā na hi mādṛśo'pi |
svacchandamandamapi yatra padaṃ tvadukṣā
dhatte mahī bhavati hemamayī hi tatra || 3||
bhīṣmo viṣādapi viṣādapinaddhameta-
ccetaścakāra savikāramakāraṇāriḥ |
mohāmayastamayamastamayaṃ nayāmi
svāmi~stava stavarasāyanasevanena || 4||
eṣaḥ stavastava navapramadopadeśa-
mādeśayañjayati ko'pi gururgirīśa |
sadyaḥ puraḥ sphurati me duratikrameṇa
yatsaṅkamakramavaśena vacodhidevī || 5||
nāsya spṛhā'sti sarasāya rasāyanāya
nā'yantritenduvadanāvadanā'mṛtāya |
nirbandhameti tu bhavatsavidhe vidhehi
nirbandhamandhakaripo tadidaṃ mano me || 6||
ābhāti śakranagarī na garīyasī me
prītiṃ ca siñcati na kāñcana kāñcanādriḥ |
jāne paraṃ hara śaraṇyamaraṇyameva
yatra tvadaṅghrinalinārcananirvṛtiḥ syāt || 7||
puṣpeṣu dohadavaśādavaśā(śaṃ)bhṛśaṃ yā
babhrāma vāmanayanābhujamañjarīṣu |
sā sāmprataṃ dṛgalinī valinī(nīṃ)vyanakti
tvadbhaktikalpalatikāphalabhogatṛṣṇam || 8||
kiṃ nirmitā mukuṭacandrakalāṃ nipīḍya
kiṃ vā śiraḥśaraṇanirjhariṇījalena |
kiṃ vā karasthakalaśāmṛtasamplavena
bhaktistvayā praṇayināṃ bhavatāpaśāntyai || 9||
svāminvicitracaritasya tavā'padāna-
gītāmṛteṣu dṛḍharūḍharatirmameyam |
dūrīkṛtā'nyasaraṇirhariṇīva vāṇī
satyaṃ padātpadamapi kṣamate na gantum || 10||
āśvāsanaṃ yamabhayākulatāmṛtānāṃ
sañjīvanaṃ bhavadavavyathayā mṛtānām |
ālambanaṃ sukavirājagirāmṛtānāṃ
saṅkīrtanaṃ jayati te caritāmṛtānām || 11||
dānaṃ taraṅgataralaḥ kila dugdhasindhu-
rmuktiḥ karālatarakālabhayātprasādaḥ |
tyāgo'pi saptadivasāni suvarṇavṛṣṭiḥ
kiṃ kiṃ na cārucaritaṃ bhavataḥ praśasyam || 12||
svāmin rajaḥparicitaṃ capalasvabhāvaṃ
jātyā malīmasamidaṃ hṛdayaṃ madīyam |
tvatpādapadmaviṣaye kṛtapakṣapātaṃ
dhatte pramodabharanirbharabhṛṅgalakṣmīm || 13||
tvāṃ vāmadevamapi dakṣiṇamāśriteṣu
sarvatra śaṅkara vasantamapi smarārim |
apyantakopaśamahetumanantakopa-
śāntyekakāraṇamacintyagatiṃ śrayāmi || 14||
kvāpi prasīdasi diśanviśadaṃ prakāśaṃ
kvāpi prayacchasi ghanāvaraṇoparodham |
kurmaḥ kimatra mahanīyamahāmahimno
nāstyeva nāma niyatirnabhasaḥ prabhośca || 15||
cittaṃ natāpadupatāpahṛtipravṛttiṃ
bhītā'bhayārpaṇapaṇapravaṇāṃ ca vāṇīm |
lokopakāraparatantramidaṃ vapuśca
kastvatparaḥ paramakāruṇiko bibharti || 16||
cittaṃ viṣādamagamanna paraṃ prasāda-
maujjhadvicāramucitaṃ na bahiḥ pracāram |
lebhe na kutra vivaraṃ pravaraṃ na bodha-
metattvayaiva bhagavandhṛtaviprayogam || 17||
aśrāntamāntaramaśāntarajovikāraṃ
sāraṅgaketumukuṭasphuṭamandhakāram |
yuktaṃ yadandhayati yadbadhirīkaroti
ko'tiprasaṅga iti tatra na tarkayāmi || 18||
līlāvilolalalanānayanāntavāsa-
māsādya yaḥ kva na bhanakti manasvino'pi |
so'yaṃ niviśya vimale hṛdaye madīye
dhiṅmarmamarma na bhinatti kathaṃ manobhūḥ || 19||
svāminnasantamiva tatra vasantameva
satvāmavaiti kimidaṃ yadi vā kimanyat |
dagdho'pi yaṃ punaravāpya bibharti garvaṃ
sarvaṅkaṣo vijayate sa tava prasādaḥ || 20||
śrīkhaṇḍacandananighṛṣṭakuraṅganābhi-
karpūrakuṅkumakarambaśubhāṅgarāgam |
udyannavīnakadalīdalasaukumāryaṃ
bibhratyanaṅganaṭamaṅgalaraṅgamaṅgam || 21||
phullāravindavadanā vikasacchirīṣa-
mālābhujābhinavanīlasarojanetrā |
brahmāstramapratihataṃ vihitā hitāya
puṣpāyudhasya kusumairiva mādhavena || 22||
nātheti jīvitahareti dayāpareti
sapremakopamatikomalamālapantī |
gāḍhānurāgavivṛtākhilagūḍhabhāva-
māvarjayantyaviṣayairvacasāṃ vilāsaiḥ || 23||
kiṃvā paraṃ kupitanirghṛṇapañcabāṇa-
bāṇaughabhinnahṛdayā parirabhya gāḍham |
mugdhājanasya sahajāmavajitya lajjā-
mautsukyasāndramadharāmṛtamarpayantī || 24||
ākṣiptasindhumathanotthamahāmṛtaugha-
bhāvatkabhaktirasapāraṇanityatṛptam |
pratyāhṛtendriyamavāptasamādhisaukhyaṃ
na tvatparaṃ harati sā hariṇekṣaṇā'pi || 25||
helāvalanmalayamārutakampitānāṃ
śīrṇaiḥ phalaiḥ svayamaraṇyamahīruhāṇām |
vṛttirharasmaraṇaghūrṇitacetasaḥ kva
dīnaṃ mukhaṃ kva ca puraḥ kumahīpatīnām || 26||
netratvamīśa tava mūrtivilokaneṣu
vāktvaṃ bhavaccaritacarvaṇavibhrameṣu |
tvatsaṅkathāśravaṇakarmaṇi karṇabhāva-
micchanti gantumaparāṇi (itarāṇi)mamendriyāṇi || 27||
yacchatracāmarasitā kṛtināṃ vibhūtiḥ
saḥ svalpa eva bhagavan bhavataḥ prasādaḥ |
tvatsāmyameva (tatsāmyaṃ)tu satāmadhikastato'pi
yadvalkalaṃ ca vasanaṃ vipinaṃ ca vāsaḥ || 28||
tvatpādapaṅkajarajaśchuritau ca pāṇī
vāṇī bhavaccaritacarvaṇagarvitā ca |
cittaṃ bhavadguṇagaṇasmaraṇavrataṃ ca
bhūyo bhavanti mama cedahahāsmi dhanyaḥ || 29||
bhikṣāśano'pi bhagavaṃstvamakiñcano'pi
jīrṇaśmaśānanilayo'pi digambaro'pi |
kiṃ vā paraṃ varada ghasmara bhasmarūkṣa-
gātro'pi sanmama vibhuḥ pratijanma bhūyāḥ || 30||
yāce na kiñcidaparaṃ vasatirgirīndre
kailāsanāmni bhavadadhyuṣite mamāstu |
kiṃ vā na tatra bhagavan mama ye sakhāya-
ste'nye'pi santi gavayāḥ kapayaḥ kuraṅgāḥ || 31||
vācāmamī na viṣaye viṣayeṣu yeṣu
tṛṣṇā'nvabhāvi viṣamā viṣamākirantī |
tanmāṃ bhajojjvalavilolavilocanānta-
vinyāsabhāsurasudhārasudhārasena || 32||
nānugrahastava vinā tvayi bhaktiyogaṃ
nānugrahaṃ tava vinā tvayi bhaktiyogaḥ |
bījaprarohavadasāvanayorna kasya
bhūtyai parasparanimittanimittibhāvaḥ || 33||
śāntaṃ mano yadi yamairniyamaiḥ kimanyai-
rvāṇī yadi priyahitā stuticāṭubhiḥ kim |
kāruṇyamasti yadi kiṃ vratahomadānai-
rbhaktirbhave yadi kimanyasukhābhilāṣaiḥ || 34||
bhuktaṃ vikalpakavalaiḥ suralokasaukhya-
mālokitā vividhaśāstradṛśaiva muktiḥ |
pītā sudhā śravaṇaśuktipuṭaiḥ samakṣa-
māsvāditā punariyaṃ śivabhaktireva || 35||
dīrghāṇyaghānyadhiśucīva bhavantyahāni
hānirbalasya śaradīva nadījalasya |
duḥkhānyasatparibhavā iva duḥsahāni
hā niḥsaho'smi kuru niḥśaraṇe'nukampām || 36||
nirbhartsito vipadi bandhurivā'bhimānī
mā nīrasaṃ spṛśatu nāma mano vivekaḥ |
vidyāṃ nidāgha iva gharmarucirhimānī-
mānīyanāśamupatāpayate tu mohaḥ || 37||
tasmādupaiti na tanustarasā'vasāyaṃ
sāyantanī pratipadindukaleva yāvat |
tāvatkṛpāṃ kuru hato'smyahamaṃhasā'yaṃ
sā yantritā mayi tavāstanayena yena || 38||
abhyeti mṛtyubhaṭasaṃhatirastakampā
kampāmahe manasi yāṃ viniveśayantaḥ |
ekā gatirgiriśa tatra tavānukampā
kampātratāṃ nayati yā na śubhodayānām || 39||
yanniḥspṛhopyajanayastanayaṃ kumāraṃ
māraṃ vidhāya śalabhaṃ nayanānalasya |
tatte parārthamiti viśrutamākumāraṃ
mā raṃhasā jahihi dehi tadehi vācam || 40||
sarvasvameva mama dattamahāprahārā
hārāmalaṃ hara harantyarayo vivekam |
rakṣākarī tava kṛpā'tra kṛtā'vahārā
hā rājaśekharamaṇeḥ purato hato'ham || 41||
devālaye vasatimarthayate kapotaḥ
sindhau vaṇigbhajati vṛttimaśaṅkapotaḥ |
pṛṣṭhe śriyaṃ vahati nityamanekapo'ta-
stvadbhaktimemi sarasīmiva bhekapotaḥ || 42||
labdhā dhṛtirdivi kadācana vāsavena
sainyena sā parivṛtena na vāsavena |
no vā balena bhuvi pītanavāsavena
tvāṃ bhejuṣo bhavati yā'bhinavā savena || 43||
yā durlabhā divi maharṣabhayāna kasya
kālasya yā nidhanadhāma bhayānakasya |
vācā tayā kṛtanaterabhayānakasya
tulyaśriyā'rpayasi śaṃ śubhayā na kasya || 44||
yaṃ vīkṣase kṣatamahākalikāla santaṃ
kliṣṭaṃ kṛtīkṛtabṛhatkalikāla santam |
indorivā'mṛtamayī kalikā lasantaṃ
bālā'valokayati sotkalikālasaṃ tam || 45||
muktāvalīva rahitā śiva nāyakena
muktā bhavadgaṇasabheva vināyakena |
vāṇī tvayā parihṛtā'khilanāyakena
sambhāvyate hṛdayasaṃvananāya kena || 46||
yasyocitaḥ prathitamāna samādhinānta-
stenārtimudvahati mānasamādhināntaḥ |
śuddhāṃ matiṃ spṛśati pāṃsulabhāvalepa-
statrāpyupaiṣi na kṛpāṃ sulabhāvalepaḥ || 47||
kāmaṃ bhave'tra bahavaḥ subhagasvabhāvā
bhāvā bhavantu mama tu dvitayaṃ spṛhāyai |
śabdārthapākarucirā kavirājagīrvā
gīrvāṇasindhudharabhaktirabhaṅgurā vā || 48||
jyotsnāchaṭābhiriva deva cakorakasya
bhāsvatprabhābhiriva paṅkajakorakasya |
daivībhiradbhiriva barhikiśorakasya
prītirna te nutikathābhiraghora kasya || 49||
vṛttaṃ kva te sakalavāṅmanasātivṛttaṃ
cetaḥ skhaladgati bhavāvaraṇātkva cetaḥ |
vitrāsavantamiti māmanudatpavitrā
bhaktiḥ stutistava kṛteyamataḥ subhaktiḥ || 50||
vandāmahe ca vividhaṃ vivadāmahe ca
lajjāmahe ca kaluṣāṇi bhajāmahe ca |
īhāmahe ca kuvacāṃsi sahāmahe ca
dahyāmahe ca duritairjaṭharasya hetoḥ || 51||
labdhaṃ cireṇa sukṛtairacirasthiraṃ ca
mānuṣyakaṃ punaridaṃ sulabhaṃ ca ceti |
jānīma eva ca na ca svahitaṃ vidhātu-
mīhāmahe vayamaho bata yadbhaviṣyāḥ || 52||
tasmādavaśyamavaśānaviśaṅkameva
bhogopabhogarasikānasamāptakṛtyān |
yāvanna dhīvara ivaitya timīnakasmā-
nmṛtyuḥ kṣaṇādaśaraṇān harate haṭhena || 53||
tāvatprasīda kuru naḥ karuṇāmamanda-
mākrandamindudhara marṣaya mā vihāsīḥ |
brūhi tvameva bhagavan karuṇārṇavena
tyaktāstvayā kamaparaṃ śaraṇaṃ vrajāmaḥ || 54||
jātasya mṛtyuriti cetsa na laṅghitaḥ kiṃ
śvetena śītakaraśekharanandinā ca |
tābhyāmasau yadi jito vipulaistapobhi-
rasmākamalpatapasāṃ tvanivārya eva || 55||
tarhyarcanāntasamaye tava pādapīṭha-
māliṅgya nirbharamabhaṅgurabhaktibhājaḥ |
nidrānibhena vinimīlitalocanasya
prāṇāḥ prayāntu mama nātha tava prasādāt || 56||
etena kiṃ niviḍabandhabhṛto bhujaṅgāḥ
kiṃ vā na vakrimavilāsavikāsabhājaḥ |
kintu kramādapacitāḥ padagumphahīnāḥ
sūktāmṛtānukaraṇe kathamutsahante || 57||
tasmādbhayaṅkaramadaḥ phaṇikarṇapūra-
hevākadurlalitamastanayaṃ vihāya |
svāminnimāḥ śravaṇayoḥ praṇayopacāra-
garbhā giraścaturamābharaṇīkuruṣva || 58||
svāminnabandhavatayā vata yā taveyaṃ
vāṇī mayā nijagade jagadekabandhoḥ |
tāmantakāntakara śaṅkara śaṃsato me
karṇe kuruṣva karuṇāṃ karuṇāmburāśe || 59||
paśyantamandhamabhimāninamastamānaṃ
vistīrṇakarṇamapi yā badhiraṃ karoti |
sā''rttirna nartayati kiṃ kunṛṇāmiva śrīḥ
tasmātkṣamasva bhagavannatilaṅghanāni || 60||
ucchṛṅkhalaṃ khalamalaṅghyabalaṃ jvalanta-
mantaḥ kṛtāntamavikalpamanalpadarpam |
āśaṅkya śaṅkaracaritrapavitracitra-
sūktiṣvapi sthiraruṣaṃ pratibodhayāmaḥ || 61||
pratyagrakarkaśamaśalkamudarkapathyaṃ
tathyaṃ satoṣamapadoṣamaroṣapoṣam |
sandhitsavastava kṛtāntahitaṃ mitaṃ ca
yadbrūmahe tadavadhāraya sāvadhānaḥ || 62||
anyatra darśaya niraṅkuśa huṅkṛtāni
kīnāśa nāśaya durāśaya mā'bhimānam |
nāthīkṛtendumukuṭānapi nāma manye
nirbhartsayiṣyasi hataiva taveyamāśā || 63||
yeneśvareṇa mahatā vihitāgasaste
kṛtvā'pi śāsanamakāri punaḥ prasādaḥ |
tatsevakā vayamatastava vidviṣo'pi
yadbrūmahe hitamado manuṣe ruṣeti || 64||
re durvinīta khala kāla purā purāre-
ryāmāptavānasi nijāvinayapraśāstim |
śrutvaiva tāṃ dhṛtimatāmapi kampameti
cetaḥ kathaṃ punarupakramase tadeva || 65||
pāṇau nidhehi pavanāśanapāśamāśu
nāstīha te puruṣapāśa ruṣo'vakāśaḥ |
niḥsaṅkareṣu śaraṇīkṛtaśaṅkareṣu
re kāla kātarabhayaṅkara kiṃ karoṣi || 66||
vyāpāraya svapuruṣaṃ puruṣaṃ pareṣu
mā roṣamaṅkuraya śaṅkarakiṅkarāṇām |
kiṃ vismṛtaṃ viṣadharāyudha nirnirodha-
krodhaprabodhapaṭahaṃ harahuṅkṛtaṃ te (tat)|| 67||
kīnāśa bāliśa niraṅkuśa nirvimarśa
nistriṃśa niṣkaruṇa niḥśaraṇeṣu cettvam |
niṣkāraṇaṃ niranurodha karoṣi roṣaṃ
tatkiṃ cikīrṣasi maheśvarasaṃśriteṣu || 68||
kurvan virodhamanirodhamabāndhaveṣu
dhatse mudhā yama samuddhatakandharatvam |
tīvrā'parādhavidhureṣvapi sādhavo hi
bādhāṃ vidhātumadhameṣvapi na kṣamante || 69||
yatprāṇiṣu prabhavasi prasabhaṃ prahartuṃ
prāpya prabhoḥ pramathanāthapituḥ prasādam |
tatprākkṛtasya duritasya duruttarasya
teṣāṃ phalaṃ tava kimantaka pauruṣaṃ tat || 70||
tattathyameva kimakāraṇakaṇṭakaṃ tvāṃ
yaddharmarāja iti kāla janāḥ stuvanti |
lokā na kiṃ jagadamaṅgalamūlakoṣaṃ
śaṃsanti maṅgalavihaṅgama ityulūkam || 71||
tvāṃ jīviteśa iti yatstuvate rudatyaḥ
kāpālikāḥ śavadaho guravo dvijāśca |
tadyuktamantaka yataḥ paramaḥ suhṛttvaṃ
teṣāmakāraṇaripustvasuhṛtpareṣām || 72||
kliśyantyavaśyamapamārjanabhūtayāga-
niryāṇakarmacarameṣṭiśivakriyādyaiḥ |
ye daiśikāḥ paramakāruṇikāḥ parārthe
tvāṃ śrāddhadeva iti te ravija stuvanti || 73||
deśaṃ na yattyajati santamasantamantaṃ
dhvāntaṃ nayaṃstava pitā samavartyato'rkaḥ |
tvaṃ satsvasatsvapi samaṃ praharasyato'pi
sadyaḥ stuvanti samavarttinamantaka tvām || 74||
kopaṃ vidhāya tava yena kṛtaḥ prasāda-
statsevakeṣvapi cikīrṣasi yatprasādam |
kiṃ tatra vartayasi māṃ samavartyato'pi
tvaṃ stūyase viṣamavartyapi marmavidbhiḥ || 75||
bhālasthalāni kalayasyamalendumauli-
pādāravindamakarandasitāni yeṣām |
tvaṃ mānavānasi vimānaya mā nayajña
tanmānavānavasi raudra yadi svamaudram || 76||
durvṛttadarpaśamanācchamano'si yattvaṃ
yadvā yamo'syadhamasaṃyamanāttadanyat |
manye madaṃ śamayituṃ prabhavastavaiva
tvāmeva vā yamayituṃ bhavabhaktibhājaḥ || 77||
udvṛttamantaka nṛśaṃsa bhṛśaṃ sagarva
śarvastavavyavasiteṣvapi ceṣṭase yat |
tadbhāvi bhāvibhavabhairavabhairavogra-
bhālānalodbhavaparābhavakṛtpunaste || 78||
kiṃ vā'nyadarkaja viśaṅka viśaṅkaṭāsya
hāsyaṃ cikīrṣasi yadīśvarasaṃśrayāṇām |
tanmā kṛthā na hi tavāśritavatsalo'sau
sānugrahopyanucitaṃ kṣamate maheśaḥ || 79||
bhālasthalīva tilakena vadhūkaṭākṣa-
vikṣobhitena tilakena vanāvalīva |
vijñaptireṇatilakena vibhāvarīva
śobhāṃ vasantatilakena bibhartti śambhoḥ || 80||
vāsaḥ kṣīṇadaśaṃ vayaśca karaṇagrāmaṃ manaścā'kṣamaṃ
niḥsāreṣu durīśvareṣvapaciterudvegamaṅgeṣvapi |
vyarthaṃ veśma nṛjanma cākhilamidaṃ kalyāṇaśūnyaṃ vapuḥ
koṣaṃ codvahataḥ kuruṣva karuṇāṃ citte giraṃ ca śrutau || 81||
ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇī-
ścāṭūktīḥ prabhavāmi yāmi bhavato yābhiḥ kṛpāpātratām |
ārtenā'śaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ
kṛtvā satvaramehi dehi caraṇaṃ mūrdhanyadhanyasya me || 82||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``kṛpaṇākrandanaṃ'' nāma navamaṃ stotraṃ sampūrṇam |
10. karuṇākrandanaṃ daśamaṃ stotram
jayati cittacakorakacandrikā
sukṛtināṃ vadanābjaravicchaviḥ |
śravaṇabarhiṇavarṣaṇavartanī
hariṇaketukalāmukuṭastutiḥ || 1||
jayati bhaktilatānavamādhavaḥ
sukṛtapādapapakvaphalodbhavaḥ |
vipadupadravaviklavabāndhavaḥ
sukavisūktivadhūvadanāsavaḥ || 2||
bhavamahārṇavanistaraṇaplavaḥ
pravarasūrimayūraghanāravaḥ |
hṛdayadāhahṛtāvamṛtadravaḥ
kumudinīramaṇābharaṇastavaḥ || 3||
madhuramindumukhīvadanādapi
klamaharaṃ surasindhujalādapi |
tribhuvanādhipatistutipāvanaṃ
jayati satkavisūktirasāyanam || 4||
navanavabhramarasvanaśobhinī
bhavamarubhramagharmaśamakṣamā |
hṛdayanandanacandanakandalī
jayati śaṅkarabhaktirabhaṅgurā || 5||
atha kathañcana rūḍhamapi kṣaṇaṃ
manasi vīkṣya vivekanavāṅkuram |
bahuvidhavyasanaughavighaṭṭitaṃ
sapadi vijñapayāmi jagadgurum || 6||
api jagadviditaḥ karuṇāparaḥ
parahitā''hitamūrttiparigrahaḥ |
kimiti haṃsi na haṃsa hṛdambuje
kṛtapado vipadaḥ śaraṇārthinām || 7||
yadi bhavān vidadhīta hṛdi sthitiṃ
vyasanasampadasau prasaretkatham |
yadi na sā prasaretprasajetkathaṃ
budhajano'pyasamañjasakarmmasu || 8||
iha bṛhadbhirudagraparigraha-
grahagṛhītamatirvyasanodgamaiḥ |
yadi na kātaratāṃ paratantratā-
maphalatāṃ khalatāṃ ca bhajejjanaḥ || 9||
yadi bhajeta na sajjanasaṅgama-
vyasanasarpadanalpakṛpāspadam |
hṛdayamindumayūkhasukhāhati-
vyatikaradrutacandramaṇiśriyam || 10||
abhilaṣeyuranargaladurgati-
prasaradīrghanidāghanipīḍitāḥ |
yadi ghanāgamavanna dhanāgamaṃ
praṇayinastṛṣitā hariṇā iva || 11||
yadi na pīnaghanastanabhaṅgura-
trivalibhaṅgitaraṅgitamadhyamāḥ |
iha hareyurapāṅgavilokitairdhṛta-
ratipramadāḥ pramadā manaḥ || 12||
balavadindriyataskarasaṅkule
viṣayabhīmabhujaṅgamabhīṣaṇe |
duritadīrghadavānaladuḥsahe
bahalamohatamohatasaṃvidi || 13||
kṛtadhiyo'pi bhavādhvani dhāvataḥ
prabalakarmarayāpahṛtātmanaḥ |
avasare prahareyuramī na ce-
nmadana mānamukhāḥ paripanthinaḥ || 14||
upacito'bhinavāmradalāvalī
kavalanākulakokilakūjitaiḥ |
yadi na tarjayituṃ prabhavenmadhau
madanadigvijayodyamaḍiṇḍimaḥ || 15||
yadi madhau madhupānamadonmada
bhramaragāyanaguñjitagītayaḥ |
sukhalavānubhavāya kṛtaspṛhaṃ
hara hareyurimaṃ na manomṛgam || 16||
abhinavastavakastanasannatāḥ
pavananartitapallavapāṇayaḥ |
yadi na bandhanibandhanamṛdhnuyu-
rmadhupaguñjitamañjugiro latāḥ || 17||
yadi śucau manasīva na mānināṃ
ghanamanehasi tāpamupāvahet |
sarajaso haritastaruṇaiḥ karai-
raviralaṃ pariripsuraharpatiḥ || 18||
pṛthulasajjaghanorupayodharā
gurumaruccapalākulitāmbarāḥ |
yadi bhaveyurimā na ghanāgame
mṛgadṛśaśca diśaśca dhṛticchidaḥ || 19||
surabhigandhisahāsamukhāmbujā
dhṛtamanoharahaṃsakavibhramāḥ |
yadi na majjanadhāma natabhruvaḥ
śaradi saṃsmarayeyuragāpagāḥ || 20||
yadi na dīrghatamāḥ samavāpnuyuḥ
sahasi durviṣaholbaṇavāyavaḥ |
dhṛtaghanoṣmabṛhattaruṇīstana-
smaraṇakāraṇatāmapi rātrayaḥ || 21||
yadi bhavenna ghanāvaraṇodgama-
glapitadhāmani ghamanidhau bahiḥ |
tapasi cetasi ca vyasanākule
tapasi rūḍharaso'pyalaso janaḥ || 22||
tadakhilāpadupoddharaṇakṣamaṃ
samadhigamya durāpamidaṃ punaḥ |
pavanavellitabālamṛṇālinī-
dalacalajjalabindunibhaṃ vapuḥ || 23||
bhava bhavatpadapaṅkajapūjana-
vyasanasaumanasīmapahāya kaḥ |
iha saheta vibhūtilavonmiṣa-
nmadakadaryavikārakadarthanām || 24||
idamudañcati meghamayaṃ mahat
pihitabhāsvadamandamahastamaḥ |
ghanabalo'pi sa kāla upasthita-
stadiha haṃsa padaṃ kuru mānase || 25||
iti yadantarananta tirodadhan
mudamudañcati mohamahātamaḥ |
tava ravīnduhutāśanacakṣuṣo
hṛdi nivedayatīdamasannidhim || 26||
na hi maheśa manastvadadhiṣṭhitaṃ
bhramayituṃ prabhavanti bhavormayaḥ |
na hi vanaṃ hariṇādhiparakṣitaṃ
kṣapayituṃ kapayaḥ kvacana kṣamāḥ || 27||
varamaraṇyasaritpulinasthalī-
tarutale phalamūlajalāśinaḥ |
sthitiranargalavalkalavāsaso
na śivabhaktimṛte tridaśendratā ||
bhavati paśyati naśyati durgatiḥ
sphurati śaktirupaiti dhṛtiṃ matiḥ |
stutikṛti pratipattimati śrutismṛti-
bhṛti sthitimeti ca nirvṛtiḥ || 28||
kati na budbudavadbhavavāridhā-
viha lasanti galanti ca jantavaḥ |
samajani spṛhaṇīyajaniḥ puna-
rjagati kaścana yaḥ śivasevakaḥ || 29||
sapadi pīṭhaviloṭhitamūrtibhi-
rbhagavataḥ śucibhirdhṛtabhaktibhiḥ |
caraṇareṇukaṇairiva mādṛśai-
rdiviṣadāmapi mūrdhni padaṃ kṛtam || 30||
nipatatāṃ viṣame vipadambudhau
yadavalambanamastaviḍambanam |
jagadamaṅgalabhaṅgavidhāyi ta-
jjayati ratnamaho śivasevanam || 31||
jayati janmajarāmaraṇavyathā-
śamasamarthamanartha nivarhaṇam |
sakalamaṅgaladhāma sudhāmayaṃ
bhagavadarcananāma mahauṣadham || 32||
idamasādhitameva rasāyanaṃ
nirupabhogamidaṃ sukhamakṣayam |
amṛtametadanambudhimanthanaṃ
yadavinaśvaramīśvarasevanam || 33||
kimaphalairaparairbhavaśambaraiḥ
karituraṅgarathāmbaraḍambaraiḥ |
bhagavadaṅghrisaroruhasevana-
vyasanamastu mamānidhanaṃ dhanam || 34||
vahatu sā ramaṇī ramaṇīyatā-
mamṛtamastvamṛtaṃ madhu vā madhu |
bhavatu nirvṛtidhama tu yāminī-
ramaṇamaṇḍanasevanameva naḥ || 35||
ahamaharniśamekamanā manā-
guparamanmadamanmathamatsaraḥ |
bhagavatīravagatya duratyayāḥ
śaradharābharaṇaṃ śaraṇaṃ śraye || 36||
idamaha karuṇāmṛtasāgaraṃ
śaśikiśoraśiromaṇimarthaye |
vrajatu janmani janmani me vapu-
rbhavadupāsanasādhanatāmiti || 37||
kamapi nāma nikāmamanoharaṃ
vahati ṭaṅkamanaṅkuśameva yat |
tadakalaṅkamalaṅkaraṇaṃ mukhe
bhavatu me śivanāma nirāmayam || 38||
hṛdaya bhāvaya bhāvamanāvilaṃ
niravadhāna badhāna dṛḍhāṃ dhṛtim |
tvamasamartha samarthayase sukhaṃ
kimavināśi vinā śivasevanam || 39||
bhavarasaṃ prati samprati tṛṣṇayā
tyajasi mānasa mānasamunnatim |
madanaśāsanaśāsanataḥ paraṃ
kamanapāyamupāyamudīkṣase || 40||
upavane pavaneritamādhavī-
dhavalite valite tarupaṅktibhiḥ |
amalakomalakoṣaniṣaṇṇaṣaṭ-
caraṇapāraṇapāvanapaṅkaje || 41||
samadane madanena vaśīkṛtā
varavadhūravadhūya bhaja prabhum |
aśaraṇoddharaṇoddhatadhīḥ śucā-
muparamaṃ paramaṃ sa karoti te || 42||
jahihi mohamupehi nijāṃ sthitiṃ
tyaja śucaṃ bhaja mānaparigraham |
aharaharharapādasaroruha-
smṛtirasāyanapānaparaṃ bhava || 43||
tadasamañjasamaṅga yadaṅganā-
nayanacāpalaśāpamupeyatām |
nayasi nityabahirmukha śaṅkara-
smaraṇasaumanasīmapi heyatām || 44||
yadi samarthayase duratikramaṃ
kupitakālabhaṭabhrukuṭībhayam |
tadacikitsyabhavāmayabheṣajaṃ
bhaja bhujaṅgamabhūṣaṇatoṣaṇam || 45||
yadi cikīrṣasi sauhṛdamātmanaḥ
parijihīrṣasi yadyaghabandhanam |
yadi titīrṣasi saṃsṛtisāgaraṃ
śrayamayaskaramīśvarasevanam || 46||
yadi varāka sukarmavipākataḥ
karatale patitastava śevadhiḥ |
tamakhilāpadapākaraṇakṣamaṃ
nayasi mūḍha nirarthakatāṃ katham || 47||
amalaśīlakulaśrutaviśrutaṃ
sadasadarthavicāraviśāradam |
purajidarcanasaukhyaparāṅmukhaṃ
nayasi mānasa mānuṣajanma yat || 48||
bhramadamantharamantharayāhati-
dhvanadamudrasamudrasamānayā |
śamitaśāpadaśāpadamehi me
hara girā vitarāvitathaṃ varam || 49||
anugṛhāṇa gṛhāṇa ghṛṇārṇava
praṇayinaḥ praṇayānuguṇaṃ vacaḥ |
upakuruṣva kuruṣva dṛḍhaṃ manā-
gaśaraṇoddharaṇapravaṇaṃ manaḥ || 50||
pṛthuśirastridaśāpagayā śritaṃ
karuṇayā hṛdayaṃ śivayā vapuḥ |
kathamatipramite bhagavan dhṛtiḥ
śravaṇarandhrapade'pi na me giraḥ || 51||
tvadanurāgabhareṇa kadarthitā
tvadanurañjanakarmaṇi cākṣamā |
iti matirmama cāṭuparāṅmukhī
hara karoti nijārtinivedanam || 52||
priyatamo'si matermama sā puna-
rna guṇavatyapi te hṛdayaṅgamā |
iti maheśa bhavadvirahāturā
bhajati kāmapi kāmakadarthanām || 53||
bhava bhavatparirambhasukho'stu mā
tvadupabhogavidhau tu kathaiva kā |
tava tu darśanamātrakakāṅkṣiṇīṃ
mama matiṃ kathamitthamupekṣase || 54||
kuṭilatāṃ na jagāma nikāmato
na sahajaṃ malinatvamupeyuṣī |
vahasi kiṃ ghanarāgakadarthitāṃ
mama matiṃ prati karkaśamāśayam || 55||
atha gatā pariṇāmadaśāmiti
tyajasi cenmama mugdhatamāṃ matim |
kimaparaṃ ghanamohavimūrchitā
prathayatāṃ tava nirdayatāmiyam || 56||
idamanaṅgajanaṅgamasaṅgama-
bhramadamandamalaṃ capalaṃ manaḥ |
amṛtakumbhakara dyutaraṅgiṇī-
dhara sudhākaraśekhara śodhaya || 57||
bhava marubhramakhedakadarthitaṃ
suviṣamaistṛṣitaṃ viṣayoṣmabhiḥ |
madayate hṛdayaṃ mama nirbharaṃ
bhava bhavaccaraṇasmaraṇāmṛtam || 58||
viṣayapannagapāśavaśīkṛtaṃ
bhavamahārṇavamagnamanīśvaram |
bahalamohamahopalapīḍitaṃ
hara samuddhara māṃ śaraṇāgatam || 59||
yamabhaṭairhviyamāṇamayantraṇai-
raśaraṇaṃ śaraṇaṃ caraṇau śritam |
ghanaghṛṇāmṛtanirbharayā dṛśā
madanamardana māmavalokaya || 60||
abhayaghoṣamiṣonmiṣitā'mṛta-
dravamabandhyadhṛtasmitacandrakam |
vadanacandramasaṃ tava paśyato
mama kadā nu tamaḥ śamameṣyati || 61||
prabalatāpakadarthitavigrahaṃ
dvijapatiṃ paripālayituṃ śiśum |
vahasi kiṃ na vibho hṛdaye dayāṃ
śirasi nirjaranirjhariṇīmiva || 62||
praṇatatāpavipatkṣapaṇakṣamāṃ
dalitasantatasantamasasthitim |
hṛdi nidhehi dayāmamṛtasrutaṃ
hariṇaketukalāmiva mūrdhani || 63||
abhimatādhikasiddhividhāyinīṃ
bhavadavacchidamavyabhicāriṇīm |
vaha vibho hṛdaye dayitāṃ dayāṃ
vapuṣi bhūdhararājasutāmiva || 64||
cintāmaṇiḥ sphaṭikajātiracetano'pi
kalpadrumaḥ kaṭhinakāṣṭhavinirmito'pi |
tiryagdaśāmapi gatā kila kāmadhenu-
rbhāgyairabhīṣṭaphaladā kṛtināṃ bhavanti || 65||
tvaṃ tu prabho tribhuvanaikamaheśvaro'pi
paryāptaśaktirapi pūrṇakṛpārṇavo'pi |
ākrandato'pi karuṇaṃ vidhivañcitasya
tyaktādarosi mama darśanamātrake'pi || 66||
ciraṃ dvāropānte sthitamavasarodvīkṣaṇadhiyā
tiraskāraḥ soḍhaḥ kupitamukharadvāḥsthavihitaḥ |
mukhaṃ dīnaṃ kṛtvā vibhavalavagarvāndhitadṛśāṃ
kadīśānāmagre ka iva na visoḍhaḥ paribhavaḥ || 67||
parimlāno mānastanurapi tanustāmyatitamāṃ
mano mohāvarte bhramati dhṛtirastaṃ vrajati ca |
kathāpi kleśānāmavatarati nocchedapadavīṃ
davīyasyāmasyāṃ bhavabhuvi mudhā dhāvati matiḥ || 68||
tadevaṃ durvāravyasanaśatasampātaviṣamaṃ
viśanneṣa svāminnahaha sumahanmohagahanam |
avindannāśvāsakṣamamaparamāpannasuhṛdaṃ
jano'vajñāpātraṃ bhavati karuṇābdherna bhavataḥ || 69||
kadaryāṇāmagre taralanalinīpallavatala-
pralīnaprāleyapracalakamalāmūḍhamanasām |
adabhrabhrūbhaṅgaprabhavamavamānaṃ hatadhiyaḥ
sahante hanteha draviṇakaṇatṛṣṇāndhitadṛśaḥ || 70||
ahaṃ tu pratyagraprabhucaraṇarājīvarajasā
pavitraṃ mūrdhānaṃ dadhadadhikabhaktigrahagurum |
bhrukuṃsatvaṃ bibhratpramadabharasandarbharabhasā-
dbhajeyaṃ bhūteśabhrukuṭighaṭanābhājanabhuvam || 71||
surasrotaḥsvatyāstaṭaviṭapipuṣpaughasurabhau
girigrāvagrāmaskhalanamukharasrotasi jale |
śramakṣāmairaṅgairagaṇitabhavakleśavipadāṃ
kadā syānnastṛptirharacaraṇasevāsukharasaiḥ || 72||
amandānandānāṃ daladalaghusantāpavipadāṃ
padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ |
kadā naḥ kālindīsalilaśabalairambarasari-
ttaraṅgairaṅgārībhavati bhavabandhendhanacayaḥ || 73||
sāndrānandastimitakaraṇaḥ puṇyanaipuṇyabhāgī
bhāgīrathyāstaṭaviṭapinaḥ kvāpi mūle nilīnaḥ |
sarvākāraṃ giripatisutākāntamekaṃ prapannaḥ
svātmārāmaḥ śamasukhasudhāsvādamabhyeti dhanyaḥ || 74||
abhijanaguṇakhyātiprajñābhimānabharoddhurāṃ
ka iva sadasi prahvīkarttuṃ kṣameta (saheta)śirodharām |
vidadhati muhurhelākhelaṃ bhavatyavadhīraṇaṃ
bhramayitumamī yuktā na syuryadīndriyavairiṇaḥ || 75||
mānaḥ kasya na vallabhaḥ khalamukhaprekṣitvaduḥsthā sthitiḥ
kasya prītikarī trapābharanataṃ kasmai śiro rocate |
kintu svāmini sā'valepahṛdaye dāsīkṛtāḥ śatrubhiḥ
kṣudrānadyataneśvarāndhanamadakṣīvānniṣevāmahe || 76||
stabdhā dvāri yadāsmahe kṣitibhujāṃ nirbhartsitā vetribhi-
ryadgarvāndhanarendravallabhadurudgārairvidahyāmahe |
yanmithyāstutipātakairbhagavatīṃ vācaṃ tiraskurmahe
tatsarvaṃ tava vakravaktravalanāmātrasya visphūrjitam || 77||
dṛṣṭvā pāṭalagaṇḍalekhamaruṇodvāṣpekṣaṇaṃ prasphurad-
bimboṣṭhaṃ prathamāparādhakupitaṃ vaktraṃ kuraṅgīdṛśaḥ |
yatsaprema savismayaṃ savinayaṃ sāpatrapaṃ saspṛhaṃ
satrāsaṃ ca mano'bhavattadadhunā śrāntaṃ ca śāntaṃ ca naḥ || 78||
yatkharvīkriyate sukhaṃ viṣayajaṃ tvadbhāvanājanmanā
hlādena kṣaṇikaṃ sthireṇa mahatā svalpaṃ kimatrādbhutam |
taccitraṃ bhavaduḥkhajaṃ bhavadanudhyānapramodāśruṇā
vāṣpāmbu dhruvamadhruveṇa sumahatsūkṣmeṇa yadbhidyate || 79||
ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ
kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyantaraiḥ |
krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ
mā mā muñca maheśa peśaladṛśā satrāsaprāśvāsaya || 80||
yadviśvoddharaṇakṣamā'pyaśaraṇatrāṇaikaśīlāpi te
māmārttaṃ dṛgupekṣate sa mahimā duṣṭasya me karmmaṇaḥ |
devyāṃ divyamṛtaiḥ payodharadhṛtaiḥ pṛthvīṃ pṛṇatyāṃ (stṛṇantyām)kaṇā
dvitrāścenna mukhe patanti śikhinaḥ kiṃ vācyametaddivaḥ || 81||
śubhraṃ bibhrattaruṇakaruṇā''krāntamaśrāntamantaḥ
svāntaṃ śāntapraṇatajanatākleśaleśapraveśam |
prāṇatrāṇapraṇayakṛpaṇaprākṛtaprāṇivarga-
vyāpattāpakṣapaṇanipuṇāṃ muñca caṇḍīśa vāṇīm || 82||
adabhraśvabhreyaṃ bhavasaraṇirātaṅkabahulā
galadbodhajyotsnā niravadhirasau moharajanī (mohajananī)|
nayantyete śāntiṃ viṣamaviṣayotpātamarutaḥ
pradīpaṃ prajñākhyaṃ pratidiśa dṛśaṃ kleśaśamanīm || 83||
śarīraṃ nīrogaṃ navamapi vayaḥ saṃskṛtimatī
matirvandyā jātiḥ prabhurapi bhavān bhaktisulabhaḥ |
itīyaṃ sāmagrī sukṛtaśatalabhyā vighaṭate na
yāvattāvanme śaṛṇu karuṇamākranditamidam || 84||
jayanti kṛtinaḥ kaveramṛtasārasiktākṣarā
vikasvaraśaratsudhākarakarānukāritviṣaḥ |
purāripadapaṅkajastavapavitracitrakramāḥ
samunmiṣitamālatīmukulakomalāḥ sūktayaḥ || 85||
śivastavakṛto madhau malayavāyuvellallatā-
galanmadhumadonmadabhramarapuñjaguñjacchalāt |
nadanmadanaśiñjinījhaṇitabhītasīmantinī-
bhujākalitakandharā adhivasanti līlāvanam || 86||
adūrabahiraṅganopavanajātacūtāvalī-
vilīnakalakokilākalitakākalīkūjitaiḥ |
valanmalayamārutapracaladullasanmallikā-
vikāsikusumaskhaladbhramaramaṇḍalīguñjitaiḥ || 87||
nigūḍhatimighaṭṭanasphuritadīrghikāsambhrama-
trasatkamalakoṭarasthitamarālabālasvanaiḥ |
raṭatpaṭahajhallarīmurajatūryabherīgaṇa-
praṇādamukharībhavadbhavanabarhikekāravaiḥ || 88||
sudhāmadhuravāruṇīrasakaṣāyakaṇṭhodbhava-
nnavaśrutirasāyanapraguṇagāyanīgītakaiḥ |
pravīṇaparivādakoditavibhāsarāgasvara-
kramānugatavallakīvikacakīcakaprakvaṇaiḥ || 89||
prabhātaguṇavarṇanapravaṇabandivṛndastuti-
prabuddhaśukasārikākalahakelikolāhalaiḥ |
bahirviharadaṅganāraṇitaratnakāñcīguṇa-
kvaṇatkanakakiṅkiṇījhaṇajhaṇāravāḍambaraiḥ || 90||
khurakṣatavasundharoddhuraturaṅgaheṣonmiṣa-
tprabodhadhutakandharadviradakaṇṭhaghaṇṭāravaiḥ |
smarā'lasavilāsinīstanabharoparuddhorasa-
styajanti śayanaṃ śanairuṣasi śambhuśaṃsājuṣaḥ || 91||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``karuṇākrandanaṃ'' nāmakaṃ daśamaṃ stotraṃ sampūrṇam |
11. dīnākrandanaṃ ekādaśaṃ stotram
dhanyo'smi samyagamṛtaṃ kimapi sravantī
sañjīvanaṃ bhagavatī vidadhāti yasya |
snehasnutastanayugā jananīva jīva-
rakṣārthamārttividhurasya mamoktidevī || 1||
dhanyo'smi duḥsahavipatpatitasya yasya
vāṇīdhṛtonnatirapuṇyakṛtāmabhūmiḥ |
kalyāṇinī sumanasāmupasevanīyā
saumeravīva padavī na davīyasīyam || 2||
dhanyo'smi mohatimirāndhadṛśo'pi yasya
sānugraheṇa vidhinā parikalpitā me |
valgusvanā guṇavatī dhṛtavakrabhaṅgi-
rārādhanāya giriśasya sarasvatīyam || 3||
sañjīvanauṣadhirabaimi navā bhavāgni-
bhasmīkṛtasya vidhinā mama nirmiteyam |
vāṇī śivaikaviṣayābhinavoḍhagaurī-
dṛṣṭicchaṭeva cakitā makaradhvajasya || 4||
jāne kathañciduditā mama śokavahni-
taptātskhalanmṛdupadā hṛdayādiyaṃ gauḥ |
cetaḥ pravekṣyati śanaiḥ karuṇāmṛtaugha-
niḥṣyandaśītamapi śītamayūkhamauleḥ || 5||
yaccāṭucāpalamalaṅghyabhavabhramo'haṃ
mohaṃ vahanniha muhurmuhurācarāmi |
tatra spṛhāvahamahāryamahāryaputrī-
bhartuḥ parārdhyamaparādhyati saukumāryam || 6||
yo mūrdhani dhvanadanargalanirjharaugha-
jhāṅkāriṇīmamaranirjhariṇīṃ dadhānaḥ |
gṛhṇāti bhaktajanataḥ kalaśābhiṣekaṃ
kastaṃ na vijñapayituṃ vibhumutsahet || 7||
dagdhosmi tāvadamunā damunā mamā'nta-
ryaḥ prajjvalatyaghanidāghanidānajanmā |
muktasya me pratibhayātibhayākulasya
vāṇī kathaṃ vigalato galato'bhyudeti || 8||
krandāmyataḥ kimapi nāma pinākapāṇe
tīvrārttinistaraṇakāraṇa kātaro'ham |
mohāṭavīvikaṭasaṅkaṭasaṃsthitasya
tanme'vadhāraya śivāya śivāturasya || 9||
ākrandamindudhara dhāraya deva karṇe
kastvatparaḥ paramakāraṇa karṇadhāraḥ |
mūrdhnā vahannuḍupakhaṇḍamakhaṇḍapuṇyaṃ
kaṃ kaṃ na tārayasi saṃsṛtisāgarādyaḥ || 10||
asmādṛśairaśucibhiścaṭucāpalāni
kḷptānyavaimi na manastava nandayanti |
āvarjanāya vihitānyapi candramaule
kauleyakasya laḍitāni kimādriyante || 11||
yadvā na mugdhacaritānyapi na prasāda-
mutpādayanti bhavataḥ karuṇārṇavasya |
svāmindaratpuravihāraparasya kiṃ na
ceto haranti tava bālakavalgitāni || 12||
dīnairvimugdhavacanairasamañjasārthai-
ryadvaddravanti hṛdayāni dayānidhīnām |
tadvanna dṛṣṭasabhasapratibhapragalbha-
sandarbhagarbharacanāñcitavākprapañcaiḥ || 13||
dugdhābdhido'pi payasaḥ pṛṣataṃ vṛṇoṣi
dīpaṃ tridhāmanayano'pyurarīkaroṣi |
vācāṃ prasūtirapi mugdhavacaḥ śaṛṇoṣi
kiṃ kiṃ karoṣi na vinītajanānurodhāt || 14||
yatsatyavatyapi jagadviditā'nasūyā
vāṇī mameyamidameva hi deva citram |
atyadbhutaṃ punaridaṃ yadarundhatīyaṃ
tvāmārirādhayiṣurevamudīritā'pi || 15||
sve dhāmni hṛdi kṛtasthitimuktidevīṃ
kṛtvā praveśamanayaḥ svayamunmukhatvam |
dhārādhirūḍhavirahavyathitāmidānī-
mādhāya dhairyamavadhārayasītyayuktam || 16||
ekā tvameva bhavitāsi mama priyeti
dattaṃ varaṃ smarasi cedgirirājaputryāḥ |
premṇā bibharṣi kathamambarasindhumindu-
lekhāṃ ca mūrdhni hṛdaye dayitāṃ dayāṃ ca || 17||
etāṃ nisargasaralāmabhijātamugdhā-
maddhā'vadhīrayasi dhīragabhīramānī |
jānāsi kiṃ na śataśo natasāntvaneṣu
yadvṛddhayā karuṇayā narinartito'si || 18||
prastauti nistrapatayārttikadarthiteyaṃ
cāṭūni karttumapi maugdhyavisaṃsthulāni |
kātyāyanīvacanadurlalitasya tāni
muktopamāni na manastava nandayanti || 19||
asyāmasahyavirahajvarakātarāyāṃ
prītirna te yadi paraṃ niravagrahasya |
sarvāntarārttidalanāya dṛḍhā pratijñā
vijñātatattva kathamīśvara vismṛtā te || 20||
satyaṃ kalāṃ vahasi bibhradumāṃ yadardhe
dhatse dayāṃ hṛdi yayārthiṣu nartayantyā |
nīto'si nīlagala nīlagalatvameva
madvāci sāci tu mukhaṃ kuruṣe ruṣeva || 21||
gṛhṇāsi mūrdhani jalairdhavalairvilolai-
rudvelitāṃ nijapadaskhalitāṃ dyusindhum |
etāmananyagatimujjhasi sādhuvṛttāṃ
vācaṃ svatantracaritasya kimucyate te || 22||
kiṃ bhūyasā yadi na te hṛdayaṅgameya-
masyā gṛhe vasasi kiṃ hṛdaye madīye |
sārdhaṃ priyeṇa vasanaṃ tadupekṣaṇaṃ ca
duḥkhāvahaṃ hi maraṇādapi māninīnām || 23||
mātaḥ sarasvati badhāna dhṛtiṃ tvadīyāṃ
vijñaptimārttividhurāṃ vibhave nivedya |
devī śivā śaśikalā gaganāpagā ca
kurvantyavaśyamabalājanapakṣapātam || 24||
eṣā nisargakuṭilā yadi candralekhā
svargāpagā ca yadi nityataraṅgiteyam |
devī dayārdrahṛdayā tu nagendrakanyā
dhanyā kariṣyati na te nibiḍāmavajñām || 25||
tvāmeva devi śaraṇīkaravāṇi vāṇi
kalyāṇi sūktibhirupastuhi candramaulim |
mātarnayāmi na punabhavatīmalīka-
vācālabāliśavilaṅghanabhājanatvam || 26||
devi prapannavarade guṇagauri gauri
yadgauriyaṃ parimitaṃ sravatīha kiñcit |
tatsvāmine samucite samaye supāka-
mākūtavedini nivedayituṃ prasīda || 27||
svecchāvikalpitamadṛṣṭaviśiṣṭapākaṃ
mātrāvihīnamidamāryajanairajuṣṭam |
unmattabhāṣitamathāpi bhavatyavaśyaṃ
sadbheṣajaṃ viṣamayasya bhavāmayasya || 28||
bhālānalaṃ tava yathā mukuṭasthitaiva
śaknoti no śamayituṃ kila siddhasindhuḥ |
tadvajjvalantamaniśaṃ hṛdi śokavahniṃ
vaktre vasantyapi mamā'tra sarasvatīyam || 29||
prākcenmayā vihitamāvilameva karma
svāmin kutastvayi mamaiṣa dṛḍho'nurāgaḥ |
ekāntaśuklamatha cedatiduḥsaho'yaṃ
śokānalo hṛdayadāhakaraḥ kimantaḥ || 30||
kvāpyanyajanmani vidhāya vibhoravaśya-
mārādhanāmanuśayālu mano mamābhūt |
no cet kathaṃ kulaguṇādipavitrameta-
tsarvaṃ nṛjanma mama niṣphalameva jātam || 31||
mānuṣyanāvamadhigamya cirādavāpya
nistārakaṃ ca karuṇābharaṇaṃ bhavantam |
yasyā'bhavadbharavaśastarituṃ bhavābdhiṃ
so'haṃ bruḍāmi vada kasya viḍambaneyam || 32||
svāmī prasādamupakāriṣu sevakeṣu
yogyeṣu sādhuṣu karoti kimatra citram |
santastvabhājanajaneṣvapi nirnimittaṃ
cittaṃ vahanti karuṇāmṛtasārasiktam || 33||
tasmātsamāptasakalā'bhyudayābhyupāya-
māyastacetasamasambhavabhagnavṛttam |
sīdantamantakabhayādabhayārpaṇena
sambhāvaya svayamanarthakadarthitaṃ mām || 34||
tvāṃ nītimān bhajati yaḥ sa bhavatyanīti-
rmuktaḥ sa yo hi bhavatā hṛdayānna muktaḥ |
yaste rato'pacitaye'pacitiṃ sa naiti
tattvāṃ śrito'smi bhavamasmyabhavo na kasmāt || 35||
svāpaḥ sacintamanaso niśi me durāpo
nirdāha eva gamayāmi kadā sadāhaḥ |
rakṣa tvadekavaśagaṃ śiva māmavaśyaṃ
kasmādbhavasyaparuṣo mama karkaśastvam || 36||
pāpaḥ khalo'hamiti nā'rhasi māṃ vihātuṃ
kiṃ rakṣayā kṛtamaterakutobhayasya |
yasmādasādhuradhamo'hamapuṇyakarmā
tasmāttavāsmi sutarāmanukampanīyaḥ || 37||
svaireva yadyapi gato'hamadhaḥ kukṛtyai-
statrāpi nātha tava nāsmyavalepapātram |
dṛptaḥ paśuḥ patati yaḥ svayamandhakūpe
nopekṣate tamapi kāruṇiko hi lokaḥ || 38||
atyunnatānnijapadāccapalaścyuto'yaṃ
bhūrīnbhramiṣyati jaḍaprakṛtiḥ kumārgān |
matveti cettyajasi māmayamīdṛgeva
gāṅgastvayā kimiti mūrdhni dhṛtaḥ pravāhaḥ || 39||
hantā'yamārtimapi nārakiṇāṃ dhṛtaśce-
nmūrdhnā kileti vahase yadi gāṅgamogham |
etattavocitamanāthajanārtibhaṅga-
hevākino ghanaghṛṇāmṛtasāgarasya || 40||
asmādṛśasya rasanā tu sahasradheyaṃ
gacchedavāpya tava śīrṣamitīrayantī |
kiṃ tūddharāmi bhavadagrapadāvamarśa-
mātrādahaṃ trijagatīmiti me pratijñā || 41||
kṣāmo nikāmajaḍimā kuṭilaḥ kalāvān
doṣākaro'yamiti cettyajasi prabho mām |
etādṛśairupagato'pi samastadoṣaiḥ
kasmāttvayā śirasi nātha dhṛtaḥ śaśāṅkaḥ || 42||
śāntākṛtirdvijapatirvimalaḥ kalaṅka-
muktaḥ kileti yadi mūrdhni vidhuṃ bibharṣi |
evaṃvidho'pi bhavatā kathamaṅghri pīṭha-
prānte'pi dhartumucito na samarthito'ham || 43||
pāpagraho dhṛtimupaiti vinā pareṣāṃ
na svāpahāramayamityatha māṃ jahāsi |
evaṃvidho'pi tava dakṣiṇadṛṣṭipāta-
pātratvamīśvara kathaṃ rucimānupetaḥ || 44||
mitratvameṣa bhavato guṇibandhutāṃ ca
prakhyāpya cedupagatastava vallabhatvam |
dāsatvameva tava nityamupetya bhūtvā
sevāparaśca guṇināṃ kathamapriyo'ham || 45||
atyūṣmalaṃ malinamārgamanekajihvaṃ
sparśe'pyanarhamavadhārya jahāsi cenmām |
etādṛśo'pi śubhadṛṣṭiniveśanasya
pātrīkṛtaḥ kathamayaṃ bhavatā''śrayāśaḥ || 46||
yadbandhujīvadalasadrucirarthibhāva-
māyāti sādhuvibudhavrajajīvanāya |
yanmitramaṇḍalamukhena ca viśvameṣaḥ
puṣṇāti tena dahane yadi sādaro'si || 47||
āpyāyanaṃ sumanasāmaniśaṃ vidhātu-
marthībhavāmi yadi ko'pi na me'sti dātā |
kartuṃ ca bandhujanajīvanamakṣamo'haṃ
viśvaṃ ca poṣayitumīśa suhṛnmukhena || 48||
tenā'tra māṃ niraparādhamavehi dehi
dṛṣṭiṃ prasādaviśadāmamṛtadravārdrām |
dīnaṃ dayāspadamadabhramadabhrameṇa
bhrūvibhrameṇa sadayaṃ bhaja bhaṅgureṇa || 49||
anvagrahīramaladṛṣṭisamarpaṇena
mitraṃ śuciṃ dvijapatiṃ yadi yuktametat |
evaṃvidhe'pi bhagavan dṛśamaprasannāṃ
dhatse mayīti vidhireṣa parāṅmukho me || 50||
niṣkarṇa eṣa kusṛtivyasanī dvijihvo
matveti cettyajasi niḥśaraṇaṃ prabho mām |
etādṛśo'pi pavanāśana eṣa kasmā-
cchrīkaṇṭha kaṇṭhapuline bhavatā gṛhītaḥ || 51||
jihvāsahasrayugalena purā stutastva-
metena tena yadi tiṣṭhati kaṇṭhapīṭhe |
ekaiva me tava nutau rasanā'sti tena
sthānaṃ maheśa bhavadaṅghritale mamā'stu || 52||
śaṛṅgī vivekarahitaḥ paśurunmado'yaṃ
matveti cetpariharasyatikātaraṃ mām |
evaṃvidho'pi vṛṣabhaścaraṇārpaṇena
nītastvayā kathamanugrahabhājanatvam || 53||
pṛṣṭhe bhavantamayamudvahate kadāci-
detāvatā yadi tavaiti dayāspadatvam |
svāminnahaṃ tu hṛdaye'nvahamudvahāmi
tvāmityataḥ kathamaho na tavā'nukampyaḥ || 54||
krūraḥ parāṅmukhamasāvanṛjurjahāti
yogyaṃ guṇagrahaṇakarmaṇi mārgaṇaugham |
matveti cettyajasi māṃ kathamīdṛgeva
svāmindhṛtaḥ karatale bhavatā pinākaḥ || 55||
koṭiṃ parāmupagate'pi guṇe nitāntaṃ
namraṃ vimṛśya yadi nā'jagavaṃ jahāsi |
svalpe guṇe'pi natimānatimātrameva
kiṃ tacca yena na bhavāmi tavānukampyaḥ || 56||
atyantatīkṣṇamatikarkaśamārjavena
kṛtvā praveśamatimātramaruntudaṃ mām |
matvā jahāsi yadi nātha kimarthameta-
devaṃvidhaṃ vahasi hastagataṃ triśūlam || 57||
jñātvā'tha cetsamarasaṃhitakarmayogyaṃ
koṭitrayojjvalamukhaṃ triśikhaṃ bibharṣi |
niḥsvaṃ na kiṃ samarasaṃ hitakarmayogyaṃ
māṃ vetsi yena kuruṣe mayi na prasādam || 58||
nyagbhāvitadvijamakharvitapūrvadeva-
gurvā'padarpaṇaparaṃ kṛtagotrabhedam |
sambhāvya cettyajasi māṃ kathamīdṛgeva
netrotsavastava jagadvijayī kumāraḥ || 59||
mattvā'tha nātha śucijātimamuṃ viśākha-
masminmano yadi bibharṣi dṛḍhaprasādam |
evaṃvidho'pyahamananyaparāyaṇaste
kasmādbhavāmi bhagavannavalepabhūmiḥ || 60||
sarvāpahāraratirunmadavakravaktra-
styājyo'smi karṇacapalo yadi tundilaste |
evaṃvidho'pi bhagavan gaṇanāyakatve
kasmādayaṃ gajamukho bhavatā niyuktaḥ || 61||
hastaṃ sadā vahati dānajalāvasiktaṃ
tenaiṣa cedalabhata pramathādhipatyam |
dānaṃ pradātumadhano yadi na kṣamo'haṃ
dāsatvamastu mama deva bhavadgaṇānām || 62||
heyo'smyasevakatayā tava ced graheṣu
kurvatsu tulyamakhileṣvapi rāśibhogam |
dvāvujjhatastava na dṛkpathamarkacandrā-
vetāvatā parihṛtā bhavatā kimanye || 63||
balāvubhau dvijapatī tava nātha bhaktā-
vekastayorharati santamasaṃ prajānām |
tenāvṛtaṃ yadi paraṃ sahase maheśa
draṣṭuṃ tato viṣamadṛṣṭiriti śruto'si || 64||
yuktaṃ ripau suhṛdi vā samadarśanasya
doṣoddhate'pi yadi te hṛdayaṃ dayārdram |
tatsāmprataṃ gativihīnamanātmanīnaṃ
dīnaṃ janaṃ prati kutaḥ karuṇā'valepaḥ || 65||
abhyudgamo'yamaśaneramṛtāṃśumbimbā-
tsvāminnasau dinamaṇestimiraprarohaḥ |
yuṣmādṛśasya kauṇāmbunidherakasmā-
dasmādṛśeṣvaśaraṇeṣvavadhīraṇaṃ yat || 66||
svāmin mṛḍastvamuruduḥkhabharārdito'haṃ
mṛtyuñjayastvamatha mṛtyubhayākulo'ham |
gaṅgādharastvamahamugrabhavopatāpa-
taptaḥ kathaṃ kathamahaṃ na tavānukampyaḥ || 67||
bhavajīrṇajvarātāpa-mohakampākulāya me |
ekaṃ sudarśanasyāṃśaṃ dehi viśvacikitsaka ! ||
bhaktapriyaḥ svayamapi kṣudhayā'nvitasya
pānotsavaikarasiko'pi pipāsitasya |
tāpāturasya ghanasevanasādaro'pi
jānāsi nātha na kathaṃ sahasā mamārtim || 68||
sarvajña sarvamavagacchasi bhūtabhāvi
bhāgyakṣayaḥ punarasau bhagavan mamaiva |
jānāsi yasya hṛdayasthita eva nārtīṃ
jñātvā'pi vā gajanimīlitamātanoṣi || 69||
bhāle'nalaṃ tava gale garalaṃ kare ca
śūlaṃ prakāśamakhilo'yamavaiti lokaḥ |
antargataṃ trayamidaṃ tu mama tvameva
jānāsi nāsi ca dayālurato hato'ham || 70||
ekastvameva bhavināmanimittabandhu-
rnaisargikī tava kṛpā savituḥ prabheva |
vāmaḥ punarmama vidhiḥ paridevitāni
jātānya(jānāsi)raṇyaruditena samāni yasya || 71||
atyantadurbhagamayogyamabhāgyabhāja-
mājanmanarmavimukhaṃ mukharogravācam |
daivādavāpya sakalāpasadaṃ maheśa
naivā'tyajatkulavadhūriva durgatirmām || 72||
muktvā samādhimasamādhiharaṃ paraṃ ca
proddāmadhāma śiva dhāma sudhāmayaṃ te |
bhrānto'smi tena malayānilavellyamāna-
kallolalolanidhanāni dhanāni labdhum || 73||
ārādhitāḥ pracapalāścapalāvadeva
duṣṭeśvarā na guravo guravo guṇaughaiḥ |
yātāni tāni mama hānimahāni mithyā
śrānto'smi hā vitatamohatamohato'ham || 74||
tṛṣṇā dināddinamabṛṃhata baṃhimana-
māyāminī manasi haimanayāminīva |
nātha tridhāmanayanā'rpayadṛkprasādaṃ
sādaṃ nayāndhatamasaṃ bhramasambhṛtaṃ me || 75||
stambhaṃ vijṛmbhayati dambhamayaṃ bhramaṃ ca
kañcitprapañcayati yacchati vāci mudrām |
kaṃ nāma nā''mayamayaṃ prathayatyakharva-
garvajvarajvalanaduḥsahasannipātaḥ || 76||
tatsāmprataṃ bhuvanaviśrutahastasiddhiṃ
tvāmoṣadhīpatiśikhāmaṇimāśrayāmi |
maunaṃ vimudraya daridraya mohanidrāṃ
vidrāvaya drutamupadravamindriyāṇām || 77||
visrambhamambhasi bhaje bhagavannagādhe
bādhe ripuvyavasite'pyalasībhavāmi |
jāgarmi yanna samavartini hantukāme
kā me gatiryadi karoṣi manāgavajñām || 78||
mohāndhyaharaṇāttīvrabhavajvara-nivāraṇe |
dehināṃ dakṣa ekastvamoṣadhīśaśikhāmaṇiḥ ||
yaste dadāti ravamasya varaṃ dadāsi
yo vā madaṃ vahati tasya damaṃ vidhatse |
ityakṣaradvayaviparyayakeliśīlaḥ
kiṃ nāma kurvati namo na manaḥ karoṣi || 79||
candraḥ kare śirasi cakṣuṣi pādamūle
mūrtāvapīti śiva candrasubhikṣametat |
tāpāndhakāravidhuraṃ śaraṇāgataṃ ki-
māyātu laṅghitavatastava moghabhāvam || 80||
kauṭilyamindudalato na sudhāmayatva-
mūṣmāṇamūrdhvanayanānna paraṃ prakāśam |
mālinyameva galato na gabhīrabhāvaṃ
tvatto'pi me titau kalpamavāpa cetaḥ || 81||
kiṃ varṇayāmi gurutāṃ vipadaḥ pade māṃ
sthāṇornyayuṅkta yadiyaṃ sahasopadiśya |
niḥśākhatāṃ sumanasāmanumeyabhāvaṃ
vicchāyatāṃ viphalatāṃ rasahīnatāṃ ca || 82||
sarvajñaśambhuśivaśaṅkaraviśvanātha-
mṛtyuñjayeśvaramṛḍaprabhṛtīni deva |
nāmāni te'nyaviṣaye phalavanti kintu
tvaṃ sthāṇureva bhagavan mayi mandabhāgye || 83||
śvete sudarśanasamarpaṇatatparasya
kṛṣṇe ca yasya na babhūva viśeṣabuddhiḥ |
sattvaṃ śriyaṃ sṛjasi puṇyajaneṣu māṃ ca
muñcasyapuṇyajanameṣa vidhiḥ kṣato me || 84||
āvarjanaṃ kratubhujāṃ gajavājiratna-
śrīpārijātamadirendusudhā'rpaṇena |
kṛtvā'grahīrgaralamātmani yanmahimnā
sā te kva sampati kṛpā mayi mandabhāgye || 85||
dṛpteṣu te madanadakṣayamā'ndhakeṣu
prādurbhavanmanasi roṣaviṣaprarohaḥ |
siktaḥ sudhāmayamasūta yayā prasādaṃ
sā te kva samprati kṛpā mayi bhāgyahīne || 86||
kecidvarasya bhagavannabhayasya keci-
tsāndrasya kecidamṛtasya karasthitasya |
prāpuḥ kṛpāpraṇayinastava bhājanatvaṃ
śūlasya kevalamabhāgyaparikṣato'ham || 87||
abhrāntavṛtti bhavatāntaradhiṣṭhitaṃ me
cetaḥ prakāśavapuṣā raviṇeva bimbam |
sopaplavaṃ yadi kṛtaṃ tamasā kadāci-
dakṣīṇapuṇyamahimaiva tadā vibhāti || 88||
jānāmi nā'mṛtamayaṃ hṛdayaṃ praveṣṭu-
muddāmaduḥkhadavadāhahatastavā'ham |
dhartuṃ hṛdi tridaśasindhusudhāsudhāṃśu-
śītaṃ bhavantamapi na prabhavāmi dhiṅmām || 89||
kṣīṇaḥ kṣatā'khilakalaḥ pravilīnadhāmā
tvāmāśrito'smi savitāramivā'mṛtāṃśuḥ |
nāstyeva jīvanakalā mama kācidanyā
pādārpaṇena kuruṣe yadi na prasādam || 90||
ghorāndhakāravidhuraṃ vividhopatāpa-
taptaṃ vipadgurutuṣāraparāhataṃ mām |
tvaṃ cejjahāsi vada kastapanenduvahni-
netro hariṣyati parastrividhāṃ mamārtim || 91||
vyaktirna yasya na matirna gatirna śakti-
rnāpi smṛtirvipadapasmṛtipīḍitasya |
tasyauṣadhīśamukuṭaṃ trijagadguruṃ tvāṃ
muktvā kariṣyati paro mama kaścikitsām || 92||
tvaṃ nirguṇaḥ śiva tathāhamatha tvadīyaṃ
śūnyaṃ paraṃ kimapi dhāma tathā madīyam |
tvaṃ cedgavi pravidadhāsi dhṛtiṃ tathā'haṃ
kaṣṭaṃ śivastvamaśivastu vidhikṣato'ham || 93||
kāmastvayīva mayi niṣphalatāmavāpa
kṣipto mayāpi viphalo bhavateva kālaḥ |
vidhvastadhāma mama deva vapustaveva
kaṣṭaṃ śivastvamaśivastu vidhikṣato'ham || 94||
yadvadvibho tava hṛdi pravibhāti nāga-
stadvanmamāpi bhavadekaparāyaṇasya |
yadvatsvadharmaniratastvamahaṃ tathaiva
kaṣṭaṃ śivastvamaśivastu vidhikṣato'ham || 95||
mūrttistaveva śiva me vidhurociteyaṃ
dṛṣṭistaveva bhagavan viṣamā mamāpi |
śūlī viṣādahataśaktirahaṃ yathā tvaṃ
kaṣṭaṃ śivastvamaśivastu vidhikṣato'ham || 96||
kaṇṭhe viṣaṃ vasati me viṣamaṃ taveva
bhūteśvaraḥ paśupatiśca bhavānivā'ham |
aṅgaṃ mamāpi gururugjavalitaṃ taveva
kaṣṭaṃ śivastvamaśivastu vidhikṣato'ham || 97||
svarbhānugīrṇamiva pūrṇaśaśāṅkabimbaṃ
bālāṅganāṅgamiva dāruṇarugvirugṇam |
śrīkhaṇḍacandanamivā'jagaropagūḍhaṃ
vyūḍhaṃ nṛpasya piśunairiva pādamūlam || 98||
hālāhalāktamiva dugdhamahābdhinīraṃ
tīraṃ mahāmakararuddhamiva dyusindhoḥ |
dāridryadagdhamiva sādhugṛhasthavṛttaṃ
cittaṃ samatsaramiva śrutaviśrutasya || 99||
vidyāvihīnamiva satkulajasya rūpaṃ
nirdānabhogamiva kāpuruṣasya vittam |
mānuṣyamujjvalakulaśrutaśīlaśuddhaṃ
jātaṃ vipadvidhuritaṃ mama śocanīyam || 100||
paścātpuraḥ pratidiśaṃ ca vimṛśya paśya-
nkrūraṃ kṛtāntahatakaṃ phaṇipāśapāṇim |
bhūmau patāmi kṛpaṇaṃ pralapāmi pāda-
pīṭhe luṭhāmi śaṭhavatkaṭhino'si kasmāt || 101||
āḥ kiṃ na rakṣasi nayatyayamantako māṃ
helāvalepasamayaḥ kimayaṃ maheśa |
mā nāma bhūtkaruṇayā hṛdayasya pīḍā
vrīḍāpi nāsti śaraṇāgatamujjhataste || 102||
ajño'si kiṃ kimabalo'si kimākulo'si
vyagro'si kiṃ kimaghṛṇosi kimakṣamo'si |
nidrālasaḥ kimasi kiṃ madaghūrṇito'si
krandantamantakabhayārttamupekṣase yat || 103||
dveṣaḥ kimeṣa kṛpaṇe kimutā'kṣameyaṃ
nistriṃśatā kimathavā kimaśaktireva |
huṅkāramātrakanirākaraṇīyagarve
sarveśa kālahatake yadiyatyupekṣā || 104||
ityādi dūḍhya iva niṣṭhurapuṣṭabhāṣī
yatkiñcana grahagṛhīta ivā'staśaṅkaḥ |
ārtyā muhurmuhurayuktamapi bravīmi
tatrāpi niṣkṛpa bhinatsi na maunamudrām || 105||
bhīte bhavārtividhure caraṇāvalagne
bhagnepsite gatimapaśyati kāñcidanyām |
kasmādanāgasi manāgasi viśvasākṣi-
ndākṣiṇyadigdhahṛdayopi parāṅmukhastvam || 106||
svāminnisargamalinaḥ kuṭilaścalo'ha-
metādṛgeva ca ripurmama mṛtyupāśaḥ |
bhrūpallavastava tathāvidha eva tasya
śāntyai viṣe hi viṣame viṣameva pathyam || 107||
kiṃ kāryamebhiraniśaṃ punaruktaśuktai-
rudvegakāribhiralabdhaphalaiḥ pralāpaiḥ |
evaṃ vidannapi muhurmukharaṃ viraumi
paśyāmi na tvaditaraṃ hi paraṃ śaraṇyam || 108||
tvaṃ cetprasādasumukhaḥ praṇayoktibhiḥ kiṃ
tvaṃ cedanādaraparaḥ praṇayoktibhiḥ kim |
bhāgyodaye sati vṛthaiva guṇeṣu yatna-
stasminnasatyapi vṛthaiva guṇeṣu yatnaḥ || 109||
jānannapīti viramāmi na yatpralāpā-
dārttermaheśa mahimaiṣa dṛśastavaiva |
yā rātrimeva divasaṃ timiraṃ prakāśa-
magniṃ himaṃ garalamapyamṛtaṃ karoti || 110||
ārttiḥ śrutaiva kṛpaṇātkaruṇāṃ tavānta-
rutpādayatyaniśamagniśikhāṃ śamīva |
jātaiva nirdahati tāmiyamityamutra
kiṃ brūmahe mahadanaṅkuśamīśvarasya || 111||
yannāma pāmarajanocitamatra kiñci-
daucityamuktamasamañjasamabhyadhāyi |
tatrāpi bharturucitā rucirīśvarāṇāṃ
cetaścamatkṛtikarī kapijhampikā'pi(eva)|| 112||
caurairgṛhītamapi daṣṭamapi dvijihvai-
rgrastaṃ grahairapi niruddhamapi dviṣadbhiḥ |
vyāghrairupadrutamapi drutamākṣipadbhi-
ranviṣṭamapyavanibhṛtpuruṣaiḥ saroṣaiḥ || 113||
bhūtā'bhibhūtamapi sindhujale'pi magnaṃ
bhagnaṃ raṇe'pi patitaṃ davapāvake'pi |
kiṃ bhūyasā yamabhaṭairapi kṛṣyamāṇaṃ
kastrātumarhati maheśvaramantareṇa || 114||
tajjño batāsmyabhilaṣan sukhamakṣayaṃ ya-
dduḥkhaikadhāma vapurasthiramarthayāmi |
yadvā bhavābdhitaraṇāya purāṇamugra-
śīlaṃ pumāṃsamuḍupārdhadharaṃ śrayāmi || 115||
dṛṅmārgamātrapatitāḥ sahasaiva yasya
pañcatvaminduravihavyabhujo'pyavāpuḥ |
dhīmānahaṃ bata tameva sadāśivaṃ ya-
ddevaṃ śrayāmi śaraṇammaraṇārttibhīruḥ || 116||
sthāṇuḥ sa yatra vibhurasya vadhūraparṇā
sā yatra yatra ca tayostanayo viśākhaḥ |
prajñāvatāmahamaho pravaraḥ praveṣṭu-
micchāmi dhāma tadabhīṣṭaphalāptaye yat || 117||
mārjāraśūkaraśaṛgālakarālavaktra-
vetālabhūtaśatasaṅkulamīśvarasya |
bhīṣmaṃ niśācarapiśācaravaiḥ praveṣṭu-
micchāmi dhāma matimānatimātrabhīruḥ || 118||
karṇekṣaṇādacaraṇāttriphaṇātkṛtānta-
pāśāttrasandhṛtasahasraphaṇoragendram |
prājñaḥ sahasraśirasaṃ puruṣaṃ sahasra-
netraṃ sahasracaraṇaṃ śaraṇaṃ śrayāmi || 119||
trastaḥ samastajanatā'pahṛtipragalbhā-
ddīptā'nalolbaṇadṛśaḥ śiva jīviteśāt |
prājñaḥ samastajanatāpahṛtipragal-bhaṃ
tvāṃ jīviteśamanalogradṛśaṃ śrayāmi || 120||
nirbhartsitakratumṛgaṃ samaśiśriyattvāṃ
saṃnyastalāñchanamṛgaḥ kalayā mṛgāṅkaḥ |
yatkāmavairiṇamavetya sakāma eva
tvāmāśrito'smi sudhiyāmadhikastato'ham || 121||
padmāśritaḥ śatadhṛtiścaturānano'pi
yasmātparābhavamavāpadavācyameva |
tyaktaḥ śriyā gatadhṛtirmṛdumandavaktraḥ
prājñastamīśvaramanugrahamarthaye'ham || 122||
ājanma karma viracayya phalaṃ yadāptaṃ
hṛttvā kṣaṇāttadakhilaṃ cirakālabhogyam |
yaḥ svīkarotyapunarāgamanāya bhaktaṃ
seve tamīśvaramaho matimattamo'ham || 123||
śmaśānaikasthānavyasanamanalottālanayanaṃ
viṣajjyotirjvālājaṭilakuṭilavyālavalayam |
vibhuṃ muṇḍaśreṇīvikaṭamukuṭaṃ bhīruhṛdayaḥ
śrayan bhīmaṃ dhīmānahamahasanīyaḥ kṛtadhiyām || 124||
aho tattvajñohaṃ karatalavilīnaikaphaṇinaḥ
samuttrasyankālātkramakavalitaikaikabhavinaḥ |
mahākālaṃ sarvāvayavasulabhānalpabhujagaṃ
sakṛdviśvagrāsapravaṇamatimabhyemi śaraṇam || 125||
śaṛṅgī yatra sphaṭikaśikharī yatra śaṛṅgī pinākaḥ
śaṛṅgī so'pi sphurati vṛṣabho vallabho yatra bhartuḥ |
tatra trastaḥ prakṛtisaralaḥ svalpavāgapragalbhaḥ
prājñaḥ sevāsamayamucitaṃ svāminaḥ prārthaye'ham || 126||
viśrāntirna kvacidapi vipadgrīṣmabhīṣmoṣmatapte
citte vitte galati phalati prākpravṛtte kuvṛtte |
tenātyandhaṃ sapadi patitaṃ dīrghaduḥkhāndhakūpe
māmuddharttuṃ prabhavati bhava tvāṃ dayābdhiṃ vinā kaḥ || 127||
yeṣāmeṣā tanudhanalavaprārthanā'narthakanthā
panthānaṃ na pradiśati paraṃ sthānamānandi labdhum |
teṣāmeṣāmakṛpaṇa kṛpābhājanānāṃ janānā-
māśāpāśākulitamanasāṃ dṛṣṭimiṣṭāṃ nidhehi || 128||
udañcaya mukhaṃ manāgabhayaghoṣamudghoṣaya
prayaccha viśadāṃ dṛśaṃ gativihīnamāśvāsaya (dhṛtivihīnamāśvāsaya)|
kimanyadayamāgataḥ kupitadṛṣṭirutkandharaḥ
kṛtānta iti mā sma bhūraviralāvalepālasaḥ || 129||
muhuḥ kimaparaṃ bruve bhujagapāśapāṇiṃ puraḥ
sphurantamiva roṣaṇaṃ ravijakiṅkaraṃ paśyataḥ |
dhṛtiścalati me gatiḥ skhalati mūrtirudvellati
sthitirjvalati nirvṛtirvigalati smṛtirmīlati || 130||
durgaṃ yatsugamatvameti bhajate dūraṃ yadabhyarṇatāṃ
yatkrīḍopavanatvameti marubhūrmitrāyate yadripuḥ |
yasyāḥ sā bhuvi śaktirapratihatā sārttistvadākrandane
svāminmāmanudatkṛpā'pi nudatu tvāṃ matsamāśvāsane || 131||
dvāri śrīśca sarasvatī ca vasataḥ svāmiṃstavā'stakrudhau
māṃ tu śrīrbhavadaṅghriviṣṭaratale nityaprarūḍhasthitim |
yāvanmātrasarasvatīparicayadveṣādahāsīdato
vahniṃ durvahamudvahāmi hṛdaye glāyannudanvāniva || 132||
nātha prāthamikaṃ vivekarahitaṃ tiryagvadastaṃ vaya-
stāruṇyaṃ vihataṃ virādhitavadhūvisrambhaṇārambhaṇaiḥ |
svāminsamprati jarjarasya jarasā yāvanna dhāvannayaṃ
mṛtyuḥ karṇamupaiti tāvadavaśaṃ pādāśritaṃ pāhi mām || 133||
āsīdyāvadakharvagarvakaraṇagrāmābhirāmākṛti-
stāvanmohatamohatena na mayā śvabhraṃ puraḥ prekṣitam |
adyā'kasmikapātakātaramatiḥ kaṃ prārthaye kaṃ śraye
kiṃ śaknomi karomi kiṃ kuru kṛpāmātmadruhaṃ pāhi mām || 134||
jātyandhaḥ pathi saṅkaṭe pravicaranhastā'valambaṃ vinā
yātaścedavaṭe nipatya vipadaṃ tatrā'parādho'sya kaḥ |
dhigdhiṅmāṃ sati śāstracakṣuṣi sati prajñāpradīpe sati
snigdhe svāmini mārgadarśini śaṭhaḥ śvabhre patatyeva yaḥ || 135||
trātā yatra na kaścidasti viṣame tatra prahartuṃ pathi
drogdhāro yadi jāgrati pratividhiḥ kastatra śakyakriyaḥ |
yatra tvaṃ karuṇārṇavastribhuvanatrāṇapravīṇaḥ prabhu-
statrāpi praharanti cetparibhavaḥ kasyaiṣa garhāvahaḥ || 136||
kiṃ śaktena na yasya pūrṇakaruṇāpīyūṣasiktaṃ manaḥ
kiṃ vā tena kṛpāvatā parahitaṃ kartuṃ samartho na yaḥ |
śaktiścāsti kṛpā ca te yamabhayādbhīto'pi dīno janaḥ
prāpto niḥśaraṇaḥ puraḥ paramataḥ svāmī svayaṃ jñāsyati || 137||
bhṛṅgāre karapuṣkarapraṇayini svarnimnagānirjhare
sampūrṇe karuṇārase pariṇatasphāre tuṣāratviṣi |
asti svādu ca śītalaṃ ca sulabhaṃ pīyūṣamoṣacchide
prāptaśca praṇayī puraḥ paramataḥ svāmī svayaṃ jñāsyati || 138||
ārttiḥ śalyanibhā dunoti hṛdayaṃ no yāvadāviṣkṛtā
sūte lāghavameva kevalamiyaṃ vyaktā khalasyā'grataḥ |
tasmātsarvavidaḥ kṛpā'mṛtanidherāveditā sā vibho-
ryadyuktaṃ kṛtameva tatparamataḥ svāmī svayaṃ jñāsyati || 139||
lekhāḥ santu prasannā budhasadasi śucerāgamasyāstu labdhi-
rmithyādṛṣṭiśca mābhūdanupadhirahato dīrghakālo'stu bhogaḥ |
sabhyāḥ sarve'nuvṛttiṃ vidadhatu tadapi nyāyato nāsti muktiḥ
samyagdarśī pramātā racayati na bhavānīśvaraścedvicāram || 140||
jānubhyāmupasṛtya rugṇacaraṇaḥ ko merumārohati
śyāmākāmukabimbamambaratalādutplutya gṛhṇāti kaḥ |
ko vā bāliśabhāṣitaiḥ prabhavati prāptuṃ prasādaṃ prabho-
rityantarvimṛśannapīśvara balādārtyāsmi vācālitaḥ || 141||
dhatte pauṇḍrakaśarkarā'pi kaṭutāṃ kaṇṭhe ciraṃ carvitā
vairasyaṃ varanāyikā'pi kurute saktyā bhṛśaṃ sevitā |
udvegaṃ gaganāpagā'pi janayatyantarmuhurmajjanād
viśraddhāṃ madhurā'pi puṣyati kathā dīrgheti viśramyate || 142||
itthaṃ tattadanantasantatalasaccintāśatavyāyata-
vyāmohavyasanāvasannamanasā dīnaṃ yadākranditam |
tatkāruṇyanidhe nidhehi hṛdaye tvaṃ hyantarātmā'khilaṃ
vetsyantaḥsthamato'rhasi praṇayinaḥ kṣantuṃ mamā'tikramam || 143||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``dīnākrandanaṃ'' nāmaikādaśaṃ stotraṃ sampūrṇam |
12. tamaḥśamanaṃ dvādaśaṃ stotram
makhairupāsyo'pi nayajñasevyo nirāmayo'pi prathitograśūlaḥ |
vedapriyo'pyaśrutivallabho yaḥ śrayāmi taṃ devamacinyaśaktim || 1||
stutyastvameva stutikṛttvameva stutistvameva tvadṛte'sti nānyat |
iyaṃ tvavidyā yadahaṃ stuve tvāṃ stutyeti mithyā pṛthagarthabuddhiḥ || 2||
staumyeva tatrāpi punaḥ punastvāṃ naśyatyavidyā yadavidyayaiva |
rajaḥprarūḍhaṃ mukure pramārṣṭuṃ rajo vinā na hyaparo'styupāyaḥ || 3||
vijṛmbhamāṇe tamasi pragal-bhe yathā bhavāsaktamatiḥ sthito'ham |
hate'pi tasminnuditāvabodhastathā bhavāsaktamatirbhaveyam || 4||
jagadvidheyaṃ sasurāsuraṃ te bhavān vidheyo bhagavan kṛpāyāḥ |
sā dīnatāyā namatāṃ vidheyā mamā'styayatnopanataiva seti || 5||
jāne na śaithilyamupaiṣyavaśyaṃ mamārtibhaṅge bhagava~stathāpi |
vijñapyase karma mamaiva mābhūnmayi prasādapratighastaveti || 6||
pathyaṃ ca tathyaṃ ca bharakṣamaṃ ca snigdhaṃ ca mugdhaṃ ca manoharaṃ ca |
salīlamunmīlya vacaḥ prasannaṃ prapannamāśvāsaya candramaule || 7||
madhudravārdraṃ viṣamāharāmaḥ piṇḍīnigūḍhaṃ baḍiśaṃ gilāmaḥ |
antarniviṣṭotkaṭakaṇṭakaughaṃ grasāmahe pauṇḍraka(puṇḍraka)piṇḍakhaṇḍam || 8||
yadā mukhe kāmadhurānajasraṃ vipākarūkṣān viṣayān bhajāmaḥ |
vibho vidanto'pi kimatra kurmo jahāti saktiṃ na matirvarākī || 9||
muktāmayā dīrghaguṇāḥ suvṛttā nairmalyabhājo dadhataḥ phalarddhim |
kathaṃ na hārā iva bhaktimantaḥ padaṃ hṛdīśasya bhajanti santaḥ || 10||
guhāśrito dharmaratirgirīśaprathāṃ dadhāno bhavataḥ prasādāt |
satyāhitaprītirahīnabhaktirbhavānivāhaṃ bhagavan bhaveyam || 11||
yamekamārādhya mahārisaṅgamā-
dasaṃśayaṃ bhaktajanaḥ pramucyate |
upasthitastasya bhavatprasādataḥ
kathaṃ harerugra mahārisaṅgamaḥ || 12||
sudurlabho'yaṃ bhavati grahaḥ puna-
rmukhe'pyasau sannihitā sarasvatī |
idaṃ kurukṣetramatīvapāvanaṃ
kimarthamarthinyucite vilambase || 13||
na kasya saubhāgyavatī camatkṛtiṃ
diśatyasau bhāgyavatī sarasvatī |
vibhuṃ jitakleśamapi sthirājinaṃ
karoti yatsammukhamasthirājinam || 14||
anujjhitānuttamadānasampadaḥ
sadākhilajñānavihīnacetasaḥ |
akālabhītiglapitānkaroti yaḥ
prabhuḥ prasannaḥ kupitaśca dehinaḥ || 15||
purā ciraṃ yo vidadhe vanāntare
vidhuḥ padaṃ rūḍhakuraṅgasauhṛdaḥ |
sadā parasvāpaharo'pi yo ravi-
stayoḥ samatvaṃ dṛśi yasya bhāsate || 16||
kathaṃ vibho tasya tava pravartatāṃ
satāmasevye pathi pātitātmasu |
dayāvidheyasya sadā'smadādiṣu
prasādapātreṣu manāganādaraḥ || 17||
vibho bhavadbhālavilocanā'nala-
prasūtadhūmairiva sāśrulocanaḥ |
sagharmaleśastava dakṣiṇekṣaṇa-
prarūḍhacaṇḍadyutibhābharairiva || 18||
ghanaprarohatpulakāṅkuro bhava-
cchikhaṇḍakhaṇḍendukarotkarairiva |
sadantavīṇastuhinaughaśītala-
tvaduttamāṅgadyunadījalairiva || 19||
taraṅgitāṅgo bhavadaṅgadasphura-
tphaṇīndraphūtkārasamīraṇairiva |
bhaveyamānandasudhāpariplutaḥ
prasannamālokya bhavantamagrataḥ || 20||
yadeṣa sehe paraśukṣatavyathāṃ
prabhoḥ priyaḥ syāmiti candanadrumaḥ |
bhujaṅgamāliṅgitakandharo druvaṃ
bibharti sāmyaṃ girijāpaterataḥ || 21||
yaccakrire dhṛtanakhāntanipātapīḍāḥ
prītiṃ prabhoḥ sumanasāṃ sumanastvametat |
yatsvāmino na dahane'pi nipatya sevā-
hevākamaujjhadagurorapi gauravaṃ tat || 22||
ādau pradarśya paramāmṛjutāmathānta-
rāviśya marmaṇi na yanniśitāstudanti |
svāmin śarā iva khalāḥ kṛtino vaneṣu
sa tvatpadāmbujarajaḥkaṇajaḥ prasādaḥ || 23||
tvannāma pāmarajanairapi gīyamāna-
mānandamarpayati yaṃ hṛdi bhaktibhājām |
svāminnamānavayaveṣvakhileṣu nūna-
mudbhidyate bahirasau pulakacchalena || 24||
gharmaḥ prakampapulakau giri gadgadatva-
mityādayo'ntyasamaye prabhavantyavasthāḥ |
tvaddarśanātkṛtadhiyāṃ dadhatāmamanda-
mānandamantakabhayādbhagavan pareṣām || 25||
antyakṣaṇe bhava bhavaccaraṇābjasevā-
hevākino dadhati kecana kaṇṭhapīṭhe |
bhogīndrabhogamadhigamya bhavadgaṇatva-
manye kṛtāntakarakoṭarakoṭikṛṣṭam || 26||
bhītābhayārpaṇavidhau kila kālanāśaṃ
kartuṃ na yaḥ kṣaṇamapi kṣamate kadāpi |
śvetābhayārpaṇaparasya kathaṃ nu kāla-
nāśakṣamatvamabhavattava tasya deva || 27||
bhaṅktuṃ na pārayati yaḥ kvacideva deva
kāmaṃ kṛpāmṛtamṛdustava dṛṣṭipātaḥ |
uddāmaroṣaparuṣaḥ kila kāmabhaṅga-
maṅgīcakāra kathameṣa maheśa pūrvam || 28||
kiṃ merumandaramukhā girayaḥ śirobhi-
ratyunnatairdadhati garvamakharvamete |
etattuṣārakiraṇābharaṇapraṇāma-
prahvaṃ jagajjayati māmakamuttamāṅgam || 29||
gātrāntarātiśayaśaṃsi yadetaduccai-
rnāmottamāṅgamiti nātha śiro bibharti |
tadyujyate bhava bhavaccaraṇāravinda-
pīṭhapraṇāmaparamasya namasyamasya || 30||
kiṃ śrīghano'pyasugataḥ kimumādhavo'pi
na tvaṃ kadācana janārdanatāṃ bibharṣi |
svāmin gajārirapi kiṃ nagajāpriyastvaṃ
svātantryamasti yadi vā bhavataḥ kimanyat || 31||
aruṇadyutiglapitaśītadīdhiti-
prakaṭīkṛtālikamalaṃ vilokya me |
bhavataḥ prabhātamiva bhālalocanaṃ
bhajate kadā nu viṣamaṃ śamaṃ tamaḥ || 32||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``tamaḥśamanaṃ'' nāmakaṃ dvādaśaṃ stotraṃ sampūrṇam |
13. prabhuprasādanaṃ trayodaśaṃ stotram
atha nutibhiramantharākṣarābhiḥ sujanamanomṛgavāgurābhirābhiḥ |
vibhumabhayadamādarādarātikṣapaṇapaṇapravaṇaṃ prasādayāmaḥ || 1||
suramukuṭaviṭaṅkaratnarociḥkhacitanakhāṅkurakesarābhirāmam |
puraharacaraṇāravindayugmaṃ śirasi vidhatta kirīṭavāñcchayā kim || 2||
kalayatu bhavatāmabhagnavṛttirharaharaśaṅkaraśaṅkareti sūktiḥ |
aviralagalamaṇḍanapratiṣṭhāṃ kimamalamauktikadāmakāmanābhiḥ || 3||
kalayata maṇikuṇḍale'valepaṃ ślathayata nirmmalamallikābhilāṣam |
haracaritanutikramairajasraṃ kuruta navaśravaṇāvataṃsalīlām || 4||
iha vihatabhavopatāpamāpatpraśamasamarthamanarthanāśahetum |
namati na matimānamānavīyapramadavidhānaparaṃ paraṃ haraṃ kaḥ || 5||
trijagati bhajati sthitiṃ budhānāṃ dhuri duritakṣatiśikṣitaḥ sa ekaḥ |
śaśiśakalaśikhāmaṇipraṇāmapraṇayi bibhartī śiraścirasthiraṃ yaḥ || 6||
sa jayati jagadīśaśaktipātastava kavituryadasaktamuktidevī |
rasamasamacamatkṛtiprasūtiṃ vitarati kāñcanasiddhimeti yena || 7||
iha vidadhatu nāma pāmarāṇāṃ praṇatikṛtāmapare prabhupratītim |
prabhavati na tu mṛtyubhītibhaṅge jagati bhavantamṛte'mṛteśa kaścit || 8||
viyadiyati mahasvimaṇḍale kaḥ śritavati kartumanaṣṭaceṣṭamīṣṭe |
viṣamatamatamaḥ prabandhamandhaṃ jagadagadaṃ ghṛṇimantamantareṇa || 9||
śakalitakalitarṣa saprakarṣa prakaṭitaharṣa maharṣabhādhirūḍha |
diśa viśadamadabhramabhrasindhudravadhavalaṃ bhavalaṅghanaṃ prasādam || 10||
prabhavati bhavati prasādaramyāṃ diśati dṛśaṃ na vibhā vibhāvarīṇām |
savitari vitariṣyati prakāśaṃ nahi mahimaprabhavo vibhāvarīṇām || 11||
samucitasadasadvicāracaryācaturataraḥ kataraḥ kalau madanyaḥ |
iha paramaśivaṃ bhavaṃ vijetuṃ paramaśivaṃ bhavameva sevate yaḥ || 12||
śamayitumalamagnimagnireva glayapati hanta himaṃ himaṃ vivṛddham |
jarayati ca payaḥ payaḥ kimanyaddharati bhavaṃ bhava eva bhaktibhājām || 13||
varamajinajaṭābhṛtaḥ kapālapraṇayikarasya narasya bhaikṣyavṛttiḥ |
smaraharacaraṇāravindasevāvirahavatī na tu cakravartimūrtiḥ || 14||
marubhuvi varamuṣṇaraśmiraśmiprakarakadarthitamūrtirekabhekaḥ |
na tu bhavadanurāgabhāgadheyaglapanavipadvikalīkṛto manuṣyaḥ || 15||
kalimalapaṭalī malīmasatvaṃ nayati matiṃ hatadarpa darpaṇābhām |
iti śitigala śītaraśmiprasarasitaṃ rasitaṃ tavā'rthayāmaḥ || 16||
nutimukharamukhaḥ prasādapātraṃ bhavati mameti yadaiṣa te kṛtāntaḥ |
api kavalitasaptalokalokaḥ prabhavati naiva tadaiṣa me kṛtāntaḥ || 17||
tava ravijapurāndhakapramāthe dṛśi viśikhe triśikhe ca yaḥ kṛtāsthaḥ |
paricaraṇaparaḥ purāvirāsīt sa jayati daivatamuttamaṃ kṛśānuḥ || 18||
samajani janitaspṛhaḥ sa ekastrijagati candrakirīṭa kṛṣṇasāraḥ |
upakaraṇapadaṃ jagāma kṛttistava caraṇāstaraṇakrameṇa yasya || 19||
janirapi jayati vinītarītirjagati bhujaṅgamapuṅgavasya tasya |
maṇikaṭakamudasya yasya śasyaṃ bhava bhavadaṅgadabhaṅgimeti bhogaḥ || 20||
alabhata bhagavannabandhyamekastribhuvanasīmani janma puṅgavendraḥ |
tava bhava śavabhasmarūṣitoṃ'ghriḥ śirasi dhṛto vinayānatena yena || 21||
janayati jagati spṛhāṃ na keṣāṃ janirapi kuñjaraśekharasya tasya |
tribhuvanamahitasya yasya kṛttirbhava bhavadambaraḍambaraṃ bibharti || 22||
sa jayati jitakāla kālakūṭaḥ svajanipavitritamugdhadugdhasindhuḥ |
tava kavalabhuvaṃ javādavāptaḥ kalayati yaḥśitikaṇṭha kaṇṭhapīṭham || 23||
pariṇataśaradindusundarābhaṃ vadanamanabhranabhonibhaśca kaṇṭhaḥ |
iti śubhamubhayaṃ vibhorabhinnatridaśadhunīyamunāviḍambi vando || 24||
himahimakarahāri vāri gāṅgaṃ kuvalayakāntikalindakanyakāmbhaḥ |
iti śubhamubhayaṃ prabhuprasādādvapuriva hāriharaṃ varaṃ prapadye || 25||
dhṛtakuṭilakalaḥ kilāndhakārī rucitamalīmasabhogibhogayogaḥ |
tvayi sapadi parāṅmukhe yathā'haṃ tvamiva mahākalikālabhagnaśaktiḥ || 26||
kavalitaviṣamaklamaṃ dadhānaḥ satatasamāśritatārakārirūpam |
dvijapatimukuṭastathaiva jātu tvamiva śiva tvayi sammukhe bhaveyam || 27||
jaya jayada vaco vimuñca muñcanmadhu madhuraṃ janarañjanapragalbham |
hara hara duritaṃ mamā'dya mādyadbhava bhava bhīmadabhīmadarśanastvam || 28||
nijavṛjinavijṛmbhitaṃ mamaitattrijagadanugrahanityadīkṣitastvam |
kvacidapi bhagavannadṛṣṭapūrvaṃ prathayasi yanmayi vihvale'valepam || 29||
praṇamati vidhure puro'valagne dadhati mayi prasabhaṃ gadābhiyogam |
kimiti parijane dayāmṛtārdrāṃ dṛśamapakāravatīva no dadhāsi || 30||
sphuṭavikaṭavikasvarapradīptajvalanamahīnamahīndrahāra cakṣuḥ |
balavadalavadarpakālakāmakṣayakaramākaramāśu muñca siddheḥ || 31||
himakaramakaradhvajau na rūpaṃ kavidhiṣaṇau dhiṣaṇaucitīṃ na tīvrām |
raṇamaruṇamarutsakhau jigīṣoranuharato haratoṣiṇo na tejaḥ || 32||
ravikaravikasatsitābjaśubhraprasṛmaracāmaracāruhāsinī śrīḥ |
bhava na bhavanamujjhati kṣaṇaṃ yatsukṛtavatāṃ tava tāṃ praṇaumi śaktim (bhaktim)|| 33||
yadabhayada bhavatyavasthite'ntaḥ samahima no hi mano viśokamāsīt |
viśadaviśadakarmakardame tatsapadi viṣādi viṣāda kena jātam || 34||
nayavinayaviśuddhamantarudyaddahanasamānasamāptaroṣadoṣam |
yamaniyamaniyantritaṃ mano me kuru savilāsavilāsinīviraktam || 35||
avasarasarasālasālaghūdyanmadhuravadhūravadhūtacittacintaḥ |
sa sakalakaladhautadhauta mūrtistava natimānatimātracitracidyaḥ || 36||
malamalamalaghuṃ vihantumāptuṃ mudamudayaṃ samayaṃ samarthya cāntaḥ |
mahamahamahaheśvarapraśaṃsāmayamayamāśrayamāśrayaṃ sukhānām (guṇānām)|| 37||
guṇibhirvibudhairharīndramukhyairbhava saṃsāraripordviṣaḥ stutasya |
hitamātanute tava prasādādasuhṛtprāṇaharo'pi puṇyabhājām || 38||
api nātha janārdanasya viṣṇorapi vaikuṇṭha iti prasiddhibhājaḥ |
adhikaṃsaruṣo'pi cedbhavatto jhagitiprāgabhavatsudarśanāptiḥ || 39||
api sarvajanā'viruddhabuddherapi tīkṣṇasya paraṃ jitakrudho'pi |
na kathaṃ mama sādhunā'pi yadvā jagadīśo'si vibhuḥ kimucyate te || 40||
sumanaḥsulabhe tathā na nāke sumanaḥsundarasaurabhe na cāsthām |
sumanaḥsu ca nāśnute sudhārdrāsu manaḥ suṣṭhu yathā bhavatkathāsu || 41||
śrīrdevī jayati yayā kaṭākṣitānāṃ hastasthā sakalasamīhitārthasiddhiḥ |
sā yasmādajani tamabdhimarbhakāya prādādyaḥ kathamiva varṇyate sa devaḥ || 42||
nārhatyamandarayamandarayatnalabdhā
spardhāṃ sudhā na vasudhā'navadhiśca yasya |
so'yaṃ navaḥ śivanavaḥ śivatātaye'stu
vidvatsabhājanasabhājanabhājanaṃ vaḥ || 43||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``prabhuprasādanaṃ'' nāma trayodaśaṃ stotraṃ sampūrṇam |
14. hitastotraṃ caturdaśaṃ stotram
yena netrakaraśekharaspṛśā hanti santamasamantarīśvaraḥ |
aindavaṃ davathuhāri hāri taddhāma kāmadamadabhramastu vaḥ || 1||
bhaktinirbharagabhīrabhāratīvaibhavo bhava bhavannaveṣu yaḥ |
śuṣkaśaṣpamiva tasya bhāsate vāsavāsanaparigrahagrahaḥ || 2||
ullasatpulakalāñchitaṃ vapurbāṣpapūritapuṭe vilocane |
gadgadā harahareti bhāratī sambhavanti bhavabhaktiśālinām || 3||
nīlakaṇṭha taruṇenduśekhara tryambaka trinayaneti bhaktitaḥ |
gadgadaṃ nigadatastṛṇopamaṃ hemapūrṇamakhilaṃ mahītalam || 4||
antakabhrukuṭibhītivihvalaśvetasāntvanavidhau babhūva yat |
māṃ prati pratipadaṃ kadarthitaṃ tatkva samprati kṛpāmṛtaṃ tava || 5||
vahniśītakaragharmaraśmayo locanatritayavartinastava |
śītatāpatimirārditasya me nātha citralikhitā iva sthitāḥ || 6||
sambhramabhramadamandamandarakṣīranīradhigabhīrayā girā |
trātumarhasi kṛtāntakiṅkarairmāmaśarmabhirabhidrutaṃ drutam || 7||
kālakiṅkarakarāntarasphuradbhogabhogipariṇaddhakandharam |
antareṇa bhavadīyahuṅkṛtiṃ nātha mocayitumutsaheta kaḥ || 8||
utkaṭabhrukuṭibhīmadarśanadvāḥsthahuṅkṛtikhalīkṛtātmabhiḥ |
dvāri yaḥ kṣitibhujāṃ parābhavaḥ sahyate draviṇaleśatṛṣṇayā || 9||
sa tvadāyatanadehalītale puṣpapātrakarapatrikākaram |
kañcideva bhavadarcanotsukaṃ candraśekhara karoti kātaram || 10||
antareṇa bhavadaṅghrisevanaṃ deva kevalamiyaṃ viḍambanā |
yannṛṇāṃ kamalinīdalaskhalannīraśīkaracalā vibhūtayaḥ || 11||
yattu nirjarataraṅgiṇītaṭe sauhṛdaṃhariṇabālakaiḥ samam |
bhūbhṛtāṃ ca tṛṇavadvilokanaṃ śrīriyaṃ bhava bhavatprasādataḥ || 12||
tvāmupetya śaraṇaṃ maheśvaraṃ deva niḥśaraṇa eva cedaham |
doṣa eṣa mama jāhnavījale tarṣulo hi śapharaḥ svaduṣkṛtaiḥ || 13||
gadgadodgatagiraścirasthirapremahemanikaṣopalopamam |
śaṃsataḥ śiva śiveti śāmbhavaṃ nāma kāmapi daśāṃ praśāsti me || 14||
vāri vāritabhavārti mūrdhni te bhāti bhā'tidhavale himatviṣaḥ |
tena te natimimo davacchide dehi dehiṣu karāvalambanam || 15||
mūḍhamūḍhavipadaṃ padaṃ śucāmandhamandhakaripo'ripothitam |
moghamoghamitametamenasāṃ māṃ tamāntakaratāra tāraya || 16||
yaṃ svayaṃ svarasabhairavai ravairakṣara kṣapitarākṣasekṣase |
māramāra bhuvi bhāsate sa te bhānubhānubharabhāsuraḥ suraḥ || 17||
bāṇabāṇakṛtapūjanairjanairādarādaghaṭi yaistavaṃ stavaḥ |
vāstavāstava ta eva tāvatā bandivanditayaśogaṇā gaṇāḥ || 18||
tvāṃ satāmarasavāsavā''savāḥ jñātadurgamagamāgamā''gamāḥ |
arcayanti sadinaṃ dinandinaṃ gīrbhirambarasadaḥsadaḥ sadaḥ || 19||
na me tathā prītimanekapālī karoti no vā dayitā'ṅkapālī |
yathoktidevī sa vibhuḥ kapālī yayā'rcyate sevakalokapālī || 20||
bhavantamārādhya parārdhyavaibhavaṃ bhavaṃ vidhāya dviṣatāṃ parābhavam |
bhavaṃ ca jitvā jahataḥ punarbhavaṃ bhavanti muktāḥ padamāpya śāmbhavam || 21||
na vaṃśavṛttergaṇayāmi tānavaṃ na bandhuraṃ kañcana naumi mānavam |
navaṃ tavānanditadevadānavaṃ na vañcito'haṃ racayansadā navam || 22||
dhanañjayākṣaṃ sakalārthasādhanaṃ dhanañjayārādhitamādhibādhanam |
dhanaṃ viditvā vipadāṃ viśodhanaṃ dhananti dhanyā vibhumṛddhivardhanam || 23||
kalāpinaḥ prāvṛṣi yadvadambudadhvanirghanānandaviśaṅkalāpinaḥ |
kalāpinaddhasphuṭajūṭadhāriṇastathā'mṛtaṃ varṣatu gīḥ kalāpi naḥ || 24||
nṛjanma tasyaiva bhavānavadyaṃ bhavānavadyandavamīkṣate yam |
tyajatyajātoparamā samānaṃ ramā'samānandakarī na cainam || 25||
ataḥ paraṃ jagati kimasti nīrasaṃ yaduktamapyasakṛdudīryate vacaḥ |
sahasraśaściramapi carvitā punarnavannavaṃ sravati rasaṃ śivastutiḥ || 26||
mṛtyuṃ mṛtyuñjaya jaya jagadghasmaraṃ bhasmabhāvaṃ
kāmaṃ kāmaṃ naya nayanajoddhāmadhāmacchaṭābhiḥ |
bhavyābha vyākulakulavadhūrutkayetyācarantaṃ
satrāsatrāṇacaṇa caritānyadbhutāni stumastvām || 27||
yattatsarganisarganirmitikaraṃ yadrāvaṇadrāvaṇa-
vyāpārā'vasarāvasaktamatha yatsaṃvartasaṃvartakam |
svābhāsaṃ bhavasambhavasthitilayasphārocitaṃ rocitaṃ
bhāsā kāraṇakāraṇaṃ diśatu taddhāmehitaṃ me hitam || 28||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``hitastotraṃ'' nāma caturdaśaṃ stotraṃ sampūrṇam |
15. karuṇārādhanaṃ pañcadaśaṃ stotram
adhunā tapaseva devatāmabhi yogena sarasvatīmiva |
suhṛdeva samīhitāṃ śriyaṃ praguṇeneva guṇena saṃsadam || 1||
pratibhāmiva kāvyakarmmaṇā vasunā kīrtimivārthigāminā |
manasīva śamena nirvṛtiṃ sukṛteneva paratra sadgatim || 2||
karuṇāṃ hariṇāṅkalakṣmaṇaḥ sakalārthā'rpaṇakalpavallarīm |
vipadantakarīmupāsituṃ stutileśena manaḥ pravartate || 3||
karuṇāṃ bhavato vikāsinīmamalairīśa guṇairalaṅkṛtām |
nalinīmalinīva bhāratī bhajatīyaṃ mama valguvādinī || 4||
upalakṣya tavāndhakāritāṃ mayi dhatte padamandhakāritā |
viṣamāmavalokya te dṛśaṃ mama dṛṣṭirviṣamatvamaśnute || 5||
tava vīkṣya vṛṣādharīkṛtiṃ ghaṭate me'pi vṛṣādharīkṛtiḥ |
dhṛtavakrakalatvamīkṣya te prathate vakrakalatvameva me || 6||
tava vīkṣya ca bhagnakāmatāmuditeyaṃ mama bhagnakāmatā |
karuṇāmapi te samīkṣya me karuṇā gīrna kathaṃ pravartatām || 7||
sasurāsuramānuṣaṃ jagadyadadhīnaṃ sa bhavānapīśvaraḥ |
vaśavartipade yayā'rpito jayatīyaṃ karuṇaiva tāvakī || 8||
karuṇā tava jīviteśvarīmatiśete bhagavannumāmapi |
umayā hṛtamardhameva yatsakalastvaṃ punaretayā hṛtaḥ || 9||
karuṇā tava śasyate yayā jitakāmo'pi bhavān vaśīkṛtaḥ |
idamanyadiyaṃ yadambikāmapi devīmanayadvidheyatām || 10||
jagadambubhuvā bhuvāmbhasā sitabhāsā nabhasā nabhasvatā |
dhṛtamuṣṇarucātmanā ca yatkaruṇāyā mahimā taveśa saḥ || 11||
ahataprasarāṃ prasādinīṃ sahasā'pohitatāpasampadam |
śaraṇaṃ karuṇātaraṅgiṇīṃ pratipadye tava deva pāvanīm || 12||
praṇayena ciraṃ prasāditā madanāśākulitena cetasā |
taruṇī karuṇā karoti te na kathaṃ nātha hṛdi sthiraṃ padam || 13||
bhujagā iva candanadrumaṃ glapayanto viṣamā nayanti mām |
parihāryadaśāmarātayo madamānapramukhā dhṛticchidaḥ || 14||
karuṇāmaruṇā'nujanmanastanumuccairiva pakṣapātinīm |
samupaimi dhṛtācyutaśriyaṃ śaraṇaṃ bhūdharaputrikāpateḥ || 15||
sphuritāruṇacārucakṣuṣā vapuṣā nirbharagharmavipruṣā |
paruṣāśayatāmupeyuṣā saruṣā yatpraharanti yoṣitaḥ || 16||
bhagavan dṛḍhabaddhamūlayordviṣatoreṣa sahasraśākhayoḥ |
aviṣahyanipātapīḍayoranubhāvaḥ kusumeṣuroṣayoḥ || 17||
anayoḥ karuṇaiva tāvakī niyataṃ mūlanikṛntanakṣamā |
yamalā'rjunayorivorjitā śiśulīlā narakāntakāriṇaḥ || 18||
na vidhirnidhilābhasambhṛto na vinodo mṛganābhisambhavaḥ |
na ca śāradacandracandrikā na kalaṃ kokilakaṇṭhakūjitam || 19||
na śiśorasamañjasaṃ vaco na mṛgākṣīparirambhavibhramaḥ |
madhurā na kavīndrabhāratī na ca sāmrājyavibhūtijṛmbhitam || 20||
na rasāyanapānakautukaṃ na ca śakrāsanavāsavāsanā |
paripūrayituṃ kṣameta te karuṇāyā hara ṣoḍaśīṃ kalām || 21||
surabhirna mama spṛhāspadaṃ surabhirdakṣiṇamāruto'pi vā |
surabhikṣuvitīrṇavāñchitā surabhirno karuṇā yathā tava || 22||
samudeti yadaśru śokajaṃ rucirānandamayaṃ vibhāti tat |
pulakaḥ prathate bhayena yaḥ sa camatkārakṛtaḥ pravartate || 23||
klamajaṃ dṛśi yannimīlanaṃ paramārthānubhavādudeti tat |
śaraṇaṃ karuṇāmupeyuṣāṃ kṛtināṃ candrakirīṭa tāvakīm || 24||
bhajataḥ saraleva bhāratī narakaṅkālakṛtagrahasya me |
karuṇā prathatāmumāpate kalikālāñchitavigrahasya te || 25||
bhagavan madirāmadonmadapramadāpāṅgataraṅgabhaṅguram |
jarasā tarasāvasāditaṃ vapurāyāti na yāvadāpadam || 26||
kupitāntakakiṅkareritaḥ kuṭilāṃ tadbhrukuṭiṃ viḍambayan |
na ghanāñjanapuñjasannibho bhujago yāvadupaiti kandharām || 27||
na kukarmavipākakalpitā narake yāvadudeti vedanā |
gaditā śamanānugāmibhiḥ paruṣā gīriva marmabhedinī || 28||
yadi tāvadiyaṃ na gāhate hṛdayaṃ te karuṇātaraṅgiṇī |
bata duḥsahatāpasampadāmitarā kā śaraṇārthināṃ gatiḥ || 29||
na samānasamāgamāṃ tathā pramadāya pramadā yatātmanām |
śivadā śivadāsyakṛdyathā svadamānasvadamā'naghā matiḥ || 30||
ekaḥ purandarapuraṃ daravellitabhrūḥ
kiṃsvijjanaṅgamajanaṃ gamayenmaharṣiḥ |
kiṃ tāmasaṃ padamasampadamindramanyo
dhanyodayā bhava dayā bhavato na cetsyāt || 31||
ārdre manasyuditamārtajanopatāpa-
samparkato'tha dṛśi kandalitaṃ śubhāyām |
vāci kṣaṇātkusumitaṃ phalitaṃ ca kṛtye
kāruṇyabījamajaraṃ jayatīndumauleḥ || 32||
rogairugrairakhilavigalatsauṣṭhavo naṣṭaceṣṭaḥ
paryastāṅgo'śucini śayane bhagnasarvābhyupāyaḥ |
yāvajjīvaṃ vihitamahitaṃ karma kartavyamūḍhaḥ
smṛtvā smṛtvā dalitahṛdayaḥ kātaraḥ kāndiśīkaḥ || 33||
tarṣotkarṣātkaluṣaparuṣaiḥ karmabhiḥ śarmahṛdbhi-
ryatsamprāptaṃ kathamapi(kṛśamapi)bhṛśaṃ kleśayitvā śarīram |
rikthagrāhairdraviṇamakhilaṃ luṇṭhyamānaṃ tadagre
paśyannaśyatsakalakaraṇo dahyamānaḥ śucāntaḥ(śucārttaḥ)|| 34||
śokodrekādaviralagaladbāṣpapūrṇekṣaṇābhiḥ
satpatnībhiścakitacakitaṃ(cakitaiḥ)locanairīkṣyamāṇaḥ |
putrairmitraiḥ sahajasacivairbandhubhirbhṛtyavargai-
rākrandadbhiḥ karuṇakaruṇaiḥ pīḍyamānaḥ pralāpaiḥ || 35||
svasthāvasthairbhṛśamaśucitāśaṅkibhirveśmagarbhā-
dantarlīnasmṛtirapi haṭhānniṣṭhuraiḥ kṛṣyamāṇaḥ |
yasminkāle kavalitavapurmṛtyunā'bhyeti bhītiṃ
tatra trātā ka iva karuṇāmaiśvarīmantareṇa || 36||
vapuḥkhaṇḍe khaṇḍaḥ prativasati śailendraduhituḥ
śikhaṇḍe khaṇḍenduḥ svayamapi vibhuḥ khaṇḍaparaśuḥ |
tathāpi pratyagraṃ śaraṇamupayātaṃ prati vibho-
rakhaṇḍo vyāpāro jagati karuṇāyā vijayate || 37||
jaya jitāmaya jaya sudhāmaya jaya dhṛtāmṛtadīdhite
jaya hatāndhaka jaya purāntaka jaya kṛtāntakasaṃhṛte |
jaya parāpara jaya dayāpara jaya natā'rpitasadgate
jaya jitasmara jaya maheśvara jaya jaya trijagatpate || 38||
sthānā'sthānaniyantraṇāvirahito nirheturaprārthitaḥ
satyaṃ sattvahitārtha eva taraṇerambhobhṛtaścodyamaḥ |
tṛṣṇātāpaśamakṣamastu na ravirna dhvāntaśītāntakṛ-
nmeghaḥ sa tvakhilārtihṛdvijayate māheśvaro'nugrahaḥ || 39||
bahunā kimatra karuṇāmumāpateḥ sudaśāvatārakṛtamūrjitaśriyam |
bhajatā'niruddhahṛdayepsitāgamapravaṇāṃ vibhūtimiva kaiṭabhadviṣaḥ || 40||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``karuṇārādhanaṃ'' nāmakaṃ pañcadaśaṃ stotraṃ sampūrṇam |
16. upadeśanaṃ ṣoḍaśaṃ stotram
vṛṣalakṣmaṇaḥ praṇatalokabandhavaḥ kalitālikaskhalitasiddhasindhavaḥ |
dyutibhirjayanti tulitoditendavaścaraṇāravindamakarandabindavaḥ || 1||
amalaiḥ phalairaviralairalaṅkṛtā haritā'ruṇapraṇataśāliśālinī |
pratibhāti jīrṇatṛṇavattava stavaṃ vasudhā sudhādyutivataṃsa śaṃsataḥm || 2||
timiraṃ cirantanamananta santataglapitāvalokamavalokanārthinaḥ |
sṛjatā'mṛtaṃ daśasu dikṣu cakṣuṣākalikālakalmaṣamuṣāmuṣāṇa me || 3||
vahatā hatāndhatamasāmasāditāṃ
dyutibhiḥ kalāmavikalāṃ kalāvataḥ |
diśatā prakāśaviśadāśamāśayaṃ
vapuṣā śivaṃ śivapuṣā puṣāṇa me || 4||
ghanagharmalaṅghitakapolabhittayaḥ śvasitānubandhavidhurīkṛtādharāḥ |
dhanināṃ puraḥ prakaṭayanti durgatiṃ dyutihīnadīnavadanā dhanārthinaḥ || 5||
tadanantaraṃ taralitākṣarāṃ giraṃ cirasambhṛtapramadasādagadgadām |
vihitāvahelajagatīpatīkṣitāstrapayāpayāpitamukhāḥ prayuñjate || 6||
avadhīryamāṇamatha dīrghamatsarairavabodhavandhyahṛdayairanādṛtam |
guṇakauśalaṃ śalabhajṛmbhitopamaṃ prathayanti yānti ca paraṃ parābhavam || 7||
iti dīrghadurbharakuṭumbaḍambarā dhanasaṅgrahagrahagṛhītacetasaḥ |
sudhiyo'pi yānti nibiḍaṃ viḍambanaṃ vanavāsibhiḥprahasitapravṛttayaḥ || 8||
kṛtinaḥ punarmṛdumṛdaṅgamaṅgala-
svanasannibhadhvanitanirjharormiṣu |
kṛtavṛttayaḥ sulabhaśādvalāvalī-
valitasthaleṣu (lalitasthalīṣu)tuhinādrisānuṣu || 9||
surasindhurodhasi gṛhītaketakī-
calitā(dalita)ṅgulīkisalayena pāṇinā |
vividhāṃ vidhāya vidhinā pinākinaḥ
karuṇārṇavasya caraṇābjasatkriyām || 10||
hariṇaiḥ kuśāgrakavalābhilāṣibhi-
rbharaṇārthibhiśca kalaviṅkaśāvakaiḥ |
atithībhavadbhirahatāhnikakriyāḥ
phalamūlakalpitaśarīravṛttayaḥ || 11||
divasāvasānasamaye saranmaru-
tparikīrṇajīrṇatṛṇaparṇamarmarāḥ |
tanujāhnavīsalilaśīkarotkaraiḥ śiśirāḥ
śivāya (cirāya)caritā vanasthalīḥ || 12||
dhavalīkṛtāsvamalabhānubhānubhi-
rjvalitauṣadhīṣu rajanīṣvanantaram |
kalakaṇṭhakaṇṭhakuharodgatasvara-
svarasārpitaśrutisukhāsu śerate || 13||
iti bibhrataḥ parikaraṃ priyaṅkaraṃ
harapādapaṅkajarajaḥprasādajam |
vihasanti mūḍhamanasāṃ mahībhujāṃ
gajakarṇatālataralāśrayāḥ śriyaḥ || 14||
dadhaduddhataṃ hara puraḥ purandhribhiḥ prabalaṃ balaṃ galadapāṅgabhaṅgibhiḥ |
hṛdayaṃ bhinatti mama ghasmaraḥ smaraḥ śarapātakātaradṛśo bhṛśaṃ kṛśam || 15||
janayannayaṃ nayanayoradhīratāṃ bhramayanbhruvaṃ bhṛśamadabhrasambhramām |
ślathayanprayatnakṛtasaṅgamaṃ śamaṃ hasanīyatāṃ nayati roṣa īśa mām || 16||
dhanalābhasambhratavilāsavāsanāvyathamānamānasamasatyasaṅgaram |
na viśobhilobhavivaśaṃ spṛśanti māṃ suhṛdo'pi kopitakadarthitārthinam || 17||
ucitatrivargarahitaṃ tirohitaṃ ghanamohamūḍhamanasaṃ hasanti mām |
kṛtamedhasāmadhisadaḥ sadaḥsadaḥ sadasadvivekavikalaṃ kalaṅkitam || 18||
iti tarjayanti ripavaḥ sudurjayāḥ parivarjayanti ca viśuddhabuddhayaḥ |
na punarjayanti vidhuraṃ yathā tathā kuru he maheśa dṛśamehi dehi naḥ || 19||
kva maheśvarasmaraṇasambhavaṃ bhava-
bhramabhīmagharmaśamasammukhaṃ sukham |
vipadāṃ padaṃ mṛdumṛṇālinīdala-
skhaladambubindutaralāḥ kva sampadaḥ || 20||
kva śiveśvareti kṛtagaṇḍamaṇḍalī
pulakodgamapramadamantharā giraḥ |
kva yathārthapārthivanirarthakā'nṛta-
stutivistarairapathapātapātakam || 21||
kva samādhibādhitadurādhisādhimā
bhavasambhavaśramadamakṣamaḥ śamaḥ |
kva madaḥ pradarśitasamagravigrahaḥ
prahasanmanasvijanagarhitasthitiḥ || 22||
iti māmanargalamamārgamārgaṇa-
pravaṇāvivekavikalīkṛtāśayam |
karuṇānidhāna paribodhaya kṣaṇaṃ
kṣaṇadāviśeṣakaśikhāśikhāmaṇe || 23||
pramadā madāruṇadṛśaḥ kṛśodarāstanayā nayānatasamastamastakāḥ |
suhṛdo hṛdantaragateṅgitaspṛśaḥ praṇayārdranirbharagiraśca bandhavaḥ || 24||
dadhataḥ prasādamadhurāṃ dhurāmapi prabhavo'mṛtadravasamānamānasāḥ |
mukhavīkṣaṇapraṇayinaḥ pratikṣaṇaṃ paricārakāśca jayajīvavādinaḥ || 25||
na bhayaṃ bhayaṅkarakṛtāntakiṅkarabhrukuṭībhavaṃ jhaṭiti hantumīśate |
bhajatāmataḥ kṣapayadāpadaṃ padaṃ hṛdaye dayāmṛtanidhe nidhehi naḥ || 26||
hantā'hantā prathayati matihrāsamāsañjayantī
māyāmāyāsitasitaśamā yāminī yāminīva |
tasmādasmānraviśaśiśikhipreṅkhitoddāmadhāma
kṣiptvā cakṣurmuditamuditā'vandhyabodhānvidhehi || 27||
iti kāśmīrakamahākaviśrīmajagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``upadeśanaṃ'' nāmakaṃ ṣoḍaśaṃ stotraṃ sampūrṇam |
17. bhaktistotraṃ saptadaśaṃ stotram
mandaspande manasi rasikībhāvamāsādya sadyo
hṛdyodyogā vihara varade bhārati svāratiste |
mātarjātaspṛhamiva mahāmohanidrāvasāne
janīhīmaṃ janamanalasaṃ śaṃsituṃ śambhubhaktim || 1||
drākṣā sākṣādamṛtalaharī karkaśātkāṣṭhakoṣā-
dbhūricchidrātprakṛtimadhurā mūrcchanā vaṃśagarbhāt |
sūktivyājānmama ca vadanātkarṇapeyā sudheyaṃ
nirgacchantī janayati na kaṃ vismayasmeravaktram || 2||
dhyātvā deva pramayasamayatrāsamāsannakalpaṃ
svalpaṃ jñātvā sulabhaśalabhacchāyasacchāyamāyuḥ |
mattvā ca tvā sadayahṛdayaṃ bhaktivāllabhyalabhyaṃ
sabhyammanyāstava navavidhau dhautacittā yatante || 3||
kaṇṭhe kaṇṭhīravaravasadṛgdṛksamudgodgatāśro-
rhelonmīladvipulapulakodbhṛtabhūteśabhakteḥ |
yasyodeti dhvaniranibhṛtaḥ śarvaśarvetyakharvaṃ
garvaṃ bibhraddhasati vasatiṃ vāsavīyāṃ sa ekaḥ || 4||
tanmānuṣyaṃ prabhavati satāmuttamā yatra jātiḥ
saikā jātiḥ prasarati yaśo yatra pāṇḍityahetu |
tatpāṇḍityaṃ sarasamadhurā jṛmbhate yatra vāṇī
vāṇī sāpi prathayati ratiṃ śāṅkarī yatra bhaktiḥ || 5||
yeṣāṃ vaktre samadamuditatvaccaritrāḥ pavitrā
dvitrā vitrāsitaravisutabhrūvibhaṅgaprasaṅgāḥ |
nojjṛmbhante madhukaṇamucaḥ sūktayo bhaktisiktā
dhiktānriktānbhuvi bhava bhavatpādasevārasena || 6||
nātha jyotsnā bahularajanau kārtikīyeva kāntā
kāntārāntarmathitapathikaprauḍhatāpā prapeva |
mā mā bhaiṣīriti yamabhaye tāvakīneva vāṇī
bhāvatkī me satatamamṛtasyandinī bhāti bhaktiḥ || 7||
yeṣāmantaḥ sukṛtasaraṇiḥ sthāṇavīyā na bhakti-
rvyaktiṃ dhatte rasakṛdasakṛnnāsmi teṣu smiteṣu |
lokaḥ śokaṃ tyajati sahasā yatra tadbhaktiyuktaṃ
yuktaṃ manye ruditamuditaślāghamullāghahetum || 8||
dhvāntaṃ śāntapraśamamaharadyanna sadyaḥ samudya-
nnudyotaśrīkalitakamalollāsabhānuḥ sa bhānuḥ |
tadvidhvastapramadamadamoddīpitoddāmadoṣa-
ploṣaṃ netuṃ prabhavati bhave śāmbhavī bhaktireva || 9||
ye santoṣapraśamapiśune kleśarāśau nimagnā
bhagnāśābhirviṣamaviṣayopāsanāvāsanābhiḥ |
teṣāmeṣā bhavabhayabhidārambhasambhāvanābhū-
rbhūtyai bhūyastrijagati gatiḥ śāmbhavī bhaktireva || 10||
dambhastambhasthagitagatayaḥ sāvahelāmahelā-
helālāpabhramitamatayaḥ santyasaṅkhyāḥ pumāṃsaḥ |
bhārgīṃ bhaktiṃ dadhati hṛdaye nistaraṅgāmabhaṅgāṃ
gaṅgātīre vihitaratayo durlabhāḥ pūruṣāste || 11||
śambho dambho dahati kuhakārambhasambhāvanābhiḥ
sābhidveṣastviṣamapakaṣatyeṣa roṣapradoṣaḥ |
sāvaṣṭambhaṃ bhramayati bṛhanmāmahaṅkārabhāraḥ
pāraṃ netuṃ prabhavati bhavadbhaktirekā bhavābdheḥ || 12||
drāksandhatte yudhamadhidhanurbaddhabāṇābhirāmaiḥ
sabhrūbhaṅgairlaṭabhalalanāpāṅgabhaṅgairanaṅgaḥ |
doṣaploṣakṣamaśamapathāpātamātanvatī me
bhīme bhaktirbhagavati gatiścakṣuṣaścandrikeva || 13||
kāmaḥ kāmaṃ dhanuranuniśaṃ kausumaṃ saṃvṛṇotu
vyālaṃ kālaḥ svakarakuhare bhagnabhogaṃ vidhattām |
bhārgī bhaktiḥ sapadi sakalaprārthanākalpavallī
labdhā dṛbdhā jagati kati na kleśapāśā hatāśāḥ || 14||
rājñāmājñāvihativihitānīkinīnīrasaśrīḥ
sa śrīleśastanuranucitaprārthanastāvadāstām |
aindraṃ yatra tribhuvanajayaprājyasāmrājyalakṣmī-
lakṣmāvajñāspadamapi padaṃ tāṃ stumaḥ śambhubhaktim || 15||
kāntaikāntavyasanamanasāṃ valkalālaṅkṛtānāṃ
jñānāmbhobhiḥ kṣapitarajasāṃ jāhnavītīrabhājām |
gāḍhotsekaprakaṭitajaṭāmaṇḍalīmaṇḍanānāṃ
nānākārā bhavati kṛtināṃ muktaye bhargabhaktiḥ || 16||
mūrtirdhūtiṃ prathayati yathā mañjarī jīrṇaparṇā
karṇābhyarṇaṃ prasarati jarā satyato mṛtyudūtī |
bhogā bhogā iva vidadhataśceṣṭitaṃ veṣṭayante
hantedānīṃ śaraṇamaparaṃ nāsti naḥ śambhubhakteḥ || 17||
yatra dhvāntakṣapaṇanipuṇaṃ durbalaṃ dhāma cāndraṃ
sāndraṃ yatra glapayati tamastāpano yanna tāpaḥ |
yatra preṅkhanna kacati śikhī tejasā'nyena satrā
tatrālokaṃ diśati viṣame śāmbhavī bhaktirekā || 18||
mā bhūdbhūyo'bhyasanasulabhānvīkṣikī nāma vidyā
hṛdyā dūre viharatu vipatkhaṇḍinī daṇḍanītiḥ |
kvāpi sthemnā lasatu kalitollāghavārtāpi vārtā
nārtāvarhaṃ kimapi śaraṇaṃ śambhubhaktiṃ vinā'nyat || 19||
saṃsārābdheḥ prathamalaharī pātakāpātakāmā
rāmā nāma sthagayati gatiṃ majjatāṃ sajjanānām |
mohāvarttabhramasamudayatkhedavicchedahetuḥ
seturdūrībhavati ca bhṛśaṃ śemuṣī śemuṣīyam || 20||
tasmādasmājjananamaraṇakleśaveśantapaṅkā-
cchaṅkātaṅkākulitamatayo ye titīrṣanti teṣām |
āśāpāśagrathitavapuṣāṃ krandatāmāturāṇāṃ
prāṇāpāte vitarati karālambanaṃ śambhubhaktiḥ || 21||
eṇākṣīṇāṃ smaraśaraśikhākoṭiśauṭīryabhīmāḥ
premākṛṣṭā jhagiti kuṭilā ye kaṭākṣāḥ patanti |
kālenaite kuliśaniśitāstuṇḍadaṇḍā jaḍānāṃ
bhindantyantarhṛdayamadayaṃ patriṇāṃ nārakāṇām || 22||
bāhudvandvaṃ tulitavivaladbālamārṇālanālaṃ
sālaṅkāraṃ raṇitavalayaṃ veṣṭitaṃ kaṇṭhapīṭhe |
mohāndhānāṃ mahati patatāṃ yātanātaṅkapaṅke
śaṅke paṅkeruhadaladṛśaḥ pāśatāmetadeti || 23||
yatsākūtaṃ mukulitadṛśaḥ ketakāmodahṛdyaṃ
sadyaḥ svidyadvadanamamṛtasyandi pītaṃ natāṅgyāḥ |
rāgāndhānāṃ nirayanilaye taddurāpāvasāne
jāne bhūyaḥ patanaśapathākrośakoṣatvameti || 24||
rāgodrekātkanakakalaśākāramālambi hāraṃ
sāraṅgākṣyāḥ pṛthukucayugaṃ gāḍhamāliṅgitaṃ yat |
tanmūḍhānāṃ narakakalile majjatāmantakāle
nāle lagnasthirataragurugrāvabhāvaṃ bibharti || 25||
kiṃ bhūyobhirvacanaracanāḍambarairdīrghaśokā
lokā yuktaṃ śaṛṇuta sutarāṃ paścimaṃ vākyametat |
duḥkhodarkaṃ pramukhasukhadaṃ saṅgamutsṛjya sāṅgaṃ
gāṅgaṃ labdhvā salilamamalaṃ śambhubhaktiṃ bhajadhvam || 26||
trailokyaṃ lambhayantastṛṇagaṇagaṇanāṃ rohiṇīkāntalekhā-
rekhālaṅkārabhaktipramuditamanaso nirmalaṃ dhāma labdhum |
dhanyāḥ saṃnyāsino'ntaḥ kalimalapaṭalaṃ bhūri bhindantyamandā
mandākinyāḥ payobhiḥ śaśimukuṭajaṭāvaijayantīdukūlaiḥ || 27||
evaṃ deva prabheva smarahara sakaladvīpadīpasya bharttu-
rbhāsāmāsādayantī viṣamatamatamaḥkhaṇḍane caṇḍimānam |
kārāgārānukāre paribhavati bhave baddhamohāndhakāre-
bhāvatkī bhaktirekā śaraṇamaśaraṇatrāṇaviśrāṇinī naḥ || 28||
ye viśvasthitisargasaṃhṛtikṛto devāstrayaste'pi yaṃ
sevante mukhavīkṣaṇapraṇayino dṛkpātamātrārthinaḥ |
yasyāḥ sa prabhuraprameyamahimā krīḍāśakuntāyate
tāṃ bhaktiṃ bhuvanatrayādbhutamahāmāhātmyaśaktiṃ stumaḥ || 29||
gāvastāvadduhānā rasamasamasudhāsodarāsvādabandhuṃ
bhaktirbhargenisargaklamaśamanacamatkārabhogaikabhūmiḥ |
tṛptiḥ svātmāvabhāsādanupamaparamānandaniḥsyandasaṃvi-
dviśrāntyekāntahetoritisapadi vipatkiṅkarī kiṅkarotu || 30||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``bhaktistotraṃ'' nāma saptadaśaṃ stotraṃ sampūrṇam |
18. siddhistotraṃ aṣṭādaśaṃ stotram
jayati jitavikāraḥ kḷptalokopakāraḥ
kṛtavipadapakāraḥ śāntamohāndhakāraḥ |
atulapuruṣakāraḥ prāptaviśvādhikāraḥ
smararacitanikāraḥ pārvatīcāṭukāraḥ || 1||
atanumatanutāmuṃ prāṇināṃ pūrṇaśakti-
stanubhuvanagaṇaṃ yaḥ śarmadaḥ karmabhuktyai |
diśamadiśadaśaṅkāṃ śāstrarūpāṃ ca muktyai
sa bhavatu bhavadoṣaploṣakṛdvo maheśaḥ || 2||
analasahitavṛttau satkalābhāsaśuddhe
budhavaramukhapadme bhāratī nirmalormiḥ |
varada paramatāpakleśajittvatprasādāt
prabhavati bhavadīye mūrdhani svardhunīva || 3||
bhava bhavamarucāraśrāntasantāpatānti-
praśamanaghanavarṣāvārivāhaṃ tavāham |
namadamarakirīṭaprotaratnāṃśupūra-
sphuradurusuracāpaṃ pādapīṭhaṃ prapadye || 4||
karakalitakapolā bālaśaivālaśayyā-
talalulitamṛṇālīpelavamlānamūrtiḥ |
ciravirahavinidrā rudradṛkpātapātraṃ
diśi diśi niśi paśyatyaṅganānaṅgabhīruḥ || 5||
haracaraṇasarojadvandvabhaktiprasādā-
dupari karivarāṇāṃ sañcarantaḥ sahelam |
ghanamadabharaniryannirbharāmodalobha-
skhaladalikulagītaṃ sphītamākarṇayanti || 6||
caraṇakamalayugmaṃ deva nirdambhabhakti-
grahapulakitadehastāvakaṃ yo nanāma |
adhivasati sa sevānamrasāmantamauli-
skhalitabakulamālālālitaṃ pādapīṭham || 7||
śaśiśakalaśikhaṇḍa tvatprasādena dhanyāḥ
sitakaradhavalābhyāṃ cāmarābhyāṃ vibhānti |
ubhayata iva vaktraṃ bhāvirudratvalābha-
prakaṭanapiśunābhyāṃ svarṇadīnirjharābhyām || 8||
kṣitidharapatiputrīvallabha tvatprasādā-
ddadhati jagati dhanyā mūrdhni dhautātapatram |
ghaṭayitumadhikatvaṃ svātmano'pi tvayaita-
tsakalamiva vitīrṇaṃ maṇḍalaṃ śītaraśmeḥ || 9||
ayi hṛdaya dayārdraḥ svardhunīnīradhārī
tvayi viharati hastanyastapīyūṣakumbhaḥ |
yadi himakaralekhāśekharaḥ ko'paraste
bhavadavavinivṛttau śaṃsa śītopacāraḥ || 10||
suravaranutadhairyā vairidurvāravīryā
jagati vividhaśāstraprastutācāryacaryāḥ |
dadhati bhuvanatantraṃ koṭiśo rudravaryāḥ
kṛtasatatasaparyā ye purā śaṅkarasya || 11||
giri girivarakanyākānta śāntaprathāyāṃ
karacaraṇagaṇe'pi kṣāmatāmaśnuvāne |
galagaladavakāśe vāpi kīnāśapāśe
bhava bhavati vinā tvāṃ prāṇināṃ trāṇakṛtkaḥ || 12||
śayaśayananiviṣṭaṃ vaktramāpāṇḍugaṇḍaṃ
matimativiraheṇa glānibhājaṃ vahantī |
tanutanulatikārtiṃ māninī vyāharantī
hara harati na dhairyaṃ tvatsamādhau budhānām || 13||
daladalaghuvivekaṃ vyaktaśokātirekaṃ
viśa viśadamananta svāntamantaḥ praśāntam |
bhava bhava bhavadāhadhvaṃsavarṣāmbuvāhaḥ
kalikalitarujānāṃ saprajānāṃ prajānām || 14||
dahadahatamamoghaṃ pāpmanāṃ dīrghamoghaṃ
ruciruciramamandaṃ sundarānandakandam |
diśa diśadupadeśaṃ nāśitakleśaleśaṃ
madhumadhuramudāraṃ vākyapīyūṣasāram || 15||
sarati saratirantarghasmaro māravīra-
ścalati ca latikeva sphītabhītirmanīṣā |
tamahitamahimānaṃ nātha nikṣipya cakṣuḥ
śamaya śamayameti prītimānyena lokaḥ || 16||
jaghanajaghanaśobhā spardhamānā sabhṛṅgaṃ
kamalakamalakāntakrāntabhāsā mukhena |
muditamuditarāgā sevate deva rāmā
madanamadanavīnaistvatprapannaṃ vilāsaiḥ || 17||
janitajanitaraṅgaṃ jṛmbhayantī bhavābdhiṃ
kalitakalitamisrā nātha kādambinīva |
harati hara titikṣonmāthinī mohamūrcchā
mahitamahitavṛddhiḥ śuddhabodhaprakāśam || 18||
bhajati bhaja tiraścīṃ dṛṣṭimiṣṭaprasādāṃ
kṛtasukṛtasumedhaḥpraidhitābhīṣṭasiddhim |
tirayati rayamīśa vyāpadāṃ duḥsahānāṃ
śamanaśamanadakṣaṃ tvāṃ vinā nātha ko'nyaḥ || 19||
samarasamarajobhiḥ svāntamantarvahadbhi-
rhitavihitaviyogaṃ mohamāhantukāmaiḥ |
bhavavibhavavimuktairyogibhiryo'bhyupeta-
stamahatamahanīyaślāghamīśaṃ prapadye || 20||
akalitamahimānaṃ dhvastamithyābhimānaṃ
dadadamṛtasamānaṃ bodhamābhāsamānam |
prakaṭitalaghimānaṃ durvahaṃ vardhamānaṃ
bhavabhavamavabhānaṃ bhinddhi me bādhamānam || 21||
kimiva maṇibhiḥ kiṃ vā mantraiḥ kimauṣadhisaṅgrahai-
riha bahuvidhaiḥ kiṃ vā kāryaṃ parairapi bheṣajaiḥ |
amṛtamapi na prāyaḥ pāpopatāpaśamakṣamaṃ
vrajata śaraṇaṃ tasmādekaṃ haraṃ karuṇāparam || 22||
iha hi giriṣu prāleyādrirmahaḥsu vibhāvasu-
rguruṣu jananī mantreṣvekākṣaraṃ paramaṃ padam |
sakhiṣu sukṛtaṃ vairiṣvaṃho nadīṣu nabhonadī
prabhuṣu ca paraḥ svāmī devaḥ śaśāṅkaśikhāmaṇiḥ || 23||
na yāvadavahīyate dhṛtidhurā jarāviplavai-
rna jīryati sarasvatī na ca viśīryate śemuṣī |
na cāmayabhujaṅgamairavaśamaṅgamāliṅgyate
bhajadhvamajaraṃ vibhuṃ bhavajayāya tāvadbudhāḥ || 24||
arāṇi karuṇaṃ muhurmuhurakāri cāṭu prabho-
rabhāvi bhavabhāvanāmuditacetasāntarmuhuḥ |
aloṭhi mukuṭaṃ muhuścaraṇapīṭhikāviṣṭare
kimanyadakhilaṃ jitaṃ karatale kṛtāḥ siddhayaḥ || 25||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``siddhistotraṃ'' nāmāṣṭādaśaṃ stotraṃ sampūrṇam |
19. bhagavadrūpavarṇanaṃ ekonaviṃśaṃ stotram
yatte paraṃ varada rūpamatītameva
mārgaṃ girāṃ tadiha kaḥ kṣamate gṛṇātum |
agrāhi yattu natalokamanugrahītuṃ
bālendulakṣma bhavatā tadidaṃ gṛṇāmi || 1||
āstāṃ paraṃ yadaparaṃ tadapi svakīyaṃ
divyaṃ vapurnahi maheśa vimarśayogyam |
yatkiñcideva tu vikalpavikalpyamāna-
mānandadhāma tadapīha bhavārtibhājām (bhavārdditānām)|| 2||
mūrttirdhruvaṃ tava śivāmṛtavartirenā-
māsādya yatkaticidaśrulavāḥ patanti |
naśyatyaghaughapaṭalaṃ timiraṃ vyapaiti
rāgaḥ praśāmyati dṛśaḥ prathate prasādaḥ || 3||
satyaṃ mahārghaguṇaratna nidhānameta-
dālambanaṃ tava vapurvipadarditānām |
no cennakhāṃśubharakesaritaṃ kimatra
pādābhidhaṃ yugapadudgatamabjayugmam || 4||
pādadvayaṃ tava bhava praṇatiprakarṣa-
harṣāśrubindubharadanturitāṅgulīkam |
nīhāraśīkarapariṣkṛtapatrapaṅkti-
paṅkeruhadvitayakānti bhajanti dhanyāḥ || 5||
bhasmojjvalaṃ tridaśaśekharapadmarāga-
dīpraprabhāruṇitamaṅghrisarojayugmam |
vandāmahe ghusṛṇareṇuparāgagarbha-
karpūrapāṃsubhirivacchuritaṃ smarāreḥ || 6||
jaṅghālatāyugalamāśritagulphamūla-
bhogīndrabhogasubhagābhinavālavālam |
śambhorabhīṣṭaphaladaṃ bhavatāpatānti-
śāntikṣamaṃ śamayituṃ vipadaṃ śrayāmi || 7||
vande yugāntasamayoṣitasaptalokaṃ
lokottaraṃ jaṭharamīśvarabhairavasya |
yatraiti nābhikuharaṃ jagadādisarga-
niryajjanaughanavanirgamamārgabhaṅgim || 8||
sindūritā'maramataṅgajakumbhaśobhi
sandhyābhitāmraśaradambudharānukāri |
vande phaṇīndraphaṇaratnarucāruṇābhaṃ
bhasmaughabhāsvaramuraḥ pura(smara)śāsanasya || 9||
svāminnamī tava bhujā bhujagādhirāja-
bhogopagūḍhavapuṣo hṛdayaṃ madīyam |
ānandayanti bata bhīmabhavopatāpa-
nirvāpaṇena viṭapā iva candanasya || 10||
madhyasthiterubhayapārśvagatā cakāsti
hastasya meruparimarśavinākṛteyam |
avyāhatagrahavaśāhitayogasiddhi-
rnakṣatrapaṅktiriva deva tavā'kṣamālā || 11||
tvaṃ kālabhairavavapurjvalitā'nalāśri
lolāṅgulīvalanamaṇḍalitaṃ dadhānaḥ |
saṃhārarātriṣu ninartiṣurīśa śūlaṃ
bālārkacumbitanavāmbudabhaṅgimeṣi || 12||
śāṇopalotkaṣaṇaśuddhanavendranīla-
nīladyutirjayati te śitikaṇṭha kaṇṭhaḥ |
yasminghanāñjanarucirbhujagaḥ kalinda-
kanyāhṛdāntaritakāliyabhaṅgimeti || 13||
kaṇṭho vahannapi viṣaṃ viṣamaṃ tavaiṣaḥ
sadyaḥ śriyaṃ sṛjati yadvacasāśriteṣu |
svāminnatastribhuvanaprathitapratiṣṭhaṃ
śrīkaṇṭha ityucitameva tavābhidhānam || 14||
antarvimṛśya garalena gale salīla-
māliṅgitaṃ vimalamānanamindumauleḥ |
hṛṣyāmi hanta muhuramburuhabhramāpta-
rolambaḍambaraviḍambanapaṇḍitena || 15||
yadvadviṣaṃ sadamṛtaṃ śirasi prasiddha-
mambhastaveśa viśadaṃ sumanaḥsravantyāḥ |
manye tathaiva bhagavan bhavato galasthaṃ
sampadyate'mṛtamidaṃ natasāntvaneṣu || 16||
tadyuktamīśa vadanādbhavataḥ sudhāccha-
kānteryadagnirapatadvapuṣi smarasya |
yo laṅghanaṃ tribhuvanaikagurorvidhitsu-
rulkā na kiṃ patati candramaso'pi tasya || 17||
diṣṭyā viruddhajanatā damayantyapīyaṃ
dṛṣṭistaveśvara bibhartyanalāśritatvam |
diṣṭyā vanaikaratirapyavanaikasakti-
rekastvamadbhutanidhe bhagavannamaste || 18||
dhanyasya yasya vapuṣi glapite tapobhiḥ
svāmin patanti viṣamāṇi tavekṣaṇāni |
muṣṇanti mugdhamṛgaśāvadṛśāṃ na dhairya-
sarvasvamasya viṣamāṇi vilocanāni || 19||
satyeva dṛgvilasite karuṇāmṛtaugha-
śīte jarāmaraṇahāriṇi tāvakīne |
nātha vyadhāyi vibudhairabudhairmudhaiva
dugdhodadhipramathane'navadhiḥ prayāsaḥ || 20||
śvete'mṛtaṃ yadasṛjadravije ca vahni-
mekaiva dṛktava tayoḥ sa nijaḥ prabhāvaḥ |
ikṣau sudhā viṣamuṣāṇaphale ca sārdhaṃ
yadvardhate kimaparādhyati tatra vṛṣṭiḥ || 21||
nūnaṃ payodhimathanāvasare pareśa
pītaṃ tvayā tadamṛtaṃ na tu kālakūṭam |
adyāpi yadvasati te vacanakrame ca
dṛgvibhrame ca taruṇe karuṇārase ca || 22||
satyaṃ prasādasamaye capalatvameti
dhatte'dhikaṃ ca kuṭilatvamiyaṃ tava bhrūḥ |
etāṃ vinā punaranargalakālapāśa-
pāte parāsti na gatirbhayavihvalānām || 23||
āpūritaḥ surasaritpayasā'mṛtāya
jūṭaḥ prataptatapanīyapiśaṅgakāntiḥ |
svāminnasau tava navātapatāmravelā-
śailopagūḍha iva dugdhanidhirna kasya || 24||
svāminsudhāvadavadātarucistaveya-
mābhāti hanta mukuṭe nṛkapālamālā |
jūṭāntarālavilasatsurasindhutīra-
līlāvihārarasikeva marālamālā || 25||
brahmādibhistava jagadgurubhiḥ śirāṃsi
yānyarpitāni parameśvara pādapīṭhe |
tānyeva mūrdhani yadābharaṇīkaroṣi
sa prauḍhimā jayati ko'pi kṛtajñatāyāḥ || 26||
nirvāṇameti na jalairapi yatra vahni-
ryatraiṣa no pacati tāni mahāśikho'pi |
māndyaṃ na vindati tamīramaṇaḥ kṛśo'pi
tābhyāmasau vijayate śitikaṇṭha jūṭaḥ || 27||
bhālasthale hutavahaṃ vahato jalaṃ ca
candraṃ ca mūrdhni vikaṭaṃ ca kapālakhaṇḍam |
ekatra muṇḍamaparatra sudhāghaṭaṃ ca
haste cakāsti bhavato'dbhuta eṣa veṣaḥ || 28||
dāne nadīnamupakalpayataḥ saharṣa-
mākramya gāmanupamāṃ gatimāsthitasya |
nāgendrasambhṛtamahākaṭakasya kasya
śasyaṃ vinā tvadiha rājaśiromaṇitvam || 29||
kaṇṭhe viṣaṃ viṣabhṛto'pi vibhūṣaṇāni
gātreṣu mūrdhani viṣaṃ vibudhasravantyāḥ |
itthaṃ viṣaikavasaterapi te cakāsti
karṇāmṛtaṃ sukṛtināmamṛteśanāma || 30||
kṣatavibhavaviśeṣāḥ prāṇamātrāvaśeṣā
vipadamanubhavāmaḥ karmapāko hi vāmaḥ |
tadiha bhujagahāraḥ kḷptamohāpahāraḥ
sa bhavati gatirekaḥ kṛttaśokātirekaḥ || 31||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``bhagavadrūpavarṇanaṃ'' nāmaikonaviṃśaṃ stotraṃ sampūrṇam |
20. hasitastotraṃ viṃśaṃ stotram
yatsaubhagena ghanamoghamamoghamegha-
saṅghātasambhavamavandhyamadhaḥ karoti |
tacchāmbhavaṃ bhavamarubhramakhedabheda-
dakṣaṃ vilāsahasitaṃ nutibhirbhajāmaḥ || 1||
yadvāṅmayaṃ sakalavāṅmanasātivṛtta-
sīmānamīśa mahimānamamānameyam |
asmādṛśaṃ kṛśadṛśaṃ bhṛśamāmṛśanta-
mantarvimṛṣya bhavato bhagavannudeti || 2||
yenopamanyumapamanyumananyabhāja-
mājanmatṛṣṇajamajasramaja śramārtam |
ānandayaḥ svayamadīnanadīnadāna-
bhāsvanmahāphalalasatkusumopamena || 3||
yenāpi tāpavipadaṃ prathamaṃ jahartha
nātha prasādasubhagena bhagīrathasya |
mūrdhnā dhṛtatridaśasindhumahāpravāha-
nirvāpaṇena punarasya pitāmahānām || 4||
utprāsanāya śamanasya manasyanalpa-
darpodgamapraśamaviklavavikramasya |
āśvāsanāya ca samaṃ samabhāvi yena
kīnāśapāśavivaśasya nareśvarasya || 5||
bhāvatkabhaktibharasambhṛtabhūribhūti-
sambhārarūḍhagurugarvagaladvivekam |
mohāndhamandhakamupāhitasāhasikya-
hevākamākalayato bhavato yadāsīt || 6||
laṅkeśakampitakuberagiriprarūḍha-
saṃrambhabhīrugirijāparirambhabhājaḥ |
yatte ruṣāmavasare'pyuditānavadya-
hṛdyaprasādasumukhasya samujjagāma || 7||
pūjārthamambujasahasramupāhitaṃ ya-
dekaṃ tato hṛtavatastava kaitavena |
viṣṇuṃ vilokya nijalocanamutkhananta-
mantaḥ prasannamanaso yadamandamāsīt || 8||
dṛṣṭvā vadhūjanamanuttamarūpasampa-
tsandarśanodbhavamanobhavabhagnavṛttam |
āṣāḍhapāṇiṣu ruṣā muniṣu praharttu-
mabhyudyateṣu tava yadbhṛśamudbabhūva || 9||
abhyarṇavartikaragocarakālakūṭa-
kūṭaprabhānicayamecakite'dharoṣṭhe |
yatpūrvaparvataśikhāśritaśītaraśmi-
raśmicchaṭācchaviviḍambi purāvirāsīt || 10||
yatkarṇatālavalanāniladhūtakumbha-
sindūrareṇukaṇakūṇitalocanasya |
bālasya nāgavadanasya manasyabhīṣṭāṃ
dṛṣṭaiva nāṭyaghaṭanāṃ tava sambabhūva || 11||
śailādivāditamṛdaṅgalayānuyāta-
nṛttapravṛttaguhavāhavilokanena |
svāmin mahāpralayabhairavarūpiṇo ya-
dāvirbabhūva tava tāṇḍavaḍambareṣu || 12||
vyoma pracaṇḍabhujadaṇḍavighaṭyamāna-
tārāvalīvirahabandhuritāndhakāram |
svāmin yugāntasamayābhinayeṣu yena
sambhāvyate punarapi pracuraprakāśam || 13||
dikcakravālamukharīkaraṇapragalbha-
prāvṛṭpayodharagabhīraravānukāri |
svāmin kaṭhorahṛdayasya bhayaṃ vidhātuṃ
bhīrośca dātumabhayaṃ yugapatkṣamaṃ yat || 14||
yatkālakūṭakavalīkaraṇaprarūḍha-
nīlimni kaṇṭhapuline vimalaṃ nilīnam |
nīrandhranīrabharamedurameghakhaṇḍa-
lagnendumaṇḍalaviḍambanamātanoti || 15||
dhyāyantyananyahṛdayā hṛdayādhinātha-
madya kṣapāmagamayaṃ sakhi kalpakalpām |
prāṇeśasaṅgamanimittamatha prabhāte
nidrā sakhīva mama sammukhamājagāma || 16||
tasminkṣaṇe nayanavartmani jīviteśaḥ
śaṃsan dṛśā madhurayaiva manaḥprasādam |
cakre padaṃ mama tamomukulīkṛtāyāḥ
svairaṃ sametya saviteva saroruhiṇyāḥ || 17||
asmatkṛte sitamayūkhamukhi tvayai-
tatkiṃ prastutaṃ munibhirapyatiduṣkaraṃ yat |
udyānacaṅkramaṇakeliṣu khidyate yā
sā te kathaṃ kathaya kaṣṭasahā'ṅgayaṣṭiḥ || 18||
mūrtiḥ kva bālakadalīdalakomaleyaṃ
tīvraṃ tapaḥ kva manaso'pi na gocaraṃ yat |
kveṣadvikāsi kusumaṃ sumanolatāyāḥ
kvonmattakuñjarakaṭhorakaropamardaḥ || 19||
etena karkaśakuśagrahaṇaṃ kareṇa
soḍhaṃ kathaṃ prathamapallavakomalena |
pādau kathaṃ kamalagarbhanibhau śilāśri-
śreṇīṣu tīrthagamanaklamamanvabhūtām || 20||
hāropi bhāra iva yatra kucadvayaṃ ta-
tsehe kathaṃ kuliśakarkaśavalkalolkām |
etatkathaṃ mṛdumṛṇālalatābhijātaṃ
pañcāgnitāpavipadaḥ padamaṅgamāsīt || 21||
ityādibhirdaśanacandrikayānuviddhai-
rantarbahiśca timiraprasaraṃ haradbhiḥ |
āśvāsayanniva nivartitatīvrakhedaṃ
garbhīkṛtasmitasudhāmadhurairvacobhiḥ || 22||
yāvattrapāparavaśaṃ kṣitimīkṣamāṇaṃ
muktāphalopamasamudgatagharmaleśam |
kiñcitkareṇa mukhamunnamayanniyeṣa
pīyūṣavarṣamiva varṣitumeṣa bhūyaḥ || 23||
tāvatprabodhitavatā kṛkavākunādai-
rdurvedhasā sakhi tadācaritaṃ śaṭhena |
yatraiṣa eva śaraṇaṃ mama jīviteśo-
yadvā'paro harati yo'khilajantuvargam || 24||
ityādi tīvravirahajvarayā jayāyai
yatsvapnavṛttamuditaṃ girirājaputryā |
tacchṛṇvato vanalatāntaritasya yatte
jātaṃ pramodabharanirbharamānasasya || 25||
sañjīvanauṣadhamidaṃ harahuṅkṛtāgni-
jvālāvalīḍhavapuṣaḥ kusumāyudhasya |
bāle sudhārasamaye samaye kimartha-
māyāsyate tribhuvanābharaṇaṃ śarīram || 26||
kalpadrumairnidhibhiroṣadhikāmadhenu-
cintāmaṇiprabhṛtibhiśca pariṣkṛtasya |
kiṃ durlabhaṃ tava piturbhuvanātiśāyi-
śrīdhāmni dhāmani yadarthayase tapobhiḥ || 27||
tvaṃ jīvitādapi guroradhikā sa tāva-
dutpādayettava na manyumadhītanītiḥ |
sambhāvyate tava ca nānyakṛto nikāraḥ
kurvīta kesarisaṭāhaṭhakarṣaṇaṃ kaḥ || 28||
śraddhānubandhavihitavratahomadāna-
svādhyāyatīrthagamanādinibandhanāni |
dhanyasya kasya phalitāni tuṣārahāra-
gaurāṇi gauri sukṛtāni purākṛtāni || 29||
durvāradurgatinikārakadarthyamāna-
mālokya lokamakhilaṃ vipulāśayena |
sadyaḥkṛtaṃ kanakavarṣaṇamindukānta-
varṣmatviṣā paramakāruṇikena kena || 30||
gāyanti kasya viṣadaṃ viṣamograkāla-
saṃruddhaśaktiśaraṇāgatarakṣaṇottham |
dvandvāni nandanasadāmapadānamindu-
dhautāsu kaumudamahotsavayāminīṣu || 31||
keneśvareṇa mahatā vahatātrinetra-
sañjātakānti vapuradbhutabhūtibhūṣam |
uddāmakāmaśitamārgaṇadaurmanasya-
vairasyamiddhamahasā sahasā nirastam || 32||
dhanyāḥ kamaskhalitapauruṣabhagnabhūri-
darpāndhakandalitalokaviṣādamuccaiḥ |
helāvalīḍhaviṣamaśramavīryavahni-
bhasmīkṛtāhitapuraṃ kavayaḥ stuvanti || 33||
kaḥ svardhunīsavanavahniniṣevaṇādi-
dhautāṃ dadhattanumanujjhitabhaikṣavṛttiḥ |
kālaṃ dvijendramukuṭaḥ pariśuddhadharma-
caryārataḥ kṣapitavānajināvṛtāṅgaḥ || 34||
uddhūlitaścitirajobhirakhaṇḍamuṇḍa-
mālākarālaśikharaḥ suciraṃ cacāra |
bhīṣmaśmaśānavasanavyasanaḥ kapāla-
khaṭvāṅgapāṇiratitīvramapi vrataṃ kaḥ || 35||
manye bhavāntaraśatopacitasya puṇya-
pṛthvīruhaḥ phalamalabhyamabhāgyabhājām |
yasyā dṛgañcalavilokanamātrameva
sambhāvanaṃ tu vacasā vacasāmabhūmiḥ || 36||
sā tvaṃ mahārghaguṇaratnasamudravelā-
lāvaṇyasindhurakalaṅkakulaprasūtiḥ |
saubhāgyabhāgyavibhavādibhavā'bhimāna-
bhūmānamānayasi yaṃ tapasā prasādam || 37||
itthaṃ vidagdharasadigdhakathākrameṇa
devyā samaṃ samabhibhāṣaṇalolubhasya |
yadvyājavarṇitaruṇasya tavā'vahittha-
saṃruddhamapyatibhareṇa samudbabhūva || 38||
rūpaṃ pradarśya vidadhadgiri sānukampaṃ
divyaṃ dhṛtāmṛtarasaṃ girisānukampam |
yena vyadhā mukhamakhaṇḍasitāṃśukāntaṃ
devyā vapuśca pulakocchvasitāṃśukāntam || 39||
svāminnudāraghanasāratuṣārahāra-
kahlāraśāradaniśāramaṇopamena |
tāpaṃ tamaśca viṣamaṃ jahi me sahela-
mullāsitena hasitena sitena tena || 40||
sahasracaraṇaṃ raviṃ nayanapaṅkajāntaḥsthitaṃ
sahasranayanaṃ hariṃ caraṇapaṅkajāntaḥsthitam |
vimṛśya dhṛtavismayāṃ bhagavatīmavekṣyodgataṃ
prabhorabhimatāptaye hasitamastu śarvasya me || 41||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``hasitastotraṃ'' nāmakaṃ viṃśaṃ stotraṃ sampūrṇam |
21. ardhanārīśvarastotraṃ ekaviṃśaṃ stotram
vandemahyamalamayūkhamauliratnaṃ
devasya prakaṭitasarvamaṅgalākhyam |
anyonyaṃ sadṛśamahīnakaṅkaṇāṅkaṃ
dehārdhadvitayamumārdharuddhamūrteḥ || 1||
tadvande giripatiputrikārdhamiśraṃ
śraikaṇṭhaṃ vapurapunarbhavāya yatra |
vaktrendorghaṭayati khaṇḍitasya devyā
sādharmyaṃ mukuṭagato mṛgāṅkakhaṇḍaḥ || 2||
ekatra sphaṭikaśilāmalaṃ yadardhe
pratyagradrutakanakojjvalaṃ paratra |
bālārkadyutibharapiñjaraikabhāga-
prāleyakṣitidharaśaṛṅgabhaṅgimeti || 3||
yatraikaṃ cakitakuraṅgabhaṅgi cakṣuḥ
pronmīlatkucakalaśopaśobhi vakṣaḥ |
madhyaṃ ca kraśimasametamuttamāṅgaṃ
bhṛṅgālīrucikacasañcayāñcitaṃ ca || 4||
sābhogaṃ ghananibiḍaṃ nitambabimbaṃ
pādopi sphuṭamaṇinūpurābhirāmaḥ |
ālokya kṣaṇamiti nandinopyakasmā-
dāścaryaṃ paramudabhūdabhūtapūrvam || 5||
yatrārdhaṃ ghaṭayati bhūribhūtiśubhraṃ
candrāṃśucchuritakuberaśailaśobhām |
ardhaṃ ca praṇihitakuṅkumāṅgarāga-
mparyastāruṇarucikāñcanādrimudrām || 6||
yatkāntiṃ dadhadapi kāñcanābhirāmāṃ
pronmīladbhujagaśubhāṅgadopagūḍham |
vibhrāṇaṃ mukuṭamupoḍhacārucandraṃ
sandhatte sapadi parasparopamānam || 7||
āścaryaṃ tava dayite hitaṃ vidhātuṃ
prāgalbhyaṃ kimapi bhavopatāpabhājām |
anyonyaṃ gatamiti vākyamekavaktra-
prodbhinnaṃ ghaṭayati yatra sāmarasyam || 8||
pratyaṅgaṃ ghanaparirambhataḥ prakampaṃ
vāmārdhaṃ bhujagabhayādivaiti yatra |
yatrāpi sphuṭapulakaṃ cakāsti śīta-
svaḥsindhusnapitatayeva dakṣiṇārdham || 9||
ekatra sphurati bhujaṅgabhogabhaṅgi-
rnīlendīvaradalamālikā paratra |
ekatra prathayati bhasmano'ṅgarāgaḥ
śubhratvaṃ malayajarañjanaṃ paratra || 10||
ekatrā'rpayati viṣaṃ galasya kārṣṇyaṃ
kastūrīkṛtamapi puṇḍrakaṃ paratra |
ekatra dyutiramalā'sthimālikānā-
manyatra prasarati mauktikāvalīnām || 11||
ekatra srutarudhirā karīndrakṛttiḥ
kausumbhaṃ vasanamanaśvaraṃ paratra |
ityādīnyapi hi parasparaṃ viruddhā-
nyekatvaṃ dadhati vicitradhāmni yatra || 12||
dantānāṃ sitimani kajjalaprayukte-
mālinye'pyalikavilocanasya yatra |
raktatve karacaraṇādharasya cānyo
nā'nyonyaṃ samajani nūtano viśeṣaḥ || 13||
kaṇṭhasya bhramaranibhā vibhārdhabhāgaṃ
muktvā kiṃ sthitimakarocchiroruhārdhe |
ardhaṃ vā kanakasadṛgruciḥ kacānāṃ
santyajya nyaviśata kiṃ galaikadeśe || 14||
sauvarṇaḥ karakamale yathaiva vāme
savye'pi dhruvamabhavattathaiva kumbhaḥ |
krīḍaikaprasṛtamatirvibhurbibharti
svācchandyādurasi tameva nūnamenam || 15||
yatrāsījjagadakhilaṃ yugāvasāne
pūrṇatvaṃ yaducitamatra madhyabhāge |
saṃrambhādgalitamadastadeva nūnaṃ
viśrāntaṃ ghanakaṭhine nitambabimbe || 16||
ityādīnpravidadhureva yatra tāva-
tsaṅkalpānprathamasamāgame gaṇendrāḥ |
yāvatsa praṇatividhau padāravindaṃ
bhṛṅgīśaḥ pariharati sma nā'mbikāyāḥ || 17||
kimayaṃ śivaḥ kimu śivā'tha śivā-
viti yatra vandanavidhau bhavati |
avibhāvyameva vacanaṃ viduṣā-
mavibhāvyameva vacanaṃ viduṣām || 18||
ekaḥ stanaḥ samucitonnatirekamakṣi
lakṣyāñjanaṃ tanurapi kraśimānviteti |
liṅgaistribhirvyavasite savibhaktike'pi
yatrā'vyayatvamavikhaṇḍitameva bhāti || 19||
yatra dhruvaṃ hṛdaya eva yadaikyamāsī-
dvākkāyayorapi punaḥ patitaṃ tadeva |
yasmātsatāṃ hṛdi yadeva tadeva vāci
yaccaiva vāci karaṇe'pyucitaṃ tadeva || 20||
kānte śive tvayi virūḍhamidaṃ manaśca
mūrtiśca me hṛdayasammadadāyinīti |
anyonyamabhyabhihitaṃ vitanoti yatra
sādhāraṇasmitamanoramatāṃ mukhasya || 21||
udyanniruttaraparasparasāmarasya-
sambhāvanavyasaninoranavadyahṛdyam |
advaitamuttamacamatkṛtisādhanaṃ ta-
dyuṣmākamastu śivayoḥ śivayojanāya || 22||
lakṣyāṇyalakṣyāṇyaparatra yatra vilakṣaṇānyeva hi lakṣaṇāni |
sāhityamatyadbhutamīśayostanna kasya romāñcamudañcayeta || 23||
jūṭāhermukuṭendranīlarucibhiḥ śyāmaṃ dadhatyūrdhvagaṃ
bhāgaṃ vahniśikhāpiśaṅgamadharaṃ madhye sudhācchacchaviḥ |
dhatte śakradhanuḥśriyaṃ pratimitā yatrendulekhānṛju-
ryuṣmākaṃ sa payodharo bhagavatorharṣāmṛtaṃ varṣatu || 24||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``ardhanārīśvarastotraṃ'' nāmaikaviṃśaṃ stotraṃ sampūrṇam |
22. kādipadabandhastotraṃ dvāviṃśaṃ stotram
kāvyakauśalakalāsu kovidaiḥ kīrtitaḥ kavikulaiḥ kutūhalāt |
kaumudīkumudakāntakīrtibhiḥ kāmitaḥ kuśalakāryakāribhiḥ || 1||
keralīkacakalindakanyakākūlakāliyakaḍārakandharaḥ |
kilbiṣakṣapaṇakāraṇakratuklāntikṛtkaraṭikṛttikarpaṭaḥ || 2||
kekiketanakṛśānukauśikaiḥ kinnaraiḥ kavikuberakeśavaiḥ |
kālakūṭakavalakriyākrame kranditaḥ kaluṣakarṣaṇakṣamaḥ || 3||
karṇakīlitakapālakuṇḍalaḥ kuṇṭhitakrakacakalpakalmaṣaḥ |
kālakāmakadanaḥ kumudvatīkāntakarburakapardakandaraḥ || 4||
kāpiśāyanakaṣāyakāminīkelikūjitakalena kautukāt |
krīḍitaḥ kvaṇitakīcakakvaṇatkokilākalakalena kānane || 5||
kundakuḍmalakadambaketakīkāñcanārakalikākadambakaiḥ |
karṇikārakarabīrakorakaiḥ kairavaiḥ kuvalayaiḥ kuśeśayaiḥ || 6||
kiṃśukaiḥ kapikapolakāntibhiḥ kesaraiḥ kamalakoṣakomalaiḥ |
kovidārakuṭajaiḥ kaṇerakaiḥ kevalaiḥ kacitakīrṇakuntalaḥ || 7||
kṛṣṇakuṇḍalikaṭhorakañcukaiḥ kḷptakubjakamanīyakaṅkaṇaḥ |
krodhakṛttakarikumbhakoṭarakrūrakesarikiśorakaṇṭakaḥ || 8||
kāntayā kanakakāñcikiṅkiṇīkāntayā kalitakaṇṭhakandalaḥ |
kopayankapaṭataḥ kirīṭinaṃ krīḍayā kṛtakirātakaitavaḥ || 9||
kākakaṅkakuraraiḥ kalaṅkite kaśmale kaṭhinakṛtyakārite |
kāṅkṣitaḥ kṣatakalevaraiḥ kaṭuṃ karṣayankaruṇayā kadarthanām || 10||
kopakarkaśakṛtāntakiṅkarakleśakātarakṛpākṛtau kṛtī |
kalpatāṃ kalikalaṅkakandalīkandakarttanakuṭhārakarmaṇe || 11||
kallolinīkuṭilakairaviṇīkuṭumba-
kaṅkālakalpitakarālakirīṭakoṭiḥ |
kātyāyanīkarakarambitakīryamāṇa-
karpūrakuṅkumakaṇaḥ karuṇāṃ karotu || 12||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``kādipadabandhastotraṃ'' nāmakaṃ dvāviṃśaṃ stotraṃ sampūrṇam |
23. śaṛṅkhalābandhastotraṃ trayoviṃśaṃ stotram
jagati vibodhitavidhuraṃ vidhurañjitacāruśekharaṃ giriśam |
giri śaṃsāmi sasādhvasasādhvasamānandadānaparam || 1||
na paraṃ śaraṇaṃ prabhavati bhavati kṛtāvajñamānase mahatām |
mahatāṃ bhajati hi sahasā sahasā tava bhāratī madhurā || 2||
madhurāgāruṇanayanā nayanāśavidhau paṭīyasī pramadā |
pramadārpaṇārthamudite mudite tvayi sā tṛṇaṃ bhajatām || 3||
bhajatāṃ sarasāmamalāṃ mama lāñchitaśekharendunā karuṇām |
karuṇāṃ giraṃ navatayā bata yā'rpayati tava śrayatām || 4||
śrayatāṃ navanavidhau tava dhautavatī gīraghaṃ ratiṃ caturam |
caturantamahīpatitā patitā heyatva eva yatra satām || 5||
trasatāṃ na kadā bhavatā bhavatāpahṛtā vibho śubhākṛtinā |
kṛtināmupakāracitaṃ racitaṃ śubhameva bhāvihitam || 6||
vihitaṃ mayi cāru ciraṃ ruciraṃ na gate vivekalayam |
kalayannamalavibhāsitabhāsita rucimehi me vipākamalam || 7||
kamalaṃ raviraparājita rājitavikasadvapuryathā kurute |
kuru tena pathā mā bhava mā bhava vimukho dṛśaṃ diśa me || 8||
diśameṣa vicārahitāṃ rahitāṃ viṣayoragairahaṃ na labhe |
nalabhekavadativilapan vilapannagavadvṛtaḥ sadā tamasā || 9||
tamasāvujjhitakalahaṃ kalahaṃsagiromayā sadā sahitam |
sahitaṃ gīruditarasā tarasā śrayatāṃ vibhuṃ sadayam || 10||
sadayaṃ yadudāramate ramate kurvaṃstadeva deva janaḥ |
vaja naḥ karuṇāparatāṃ paratāṃ mā gā namo bhavate || 11||
bhava tejaḥprasarasitaṃ rasitaṃ śrutvā'mṛtopamaṃ bhavataḥ |
bhavatastrāsaṃ sakalaṃ sakalaṅkamatiḥ kadā vimuñcāmi || 12||
muñcāmitabhāsa dṛśaṃ sadṛśaṃ śaśinaḥ pradarśya vadanam |
vada nandayituṃ jagatīṃ jagatīśaḥ kostu nāmānyaḥ || 13||
nāmānyaḥ sumatirayaṃ tirayanti yaśāṃsi tasya vā vipadam |
vipadaṃ na vilāsamaye samaye vapurasya yātyayātavayaḥ || 14||
tava yaḥ stutiṣu sadā hara dāharajaḥ kleśapāśamayam |
śamayantīṣvastamanāstamanāhatabhāgyameva deva name || 15||
vanameva śaraṇamadhunā madhunāśinuta prasādanāya tava |
yatavati hṛdaye śakalitakalitamaso me namerucitam || 16||
rucitaṃ noragasadanaṃ sadanantamaharddhi nandanaṃ na vanam |
navanaṃ dhṛtadīpraguṇaṃ praguṇaṃ tava kartumeva deva rame || 17||
varamenoharamamalaṃ mama laṅghitavighna dehi nāma hitam |
mahitaṃ padamapi mā naya mānaya vidhuraṃ dṛśāmalayā || 18||
malayānilamiva surabhiṃ surabhiṃ kusumairivāvadātavanam |
tava nanditahṛdanāmaya nāma yamatrāsahṛtkalaye || 19||
kalayendorabhibhūṣita bhūṣitamukuṭaiḥ surairnateśa na kaiḥ |
śanakairaghaśamanāśaya nāśaya vipadaṃ padaṃ naya mā || 20||
na yamāhitabhayaśamane śamanekavidhaṃ prasādadakṣamate |
kṣamate munibhirupāsita pāsitarāṃ cenna māmadayam || 21||
madayañjitaviprakṛtīḥ prakṛtīrvasudhādhipo mahīvalayam |
balayantritaripurakṣati rakṣati tava yaḥ prasādamitaḥ || 22||
damitastena hi śamanaḥ śamanastarucāpi tena jātamudā |
tamudārāhitacaritaṃ caritaṃ śubhavartmanā stuvantyamalam || 23||
tyamalaṅkṛtabhūbhavanaṃ bhava nanditalokamīśa bhāvapuṣā |
vapuṣā naumyabhayastava yastava nutiṣu priyāsu kṛtī || 24||
sukṛtī tava bhavavāraṇavāraṇahariṇendra siddhibhājanatām |
janatāṃ nayadamalasitaṃ lasitaṃ vapurarcaye navairasakṛt || 25||
rasakṛdyo'pratighasmaraghasmara bhavataḥ stavaḥ sadaiva satām |
vasatāṃ divi bhayahṛdayaṃ hṛdayaṃ kurute ghanotkalikam || 26||
kalikampanamaghaśaraṇaṃ śaraṇaṃ caraṇadvayaṃ bhaje'vikalam |
vikalaṅkamatirahaṃ tava hanta varadviradarājagatim || 27||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭakṛte
bhagavato maheśvarasya stutikusumāñjalau
``śaṛṅkhalābandhastotraṃ'' nāmakaṃ stotraṃ sampūrṇam |
24. dvipadayamakaṃ caturviṃśaṃ stotram
vacasi sarasvati me vibhavaṃ prakaṭaya jātarasāram |
nutibhirupastuhi devi bhayaṃ sakalasurāntarasāram || 1||
aviralabhasmarajodhavalaṃ vihitamahāśamalābham |
bhaja bhagavatyagajādhavalaṃ śramaśamanaṃ vimalābham || 2||
dātumanuttamahāvapuṣaṃ yaḥ prababhūva nadīnam |
nāthamanuttamahāvapuṣaṃ taṃ bhaja devi na dīnam || 3||
bhaktirasastava deva satāṃ jayati mahāmṛtahṛdyaḥ |
caraṇatale bhavato vasatāṃ kalimalapalvalahṛdyaḥ || 4||
nayanamudīrya tamo hara me nihatamahāviṣameṣu |
yena punarhatamoha rame vairiṣu no viṣameṣu || 5||
tvayi varade rucirapramadāḥ pracalitacāmarahastāḥ |
sadasi bhajanti janaṃ pramadā ramayati so'pi rahastāḥ || 6||
himakarakiraṇasamūhasitaṃ surasaridambuviḍambi |
vaha bhagavan vadane hasitaṃ mā bhavatātra viḍambi || 7||
upamitamanmathacāpalatāṃ bhruvamavadhūya sahelam |
ravijadṛśāṃ ghanacāpalatāṃ vighaṭaya tā na sahe'lam || 8||
ravisutavartma mama smarataḥ śrutayamakiṅkaravāṇi |
dalati vibho hṛdayaṃ darataḥ purahara kiṃ karavāṇi || 9||
prathayati yastava hanta mahaṃ nutivacasā rucireṇa |
śubhaśatasiddhisahaṃ tamahaṃ śirasi vahāmyacireṇa || 10||
bhavabhayabhañjanabhaṅgividhau bhaktimatāṃ prabhavantam |
vihitahitaṃ vidhure'pi vidhau bhajata jagatprabhavaṃ tam || 11||
madanamahīruhadavadahanaṃ śirasi dhṛtāmṛtabhāsam |
bhajata durantaviṣādahanaṃ praṇatasamarpitabhāsam || 12||
vitara nadīramaṇaṃ śamanaṃ śakalaya khaṇḍaya kāmam |
prathaya dhanañjayabhayaśamanaṃ racaya puraṃ hatakāmam || 13||
iti sadayena yadācaritaṃ bhuvanahitāya hareṇa |
bhajata tadasya mahācaritaṃ nutivacasārtihareṇa || 14||
gatiraśubhaṃ hara kā taratāṃ bhavati vināśa bhavantam |
iti caturaṃ hara kātaratāṃ racaya ca māṃ śubhavantam || 15||
varada bhavantamṛte dharate bhuvanamidaṃ sakalaṃ kaḥ |
iti natimindukalādhara te bhajati na kaḥ sakalaṅkaḥ || 16||
iyamakhiletarajātimatāṃ jayati janiḥ prathamā naḥ |
sevyabhuvaṃ vibhureti matāṃ yatra hṛdi prathamānaḥ || 17||
tubhyamayaṃ śitināla satāṃ varada karomi namo'ham |
śamaya maheśa mamālasatāṃ yena bhajāmi na moham || 18||
bhajasi yayā kila kāmadayā natajanamīśa samastam |
sā mama te hatakāma dayā gamayatu vaiśasamastam || 19||
yena śucaṃ hatalobha janastyajati sudhāmadhureṇa |
tena vibho vacasā bhaja naḥ prakaṭitadhāmadhureṇa || 20||
madayasi yena janaṃ sakalaṃ madhuragirā vadanena |
mayi vacanaṃ parihāsakalaṃ pratidiśa tāvadanena || 21||
yena satāṃ vipadānayanaṃ duritamadabhramahāri |
diśa viśadaṃ mayi tannayanaṃ madanamadabhramahāri || 22||
jagadakhilaṃ yadi nandayase timiramuṣā rasitena |
imamapi kiṃ na janaṃ dayase tena tuṣārasitena || 23||
duritahṛtau viṣasāda karaḥ kvāpi na te ramaṇīyaḥ |
api sa bhayaṃ viṣasādakaraḥ śamayatu ghoramaṇīyaḥ || 24||
bhayaharaṇe mahitābha yataḥ prathayasi jātarasatvam |
māmapi pāhi mahābhayataḥ purahara kātarasattvam || 25||
bhajāmi māyāśabaraṃ varaṃ varaṃ diśantamantaṃ kunayaṃ nayannayam |
vijitya kṛtyaprabhavaṃ bhavaṃ bhavaṃ vikhaṇḍitakleśaparamparaṃ param || 26||
malakṣayamalakṣayaṃ bhava bhavatprasādādahaṃ
śivastava śiva stavaḥ pravihitastato'yaṃ mayā |
samuddhara samuddhara vyasanasaṅkaṭādarkajaḥ
samakṣamasamakṣamaḥ spṛśati cenna jihveṣi kim || 27||
santyanyāḥ kṛtināmanāmayagiraḥ kā nāma nāmantharā
na jñānāṃ hṛdi vāstavāstava mudaṃ ke vā stavāstanvate |
vāgeṣā tvatisādhvasādhvapatitā yatsādhvasādhvabhyadhā-
ttanmanye mahimānamānayati te sthemānamānandakṛt || 28||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarsya stutikusumāñjalau
``dvipadayamakaṃ'' nāma caturviṃśaṃ stotraṃ sampūrṇam |
25. rucirañjanākhyaṃ pañcaviṃśaṃ stotram
kila yasya kalpitamahodayayā-
hṛdayaṃ samāśritamaho dayayā |
vibhavaṃ yataśca paramāpa divaḥ
prabhureṣa pātu paramāpadi vaḥ || 1||
tava sevakasya parameśa manaḥ
kurute na hantumapi me śamanaḥ |
bhagavannato vapuranīrasadṛ-
ktava naumi siddhadhuninīrasadṛk || 2||
sragivā'rpyate kalitasārasanā
tvayi gīryayā jayati sā rasanā |
tvayi yanmaheśa varade'vahitaṃ
hṛdayaṃ tadeva varadeva hitam || 3||
tava dṛksudhākarakalopamitā-
patitā vipattadanulopamitā |
bhagavan dṛśaiva kamalā bhavataḥ
sahasā'ṅkameti śamalā bhavataḥ || 4||
kuru nātha cetasi vaco dayitā
tava gīrahaṃ na tava codayitā |
athavā maheśa pṛthukāmatayā
na kimāraṭanti pṛthukā matayā || 5||
viṣayairmukhe varada kāmadhurai-
rvivaśīkṛtaṃ ghaṭitakāmadhuraiḥ |
bhaja māṃ maheśvara mudā rahitaṃ
diśa bhāṣitāmṛtamudārahitam || 6||
vijitaṃ mayā jagadamohatayā
na ruṣā kṣato mama damo hatayā |
tṛṇavatsurakṣitidharo'pi tayā
vihito maheśa hṛdi ropitayā || 7||
marutāyateva malayācalataḥ
kṣapitā dhṛtiḥ kamalayā calataḥ |
tadimāṃ prasādanaparāṃ karuṇāṃ
śaṛṇu me giraṃ kuru parāṃ karuṇām || 8||
bhavataḥ prasādamadhurāmahatāṃ
dṛśamīyuṣāṃ śamadhurā mahatām |
dhṛtimetyapāsya ca ramā lasatāṃ
sulabhatvameti caramālasatām || 9||
samare vikīrṇagajarājaghaṭe
bata tasya śaktirajarā jaghaṭe |
tava yena sevanavidhau tarasā
matirarpitā'nyabhavidhautarasā || 10||
viṣayānprati prayatamānamadaḥ
sujano manaḥ prayatamānamadaḥ |
tava śāsanena vaśamānayate
śaraṇaṃ tato navaśamānayate || 11||
ravijaṃ rajobhiriva mecakitaṃ
hṛdayaṃ vibhāvya śiva me cakitam |
vacanaṃ jitāmṛtarasaṃ bhramataḥ
pathi saṅkaṭe vitara sambhramataḥ || 12||
tvayi cakṣurīśa kalitāpakṛti
kṣipati kṣaṇaṃ śakalitāpakṛti |
paraśaktiriddhavapuraṅgamitā
janatā yayā tava puraṃ gamitā || 13||
ravijasya varṣma sahasā racitaṃ
bhavatāgnisādasahasāracitam |
vapurāpa te madanaghasmaratāṃ na
tathāpi bhīmadanaghasmaratām || 14||
karuṇā kṣatānavadhikopacayā-
dhigatā mayā tvadadhikopacayā |
śaśinā yathākulataraṃ galatā
dyusarinnirargalataraṅgalatā || 15||
garuḍena yadviṣamapakṣatinā
kavalīkṛtaṃ viṣamapakṣatinā |
sa tava prasādamahimā na paraḥ
prabhurānataṃ prati hi mānaparaḥ || 16||
padamāptumārtiśamanaṃ gahanaṃ
prabhumarthaye bhṛśamanaṅgahanam |
vasanaṃ yathārttiharaṇaṃ sahime
samaye tathaiva śaraṇaṃ sa hi me || 17||
surasundarīṣu ramaṇīyatamā
svavapurguṇena ramaṇī yatamā |
tava bhaktamakṣatarasājara sā
bhajate sametya tarasā jarasā || 18||
tvayi gīrmayā nijagade bata
yā nikhilaṃ jayāmi jagadeva tayā |
muditasya bhaktisudhayā bhavataḥ
sabhayasya kiṃ vasudhayā bhavataḥ || 19||
śirasi srajeva vidhurocitayā
hṛdi madgirātra vidhurocitayā |
kriyatāṃ padaṃ śiva dhiyā sahate'-
vipadaṃ sadānavadhi yā sahate || 20||
vibhumāśraye vigaladaṅgalataḥ
pramaye bibhemi yadamaṅgalataḥ |
sa vimucya pāśamaśamaṃ galataḥ
kurute hi me bhayaśamaṃ galataḥ || 21||
caraṇau yathā murajitaḥ kṣamayā-
dhigatau bharaṃ dharitumakṣamayā |
namatāṃ tathaiva kṛtarakṣa mayā
bhavato dhiyā samucitakṣamayā || 22||
timiraṃ raveriva vibhāmuditāṃ
dṛśamāpya te jahati yā muditām |
bhagavan rasādgiramimāmuditā-
mupakarṇayanmayi diśā'muditām || 23||
karuṇā suraiḥ pratipadānata yā
bhavataḥ stutā sadapadānatayā |
kimu māṃ bhiyāptamapadānatayā
bhajase nirastavipadā na tayā || 24||
tava dṛgjayatyalasatāṃ lasatāṃ
madanasya yā vyatanutā'tanutām |
kuśalāya sā kila satāṃ lasatāṃ
nibiḍaṃ śamapyatanutā tanutām || 25||
yayā bhajante bhuvi mānavā hitāṃ
vibhūtimante ca vimānavāhitām |
yamaṃ ca yā'dhāddalaśo bhayānakaṃ
tayā dṛśā pāsyuruśobhayā na kam || 26||
paramayā ramayā rahitasya me
na ruciraṃ ruciraṅgamimaṃ vyadhāt |
hara mayā'ramayāci bhavānataḥ
kuru ciraṃ rucirañjanamehi me || 27||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭakṛte
bhagavato maheśvarasya stutikusumāñjalau
``rucirañjanākhyaṃ'' pañcaviṃśaṃ stotraṃ sampūrṇam |
26. pādādiyamakastotraṃ ṣaḍviṃśaṃ stotram
hantāpahantāpadupadravāṇāṃ
yasyā'kṣayasyākṣaṇikaḥ prasādaḥ |
santāpasantāpaharā prapeva
kāntārakāntā rasanā ca yasya || 1||
tādṛṅmatā dṛṅmahatāṃ samantā-
dālokadā lokahitā ca yasya |
taṃ santataṃ santamasārttaloka-
pālaṃ kṛpālaṅkṛtamīśamīḍe || 2||
hṛdyaḥ suhṛdyaḥ sukṛtorjitānā-
manyūnamanyūnapi yaḥ pṛṇāti |
yo'nāmayo nāmagṛhītimātrā-
dastāpadastāpamapākaroti || 3||
cetaḥ pracetaḥpramukhā yadeka-
tānantatānantaguṇā vahanti |
yogīti yo gītiṣu gīyamānaḥ
siddhaiḥ prasiddhaiḥ prabhurabhyupetaḥ || 4||
mānyo'dhamānyo'dharayatyudagra-
raṃhobhiraṃhobhirapāstavṛttān |
nāmāpi nāmāpidadhāti vītā-
lokasya lokasya tamāṃsi yasya || 5||
bhūtirvibhūtirvipulā diśaśca
vāso nivāso nilayaḥ pitṝṇām |
hīnairahīnairapi yasya bhūṣā'-
rālā karālā kalikā ca maulau || 6||
yaḥ khe'layaḥ khelati yaḥ śikhābhiḥ
satyaṃ hasatyaṃhatihāriṇībhiḥ |
bhānāṃ śubhānāṃ śucirīśvaro ya-
stānakṣatānakṣiṣu yo bibharti || 7||
saṅkhyeṣvasaṅkhyeṣvapi yo bhaṭānāṃ
vairasya vairasyabhuvo nidānam |
nindāvaniṃ dāvahutāśavantaṃ
roṣaṃ kharoṣaṃ khalu yaḥ pramārṣṭi || 8||
yajñe nayajñena vṛto na pūrvaṃ
dakṣeṇa dakṣeṇa śubhe vidhau yaḥ |
tasyā''natasyā'naghamujjhitāva-
sādaṃ prasādaṃ pradadau dayābdhiḥ || 9||
nītāvanītāvacalairalabhyaḥ
sādhyairasādhyairapi yastapobhiḥ |
sevālase bālamunau kilopa-
manyāvamanyāvakarotprasādaḥ || 10||
nāyaṃ vinā'yaṃ vidadhāti lokaḥ
karmaṇyakarmaṇyatayābhiyogam |
sattvānasattvānapi netumāsthā-
marthaḥ samarthaḥ sa yato'bhyudeti || 11||
dharmeṇa dharmeṇa nijocitena
kāmena kāmena vṛtābhayena |
kālena kāle natimāgatena
vātena vā tena sukhāvahena || 12||
jīvena jīvena tadarpitena
kāvyena kāvyena manohareṇa |
mitreṇa mitreṇa tamovṛtānāṃ
saumyena saumyena ca sevyate yaḥ || 13||
lokān salokān sadayo'sṛjadyo
dhātā vidhātā vibhurīpsitānām |
devaḥ pade vaḥ parame niyoktā
kāmaṃ sakāmaṃ saphalīkarotu || 14||
taṃ vanditaṃ vandibhirarcayante
santo lasanto lalitairvacobhiḥ |
tasyā'jitasyājiṣu nauti līlā-
muttālamuttālaraveṇa lokaḥ || 15||
dhīrasya dhīrasyati tasyatīkṣṇā-
bandhānubandhānugatāṃ pravṛttim |
dānaṃ dadānaṃ dayiteva rāgā-
dānandadā nandayate ca taṃ śrīḥ || 16||
sampannasampannavasiddhihetuṃ
dhuryāmadhuryāmamarendramukhyāḥ |
bhāsā śubhā sā śucirīśabhakti-
ryasyā'bhayasyābharaṇatvameti || 17||
śaṅkā bhṛśaṃ kā bhṛtakapriyaśce-
dāsannadāsaṃ na jahāti śambhuḥ |
nārādhanārādhayituśca mithyā
kiṃ citta kiñcittaralatvameṣi || 18||
sānanda sā nandanabhūstṛṇaṃ te
kalyāṇa kalyāṇagiriḥ kva gaṇyaḥ |
sā tejasā te jaḍatāmudasta-
kampā'nukampā nudatīndumauleḥ || 19||
jambālajaṃ bālaraverivābhā-
'dīnaṃ nadīnaṃ navacandrikeva |
sāśaṅka sā śaṅkarabhaktiruccai-
rakṣāmarakṣā madayiṣyati tvām || 20||
no bhogino bhogibhirarcito yaḥ
sātaṅka sātaṃ kalayañjahāti |
sa tvā'lasatvālayadainyahārī
pāsyatyapāsatyaśubhaṃ ca śambhuḥ || 21||
doṣapradoṣaprasṛtāpi saktā
sevārase vāravilāsinīva |
yā nirbhayā nirbhararāgiṇī tvā-
māyāti māyātimire'bhisarttum || 22||
bhāvānubhāvānugamena rūḍhā
bālā navālānagatā vaśeva |
sā'nehasā neha vihāsyati tvāṃ
kaṇṭhopakaṇṭhopagataiva vāṇī || 23||
divyā yadi vyāyatakāntayaste
gaurīśa gaurī śaśinaḥ kalā ca |
vighnanti vighnaṃ timirābhidhānaṃ
tenā'hatenā'hamupadrutaḥ kim || 24||
mudyogamudyogabhṛto bhajante
śaṃsanti śaṃ santi ca nirvikalpāḥ |
bhaktā vibhaktā vipadastvadīyāḥ
kasmādakasmādahameva magnaḥ || 25||
vācāṃ tavācāntaśucāṃ śubhānā
moghā na moghā namatāṃ kadācit |
tairuddhatairuddhara māmanāthaṃ
līnaṃ kulīnaṃ kudaśāndhakāre || 26||
kalpāntakalpāntakabhītiyuktaṃ
rakṣāmi rakṣāmiha yo'rhatīti |
yaste nayastena diśa prasannā-
matrā'samatrāsaharāṃ dṛśaṃ me || 27||
kandarpa kaṃ darpamupaiṣi yāta-
mastaṃ samastaṃ sahasā balaṃ te |
bhīro gabhīro galitaḥ kimuccai-
rakṣobharakṣo bhagavatprasādaḥ || 28||
vidyāmavidyāmapi tāṃ yayā tvā-
mārādhyamārādhya sukhī bhavāmi |
māyāpi mā yāpitabhīrupaitu
yātā na yā tānavamarcituṃ tvām || 29||
rāmābhirāmābhimatā dhṛtārdhe
bhogopabhogopagatena kena |
kasyāntakasyāntakarī ca lakṣmī-
dhāmāni dhāmāni bibharti dṛṣṭiḥ || 30||
kaḥ stambhakaḥ stambhanibhasya jiṣṇoḥ
kastāpakastāpakṛtaḥ smarasya |
kārānukārānubhave bhave'smin
ko jīvako jīvabhṛtāṃ vinā tvām || 31||
yā śaṃsayā śaṃsati śambhubhaktiṃ
ceṣṭāsu ceṣṭāsu ratiṃ smarasya |
tāmakṣatāmakṣayapuṇyakoṣā-
danyo vadanyo vahate tanuṃ kaḥ || 32||
yāhantayā hanta nṛpe'pyavajñā-
mānañja mānaṃ janayantyabhaṅgam |
hā niḥsahā niḥsaraṇe'pi bhaktyā
sā vāgasāvāgamadantikaṃ te || 33||
devaṃ yadevaṃ yamakairmaheśaṃ
tuṣṭāva tuṣṭāvasarocitaṃ gīḥ |
śasyo yaśasyo'yamupasthito'smā-
denobhide no'bhimataḥ prasādaḥ || 34||
taralataralatāgrasparddhinī cañcalatvaṃ
ruciraruciramandānandadā muñcati śrīḥ |
carati ca ratikāntadhvaṃsiśaṃsāratānāṃ
madhuramadhurasārdrā bhāratī vaktrapadme || 35||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``pādādiyamakastotraṃ'' nāma ṣaḍviṃśaṃ stotraṃ sampūrṇam |
27. pādamadhyayamakākhyaṃ saptaviṃśaṃ stotram
jayati saṃyati saṅgatapāṇḍava-
praharaṇāharaṇāhitakaitavaḥ |
taruṇadāruṇadāśavapurdhṛta-
sthirayaśā rayaśāliśaro haraḥ || 1||
bhuvanapāvanapādamadharṣitaṃ
maghavatā'ghavatāmapi saspṛham |
munijanīnijanītiparīkṣaṇe
dhavalakevalakelikṛtaṃ stumaḥ || 2||
sthiramagāramagātmajayā śritaṃ
smaravikāravikāsaparāṅmukham |
bhujagarājagarāgniśikhāvalī-
viṣamaveṣamavepathudāyinam || 3||
śamiṣu kāmiṣu kāruṇikeṣu vā
varamaghoramaghopaśamakṣamam |
ghanavipannavipannidhane sadā
paramadhīramadhīśamupāsmahe || 4||
śrutanayāstanayāstanumadhyamā
yuvatayo bata yogimanohṛtaḥ |
yadaghanāmaghanāmayavaiśasaṃ
tadamṛteśamṛte śamayanti kim || 5||
na hariṇā hariṇāṅkaśikhāmaṇe
na vidhinā vidhinā'pi saparyatā |
tava purā vapurāmamṛśe vayaṃ
kva nu bhavānubhavāvṛtacetasaḥ || 6||
caturagāsturagā nagajā gajāḥ
sthiramudāramudāttabalaṃ balam |
prabhavatā bhavatā vihite hite
pratidiśanti diśaṃ kamalāmalām || 7||
dvijasamājasamādhikadarthana-
pravaṇarāvaṇarājyahṛtau kṛtī |
caraṇayo raṇayogyabalo'bhava-
nnavanato vanato bharatāgrajaḥ || 8||
śubharato bharato'pyabhavaddviṣad-
garimahārimahāḥ samavāpya yam |
diśa tamīśa tamīpatiśekhara
sthiramanugramanugrahamehi me || 9||
bhṛśamanīśamanītipathasthitaṃ
madavaśādavaśākṣamupaplutam |
aharaharhara harṣayate na kiṃ
hitavatī tava tīvraśucaṃ ruciḥ || 10||
kuśalapeśalapelavadṛgvaman
rasanayā sanayārttihṛtāmṛtam |
madanasādana sāntvaya sampadā-
mapadamāpadamāśritamehi mām || 11||
kathamanāthamanāgasamantike
madanamardana marṣayase na mām |
bhuvanabhāvana bhāti vinā tvayā
jagati ko'gatikoddharaṇakṣamaḥ || 12||
yadi kṛpāpara pāparatasya me
na kuruṣe paruṣe padamāśaye |
hitatamā katamā kaluṣātmano
mama harā'maharā ghaṭate gatiḥ || 13||
sthiravibhā ravibhātirivonmadaṃ
madamayaṃ damayantyasamantamaḥ |
tava dayā vada yātyudayaṃ na ced
bhavatamī bata mīlati me katham || 14||
rajanirājanirākaraṇakṣamaḥ
kṣataniśātaniśātimirotkaraḥ |
kṛtavibhātavibhābharabhāsvaro
dinakaro na karotyudayaṃ yadā || 15||
divi yadā viyadābharaṇaṃ kṛpā-
paramate ramate na sudhākaraḥ |
na śucirāśu cirāpatitaṃ yadā
sthiramapāramapākurute tamaḥ || 16||
tanukṛśānukṛśāṃ grasate yadā
mihirajāhirajātaghṛṇastanum |
śiva tadā bata dāsyati me dhṛtiṃ
tvaditaraḥ kataraḥ karuṇāparaḥ || 17||
nidhanasādhanasāndralasadviṣā-
nalakarālakarāttamahoragaḥ |
niyamanāya manāṅmama saspṛhe
bhavati dhāvati dhāma yamaḥ katham || 18||
palitamīlitamīśa mama smara-
ścaturamāturamāracayanvapuḥ |
ghanabale'navalepapare tvayi
prabhavitā bhavitāpakaraḥ katham || 19||
kimadhunā madhunāpi yuto vahan
ratimabhītimabhīṣṭatamāmapi |
śritamavantamavandhyabalaṃ vibhuṃ
jayati māṃ yatimānaharaḥ smaraḥ || 20||
viṣamaroṣamaroḥ pathi pātaya-
nmatimanītimanīkṣitasatpathām |
bhṛśamayaṃ śamayanniyamaṃ kathaṃ
tava puro vapuroṣati me madaḥ || 21||
mama nikāmanikārakṛto vṛthā
vapuravāpuravāryaruṣo'rayaḥ |
na hi tadāhitadāhamadantyamī
tava hitāvahitā hi nateṣu dhīḥ || 22||
yadi vibhā divi bhāti na tāvakī
yadi na me dinameti bhavanmayam |
vada mahādamahāri tamaḥ kathaṃ
viṣamadoṣamado vinivartate || 23||
kamalinī malinīkriyate yayā
vihatasantatasantamasāpi yā |
smaracitā racitāpi ca yatra tāṃ
vitara kātarakāmadughāṃ dṛśam || 24||
tuhinavāhinavānilaje manaḥ
sahasi raṃhasi rañjayati priyā |
na rasikorasi koṣṇakucā tathā
tava guṇānuguṇā nutigīryathā || 25||
ayamasau yamasauṣṭhavahṛtpuraḥ
paruṣapauruṣapauṣṭikaceṣṭitaḥ |
vidhurabandhuravandhyaparigrahaḥ
sphurati me ratimetya maheśvaraḥ || 26||
anidhanena dhanena manasvinā-
manuguṇena guṇena garīyasā |
abhijanena janena suduṣkṛtai-
raśabalena balena ca vardhate || 27||
abhinavena navena śivasya yaḥ
stutimudāramudārabhate'munā |
avahitasya hi tasya tanoti śaṃ
vibhavado bhavadoṣaharo haraḥ || 28||
sa sakalāsu kalāsu vicakṣaṇaḥ
sa matimānatimānasamunnataḥ |
na śaśikhaṇḍaśikhaṇḍamṛte stutiṃ
sukṛtavān kṛtavānaparasya yaḥ || 29||
raviraho virahoddharaṇāddi-
śandhṛtimudeti mude rathapakṣiṇām |
yadaviṣādaviṣābhibhavaṃ jaga-
tkṛtamasantamasaṃ stutibhiḥ prabhoḥ || 30||
vinayaśobhiḥ yaśobhirataṃ manaḥ
parahitārahitā vimalā matiḥ |
vipulamaṅgalamaṅgamiti prabhoḥ
pratiphalanti phalaṃ stutivīrudhaḥ || 31||
jitasudhārasudhārasabhāratī-
vibhavasambhavasambhṛtakīrtayaḥ |
kavibudhā vibudhādhipavanditaṃ
sukṛtinaḥ kṛtinaḥ stuvate śivam || 32||
na mahatāmahatāmalasaṃvidāṃ
madayitā dayitādhigamastathā |
madhurasādhurasārdrapadā yathā
sayamakā yamakāmaripustutiḥ || 33||
kā nāma nāmaravadhūravadhūtakāntā
kāntā na kā narajanī rajanīpatiśrīḥ |
śrīmantamantakaripuṃ karipuṅgavānta-
hetuṃ stuvantamavirāmavirāvameti || 34||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``pādamadhyayamakākhyaṃ'' saptaviṃśaṃ stotraṃ sampūrṇam |
28. pādāntayamakastotraṃ aṣṭāviṃśaṃ stotram
antaścetasi nirvṛtirna gamitā nāśaṃ kayā śaṅkayā
naiṣā puṣyati tena saṃhṛtagatiḥ śobhāratī bhāratī |
bhaktiḥ kiṃ tu vijṛmbhate mama yathaivābhā svato bhāsvato
yādṛktādṛgataḥ kimapyabhidadhe sampratyahaṃ pratyaham || 1||
vaktraṃ bibhradadabhradīrghadahanajvālaṃ bhayaṃ lambha-
yannudgrīvaṃ ghaṭayankare vidadhataṃ vyālaṃ ghanaṃ laṅghanam |
pratyāsīdati mṛtyurityupacitasphārocitāṃ rocitāṃ
śrutvā māṃ na kathaṃ vibhurgiramimāṃ citrāyatāṃ trāyatām || 2||
manye tāṃ spṛhaṇīyagauravaguṇāmāyāminīṃ yāminīṃ
tatsevārasamādadhattava sudhā saṃvādinaṃ vā dinam |
yatropāntagataṃ vacobhirucitairānandinaṃ nandinaṃ
kurvadbhiścaritaṃ sucāru jagatāmīśasya te śasyate || 3||
tasyodeti sadaḥsadāṃ vidalitaglānirbharo nirbharo
vācāṃ vaktrasaroruhe pariṇamatpāko'malaḥ komalaḥ |
lakṣmīstaṃ na jahāti kiṃ ca vibhavairābhāsitābhāsitā
yena tvaṃ hṛdayāmbuje bhavabhayāttrātoṣitastoṣitaḥ || 4||
sevyante bhagavannapāsya(avāpya)kalitollāsaṃ madaṃ samadam (padaṃ sampadaṃ)
bibhrāṇāstaruṇījanena madhuravyāhāriṇā hāriṇā |
vījyante divi candraraśmirucitaiḥ kiñcā'maraiścāmarai-
rābālyādvidadhe tvadekaviṣayā yaiḥ śemuṣī śemuṣī || 5||
tūrṇaṃ cūrṇayituṃ vapuryamabhaṭo jhampārayaṃ pāraya-
nnuccaṇḍabhrukuṭīkarālitamukho yatrāsakṛttrāsakṛt |
tāṃ bhūmiṃ parihartumīśvara bhavatsevādhanaṃ bādhanaṃ
duḥkhānāmadhigamya hanmi kumatiprāduṣkṛtaṃ duṣkṛtam || 6||
muñcadbhiryamakiṅkaraiḥ kṛtamahājṛmbhairavaṃ bhairavaṃ
yāvaddarśitamānanaṃ na ghusṛṇakṣodāruṇaṃ dāruṇam |
tāvatsattvaramehi dehi mahasāṃ dhāmedṛśaṃ me dṛśaṃ
yā dūrīkurute nirantarasudhāsandohadaṃ dohadam || 7||
yāvadduḥsahavahnihetivihitasphītāpadaṃ tāpadaṃ
jantūnāṃ bhagavan bhajāmi narakaṃ nāhaṃ sadāhaṃ sadā |
tāvanmuñca vaco yathā marupathe bādhāvatāṃ dhāvatāṃ
bhīṣmagrīṣmakadarthyamānavapuṣāṃ sañjīvanaṃ jīvanam || 8||
nyastaṃ yena manastvayīdamahatotsāhaṃ tayā'hantayā
gāḍhodvegavidhāyinī ghaṭayate sāyāsatāṃ yā satām |
taṃ bhogairupasevate sumanasāmānandane nandane
divyastrījanatā vilāsavikasacchobhā suraṃ bhāsuram || 9||
yasyā hanti dhṛtiṃ vivekavihitahrāsā vilāsāvilā
mugdhā dṛṅmadirāmadena vigaladvācāruṇā cāruṇā |
rāmā kāmamahāstramarpayati me sā hanta mohaṃ tamo
yenā'jñānamayaṃ manasyuparamattāpaprathe paprathe || 10||
lajje'haṃ bhaja dūrameva rabhasādevaṃ dhutā bandhutā-
sammūḍhena mayā yayā vidhṛtavānetāmahantāmaham |
kiṃ kiṃ śrīmadamohitena vibhavasthenā'hitaṃ nāhitaṃ
yenaitāṃ na bhaje punarmayi varaṃ bādhe hitaṃ dhehi tam || 11||
ānītā caraṇāntikapraṇayitāṃ kāmena kā menakā
kāryaṃ kiṃ ghanabhogasambhṛtavidhau sārambhayā rambhayā |
kāntā me parameśvare hatavipatsambhāvanā bhāvanā
citte kāpi ratiryayāhitahitavrātāyate tāyate || 12||
dhatte yasya jaṭā kapālapaṭalaṃ bhavyā kulaṃ vyākulaṃ
haṃsānāmiva rundhatīṃ bhagavatīṃ gaṅgāṃ taraṅgāntaram |
tasyādhāya maheśiturnutigirāṃ navyākṛtiṃ vyākṛtiṃ
bhaktyā niścalayā nṛjanma sakalaṃ sammānayāmānayā || 13||
kañcicchrīrvasateḥ karotu vikasacchobhā janaṃ bhājanaṃ
kañcidvandijanaḥ praśaṃsatu mudaṃ prītyā gatastyāgataḥ |
manye'haṃ tu samagraśokaśamanaṃ saṃnyāsamanyāsamaṃ
yasminmṛtyujitaṃ bhajāmi manasā vāceṣṭayā ceṣṭayā || 14||
rūpaṃ yadbhavato dadhatparikaraṃ bhaujaṅgaṃ jaṅgamaṃ
sevante yadapi śriyā kṛtadhiyaḥ svasthā varaṃ sthāvaram |
prājyaṃ jyotiriva prasahya tamasāṃ vaikartanaṃ kartanaṃ
labdhvā tatpratibhā kathaṃ na janitasvābhā satāṃ bhāsatām || 15||
stotuṃ vāñchasi saṃśritaṃ marakataśyāmaṃ galaṃ maṅgalaṃ
labdhuṃ mānasa tatparaṃ bhagavataḥ sevāsu kiṃ vāsukim |
bhaktiścedbhavati sthitiṃ madamarudvegāhate gāhate
tadbadhnāsi dhṛtiṃ tvamapyahipatiprāvārasevārase || 16||
dṛṣṭvā yanmaghavā vihāya gatavānairāvaṇaṃ rāvaṇaṃ
paśyanpāṇḍutayā bhayādanukṛtaśyāmādhavaṃ mādhvam |
sarvo'yaṃ bhavataḥ prasādamahimā hantā navaṃ tānavaṃ
sevā kasya na siddhaye hatavṛthāsaṅkalpa te kalpate || 17||
taṃ hatvā sabalaṃ niśācarapatiṃ laṅkālayaṃ kālaya-
nnārtiṃ nākasadāmupetya vibhavaṃ vaibhīṣaṇaṃ bhīṣaṇam |
vaidehīmanaghāṃ labheta sa kathaṃ rāmo hi tāṃ mohitāṃ
tvadbhaktiṃ yadi na vyadhāsyatanuto bhrājiṣṇunā jiṣṇunā || 18||
lokaṃ śokaharaṃ paraṃ prati bhṛśaṃ sandehināṃ dehināṃ
māyā mohatamovimohitadṛśāmāyāsadā yā sadā |
tāṃ hantuṃ mama kiṃ karoṣi vihitajñānodayāṃ no dayāṃ
yasyā dāsyamapīha nārhati ghanasphārā sudhārā sudhā || 19||
doṣāṇāṃ sahasā vidhātumudayaṃ no sāmprataṃ sāmprataṃ
svālokakṣapaṇaṃ karotu timiraṃ tanmādṛśāṃ mā dṛśām |
khyātaḥ pauṣṇa iva prasahya kamalollāsādayaṃ sādaya-
nnārtiṃ na prakaṭīkaroti bata kāmāśāṃ karaḥ śāṅkaraḥ || 20||
śītasnigdhaṃ parimalasukhaṃ ghānasāraṃ na sāraṃ
nāpi premṇā kalitalalitoddāmahelāmahelā |
tasmājjitvā bhavamanuditastambhajeyaṃ bhajeyaṃ
bhūyo bhūyo hara parahitārambhavantaṃ bhavantam || 21||
dṛṣṭiḥ strīṇāṃ mama nivasato hāniśānte niśānte
cittaṃ rundhe śiśumiva mṛgaṃ vāgurā bhaṅgurābham |
tatsamparkādahamiva sahe deva mānā'vamānā-
vārttaḥ prāptaḥ śaraṇamadhunā tvāmudāraṃ mudāram || 22||
prājyaṃ rājyaṃ nṛpatimakarīratnaniryatnanirya-
draśmisrotaḥsnapitacaraṇaṃ krāntasāmantasām |
sabhrūbhaṅgaṃ munijanamanaḥkṣobhirāmā'bhirāmā
vaktraṃ bibhratyupacitaratirghasmareṇa smareṇa || 23||
dvāri kṣobhaḥ kṣitidharaguhābhogajānāṃ gajānāṃ
kā vā saṅkhyā prakaṭitavipadbādhanānāṃ dhanānām |
itthaṃ lakṣmīḥ kathamiva bhajeddhāmahīnaṃ mahīnaṃ
syāccennaikastava kṛtaripukṣiprasādaḥ prasādaḥ || 24||
bhīmāṃ paṅktiṃ puruṣaśirasāṃ mastake'śastakeśa-
protāṃ dhatse vibudhasarito yāṃ taraṅgāntaraṅgām |
saiva śreyaḥ prathayati yathā deva rājīva rājī
tvatsamparkādghaṭayati na kiṃ maṅgalābhaṅgalābham || 25||
kṛtvā śayyāmupānte viracitakalikādāmaśeṣāmaśeṣāṃ
sampattiṃ mānayantaḥ kusumabalagaladbālatānāṃ latānām |
sevyante hanta vṛndairavirataratayaḥ sundarīṇāṃ darīṇā-
mantastvadbhaktibhājaḥ sitakarakiraṇairuttamāyāṃ tamāyām || 26||
hantā'hantāvṛtānāṃ maha iva rajanī bhāsamānaṃ samānaṃ
jñānaṃ jñānandakāri glapayati vilasadbodhanāśā dhanāśā |
vācā vācālabhāvaṃ tava vihitavatāṃ vāstavena stavena
śreyaḥ śreyaskarastvaṃ bhava bhavasi vipadbhājanānāṃ janānām || 27||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``pādāntayamakastotraṃ'' nāmāṣṭāviṃśaṃ stotraṃ sampūrṇam |
29. ekāntarayamakastotraṃ ekonatriṃśaṃ stotram
udāravarṇairatha saṅgatairahaṃ
mudābhidhāvadbhirupoḍhalakṣaṇaiḥ |
padairamandadhvanibhirmaheśvaraṃ
prabhuṃ prapadye turagottamairiva || 1||
śivena devyā jagṛhe karohita-
strasanyadā kuṅkumapaṅkarohitaḥ |
tadāsya yo'rkāgniniśākarohitaḥ
stavaḥ sa vaḥ syādabhayaṅkaro hitaḥ || 2||
anañjanaṃ netravikāsakāraṇaṃ
niraṅkuśaṃ karṇakareṇuvāraṇam |
acandrikaṃ cittacakorapāraṇaṃ
kriyādva īśārcanamārtidāraṇam || 3||
sukhākaroti klamahṛnna mādhava-
stathāmarau vopavane'pi mādhavaḥ |
yathā śarīrārdhaniruddhamādhavaḥ
praśasyamāno bhagavānumādhvaḥ || 4||
dināntarātryāgamayorivāthavā
surasravantīyamunaughayoriva |
umāramākāmukayoḥ samāgamaḥ
sitā'sitastāpamaghaṃ ca hantu vaḥ || 5||
umākhyamāsādya mahāniyo'gataḥ
priyaṃ nidhiṃ saukhyamahāni yo gataḥ |
karotu yuṣmākamahāni yogataḥ
śubhānyasāviddhamahā niyogataḥ || 6||
dvijādhipādhiṣṭhitaśekharaṃ mahā-
bhujaṃ gavinyastabharaṃ samudvahan |
vapuḥ sadābhaṅgadayāsamāśritaṃ
tanotu vaḥ sampadamacyutaḥ śivaḥ || 7||
aghadrumadhvaṃsamahākareṇavaḥ
sudhāsitāḥ pāvakakalkareṇavaḥ |
vasanti yasminnabhayaṅkare'ṇavaḥ
karotu śaṃ tena haraḥ kareṇa vaḥ || 8||
dhṛtistvadīyena sudarśanena me
bhavatyabhedastu hare kimucyate |
parasparaṃ śaṅkarakṛṣṇayoridaṃ
vacaḥ sukhāyaikamukhotthamastu vaḥ || 9||
na janma yasyādrinivāsa dāruṇaḥ
sa te jvalatyakṣṇi śikhī sadāruṇaḥ |
yamaṃ na kiṃ tena śiraḥsadā'ruṇa-
stvadāśritaṃ kiṃ grasatāṃ sa dāruṇaḥ || 10||
sadā nagopāhitabandhurasthitiṃ
stuve pinākena samedhitaśriyam |
maharddhikaṃ sopaśame kṛtādaraṃ
haraṃ hariṃ vā tarasā rasādaham || 11||
mano bhṛśaṃ bhrāmyati bāliśaṃ bhave
jahāti bhaktiṃ ca divāniśaṃ bhave |
ataḥ paraṃ nāma kimasya śaṃ bhave-
nnivedayetsvaṃ yadi karma śambhave || 12||
samudrajanmānamupādadhatkare
sitadyutiṃ vaktraniveśanocitam |
rataḥ sadāskandakadarthanāhatau
haro harirvā duritaṃ dhunoti vaḥ || 13||
jigīṣavaḥ kleśaparamparābhavaṃ
vaneṣu bhikṣādhṛtakarparā bhavam |
asoḍhavantaḥ kunṛpātparābhavaṃ
bhajanti santaḥ stutitatparā bhavam || 14||
kadā dadhāno ghanaśāntiśobhinīṃ
śubhāmbarālaṅkaraṇocitāṃ tanum |
bhajāmyahaṃ dṛṣṭiniveśanaucitīṃ
śaśīva tigmāṃśurivā'cyutasya te || 15||
kimāmravanyā sṛmarālavālayā
priyākabaryā kimarālabālayā |
saraḥśriyā kiṃ samarālabālayā
dhṛteśabhaktirhyamarā'lavā'layā || 16||
kadā'navadyāmatinirmalāmahaṃ
mahānadīnāṃ salilaiḥ prasādibhiḥ |
vahāmi haṃsairupaśobhitāmbarāṃ
prabhuprasādāccharadaṃ yathā tanum || 17||
prabhuṃ prapattuṃ sthalamehi mālayaṃ
mahīdharaṃ mānasa vā himālayam |
rasātale vaupayikāhimālayaṃ
śrayantamanveṣaya yāhi mā layam || 18||
nidhāya cakṣurdahato manobhavaṃ
na kāmahāniṃ pravitanvato dṛśā |
anaṣṭamūrterdadhato'ṣṭamūrtitāṃ
jayanti śambhorvividhā vibhūtayaḥ || 19||
samāśritastvāṃ karuṇāparā'ja yaḥ
kvacinna tasyāsti raṇe parājayaḥ |
pare tamārabdhaparasparājayaḥ
śrayanti nāthaṃ dhṛtacāparājayaḥ || 20||
dhruvaṃ sa kṛṣṇastamadhaścakāra ya-
ścirāya pakṣadvayakalpitasthitim |
dvijādhirājaṃ vinatārtihāriṇaṃ
bibharti yo mūrdhni sa tu tvamīśvaraḥ || 21||
vibhuṃ viriñco'pi na veda nāma yaṃ
natasya duḥkhaṃ ghanavedanāmayam |
nihanti tasyāpi bhavedanāmayaṃ
śucaṃ bhajennāpyanivedanāmayam || 22||
samudrajāliṅgitakaṇṭhapīṭhaṃ
sadaiva satyāhitasaktimacyutam |
ananyagā yasya navoktimauktikai-
ralaṅkaroti pracurā sarasvatī || 23||
abhīṣṭadāyī yamadhāmahodayād-
dhvaniryayā śvetanṛpe mahodayā |
dhṛtiṃ diśantī namatāmaho dayā
kva sā tavāsmāsvadhunā mahodayā || 24||
ayamahaṃ puruṣottamamacyutaṃ
balijitaṃ kṛtasatyaparigraham |
acalitaśriyamāśritanandakaṃ
dhṛtasudarśanamīśvaramāśraye || 25||
vitanvatī bhaktimatāṃ samānatāṃ
bibharti yā kalpalatāsamānatām |
kathaṃ dadhanmūrtimimāṃ samāntāṃ
tava stutiṃ vacmi śataṃ samā na tām || 26||
iha paraśucitorjitākṛti-
dvijapatiśekharatāṃ bibharti yaḥ |
trijagati giriśaṃ satāṃ hitaṃ
praṇamatarāmatanuṃ tamacyutam || 27||
yamaṃ yayārabdhamahāmahā'nayaḥ kṣayaṃ
dṛśā yasya sa śarmahā'nayaḥ |
dadāsi cettāmudito mahānayaḥ
kṣatāśca vighnāḥ kṛtakāmahānayaḥ || 28||
analasambhṛtakānti dadhatsadā
ruciramāracitāspadamīkṣaṇam |
sumataye vidhuropakṛtipriyo
bhavatu vo bhagavān bhagavāniva || 29||
na jātu tajjñāḥ kṛtino'vahanta yā-
madhogatau kāraṇameva hanta yā |
tvayi prasanne sumatāvahantayā
na yāmi duḥkhaṃ narakāvahaṃ tayā || 30||
priyāṃ mukhe yo dhṛtapañcamasvarāṃ
giraṃ vahantīmamṛtasya sodarām |
viśeṣaviśrāntarucirbibharti māṃ
vapuṣyasau puṣyatu vaḥ śivo'cyutaḥ || 31||
nutirmayeyaṃ bhajatāṃ hitāya te
kṛtā'nayā śarma satāṃ hi tāyate |
manasyapi glānirapohitā yate
dhṛtā yadeṣā śrutisaṃhitāyate || 32||
ameyamahimā himādritanayā-
nayāttahṛdayo dayorjitamatiḥ |
vibhurbhavarujaṃ rujannavikalaṃ
kalaṅkarahitaṃ hitaṃ diśatu vaḥ || 33||
udārakaruṇo'ruṇorjitamahā
mahāhivalayo layojjhitavapuḥ |
aghaughaśamano manodhṛtamudā-
mudāttavibhavo bhavo bhavatu vaḥ || 34||
ekaḥ pādodakamadhiśiraḥ ślāghyamanyasya dhatte
cakre pūjāṃ nayanakamalenā'parasya dvitīyaḥ |
ityanyonyaṃ prakṛtimahatāmantarajñau guṇānāṃ
harṣotkarṣaṃ kamapi kurutāṃ kāmakaṃsadviṣau vaḥ || 35||
yasminnadrisamudrajāvahanayorutsṛjya naisargikaṃ
vairaṃ kesarikuñjarapravarayoḥ sauhārdahṛdyā sthitiḥ |
yasminnapyahirājapannagabhujau nirvyājamaitrīyujau
niṣpratyūhamasau mahāpuruṣayoḥ sandhirnibadhnātu vaḥ || 36||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``ekāntarayamakastotraṃ'' nāmaikonatriṃśaṃ stotraṃ sampūrṇam |
30. mahāyamakastotraṃ triṃśaṃ stotram
śāradīmiva nadīṃ prasādinī-
muccakairavasarojarājitām |
stotumeṣa mama mūrtimaiśvarī-
muccakairavasaro'jarājitām || 1||
rohiṇīramaṇakhaṇḍamaṇḍanaṃ
nandinandinamanaṃ dinaṃ dinam |
naumi bibhratamupoḍhakālikā-
saṅgamaṃ galamasaṅgamaṅgalam || 2||
naumi bhaktajanakaṇṭhaniḥsara-
nnādarañjitamakālakāmadam |
kālakāmadamanādaraṃ jita-
kleśamīśamamṛtāṃśuśekharam || 3||
bhrāmyatu draviṇatṛṣṇayā bhṛśaṃ
mānasaṃ sadinamānasaṃsadi |
tvatstavāmṛtamṛte tu dustare
bandhuradhvani na bandhuradhvani || 4||
sādhu nātha nutirīpsayā mayā
yā mayārcita kṛtātra sādhunā |
sā dhunātu vipadaṃ bhavāmayā-
yāmayāpanalasadrasā'dhunā || 5||
na me'bhibhūtasya pitā na mātā
na vā sanābhirdhanavāsanābhiḥ |
aristu rundhe suhṛdā viyuktaṃ
samādhinā mānasamādhināmā || 6||
darpakāntaka virājamānayā-
'darpakāntakavirājamānayā |
tvatprasādavidhilabdhayā dhiyā
sādhavo dadhati vaibudhīṃ dhuram || 7||
yena śītakarakhaṇḍaśekhara
tvatprasādavaśataḥ karotkaraḥ |
ko'pi tāmarasabhāsano'rjitaḥ
kopitā'marasabhāsanorjita || 8||
raviralaṅkurute navarañjanaṃ
sa kila yattava dakṣiṇamīkṣaṇam |
imamapāsya tamaḥ sahajaṃ śanai-
raviralaṃ kuru tena varaṃ janam || 9||
mahatāmatāmasamahāvapuṣaṃ
tava bhaktimarthitavatāṃ bhagavan |
mahatāmatāmasamahāvapuṣaṃ
prathayanti kīrtimiha siddhagaṇāḥ || 10||
adhyāsyate śamajuṣā bhavataḥ prasādā-
dāmodarājitarucāru ciraṃ janena |
dāmodarājitarucā rucirañjanena
kīrṇaṃ tṛṇena mṛdunā vanamārtavena || 11||
tava savahariṇaṃ ghnatī maharṣiṃ
yamakṛta cāpalatā navāsamādhim |
punarapi dṛgalambhayattavainaṃ
yamakṛtacāpalatānavā samādhim || 12||
sabhājane'nalparaternṛpasya
tvadbhaktibhājaḥ prasabhājanena |
sabhājanena praguṇena pūrṇā
vibhāti niḥśreyasabhājanena || 13||
anantarā'yantritavāgbhavastvāṃ
gṛṇāti yo nityamanantarāyam |
anantarāyaṃ svayametya lakṣmī-
rniṣevate taṃ samanantarāyam || 14||
saho mayādyairapi yasya durdharaṃ
yamaḥ sa dhartuṃ hṛdi duḥsaho mayā |
sahomayā'bhyetya bhaja prasannayā
dṛśā kṛtānaṅgabhujāṃsahomayā || 15||
kale varaṃ dātumudīrite'sti yā
sudhā suvākye tava niṣkale varam |
kaleva raṅkvaṅkatanorasau kadā
mamedamāpyāyayate kalevaram || 16||
sadānavāridviradā varūthinī
hareriva dhvastasahiṃsadānavā |
sadā navārāddhaśivā śivāptaye
na kasya gīrbhaktivikāsadā navā || 17||
ghanairahantākṛtalaṅghanairahaṃ
mahāribhirnirmalaśarmahāribhiḥ |
nirākṛtaujā dhṛtahānirākṛtau
na te'valepāvasaro nate'bale || 18||
manasyadoṣe'pyatidaurmanasyado
mahārayaḥ pannagabhīmahāra yaḥ |
tamantakampaikanimittamantakaṃ
nayāśu bhaṅgaṃ hatadurnayāśubham || 19||
na vārabāṇā na hayā navāravā
na dantinaḥ sadmani vā nadanti naḥ |
kṣatāpadājñā tu vipakṣatāpadā
jito bhavaḥ sādhu hi pūjito bhavaḥ || 20||
jalāśayā yānti mṛgā jalāśayā
marāvalaṅghye ghnati pāmarā balam |
paraṃ hasanto jitakoparaṃhasaṃ
janā bhave'pyujjhitapūjanā bhave || 21||
amandarāgāśritamandarāgā-
ste devajātāviha deva jātāḥ |
ye siddhasādhyārcita siddhasādhyā
ratā navaṃ tenuratānavaṃ te || 22||
sadaya modaya modayamokṣadaṃ
kṛśamadaḥ śamadaḥ śamadaḥ kuru |
na hi tatā hitatā''hitatāyanaiḥ
kṛtanute tanu te tanute śubham || 23||
rasamaye samaye'samayehayā
dhanamahīnamahīnamahīṣvapi |
kṛtamudāttamudāttamudāhṛtaṃ
tadidamāpadamāpa damāpaham || 24||
madanavādanavādanavāsanā-
yatanayātanayā tanayā'mbudheḥ |
akṛta vai kṛtavaikṛtavaiśasā
sakamalā kamalā kamalāghavam || 25||
kamalayā'malayā malayādriva-
ttrasadayāsadayā sadayāpyayā |
pravaradhīvara dhīvara dhīrayā
kalayamā'layamālayamāpadām || 26||
vitaraṇābharaṇā bharaṇābhaya-
kṣamamanā mama nāma manāgapi |
śubhavane bhavane bhava nepsita-
prada ramā'daramādaramādadhe || 27||
anayato nayato na yato dhṛti-
prada yamādayamādayamāśritaḥ |
trasati śaṃsati śaṃsati śaṃ ca yo
dhṛtamudaṃ tamudantamudañcaya || 28||
śubhavatā bhavatā bhavatāriṇā
śakalitā'kalitā kalitāpabhūḥ |
hara kṛtāntakṛtāntakṛtānta no
kimamatā mamatā mama tādṛśī || 29||
viśadaśobhayaśobhaya śobhaya
trijagadakṣamadakṣamadakṣama |
svapadamānaya mānaya mā naya-
kṣatasamakṣayamakṣayamakṣaya || 30||
ghanā'ghanāśanaiḥ śanairnavairnavairihā'rihā |
bhavānbhavā'nvahaṃ vahannahīnahīnadānadāḥ || 31||
dayodayorjito'rjito mayomayocitaścitaḥ |
yateya te hitehite ravairavairadhīradhīḥ || 32||
tavāttabādhane dhane gadaṃ gadanti ke'ntike |
mayā''mayāvinā vinā vibho vibhojanā janāḥ || 33||
stavāstavā''hitā hitā na kena kevalaṃ balam |
śubhā''śu bhāratī ratīśanāśanā''padāpadā || 34||
natānatānavānavāritāritāpadaṃ padam |
harāharāmi te'mite śame śamevameva me || 35||
parā'parādhabāndhavāḥ savāsavāḥ surāsurāḥ |
sadā sadānamānamāśrayaṃ śrayanti yanti yam || 36||
sa mā samāhitaṃ hitaṃ batā'vatādamandamam |
kalaṅkalaṅghane ghane hyabāhyavāsanaḥ sa naḥ || 37||
alaṃ ghanā alaṅghanāstapasyatastapasyataḥ |
tanurhi me'tanurhime'ṅgatānavaṃ gatā navam || 38||
malamalakṣavalakṣabalasmara-
smaraṇakāraṇakāra kadaṅkadam |
hara harasva bhajasva bhajan diśaṃ
diśa vibhāsavibhāsadṛśaṃ dṛśam || 39||
bhavasambhavasaṃhatamohatamo-
damanedamanekamaśaṅkamaśam |
savikāsavikāracittaṃ racitaṃ
hara me hara meduritaṃ duritam || 40||
kṛpaṇaṃ bhagavan bahuśo'bhihitaṃ
bahuśobhi hitaṃ diśa me vacanam |
diśameva ca nanditamānasa tāṃ
ditamāna satāṃ na patāmi yataḥ || 41||
manyāmahe gatimṛte tvayi bhaktimanyā-
manyāyagāṃ tava dṛśaiva tamaḥśamanyā |
manyābhidhābhṛti natiṃ sahate dhamanyā-
manyābhidheṣu nahi dhīrabhimānimanyā || 42||
mā'nārataṃ nijaparairupabhujyamānā
mānātivṛttavibhavā'nvahamedhamānā |
mā nātha bhūdbhavatu dhīrabhinandyamānā
mānā'lasaiḥ suhṛdarātiṣu me samānā || 43||
doṣārayastaralayanti mahāmadoṣā
doṣā dhṛtiṃ harati mohamayapradoṣā |
doṣākarāṅkavapureṣyati māṃ kadoṣā
doṣāttakaṇṭhamaniruddhamivonmadoṣā || 44||
kā rāmaṇīyakakṛtendukarānukārā-
kārā vinā tava kṛpāṃ prathitopakārā |
kārāgṛhe'tra bhavanāmani mocikā rā-
kārājakhaṇḍaśikhara kṣapitāndhakārā || 45||
kāśāntacittadhṛtamuktipathā'vakāśā-
kāśāntavartiravivat pracuraprakāśā |
kāśāvakīrṇakhilatulyakṛtāntakāśā
kā śāmbhavīṃ dṛśamṛte bhṛtasevakāśā || 46||
kāṃ tāpatāntimupayānti śucau na kāntāḥ
kāntāvalambitakarāḥ skhalitāṃśukāntāḥ |
kāntā haṭhādvanacarairmṛditālakāntāḥ
kāntāragāstvadanuraktanṛpārikāntāḥ || 47||
māyā'rkaraśmipaṭalīṃ marukṣamāyā-
māyāsamarpayati me duritakramā yā |
māyāḥ padaṃ tava kṛpā'tra mahātamāyā-
māyātyuṣeva hi kadā kalitottamā'yāḥ || 48||
rāmādisevyabhavabhaktibhṛto'bhirāmā-
rāmāśritauṣadhiriva kṣatadustarāmā |
rāmā satīva kṛtasādhuvipadvirāmā
rā mānyamujjhati na sadma na cā'sthirā mā || 49||
vārānnidheriva sudhā tava durnivārā
vārāṇasīva dṛgaghakṣayakṛddhruvārā |
vārāṅganeva pṛtaneva ca sāśvavārā
vārānuvāramudayatyurukūrcavārā || 50||
bhadrābhidhe gaja iveśamakḷptabhadrā
bhadrāsane'rcitavataḥ kṛtabhālabhadrā |
bhadrā sitā tithirivepsitadā vibhadrā
bhadrā tanurguṇaviḍambitarāmabhadrā || 51||
nā'gādhamāpa tava hṛnmama dhīranāgā
nāgālayaṃ surapurīva sakāñcanāgā |
nā'gāt paratra ca sṛjantyakadarthanā gā
nāgāśritendradigivonnatanandanāgā || 52||
sārāsahā'pi mama dhīstvayi mandasārā
sārādhanā vihitamohatamo'bhisārā |
sārāvakokilavacaḥsamasūktisārā
sārāvalīva gurutāpakṛtāpasārā || 53||
sāmātyabhūpasadasīkṣitasūktisāmā
sāmājikāhitanutiḥ kṛtaserṣyasāmā |
sāmānyavartma na yayāśrayamojasā mā
sā mānyatā tvayi vibho mucadañjasā mā || 54||
dhārā gireriva tarīva sakarṇadhārā-
dhārā'rpaṇī tava dṛgūṣaravarṣadhārā |
dhārāpurīva sukhadā duritāsidhārā
dhārā parārtiharaṇe hataṣaḍvidhārā || 55||
kālāyasopamarucirgalabhūḥ sukālā
kālāgnivaddṛgapi te kṣaṇadagdhakālā |
kālā yathoktiramṛduḥ kṣatasevakālā
kā lābhakṛnmama vinā''bhiranantakālā || 56||
muktārpitasvapadapūrṇakṛpā'vimuktā
muktārcanādiratinā''rkibhayādvimuktā |
muktāvalīva vimalā tvayi gīramuktā
muktānyamārgagamanena mayeyamuktā || 57||
kalpāhvavalliriva dhautavipadvikalpā
kalpāñcitā kṛtanutirbhavatīndukalpā |
kalpākhyasūtravidurāgamadṛṣṭakalpā''-
kalpākṣayā'stu mama gīramṛtānukalpā || 58||
sahasā'rka ivā'smi kṛtaḥ sahasā-
'sahasārabhṛdātmabhuvā sahasā |
sa ha sāyakamasyati yā sahasā
sahasādhvasametyapi duḥsahasā || 59||
janayā'śucamārtamabhājanayā-
janayācanarañjanavejanayā |
janayāmalakhinnamakhañjanayā-
'janayā'mṛtamātmaniyojanayā || 60||
śamanāya śucāṃ tvamumeśa manāk
śamanārtikaraḥ kṛtabhīśama nā |
śamanāmaya dehi vipāśamanā-
śamanāthajanaprathitāśamanāḥ || 61||
madhunāśinā'rcita samaṃ madhunā
madhunāmapuṣpajanuṣā madhunā |
madhunā'lasāmiva vadhūmadhunā-
madhunāplutāṃ tvayi giraṃ madhunā || 62||
vasu dhānyamujjhitumapīvasu dhā-
va sudhāsitacchaviyaśovasudhā |
vasudhātṛvandya yadasāvasudhā
vasudhāma dṛktava naveva sudhā || 63||
samayāsiṣuḥ kva na vikāsamayāḥ
samayāpatiṃ jagati yaṃ samayā |
samayā bhavanti ca vilāsamayāḥ
sa mayā girā'rcyata sudhāsamayā || 64||
kalikālatāmyadamṛtotkalikā
kalikātare hṛdi navotkalikā |
kalikā srajīva jitaśākalikā-
'kali kāntibhṛcca mukuṭe kalikā || 65||
kalayā''śritaṃ virujamekalayā
kalayā vidhordalitapākalayā |
kalayā girā ca sakalā'kala yā
kalayā vinā vihitaśokalayā || 66||
paramārakā'ntakakṛtoparamā-
'paramānataṃ tava dṛśā''pa ramā |
paramārthasadguṇaparampara mā
paramārttamujjha karuṇāpara mā || 67||
kalakalakalakalakaṇṭhavadasmā-
nava navanavanavarocitavācaḥ |
bhava bhava bhavabhavabhītibhidasya-
nmadamadamadamadanā'ntaka dūram || 68||
avikalakala kalakalakalakaṇṭhaṃ
diśa navanavanavanavana varavacaḥ |
savibhava bhava bhava bhavabhavabhayabhi-
ddhara madamadamadamadamadayamimam || 69||
devyāṃ bhramadbhruvi jayāvijayārcitāyāṃ
saktā tavā'stavijayā vijayāya dṛṣṭiḥ |
vṛṣṭyeva bhūrdivijayā vijayākhyayā te
mūrttyā trasadravijayā''vi jayāhvayā ca || 70||
haramupeta rasādamalaṃ ghanaṃ
damalaṅghanaṃ tanuta mā kṛtinaḥ |
tanutamākṛti naḥ śrayatā''dṛtaṃ
śrayatādṛtaṃ bhavata ityuditam || 71||
śamitasaṅgamasajjanatāpadaṃ
śamitasaṅgamasajjanatāpadam |
namatakāmamahīnavibhāsitaṃ
namata kāmamahīnavibhāsitam || 72||
kalitamohanamāravarājitaṃ
smara haraṃ śikhicandrakalāñchitam |
kalitamohanamāravarājitaṃ
smaraharaṃ śikhicandrakalāñchitam || 73||
asau hṛdantarhitamoharodhane
sadā yate rakṣa yaśo bhiyo jaya |
asauhṛdaṃ tarhi tamoharo dhane
sadāyaterakṣayaśobhi yojaya || 74||
sakalaśaṃ sakapālamalaṅkṛta-
pramadamasthirasaṃ madanāśanam |
bhavamadabhramahānidhane hitaṃ
śamanamajjanamānamatā'layam || 75||
sakalaśaṃsakapālamalaṃ kṛta-
pramadamasthirasammadanāśanam |
bhavamadabhramahānidhanehitaṃ
śamanamajjanamānamatālayam || 76||
tanuśaṅkaravairasamā'yatayā-
'tanu śaṅkara vai rasa mā'yatayā |
tanu śaṃ karavai rasamāyatayā-
'tanuśaṃ kara vairasamāyatayā || 77||
prakāśakalitāpadaṃ śakalitāpadaṃ śaṃsatā-
masārasamaye hitaṃ rasamayehitaṃ śaṅkaram |
hṛdi smarata raṅgitaṃ smarataraṅgitaṃ śāntatāṃ
nayantamasamānasantamasamānasaṃ cāntakam || 78||
iyaṃ vicitratāvirājitā mayā manoharā
jitāmayā mano harā''hitā nutirdhinotu te |
tvayi prasannamānase'samastamoharāśaye
samastamoharāśaye karomi na spṛhāṃ punaḥ || 79||
kāntā kāntāramadhye saridiva sakulakṣmādharāyāṃ dharāyāṃ
yātā yā tāratamyaṃ kva na vimalamatiprekṣaṇena kṣaṇena |
sābhāsā bhāratīyaṃ tanuriva taraṇerandhakāre'ndhakāreḥ
stutyā stutyā budhānāṃ madayatu hṛdayaṃ glānitāntaṃ nitāntam || 80||
varṣāvarṣāyamāṇā sahṛdayaśikhināṃ saṃhitānāṃ hitānāṃ
dātrī dātrī tṛṇānāmiva lavanapaṭurduṣkṛtānāṃ kṛtānām |
kalyā kalyāṇadāne nutiriyamaśubhaṃ tarjayantī jayantī
viśvaṃ viśvambharāntaṃ prasaratu surabhīnandanasyandanasya || 81||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``mahāyamakastotraṃ'' nāmakaṃ triṃśaṃ stotraṃ sampūrṇam |
31. natopadeśastotraṃ ekatriṃśaṃ stotram
manaḥ samādhau paramāntaraṅgaṃ
vidhāya niḥspandamanuttaraṅgam |
budhā vidhātuṃ bhavabhītibhaṅgaṃ
vibhuṃ bhajadhvaṃ girijābhujaṅgam || 1||
pāśyāvaśeneva mahāvihaṅgaṃ
valgābaleneva mahāturaṅgam |
nirudhya yogena manaḥplavaṅgaṃ
vibhuṃ bhajadhvaṃ girijābhujaṅgam || 2||
mantrauṣadhādikriyayā bhujaṅgaṃ
yathā yathā vāgurayā kuraṅgam |
manastathā''yamya dhiyā'stasaṅgaṃ
vibhuṃ bhajadhvaṃ girijābhujaṅgam || 3||
bhittvā'likaṃ sabhrukuṭīvibhaṅgaṃ
yasyā'gnirudyanrabhasādanaṅgam |
dadāha taṃ mohatamaḥpataṅgaṃ
vibhuṃ bhajadhvaṃ girijābhujaṅgam || 4||
vahantamuddāmabhujaṅgamaṅgaṃ
jaṭābharaṃ nirbharanākagaṅgam |
vilocanaṃ cāgniśikhāpiśaṅgaṃ
vibhuṃ bhajadhvaṃ girijābhujaṅgam || 5||
bhavabandhabaddhavidhuroddharaṇaṃ
phaṇimaṇḍalajvaladalaṅkaraṇam |
vrajata kṣamādharadarīśaraṇaṃ
śaraṇaṃ tuṣārakiraṇābharaṇam || 6||
kṛtaghasmarasmaranirākaraṇaṃ
kaṭukālakūṭakavalīkaraṇam |
vrajata prapannajanatāśaraṇaṃ
śaraṇaṃ tuṣārakiraṇābharaṇam || 7||
marumedinīracitasañcaraṇaṃ
tridaśendraśekharasaraccaraṇam |
vrajata triduḥkhaharaṇasmaraṇaṃ
śaraṇaṃ tuṣārakiraṇābharaṇam || 8||
praṇataṃ janaṃ jitajarāmaraṇaṃ
racayantamāptabhavanistaraṇam |
vrajatā''hitatripurasaṃharaṇaṃ
śaraṇaṃ tuṣārakiraṇābharaṇam || 9||
avadhūtamohatimirāvaraṇaṃ
karikṛttikalpitaparāvaraṇam |
vrajata prakalpitapureśaraṇaṃ
śaraṇaṃ tuṣārakiraṇābharaṇam || 10||
taruṇatamālamalīmasanālaṃ
jvalanaśikhāpaṭalojjvalabhālam |
śirasi lasatparameṣṭhikapālaṃ
śrayata vibhuṃ hatakalmaṣajālam || 11||
naramukhakalpitaśekharamālaṃ
natajanajambhitamohatamālam |
nayanaśikhāśataśātitakālaṃ
śrayata vibhuṃ hatakilviṣajālam || 12||
viṣamaviṣāgniśikhāvikarālaṃ
phaṇipatihāramatīvaviśālam |
galabhuvi bibhratamugrasirālaṃ
śrayata vibhuṃ hatakalmaṣajālam || 13||
vidalayituṃ yamṛte bhavatālaṃ
tribhuvanasīmani kaścana nā'lam |
tamamalamānasavāsamarālaṃ
śrayata vibhuṃ hatakilbiṣajālam || 14||
kamalaparāgapiśaṅgajaṭālaṃ
jaladhisamarpaṇatarpitabālam |
bhavabhaṭabhaṅgamahākaravālaṃ
śrayata vibhuṃ hatakalmaṣajālam || 15||
atighasmarabhasmarajodhavalaṃ
natalokasamarpitabodhabalam |
dhvajadhāmavirājimahādhavalaṃ
bhajata prabhumadrisutādhavalam || 16||
prabhayā paribhūtadaladgavalaṃ
galamaṅgadaratnaśikhāśabalam |
dadhataṃ viṣakḷptamahākavalaṃ
bhajata prabhumadrisutādhavalam || 17||
śikharaṃ dyunadīlaharītaralaṃ
galamūlamupoḍhamahāgaralam |
dadhataṃ hṛdayaṃ ca sudhāsaralaṃ
bhajata prabhumadrisutādhavalam || 18||
apanītakukarmakalaṅkamalaṃ
natalokavitīrṇamahākamalam |
dadataṃ śubhasiddhivipākamalaṃ
bhajata prabhumadrisutādhavalam || 19||
dadataṃ vacanaṃ ghanahāsakalaṃ
namatāṃ dalayantamaghaṃ sakalam |
bhajatāṃ ca diśantamabhīṣṭaphalaṃ
bhajata prabhumadrisutādhavalam || 20||
aviratanatiparasuravaraśikhara-
praṇihitamaṇigaṇamasṛṇitacaraṇam |
sitakarakarabharadhavalitamukuṭaṃ
praṇamata puraharamaśaraṇaśaraṇam || 21||
bhavabhavaparibhavadhutavidhuradhiyā-
madhigataśamadamaniyamitamanasām |
abhimatavitaraṇapariṇatakaruṇaṃ
praṇamata puraharamaśaraṇaśaraṇam || 22||
tanutṛṇagaṇanibhamanasijaśamana-
praśamanaparicitahutavahamahitam |
parahitakṛtamatimatimṛduhṛdayaṃ
praṇamata puraharamaśaraṇaśaraṇam || 23||
dinakarahimakarahutavahanayanaṃ
padakarakacabharadhṛtasitakiraṇam |
vighaṭitanatajanaghanatamatamasaṃ
praṇamata puraharamaśaraṇaśaraṇam || 24||
aviralajalabharasurasaridudaya-
tsarasijabharanibhadhṛtanaraśirasam |
bhavadavahutavahavidalanajaladaṃ
praṇamata puraharamaśaraṇaśaraṇam || 25||
jahata kalpitakaluṣalocanatimirabhañjanamañjanaṃ
tyajata duḥsthitahṛdayanandanamalayacandanarañjanam |
bhajata nirjitaviṣamavaibhavabhavamahārṇavamajjanaṃ
kṣitidharādhipa duhitṛvallabhacaraṇapaṅkajapūjanam || 26||
(kṣitidharāpatiputrikāpatipādapaṅkajapūjanam)|| 26||
sakalakalimalapaṭalapannaganigaḍakhaṇḍanapaṇḍitaṃ
viśadaśaśadharaśakalaśobhitamukuṭamaṇḍanamaṇḍitam |
hṛdayamīhitumabhayamunmadamadanadurnṛpadaṇḍitaṃ
bhajatadustaraduritavāridhitara(vara)taraṇḍamakhaṇḍitam || 27||
jitasudhākaragirisutākarasarasijādaralālitaṃ
natapurandararuciraśekharakusumakesararañjitam |
druhiṇamādhavakumudabāndhavakamalinīdhavasevitaṃ
vitara mūrdhani caraṇapaṅkajamamṛtaśīkaraśītalam || 28||
avaṭamajjanajanitatarjanavṛjinabhañjanasādhanaṃ
kṛtanamajjanahṛdayarañjanaciranirañjanapūjanam |
tripuramāraṇaduritadāraṇadaranivāraṇakāraṇaṃ
vitara mūrdhani caraṇapaṅkajamamṛtaśīkaraśītalam || 29||
idamakṛtrimarasamasambhṛtabahuvidhauṣadhasādhanaṃ
stutirasāyanamayamupāyanamanugṛhāṇa gṛhāṇa me |
varamudāhara varamudā hara paramadāharujāharaṃ
vitara mūrdhani caraṇapaṅkajamamṛtaśīkaraśītalam || 30||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``natopadeśastotraṃ'' nāmaikatriṃśaṃ stotraṃ sampūrṇam |
32. śaraṇāgatoddharaṇaṃ dvātriṃśaṃ stotram
bhavamarubhramaviṣamasambhramasamuditaklamaviklavaṃ
kuliśakarkaśahṛdayadurjanakṛtaparābhavaviplavam |
atibhayaṅkararavijakiṅkaravikṛtahuṅkṛtikātaraṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 1||
kṛtaniketanamakaraketanadalitacetanavetanaṃ
lalitalocanavaravadhūjanavacanatarjanabhājanam |
guṇalavodgatagurumadajvarajanitatīvrarujāturaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 2||
pramukhapeśalaviṣamavaiśasaviṣayapāśavaśīkṛtaṃ
prakṛtidurgrahaguruparigrahanibiḍapīḍitavigraham |
jvaladanargalabhavadavānalakavalitākulacetasaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 3||
pavanavellitakamalinīdalatalacalajjalacañcalaṃ
vibhavayauvanasutasukhādikamitivivekavisaṃsthulam |
balavadindriyakapaṭataskarahaṭhaviluṇṭhanavihvalaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 4||
samadanandanamadanamardana duritatardanalolubhaṃ
bhuvanabhāvana paramapāvana sudṛḍhabhāvanamānatam |
śaśikalāñchitamukuṭalāñchita viphalavāñchitamākulaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 5||
jagadanugrahamahitavigraha kṛtaparigrahasadgrahaṃ
tripuraśāsana śabalavāsanamasadupāsanalālasam |
ghanacamatkṛtikṛtanamaskṛtimucitasatkṛtisaspṛhaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 6||
varada nandaya vipadamardaya kimiti nirdayatedṛśī
kṛtanivedanamatulavedanamuditakhedanavāpadam |
diśa yaśodhana hṛdayaśodhanavimalabodhanadīṃ dṛśaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 7||
abhayamarpaya kapaṭamalpaya śirasi kalpaya me padaṃ
mukhamudañcaya vacanamañcaya varada vañcaya mā natam |
bhṛśamaviśramakṛtapariśramaśatamatiśramaniḥsahaṃ
caturamuddhara hara jagaddharamaśaraṇaṃ śaraṇāgatam || 8||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``śaraṇāgatoddharaṇaṃ'' nāmakaṃ dvātriṃśaṃ stotraṃ sampūrṇam |
33. karṇapūrastotraṃ trayastriṃśaṃ stotram
kāñcīkāñcanakiṅkiṇīkalakalaḥ śiñjānamañjīrajo
jhāṅkāraḥ sakalāṅgabhūṣaṇamaṇiśreṇījhaṇāḍambaraḥ |
vāgdevyāḥ pracalaskha (pracalocchalat)ladbhujalatākṣepakvaṇatkaṅkaṇa-
kvāṇaścaṅkamaṇakrame vijayate candrārdhamauleḥ stavaḥ || 1||
svāmin vāṅmayadevatā bhagavatī svecchāvihārakriyā-
krīḍākānanamānanaṃ bhava bhavadbhaktasya nūnaṃ vyadhāt |
nocennūtananūtanaḥ pratidinaṃ hṛdyaḥ samudyankramā-
dasminnujjvalavarṇakomalapadanyāsaḥ kathaṃ lakṣyate || 2||
svairaṃ kairaviṇīkuṭumbakalikālaṅkāra sārasvata-
sphārasvārasikaprasādaviśadasvādhīnavāgdevatāḥ |
dhanyāḥ satkavayastava stavanibhāttvadbhaktibhājāṃ vipa-
ttāpā'pākṛtaye diśanti śiśirasnigdhāḥ sudhāvipruṣaḥ || 3||
yasya tvannamanaiḥ śirodaśaśatī saundaryasandarśanai-
ścāritraśravaṇotsavaiśca bhavataścakṣuḥsahasradvayam |
sāphalyaṃ rasanāsahasrayugalaṃ tvatkīrtanaiścāśnute
trailokyādbhutamūrtaye bhagavate śeṣāya tasmai namaḥ || 4||
rākendorapi mādhavādapi satāṃ saṅgādapi svāminaḥ
sammānādapi kāminīkucayugābhogopabhogādapi |
śambho śarva śaśāṅkaśekhara śiva śrīkaṇṭha viśveśvara
trāyasveti satāṃ haranti hṛdayaṃ sāndrāmṛtārdrā giraḥ || 5||
śyāmākāmukamādhavādivirasaṃ nāsīrakastūrikā-
kāśmīrādinirādaraṃ malayajālepāvalepāvaham |
kurvanti pravidhūtanūtanavadhūgāḍhāṅgasaṅgaspṛhaṃ
cetaḥ kasya na śāmbhavastavasudhāsiktāḥ satāṃ sūktayaḥ || 6||
yasyaitāḥ stavasūktayastava mukhe khelanti helājita-
jvālājālajaṭālakālarasanāsaṃrambhasambhāvanāḥ |
valgantyasya puraḥ purandarapurīkāntākaṭākṣacchaṭā-
bāṇaśreṇiśaravyadivyavapuṣaḥ svarvandivṛndoktayaḥ || 7||
harṣotkarṣavivarddhinīḥ pariṇatakṣaudradravaspardhinī-
rdhanyānāṃ madhurāstava stavagiraḥ karṇe ciraṃ kurvatām |
māndyaṃ vindati nandanenduvadanāsandigdhamugdhādhara-
pronmīlanmadhubindusundarasudhāsandohado dohadaḥ || 8||
sadvidyābhyasanaḥ sabhānivasanaḥ saudhāsanādhyāsanaḥ
śuddhānnagrasanaḥ sudhautavasanaḥ satsādhvasadhvaṃsanaḥ |
sahlādollasanaḥ prasannahasanaḥ sampannasadvāsanaḥ
satkāvyavyasanaḥ sudhārdrarasanaḥ śambhoḥ kṛtopāsanaḥ || 9||
rākākāntarucaḥ kṣatākhilaśucaḥ pīyūṣadhārāmucaḥ
svāntaklāntihṛtaścamatkṛtikṛtaḥ saṅgītabhaṅgībhṛtaḥ |
śambhorambudanādavihvalavaladbālāṅganāliṅgana-
hlādasvādasukhaspṛhāmiha jahattyantarmṛśantaḥ stutīḥ || 10||
sārāsāravidaḥ satāṃ bhayabhidaḥ prahvopatāpacchidaḥ
kāruṇyārdrahṛdaḥ prasannasuhṛdaḥ sphārībhavatsaṃvidaḥ |
trātāśeṣaviśaḥ prakāśitadiśaḥ kīrtyā mahīnirviśaḥ
karṣantīśa niśaḥ prasaktasudṛśastvatpādapīṭhaspṛśaḥ || 11||
durdharṣarddhipuṣaḥ saharṣavapuṣastarṣaprakarṣapluṣaḥ
sarvotkarṣajuṣaḥ kṣaṇakṣataruṣaḥ kalyāṇapūrṇāyuṣaḥ |
utsarpatsahasaḥ samiddhamahasaḥ kṣiptorjitānehasa-
ścittāntaprahasaḥ sukhāptarahasastvaddhyānadhautāṃhasaḥ || 12||
kālaṃ bālakuraṅgaketanakṛtottaṃsapraśaṃsāmṛta-
syandāsvādavinodanairyadanayanniḥspandamandaṃ manaḥ |
tasyānyatra kavikrame kamalinīkiñjalkapānotsava-
vyagrasyeva madhuvratasya kusume'nyasminkathaṃ syādratiḥ || 13||
khaṭvāṅge mukuṭe kare śravaṇayoḥ prāyeṇa yo bhūṣaṇaṃ
brahmopendrapuraḥsarāmaraśiraḥśreṇiṃ bibharti prabhuḥ |
tatpādāmbujabhaktibhāvitamatirdhanyaḥ śirobhūṣaṇa-
khyātiṃ niścitamaśnute tribhuvanapraṣṭhapratiṣṭhājuṣām || 14||
rohanmohamahīruhoruparaśurdurvāramārajvara-
ploṣollāghabhiṣagviṣaughaviṣamakleśograśāpāvadhiḥ |
tāmyallocanacakravākamithunabradhnodayaścandrikā-
pūraścittacakorakasya jayati śrīkaṇṭhapūjāvidhiḥ || 15||
arcāṃ vīkṣya vicitracāruracanāṃ candrārdhacūḍāmaṇe-
rvyaktiṃ bhakticamatkṛtiḥ kṛtadhiyo yasyaiti citte muhuḥ |
tasminsaspṛhamarpitāḥ sacakitāḥ sācīkṛtāḥ sasmitāḥ
sākūtāśca patanti pakṣmaladṛśāṃ premāmṛtārdrā dṛśaḥ || 16||
svāmin saumanasaṃ nibadhya vapuṣi sragdāma dṛgdāmabhi-
rbhasmībhāvitamanmathasya bhavato bhindanti bhaktispṛśaḥ |
dolāndolanavihvalenduvadanādoḥkandalīcandana-
syandānandanimīlitārdhanayanāstāpavyathāṃ mānmathīm || 17||
svāmin yastava pādapaṅkajayugaṃ bhaktyā'bhyaṣiñcanmuhuḥ
pūjānteṣu namannamandamuditānandāśruleśotkaraiḥ |
tasyāṅghrī lalitākṣipakṣmapaṭalaprāntasrutārṇaḥkaṇa-
śreṇībhiḥ snapayantyanaṅgavigalanmānāḥ kuraṅgīdṛśaḥ || 18||
tvāmakṣāmaśubhānubhāvavibhavaṃ bhālāgnikīlāvalī-
saṃrambhādabhiyoktumakṣamatayā sākṣādupekṣya smaraḥ |
nūnaṃ hanti nirantaraṃ bhava bhavatsevaikahevākinaṃ
karṇābhyarṇavalatkaṭākṣaviśikhaśreṇībhireṇīdṛśām || 19||
ādau bhaktivayasyayā paricayānnītonmukhatvaṃ śanai-
rārūḍhā viṣameṣuvartmasu ciraṃ bhrāntā'tha tānteḥ padam |
dūtīkṛtya navānavadyavacasaṃ devīṃ puro bhāratī-
meṣā tvāmupagantumicchati patiṃ proddāmakāmā matiḥ || 20||
dhūmodgāragabhīraghasmaravapurnirbhartsitārkaprabhaṃ
sphūrjatphūtkṛtakarburīkṛtasitaśrīkāntadehadyuti |
grāsīkarttumudagravigrahagaladvahnisphuliṅgaṃ viṣaṃ
ko jagrāha kare'mareśvaranutastvāmantareṇā'paraḥ || 21||
krodhodbhrāntakṛtāntakiṅkarakaradroṇīmukhapreṅkhita-
vyālāliṅgitakandharaḥ prakaṭayannākrandadīnāṃ giram |
cakṣurdikṣu vidikṣu ca kṣatadhṛtirnikṣipya rakṣākṣamaṃ
kāṅkṣankaṃ śaraṇaṃ vṛṇoti maraṇe tvāmantareṇāturaḥ || 22||
varṣantī bhavadoṣapoṣaparuṣaploṣapramoṣakṣamaṃ
pīyūṣaṃ viśadāṃśu(ḍaśanāṃśu)bhirdaśa diśatkāśaprakāśā diśaḥ |
karṣantī viṣamaṃ tamaḥ pramathitālokasya lokasya gī-
ścāndrī mūrdhni kaleva deva bhavato vaktre vidhattāṃ padam || 23||
yatparyāptakṛpāvipākavikasanmādhuryadhuryaṃ tava
svāntaṃ bhīmabhavopatāpavipadi sphītā'vahelaṃ mayi |
svāminneṣa vidhirmamaiva vidhuro dūrādhvakhinno jana-
stīrādratnanidhervyapaiti viphalaḥ svaireva duṣkarmabhiḥ || 24||
yatsaundaryasamudrasāndralaharīhelācalaccāmara-
vyagrāṅgāṅgulibālamālavavadhūdṛkpātapātraṃ vapuḥ |
sevāsannidhiśaṃsisambhramanamatsāmantamaulisthalī-
līḍhāṅghridvayamudvahanti kṛtinaḥ saubhāgyabhāgyāspadam || 25||
yacca preṅkhadakharvagarvaghaṭitabhrūbhaṅgabhīmākṛti-
kṣmābhṛtpāśamukhāvalokanaghanaprollaṅghanābhīrubhiḥ |
unmīlanmṛduśādvale tarutale svarllokakallolinī-
kūle mūlaphalāśanaiḥ śamasudhāsvādārthibhiḥ sthīyate || 26||
yaccā'sminbhavaḍambare pariṇamanmandānilāndolana-
vyālolannalinīdalāñcalacalaprāleyaleśopame |
duṣkālavyasanāvasannajanatāsantāpanirvāpaṇa-
vyāpāraikasukarmanirmalaphalārambhaiḥ sukhaṃ jīvyate || 27||
niḥśaṅkaṃ vikalaṅkamaṅkavikasallakṣmīkaṭākṣekṣitaṃ
yanmānuṣyamupetya nityamuditā nandanti dantivrajaiḥ |
yaccānte puruhūtavāravanitāgītāmṛtākarṇana-
pronmīlatpulakāvakīrṇavapuṣaḥ svarmadhyamadhyāsate || 28||
so'yaṃ sarvajagatprabhoraśaraṇatrāṇaikahevākinaḥ
kāruṇyāmṛtasāgarasya girijābhartuḥ paro'nugrahaḥ |
kastaṃ na stutibhirvimarśarasikaḥ prauḍhārpitaprītibhiḥ
prāptuṃ śarmadakarmanirmalaphalaṃ nandatyamandādaraḥ || 29||
dṛṣṭiḥ pīyūṣavṛṣṭirmadhuramadhurasasyandinī deva vāṇī
pāṇī tvatpādapīṭhīparimalanarajorājimaitrīpavitrau |
cetaḥ svacchandacaryāpariṇatakaruṇārāmaviśrāmadhāma
tvāmakṣāmaprasādāmṛtajaladhimaho bhejuṣāmeṣa pākaḥ || 30||
tasyaikasyāṅghripīṭhaṃ sphuṭamukuṭamaṇiprauḍharociḥpratānaiḥ
kṣoṇīpālāḥ śirobhiḥ karapuṭaghaṭitairañjasā rañjayanti |
dhatte dhanyaḥ sa caikaḥ sitaruciruciracchatraśubhrottarīyāṃ
lakṣmīmuddāmarāmākarakamalacalaccāmarodārahārām || 31||
taṃ vāṇībhirgṛṇanti śravaṇapuṭasudhāsyandinībhirmunīndrā
gītairgāyanti vidyādharavaravanitāstasya citraṃ caritram |
vidvadgoṣṭhīṣu tasya prasarati kṛtino dānadākṣiṇyavārtā
kīrtirjāgarti tasya pravarakavivacobhaṅgisanmaṅgaleṣu || 32||
kiṃ vā'nyannaiṣa paśyatyalamanalaśikhāpiṅgajihvāsphuliṅga-
sphūrjaddaṃṣṭrākarālaṃ bhrukuṭikuṭilitaṃ bhīṣaṇaṃ kālavaktram |
svāminmandānilāndolitalalitalatānṛttakānte vanānte
śānterṣyastvāmavidyājaḍajagadagadaṅkāramārādhayedyaḥ || 33||
ākarṇākṛṣṭacāpaḥ praharati nibhṛtaṃ nirnimittāpakārī
nārīnetrāntatiryagvivalanaviśikhaśreṇibhiḥ puṣpacāpaḥ |
phūtkārasphāraphālaḥ sphuradurugaralajvālajihvājaṭālaḥ
kālavyālaḥ karālaḥ kavalayati vapurhantukāmaḥ kva yāmaḥ || 34||
tasmādasmākamākasmikavikasadasatkarmapākopatāpa-
vyāpattāpāturāṇāmaviralakaruṇāsindhurāpannabandhuḥ |
bhaktiśraddhāprabandhānamadamaraśiraḥśreṇimāṇikyamālā-
jvālālīḍhāṅghripīṭhaḥ śaraṇamaśaraṇatrāṇaśīlastvamekaḥ || 35||
yā niḥśeṣauṣadhīnāṃ janirajani punarna kvacitkampasampa-
tsamparko yatra yatra sthitirupari paribhraṃśabhājāṃ janānām |
eṣā śeṣāhipīṭhaprakaṭitavasatiḥ sampadāṃ bhūtadhātrī
pātrīkurvatyajasraṃ janamanaghamaghaḥ prakramaste namaste || 36||
saṃsāre'sminnasāre paramiha kuśalaṃ karma dharmapradhānaṃ
dharmaḥ śarmaprado'pi prabhavati sudhiyāṃ siddhaye śuddhihetoḥ |
śuddhau baddhaspṛhāṇāṃ na bhavati kṛtināṃ yadvinā''padvināśa-
strailokyāpyāyakaṃ tajjalamapi bhagavan vibhramaste namaste || 37||
yaṃ muktvā jīvayantaṃ jagadagadamadaḥ santataṃ santamanta-
rjantūnāṃ śītabhītiprakaṭitavipadāmasti na svastihetuḥ |
gīrvāṇānāṃ havirbhirglapayati vipadaṃ yajvanāmapyanalpaiḥ
saṅkalpaiḥ kalpitairyaḥ sa bhavati vibhavaḥ pāvakaste namaste || 38||
antaḥ santiṣṭhamānaḥ sthagayati jagatāṃ pañcatāṃ pañcadhā yaḥ
sandhāya sthāyibhāvaṃ prasarati satataṃ yatra tejasvicakram |
yatra sthairyaṃ bibharti tribhuvanabhavanaṃ bibhradādhārabhūtāṃ
bhūtānāṃ mūrtimeṣa prathayati vibhutāṃ mārutaste namaste || 39||
yatra brahmāṇḍapiṇḍaḥ prasarati saralālābutumbīviḍambī
sthairyaṃ jhāṅkāri vāri prathayati tadapi skandhabandheṣu yasya |
so'pi sphāreṇa bhartuṃ prabhavati pavano yasya noddeśaleśaṃ
dhāmnāmādhārabhūtaṃ bhava bhavati vapustannabhaste namaste || 40||
dhātuścāturyabhājo janajananavidhau yā mukhebhyaścaturbhyaḥ
sākaṃ nākasthitānāmajaniṣata kṛtaprītayaḥ sphītabhāsām |
tāsāmāsāṃ śrutīnāṃ janayati niyataṃ karmabhiḥ śarmakṛdbhiḥ
sāphalyaṃ yaḥ sa yajvā vapuradhṛtavipatsaṅgamaste namaste || 41||
preṅkhadbhiryanmayūkhairvidadhati dhavale nirjarāḥ prāṇayātrāṃ
proddāmānandadhāma prathayati bahule pāraṇaṃ yaḥ pitṝṇām |
kurvannurvantarikṣaṃ praśamitatimiraṃ yaḥ samastauṣadhīnāṃ
pīnāṃ puṣṇāti bhātiṃ tanuratanurasau candramāste namaste || 42||
prātaḥ prābhañjane'sminpathi pathikamiva dhvāntakāntāratāmya-
llokālokārpaṇārthaṃ pramuditamuditaṃ yaṃ samarcanti santaḥ |
sāyaṃ dhyāyanti sandhyāvidhimadhi sudhiyo bādhitādhiṃ samādhiṃ
sādhimnā'dhiṣṭhitāyaṃ tvamiha sa mihiraḥ sadgabhaste namaste || 43||
digdeśākārakālairakalitavibhavaṃ yanmahadbījabhūtaṃ
bhūtagrāmasya yasya tribhuvanaviṣayaṃ vastujātaṃ vivarttaḥ |
yasminhemnīva nānābharaṇaparikaro līyate viśvamante
tadbhinneṣvapyabhinnaṃ bhava bhavasi paraṃ brahma tasmai namaste || 44||
itthaṃ matsūktayaste śaśadharaśikhara sphārasārasvataugha-
pronmīladvaktraśuktiskhaladamalamilanmauktikavyaktibhājaḥ |
tīvrāpattāpatāmyatsahṛdayahṛdayaklāntiśāntipragalbhā-
darbhāgrasparddhibuddhigrathitadṛḍhaguṇāḥ karṇapūrībhavantu || 45||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``karṇapūrastotraṃ'' nāmakaṃ trayastriṃśaṃ stotraṃ sampūrṇam |
34. agryavarṇastotraṃ catustriṃśaṃ stotram
sarpatkandarpadarpajvarabharaharaṇavyagravarcaḥprapañca-
pratyagrabradhnacandrajvaladanalavalatpakṣmalatryakṣavaktraḥ |
śarvastarṣaprakarṣaśramaśamanamanastarpaṇasvarṇavarṣa-
svasthaṃ tanvansaharṣaṃ janamanaghamaghaḥ kalpayatvakṣayaṃ vaḥ || 1||
yadvadvandyaṃ prasannaṃ lasadasamarasaspandasandarbhagarbhaṃ
maṅgalyaṃ narmanaddhaṃ tava vacanamadaḥ śasyamasyatkalaṅkam |
tadvadbhargasya varyaṃ śaśadharaśakalaṃ dyatvavadyaṃ kaparda-
nyastaṃ vaktraṃ praśastaṃ prabalatamatamaḥkhaṇḍanaṃ maṇḍanaṃ vaḥ || 2||
ṣaṭcakrasthaḥ ṣaḍadhvaprasarasarabhasaḥ sargabandhapragalbhaḥ
pratyagraprahvanavyastavapaṭhanaparabrahmasaccakraśakraḥ |
dakṣakratvantakatvaṃ dadhadadhamamadadhvaṃsalakṣyapraśaṃsaḥ
saṃsargadhvastapaṅko gaṇagaṇamacalaṃ kalpayanhantvaśaṃ vaḥ || 3||
vakṣaḥsadmasthapadmaṃ karakamalatalaprajvalacchaṅkhacakraṃ
kaṃsaghnaṃ sarpatalpaṃ khagavaravahanaṃ nandayatyardhagaṃ yaḥ |
dharmaṃ badhnandhvajasthaṃ karagatakalaśaṃ varṣma yaśca vratasthaṃ
śaṃsantaṃ saṃsmarantaṃ natamanavarataṃ so'vyayaḥsyatvaghaṃ vaḥ || 4||
saṃrakṣanbhaktavargaṃ yamabhaṭabhayataḥ sabhyamabhyarṇalabhyaṃ
dhanyammanyaṃ vadanyaṃ praṇayaparavaśaṃ parṣadagryavyavastham |
varṣatvacchinnacañcadgaragavalagalaḥ kastharaṅgattaraṅga-
svargaṅgaḥ śaśvadaṅkasthalagatanagajastryambakaḥ sampadaṃ vaḥ || 5||
ambhaḥkampraṃ kaṭapraṃ sabahalagaralaṃ pannagaṃ kaṇṭhalagnaṃ
grathnanmahyamnabhasvatkharakaradahanasvarkṣapatyambaratvam |
skandhasthaṃ carma bharmaprabhamalakacayaṃ candanatvaṃ prapannaṃ
pratyaṅgaṃ bhasma saptacchadadaladhavalaṃ syatvajaḥ kalmaṣaṃ vaḥ || 6||
sadyaḥ sanyastagarvagrahamahatamahastyaktasaṅgaprasaṅgaṃ
sattvasthaṃ labdhatattvaṃ malaśabalagalatsarvasambandhabandham |
yatsamparkaprayatnakṣamamalayadayaṃ tathyapathyaprasaktaṃ
yacchatvacchaṃ manastatsmaraharacaraṇadvandvanamrasya śaṃ vaḥ || 7||
satyaṃ naśyatyavaśyaṃ ghanamaghapaṭalaṃ yatpadasparśabaddha-
śraddhasya spaṣṭakaṣṭapraśamanamanasaḥ kasya na vyaktakalkam |
tasya vyasyatvaśaṃ vaḥ sitakaraśaraṇaṃ mastakaṃ dhvastakampaṃ
sampatsamparkaramyaprabhamabhayakarasyarṣabhasyandanasya || 8||
atyantasvacchamantaḥkaraṇamaśaraṇaprattarakṣaṃ samakṣaṃ
vyañjanbhañjannajasraṃ nayanatavadanastambhasaṃrambhadambham |
sarvajñaḥ sattvasaṅghaklamakaraṇacaṇaṃ janmakarmaprabandhaṃ
mathnannatyarthamarthaṃ kṣatasakalamalaṃ vardhayatvavyayaṃ vaḥ || 9||
galvarkaprasthapastyaṃ dharamathamalayaṃ mandaraṃ sahyamanta-
rnandadgandharvayakṣaṃ sakanakakaṭakaṃ kalpatarvantaraṅgam |
bhadraṃ saṅkrandanasya prahasanasadanaṃ nandanaṃ svargaraṅgaṃ
gacchansvacchandacaryaḥ parabaladalanastarpayatvanvahaṃ vaḥ || 10||
padmasthaṃ padmahastaṃ gajavaravadanaṃ nandanaṃ skandasaṃjñaṃ
parjanyaṃ haṃsamabjaṃ daśaśatanayanaṃ havyabhakṣaṃ sadaṇḍam |
rakṣaḥprakhyaṃ jalasthaprathamatha pavanaṃ martyapattraṃ makhaghnaṃ
sampaśyatyatyajantaṃ caraṇatalamalaṃ yaḥ sa karṣatvaghaṃ vaḥ || 11||
avyaktaṃ yaḥ samagraṃ jagadaganagaraṃ vyañjayatyabjajaḥ sa-
nyaḥ saṃrakṣatyanantaḥ smarayamadamanaḥ saṃharatyakramaṃ yaḥ |
sa trayakṣastantramantrapraṇayanasaphalagranthakarmaṇyakharva-
jñatvaḥ sadgamyavartmaprakaṭanaparamaḥ sparśayatvadvayaṃ vaḥ || 12||
draṣṭavyaṃ samyagarthapravacanaparamaṃ śarmadaṃ padyabaddhaṃ
praṣṭhaprajñapraśasyaṃ namadamaravaraḥ śaṅkaraḥ saṅkaraghnaḥ |
varṣantaṃ bhagnagharmaṃ pramadamayapayaḥ satyasaṅkalpajalpa-
śravyaṃ bhavyaṃ vasavyaṃ navamavagamayatvagryavarṇastavaṃ vaḥ || 13||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``agryavarṇastotraṃ'' nāmakaṃ catustriṃśaṃ stotraṃ sampūrṇam |
35. īśvarapraśaṃsāstotraṃ pañcatriṃśaṃ stotram
anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ
vinetā bhītānāṃ śaraṇamadhṛtīnāṃ bharavaśaḥ |
suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ
pitā mātā bhrātā trijagati jayatyantakaripuḥ || 1||
udārairmandārairacitaśikharaṃ candraśikharaṃ
samabhyarcya premṇā vipulapulakālaṅkṛtatanuḥ |
kadā gandhābandhapramadamuditoddāmamadhupa-
sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ || 2||
ito dvandvakleśā viṣayamṛgatṛṣṇāsthitirito
jarāmṛtyuvyādhipratibhayamitaḥ sarvasulabham |
mahāmohairghorairupahatamito bodhalasitaṃ
kathaṃ kuryādāryaḥ kṛtamatirapi svātmani hitam || 3||
aśeṣakleśaughaglapanaparipanthī prakaṭaya-
nnayaṃ vighnavrātaḥ prabalavipadāpādanavidhim |
vivekākhyaṃ cakṣustirayati satāṃ yena sahasā
bhavaśvabhre pātaḥ pratipadamadabhraḥ prabhavati || 4||
bhavadbhaktiṃ tasya vyupaśamasamarthāmatha dṛśaḥ
prasādaṃ tanvānāṃ ghanamahasamāsādya sudhiyaḥ |
prakāśātmānaṃ tvāmativimalayā haṃsamuditaṃ
dṛśā sākṣātkṛtya pratijahati mohāndhatamasam || 5||
anitye nityāśāmaśucini śucitvavyasanitā-
manātmanyātmāsthāmatha mahati duḥkhe sukhamatim |
caturdhā durbhedyāmaviratamavidyāṃ pariṇatāṃ
hatāśeṣasvābhāmabhidadhati mūlaṃ bhavataroḥ || 6||
narāstattvāloke niyatamanayā dūṣitadṛśo
vivekapradhvaṃsādvidadhati bhave kandukagatim |
upāsābhirlabdhvā bhavabhayabhidaṃ nirmaladhiyaḥ
samādhiṃ sādhimnā dadhati na punarjanmavipadam || 7||
cakāśe nākāśe raviraviralairaṃśupaṭalai-
ramandābhairindustimiramaharannāpi kiraṇaiḥ |
na cānyannakṣatragrahadahanaratnauṣadhitaḍi-
tpradīpādijyotiḥ kvacidapi purā nātha dadṛśe || 8||
tamobhūtaṃ viśvaṃ kimapi gahanaṃ dhāma tadabhū-
datha svecchāśaktiprakaṭitamahāvaibhavabharam |
vibhajyātmānaṃ kṣmāvanapavanavahnīndutapana-
svakhairaṃśairīśa trijagadasṛjatkastvadaparaḥ || 9||
anādau saṃsāre vidadhati rajobādhitadhiyaḥ
śubhaṃ vā ghoraṃ vā śabalamatha vā kṛtyamaṇavaḥ |
tatastadbhogārthaṃ taruṇakaruṇāpūrṇahṛdayo
vidhatse yatteṣāṃ tanubhuvananirmāṇamakhilam || 10||
tadetatsaṅkalpaprakaṭitasamastatrijagataḥ
prabhorlīlāmātraṃ bhuvanamahanīyasya bhavataḥ |
tavaikasya svāminyadiha sahaje sarvaviṣaye
kriyājñāne nitye karaṇanirapekṣe prabhavataḥ || 11||
prasiddho'yaṃ panthā na bhavati vicitrā viracanā
vinā yatkartāraṃ sa ca na bhavati jñānarahitaḥ |
ato'vaśyaṃ kartā trijagati vicitre jña ucitaḥ
sa ca tvaṃ tvayyanye kimiva vivadante hatadhiyaḥ || 12||
athaivaṃ cedbrūyuḥ kimayamaparapreritamatiḥ
svatantro vā devastribhuvanavidhāne prayatate |
amuṣyādye pakṣe nahi paravidheyasya vibhutā
parasminpakṣe vā phalamapi kimuddiśya yatate || 13||
athāsyeyaṃ vāñchā prabhavati na karmakṣayamṛte
nṛṇāṃ muktiḥ so'pi kvacana na vinā bhogamucitaḥ |
vinādhāraṃ bhogo na bhavati vapurnāpi bhuvanaṃ
tato'rhaṃ jantūnāṃ tanubhuvananiṣpādanamiti || 14||
idaṃ yuktaṃ sāndrāmṛtamadhurayā'ntaḥ karuṇayā
prayuktasyā'jasraṃ parahitavidhānavyasaninaḥ |
dayāluścellokaṃ sṛjati sakalaṃ kiṃ na sukhinaṃ
kuto vā''dhivyādhikṣata iha jano'nena janitaḥ || 15||
athopādānaṃ yadbhavati paramāṇvādi jagata-
stathā karmā'nehaḥprabhṛti sahakāryetadubhayam |
vinā sṛṣṭau naiṣa prabhavati yadīśaḥ kimamunā
tadevā'stu vyaktaṃ tanubhuvananirmāṇanipuṇam || 16||
itītthaṃ mugdhānāmiha mativimohāya kudhiyaḥ
kutarkaprāgalbhīmukharitamukhā mūḍhamanasaḥ |
adhiṣṭhātāraṃ tvāṃ varada jaḍavargasya sadayaṃ
na jānanti svāmin paramapuruṣaṃ cetanamamī || 17||
yathopādānaṃ mṛttadanu sahakārīha laguḍo
jalaṃ cakraṃ sūtraṃ varada jaḍavargo'yamakhilaḥ |
na yatnaṃ kaulālaṃ prabhavati vinā kumbhaghaṭane
tathādhiṣṭhātāraṃ na bhavati vinā tvāṃ bhavavidhiḥ || 18||
avijñāyaivā'jñaḥ paruṣaviṣamaṃ karma kurute
vipāke tasyāsau nipatati bhavakleśakalile |
ato jñānālokaḥ prakaṭitasamastārthagahano
mahāmohadhvāntavyavahitadṛśo'vaśyamucitaḥ || 19||
upāyastatprāptau bhavati na vinā śāstramaparo
na śāstraṃ tatvāminniha yadupadiṣṭaṃ na bhavatā |
viviñcantaḥ santo hitamahitamete vidadhate
hite saktiṃ muñcantyahitamiti nārhanti patanam || 20||
bhavāndharmaṃ sākṣādakṛta sahajajñānamahasā
tamodhvaṃsaṃ puṃsāmatha tadupadeśena vidadhe |
pramāṇaṃ coktiste nahi ghanaghṛṇānighnamanaso
jagadbhartturyuktaṃ vitathamabhidhātuṃ bhagavataḥ || 21||
tadetatkāruṇyaṃ ghanatamatamaḥpaṅkapaṭalī-
vilīno'yaṃ lokastava varada sambhāvya sahajam |
dadhacchraddhābandhaṃ tvaduditamanuṣṭhātumasakṛt
pravṛtto duṣpāraṃ hara tarati saṃsārajaladhim || 22||
ityevaṃ bhagavannabandhyamahimā nirmāya nirmānuṣaṃ
viśvaṃ viśvasitaṃ vitatya tadanu sphītairvibhūtikramaiḥ |
saṃhṛtyātha nije mahimni nikhilaṃ tatkandukāndolana-
kleśāveśavirāmasambhṛtasukhaṃ kaivalyamākāṅkṣasi || 23||
itthaṃ kiṃ bahunā tvadaṅghrikamaladvandvaprasādādidaṃ
bhūyānme bhavabhītibhañjana vibho bhaktānukampāpara |
yattvatpādasarojapūjanavidhau bhaktirvirogaṃ vapu-
ryāvajjīvamatha tvadekamanaso muktistavaivāgrataḥ || 24||
evaṃ deva tava stutipravacanaprāptaprasādasya me
bhūyo janma bhaviṣyatīti bhagavan manye khapuṣpopamam |
syāccetprāktanakarmaśeṣajanitaṃ tannātha kiṃ bhūyasā
bhūyāsaṃ bhavadīyapādakamalastutyā punarnirvṛtaḥ || 25||
iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``īśvarapraśaṃsāstotraṃ'' nāmakaṃ pañcatriṃśaṃ stotraṃ sampūrṇam |
36. stutiphalaprāptistotraṃ ṣaṭtriṃśaṃ stotram
te nātha janma sakalaṃ na kalaṅkayanti
na drohakarmarasikānapi śaṅkayanti |
tānsaspṛhaṃ mṛgadṛśaḥ pravilokayanti
ye tvatpadābjarajasā'likamaṅkayanti || 1||
te vidviṣāmabhimataṃ hṛdi moghayanti
jñānāmṛtaṃ ca kṛpaṇeṣu samarpayanti |
teṣāṃ vacaḥ kṣitibhujo'pi na laṅghayanti
ye tvāṃ stavoktikusumarddhibhirarcayanti || 2||
te janmanaḥ phalamanalpamudañcayanti
kleśāpadaḥ svamaparaṃ ca vimocayanti |
tānvairiṇaḥ sahabhuvo'pi na vañcayanti
ye tvāmanāthajanabāndhavamarcayanti || 3||
te dharmamindukarasundaramarjayanti
gīrbhirvidagdhahṛdayānyapi rañjayanti |
tānantakabhrukuṭayo'pi na tarjayanti
ye tvāṃ bhavāmayaharaṃ hara pūjayanti || 4||
te tvatstutiṃ hṛdayadhāmni kavāṭayanti
duḥkhadrumaṃ ca dṛḍhamāpadi pāṭayanti |
bhāvaṃ tavaiva bhuvi bālamivāṭayanti
ye vāṅnaṭīmabhimukhaṃ tava nāṭayanti || 5||
te karmarajjunigaḍaṃ hyatikhaṇḍayanti
sūktaiḥ śrutīrbudhajanasya ca maṇḍayanti |
tvadbhaktimapyadhibhavābdhi taraṇḍayanti
ye tvanmanaḥ stutidhanasya karaṇḍayanti || 6||
pāpāni te'śmaśakalāni va cūrṇayanti
gīrbhirbruvaḥ sumanasāmapi ghūrṇayanti |
loke nijāni ca yaśāṃsyupakarṇayanti
ye dhīmatāṃ nutikathāstava varṇayanti || 7||
te mārakānapi na saṃyati ghātayanti
kāruṇyataḥ kṛtaruṣopi na yātayanti |
lokasya śokamabhayena ca śātayanti
ye śekharaṃ caraṇayostava pātayanti || 8||
te pāpapāśa(karmabandha)madhikaṃ hṛdi kartayanti
bhogaspṛhāṃ ca viṣayeṣu nivartayanti |
sūktaiḥ sacetanamanāṃsyapi nartayanti
ye candracūḍacaritaṃ tava kīrtayanti || 9||
te jānmikāni duritānyavasādayanti
sūktāni nirmalamatīnanuvādayanti |
gītāni vaiṇikanaṭānapi nādayanti
ye bhaktitastava nutīḥ pratipādayanti || 10||
te satsu karmasu ripūnapi codayanti
gīrbhiḥ satāṃ ca hṛdayāni vinodayanti |
teṣāṃ śucaḥ kvacana cetasi nodayanti
ye tāvakāni caritānyanumodayanti || 11||
te vigrahogramanasopi na khedayanti
mohaṃ dṛḍhārgalanibhaṃ hṛdi bhedayanti |
svaṃ kauśalaṃ mṛdumatīnapi vedayanti
sūktāni ye tava nijāni nivedayanti || 12||
te bhejuṣāṃ bhavati bhaktimamandayanti
vāgvīrudhastvayi ratiṃ hṛdi kandayanti |
tvāmanyadarśanagatānapi vandayanti
ye vāgbhareṇa hṛdayaṃ tava nandayanti || 13||
te bhuktimuktisaphalarddhi vivarddhayanti
satkarma śarma śamitādhi ca sādhayanti |
ye tvāṃ navairabhinavairabhirādhayanti
yānikṣusāramadhurān sudhiyo dhayanti || 14||
te saṅgare gururuṣo'pi na yodhayanti
jñānāmṛtena hṛdayaṃ ca viśodhayanti |
roṣodbhavaṃ hṛdi riporapi rodhayanti
ye tvāṃ nijā nutikathāḥ pratibodhayanti || 15||
te durmadānbudhasadasyavamānayanti
prauḍhānpraṇamya vinayena ca mānayanti |
tānbhūtayaḥ svayamananyasamānayanti
ye vāsarāṃstava navaiḥ saśamā nayanti || 16||
te nirbhaye natimataḥ pathi yāpayanti
notkampadānapi ripūnupatāpayanti |
kleśāpadaṃ paśusamānapi hāpayanti
ye tvāṃ prasādya dṛśamīśvara dāpayanti || 17||
te durmadaṃ śamanamugramadarpayanti
gardhaṃ ca sādhusadanādapasarpayanti |
dānādinārthinivahānapi tarpayanti
ye tāvake mukuṭamaṅghritale'rpayanti || 18||
te sadgṛheṣu gurumāpadamalpayanti
svaṃ cāśayaṃ śiśayiṣostava talpayanti |
ārtispṛśāmupakṛtīrapi kalpayanti
ye bālakānapi navaṃ tava jalpayanti || 19||
te sāparādhamanaso'pi na kopayanti
tāpaṃ hviyā vipulamāpadi gopayanti |
tvaddhāma cāmalamatīnadhiropayanti
ye nārcanaṃ tava kadācana lopayanti || 20||
te śaktimapratihatāṃ bhuvi jṛmbhayanti
prītiṃ parāṃ kṛtamatīnupalambhayanti |
vaṃśatrayīmapi nijāmabhiśobhayanti
ye tvāṃ nijāsu nutisūktiṣu lobhayanti || 21||
te magnamārttajanamāpadi tārayanti
buddhyā vimṛśya sadasacca vicārayanti |
ajñānamānatimatāṃ ca nivārayanti
tvadbhaktimindudhara ye hṛdi dhārayanti || 22||
te vidviṣaḥ sthiraruṣo'pyanukūlayanti
mohaṃ mahīruhamiva pravimūlayanti |
ājñāṃ ca mūrdhni mahatāmavacūlayanti
ye bhālamaṅghrirajasā tava dhūlayanti || 23||
te paṅkamaṅkagatamātmani dhāvayanti
diṅmaṇḍalaṃ ca paritaḥ paripāvayanti |
kleśān kṣaṇāttṛṇagaṇāniva lāvayanti
ye tvāṃ prakāśavapuṣaṃ hṛdi bhāvayanti || 24||
te pīvarīṃ vipadamokasi karśayanti
svaṃ kauśalaṃ sumanasaśca vimarśayanti |
prītiṃ satāṃ ca hṛdayeṣu niveśayanti
ye tvatstutīrvibudhasadmasu darśayanti || 25||
te nirmalaṃ sukṛtamātmani poṣayanti
duṣkarmakardamamalaṃ hṛdi śoṣayanti |
krūrān virodhabidhurānapi toṣayanti
ye nāma te śivaśivetyabhighoṣayanti || 26||
te viśvameva caritairabhibhūṣayanti
kruddhān viruddhahṛdayā~śca na dūṣayanti |
nātyudbhaṭānyamabhaṭānapi roṣayanti
rāgeṇa ye śiva manastava toṣayanti || 27||
te tvāṃ kṛpāmbutṛṣite hṛdi varṣayanti
svāntaukaso'ghabhujagānapi karṣayanti |
kampaṃ vidhāya ca yamaṃ bhruvi dharṣayanti
ye tvāṃ nijai(navai)rnutipadairhara harṣayanti || 28||
te maunamudri tagiro'pyupahāsayanti
gīrbhirmukhāni sudhiyāmadhivāsayanti |
viśvaṃ yaśobhiramalairabhibhāsayanti
ye mānasaṃ tava navaiḥ pravikāsayanti || 29||
te cittabhittimasatāmapi citrayanti
roṣoddhatānarijanānapi mitrayanti |
sūktāmṛtaiśca bhuvameva pavitrayanti
vāṅnāvi ye tava caritramaritrayanti || 30||
cetāṃsi te sukṛtināmupabṛṃhayanti
bāhyāntarānasuhṛdaśca nibarhayanti |
nātmānamānatamarīnapi garhayanti
ye tvāṃ navastavavibhūtibhirarhayanti || 31||
ātmānaṃ te kaluṣakalile magnamuccālayanti
jñānāmbhobhirmalamalikulaśyāmalaṃ kṣālayanti |
smṛtvā ca tvāṃ pramadarabhasādaṃsamāsphālayanti
tvadbhaktyā ye sakalamalasaṃ cittamuttālayanti || 32||
te rāmāṇāṃ manasi madanaṃ suptamunnidrayanti
ślāghāṃ labdhuṃ sadasi ca satāṃ cittamunmudrayanti |
tānudvṛttāḥ kuṭilamatayo na kvacicchidrayanti
tvaccittaṃ ye varada karuṇākranditairārdrayanti || 33||
te sabhyānāṃ sadasi nayanānyaśru visrāvayanti
krodhotkarṣaṃ gurumururuṣāṃ dūramutprāvayanti |
cetaḥ sūktairmaṇimiva satāmaindavaṃ drāvayanti
svāminye tvāmabhinavanavavyāhṛtīḥ śrāvayanti || 34||
teṣāṃ sūktīramalamatayaḥ pūgavaccarvayanti
krūrāṇāṃ te madamabhimukhaṃ preṅkhitaṃ kharvayanti |
tānvidvāṃsastava navasudhāsvādanāyāhvayanti
tvatpādāgre muditamanaso ye śiraḥ prahvayanti || 35||
te durvṛttānapi na kṛpayā peśalāḥ kleśayanti
glāniṃ jñānāṃ vyasanajanitāmāśaye nāśayanti |
tṛṣṇārttānapyamṛtamadhurāḥ svā giraḥ prāśayanti
tvāmantarye śakalitakalikleśamāveśayanti || 36||
te rāgādīnmanasi militānāśu viśleṣayanti
krodhāndhānapyatanuvinayā na kvaciddveṣayanti |
mohadhvāntaṃ ghanamadhimativyoma niḥśeṣayanti
tvatpārśvaṃ ye giramabhimataprāptaye preṣayanti || 37||
te nirvedaṃ manasi śamināmahnu taṃ hrāsayanti
trastānastaṅgamitavipadaḥ śaśvadāśvāsayanti |
tvadbhāvaikapravaṇabhaṇitairantakaṃ trāsayanti
stutyā ye tvāṃ natajanahṛtatrāsamullāsayanti || 38||
te tajjñānāṃ pariṣadi guṇānātmanaḥ śaṃsayanti
svānte cāntaryamabhujagajaṃ sādhvasaṃ dhvaṃsayanti |
kleśānpāśāniva ca nibiḍānāśu visraṃsayanti
prauḍhānāṃ ye tava nutimadhiśrotramuttaṃsayanti || 39||
te tvadbhaktivyasanamanaghaṃ karma nirvāhayanti
tvatsevāsu sthiramavirataṃ cittamutsāhayanti |
svaṃ cāghaughaṃ yamamadanavattvaddṛśā dāhayanti
tvāṃ vijñaptiṃ svayamavahitaṃ ye'nvahaṃ grāhayanti || 40||
te takṣāṇaṃ tarumiva guruṃ tvāmaghaṃ takṣayanti
prāptuṃ tṛptiṃ śubhaphalabharaṃ nirbharaṃ bhakṣayanti |
pratyāsannāṃ śriyamapi dhiyā tīkṣṇayā lakṣayanti
tvadbhaktānye śrutimiva nutiṃ tāvakīṃ śikṣayanti || 41||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``stutiphalaprāptistotraṃ'' nāmakaṃ ṣaṭtriṃśaṃ stotraṃ sampūrṇam |
37. stutipraśaṃsāstotraṃ saptatriṃśaṃ stotram
iha hi svātmamaheśvaraparibhāvanaśuddhasaṃvidaḥ sudhiyaḥ |
kamaladalāni jalairiva bahirāvaraṇairna lipyante || 1||
kavimukhakamalopavane kṛtavasatirjayati sūktikalpalatā |
yā phalati bhuktimuktī śivabhaktisudhārasāsekaiḥ || 2||
jaya jaya hara rakṣa bhayādevaṃ devaṃ śivaṃ śivaṃ labdhum |
yaḥ stauti tasya saphalaḥ sāraḥ sārasvataḥ svataḥ sphāraḥ || 3||
śiva śiva śaṅkara śaṅkara bhavagatiriti yaḥ pralāpamukharamukhaḥ |
tasya hi saphalā divasāḥ śivasāyujyaṃ ca hastagatam || 4||
iha khalu paśupatinutibhiḥ katipayamapi yaḥ kṛtārthayati kālam |
sakalakalikaluṣamukto jīvanmuktaḥ sa kiṃ bahunā || 5||
upacitakuśalaśreṇiḥ paramapadārohaṇaikaniśreṇiḥ |
jayati mahāmṛtaveṇirvibudhajanāhlādinī nutiḥ śambhoḥ || 6||
kimiyaṃ sadgurudṛṣṭirhlādaikamayī nu kiṃ jagatsṛṣṭiḥ |
kiṃ vā nirabhravṛṣṭiḥ śravaṇāmṛtavarṣiṇī nutiḥ śambhoḥ || 7||
akṣayasukhopabhuktiḥ paramaśivāvāptaye navā yuktiḥ |
yadi vā jīvanmuktiḥ śravaṇāmṛtavarṣiṇī nutiḥ śambhoḥ || 8||
kṣetraṃ tadiha pavitraṃ tattīrthaṃ pāvanaṃ tadāyatanam |
tadiha tapovanamanaghaṃ yatra nutiḥ śāmbhavī śrutiṃ viśati || 9||
sā krīḍā sā goṣṭhī sā viśrāntiḥ sa bhūmikālābhaḥ |
sā'khiladuḥkhanivṛttiryatra nutiḥ śāmbhavī śrutiṃ viśati || 10||
taddhyānaṃ sa samādhiḥ sa mahāyāgastadarcanaṃ sakalam |
sā khalu paramā dīkṣā yatra nutiḥ śāmbhavī śrutiṃ viśati || 11||
yadi pārijātakusumastavakastava karṇayoralaṅkaraṇam |
bhavituṃ bhavati na sulabhaḥ śrutipathametā naya stutīḥ śambhoḥ || 12||
abhilaṣasi yadi niroddhuṃ pavanādapi durgrahaṃ manohariṇam |
tadimā gṛhāṇa nibhṛtaṃ dṛḍhaguṇaguṇagumphitāḥ stutīḥ śambhoḥ || 13||
yadamṛtamambudhimanthanasamutthitaṃ tasya kaḥ svidāsvādaḥ |
iti yadi hṛdi tava kautukamākarṇaya tatstutīrimāḥ śambhoḥ || 14||
viṣayopabhogarahitaḥ sahajo hlādaḥ satāṃ mato mokṣaḥ |
tamapi yadīcchasi veditumavahitahṛdayaḥ śaṛṇu stutīḥ śambhoḥ || 15||
aśuci śucāmāyatanaṃ malakalilamidaṃ kalevaraṃ satyam |
bhagavadupāsanasādhanamiti bhavati na kasya kamanīyam || 16||
yadi manuṣe yamaniyamaprāṇāyāmādi durghaṭaṃ karttum |
tadimaṃ sugamamupāyaṃ śraya paramapadāptaye nutiṃ śambhoḥ || 17||
siddhaṃ samyagabhīṣṭaṃ satyagirāmāśiṣaḥ satāṃ phalitāḥ |
labdhaṃ sukṛtasya phalaṃ nirvyūḍheyaṃ yataḥ stutiḥ śambhoḥ || 18||
mama sāraḥ saṃsāraḥ sakalamidaṃ martyajanma mama saphalam |
mama sadṛśo'sti na kaścana yadahaṃ stotā śivasya saṃvṛttaḥ || 19||
praṇamāmi praṇamāmi staumi staumi prabhuṃ jagannātham |
dhyāyāmi dhyāyāmi ca yāmi ca vimalaṃ paraṃ dhāma || 20||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``stutipraśaṃsā'' nāmakaṃ saptatriṃśaṃ stotraṃ sampūrṇam |
38. puṇyapariṇāmastotraṃ aṣṭātriṃśaṃ stotram
sahasraśīrṣā puruṣaḥ punātu vaḥ
sahasracakṣurbhagavān sahasrapāt |
gale'ṅghrimūle nayane ca niścalā-
strayo'pyamī yaṃ puruṣā upāsate || 1||
(upāsate yaṃ puruṣāstrayo'pyamī)|| 1||
sarasvatīvendukalodgatā karaiḥ
sarasvatīva śravaṇāmṛtaiḥ svaraiḥ |
sarasvatīvormibhirīśvarastavaiḥ
sarasvatī varṣatu vaḥ sudhāmiyam || 2||
vimarśaśūnyena mayā nirarthakaḥ
khalena kālaḥ sakalo'tivāhitaḥ |
idaṃ tvasārādatisāramuddhṛtaṃ
dhṛtaṃ yadīśastutivetanaṃ manaḥ || 3||
na hṛdyatāmeti parasya durmukhaḥ
śiśuḥ sravatpīnasadigdhanāsikaḥ |
pituḥ svakīyasya tu jīvitādhika-
stathopahāsyo'pi mamā'yamudyamaḥ || 4||
avaimi bhāgyopacayaḥ sa puṣkalaḥ
saśaktipātaḥ khalu pārameśvaraḥ |
sa vā mahārho mahatāmanugraho
yadīśvarārādhanasādhanaṃ manaḥ || 5||
aho kṛtārtho'smi manobhirāmayā
girā guṇālaṅkṛtayeha rāmayā |
tanuḥ sthireyaṃ dhriyate nirāmayā
bhave ca yadbhaktirabhaṅgurā mayā || 6||
na vidyayā prītiranarghamānayā
tathā śriyā vā'nvahamedhamānayā |
śivastavaikavratayā'samānayā (mamānayā)
yathā girā sāndrasudhāsamānayā || 7||
puraḥ sphurantaṃ vimṛśanmaheśvaraṃ
vilīnavedyāntaravedano daśām |
navastavollekhavidhau spṛśāmi yāṃ
mamāntarātmā vibhureva vetti tām || 8||
manuṣyatā pūruṣatā'gryavarṇatā
manīṣitā satkavitā śivaikatā |
iyaṃ mama kṣemaparamparā vibhoḥ
stutiprasaṅgena gatā kṛtārthatām || 9||
dhruvaṃ navānāṃ rasagarbhanirbhara-
dhvanirghanānāmanagheyamāvaliḥ |
pṛthuprabhāvaṃ śaśikhaṇḍamaṇḍitaṃ
praharṣiṇaṃ nīlagalaṃ kariṣyati || 10||
yadi hyayogyāścaraṇāntike vayaṃ
tathāpi naḥ prāṅgaṇasīmasevinām |
camatkariṣyanti giraḥ prabhorimā
janaṅgamānāmiva gītarītayaḥ || 11||
paropakārairiva rājasevanaṃ
daridragārhasthyamivārthitarpaṇaiḥ |
idaṃ bahukleśamapīśvarastavai-
ravaimi varṣma spṛhaṇīyamātmanaḥ || 12||
(vapurbahukleśamapīdamīśvarastavai-
ravaimi spṛhaṇīyamātmanaḥ)|| 12||
sahasrapatrairiva palvalodakaṃ
śiraḥ phaṇīndrasya maṇivrajairiva |
sadoṣamapyetadavaimi mānuṣaṃ
manoramaṃ janma maheśvarastavaiḥ || 13||
mṛgendraśāvā iva kandarodarā-
tkarīndrakumbhādiva mauktikotkarāḥ |
viniḥsarantaḥ kaviturmukhādamī
manojñatāṃ bibhrati kasya na stavāḥ || 14||
marālamālā sarasīva nirmale
kucasthale hāralateva subhruvām |
iyaṃ bhavatvābharaṇaṃ maheśvara-
stavāvalī vaktrasaroruhe satām || 15||
imāṃ ghanaśreṇimivonmukhaḥ śikhī
cakorakaḥ kārtikacandrikāmiva |
rathāṅganāmā taraṇeriva tviṣaṃ
stavāvalīṃ vīkṣya na kaḥ pramodate || 16||
madhuvrataḥ saumanasīmiva srajaṃ
sitacchadaḥ paṅkajakarṇikāmiva |
piko vikoṣāmiva cūtamañjarī-
mimāṃ na kaścarvayati stavāvalīm || 17||
manasvinīnāmiva sāci vīkṣitaṃ
stanandhayānāmiva mugdhajalpitam |
avaśyamāsāṃ madhu sūktivīrudhāṃ
manīṣiṇāṃ mānasamārdrayiṣyati || 18||
iyaṃ madhuśrīriva kelikānanaṃ
sarovaraṃ prāvṛḍivātapakṣatam |
stavāvalī kāvyakutūhalaṃ satā-
makālajīrṇaṃ taruṇīkariṣyati || 19||
vimatsarāṇāṃ sadasadvivekināṃ
mahātmanāṃ mūrdhni dhṛto'yamañjaliḥ |
vilokayantu prabhugauravādimāṃ
prasādabuddhyā mayi vā stavāvalīm || 20||
stavāvalīḍhaukanakārpaṇacchalā-
dalabhyamabhyarṇacaraiḥ surairapi |
prabhoḥ padasparśamaśaṅkamīpsato
vikatthanatvepi na me viḍambanā || 21||
kalimalamaṣīkalmāṣo'yaṃ manomukuraḥ puraḥ
sphuritamapi na vyaktaṃ vastu grahītumabhavatkṣamaḥ |
sapadi viśadaiḥ śabdabrahmormibhirvimalīkṛte
karabadaravatpaśyāmo'smin samastamidaṃ jagat || 22||
ānandini stuvati nandini gūḍhamarthaṃ
devaścamatkṛtikṛtāṅgulibhaṅgabhaṅgiḥ |
aṅgasthitāṃ bhagavatīmadhirūḍhahāsā-
māsāmavaśyamavabodhayati stutīnām || 23||
manye manovacanakarmabhiradbhutāni
yānyūrjitāni sukṛtāni purākṛtāni |
etāni tāni śivabhaktipavitritāni
karṇāmṛtāni phalitāni subhāṣitāni || 24||
ete prabhoḥ pramathabhartturabhīṣṭamaṣṭā-
triṃśatstavā vimṛśatāṃ viduṣāṃ diśantu |
tenaiva dṛkṣu dhṛtagharmakarāmṛtāṃśu-
saptārciṣāmiva kalāḥ sakalārthalābham || 25||
ayamiha kiṅkareṇa racitaścaraṇāmbujayoḥ
``stutikusumāñjali''rbhagavatastaruṇendubhṛtaḥ |
aviralabhaktisiktanavasūktilatā'vacitaḥ
kalayatu saurabheṇa sukṛtāṃ spṛhayālu manaḥ || 26||
ayi pramathanāyaka trijagatāmadhiṣṭhāyaka
prasannamukha ṣaṇmukha tridaśavandya nandīśvara |
nivedayata bhaktitaścaraṇakiṅkareṇā'rpitaṃ
puraḥ purariporimaṃ vikacavākyapuṣpāñjalim || 27||
iti pariṣadi siṃhasyandanaskandanandi-
prabhṛtibhirabhirāddhairvandyamāvedyamānam |
stutikusumasamūhaṃ prābhṛtīkṛtya śambho-
ryadamalamupalabdhaṃ śarma tenedamastu || 28||
bhuvi bhuvi kuvikalpaḥ svalpatāmetu jetuṃ
dhuri dhuri duritaughaṃ varddhatāṃ śuddhabodhaḥ |
pathi pathi mathitogravyāpadāpannatāpā
nari nari paripūrṇā jṛmbhatāṃ śambhubhaktiḥ || 29||
iti śubhaṃ bhagavaccaritastuti-
vyatikareṇa yadarjitamūrjitam |
bhavatu tena manasyanapāyinī
sukṛtināṃ śivabhakticamatkṛtiḥ || 30||
iti kāśmīrakamahākaviśrīmajjagaddharabhaṭṭaviracite
bhagavato maheśvarasya stutikusumāñjalau
``puṇyapariṇāmastotraṃ'' nāmaṣṭātriṃśaṃ stotraṃ sampūrṇam |
39. granthakarturvaṃśavarṇanam
purā purāreḥ padadhūlidhūsaraḥ
sarasvatīsvairavihārabhūrabhūt |
viśālavaṃśaśrutavṛttaviśruto
vipaścitāṃ ``gauradharaḥ'' kilā'graṇīḥ || 1||
bhramādanirmāya purātanaḥ kavi-
ryamagrimaślokamavaśyamagrataḥ |
vimṛśya paṅkterupari dvijanmanāṃ
nyavīviśatkākapadāṅkitaṃ punaḥ || 2||
anantasiddhāntapathāntagāminaḥ
samastaśāstrārṇavapāradṛśvanaḥ |
ṛjuryajurvedapadārthavarṇanā
vyanakti yasyā'dbhutaviśrutaṃ śrutam || 3||
suto'bhavadratnadharaḥ śiromaṇi-
rmanīṣiṇāmasya guṇaughasāgaraḥ |
yamāśritāhvāsta sarasvatī hare-
ruraḥsthalaṃ ``ratnadharaṃ'' śritāṃ śriyam || 4||
udārasattvaṃ vipulaṃ sunirmalaṃ
prarūḍhamaryādamagādhamāśayam |
praviśya yasya svavaśā sarasvatī
padaṃ babandha sthiramambudheriva || 5||
kapoladolāyitakarṇabhūṣaṇaṃ
taraṅgitabhrūyugabhaṅgurālikam |
sacetasāmardhanimīlitekṣaṇaṃ
kṣaṇaṃ vitanvanti mukhaṃ yaduktayaḥ || 6||
athā'sya dhīmānudapādi vādināṃ
vitīrṇamudro vadaneṣvanekaśaḥ |
udārasaṃskārasusārabhāratī-
pavitravaktrāmburuho ``jagaddharaḥ'' || 7||
api sthavīyaḥsvakṛtasthirasthitiḥ
kuśāgratīkṣṇāmadhiruhya yanmatim |
aho bata svairavihāralīlayā
padaṃ nyadhādaskhalitaṃ sarasvatī || 8||
nirmatsaraḥ sahṛdayaḥ śrutapāradṛśvā
viśvātiśāyivinayaḥ priyavāk suśīlaḥ |
kiṃ vā'paraṃ kavigirāṃ sadasadvicāra-
cāturyadhuryadhiṣaṇaḥ śaraṇaṃ ya ekaḥ || 9||
tenādṛtena śiśunaiva nivedyamāna-
mānandakandalitabhaktikutūhalena |
etaṃ mṛgāṅkakalikākalitāvataṃsa-
śaṃsārasāyanarasaṃ rasayantu santaḥ || 10||
gṛhṇantu kañcana viśeṣamaśeṣamasmā-
dasmākamāttavacanāḥ(nāt)kvacanā'ntarajñāḥ |
cinvanti palvalajalātkuśalā viśāla-
śevālajālakalilātkamalaughameva || 11||
yadyapyāsāmanalasarasasphārasāraṃ na kiñci-
dvācāmantarviracitacamatkāramastyarthatattvam |
tatrā'pyetāstribhuvanagurustotramaitrīpavitrāḥ
karṇābhyarṇābharaṇasaraṇiṃ netumarhanti santaḥ || 12||
premāṇaṃ maṇikarṇikāṃ prati budhā mandīkurudhvaṃ matiṃ
muktādāmani mākṛta spṛśata mā tāmbūlahevākitām |
bhūṣārthaṃ prabhavanti karṇapuline kaṇṭhe mukhāmbhoruhe
devasya smaraśāsanasya yadimāḥ stotrāvalīsūktayaḥ || 13||
nikṣiptaṃ śatasaptakena sahitaṃ pādāyutārdhaṃ mayā
nirhiṃse guṇini dvijendramukuṭe dharmaikadhāmnīśvare |
prāyeṇa kliśitasya dīnavacasaḥ kṣmākṣiptamūrdhno'pi me
pādaṃ naikamayaṃ prayacchati vidhau vakre karomyatra kim || 14||
kāraṅkāramakāri vāritaśamairakṣairarakṣairidaṃ
nighnaṃ vighnitaśambhusevanasukhābhogopabhogaṃ manaḥ |
kintu kvāpi kadāpi kā'pi patitā sā sādhudṛṣṭiryataḥ
prāptaḥ sūktivapurjitorjitasudhāsvādaḥ prasādaḥ prabhoḥ || 15||
yatsatyaṃ sadasadvivekavikalagrāmīṇakagrāmaṇī-
mithyāstotraparā parābhavabhuvaṃ nītāsi bhītāsyataḥ |
mātaḥ kātaratāṃ vimuñca yadasau saubhāgyabhāgyāvadhiḥ
sañjāto jagadekanāthanutibhirvāgdevi te vibhramaḥ || 16||
iti śrīmajjagaddharabhaṭṭakavivaṃśāvalīvivaraṇaṃ sampūrṇam |
|| iti kāśmīrakamahākavi śrīmajjagaddharabhaṭṭaviracitaḥ stutikusumāñjaliḥ sampūrṇā ||
Notes
Stutikusumāñjaliḥ stutikusumāṅjaliḥ is a composition by Kāśmīra Mahākavi kāśmīra mahākavi Jagaddhara Bhaṭṭa jagaddharabhaṭṭa who belongs to the lineage of Ratnadhara ratnadhara (father)and Gauradhara gauradhara (grandfather).
Proofread by Ruma Dewan
% Text title : Stutikusumanjalih
% File name : stutikusumAnjaliH.itx
% itxtitle : stutikusumAnjaliH (jagaddharabhaTTavirachite)
% engtitle : stutikusumAnjaliH
% Category : major_works, sangraha, jagaddharabhatta, kAshmIrashaivadarshanam
% Location : doc_z_misc_major_works
% Sublocation : major_works
% Author : jagaddharabhaTTa
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Ruma Dewan
% Indexextra : (1, 2, 3)
% Latest update : June 25, 2024
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
స్తుతికుసుమాఞ్జలిః
ఓం శ్రీగణేశాయ నమః ।
నమః శివాయ నిఃశేషక్లేశప్రశమశాలినే ।
త్రిగుణగ్రన్థిదుర్భేదభవభేదవిభేదినే ॥
సూచిపత్రమ్ ।
౧. స్తుతిప్రస్తావనా ప్రథమం స్తోత్రమ్ ।
౨. నమస్కారాత్మకం ద్వితీయం స్తోత్రమ్ ।
౩. ఆశీర్వాదాఖ్యం తృతీయం స్తోత్రమ్ ।
౪. మఙ్గలాష్టకం చతుర్థం స్తోత్రమ్ ।
౫. కవికావ్యప్రశంసాఖ్యం పఞ్చమం స్తోత్రమ్ ।
౬. హరాష్టకం షష్ఠం స్తోత్రమ్ ।
౭. సేవాభినన్దనం సప్తమం స్తోత్రమ్ ।
౮. శరణాశ్రయణం అష్టమం స్తోత్రమ్ ।
౯. కృపణాక్రన్దనం నవమం స్తోత్రమ్ ।
౧౦. కరుణాక్రన్దనం దశమం స్తోత్రమ్ ।
౧౧. దీనాక్రన్దనం ఏకాదశం స్తోత్రమ్ ।
౧౨. తమఃశమనం ద్వాదశం స్తోత్రమ్ ।
౧౩. ప్రభుప్రసాదనం త్రయోదశం స్తోత్రమ్ ।
౧౪. హితస్తోత్రం చతుర్దశం స్తోత్రమ్ ।
౧౫. కరుణారాధనం పఞ్చదశం స్తోత్రమ్ ।
౧౬. ఉపదేశనం షోడశం స్తోత్రమ్ ।
౧౭. భక్తిస్తోత్రం సప్తదశం స్తోత్రమ్ ।
౧౮. సిద్ధిస్తోత్రం అష్టాదశం స్తోత్రమ్ ।
౧౯. భగవద్రూపవర్ణనం ఏకోనవింశం స్తోత్రమ్ ।
౨౦. హసితస్తోత్రం వింశం స్తోత్రమ్ ।
౨౧. అర్ధనారీశ్వరస్తోత్రం ఏకవింశం స్తోత్రమ్ ।
౨౨. కాదిపదబన్ధస్తోత్రం ద్వావింశం స్తోత్రమ్ ।
౨౩. శృఙ్ఖలాబన్ధస్తోత్రం త్రయోవింశం స్తోత్రమ్ ।
౨౪. ద్విపదయమకం చతుర్వింశం స్తోత్రమ్ ।
౨౫. రుచిరఞ్జనాఖ్యం పఞ్చవింశం స్తోత్రమ్ ।
౨౬. పాదాదియమకస్తోత్రం షడ్వింశం స్తోత్రమ్ ।
౨౭. పాదమధ్యయమకాఖ్యం సప్తవింశం స్తోత్రమ్ ।
౨౮. పాదాన్తయమకస్తోత్రం అష్టావింశం స్తోత్రమ్ ।
౨౯. ఏకాన్తరయమకస్తోత్రం ఏకోనత్రింశం స్తోత్రమ్ ।
౩౦. మహాయమకస్తోత్రం త్రింశం స్తోత్రమ్ ।
౩౧. నతోపదేశస్తోత్రం ఏకత్రింశం స్తోత్రమ్ ।
౩౨. శరణాగతోద్ధరణం ద్వాత్రింశం స్తోత్రమ్ ।
౩౩. కర్ణపూరస్తోత్రం త్రయస్త్రింశం స్తోత్రమ్ ।
౩౪. అగ్ర్యవర్ణస్తోత్రం చతుస్త్రింశం స్తోత్రమ్ ।
౩౫. ఈశ్వరప్రశంసాస్తోత్రం పఞ్చత్రింశం స్తోత్రమ్ ।
౩౬. స్తుతిఫలప్రాప్తిస్తోత్రం షట్త్రింశం స్తోత్రమ్ ।
౩౭. స్తుతిప్రశంసాస్తోత్రం సప్తత్రింశం స్తోత్రమ్ ।
౩౮. పుణ్యపరిణామస్తోత్రం అష్టాత్రింశం స్తోత్రమ్ ।
౩౯. గ్రన్థకర్తుర్వంశవర్ణనమ్ ।
౧. స్తుతిప్రస్తావనా ప్రథమం స్తోత్రమ్
హ్లాదవద్భిరమలైరనర్గలైర్జీవనైరఘహరైర్నవైరియమ్ ।
స్వామినః క్లమశమక్షమైః క్షణం రోద్ధుమర్హతి మనః సరస్వతీ ॥ ౧॥
స్వామినః స్థిరగుణా సవక్రిమా కర్ణయోరమృతవర్షిణీ మనః ।
కర్త్తుమర్హతి ముహూర్త్తముజ్ఝితస్వైరచాపలమియం సరస్వతీ ॥ ౨॥
రమ్యరీతిరనఘా గుణోజ్జ్వలా చారువృత్తరుచిరా రసాన్వితా ।
రఞ్జయత్వియమలఙ్కృతా మనః స్వామినః ప్రణయినీ సరస్వతీ ॥ ౩॥
సత్త్వధామ వరలాభయాచితశ్లాఘ్యవర్ణవిశదా విశత్వియమ్ ।
నిర్మలం సఘనకాలవిప్లవా మానసం స్మరజితః సరస్వతీ ॥ ౪॥
భక్తితః సపది సర్వమఙ్గలా బోధితా నిజధియైవ మేఽనయా ।
ఆరిరాధయిషతీశ్వరం వరం లబ్ధుమీప్సితమియం సరస్వతీ ॥ ౫॥
ఓమితి స్ఫురదురస్యనాహతం గర్భగుమ్ఫితసమస్తవాఙ్మయమ్ ।
దన్ధ్వనీతి హృది యత్పరం పదం తత్సదక్షరముపాస్మహే మహః ॥ ౬॥
భానునా తుహినభానునా బృహద్భానునా చ వినివర్తితం న యత్ ।
యేన తజ్ఝగితి(ఝటితి)శాన్తిమాన్తరం ధ్వాన్తమేతి తదుపాస్మహే మహః ॥ ౭॥
కీచకాదికుహరేష్వివాఽమ్బరం బిమ్బమమ్బరమణేరివోర్మిషు ।
ఏకమేవ చిదచిత్స్వనేకధా యచ్చకాస్తి తదుపాస్మహే మహః ॥ ౮॥
తర్కకర్కశగిరామగోచరం స్వానుభూతిసమయైకసాక్షిణమ్ ।
మీలితాఖిలవికల్పవిప్లవం పారమేశ్వరముపాస్మహే మహః ॥ ౯॥
స్వావభాసమయమేవ మాయయా యేన భిన్నమవభాస్యతే జగత్ ।
చిత్రమిన్ద్రధనురభ్రలేఖయా భాస్వతేవ తదుపాస్మహే మహః ॥ ౧౦॥
హృద్గుహాగహనగేహగూహితం భాసితాఽఖిలజగత్త్రయోదరమ్ ।
కన్దకన్దరదరీముఖోద్గతప్రాణమారుతకృతస్థిరస్థితిమ్ ॥ ౧౧॥
త్యక్తసర్వదశమక్షయోదయం రూపవర్జితమభిత్తిసంశ్రయమ్ ।
యం నిరఞ్జనమనక్షగోచరం దీపమద్భుతముశన్తి తం స్తుమః ॥ ౧౨॥
యస్య శస్యమహసో నిరర్గలం యోగమాప్య చరణాబ్జరేణుభిః ।
అద్భుతాం దధతి నీరజస్కతాం తం జగత్పతిముమాపతిం స్తుమః ॥ ౧౩॥
చారుచన్ద్రకలయోపశోభితం భోగిభిః సహ గృహీతసౌహృదమ్ ।
అభ్యుపేతఘనకాలశాత్రవం నీలకణ్ఠమతికౌతుకం స్తుమః ॥ ౧౪॥
ఇచ్ఛయైవ భువనాని భావయన్ యః ప్రియోపకరణగ్రహోఽపి సన్ ।
అప్రియోపకరణగ్రహోఽభవత్ తం స్వశక్తిసచివం శివం స్తుమః ॥ ౧౫॥
పద్మసద్మకరమర్దలాలితం పద్మనాభనయనాబ్జపూజితమ్ ।
పద్మబన్ధుముకుటాంశురఞ్జితం పాదపద్మయుగమైశ్వరం స్తుమః ॥ ౧౬॥
అఙ్ఘ్రియుగ్మమమరేశమస్తకస్రగ్భిరుజ్జ్వలమురశ్చ భస్మభిః ।
శేఖరఞ్చ హిమరశ్మిరశ్మిభిర్యో బిభర్తి తముపాస్మహే విభుమ్ ॥ ౧౭॥
మూర్ధ్ని చన్ద్రకరసున్దరత్విషం ఫేనపిణ్డపరిపాణ్డురస్మితామ్ ।
దేహినాం వహతి తాపహారిణీం సిద్ధసిన్ధుమతనుం తనుం చ యః ॥ ౧౮॥
కర్త్తుముత్సహత ఏవ సేవకో యస్య కస్య న మనః సకౌతుకమ్ ।
నైతి శాన్తనవవిగ్రహోఽపి సన్ భీష్మతాం న చ విచిత్రవీర్యతామ్ ॥ ౧౯॥
ఆపతన్తమయమం యమం పురో యః సవిగ్రహమవిగ్రహం వ్యధాత్ ।
దర్పకం వ్యధిత యోఽప్యదర్పకం తం విషాదమవిషాదమాశ్రయే ॥ ౨౦॥
అమ్బరేణ గననేన సంవృతం జీవనైః శిరసి వారిభిః శ్రితమ్ ।
భోగిభిశ్చ భుజగైర్విభూషితం శఙ్కరం శుభకరం భజామహే ॥ ౨౧॥
పావకేన శిఖినోపశోభితం భాసితం సితరుచా హిమాంశునా ।
భాస్వతా చ రవిణా విరాజితం లోచనత్రయముపాస్మహే విభోః ॥ ౨౨॥
అభయఙ్కరమాశ్రితం స్వరూపం దధదుద్దామసమగ్రధామయోగమ్ ।
శుచితారకమీశ్వరస్య నేత్రత్రితయం శూలశిఖాత్రయం చ వన్దే ॥ ౨౩॥
మీలద్విలోచనసముద్గసముద్గతాఽశ్రు-
శ్రోతఃస్రు తిస్నపితమూలకపోలభాగాః ।
దేవం శశాఙ్కకలయా కలితాఽవతంసం
శంసన్తి సన్త ఇహ శఙ్కర శఙ్కరేతి ॥ ౨౪॥
భ్రాన్తోఽస్మి వైశసమయే సమయేఽహమత్ర
మిథ్యైవ దిగ్భ్రమహతో మహతోఽపమార్గాన్ ।
విశ్రమ్య నన్దనవనే నవనే శివస్య
ఖేదస్తు సమ్ప్రతి సమేతి స మేఽవసానమ్ ॥ ౨౫॥
యత్పార్వణేన్దుకరసున్దరవాహహంస-
సంవాసదుర్లలితయాఽపి వచోధిదేవ్యా ।
విశ్రమ్యతే మనసి నః సమలే సలీలం
తత్సౌభగం భగవతో జయతీన్దుమౌలేః ॥ ౨౬॥
యం భూషయన్తి కమనీయమహీనభోగాః
స్తుత్వా భవన్తి కృతినో యమహీనభోగాః ।
చిత్తోచితం తమపహాయ మహీనభోగాః
కర్తుం పరత్ర ధృతసంయమ ! హీ న భో గాః ॥ ౨౭॥
అవాప్య గురుభిర్గుణైర్జగతి గౌరవం ధ్యాయత-
స్తమీరమణశేఖరం భవతి గౌరవన్ధ్యా యతః ।
అతస్తముమయా సమం కృతమహావిలాసం ప్రతి
స్తుతౌ విరచితా మయా మతిరనావిలా సమ్ప్రతి ॥ ౨౮॥
మత్త్వా సద్యః సుకృతసులభం దుర్లభం జీవలోకం
లబ్ధ్వా సర్వవ్యసనశమనం మిత్రమేకం వివేకమ్ ।
ధన్యాః కేచిత్కృతకుముదినీకాన్తలేఖాఽవతంసం
హంసం శంసన్త్యమలమధురైర్భక్తిసిక్తైర్వచోభిః ॥ ౨౯॥
అన్తఃశూన్యం గుణవిరహితం నీరసం సర్గహీనం
కావ్యం హృద్యం నను సుమనసాం న స్థలామ్భోరుహాభమ్ ।
తత్రాపీశః శ్రవణపులినే గాఢరాగానుబన్ధ-
ప్రోద్యద్భక్తిప్రగుణితమదః కర్త్తుమర్హత్యగర్హమ్ ॥ ౩౦॥
అథవాఽమృతబిన్దువర్షిణీన్దుద్యుతిరానన్దమమన్దమర్పయన్తీ ।
నయతి ధ్రువమార్ద్రతామియం గీర్గిరిజాజీవితనాథమిన్దుకాన్తమ్ ॥ ౩౧॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``స్తుతిప్రస్తావనా'' నామకం ప్రథమం స్తోత్రం సమ్పూర్ణమ్ ।
౨. నమస్కారాత్మకం ద్వితీయం స్తోత్రమ్
ఓం నమః పరమార్థైకరూపాయ పరమాత్మనే ।
స్వేచ్ఛావభాసితాఽసత్యభేదభిన్నాయ శమ్భవే ॥ ౧॥
నమః శివాయ నిఃశేషక్లేశప్రశమశాలినే ।
త్రిగుణగ్రన్థిదుర్భేదభవభేదవిభేదినే ॥ ౨॥
నమః సమస్తగీర్వాణకిరీటఘటితాఙ్ఘ్రయే ।
జగన్నగరనిర్మ్మాణనర్మశర్మదకర్మ్మణే ॥ ౩॥
నమస్తమస్వతీకాన్తఖణ్డమణ్డితమౌలయే ।
తాపాన్ధకారనిర్వేదఖేదవిచ్ఛేదవేదినే ॥ ౪॥
నమః సమస్తసఙ్కల్పకల్పనాకల్పశాఖినే ।
వికాసికలికాకాన్తకలాపాయ స్వయమ్భువే ॥ ౫॥
నమస్తమఃపరాభూతభూతవర్గానుకమ్పినే ।
శ్వేతభానుబృహద్భానుభానుభాసితచక్షుషే ॥ ౬॥
నమః శమనహుఙ్కారకతరాఽఽతురహర్షిణే ।
భవాయ భవదావాగ్నివివిగ్నాఽమృతవర్షిణే ॥ ౭॥
నమః సమదకన్దర్పదర్పజ్వరభరచ్ఛిదే ।
దుర్వారభవరుగ్భఙ్గభిషజే వృషలక్ష్మణే ॥ ౮॥
నమో జన్మజరామృత్యుభీతిసాతఙ్కపాలినే ।
కరుణామృతసమ్పర్కపేశలాయ కపాలినే ॥ ౯॥
నమో నిసర్గనిర్విఘ్నప్రసాదామృతసిన్ధవే ।
సంసారమరుసన్తాపతాపితాపన్నబన్ధవే ॥ ౧౦॥
నమః సాన్ద్రాఽమృతస్యన్దిఘనధ్వనితశోభినే ।
మహాకాలాయ భీష్మోష్మభవగ్రీష్మక్లమచ్ఛిదే ॥ ౧౧॥
నమో వాఙ్మనసాతీతమహిమ్నే పరమేష్ఠినే ।
త్రిగుణాష్టగుణాఽనన్తగుణనిర్గుణమూర్త్తయే ॥ ౧౨॥
హంసాయ దీర్ఘదోషాన్తకారిణేఽమ్బరచారిణే ।
స్వమహోమహిమధ్వస్తసమస్తతమసే నమః ॥ ౧౩॥
యః సువర్ణేన చన్ద్రేణ గాఙ్గేయేనాగ్నిజన్మనా ।
కాఞ్చనేనశ్రియం ధత్తే తస్మై స్మరజితే నమః ॥ ౧౪॥
నిజాఙ్గభఙ్గభఙ్గ్యాపి భక్తానుగ్రహకారిణే ।
నమః స్తమ్భితజమ్భారిభుజస్తమ్భాయ శమ్భవే ॥ ౧౫॥
నిఃసామాన్యాయ మాన్యాయ న్యాయమార్గోపదేశినే ।
మూర్ధన్యాయ వదాన్యాయ ధన్యాయ స్వామినే నమః ॥ ౧౬॥
నమః సంహృతకాలాయ కాలాయసగలత్విషే ।
గఙ్గాధౌతకలాపాయ కలాపాయమవిన్దతే ॥ ౧౭॥
జిష్ణునా జిష్ణునా లోకాన్ విష్ణునా ప్రభవిష్ణునా ।
బ్రహ్మణా బ్రహ్మణాద్యేన స్తుతాయ స్వామినే నమః ॥ ౧౮॥
కులశైలదలం పూర్ణసువర్ణగిరికర్ణికమ్ ।
నమోఽధితిష్ఠతేఽనన్తనాలం కమలవిష్టరమ్ ॥ ౧౯॥
నిమిత్తమన్తరేణాపి యః సపఙ్కజనాభయే ।
ప్రవర్తతే విభుస్తస్మై నమః పఙ్కజనాభయే ॥ ౨౦॥
నమః సోమార్ధదేహాయ సోమార్ధకృతమౌలయే ।
శ్వేతాభయసముద్భూతశ్వేతాభయశసే నమః ॥ ౨౧॥
వినతానన్దనం నాగవిగ్రహోగ్రముఖం దృశా ।
వినాయకముపాసీనం భజతే స్వామినే నమః ॥ ౨౨॥
నమో బ్రహ్మహరిత్ర్యక్షశ్రవసే భవసేతవే ।
జగత్సర్గస్థితిహ్రాసహేతవే వృషకేతవే ॥ ౨౩॥
కర్ణికాదిష్వివ స్వర్ణమర్ణవాదిష్వివోదకమ్ ।
భేదిష్వభేది యత్తస్మై పరస్మై మహసే నమః ॥ ౨౪॥
యమేకమేవ శ్రయతో న జాయతే
స్పృహా పరస్మై మహతేఽపి నాకినే ।
నమః సమస్తాపదుపేతపాలన-
వ్రతాయ తస్మై విభవే పినాకినే ॥ ౨౫॥
విధౌ జగత్సర్గవిధౌ యదాహితం
ప్రతిష్ఠితం యత్స్థితికారణే విధౌ ।
సమూఢమూఢార్ధవిధౌ లయే చ యత్
పరాయ తస్మై మహసే నమో నమః ॥ ౨౬॥
నమః సముత్పాదితతారకద్విషే
నమస్త్రిధామాశ్రితతారకత్విషే ।
నమో జగత్తారకపుణ్యకర్మ్మణే
నమో నమస్తారకరాజమౌలయే ॥ ౨౭॥
నమో నమస్తేఽమృతభానుమౌలయే
నమో నమస్తేఽమృతసిద్ధిదాయినే ।
నమో నమస్తేఽమృతకుమ్భపాణయే
నమో నమస్తేఽమృతభైరవాత్మనే ॥ ౨౮॥
నమస్తమఃపారపరార్ధ్యవృత్తయే
నమః సమస్తాధ్వవిభక్తశక్తయే ।
నమః క్రమవ్యస్తసమస్తమూర్త్తయే
నమః శమస్థార్పితభక్తిముక్తయే ॥ ౨౯॥
విజయజయప్రదాయ శబరాయ వరాయ నమః
సకలకలఙ్కసఙ్కరహరాయ హరాయ నమః ।
జగదగదప్రగల్భవిభవాయ భవాయ నమః
ప్రవరవరప్రకాశితశివాయ శివాయ నమః ॥ ౩౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీజగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``నమస్కారాత్మకం'' నామకం ద్వితీయం స్తోత్రం సమ్పూర్ణమ్ ।
౩. ఆశీర్వాదాఖ్యం తృతీయం స్తోత్రమ్
నిత్యం నిరావృతి నిజానుభవైకమాన-
మానన్దధామ జగదఙ్కురబీజమేకమ్ ।
దిగ్దేశకాలకలనాదిసమస్తహస్త-
మర్దాసహం దిశతు శర్మ మహన్మహో నః ॥ ౧॥
వ్యోమ్నీవ నీరదభరః సరసీవ వీచి-
వ్యూహః సహస్రమహసీవ సుధాంశుధామ ।
యస్మిన్నిదం జగదుదేతి చ లీయతే చ
తచ్ఛామ్భవం భవతు వైభవమృద్ధయే నః ॥ ౨॥
లోకత్రయస్థితిలయోదయకేలికారః
కార్య్యేణ యో హరిహరద్రుహిణత్వమేతి ।
దేవః స విశ్వజనవాఙ్మనసాతివృత్త-
శక్తిః శివం దిశతు శశ్వదనశ్వరం వః ॥ ౩॥
సర్వః కిలాయమవశః పురుషాణుకర్మ-
కాలాదికారణగణో యదనుగ్రహేణ ।
విశ్వప్రపఞ్చరచనాచతురత్వమేతి
స త్రాయతాం త్రిభువనైకమహేశ్వరో వః ॥ ౪॥
ఏకస్య యస్య సకలః కరణానపేక్ష-
జ్ఞానక్రియస్య పురతః స్ఫురతి ప్రపఞ్చః ।
పశ్యఞ్జగత్ కరతలాఽమలకీఫలాభం
లాభం స పుష్యతు పరం పరమేశ్వరో వః ॥ ౫॥
యః కన్దుకైరివ పురన్దరపద్మసద్మ-
పద్మాపతిప్రభృతిభిః ప్రభురప్రమేయః ।
ఖేలత్యలఙ్ఘ్యమహిమా స హిమాద్రికన్యా-
కాన్తః కృతాన్తదలనో లఘయత్వఘం వః ॥ ౬॥
సేవానమన్నిఖిలఖేచరమౌలిరత్న-
రశ్మిచ్ఛటాపటలపాటలపాదపీఠః ।
పుష్ణాతు ధామ కపిశీకృతశైలశృఙ్గ-
త్వఙ్గన్మృగాఙ్కమధురాకృతిరీశ్వరో వః ॥ ౭॥
అఙ్గం భుజఙ్గరచితాఙ్గదభఙ్గి తుఙ్గం
త్వఙ్గత్తరఙ్గ గగనాఙ్గనసఙ్గి గఙ్గమ్ ।
బిభ్రద్విభుర్విహితరఙ్గదనఙ్గభఙ్గ-
మఙ్గీకరోత్వరమభఙ్గురమిఙ్గితం వః ॥ ౮॥
యః కుణ్డమణ్డలకమణ్డలుమన్త్రముద్రా-
ధ్యానార్చనస్తుతిజపాద్యుపదేశయుక్త్యా ।
భోగాపవర్గదమనుగ్రహమానతానాం
వ్యానఞ్జ రఞ్జయతు స త్రిజగద్గురుర్వః ॥ ౯॥
శమ్భోరదభ్రశరదభ్రతుషారశుభ్రం
భ్రాజిష్ణుభూతిభరశీభరభాస్వరాభమ్ ।
దిశ్యాద్వపుర్భసలనీలగలం కలఙ్కా-
లఙ్కారశారదశశాఙ్కనిభం శుభం వః ॥ ౧౦॥
యేనోపదిష్టమనపాయముపాయమాప్య
స్వర్గాపవర్గవిభవైర్విభవో భవన్తి ।
దేవః స వః సకలకర్మఫలోపలమ్భ-
విస్రమ్భభూమిరభివాఞ్ఛితసిద్ధయేఽస్తు ॥ ౧౧॥
మూలోజ్ఝితేన కలికాకలితేన తాప-
శాన్తిక్షమేణ నమతామవిపల్లవేన ।
సద్యఃఫలేన సుమనోభిరుపాసితేన
స్థాణుః శ్రియేఽస్తు భవతాం వపుషాఽద్భుతేన ॥ ౧౨॥
దివ్యాపగాప్లవనపావకసేవనాభ్యాం
విభ్రత్తనుం శుచిమపేతకలఙ్కశఙ్కామ్ ।
దోషానుషఙ్గరహితస్తిమిరోష్మశాన్త్యై
భూయాద్ద్విజాధిపతిరీశ్వరవన్దితో వః ॥ ౧౩॥
దానామ్బునిర్భరకరస్తనయః స యస్య
శ్రీమాన్ స యస్య ధనదః సవిధే విధేయః ।
యః సంశ్రితః శిరసి ముక్తకరేణ రాజ్ఞా
పుష్ణాతు వః కనకవర్షఘనః స దేవః ॥ ౧౪॥
నిర్మత్సరౌ నివసతః సమమర్కచన్ద్రౌ
నీరానలావమృతహాలహలౌ చ యత్ర ।
రాజ్ఞా నవేన తదధిష్ఠితముజ్జ్వలేన
శార్వం వపుర్భవతు వాఞ్ఛితసిద్ధయే వః ॥ ౧౫॥
వక్తా చ యః సుఖయితా చ విభుః శ్రుతీనాం
వక్షః కరం చ వహతే కమలాఙ్కితం యః ।
యో మూర్ధ్ని వర్ష్మణి చ హైమవతీం బిభర్తి
త్రైధం భవన్ భవతు వః స శివః శివాయ ॥ ౧౬॥
తాపత్రయాఽపహృతయే త్రిశిఖం త్రివర్గ-
సిద్ధ్యై త్రిధామలయనం నయనత్రయం చ ।
త్రిఃస్రోతసోఽపి సలిలం త్రిమలాపనుత్యై
భూయాత్త్రిలోకమహితం త్రిపురద్విషో వః ॥ ౧౭॥
యద్దర్శనాఽమృతసుఖానుభవేన ధన్యా
నేత్రోత్పలాని చిరమర్ధనిమీలితాని ।
దృఙ్మార్గగోచరరవీన్దుకరప్రసఙ్గ-
భఙ్గ్యేవ బిభ్రతి శివః శివదః స వోఽస్తు ॥ ౧౮॥
కాలం దృశైవ శమయన్ సఫలప్రయాసం
యః శ్వేతముత్తమచమత్కృతికృచ్చకార ।
శ్వేతం యశః ప్రశమయన్నసతాం సతాం చ
కాలం కృతార్థయతి యః స శివోఽవతాద్వః ॥ ౧౯॥
బభ్రుర్బిభర్త్యలికపావకసౌహృదం యో
యత్రాహిరేతి శిఖినా సహ సామరస్యమ్ ।
జూటః స వః సమమరాతిభిరప్యమర్ష-
ముక్తాం స్థితిం ప్రథయతు ప్రమథాధిపస్య ॥ ౨౦॥
అవ్యాత్స వః శిరసి యస్య విలోచనాగ్ని-
జ్వాలావలీఢసురసిన్ధుజలోపగూఢః ।
అద్యాపి వాడవశిఖాపరిణద్ధముగ్ధ-
దుగ్ధాబ్ధిమధ్యగ ఇవ శ్రియమేతి చన్ద్రః ॥ ౨౧॥
అవ్యాత్స వః సుకృతినామలికేషు ధూలీ-
పట్టీకృతేషు పదరేణుభరేణ యస్య ।
ధాతాక్షరాణి లిఖతి క్షితిపాలమౌలి-
మాలార్చితాఙ్ఘ్రికమలో భవితా భువీతి ॥ ౨౨॥
శైవీ శివం దిశతు శీతమరీచిలేఖా
జూటాహిరత్నకిరణచ్ఛురణారుణా వః ।
దేవీ నవీననఖలక్ష్మధియా పిధత్తే
యత్సఙ్క్రమం కుచతటే పటపల్లవేన ॥ ౨౩॥
దేవ్యాస్తదస్తు కుచచూచుకమిన్దుమౌలి-
దేహార్ధబద్ధవసతేరమృతాప్తయే వః ।
అభ్యేతి యన్మదనపూజ్యసువర్ణపీఠ-
పృష్ఠప్రతిష్ఠితహరిన్మణిలిఙ్గభఙ్గిమ్ ॥ ౨౪॥
యాః క్షీరసిన్ధులహరీవృతమన్దరాద్రి-
ముద్రామనఙ్గదమనస్య నయన్తి జూటమ్ ।
ద్విర్భావితావిరలసిద్ధసరిత్తరఙ్గా-
స్తా లఙ్ఘయన్త్వఘమఘర్మరుచో రుచో వః ॥ ౨౫॥
లోకత్రయాఽభ్యుదయజన్మమహీ మహీయః
స్థానాధిరోహణవిధావధిరోహిణీ యా ।
సా చన్ద్రచూడముకుటధ్వజవైజయన్తీ
జహ్నోరనిహ్నుతనయా తనయాఽవతాద్వః ॥ ౨౬॥
భాలాగ్నికీలకలితాఖిలరన్ధ్రభాగం
భర్గస్య వో దిశతు శర్మ శిరఃకపాలమ్ ।
యత్కాలవహ్నివపుషః పచతః ప్రభూత-
భూతవ్రజం వ్రజతి తస్య మహానసత్వమ్ ॥ ౨౭॥
చాన్ద్రం చ ధామ సురనిర్ఝరిణీ జలం చ
హస్తస్థహేమకలశాఽమృతజీవనం చ ।
స్నిగ్ధం చ దృగ్విలసితం హసితం సితం చ
యుష్మాకమూష్మశమనాయ భవన్తు శమ్భోః ॥ ౨౮॥
మూర్ధ్ని ద్యుసిన్ధుధవలే ధవలేన్దులేఖా
కైలాసశైలశిఖరే ధవలశ్చ వాహః ।
నీహారహారిణి వపుష్యపి భూతిరేషా
పుష్ణాతు వః సదృశసఙ్ఘటనా శివస్య ॥ ౨౯॥
ఉత్తప్తహేమరుచి చన్ద్రకలా కలాపే
బాలప్రవాలరుచిరే చ కరే కపాలమ్ ।
తామ్రేఽధరే చ హసితం సితమద్భుతేయం
విచ్ఛిత్తిరిన్దుశిరసః కుశలం క్రియాద్వః ॥ ౩౦॥
శ్రేయః ప్రయచ్ఛతు పరం సువిశుద్ధవర్ణా
పూర్ణాభిలాషవిబుధాధిపవన్దనీయా ।
పుణ్యా కవిప్రవరవాగివ బాలచన్ద్ర-
చూడామణేశ్చరణరేణుకణావలీ వః ॥ ౩౧॥
హారీకృతోల్బణఫణీన్ద్రఫణేన్ద్రనీల-
నీలచ్ఛవిచ్ఛురణశారమురఃస్థలం వః ।
పుష్ణాతు నిహ్ను తనగేన్ద్రసుతాకుచాగ్ర-
కస్తూరికామకరికాకిణమిన్దుమౌలేః ॥ ౩౨॥
యుష్మాకమస్తు నవనీలసరోజదామ-
శ్యామద్యుతిః సుమతయే శితికణ్ఠకణ్ఠః ।
యః కేతకీధవలవాసుకిభోగయోగా-
ద్నాఙ్గౌఘభిన్నగగనాఙ్గనభఙ్గిమేతి ॥ ౩౩॥
క్షీరార్ణవస్య చరణాబ్జతలే నివాస-
మాసేదుషస్తనయమప్రతిమప్రసాదః ।
యో మూర్ధ్ని లాలయతి బాలమసౌ దయాబ్ధి-
ర్దేవస్తనోతు ముదమాశ్రితవల్లభో వః ॥ ౩౪॥
యా రాజహంసశిఖిసమ్భృతకాన్తిరేతి
సద్యస్తిరోహితఘనావరణా ప్రసాదమ్ ।
సా ప్రావృడన్తశరదాదిదినేష్వివ ద్యౌః
శమ్భోరభీష్టఫలపాకకృదస్తు దృగ్వః ॥ ౩౫॥
అన్తర్ధృతాహిమకరజ్వలనోదితేన్దుః
స్వఃసిన్ధుసఙ్గసుభగా పరమేశ్వరస్య ।
ఔదన్వతీవ తనురస్తు గజాశ్వరత్న-
శ్రీలాభకృత్సుమనసామమృతాయ దృగ్వః ॥ ౩౬॥
యత్రాగ్నిరీప్సతి కణం న వివృత్య జిహ్వాం
నైతి ప్రతిక్షపమపేతవసుస్తమర్కః ।
క్షీణస్తమిన్దురపి న శ్రయతి శ్రియేఽస్తు
శ్రీధామ తత్పురరిపోర్నయనత్రయం వః ॥ ౩౭॥
అర్కస్య నోదగయనం శిశిరేఽపి యత్ర
శీతత్విషో న బహులేఽపి కలాపలాపః ।
క్షామం చ ధామ న వహత్యపి వహ్నిరహ్ని
తత్త్రాయతాం పురరిపోర్నయనత్రయం వః ॥ ౩౮॥
యామాశ్రితోఽమ్బరమణీ రమణీయధామా
కామాన్తకావనలసాఽనలసాద్వ్యధాద్యా ।
యాపీన్దుసమ్భవసుధావసుధా దృశస్తాః
శర్వస్య వః శివపుషో వపుషో భవన్తు ॥ ౩౯॥
పుష్ణాతు వః ప్రథమసఙ్గమభీరుగౌరీ-
విస్రమ్భణప్రణయభఙ్గభయాకులస్య ।
తత్కాలకార్యకరదర్పకదేహదాహ-
జాతానుతాపమురగాభరణస్య చేతః ॥ ౪౦॥
జూటే కపాలశకలాని కలానిధిశ్చ
హస్తే సుధామ్బు సరలం గరలం గలే చ ।
శక్రాదిభిశ్చ నమనం గమనం గవా చ
యస్యాస్తు దుర్గతిహరః స హరః సదా వః ॥ ౪౧॥
యస్య క్షితిః శిరసి సౌమనసీవ శేషా
శేషాహిరఙ్గదపదే స చకాస్తి యస్య ।
తస్య ప్రభోరమృతనిర్ఝరనిర్విశేషా-
శేషాణి హన్తు దురితాని సరస్వతీ వః ॥ ౪౨॥
శ్రీమానకల్పత న కల్పతరుర్యదాప్త్యై
తృష్ణా రసాయనరసాయ న యం సమేత్య ।
లభ్యో న యో గహనయోగహవైః స వోఽఘ-
మప్రాకృతో హరకృతో హరతు ప్రసాదః ॥ ౪౩॥
ముక్తిర్హి నామ పరమః పురుషార్థ ఏక-
స్తామన్తరాయమవయన్తి యదన్తరజ్ఞాః ।
కిం భూయసా భవతు సైవ సుధామయూఖ-
లేఖాశిఖాభరణభక్తిరభఙ్గురా వః ॥ ౪౪॥
స యత్ర గుహబర్హిణో భవభుజఙ్గజిహ్వాఞ్చనై-
ర్గజాస్యకరకర్షణైః స చ గిరీన్ద్రకన్యాహరిః ।
స చార్కసుతసైరిభో రవితురఙ్గహేషారవై-
ర్ముదం దధతి ధామ తద్దిశతు శామ్భవం ధామ వః ॥ ౪౫॥
యస్మిఞ్జాతస్త్రిభువనజయీ భగ్నకామః స కామో
యస్మింల్లేభే శలభలఘుతాం ప్రాప్తకాలః స కాలః ।
యస్యౌఘో న ప్రభవతి మహోనిహ్నవే జాహ్నవీయః
శ్రేయః ప్రేయః ప్రథయతు స వః శామ్భవో దృక్త్రిభాగః ॥ ౪౬॥
యః క్రోధాగ్నేః సమిధమకరోద్దర్పకం దర్పకన్ద-
చ్ఛేదాభిజ్ఞం వ్యధిత జగతాం యః కృతాన్తం కృతాన్తమ్ ।
నేతుం యశ్చ ప్రభవతి మతిహ్రాసమస్తం సమస్తం
నిష్ప్రత్యూహం ప్రథయతు పథి త్రాసదే వః స దేవః ॥ ౪౭॥
పాయాద్వస్త్రిజగద్గురుః స్మరహరః సోపగ్రహాణాం శిరః
శ్యామాకాముకమత్సరేణ చరణౌ పఙ్క్తిర్గ్రహాణామివ ।
యస్య ప్రహ్వసురాసురేశ్వరశిరోమన్దారమాలాగల-
త్కిఞ్జల్కోత్కరపిఞ్జరోన్ముఖనఖశ్రేణీనిభేనాశ్రితా ॥ ౪౮॥
అర్కేన్దుభౌమబుధవాక్పతికావ్యమన్దా
మన్దారకున్దకుముదైర్యముదర్చయన్తి ।
తస్య ప్రభోరఘమలోష్మశమాదమన్దా
మన్దాకినీవ ముదమర్పయతు స్తుతిర్వః ॥ ౪౯॥
భస్మోద్ధూలితమూర్తిరిన్దుధవలజ్యోతీరసోర్వీధర-
స్కన్ధాసక్తతుషారగౌరవృషభారూఢోఽస్తు భద్రాయ వః ।
దేవో దుగ్ధమహాబ్ధిమధ్యవికసత్సత్పుణ్డరీకోపరి-
క్రీడద్బాలమరాలనిర్మలరుచిః కాత్యాయనీకాముకః ॥ ౫౦॥
త్రాతా భీతిభృతాం పతిశ్చిదచితాం క్లేశం సతాం శంసతాం
హన్తా భక్తిమతాం మతాం స్వసమతాం కర్తాఽపకర్తాఽసతామ్ ।
దేవః సేవకభుక్తిముక్తిఘటనాభూర్భూర్భువఃస్వస్త్రయీ-
నిర్మ్మాణస్థితిసంహతిప్రకటితక్రీడో మృడః పాతు వః ॥ ౫౧॥
కృష్ణేన త్రిజగత్ప్రసిద్ధవిజయప్రఖ్యాతినా లోచనం
భక్త్యా వాసవసూనునా కృతవతా పాదాబ్జపూజావిధౌ ।
యస్మాదాప్తసుదర్శనేన నిఖిలం విశ్వం విధేయీకృతం
కృష్ణేనేవ స ధూర్జటిర్ఘటయతు శ్రేయాంసి భూయాంసి నః ॥ ౫౨॥
శ్రీకణ్ఠస్య సకృత్తికార్తభరణీ మూర్తిః సదారోహిణీ
జ్యేష్ఠా భద్రపదా పునర్వసుయుతా చిత్రా విశాఖాన్వితా ।
దిశ్యాదక్షతహస్తమూలఘటితాషాఢా మఘాలఙ్కృతా
శ్రేయో వైశ్రవణాశ్రితా భగవతో నక్షత్రపాలీవ వః ॥ ౫౩॥
భిన్ద్ధి క్ష్మాధరసన్ధిబన్ధముదధేరమ్భోభరం జృమ్భయ
క్షున్ద్ధి క్ష్మాపటలం దలత్ఫణిఫణాపీఠీలుఠత్సౌష్ఠవమ్ ।
పిణ్డ్ఢి ప్రౌఢచపేటపాటితరటత్తారాకుటుమ్బం నభః
ప్రారబ్ధోద్ధతసాన్ధ్యతాణ్డవ ఇతి శ్రీభైరవః పాతు వః ॥ ౫౪॥
భూత్యై వోఽస్తు విడమ్బితస్మితరుతం మూర్ధ్నోధృతస్వర్ధునీ-
నిధ్వానధ్వనదాననైరభినయే భూషాకపాలైః ప్రభోః ।
త్వఙ్గత్తుమ్బురునారదాహతనదద్గమ్భీరభేరీరవ-
వ్యావల్గద్గుహవాహబర్హివిహితక్రీడానుసారం వపుః ॥ ౫౫॥
ఆదౌ పాదతలే కృతస్థితిరథో(అథ)ప్రాప్తః కరాలమ్బనం
వాల్లభ్యం శుభదృఙ్నివేశనవశోత్పన్నం ప్రపన్నస్తతః ।
అన్తే యేన శిరోధిరోపణమహామాహాత్మ్యమాప్తో విధు-
ర్భూత్యై స క్రమవర్ద్ధమానమహిమా స్వామిప్రసాదోఽస్తు వః ॥ ౫౬॥
యస్యైకస్య సువర్ణసమ్భృతపదన్యాసానవద్యక్రమ-
వ్యక్తిః ప్రేఙ్ఖతి గౌరనర్గలగతిస్వాచ్ఛన్ద్యహృద్యాకృతిః ।
ప్రఖ్యాతాద్భుతసర్గబన్ధరచనాసంరబ్ధిరోజస్వినః
కావ్యస్యోదయభూరసౌ భవతు వః ప్రీత్యై పురాణః కవి ॥ ౫౭॥
రాకేన్దోరపి సున్దరాణి హృదయగ్రాహీణి బాలాఙ్గనా-
ముగ్ధాలాపకథామృతాదపి పరం హారీణి హారాదపి ।
అప్యుత్తాలశిఖాలబాలవచసః సమ్పూర్ణకర్ణామృత-
స్యన్దీని త్రిజగద్గురోః స్తుతికథాసూక్తాని పుష్ణన్తు వః ॥ ౫౮॥
శాణోల్లీఢనవేన్ద్రనీలమహసి శ్రీకణ్ఠకణ్ఠస్థలే
సంసక్తా కనకచ్ఛవిర్గిరిసుతాదోఃకన్దలీ పాతు వః ।
యామాలోక్య సనీరనీరదదలశ్లిష్యత్తడిద్విభ్రమ-
భ్రాన్త్యా నోజ్ఝతి చణ్డతాణ్డవనవోల్లేఖం శిఖీ షాణ్ముఖః ॥ ౫౯॥
యత్సర్గాభరణాయమానవపుషః కేచిత్కకుప్కామినీ-
కర్ణాలఙ్కరణాయమానయశసః స్వర్గాయమాణశ్రియః ।
దుష్కాలానలసన్నసజ్జనసుధావర్షాయమాణోక్తయః
ప్రేక్ష్యన్తే మహిమా స యస్య కురుతాం శార్వః స్తవః శం స వః ॥ ౬౦॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``ఆశీర్వాదాఖ్యం'' నామకం తృతీయం స్తోత్రం సమ్పూర్ణమ్ ।
౪. మఙ్గలాష్టకం చతుర్థం స్తోత్రమ్
శ్రీకమ్బుకౌస్తుభసుధాంశువిషామృతానాం
సౌదర్యసౌహృదసుఖానుభవైకధామ ।
యత్సత్యధర్మకృతనిష్ప్రతిఘప్రతిష్ఠం
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౧॥
ఆపీడబన్ధనవిధౌ శయనే చ వర్ష్మ
పర్యాప్తభోగవిభవం బహుమన్యమానః ।
యత్ర ప్రహృష్యతితరామురగాధిరాజ-
స్తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౨॥
అర్ధం యదుత్పలదలైరుమయేన్దుగౌర-
మర్ధం శ్రియార్చితమలిద్యుతి మాలతీభిః ।
విచ్ఛిత్తిమేత్యనిమిషేక్షణశుక్తిపేయాం
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౩॥
కేశాశ్రితా నయనవహ్నిశిఖాభ్రసిన్ధు-
ఝాఙ్కారగర్భవపుషో జలదా వహన్తి ।
యత్రాద్భుతం స్థిరతడిద్రసితప్రసఙ్గం
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౪॥
హీనార్ధనాభినలినాలయసఙ్కటత్వ-
సాతఙ్కసఙ్కుచితవృత్తికదర్థితాఙ్గః ।
అర్ధీచికీర్షతి తనుం ద్రుహిణోఽపి యత్ర
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౫॥
దృగ్వర్తినౌ రవితమీరమణావఖణ్డ-
మూర్తీ నిజం చ వపురర్ధమవేత్య వహ్నిః ।
యత్రాధికం జ్వలతి లాఘవమాగతోపి
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౬॥
యస్మిన్ గుణీ సహృదయః సఫలః సమూలః
స్వాతన్త్ర్యధామని కరాత్ పతితః స పద్మః ।
కమ్బుః స్థితస్తు ధృతతద్విపరీతరీతి-
స్తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౭॥
పాదాగ్రనిర్గతమవారితమేవ వారి
యత్రాధిరోహతి శిరస్త్రిదశాపగాయాః ।
అత్యద్భుతం చ రుచిరం చ నిరఙ్కుశఞ్చ
తన్మఙ్గలం దిశతు హారిహరం వపుర్వః ॥ ౮॥
ఇతి కాశ్మీరకమహాకవిశ్రీజగద్ధరవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``మఙ్గలాష్టకం'' నామ చతుర్థం స్తోత్రం సమ్పూర్ణమ్ ।
౫. కవికావ్యప్రశంసాఖ్యం పఞ్చమం స్తోత్రమ్
ఆపన్నతాపహరణప్రవణా ఘృణేవ
త్వఙ్గత్తరఙ్గసుభగా గగనాపగేవ ।
పీయూషసారశిశిరా శశభృత్కలేవ
వాణీ శివైకశరణా జయతీశ్వరీవ ॥ ౧॥
యో మూర్ధని స్రజమివోద్వహతే ధరిత్రీ-
ముష్ణీషతాం శ్రయతి యస్య స భోగిరాజః ।
యస్యామసౌ వసతి వాక్పతిరుక్తిదేవీం
తాం యే వహన్తి హృది తే కవయో జయన్తి ॥ ౨॥
ధన్యాః శుచీని సురభీణి గుణోమ్భితాని
వాగ్వీరుధః స్వవదనోపవనోద్గతాయాః ।
ఉచ్చిత్య సూక్తికుసుమాని సతాం
వివిక్తవర్ణాని కర్ణపులినేష్వవతంసయన్తి ॥ ౩॥
శ్రోత్రాణ్యనర్గలగలన్మధుబిన్దుగర్భ-
సన్దర్భసున్దరపదోపచితైర్వచోభిః ।
ధన్యాః సతాం సుకవయః సుఖయన్తి తేఽపి
తేషామకృత్రిమచమత్కృతిసాధువాదైః ॥ ౪॥
తే కేచిదస్ఖలితబన్ధనవప్రబన్ధ-
సన్ధానబన్ధురగిరః కవయో జయన్తి ।
యేషామచర్వితరసాపి చమత్కరోతి
కర్ణే కృతైవ భణితిర్మధురా సుధేవ ॥ ౫॥
తేఽనన్తవాఙ్మయమహార్ణవదృష్టపారాః
సాంయాత్రికా ఇవ మహాకవయో జయన్తి ।
యత్సూక్తిపేలవలవఙ్గలవైరవైమి
సన్తః సదఃసు వదనాన్యధివాసయన్తి ॥ ౬॥
జిహ్వాగ్రరఙ్గభువి సత్కవితుర్విలాస-
లాస్యోత్సవవ్యసనినీ స్వయముక్తిదేవీ ।
భ్రూకాణ్డకుణ్డలకిరీటశిరోధరాణాం
నృత్తోపదేశగురుతాం కృతినాముపైతి ॥ ౭॥
ఆవర్జయన్తి మఠరాఞ్జఠరార్థమాత్ర-
పాత్రీకృతార్థకణికా గణికావిటాద్యాః ।
ప్రౌఢాన్ పునర్భుజగభూషణభక్తిసిక్త-
సూక్తావలీవిరచనాచతురాః కవీన్ద్రాః ॥ ౮॥
ధన్యః స కోఽపి సుకవిః కవికర్మకృత్త-
లోకార్తి కార్తికతుషారకరానుకారి ।
గాయన్తి యస్య కృతినస్త్రిజగత్పవిత్రం
చిత్రం చరిత్రమివ బాలమృగాఙ్కమౌలేః ॥ ౯॥
త్రైలోక్యభూషణమణిర్గుణివర్గబన్ధు-
రేకశ్చకాస్తి సవితా కవితా ద్వితీయః ।
శంసన్తి యస్య మహిమాతిశయం శిరోభిః
పాదగ్రహం విదధతః పృథివీభృతోఽపి ॥ ౧౦॥
యస్య స్రవన్త్యమృతమేవ ముఖే తుషార-
హారాభిరామరుచిరఞ్చితవక్రభఙ్గిః ।
సూక్తిర్ద్యుసిన్ధురివ మూర్ధ్ని హరస్య చన్ద్ర-
లేఖేవ వా వసతి తం సుకవిం నమామః ॥ ౧౧॥
యాతా గుణైరుపచయం విమలా ప్రకృత్యా
నైసర్గికీం పరిణతిం ప్రథమాం వహన్తీ ।
బుద్ధిః సతాం శశికలాముకుటప్రసాదా-
ద్వాణీ చ న క్వచిదపి ప్రతిఘాతమేతి ॥ ౧౨॥
చన్ద్రావచూడచరణస్మరణప్రసాద-
సన్దర్భనిర్భరగభీరగిరాం కవీనామ్ ।
సూక్తిర్బిభర్తి ముఖపఙ్కజరఙ్గనృత్య-
ద్వాగ్దేవతాకనకనూపురనాదలీలామ్ ॥ ౧౩॥
కావ్యం విభావ్య నిజమర్ధనిమీలితాని
నైసర్గికం జహతి చాపలమీక్షణాని ।
గృహ్ణన్తి తన్మసృణతాం సహజాం విహాయ
భ్రూవల్లయస్తు కృతినాం కవిపుఙ్గవానామ్ ॥ ౧౪॥
నీహారహారధవలస్య జయత్యపూర్వః
పాకః స కోఽపి సుకృతస్య కృతస్య పూర్వమ్ ।
యః సమ్ప్రతి ప్రతిఫలత్యమలాసు బాల-
చన్ద్రావచూలనుతిసూక్తిషు సత్కవీనామ్ ॥ ౧౫॥
సూక్ష్మార్థదర్శనవిమర్శవశప్రరూఢ-
భ్రూకాణ్డతాణ్డవనివేదితచిద్వికాసమ్ ।
ఆస్వాద్య యత్సుమతయో ముఖముద్వహన్తి
సూక్తామృతం జయతి తత్కవికుఞ్జరాణామ్ ॥ ౧౬॥
శబ్దార్థమాత్రమపి యే న విదన్తి తేఽపి
యాం మూర్ఛనామివ మృగాః శ్రవణైః పిబన్తః ।
సంరుద్ధసర్వకరణప్రసరా భవన్తి
చిత్రస్థితా ఇవ కవీన్ద్రగిరం నుమస్తామ్ ॥ ౧౭॥
లభ్యః స కుత్ర సుజనః స్వకృతీః ప్రదర్శ్య
భ్రూకన్దలీయుగలమాకలయన్తి యస్య ।
నేత్రోత్పలోపరిపరిస్ఫురదుత్తరఙ్గ-
భృఙ్గావలిద్వితయవిభ్రమభృత్ కవీన్ద్రాః ॥ ౧౮॥
స్ఫారేణ సౌరభభరేణ కిమేణనాభే-
స్తద్ఘానసారమపి సారమసారమేవ ।
స్రక్సౌమనస్యపి న పుష్యతి సౌమనస్యం
ప్రస్యన్దతే యది మధుద్రవముక్తిదేవీ ॥ ౧౯॥
సంసారమారవపథప్రథమానఖేద-
విచ్ఛేదకోవిదమిదం కవికర్మ్మ జీయాత్ ।
విస్మారితం యదమునా యమునాసనాథం
పాథః ప్రసిద్ధమపి వైబుధసైన్ధవం నః ॥ ౨౦॥
గామ్భీర్యశాలిని శుచావమృతౌఘశీతే
నీతే సదా సదనతాం మదనాన్తకేన ।
యస్యైకపిఙ్గలగిరేరివ మానసేఽన్త-
రర్థాః స్ఫురన్తి స వినా సుకృతైః క్వ లభ్యః ॥ ౨౧॥
యస్య ద్యుసిన్ధులహరీశుచయో న కస్య
దృష్టిప్రసాదమవలోకయతోఽర్పయన్త్యః ।
గావః సుధారసముచః ప్రసరన్తి దిక్షు
విశ్వైకభూషణమసౌ జయతి ద్విజేన్ద్రః ॥ ౨౨॥
సంయోగమేత్య పరమర్థపరిష్కృతస్య
పాదాన్తగోఽపి గురుతాం లఘురేతి యస్య ।
తం శఙ్కరస్తుతిపరం పరిశుద్ధవృత్తం
సుశ్లోకమాప్య ముదమేతి న కస్య చేతః ॥ ౨౩॥
ఇహ హి మహిమా మాయామోహప్రరోహతిరోహిత-
త్రిజగదగదఙ్కారః సారస్వతః ప్రథతే సతామ్ ।
ప్రభవతి జరామృత్యువ్యాధిప్రబన్ధనిబన్ధన-
వ్యసనజనితవ్యాపత్తాపక్లమాపగమాయ యః ॥ ౨౪॥
చమత్కారోత్కర్షం కమపి కమనీయం విమృశతాం
దిశన్తీ సా కాచిజ్జయతి కవివాచాం పరిణతిః ।
యదాసృష్టే (యదాతుష్టే)చేతస్యమృతమితి నిశ్రేయసమితి
ప్రియం ధామేత్యుచ్చైః పదమితి సముద్యన్తి మతయః ॥ ౨౫॥
మధుస్యన్దీ మన్దీకృతవిపదుపాధిర్భవమరు-
భ్రమక్లేశావేశప్రశమకమనీయో విజయతే ।
అఖణ్డశ్రీఖణ్డద్రవనవసుధాసారసరసః
ప్రసాదో వాగ్దేవ్యాః ప్రవరకవికావ్యామృతవపుః ॥ ౨౬॥
ఘనానన్దస్యన్దోద్గత (స్పన్దోద్గత)విపులవాష్పార్ద్రనయనం
సలీలభ్రూవల్లీవలనవివలద్భాలపులినమ్ ।
ఉదఞ్చద్రోమాఞ్చస్తవకితకపోలం విదధతే
సుధార్ద్రా ధన్యానాం వదనమనవద్యాః కవిగిరః ॥ ౨౭॥
ధన్యానామమృతం ద్రవన్తి హృదయే కర్ణే వలన్మల్లికా-
లఙ్కారస్తవకన్తి కణ్ఠపులినే ముక్తాకలాపన్త్యపి ।
శైలాన్దోలితదుగ్ధసిన్ధులహరీభఙ్గాభిరామోద్గమా
శ్యామాకాముకఖణ్డమణ్డనకథాసన్దర్భగర్భా గిరః ॥ ౨౮॥
ధన్యానాం భణితిచ్ఛలేన వదనేషూద్యన్తి హృత్కర్ణికా-
ధామ్నః సూక్తిసుధావబోధవిధుతాపీడస్య చణ్డీపతేః ।
కిం జూటాహికిరీటరత్నరుచయః కిం స్రగ్రజఃసూచయః
కిం మౌలీన్దుమరీచయః కిమమరస్రోతస్వతీవీచయః ॥ ౨౯॥
సాన్ద్రానన్దకరే ధృతామృతకరే నాస్త్యేష రాకాకరే
న ప్రౌఢప్రసరే నిసర్గశిశిరే స్వర్గాపగానిర్ఝరే ।
గాఢప్రేమభరే స్మరజ్వరహరే నోద్దామరామాధరే
యః శమ్భోర్మధురే స్తుతివ్యతికరే హ్లాదఃసుధాసోదరే ॥ ౩౦॥
ఓజస్వీ మధురః ప్రసాదవిశదః సంస్కారశుద్ధోఽభిధా-
భక్తి వ్యక్తివిశిష్టరీతిరుచితైరర్థైర్ధృతాలఙ్కృతిః ।
వృత్తస్థః పరిపాకవానవిరసః సద్వృత్తిరప్రాకృతః
శస్యః కస్య న సత్కవిర్భువి యథా తస్యైవ సూక్తిక్రమః ॥ ౩౧॥
ప్రాప్తా కల్పలతేవ చేద్భగవతీ వాగీశ్వరీ కైరపి
ప్రాక్పుణ్యైః స్వపరోపకారకరణప్రౌఢా పునర్దుర్లభా ।
అజ్ఞైస్తజ్జ్ఞజనోపదేశవిహితావజ్ఞైర్దురాశాహతై-
రస్తా దుర్మదకర్దమే ఫలతి కిం పాపం సశాపం వినా ॥ ౩౨॥
విస్రబ్ధం విలసన్త్యుపస్కృతపదన్యాసా విలాసాలసా
సాహఙ్కారమకారణారిభిరభిధ్యాతాఽభిజాతాకృతిః ।
క్షిప్తా దృప్తనృపాన్ధకూపకుహరే దాశైరివాశాగ్రహై-
ర్గ్రస్తైః సూక్తినిభేన తారకరుణం గౌరీదృశీ రోదితి ॥ ౩౩॥
ఉష్ణం నిఃశ్వసితి క్షితిం విలిఖతి ప్రస్తౌతి న ప్రేయసః
ప్రీతిం సూక్తిభిరీశితుః కరతలే ధత్తే కపోలస్థలమ్ ।
వాగ్దేవీ హృదయజ్వరేణ గురుణా క్రాన్తా హతాశైర్వృథా
నీతావిష్కృతకోపనిష్కృపనృపస్తోత్రత్రపాపాత్రతామ్ ॥ ౩౪॥
అస్థానే గమితా లయం హతధియాం వాగ్దేవతా కల్పతే
ధిక్కారాయ పరాభవాయ మహతే తాపాయ పాపాయ వా ।
స్థానే తు వ్యయితా సతాం ప్రభవతి ప్రఖ్యాతయే భూతయే
చేతో నిర్వృతయే పరోపకృతయే ప్రాన్తే శివావాప్తయే ॥ ౩౫॥
ఏతాః పూర్వకవిప్రణీతవివిధగ్రన్థాఽమృతాస్వాదన-
క్రీడాదుర్లలితం హరన్తి హృదయం వాచః కథం ధీమతామ్ ।
కేషాఞ్చిత్పునరీశ్వరస్తుతిపదవ్యాహారహేవాకినాం
యాస్యన్తి స్పృహణీయతాం భువి భవక్లేశస్పృశాం మాదృశామ్ ॥ ౩౬॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కవికావ్యప్రశంసాఖ్యం'' నామ పఞ్చమం స్తోత్రం సమ్పూర్ణమ్ ।
౬. హరాష్టకం షష్ఠం స్తోత్రమ్
జయత్యఖిలఖేచరప్రవరమౌలిరత్నప్రభా-
ప్రరోహపరిపీవరీకృతనఖాంశుపాదామ్బుజః ।
విశాలనయనత్రయీరచితధామధామత్రయీ-
తిరస్కృతజగత్రయీపరిణతాన్ధకారో హరః ॥ ౧॥
జయత్యమరదీర్ఘికాసలిలసేకసంవర్ధిత-
ప్రచణ్డనయనానలగ్లపితతీవ్రతాపవ్యథః ।
అచిన్త్యచరితోజ్జ్వలజ్వలదనన్యసాధారణ-
ప్రభావమహిమాహితత్రిభువనాపకారో హరః ॥ ౨॥
జయత్యచలకన్యకాలలితదోర్లతాలిఙ్గిత-
స్ఫురద్గరలకాలిమాకలితకాన్తకణఠస్థలః ।
తడిద్వలయలఙ్ఘితోల్లసదమోఘమేఘభ్రమ-
ప్రమత్తగుహబర్హిణోపహృతనృత్తహర్షో హరః ॥ ౩॥
జయత్యవిరలోచ్ఛలద్గరలవహ్నిహేతిచ్ఛటా-
సటాలఫణభీషణక్షపణపాశమోక్షక్షమః ।
ఉదారకరుణారసప్రసరసారసిక్తాశయః
ప్రపన్నవిపదర్ణవోత్తరణకణధారో హరః ॥ ౪॥
జయత్యుదధినిఃసరద్గరనిగారలబ్ధాఽభయ-
ప్రమోదభరనిభరత్రిదశదైత్యవృన్దస్తుతః ।
రసాతలతలోద్గతజ్వలదలఙ్ఘ్యలిఙ్గాల్లస-
న్మహామహిమమోహితద్రుహిణవాసుదేవో హరః ॥ ౫॥
జయత్యతులవిక్రమోన్మిషదఖర్వగర్వజ్జ్వర-
జ్వలచ్చపలమన్మథోన్మథనభగ్నభోగస్పృహః ।
దశాస్యభుజమణడలీతరలితైకపిఙ్గాచల-
త్రసద్గిరిసుతాహఠగ్రథితకణఠపీఠో హరః ॥ ౬॥
జయత్యకలితోల్లసన్మదభరోద్ధరాన్ధాసుర-
ప్రతిష్కరణసాన్త్వనప్రథితనిగ్రహాఽనుగ్రహః ।
జగత్త్రయభయఙ్కరత్రిపురఘోరదావావలీ-
సలీలకవలీకృతిప్రలయవారివాహో హరః ॥ ౭॥
జయత్యఘవనాశనిః సుమతిమాధవీమాధవః
కృపామృతపయోనిధిర్భవమహార్ణవైకప్లవః ।
విపత్తృణసమీరణః ప్రణయిచిత్తచిన్తామణిః
సమస్తభువనోదయప్రలయకేలికారో హరః ॥ ౮॥
॥ ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``హరాష్టకం'' నామ షష్ఠం స్తోత్రం సమ్పూర్ణమ్ ।
౭. సేవాభినన్దనం సప్తమం స్తోత్రమ్
నిశాన్తనిద్రేవ దశేవ శైశవీ
నవీనవధ్వాశ్చకితేవ దృక్ఛటా ।
సురస్రవన్తీవ కథేవ శామ్భవీ
కవీన్ద్రవాఙ్నిర్వృతిమాతనోతు వః ॥ ౧॥
అలౌకికాహ్లాదనిబన్ధనం మనః
ప్రసాదనం స్వానుభవైకసక్షికమ్ ।
ప్రకాశతాం వో హృది పారమేశ్వరం
మహో రహస్యం సుకవేర్గిరామివ ॥ ౨॥
స యస్య చాపాత్సపది చ్యుతోఽచ్యుతః
శిఖాభిరుగ్రో విశిఖః శిఖావతః ।
పురాణ్యకార్షీదపురాణి భైరవో
భయాని భిన్ద్యాదభవో భవః స వః ॥ ౩॥
స యస్య పృష్ఠే చరణార్పణం వృషా
వృషాధిరోహే కలయత్యనుగ్రహమ్ ।
త్రిలోకనాథః స గిరా సుధావృషా
వృషాకపిస్తాపమపాకరోతు వః ॥ ౪॥
స యస్య పాదద్వయమిద్ధశాసనః
సదా సమభ్యర్చతి పాకశాసనః ।
ప్రభుః ప్రసాదాఽమలయా దృశా స నః
క్రియాద్విపద్భఙ్గమనఙ్గశాసనః ॥ ౫॥
చమూర్జయన్భీజనకానకా న కాః
స యస్య సూనుః క్లమహా మహామహాః ।
జటాః స బిభ్రత్తరుణారుణారుణాః
శ్రియః క్రియాద్వః శుభయాభయాఽభయా ॥ ౬॥
మయి ధ్రువం దృగ్భవతా వతాఽవతా
కృపామృతార్ద్రా మహితా హితాఽఽహితా ।
అతస్తవాస్తప్రమయామయా మయా
కృతా నుతిః సాతిశయాశయాఽఽశయా ॥ ౭॥
అనభ్రవర్షప్రతిమం విమత్సరా
నరా జరారుఙ్మరణార్త్తిభీరవః ।
ముధా సుధాసూతివతంసశంసనం
విహాయ ధావన్తి రసాయనాయ కిమ్ ॥ ౮॥
మణిః సుసూక్ష్మోఽపి యథోల్బణం విషం
కృశోపి వహ్నిః సుమహద్యథా తృణమ్ ।
శిశుర్మృగేన్ద్రోపి యథా గజవ్రజం
తనుః ప్రదీపోఽపి యథా తమోభరమ్ ॥ ౯॥
యథాల్పమప్యౌషధమున్మదం గదం
యథామృతం స్తోకమపి క్షయాద్భయమ్ ।
ధ్రువం తథైవాణురపి స్తవః ప్రభోః
క్షణాదఘం దీర్ఘమపి వ్యపోహతి ॥ ౧౦॥
అమన్దసన్దర్భగభీరవిభ్రమః
ప్రగల్భవైదర్భపరిశ్రమః క్రమః ।
అవశ్యమాసాద్య గుణోచితం విభుం
బిభర్త్తి సౌభాగ్యమభఙ్గురం గిరః ॥ ౧౧॥
యథా హి శీలేన వినా కులాఙ్గనా
యథా వివేకేన వినా మనీషితా ।
సదర్థబోధేన వినా యథా శ్రుతి-
ర్మహీభుజఙ్గేన వినా యథా మహీ ॥ ౧౨॥
యథా వినా ద్యౌరరవిన్దబన్ధునా
వినా శశాఙ్కేన యథా నిశీథినీ ।
విదగ్ధవర్గేణ వినా యథా సభా
వినా విభూతిర్వినయేన వా యథా ॥ ౧౩॥
కృపావిపాకేన వినా యథా మతి-
ర్యథా సుపుత్రేణ వినా గృహస్థితిః ।
తథైవ శోచ్యా హరిణాఙ్కశేఖర-
స్తవోపయోగేన వినా సరస్వతీ ॥ ౧౪॥
రమాపి దేవీ మమ నో మనోరమా
క్షమాపి మామభ్యవపత్తుమక్షమా ।
మమ క్షమైకా భగవత్పరానుతి-
ర్భవార్త్తిభఙ్గే సరసా సరస్వతీ ॥ ౧౫॥
అచేతనో యః కిల కుస్థితిప్రియః
పృథగ్విధోపాధిశతక్షతాశయః ।
నిషేవ్యతే పాదతలే స యద్గిరి-
శ్చిరం మునీన్ద్రైరపి శుద్ధమానసః ॥ ౧౬॥
నిసర్గతః సత్పథగర్హితస్థితి-
ర్మలీమసో జిహ్మగతిశ్చ యః ఫణీ ।
స కుణ్డలీ యన్మణిమౌలిమణ్డితో
మహాభుజఙ్గః పృథుభోగభాగపి ॥ ౧౭॥
యదప్యజస్రం జడసఙ్గమోచితః
స్వభావతుచ్ఛః శశభృత్ కలామయః ।
కలఙ్కముక్తం వహతే సుధామయం
విధూతదోషోదయముజ్జ్వలం వపుః ॥ ౧౮॥
స ఏష గౌరీశ్వరసంశ్రయాత్మనః
ఫలోద్గమః కల్పమహామహీరుహః ।
అముం సమాసాదయితుం హితాయతి-
ర్యతేత కో నామ న చేతనో జనః ॥ ౧౯॥
నిదాఘనిర్దగ్ధమహామరుభ్రమ-
క్లమచ్ఛిదో మార్గమహీరుహాదపి ।
కలిన్దకన్యాసలిలౌఘసఙ్గత-
త్రిమార్గగామ్భోభరసమ్ప్లవాదపి ॥ ౨౦॥
సరస్వతీసౌభగసారసమ్భృత-
ప్రసన్నగమ్భీరపదక్రమాదపి ।
కురఙ్గనాభీఘనకుఙ్కుమాఙ్కిత-
స్తనాఙ్గనాలిఙ్గనవిభ్రమాదపి ॥ ౨౧॥
అమన్దమానన్దసుధారసద్రవం
స్రవన్నవన్ధ్యం భవదుఃఖితే హృది ।
ఇయత్యముష్మిన్భువనాధ్వని ధ్వని-
ర్నమః శివాయేతి చమత్కరోతి మే ॥ ౨౨॥
విచిన్తయఞ్జీవనమేవ జీవనం
సమర్థయన్ పార్థివమేవ పార్థివమ్ ।
విభావయన్ వైభవమేవ వై భవం
కదాఽఽశ్రయే శఙ్కరమేవ శఙ్కరమ్ ॥ ౨౩॥
వరం భవేదప్యవరం కలేవరం
పరం హరారాధనసాధనం హి యత్ ।
న తు క్రతుధ్వంసినిషేవణోత్సవం
వినిఘ్నతీ ముక్తిరయుక్తిపాతినీ ॥ ౨౪॥
క్వ నీలకణ్ఠాయతనోపసర్పణ-
స్ఫుటోపకారౌ చరణౌ మహాగుణౌ ।
క్వ చాఞ్చనోద్వర్త్తనచర్చనాదిభిః
పురారిపూజార్పణతర్పణౌ కరౌ ॥ ౨౫॥
క్వ నామ నామగ్రహణోత్సవం విభో-
రభిప్రవృత్తా రసనా దినే దినే ।
క్వ చాద్రిపుత్రీపతిపాదపఙ్కజ-
స్ఫురద్రజోరాజివిరాజితం శిరః ॥ ౨౬॥
క్వ దృక్చిరం పారితచన్ద్రశేఖర-
స్వరూపసౌభాగ్యవిలోకనస్పృహా ।
క్వ సన్తతాకర్ణితదర్పకద్విష-
ద్విచిత్రచారిత్రపవిత్రితా శ్రుతిః ॥ ౨౭॥
క్వ నిర్ధుతాఽనల్పవికల్పవిప్లవ-
త్రిలోచనధ్యాననిబన్ధనం మనః ।
క్వ చాఽపవర్గోఽయమమార్గ ఏవ యః
స్మరారిసేవాసుఖసర్వసమ్పదామ్ ॥ ౨౮॥
ఇదం విదన్తః సుధియో భియోజ్ఝితాః
సమాధిమాధిచ్ఛిదమాశ్రితా అపి ।
ప్రభుప్రణామస్తుతిచిన్తనార్చన-
స్ఫుటోపయోగం బహు మన్వతే వపుః ॥ ౨౯॥
కిమఙ్గమఙ్గల్యమనఙ్గభఙ్గద-
ప్రసాదనాదన్యదధన్యమన్యసే ।
యదర్థమర్థక్షతికృత్సుదుష్కరప్రయాస-
సాధ్యేషు మఖేషు ఖిద్యసే ॥ ౩౦॥
ఇమా హిమానీవిమలా హవిర్భుజాం
ప్రభుప్రసాదప్రభవా విభూతయః ।
కరోషి యత్తర్పణమాత్రకామ్యయా
దయాస్పదప్రాణ్యుపఘాతపాతకమ్ ॥ ౩౧॥
సఖే ! సఖేదస్య ధనార్జనం ప్రతి
ప్రతిగ్రహాధ్యాపనయాజనాదిభిః ।
ప్రయాతి తే వాయురివాయురిఙ్గితం
విహన్తి హన్త క్రతవే తవేహితమ్ ॥ ౩౨॥
అతః స్వతః ప్రార్థితసమ్పదాం పదం
కదర్థనాహీనమదీనమేనసా ।
నిదానమానన్దభువః స్వయమ్భువో
భజస్వ పాదామ్బుజసేవనోత్సవమ్ ॥ ౩౩॥
అక్లేశపేశలమలఙ్ఘ్యకృతాన్తదూత-
హుఙ్కారభఙ్గభిదురం దురితేన్ధనాగ్నిమ్ ।
కో నామ నామయహరం హరపాదపద్మ-
సేవాసుఖం సుమతిరన్వహమాద్రియేత ॥ ౩౪॥
రోమన్థమన్థరకురఙ్గశతాశ్రితేషు
భాగీరథీశిశిరశీకరశీతలేషు ।
రోహన్మహార్హఫలకన్దలసున్దరేషు
బద్ధాస్పదాస్తుహినభూధరకన్దరేషు ॥ ౩౫॥
ధన్యాః సమాధిమవధానధనా ధనాది-
సమ్బన్ధబన్ధమవధూయ ధియాఽధియన్తః ।
జ్యోతిః పరం గలదనల్పవికల్పజాల-
మాలోకయన్తి భగవన్తమనన్తమన్తః ॥ ౩౬॥
ధన్యా భజన్తి నృపవేశ్మసు వేత్రివక్త్ర-
హుఙ్కారకాతరధియస్తరుణేన్దుమౌలిమ్ ।
వైరాగ్యనిర్వృతమనస్విజనావకీర్ణ-
స్వర్గాపగాపులినబాలలతాలయేషు ॥ ౩౭॥
సన్తః స్మరన్తి శశిఖణ్డశిఖణ్డసేవా-
హేవాకినః సురసరిత్పులినస్థలేషు ।
లక్ష్మీలవోల్లసదమన్దమదాఽవలేప-
భూపాలవాలిశవిలఙ్ఘనవిప్లవానామ్ ॥ ౩౮॥
ఇదం మధుముఖం విషం హరతి జీవితం తత్క్షణా-
దపథ్యమిదమాశితం వ్యథయతే విపాకే వపుః ।
ఇదం తృణగణావృతం విలమధో విధత్తే క్షణా-
ద్యదత్ర మలినోల్బణైర్ద్రవిణమర్జితం కర్మభిః ॥ ౩౯॥
అతః ప్రతనువైభవోద్భవదఖర్దగర్వక్షమా-
పతిప్రణయసమ్భవం భువి విడమ్బనాడమ్బరమ్ ।
విహాయ సురవాహినీపులినవాసహేవాకినో
భజన్తి కృతినస్తమీరమణఖణ్డచూడామణిమ్ ॥ ౪౦॥
కిం భూయోభిః పరుషవిషయైః శ్రీవికారైరసారైః
కిం వా భూయః పతనవిరసైః స్వర్గభోగాభిలాషైః ।
మన్యే నాఽన్యద్భవభయవిపత్కాతరాణాం నరాణాం
ముక్త్వా భక్తిం భగవతి భవే శస్యమాశాస్యమస్తి ॥ ౪౧॥
దూరోదఞ్చచ్చటులలహరీహారిహస్తవ్యుదస్త-
వ్యాపత్తాపత్రిదశతటినీమజ్జనోన్మజ్జనేషు ।
శ్రద్ధాబన్ధం శశధరశిరఃపాదరాజీవసేవా-
హేవాకైకవ్యసనమనసస్తేన తన్వన్తి సన్తః ॥ ౪౨॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``సేవాభినన్దనం'' నామకం సప్తమం స్తోత్రం సమ్పూర్ణమ్ ।
౮. శరణాశ్రయణం అష్టమం స్తోత్రమ్
కల్యాణినః సురగిరేరివ సంశ్రితస్య
లక్ష్మ్యా హరేరివ రవేరివ దీప్తిభాజః ।
పద్యస్య శమ్భువిషయస్య జయన్తి పాదా
యే మణ్డయన్తి చ పునన్తి చ విష్టపాని ॥ ౧॥
యాః పఙ్కిలేన కలిలేన వియోజయన్తి
నిత్యోజ్జ్వలేన కుశలేన చ యోజయన్తి ।
తా ధూర్జటేరమరనిర్ఝరిణీతరఙ్గ-
భఙ్గాభిరామగతయః స్తుతయో జయన్తి ॥ ౨॥
సంసారదారుణదవానలదహ్యమాన-
వాక్చిత్తకాయకుశలీకరణౌషధాని ।
శ్రీభుక్తిముక్తివశకర్మ్మణి కార్మణాని
శమ్భోర్జయన్తి నుతిచిన్తనపూజనాని ॥ ౩॥
దోషాకరస్య శిరసి స్థితిముత్తమాఙ్గ-
చ్ఛేదం విధేరవిరహం నరవాహనస్య ।
భస్మీకృతిం త్రిపురపాశధరస్మరాణాం
వశ్యం దిశాఞ్చ దశకం దశకన్ధరస్య ॥ ౪॥
శౌర్యానలస్య పరశువ్యజనేన దీప్తిం
రామస్య బాహుపరిఘప్రతిఘం మఘోనః ।
హైమం మరుత్తనృపతేర్దివసాని సప్త
వర్షం సుదర్శనసమర్పణమచ్యుతస్య ॥ ౫॥
శ్వేతస్య కణ్ఠపులినాత్సమవర్తిపాశ-
ప్రోత్సారణం నయననిర్హరణం భగస్య ।
దుగ్ధాబ్ధిదానముపమన్యుమునేః క్రియాసు
దక్షస్య విఘ్నకరణం మఖదీక్షితస్య ॥ ౬॥
శూలాధిరోహణపరాభవమన్ధకస్య
పూష్ణో హనుగ్రహమనుగ్రహమర్జునస్య ।
నన్దీశ్వరస్య రవిజాదభయం భుజఙ్గ-
భఙ్గ్యాభిమానమథనం మునిమానినీనామ్ ॥ ౭॥
కిం వాఽపరం ద్రుహిణకృష్ణహరత్వమేత్య
సర్గస్థితిప్రశమనాని జగత్త్రయస్య ।
క్రీడన్నివ వ్యధిత యేన నిరఙ్కుశం తత్
స్వాతన్త్ర్యమప్రతిహతం జయతీశ్వరస్య ॥ ౮॥
యస్యాఽతిఘోరగరలాదపి కణ్ఠపీఠా-
త్సఞ్జీవనౌషధముదేతి వచో నతానామ్ ।
యస్య జ్వలద్ఘనకృశానుశిఖోల్బణాపి
వర్షత్యమోఘమమృతద్రవమేవ దృష్టిః ॥ ౯॥
దంష్ట్రాకరాలమపి ఘోరమఘోరవక్త్త్రం
యస్య ప్రపన్నభయభఞ్జనభఙ్గిమేతి ।
యస్యాఙ్గభస్మకణికాశ్చరణాశ్రితేషు
కర్పూరధూలిపటలశ్రియమాశ్రయన్తి ॥ ౧౦॥
యస్యాపి కృష్ణభుజగా భుజగా భజన్త-
మిన్దీవరస్రజ ఇవ ప్రవినన్దయన్తి ।
కిం చాఙ్గసఙ్గి మరుదీరితమేతి యస్య
ముణ్డం నమత్స్వమలమఙ్గలకమ్బుశోభామ్ ॥ ౧౧॥
యస్యేభచర్మఘనశోణితపఙ్కలిప్త-
మఙ్గేషు మఙ్గలదుగూల విలాసమేతి ।
యస్యాపి తాపవిధురేషు కరే కపాల-
మాలమ్బతేఽమృతకమణ్డలుఖణ్డలీలామ్ ॥ ౧౨॥
యత్పాదపాంసుపరిమర్శశుచి శ్మశానం
శ్రీశైలనైమిషముఖాన్యధరీకరోతి ।
యత్సంస్తవాదవికలం కుశలం కపాల-
పాలీ కరోతి కృతినాం కమలావలీవ ॥ ౧౩॥
యం దేవమస్తశిరసం సురభర్త్తురఙ్కే
లఙ్కేశవైరికరవీజితతాలవృన్తమ్ ।
ఆసీనసుప్తసుఖితం శతరుద్రియాది-
మన్త్రైః స్వరేణ మధురేణ గృణాతి వేధాః ॥ ౧౪॥
హేలావలీఢభువనత్రితయేన యేన
గీర్ణాః పురన్దరముకున్దరవీన్దవోఽపి ।
యస్య జ్వలద్విపులభాలవిలోచనాగ్ని-
జ్వాలావలీశలభతామగమత్స కాలః ॥ ౧౫॥
శ్వేతం విధోరుదయహేతుమవేత్య పక్షం
కాలం చ యః క్షయకరం దృశమాశ్రితస్య ।
శ్వేతం దయావిశదయాశు దృశానుగృహ్య
కాలం దృశైవ నయతి స్మ శమం విపక్షమ్ ॥ ౧౬॥
చక్రీ ముఖాగ్రవిలసజ్జ్వలనోగ్రజిహ్వా-
లీఢామ్బరః క్షితిధరేన్ద్రధనుర్ధరస్య ।
యస్యాగమన్నిధనసాధనతాం పురాణాం
వాణీకృతశ్చ రణమూర్ధ్ని గుణీకృతశ్చ ॥ ౧౭॥
చక్రాయుధం విశిఖతాముడుచక్రవర్తి-
చక్రాభిధానసుహృదౌ రథచక్రభావమ్ ।
నీత్వాఽసృజత్త్రిదశధామ్ని రసాతలే చ
యో హర్షశోకమయమశ్రు పురాఙ్గనానామ్ ॥ ౧౮॥
ఆరూఢరీఢమపి యేన సమర్పితేన
ప్రీతిం రతిం చ హృది విస్మరతి స్మ కామః ।
తం దృష్టిపాతమధిగమ్య బిభర్తి యస్య
ప్రీతిం రతిం చ హృది కో న సుసిద్ధకామః ॥ ౧౯॥
కృష్ణోపదర్శితపథః పృథులోష్మభీష్మ-
శ్లాఘ్యం దధద్వపురుపాత్తవనాన్తవాసః ।
వ్యాధాకృతేరపి ధనఞ్జయ ఏవ యస్య
దృగ్గోచరే కృతపదో మహసా దిదీపే ॥ ౨౦॥
యుక్తం సుధాకరసుధాకరకద్యుసిన్ధు-
తోయాది యన్మనసి తాపమపాకరోతి ।
యస్యాఙ్గసఙ్గి శవభస్మకపాలమాలా-
హాలాహలాహిదహనాద్యపి హృద్యమేవ ॥ ౨౧॥
మూర్తిః కృమేః శతపదీ శ్రవణం ప్రవిష్టా
దృష్టా రుజామసుహృతం సృజతీ జనానామ్ ।
సౌరీ తనుర్నను సహస్రపదీ యదీయ-
నేత్రస్థితా హరతి మృత్యుభయం శ్రితానామ్ ॥ ౨౨॥
ఆకర్ణ్య యః కృపణమార్త్తవచః కృపాబ్ధి-
రాధూతమూర్ధసురనిర్ఝరిణీకణౌఘైః ।
ఉత్సఙ్గసఙ్గతగిరీన్ద్రసుతాకుచాగ్ర-
సంసక్తమౌక్తికమణీన్ద్విగుణీకరోతి ॥ ౨౩॥
ఉద్గాఢభక్తివిధురవ్యపనీతతీవ్ర-
దోషాన్ధకారమతిమాత్రశుచిప్రకాశమ్ ।
పీయూషముద్వమతి యస్య వివిక్తవర్ణం
కర్ణాన్తగామి వచనం చ విలోచనం చ ॥ ౨౪॥
పాత్రీభవన్తి న యదఙ్ఘ్రిసరోజరేణు-
మైత్రీపవిత్రశిరసః స్థిరసత్యవాచః ।
సాటోపకోపవికటభ్రుకుటిచ్ఛటానా-
ముత్తాలకాలభటవక్రవిభీషికాణామ్ ॥ ౨౫॥
సూక్తిం శుచిం శ్రవణయోరమృతం స్రవన్తీం
వక్రామభఙ్గురగుణాం మహతీం వహన్తః ।
గాయన్తి యం శ్రితవతః పరిశుద్ధవంశ-
విద్యా యశాంసి కవయః పరివాదకాశ్చ ॥ ౨౬॥
యత్సేవకస్య మదనోల్బణబాణపూగ-
క్రాన్తాఽలికాన్తవికసత్తిలకోజ్జ్వలశ్రీః ।
సేవ్యా భవత్యవసరే కలకణ్ఠనాద-
హృద్యా వధూః కుసుమితోపవనస్థలీ చ ॥ ౨౭॥
యస్మిన్నఖిన్నమనసో వ్యసనావసన్న-
సన్తాపశాన్తికృతసమ్మతయో వసన్తి ।
కాత్యాయనీ చ కరుణా చ కలా చ చాన్ద్రీ
స్నిగ్ధా చ దృక్ సురసరిచ్చ సరస్వతీ చ ॥ ౨౮॥
సన్తాపసమ్పదపహారపటూని సిద్ధ-
సిన్ధోరివేన్దుధవలాని జలాని యస్య ।
ఆకల్పయన్తి మదయన్తి పవిత్రయన్తి
సఞ్జీవయన్తి చ జగన్తి భృశం యశాంసి ॥ ౨౯॥
దుష్కాలసఙ్కటకటాహకదర్థితానాం
తీవ్రాభిమానమనసాం ఘనసారభాంసి ।
భిన్దన్త్యమన్దహరిచన్దనబిన్దువృన్ద-
సన్దోహదోహదమహో చరితాని యస్య ॥ ౩౦॥
ఫుల్లారవిన్దమకరన్దధృతప్రసఙ్గ-
భృఙ్గాఙ్గనాగుమగుమారవగీతిగర్భమ్ ।
గాయన్తి యస్య చరితం హరితామధీశా
ధీశాలినః కమలినీపులినస్థలీషు ॥ ౩౧॥
వ్యక్తోజ్జ్వలాలికచితం ముఖమాయతాక్షం
విస్తీర్ణకర్ణికమనర్గలరూఢనాలమ్ ।
యం శంసతోఽధివసతి స్వయముక్తిదేవీ
రాజీవసద్మకమలా విజిగీషయేవ ॥ ౩౨॥
ఆపన్నబాన్ధవమబన్ధ్యవచోవిలాస-
మాసన్నమజ్జననమజ్జనసాన్త్వనేషు ।
దేవం సుధాకరకిశోరకృతావతంసం
తం సంశ్రితార్త్తిహరణం శరణం శ్రయామి ॥ ౩౩॥
దేవం శ్రయామి తమహం ముకుటోరగేన్ద్ర-
స్ఫూర్జత్ఫణామణిసహస్రమిషేణ యస్య ।
భాలానలేన సురసిన్ధుజలోక్షితేన
ప్రోన్ముక్తమఙ్కురసహస్రమివాచకాస్తి ॥ ౩౪॥
సానుగ్రహోత్తమగణాశ్రితపాదమూలం
మూర్ధ్నా ధృతాభ్రసరితం సతుషారమూర్తిమ్ ।
ఆసేవితం విషధరైః కటకేషు తాప-
శాన్త్యై గిరీశమతిహృద్యగుహం శ్రయామి ॥ ౩౫॥
యః క్షీరనీరనిధిమఙ్ఘ్రితలే సుధామ్భః-
కుమ్భం కరే శిరసి దేవనదీమదీనామ్ ।
హర్తుం బిభర్తీ భవినామణుకర్మమాయా-
మూలం మలత్రయమయం తమహం శ్రయామి ॥ ౩౬॥
యస్యాపగా స్రగివ సౌమనసీ జటాసు
యః కౌముదీం విరచనామివ మూర్ధ్ని ధత్తే ।
దేవీం వరాఽభయకరామపి యో బిభర్తి
ప్రీతః శివాం దృశమివ ప్రభుమాశ్రయే తమ్ ॥ ౩౭॥
గౌరీం గజాస్యజననీం హిమవత్ప్రసూతిం
సద్యఃపవిత్రితజగత్త్రితయాం య ఏకః ।
కాత్యాయనీం సురధునిం చ విభుర్బిభర్తి
నిర్వాణదం శరణమేమి తమిన్దుమౌలిమ్ ॥ ౩౮॥
క్వాప్యుద్ధృతక్రతువిధాతృమృగోత్తమాఙ్గ-
ముత్సఙ్గసఙ్గతమృగం క్వచిదోషధీశమ్ ।
క్రూరం క్వచిన్మృగవధైకరతిం కిరాతం
వాతం క్వచిన్మృగరథం విభుమాశ్రయామి ॥ ౩౯॥
ఉద్దామదోషమపి దీర్ఘగుణం భుజఙ్గ-
భోగోపగూఢమపి రూఢశిఖిప్రసఙ్గమ్ ।
కాపాలికవ్రతసమేతమపి ద్విజేన్ద్ర-
చూడామణిం విభుమనఙ్కుశమాశ్రయామి ॥ ౪౦॥
అఙ్గే ధృతాఙ్గనమనఙ్గకృతాఙ్గభఙ్గం
విశ్వాధినాథమథ ఖణ్డకపాలపాణిమ్ ।
ఉగ్రం శివం హరమఘోరమజం చ సద్యో-
జాతం చ విస్మయనిధిం విభుమాశ్రయామి ॥ ౪౧॥
అస్మిన్భవాధ్వని మహావిషమేఽసమేషు-
రోషాదితస్కరతిరస్కరణైకవీరమ్ ।
భీరుః శ్రయామి శరణం క్షణదాకుటుమ్బ-
లేఖాశిఖామణిమనుత్తమశక్తిమీశమ్ ॥ ౪౨॥
కిం మేరుమన్దరముఖైర్గిరిభిర్గరీయాన్
కైలాస ఏవ జగదేకగురుర్గిరీశః ।
యస్యాఽభయఙ్కరమసఙ్కరమస్తశఙ్క-
మఙ్కం సుటఙ్కమకలఙ్కమలఙ్కరోతి ॥ ౪౩॥
ఉల్లఙ్ఘ్య శాసనమనన్యజశాసనస్య
కోఽప్యన్యశాసనముపాసితుమేతి నిష్ఠామ్ ।
హిత్వా వనం హి నవనాగరపర్ణపూర్ణ-
ముష్ట్రః శ్రయత్యవటమేవ సకణ్టకౌఘమ్ ॥ ౪౪॥
అన్యార్థమప్యుపహితా శితికణ్ఠసేవా
లోకస్య కల్పలతికేవ ఫలత్యవశ్యమ్ ।
ఉద్దీపితా ఖలు పరస్య కృతేఽపి యేన
తస్యాపి దర్శయతి దీపశిఖాఽర్థసార్థమ్ ॥ ౪౫॥
యద్యర్చితః (యద్యర్థితః)స భగవానపి జీవికార్థం
తత్రాపి కిల్విషవిపాకమపాకరోతి ।
యోఽపి ద్యుసిన్ధుపయసి ప్లవతే నిదాఘ-
ఘర్మచ్ఛిదే భవతి సోపి హి ధౌతపాపః ॥ ౪౬॥
కుర్వన్తి భక్తిమపరైరపి యే నియుక్తా
భర్గస్య తేఽపి భవదుర్గతిముత్సృజన్తి ।
స్తన్యార్థమప్యుపహితా పృథుకస్య ధాత్రీ
పాత్రీభవత్యఖిలభోగసుఖాసికానామ్ ॥ ౪౭॥
దమ్భాదపి ధ్రువమనఙ్గజితః ప్రయుక్తః
సేవావిధిః ప్రమదసమ్పద(ప్రమదసమ్మద)మాదధాతి ।
వేశ్యాజనస్య న సుఖాయ కిమఙ్గరాగ-
మాలాదుగూలధవలః కృతకోఽపి వేషః ॥ ౪౮॥
తస్మాదుపేత విభుమేవ యథాతథాపి
ముక్తిర్న చేద్భవతి కిం న గలన్త్యఘాని ।
యః స్వేచ్ఛయైవ నిపతత్యమృతహృదేఽన్త-
ర్మజ్జత్యసౌ యది న తత్కిముదేత్యసిక్తః ॥ ౪౯॥
క్షీరాబ్ధేరవహేలయా వితరణం నిర్యన్త్రణం వర్షణం
హేమ్నః క్రుద్ధకృతాన్తముక్తఫణభృత్పాశగ్రహోద్వర్హణమ్ ।
యచ్చాప్యుత్కటకాలకూటకవలీకారాదికర్మాద్భుతం
క్రీడామాత్రకమేవ యస్య తదసౌ దేవః కథం వర్ణ్యతే ॥ ౫౦॥
స్వచ్ఛన్దస్య యదృచ్ఛయా గమయతః ప్రేఙ్ఖోలతాం భ్రూలతా-
మాజ్ఞాఽనుగ్రహలాభకత్థనఘనస్పర్ధానుబన్ధోద్ధురాః ।
సోష్మాణః కలయన్తి యస్య కలహం సేవాసు దేవాసురా
దేవస్యాఽస్య మహేశ్వరస్య మహిమశ్లాఘావిధౌ కే వయమ్ ॥ ౫౧॥
ఉర్వీనీరసమీరణారుణశిఖివ్యోమాత్మసోమాత్మకై-
రష్టాభిర్విభవైర్బిభర్తి భువనం భోక్తా చ భోగ్యశ్చ యః ।
బ్రూమస్తస్య కిమీశ్వరస్య మహతః స్వైరీ స్వకైరేవ యః
స్ఫారైర్బ్రహ్మపురన్దరప్రభృతిభిః శారైరివ క్రీడతి ॥ ౫౨॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``శరణాశ్రయణం'' నామాఽష్టమం స్తోత్రం సమ్పూర్ణమ్ ।
౯. కృపణాక్రన్దనం నవమం స్తోత్రమ్
దీపోత్కరైరవిరుచాం పరిపూరణేయం
నీహారవారిభిరిదం భరణం పయోధేః ।
అస్మాదృశాం మితదృశాం నియతైర్వచోభిః
ప్రస్తూయతే భవ తవ (తవ భవ)స్తవచాపలం యత్ ॥ ౧॥
అత్రాఽపరాధ్యతి గిరో హర ధృష్టతేయ-
మేషా నిసర్గముఖరా ముఖరాగిణీ యత్ ।
ప్రౌఢిం పరామనుపయత్యపి వాఞ్ఛతి త్వాం
స్వామిన్ హఠాదివ పరం పురుషం గృహీతుమ్ ॥ ౨॥
యద్వా భవత్యసులభో భవదాశ్రితస్య
శస్యః స కోఽపి మహిమా న హి మాదృశోఽపి ।
స్వచ్ఛన్దమన్దమపి యత్ర పదం త్వదుక్షా
ధత్తే మహీ భవతి హేమమయీ హి తత్ర ॥ ౩॥
భీష్మో విషాదపి విషాదపినద్ధమేత-
చ్చేతశ్చకార సవికారమకారణారిః ।
మోహామయస్తమయమస్తమయం నయామి
స్వామిఁస్తవ స్తవరసాయనసేవనేన ॥ ౪॥
ఏషః స్తవస్తవ నవప్రమదోపదేశ-
మాదేశయఞ్జయతి కోఽపి గురుర్గిరీశ ।
సద్యః పురః స్ఫురతి మే దురతిక్రమేణ
యత్సఙ్కమక్రమవశేన వచోధిదేవీ ॥ ౫॥
నాస్య స్పృహాఽస్తి సరసాయ రసాయనాయ
నాఽయన్త్రితేన్దువదనావదనాఽమృతాయ ।
నిర్బన్ధమేతి తు భవత్సవిధే విధేహి
నిర్బన్ధమన్ధకరిపో తదిదం మనో మే ॥ ౬॥
ఆభాతి శక్రనగరీ న గరీయసీ మే
ప్రీతిం చ సిఞ్చతి న కాఞ్చన కాఞ్చనాద్రిః ।
జానే పరం హర శరణ్యమరణ్యమేవ
యత్ర త్వదఙ్ఘ్రినలినార్చననిర్వృతిః స్యాత్ ॥ ౭॥
పుష్పేషు దోహదవశాదవశా(శం)భృశం యా
బభ్రామ వామనయనాభుజమఞ్జరీషు ।
సా సామ్ప్రతం దృగలినీ వలినీ(నీం)వ్యనక్తి
త్వద్భక్తికల్పలతికాఫలభోగతృష్ణమ్ ॥ ౮॥
కిం నిర్మితా ముకుటచన్ద్రకలాం నిపీడ్య
కిం వా శిరఃశరణనిర్ఝరిణీజలేన ।
కిం వా కరస్థకలశామృతసమ్ప్లవేన
భక్తిస్త్వయా ప్రణయినాం భవతాపశాన్త్యై ॥ ౯॥
స్వామిన్విచిత్రచరితస్య తవాఽపదాన-
గీతామృతేషు దృఢరూఢరతిర్మమేయమ్ ।
దూరీకృతాఽన్యసరణిర్హరిణీవ వాణీ
సత్యం పదాత్పదమపి క్షమతే న గన్తుమ్ ॥ ౧౦॥
ఆశ్వాసనం యమభయాకులతామృతానాం
సఞ్జీవనం భవదవవ్యథయా మృతానామ్ ।
ఆలమ్బనం సుకవిరాజగిరామృతానాం
సఙ్కీర్తనం జయతి తే చరితామృతానామ్ ॥ ౧౧॥
దానం తరఙ్గతరలః కిల దుగ్ధసిన్ధు-
ర్ముక్తిః కరాలతరకాలభయాత్ప్రసాదః ।
త్యాగోఽపి సప్తదివసాని సువర్ణవృష్టిః
కిం కిం న చారుచరితం భవతః ప్రశస్యమ్ ॥ ౧౨॥
స్వామిన్ రజఃపరిచితం చపలస్వభావం
జాత్యా మలీమసమిదం హృదయం మదీయమ్ ।
త్వత్పాదపద్మవిషయే కృతపక్షపాతం
ధత్తే ప్రమోదభరనిర్భరభృఙ్గలక్ష్మీమ్ ॥ ౧౩॥
త్వాం వామదేవమపి దక్షిణమాశ్రితేషు
సర్వత్ర శఙ్కర వసన్తమపి స్మరారిమ్ ।
అప్యన్తకోపశమహేతుమనన్తకోప-
శాన్త్యేకకారణమచిన్త్యగతిం శ్రయామి ॥ ౧౪॥
క్వాపి ప్రసీదసి దిశన్విశదం ప్రకాశం
క్వాపి ప్రయచ్ఛసి ఘనావరణోపరోధమ్ ।
కుర్మః కిమత్ర మహనీయమహామహిమ్నో
నాస్త్యేవ నామ నియతిర్నభసః ప్రభోశ్చ ॥ ౧౫॥
చిత్తం నతాపదుపతాపహృతిప్రవృత్తిం
భీతాఽభయార్పణపణప్రవణాం చ వాణీమ్ ।
లోకోపకారపరతన్త్రమిదం వపుశ్చ
కస్త్వత్పరః పరమకారుణికో బిభర్తి ॥ ౧౬॥
చిత్తం విషాదమగమన్న పరం ప్రసాద-
మౌజ్ఝద్విచారముచితం న బహిః ప్రచారమ్ ।
లేభే న కుత్ర వివరం ప్రవరం న బోధ-
మేతత్త్వయైవ భగవన్ధృతవిప్రయోగమ్ ॥ ౧౭॥
అశ్రాన్తమాన్తరమశాన్తరజోవికారం
సారఙ్గకేతుముకుటస్ఫుటమన్ధకారమ్ ।
యుక్తం యదన్ధయతి యద్బధిరీకరోతి
కోఽతిప్రసఙ్గ ఇతి తత్ర న తర్కయామి ॥ ౧౮॥
లీలావిలోలలలనానయనాన్తవాస-
మాసాద్య యః క్వ న భనక్తి మనస్వినోఽపి ।
సోఽయం నివిశ్య విమలే హృదయే మదీయే
ధిఙ్మర్మమర్మ న భినత్తి కథం మనోభూః ॥ ౧౯॥
స్వామిన్నసన్తమివ తత్ర వసన్తమేవ
సత్వామవైతి కిమిదం యది వా కిమన్యత్ ।
దగ్ధోఽపి యం పునరవాప్య బిభర్తి గర్వం
సర్వఙ్కషో విజయతే స తవ ప్రసాదః ॥ ౨౦॥
శ్రీఖణ్డచన్దననిఘృష్టకురఙ్గనాభి-
కర్పూరకుఙ్కుమకరమ్బశుభాఙ్గరాగమ్ ।
ఉద్యన్నవీనకదలీదలసౌకుమార్యం
బిభ్రత్యనఙ్గనటమఙ్గలరఙ్గమఙ్గమ్ ॥ ౨౧॥
ఫుల్లారవిన్దవదనా వికసచ్ఛిరీష-
మాలాభుజాభినవనీలసరోజనేత్రా ।
బ్రహ్మాస్త్రమప్రతిహతం విహితా హితాయ
పుష్పాయుధస్య కుసుమైరివ మాధవేన ॥ ౨౨॥
నాథేతి జీవితహరేతి దయాపరేతి
సప్రేమకోపమతికోమలమాలపన్తీ ।
గాఢానురాగవివృతాఖిలగూఢభావ-
మావర్జయన్త్యవిషయైర్వచసాం విలాసైః ॥ ౨౩॥
కింవా పరం కుపితనిర్ఘృణపఞ్చబాణ-
బాణౌఘభిన్నహృదయా పరిరభ్య గాఢమ్ ।
ముగ్ధాజనస్య సహజామవజిత్య లజ్జా-
మౌత్సుక్యసాన్ద్రమధరామృతమర్పయన్తీ ॥ ౨౪॥
ఆక్షిప్తసిన్ధుమథనోత్థమహామృతౌఘ-
భావత్కభక్తిరసపారణనిత్యతృప్తమ్ ।
ప్రత్యాహృతేన్ద్రియమవాప్తసమాధిసౌఖ్యం
న త్వత్పరం హరతి సా హరిణేక్షణాఽపి ॥ ౨౫॥
హేలావలన్మలయమారుతకమ్పితానాం
శీర్ణైః ఫలైః స్వయమరణ్యమహీరుహాణామ్ ।
వృత్తిర్హరస్మరణఘూర్ణితచేతసః క్వ
దీనం ముఖం క్వ చ పురః కుమహీపతీనామ్ ॥ ౨౬॥
నేత్రత్వమీశ తవ మూర్తివిలోకనేషు
వాక్త్వం భవచ్చరితచర్వణవిభ్రమేషు ।
త్వత్సఙ్కథాశ్రవణకర్మణి కర్ణభావ-
మిచ్ఛన్తి గన్తుమపరాణి (ఇతరాణి)మమేన్ద్రియాణి ॥ ౨౭॥
యచ్ఛత్రచామరసితా కృతినాం విభూతిః
సః స్వల్ప ఏవ భగవన్ భవతః ప్రసాదః ।
త్వత్సామ్యమేవ (తత్సామ్యం)తు సతామధికస్తతోఽపి
యద్వల్కలం చ వసనం విపినం చ వాసః ॥ ౨౮॥
త్వత్పాదపఙ్కజరజశ్ఛురితౌ చ పాణీ
వాణీ భవచ్చరితచర్వణగర్వితా చ ।
చిత్తం భవద్గుణగణస్మరణవ్రతం చ
భూయో భవన్తి మమ చేదహహాస్మి ధన్యః ॥ ౨౯॥
భిక్షాశనోఽపి భగవంస్త్వమకిఞ్చనోఽపి
జీర్ణశ్మశాననిలయోఽపి దిగమ్బరోఽపి ।
కిం వా పరం వరద ఘస్మర భస్మరూక్ష-
గాత్రోఽపి సన్మమ విభుః ప్రతిజన్మ భూయాః ॥ ౩౦॥
యాచే న కిఞ్చిదపరం వసతిర్గిరీన్ద్రే
కైలాసనామ్ని భవదధ్యుషితే మమాస్తు ।
కిం వా న తత్ర భగవన్ మమ యే సఖాయ-
స్తేఽన్యేఽపి సన్తి గవయాః కపయః కురఙ్గాః ॥ ౩౧॥
వాచామమీ న విషయే విషయేషు యేషు
తృష్ణాఽన్వభావి విషమా విషమాకిరన్తీ ।
తన్మాం భజోజ్జ్వలవిలోలవిలోచనాన్త-
విన్యాసభాసురసుధారసుధారసేన ॥ ౩౨॥
నానుగ్రహస్తవ వినా త్వయి భక్తియోగం
నానుగ్రహం తవ వినా త్వయి భక్తియోగః ।
బీజప్రరోహవదసావనయోర్న కస్య
భూత్యై పరస్పరనిమిత్తనిమిత్తిభావః ॥ ౩౩॥
శాన్తం మనో యది యమైర్నియమైః కిమన్యై-
ర్వాణీ యది ప్రియహితా స్తుతిచాటుభిః కిమ్ ।
కారుణ్యమస్తి యది కిం వ్రతహోమదానై-
ర్భక్తిర్భవే యది కిమన్యసుఖాభిలాషైః ॥ ౩౪॥
భుక్తం వికల్పకవలైః సురలోకసౌఖ్య-
మాలోకితా వివిధశాస్త్రదృశైవ ముక్తిః ।
పీతా సుధా శ్రవణశుక్తిపుటైః సమక్ష-
మాస్వాదితా పునరియం శివభక్తిరేవ ॥ ౩౫॥
దీర్ఘాణ్యఘాన్యధిశుచీవ భవన్త్యహాని
హానిర్బలస్య శరదీవ నదీజలస్య ।
దుఃఖాన్యసత్పరిభవా ఇవ దుఃసహాని
హా నిఃసహోఽస్మి కురు నిఃశరణేఽనుకమ్పామ్ ॥ ౩౬॥
నిర్భర్త్సితో విపది బన్ధురివాఽభిమానీ
మా నీరసం స్పృశతు నామ మనో వివేకః ।
విద్యాం నిదాఘ ఇవ ఘర్మరుచిర్హిమానీ-
మానీయనాశముపతాపయతే తు మోహః ॥ ౩౭॥
తస్మాదుపైతి న తనుస్తరసాఽవసాయం
సాయన్తనీ ప్రతిపదిన్దుకలేవ యావత్ ।
తావత్కృపాం కురు హతోఽస్మ్యహమంహసాఽయం
సా యన్త్రితా మయి తవాస్తనయేన యేన ॥ ౩౮॥
అభ్యేతి మృత్యుభటసంహతిరస్తకమ్పా
కమ్పామహే మనసి యాం వినివేశయన్తః ।
ఏకా గతిర్గిరిశ తత్ర తవానుకమ్పా
కమ్పాత్రతాం నయతి యా న శుభోదయానామ్ ॥ ౩౯॥
యన్నిఃస్పృహోప్యజనయస్తనయం కుమారం
మారం విధాయ శలభం నయనానలస్య ।
తత్తే పరార్థమితి విశ్రుతమాకుమారం
మా రంహసా జహిహి దేహి తదేహి వాచమ్ ॥ ౪౦॥
సర్వస్వమేవ మమ దత్తమహాప్రహారా
హారామలం హర హరన్త్యరయో వివేకమ్ ।
రక్షాకరీ తవ కృపాఽత్ర కృతాఽవహారా
హా రాజశేఖరమణేః పురతో హతోఽహమ్ ॥ ౪౧॥
దేవాలయే వసతిమర్థయతే కపోతః
సిన్ధౌ వణిగ్భజతి వృత్తిమశఙ్కపోతః ।
పృష్ఠే శ్రియం వహతి నిత్యమనేకపోఽత-
స్త్వద్భక్తిమేమి సరసీమివ భేకపోతః ॥ ౪౨॥
లబ్ధా ధృతిర్దివి కదాచన వాసవేన
సైన్యేన సా పరివృతేన న వాసవేన ।
నో వా బలేన భువి పీతనవాసవేన
త్వాం భేజుషో భవతి యాఽభినవా సవేన ॥ ౪౩॥
యా దుర్లభా దివి మహర్షభయాన కస్య
కాలస్య యా నిధనధామ భయానకస్య ।
వాచా తయా కృతనతేరభయానకస్య
తుల్యశ్రియాఽర్పయసి శం శుభయా న కస్య ॥ ౪౪॥
యం వీక్షసే క్షతమహాకలికాల సన్తం
క్లిష్టం కృతీకృతబృహత్కలికాల సన్తమ్ ।
ఇన్దోరివాఽమృతమయీ కలికా లసన్తం
బాలాఽవలోకయతి సోత్కలికాలసం తమ్ ॥ ౪౫॥
ముక్తావలీవ రహితా శివ నాయకేన
ముక్తా భవద్గణసభేవ వినాయకేన ।
వాణీ త్వయా పరిహృతాఽఖిలనాయకేన
సమ్భావ్యతే హృదయసంవననాయ కేన ॥ ౪౬॥
యస్యోచితః ప్రథితమాన సమాధినాన్త-
స్తేనార్తిముద్వహతి మానసమాధినాన్తః ।
శుద్ధాం మతిం స్పృశతి పాంసులభావలేప-
స్తత్రాప్యుపైషి న కృపాం సులభావలేపః ॥ ౪౭॥
కామం భవేఽత్ర బహవః సుభగస్వభావా
భావా భవన్తు మమ తు ద్వితయం స్పృహాయై ।
శబ్దార్థపాకరుచిరా కవిరాజగీర్వా
గీర్వాణసిన్ధుధరభక్తిరభఙ్గురా వా ॥ ౪౮॥
జ్యోత్స్నాఛటాభిరివ దేవ చకోరకస్య
భాస్వత్ప్రభాభిరివ పఙ్కజకోరకస్య ।
దైవీభిరద్భిరివ బర్హికిశోరకస్య
ప్రీతిర్న తే నుతికథాభిరఘోర కస్య ॥ ౪౯॥
వృత్తం క్వ తే సకలవాఙ్మనసాతివృత్తం
చేతః స్ఖలద్గతి భవావరణాత్క్వ చేతః ।
విత్రాసవన్తమితి మామనుదత్పవిత్రా
భక్తిః స్తుతిస్తవ కృతేయమతః సుభక్తిః ॥ ౫౦॥
వన్దామహే చ వివిధం వివదామహే చ
లజ్జామహే చ కలుషాణి భజామహే చ ।
ఈహామహే చ కువచాంసి సహామహే చ
దహ్యామహే చ దురితైర్జఠరస్య హేతోః ॥ ౫౧॥
లబ్ధం చిరేణ సుకృతైరచిరస్థిరం చ
మానుష్యకం పునరిదం సులభం చ చేతి ।
జానీమ ఏవ చ న చ స్వహితం విధాతు-
మీహామహే వయమహో బత యద్భవిష్యాః ॥ ౫౨॥
తస్మాదవశ్యమవశానవిశఙ్కమేవ
భోగోపభోగరసికానసమాప్తకృత్యాన్ ।
యావన్న ధీవర ఇవైత్య తిమీనకస్మా-
న్మృత్యుః క్షణాదశరణాన్ హరతే హఠేన ॥ ౫౩॥
తావత్ప్రసీద కురు నః కరుణామమన్ద-
మాక్రన్దమిన్దుధర మర్షయ మా విహాసీః ।
బ్రూహి త్వమేవ భగవన్ కరుణార్ణవేన
త్యక్తాస్త్వయా కమపరం శరణం వ్రజామః ॥ ౫౪॥
జాతస్య మృత్యురితి చేత్స న లఙ్ఘితః కిం
శ్వేతేన శీతకరశేఖరనన్దినా చ ।
తాభ్యామసౌ యది జితో విపులైస్తపోభి-
రస్మాకమల్పతపసాం త్వనివార్య ఏవ ॥ ౫౫॥
తర్హ్యర్చనాన్తసమయే తవ పాదపీఠ-
మాలిఙ్గ్య నిర్భరమభఙ్గురభక్తిభాజః ।
నిద్రానిభేన వినిమీలితలోచనస్య
ప్రాణాః ప్రయాన్తు మమ నాథ తవ ప్రసాదాత్ ॥ ౫౬॥
ఏతేన కిం నివిడబన్ధభృతో భుజఙ్గాః
కిం వా న వక్రిమవిలాసవికాసభాజః ।
కిన్తు క్రమాదపచితాః పదగుమ్ఫహీనాః
సూక్తామృతానుకరణే కథముత్సహన్తే ॥ ౫౭॥
తస్మాద్భయఙ్కరమదః ఫణికర్ణపూర-
హేవాకదుర్లలితమస్తనయం విహాయ ।
స్వామిన్నిమాః శ్రవణయోః ప్రణయోపచార-
గర్భా గిరశ్చతురమాభరణీకురుష్వ ॥ ౫౮॥
స్వామిన్నబన్ధవతయా వత యా తవేయం
వాణీ మయా నిజగదే జగదేకబన్ధోః ।
తామన్తకాన్తకర శఙ్కర శంసతో మే
కర్ణే కురుష్వ కరుణాం కరుణామ్బురాశే ॥ ౫౯॥
పశ్యన్తమన్ధమభిమానినమస్తమానం
విస్తీర్ణకర్ణమపి యా బధిరం కరోతి ।
సాఽఽర్త్తిర్న నర్తయతి కిం కునృణామివ శ్రీః
తస్మాత్క్షమస్వ భగవన్నతిలఙ్ఘనాని ॥ ౬౦॥
ఉచ్ఛృఙ్ఖలం ఖలమలఙ్ఘ్యబలం జ్వలన్త-
మన్తః కృతాన్తమవికల్పమనల్పదర్పమ్ ।
ఆశఙ్క్య శఙ్కరచరిత్రపవిత్రచిత్ర-
సూక్తిష్వపి స్థిరరుషం ప్రతిబోధయామః ॥ ౬౧॥
ప్రత్యగ్రకర్కశమశల్కముదర్కపథ్యం
తథ్యం సతోషమపదోషమరోషపోషమ్ ।
సన్ధిత్సవస్తవ కృతాన్తహితం మితం చ
యద్బ్రూమహే తదవధారయ సావధానః ॥ ౬౨॥
అన్యత్ర దర్శయ నిరఙ్కుశ హుఙ్కృతాని
కీనాశ నాశయ దురాశయ మాఽభిమానమ్ ।
నాథీకృతేన్దుముకుటానపి నామ మన్యే
నిర్భర్త్సయిష్యసి హతైవ తవేయమాశా ॥ ౬౩॥
యేనేశ్వరేణ మహతా విహితాగసస్తే
కృత్వాఽపి శాసనమకారి పునః ప్రసాదః ।
తత్సేవకా వయమతస్తవ విద్విషోఽపి
యద్బ్రూమహే హితమదో మనుషే రుషేతి ॥ ౬౪॥
రే దుర్వినీత ఖల కాల పురా పురారే-
ర్యామాప్తవానసి నిజావినయప్రశాస్తిమ్ ।
శ్రుత్వైవ తాం ధృతిమతామపి కమ్పమేతి
చేతః కథం పునరుపక్రమసే తదేవ ॥ ౬౫॥
పాణౌ నిధేహి పవనాశనపాశమాశు
నాస్తీహ తే పురుషపాశ రుషోఽవకాశః ।
నిఃసఙ్కరేషు శరణీకృతశఙ్కరేషు
రే కాల కాతరభయఙ్కర కిం కరోషి ॥ ౬౬॥
వ్యాపారయ స్వపురుషం పురుషం పరేషు
మా రోషమఙ్కురయ శఙ్కరకిఙ్కరాణామ్ ।
కిం విస్మృతం విషధరాయుధ నిర్నిరోధ-
క్రోధప్రబోధపటహం హరహుఙ్కృతం తే (తత్)॥ ౬౭॥
కీనాశ బాలిశ నిరఙ్కుశ నిర్విమర్శ
నిస్త్రింశ నిష్కరుణ నిఃశరణేషు చేత్త్వమ్ ।
నిష్కారణం నిరనురోధ కరోషి రోషం
తత్కిం చికీర్షసి మహేశ్వరసంశ్రితేషు ॥ ౬౮॥
కుర్వన్ విరోధమనిరోధమబాన్ధవేషు
ధత్సే ముధా యమ సముద్ధతకన్ధరత్వమ్ ।
తీవ్రాఽపరాధవిధురేష్వపి సాధవో హి
బాధాం విధాతుమధమేష్వపి న క్షమన్తే ॥ ౬౯॥
యత్ప్రాణిషు ప్రభవసి ప్రసభం ప్రహర్తుం
ప్రాప్య ప్రభోః ప్రమథనాథపితుః ప్రసాదమ్ ।
తత్ప్రాక్కృతస్య దురితస్య దురుత్తరస్య
తేషాం ఫలం తవ కిమన్తక పౌరుషం తత్ ॥ ౭౦॥
తత్తథ్యమేవ కిమకారణకణ్టకం త్వాం
యద్ధర్మరాజ ఇతి కాల జనాః స్తువన్తి ।
లోకా న కిం జగదమఙ్గలమూలకోషం
శంసన్తి మఙ్గలవిహఙ్గమ ఇత్యులూకమ్ ॥ ౭౧॥
త్వాం జీవితేశ ఇతి యత్స్తువతే రుదత్యః
కాపాలికాః శవదహో గురవో ద్విజాశ్చ ।
తద్యుక్తమన్తక యతః పరమః సుహృత్త్వం
తేషామకారణరిపుస్త్వసుహృత్పరేషామ్ ॥ ౭౨॥
క్లిశ్యన్త్యవశ్యమపమార్జనభూతయాగ-
నిర్యాణకర్మచరమేష్టిశివక్రియాద్యైః ।
యే దైశికాః పరమకారుణికాః పరార్థే
త్వాం శ్రాద్ధదేవ ఇతి తే రవిజ స్తువన్తి ॥ ౭౩॥
దేశం న యత్త్యజతి సన్తమసన్తమన్తం
ధ్వాన్తం నయంస్తవ పితా సమవర్త్యతోఽర్కః ।
త్వం సత్స్వసత్స్వపి సమం ప్రహరస్యతోఽపి
సద్యః స్తువన్తి సమవర్త్తినమన్తక త్వామ్ ॥ ౭౪॥
కోపం విధాయ తవ యేన కృతః ప్రసాద-
స్తత్సేవకేష్వపి చికీర్షసి యత్ప్రసాదమ్ ।
కిం తత్ర వర్తయసి మాం సమవర్త్యతోఽపి
త్వం స్తూయసే విషమవర్త్యపి మర్మవిద్భిః ॥ ౭౫॥
భాలస్థలాని కలయస్యమలేన్దుమౌలి-
పాదారవిన్దమకరన్దసితాని యేషామ్ ।
త్వం మానవానసి విమానయ మా నయజ్ఞ
తన్మానవానవసి రౌద్ర యది స్వమౌద్రమ్ ॥ ౭౬॥
దుర్వృత్తదర్పశమనాచ్ఛమనోఽసి యత్త్వం
యద్వా యమోఽస్యధమసంయమనాత్తదన్యత్ ।
మన్యే మదం శమయితుం ప్రభవస్తవైవ
త్వామేవ వా యమయితుం భవభక్తిభాజః ॥ ౭౭॥
ఉద్వృత్తమన్తక నృశంస భృశం సగర్వ
శర్వస్తవవ్యవసితేష్వపి చేష్టసే యత్ ।
తద్భావి భావిభవభైరవభైరవోగ్ర-
భాలానలోద్భవపరాభవకృత్పునస్తే ॥ ౭౮॥
కిం వాఽన్యదర్కజ విశఙ్క విశఙ్కటాస్య
హాస్యం చికీర్షసి యదీశ్వరసంశ్రయాణామ్ ।
తన్మా కృథా న హి తవాశ్రితవత్సలోఽసౌ
సానుగ్రహోప్యనుచితం క్షమతే మహేశః ॥ ౭౯॥
భాలస్థలీవ తిలకేన వధూకటాక్ష-
విక్షోభితేన తిలకేన వనావలీవ ।
విజ్ఞప్తిరేణతిలకేన విభావరీవ
శోభాం వసన్తతిలకేన బిభర్త్తి శమ్భోః ॥ ౮౦॥
వాసః క్షీణదశం వయశ్చ కరణగ్రామం మనశ్చాఽక్షమం
నిఃసారేషు దురీశ్వరేష్వపచితేరుద్వేగమఙ్గేష్వపి ।
వ్యర్థం వేశ్మ నృజన్మ చాఖిలమిదం కల్యాణశూన్యం వపుః
కోషం చోద్వహతః కురుష్వ కరుణాం చిత్తే గిరం చ శ్రుతౌ ॥ ౮౧॥
అజ్ఞస్తావదహం న మన్దధిషణః కర్తుం మనోహారిణీ-
శ్చాటూక్తీః ప్రభవామి యామి భవతో యాభిః కృపాపాత్రతామ్ ।
ఆర్తేనాఽశరణేన కిం తు కృపణేనాక్రన్దితం కర్ణయోః
కృత్వా సత్వరమేహి దేహి చరణం మూర్ధన్యధన్యస్య మే ॥ ౮౨॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కృపణాక్రన్దనం'' నామ నవమం స్తోత్రం సమ్పూర్ణమ్ ।
౧౦. కరుణాక్రన్దనం దశమం స్తోత్రమ్
జయతి చిత్తచకోరకచన్ద్రికా
సుకృతినాం వదనాబ్జరవిచ్ఛవిః ।
శ్రవణబర్హిణవర్షణవర్తనీ
హరిణకేతుకలాముకుటస్తుతిః ॥ ౧॥
జయతి భక్తిలతానవమాధవః
సుకృతపాదపపక్వఫలోద్భవః ।
విపదుపద్రవవిక్లవబాన్ధవః
సుకవిసూక్తివధూవదనాసవః ॥ ౨॥
భవమహార్ణవనిస్తరణప్లవః
ప్రవరసూరిమయూరఘనారవః ।
హృదయదాహహృతావమృతద్రవః
కుముదినీరమణాభరణస్తవః ॥ ౩॥
మధురమిన్దుముఖీవదనాదపి
క్లమహరం సురసిన్ధుజలాదపి ।
త్రిభువనాధిపతిస్తుతిపావనం
జయతి సత్కవిసూక్తిరసాయనమ్ ॥ ౪॥
నవనవభ్రమరస్వనశోభినీ
భవమరుభ్రమఘర్మశమక్షమా ।
హృదయనన్దనచన్దనకన్దలీ
జయతి శఙ్కరభక్తిరభఙ్గురా ॥ ౫॥
అథ కథఞ్చన రూఢమపి క్షణం
మనసి వీక్ష్య వివేకనవాఙ్కురమ్ ।
బహువిధవ్యసనౌఘవిఘట్టితం
సపది విజ్ఞపయామి జగద్గురుమ్ ॥ ౬॥
అపి జగద్విదితః కరుణాపరః
పరహితాఽఽహితమూర్త్తిపరిగ్రహః ।
కిమితి హంసి న హంస హృదమ్బుజే
కృతపదో విపదః శరణార్థినామ్ ॥ ౭॥
యది భవాన్ విదధీత హృది స్థితిం
వ్యసనసమ్పదసౌ ప్రసరేత్కథమ్ ।
యది న సా ప్రసరేత్ప్రసజేత్కథం
బుధజనోఽప్యసమఞ్జసకర్మ్మసు ॥ ౮॥
ఇహ బృహద్భిరుదగ్రపరిగ్రహ-
గ్రహగృహీతమతిర్వ్యసనోద్గమైః ।
యది న కాతరతాం పరతన్త్రతా-
మఫలతాం ఖలతాం చ భజేజ్జనః ॥ ౯॥
యది భజేత న సజ్జనసఙ్గమ-
వ్యసనసర్పదనల్పకృపాస్పదమ్ ।
హృదయమిన్దుమయూఖసుఖాహతి-
వ్యతికరద్రుతచన్ద్రమణిశ్రియమ్ ॥ ౧౦॥
అభిలషేయురనర్గలదుర్గతి-
ప్రసరదీర్ఘనిదాఘనిపీడితాః ।
యది ఘనాగమవన్న ధనాగమం
ప్రణయినస్తృషితా హరిణా ఇవ ॥ ౧౧॥
యది న పీనఘనస్తనభఙ్గుర-
త్రివలిభఙ్గితరఙ్గితమధ్యమాః ।
ఇహ హరేయురపాఙ్గవిలోకితైర్ధృత-
రతిప్రమదాః ప్రమదా మనః ॥ ౧౨॥
బలవదిన్ద్రియతస్కరసఙ్కులే
విషయభీమభుజఙ్గమభీషణే ।
దురితదీర్ఘదవానలదుఃసహే
బహలమోహతమోహతసంవిది ॥ ౧౩॥
కృతధియోఽపి భవాధ్వని ధావతః
ప్రబలకర్మరయాపహృతాత్మనః ।
అవసరే ప్రహరేయురమీ న చే-
న్మదన మానముఖాః పరిపన్థినః ॥ ౧౪॥
ఉపచితోఽభినవామ్రదలావలీ
కవలనాకులకోకిలకూజితైః ।
యది న తర్జయితుం ప్రభవేన్మధౌ
మదనదిగ్విజయోద్యమడిణ్డిమః ॥ ౧౫॥
యది మధౌ మధుపానమదోన్మద
భ్రమరగాయనగుఞ్జితగీతయః ।
సుఖలవానుభవాయ కృతస్పృహం
హర హరేయురిమం న మనోమృగమ్ ॥ ౧౬॥
అభినవస్తవకస్తనసన్నతాః
పవననర్తితపల్లవపాణయః ।
యది న బన్ధనిబన్ధనమృధ్నుయు-
ర్మధుపగుఞ్జితమఞ్జుగిరో లతాః ॥ ౧౭॥
యది శుచౌ మనసీవ న మానినాం
ఘనమనేహసి తాపముపావహేత్ ।
సరజసో హరితస్తరుణైః కరై-
రవిరలం పరిరిప్సురహర్పతిః ॥ ౧౮॥
పృథులసజ్జఘనోరుపయోధరా
గురుమరుచ్చపలాకులితామ్బరాః ।
యది భవేయురిమా న ఘనాగమే
మృగదృశశ్చ దిశశ్చ ధృతిచ్ఛిదః ॥ ౧౯॥
సురభిగన్ధిసహాసముఖామ్బుజా
ధృతమనోహరహంసకవిభ్రమాః ।
యది న మజ్జనధామ నతభ్రువః
శరది సంస్మరయేయురగాపగాః ॥ ౨౦॥
యది న దీర్ఘతమాః సమవాప్నుయుః
సహసి దుర్విషహోల్బణవాయవః ।
ధృతఘనోష్మబృహత్తరుణీస్తన-
స్మరణకారణతామపి రాత్రయః ॥ ౨౧॥
యది భవేన్న ఘనావరణోద్గమ-
గ్లపితధామని ఘమనిధౌ బహిః ।
తపసి చేతసి చ వ్యసనాకులే
తపసి రూఢరసోఽప్యలసో జనః ॥ ౨౨॥
తదఖిలాపదుపోద్ధరణక్షమం
సమధిగమ్య దురాపమిదం పునః ।
పవనవేల్లితబాలమృణాలినీ-
దలచలజ్జలబిన్దునిభం వపుః ॥ ౨౩॥
భవ భవత్పదపఙ్కజపూజన-
వ్యసనసౌమనసీమపహాయ కః ।
ఇహ సహేత విభూతిలవోన్మిష-
న్మదకదర్యవికారకదర్థనామ్ ॥ ౨౪॥
ఇదముదఞ్చతి మేఘమయం మహత్
పిహితభాస్వదమన్దమహస్తమః ।
ఘనబలోఽపి స కాల ఉపస్థిత-
స్తదిహ హంస పదం కురు మానసే ॥ ౨౫॥
ఇతి యదన్తరనన్త తిరోదధన్
ముదముదఞ్చతి మోహమహాతమః ।
తవ రవీన్దుహుతాశనచక్షుషో
హృది నివేదయతీదమసన్నిధిమ్ ॥ ౨౬॥
న హి మహేశ మనస్త్వదధిష్ఠితం
భ్రమయితుం ప్రభవన్తి భవోర్మయః ।
న హి వనం హరిణాధిపరక్షితం
క్షపయితుం కపయః క్వచన క్షమాః ॥ ౨౭॥
వరమరణ్యసరిత్పులినస్థలీ-
తరుతలే ఫలమూలజలాశినః ।
స్థితిరనర్గలవల్కలవాససో
న శివభక్తిమృతే త్రిదశేన్ద్రతా ॥
భవతి పశ్యతి నశ్యతి దుర్గతిః
స్ఫురతి శక్తిరుపైతి ధృతిం మతిః ।
స్తుతికృతి ప్రతిపత్తిమతి శ్రుతిస్మృతి-
భృతి స్థితిమేతి చ నిర్వృతిః ॥ ౨౮॥
కతి న బుద్బుదవద్భవవారిధా-
విహ లసన్తి గలన్తి చ జన్తవః ।
సమజని స్పృహణీయజనిః పున-
ర్జగతి కశ్చన యః శివసేవకః ॥ ౨౯॥
సపది పీఠవిలోఠితమూర్తిభి-
ర్భగవతః శుచిభిర్ధృతభక్తిభిః ।
చరణరేణుకణైరివ మాదృశై-
ర్దివిషదామపి మూర్ధ్ని పదం కృతమ్ ॥ ౩౦॥
నిపతతాం విషమే విపదమ్బుధౌ
యదవలమ్బనమస్తవిడమ్బనమ్ ।
జగదమఙ్గలభఙ్గవిధాయి త-
జ్జయతి రత్నమహో శివసేవనమ్ ॥ ౩౧॥
జయతి జన్మజరామరణవ్యథా-
శమసమర్థమనర్థ నివర్హణమ్ ।
సకలమఙ్గలధామ సుధామయం
భగవదర్చననామ మహౌషధమ్ ॥ ౩౨॥
ఇదమసాధితమేవ రసాయనం
నిరుపభోగమిదం సుఖమక్షయమ్ ।
అమృతమేతదనమ్బుధిమన్థనం
యదవినశ్వరమీశ్వరసేవనమ్ ॥ ౩౩॥
కిమఫలైరపరైర్భవశమ్బరైః
కరితురఙ్గరథామ్బరడమ్బరైః ।
భగవదఙ్ఘ్రిసరోరుహసేవన-
వ్యసనమస్తు మమానిధనం ధనమ్ ॥ ౩౪॥
వహతు సా రమణీ రమణీయతా-
మమృతమస్త్వమృతం మధు వా మధు ।
భవతు నిర్వృతిధమ తు యామినీ-
రమణమణ్డనసేవనమేవ నః ॥ ౩౫॥
అహమహర్నిశమేకమనా మనా-
గుపరమన్మదమన్మథమత్సరః ।
భగవతీరవగత్య దురత్యయాః
శరధరాభరణం శరణం శ్రయే ॥ ౩౬॥
ఇదమహ కరుణామృతసాగరం
శశికిశోరశిరోమణిమర్థయే ।
వ్రజతు జన్మని జన్మని మే వపు-
ర్భవదుపాసనసాధనతామితి ॥ ౩౭॥
కమపి నామ నికామమనోహరం
వహతి టఙ్కమనఙ్కుశమేవ యత్ ।
తదకలఙ్కమలఙ్కరణం ముఖే
భవతు మే శివనామ నిరామయమ్ ॥ ౩౮॥
హృదయ భావయ భావమనావిలం
నిరవధాన బధాన దృఢాం ధృతిమ్ ।
త్వమసమర్థ సమర్థయసే సుఖం
కిమవినాశి వినా శివసేవనమ్ ॥ ౩౯॥
భవరసం ప్రతి సమ్ప్రతి తృష్ణయా
త్యజసి మానస మానసమున్నతిమ్ ।
మదనశాసనశాసనతః పరం
కమనపాయముపాయముదీక్షసే ॥ ౪౦॥
ఉపవనే పవనేరితమాధవీ-
ధవలితే వలితే తరుపఙ్క్తిభిః ।
అమలకోమలకోషనిషణ్ణషట్-
చరణపారణపావనపఙ్కజే ॥ ౪౧॥
సమదనే మదనేన వశీకృతా
వరవధూరవధూయ భజ ప్రభుమ్ ।
అశరణోద్ధరణోద్ధతధీః శుచా-
ముపరమం పరమం స కరోతి తే ॥ ౪౨॥
జహిహి మోహముపేహి నిజాం స్థితిం
త్యజ శుచం భజ మానపరిగ్రహమ్ ।
అహరహర్హరపాదసరోరుహ-
స్మృతిరసాయనపానపరం భవ ॥ ౪౩॥
తదసమఞ్జసమఙ్గ యదఙ్గనా-
నయనచాపలశాపముపేయతామ్ ।
నయసి నిత్యబహిర్ముఖ శఙ్కర-
స్మరణసౌమనసీమపి హేయతామ్ ॥ ౪౪॥
యది సమర్థయసే దురతిక్రమం
కుపితకాలభటభ్రుకుటీభయమ్ ।
తదచికిత్స్యభవామయభేషజం
భజ భుజఙ్గమభూషణతోషణమ్ ॥ ౪౫॥
యది చికీర్షసి సౌహృదమాత్మనః
పరిజిహీర్షసి యద్యఘబన్ధనమ్ ।
యది తితీర్షసి సంసృతిసాగరం
శ్రయమయస్కరమీశ్వరసేవనమ్ ॥ ౪౬॥
యది వరాక సుకర్మవిపాకతః
కరతలే పతితస్తవ శేవధిః ।
తమఖిలాపదపాకరణక్షమం
నయసి మూఢ నిరర్థకతాం కథమ్ ॥ ౪౭॥
అమలశీలకులశ్రుతవిశ్రుతం
సదసదర్థవిచారవిశారదమ్ ।
పురజిదర్చనసౌఖ్యపరాఙ్ముఖం
నయసి మానస మానుషజన్మ యత్ ॥ ౪౮॥
భ్రమదమన్థరమన్థరయాహతి-
ధ్వనదముద్రసముద్రసమానయా ।
శమితశాపదశాపదమేహి మే
హర గిరా వితరావితథం వరమ్ ॥ ౪౯॥
అనుగృహాణ గృహాణ ఘృణార్ణవ
ప్రణయినః ప్రణయానుగుణం వచః ।
ఉపకురుష్వ కురుష్వ దృఢం మనా-
గశరణోద్ధరణప్రవణం మనః ॥ ౫౦॥
పృథుశిరస్త్రిదశాపగయా శ్రితం
కరుణయా హృదయం శివయా వపుః ।
కథమతిప్రమితే భగవన్ ధృతిః
శ్రవణరన్ధ్రపదేఽపి న మే గిరః ॥ ౫౧॥
త్వదనురాగభరేణ కదర్థితా
త్వదనురఞ్జనకర్మణి చాక్షమా ।
ఇతి మతిర్మమ చాటుపరాఙ్ముఖీ
హర కరోతి నిజార్తినివేదనమ్ ॥ ౫౨॥
ప్రియతమోఽసి మతేర్మమ సా పున-
ర్న గుణవత్యపి తే హృదయఙ్గమా ।
ఇతి మహేశ భవద్విరహాతురా
భజతి కామపి కామకదర్థనామ్ ॥ ౫౩॥
భవ భవత్పరిరమ్భసుఖోఽస్తు మా
త్వదుపభోగవిధౌ తు కథైవ కా ।
తవ తు దర్శనమాత్రకకాఙ్క్షిణీం
మమ మతిం కథమిత్థముపేక్షసే ॥ ౫౪॥
కుటిలతాం న జగామ నికామతో
న సహజం మలినత్వముపేయుషీ ।
వహసి కిం ఘనరాగకదర్థితాం
మమ మతిం ప్రతి కర్కశమాశయమ్ ॥ ౫౫॥
అథ గతా పరిణామదశామితి
త్యజసి చేన్మమ ముగ్ధతమాం మతిమ్ ।
కిమపరం ఘనమోహవిమూర్ఛితా
ప్రథయతాం తవ నిర్దయతామియమ్ ॥ ౫౬॥
ఇదమనఙ్గజనఙ్గమసఙ్గమ-
భ్రమదమన్దమలం చపలం మనః ।
అమృతకుమ్భకర ద్యుతరఙ్గిణీ-
ధర సుధాకరశేఖర శోధయ ॥ ౫౭॥
భవ మరుభ్రమఖేదకదర్థితం
సువిషమైస్తృషితం విషయోష్మభిః ।
మదయతే హృదయం మమ నిర్భరం
భవ భవచ్చరణస్మరణామృతమ్ ॥ ౫౮॥
విషయపన్నగపాశవశీకృతం
భవమహార్ణవమగ్నమనీశ్వరమ్ ।
బహలమోహమహోపలపీడితం
హర సముద్ధర మాం శరణాగతమ్ ॥ ౫౯॥
యమభటైర్హ్వియమాణమయన్త్రణై-
రశరణం శరణం చరణౌ శ్రితమ్ ।
ఘనఘృణామృతనిర్భరయా దృశా
మదనమర్దన మామవలోకయ ॥ ౬౦॥
అభయఘోషమిషోన్మిషితాఽమృత-
ద్రవమబన్ధ్యధృతస్మితచన్ద్రకమ్ ।
వదనచన్ద్రమసం తవ పశ్యతో
మమ కదా ను తమః శమమేష్యతి ॥ ౬౧॥
ప్రబలతాపకదర్థితవిగ్రహం
ద్విజపతిం పరిపాలయితుం శిశుమ్ ।
వహసి కిం న విభో హృదయే దయాం
శిరసి నిర్జరనిర్ఝరిణీమివ ॥ ౬౨॥
ప్రణతతాపవిపత్క్షపణక్షమాం
దలితసన్తతసన్తమసస్థితిమ్ ।
హృది నిధేహి దయామమృతస్రుతం
హరిణకేతుకలామివ మూర్ధని ॥ ౬౩॥
అభిమతాధికసిద్ధివిధాయినీం
భవదవచ్ఛిదమవ్యభిచారిణీమ్ ।
వహ విభో హృదయే దయితాం దయాం
వపుషి భూధరరాజసుతామివ ॥ ౬౪॥
చిన్తామణిః స్ఫటికజాతిరచేతనోఽపి
కల్పద్రుమః కఠినకాష్ఠవినిర్మితోఽపి ।
తిర్యగ్దశామపి గతా కిల కామధేను-
ర్భాగ్యైరభీష్టఫలదా కృతినాం భవన్తి ॥ ౬౫॥
త్వం తు ప్రభో త్రిభువనైకమహేశ్వరోఽపి
పర్యాప్తశక్తిరపి పూర్ణకృపార్ణవోఽపి ।
ఆక్రన్దతోఽపి కరుణం విధివఞ్చితస్య
త్యక్తాదరోసి మమ దర్శనమాత్రకేఽపి ॥ ౬౬॥
చిరం ద్వారోపాన్తే స్థితమవసరోద్వీక్షణధియా
తిరస్కారః సోఢః కుపితముఖరద్వాఃస్థవిహితః ।
ముఖం దీనం కృత్వా విభవలవగర్వాన్ధితదృశాం
కదీశానామగ్రే క ఇవ న విసోఢః పరిభవః ॥ ౬౭॥
పరిమ్లానో మానస్తనురపి తనుస్తామ్యతితమాం
మనో మోహావర్తే భ్రమతి ధృతిరస్తం వ్రజతి చ ।
కథాపి క్లేశానామవతరతి నోచ్ఛేదపదవీం
దవీయస్యామస్యాం భవభువి ముధా ధావతి మతిః ॥ ౬౮॥
తదేవం దుర్వారవ్యసనశతసమ్పాతవిషమం
విశన్నేష స్వామిన్నహహ సుమహన్మోహగహనమ్ ।
అవిన్దన్నాశ్వాసక్షమమపరమాపన్నసుహృదం
జనోఽవజ్ఞాపాత్రం భవతి కరుణాబ్ధేర్న భవతః ॥ ౬౯॥
కదర్యాణామగ్రే తరలనలినీపల్లవతల-
ప్రలీనప్రాలేయప్రచలకమలామూఢమనసామ్ ।
అదభ్రభ్రూభఙ్గప్రభవమవమానం హతధియః
సహన్తే హన్తేహ ద్రవిణకణతృష్ణాన్ధితదృశః ॥ ౭౦॥
అహం తు ప్రత్యగ్రప్రభుచరణరాజీవరజసా
పవిత్రం మూర్ధానం దధదధికభక్తిగ్రహగురుమ్ ।
భ్రుకుంసత్వం బిభ్రత్ప్రమదభరసన్దర్భరభసా-
ద్భజేయం భూతేశభ్రుకుటిఘటనాభాజనభువమ్ ॥ ౭౧॥
సురస్రోతఃస్వత్యాస్తటవిటపిపుష్పౌఘసురభౌ
గిరిగ్రావగ్రామస్ఖలనముఖరస్రోతసి జలే ।
శ్రమక్షామైరఙ్గైరగణితభవక్లేశవిపదాం
కదా స్యాన్నస్తృప్తిర్హరచరణసేవాసుఖరసైః ॥ ౭౨॥
అమన్దానన్దానాం దలదలఘుసన్తాపవిపదాం
పదామ్భోజద్వన్ద్వం శిరసి దధతామిన్దుశిరసః ।
కదా నః కాలిన్దీసలిలశబలైరమ్బరసరి-
త్తరఙ్గైరఙ్గారీభవతి భవబన్ధేన్ధనచయః ॥ ౭౩॥
సాన్ద్రానన్దస్తిమితకరణః పుణ్యనైపుణ్యభాగీ
భాగీరథ్యాస్తటవిటపినః క్వాపి మూలే నిలీనః ।
సర్వాకారం గిరిపతిసుతాకాన్తమేకం ప్రపన్నః
స్వాత్మారామః శమసుఖసుధాస్వాదమభ్యేతి ధన్యః ॥ ౭౪॥
అభిజనగుణఖ్యాతిప్రజ్ఞాభిమానభరోద్ధురాం
క ఇవ సదసి ప్రహ్వీకర్త్తుం క్షమేత (సహేత)శిరోధరామ్ ।
విదధతి ముహుర్హేలాఖేలం భవత్యవధీరణం
భ్రమయితుమమీ యుక్తా న స్యుర్యదీన్ద్రియవైరిణః ॥ ౭౫॥
మానః కస్య న వల్లభః ఖలముఖప్రేక్షిత్వదుఃస్థా స్థితిః
కస్య ప్రీతికరీ త్రపాభరనతం కస్మై శిరో రోచతే ।
కిన్తు స్వామిని సాఽవలేపహృదయే దాసీకృతాః శత్రుభిః
క్షుద్రానద్యతనేశ్వరాన్ధనమదక్షీవాన్నిషేవామహే ॥ ౭౬॥
స్తబ్ధా ద్వారి యదాస్మహే క్షితిభుజాం నిర్భర్త్సితా వేత్రిభి-
ర్యద్గర్వాన్ధనరేన్ద్రవల్లభదురుద్గారైర్విదహ్యామహే ।
యన్మిథ్యాస్తుతిపాతకైర్భగవతీం వాచం తిరస్కుర్మహే
తత్సర్వం తవ వక్రవక్త్రవలనామాత్రస్య విస్ఫూర్జితమ్ ॥ ౭౭॥
దృష్ట్వా పాటలగణ్డలేఖమరుణోద్వాష్పేక్షణం ప్రస్ఫురద్-
బిమ్బోష్ఠం ప్రథమాపరాధకుపితం వక్త్రం కురఙ్గీదృశః ।
యత్సప్రేమ సవిస్మయం సవినయం సాపత్రపం సస్పృహం
సత్రాసం చ మనోఽభవత్తదధునా శ్రాన్తం చ శాన్తం చ నః ॥ ౭౮॥
యత్ఖర్వీక్రియతే సుఖం విషయజం త్వద్భావనాజన్మనా
హ్లాదేన క్షణికం స్థిరేణ మహతా స్వల్పం కిమత్రాద్భుతమ్ ।
తచ్చిత్రం భవదుఃఖజం భవదనుధ్యానప్రమోదాశ్రుణా
వాష్పామ్బు ధ్రువమధ్రువేణ సుమహత్సూక్ష్మేణ యద్భిద్యతే ॥ ౭౯॥
అజ్ఞానాన్ధమబాన్ధవం కవలితం రక్షోభిరక్షాభిధైః
క్షిప్తం మోహమహాన్ధకూపకుహరే దుర్హృద్భిరాభ్యన్తరైః ।
క్రన్దన్తం శరణాగతం గతధృతిం సర్వాపదామాస్పదం
మా మా ముఞ్చ మహేశ పేశలదృశా సత్రాసప్రాశ్వాసయ ॥ ౮౦॥
యద్విశ్వోద్ధరణక్షమాఽప్యశరణత్రాణైకశీలాపి తే
మామార్త్తం దృగుపేక్షతే స మహిమా దుష్టస్య మే కర్మ్మణః ।
దేవ్యాం దివ్యమృతైః పయోధరధృతైః పృథ్వీం పృణత్యాం (స్తృణన్త్యామ్)కణా
ద్విత్రాశ్చేన్న ముఖే పతన్తి శిఖినః కిం వాచ్యమేతద్దివః ॥ ౮౧॥
శుభ్రం బిభ్రత్తరుణకరుణాఽఽక్రాన్తమశ్రాన్తమన్తః
స్వాన్తం శాన్తప్రణతజనతాక్లేశలేశప్రవేశమ్ ।
ప్రాణత్రాణప్రణయకృపణప్రాకృతప్రాణివర్గ-
వ్యాపత్తాపక్షపణనిపుణాం ముఞ్చ చణ్డీశ వాణీమ్ ॥ ౮౨॥
అదభ్రశ్వభ్రేయం భవసరణిరాతఙ్కబహులా
గలద్బోధజ్యోత్స్నా నిరవధిరసౌ మోహరజనీ (మోహజననీ)।
నయన్త్యేతే శాన్తిం విషమవిషయోత్పాతమరుతః
ప్రదీపం ప్రజ్ఞాఖ్యం ప్రతిదిశ దృశం క్లేశశమనీమ్ ॥ ౮౩॥
శరీరం నీరోగం నవమపి వయః సంస్కృతిమతీ
మతిర్వన్ద్యా జాతిః ప్రభురపి భవాన్ భక్తిసులభః ।
ఇతీయం సామగ్రీ సుకృతశతలభ్యా విఘటతే న
యావత్తావన్మే శృణు కరుణమాక్రన్దితమిదమ్ ॥ ౮౪॥
జయన్తి కృతినః కవేరమృతసారసిక్తాక్షరా
వికస్వరశరత్సుధాకరకరానుకారిత్విషః ।
పురారిపదపఙ్కజస్తవపవిత్రచిత్రక్రమాః
సమున్మిషితమాలతీముకులకోమలాః సూక్తయః ॥ ౮౫॥
శివస్తవకృతో మధౌ మలయవాయువేల్లల్లతా-
గలన్మధుమదోన్మదభ్రమరపుఞ్జగుఞ్జచ్ఛలాత్ ।
నదన్మదనశిఞ్జినీఝణితభీతసీమన్తినీ-
భుజాకలితకన్ధరా అధివసన్తి లీలావనమ్ ॥ ౮౬॥
అదూరబహిరఙ్గనోపవనజాతచూతావలీ-
విలీనకలకోకిలాకలితకాకలీకూజితైః ।
వలన్మలయమారుతప్రచలదుల్లసన్మల్లికా-
వికాసికుసుమస్ఖలద్భ్రమరమణ్డలీగుఞ్జితైః ॥ ౮౭॥
నిగూఢతిమిఘట్టనస్ఫురితదీర్ఘికాసమ్భ్రమ-
త్రసత్కమలకోటరస్థితమరాలబాలస్వనైః ।
రటత్పటహఝల్లరీమురజతూర్యభేరీగణ-
ప్రణాదముఖరీభవద్భవనబర్హికేకారవైః ॥ ౮౮॥
సుధామధురవారుణీరసకషాయకణ్ఠోద్భవ-
న్నవశ్రుతిరసాయనప్రగుణగాయనీగీతకైః ।
ప్రవీణపరివాదకోదితవిభాసరాగస్వర-
క్రమానుగతవల్లకీవికచకీచకప్రక్వణైః ॥ ౮౯॥
ప్రభాతగుణవర్ణనప్రవణబన్దివృన్దస్తుతి-
ప్రబుద్ధశుకసారికాకలహకేలికోలాహలైః ।
బహిర్విహరదఙ్గనారణితరత్నకాఞ్చీగుణ-
క్వణత్కనకకిఙ్కిణీఝణఝణారవాడమ్బరైః ॥ ౯౦॥
ఖురక్షతవసున్ధరోద్ధురతురఙ్గహేషోన్మిష-
త్ప్రబోధధుతకన్ధరద్విరదకణ్ఠఘణ్టారవైః ।
స్మరాఽలసవిలాసినీస్తనభరోపరుద్ధోరస-
స్త్యజన్తి శయనం శనైరుషసి శమ్భుశంసాజుషః ॥ ౯౧॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కరుణాక్రన్దనం'' నామకం దశమం స్తోత్రం సమ్పూర్ణమ్ ।
౧౧. దీనాక్రన్దనం ఏకాదశం స్తోత్రమ్
ధన్యోఽస్మి సమ్యగమృతం కిమపి స్రవన్తీ
సఞ్జీవనం భగవతీ విదధాతి యస్య ।
స్నేహస్నుతస్తనయుగా జననీవ జీవ-
రక్షార్థమార్త్తివిధురస్య మమోక్తిదేవీ ॥ ౧॥
ధన్యోఽస్మి దుఃసహవిపత్పతితస్య యస్య
వాణీధృతోన్నతిరపుణ్యకృతామభూమిః ।
కల్యాణినీ సుమనసాముపసేవనీయా
సౌమేరవీవ పదవీ న దవీయసీయమ్ ॥ ౨॥
ధన్యోఽస్మి మోహతిమిరాన్ధదృశోఽపి యస్య
సానుగ్రహేణ విధినా పరికల్పితా మే ।
వల్గుస్వనా గుణవతీ ధృతవక్రభఙ్గి-
రారాధనాయ గిరిశస్య సరస్వతీయమ్ ॥ ౩॥
సఞ్జీవనౌషధిరబైమి నవా భవాగ్ని-
భస్మీకృతస్య విధినా మమ నిర్మితేయమ్ ।
వాణీ శివైకవిషయాభినవోఢగౌరీ-
దృష్టిచ్ఛటేవ చకితా మకరధ్వజస్య ॥ ౪॥
జానే కథఞ్చిదుదితా మమ శోకవహ్ని-
తప్తాత్స్ఖలన్మృదుపదా హృదయాదియం గౌః ।
చేతః ప్రవేక్ష్యతి శనైః కరుణామృతౌఘ-
నిఃష్యన్దశీతమపి శీతమయూఖమౌలేః ॥ ౫॥
యచ్చాటుచాపలమలఙ్ఘ్యభవభ్రమోఽహం
మోహం వహన్నిహ ముహుర్ముహురాచరామి ।
తత్ర స్పృహావహమహార్యమహార్యపుత్రీ-
భర్తుః పరార్ధ్యమపరాధ్యతి సౌకుమార్యమ్ ॥ ౬॥
యో మూర్ధని ధ్వనదనర్గలనిర్ఝరౌఘ-
ఝాఙ్కారిణీమమరనిర్ఝరిణీం దధానః ।
గృహ్ణాతి భక్తజనతః కలశాభిషేకం
కస్తం న విజ్ఞపయితుం విభుముత్సహేత్ ॥ ౭॥
దగ్ధోస్మి తావదమునా దమునా మమాఽన్త-
ర్యః ప్రజ్జ్వలత్యఘనిదాఘనిదానజన్మా ।
ముక్తస్య మే ప్రతిభయాతిభయాకులస్య
వాణీ కథం విగలతో గలతోఽభ్యుదేతి ॥ ౮॥
క్రన్దామ్యతః కిమపి నామ పినాకపాణే
తీవ్రార్త్తినిస్తరణకారణ కాతరోఽహమ్ ।
మోహాటవీవికటసఙ్కటసంస్థితస్య
తన్మేఽవధారయ శివాయ శివాతురస్య ॥ ౯॥
ఆక్రన్దమిన్దుధర ధారయ దేవ కర్ణే
కస్త్వత్పరః పరమకారణ కర్ణధారః ।
మూర్ధ్నా వహన్నుడుపఖణ్డమఖణ్డపుణ్యం
కం కం న తారయసి సంసృతిసాగరాద్యః ॥ ౧౦॥
అస్మాదృశైరశుచిభిశ్చటుచాపలాని
కౢప్తాన్యవైమి న మనస్తవ నన్దయన్తి ।
ఆవర్జనాయ విహితాన్యపి చన్ద్రమౌలే
కౌలేయకస్య లడితాని కిమాద్రియన్తే ॥ ౧౧॥
యద్వా న ముగ్ధచరితాన్యపి న ప్రసాద-
ముత్పాదయన్తి భవతః కరుణార్ణవస్య ।
స్వామిన్దరత్పురవిహారపరస్య కిం న
చేతో హరన్తి తవ బాలకవల్గితాని ॥ ౧౨॥
దీనైర్విముగ్ధవచనైరసమఞ్జసార్థై-
ర్యద్వద్ద్రవన్తి హృదయాని దయానిధీనామ్ ।
తద్వన్న దృష్టసభసప్రతిభప్రగల్భ-
సన్దర్భగర్భరచనాఞ్చితవాక్ప్రపఞ్చైః ॥ ౧౩॥
దుగ్ధాబ్ధిదోఽపి పయసః పృషతం వృణోషి
దీపం త్రిధామనయనోఽప్యురరీకరోషి ।
వాచాం ప్రసూతిరపి ముగ్ధవచః శృణోషి
కిం కిం కరోషి న వినీతజనానురోధాత్ ॥ ౧౪॥
యత్సత్యవత్యపి జగద్విదితాఽనసూయా
వాణీ మమేయమిదమేవ హి దేవ చిత్రమ్ ।
అత్యద్భుతం పునరిదం యదరున్ధతీయం
త్వామారిరాధయిషురేవముదీరితాఽపి ॥ ౧౫॥
స్వే ధామ్ని హృది కృతస్థితిముక్తిదేవీం
కృత్వా ప్రవేశమనయః స్వయమున్ముఖత్వమ్ ।
ధారాధిరూఢవిరహవ్యథితామిదానీ-
మాధాయ ధైర్యమవధారయసీత్యయుక్తమ్ ॥ ౧౬॥
ఏకా త్వమేవ భవితాసి మమ ప్రియేతి
దత్తం వరం స్మరసి చేద్గిరిరాజపుత్ర్యాః ।
ప్రేమ్ణా బిభర్షి కథమమ్బరసిన్ధుమిన్దు-
లేఖాం చ మూర్ధ్ని హృదయే దయితాం దయాం చ ॥ ౧౭॥
ఏతాం నిసర్గసరలామభిజాతముగ్ధా-
మద్ధాఽవధీరయసి ధీరగభీరమానీ ।
జానాసి కిం న శతశో నతసాన్త్వనేషు
యద్వృద్ధయా కరుణయా నరినర్తితోఽసి ॥ ౧౮॥
ప్రస్తౌతి నిస్త్రపతయార్త్తికదర్థితేయం
చాటూని కర్త్తుమపి మౌగ్ధ్యవిసంస్థులాని ।
కాత్యాయనీవచనదుర్లలితస్య తాని
ముక్తోపమాని న మనస్తవ నన్దయన్తి ॥ ౧౯॥
అస్యామసహ్యవిరహజ్వరకాతరాయాం
ప్రీతిర్న తే యది పరం నిరవగ్రహస్య ।
సర్వాన్తరార్త్తిదలనాయ దృఢా ప్రతిజ్ఞా
విజ్ఞాతతత్త్వ కథమీశ్వర విస్మృతా తే ॥ ౨౦॥
సత్యం కలాం వహసి బిభ్రదుమాం యదర్ధే
ధత్సే దయాం హృది యయార్థిషు నర్తయన్త్యా ।
నీతోఽసి నీలగల నీలగలత్వమేవ
మద్వాచి సాచి తు ముఖం కురుషే రుషేవ ॥ ౨౧॥
గృహ్ణాసి మూర్ధని జలైర్ధవలైర్విలోలై-
రుద్వేలితాం నిజపదస్ఖలితాం ద్యుసిన్ధుమ్ ।
ఏతామనన్యగతిముజ్ఝసి సాధువృత్తాం
వాచం స్వతన్త్రచరితస్య కిముచ్యతే తే ॥ ౨౨॥
కిం భూయసా యది న తే హృదయఙ్గమేయ-
మస్యా గృహే వససి కిం హృదయే మదీయే ।
సార్ధం ప్రియేణ వసనం తదుపేక్షణం చ
దుఃఖావహం హి మరణాదపి మానినీనామ్ ॥ ౨౩॥
మాతః సరస్వతి బధాన ధృతిం త్వదీయాం
విజ్ఞప్తిమార్త్తివిధురాం విభవే నివేద్య ।
దేవీ శివా శశికలా గగనాపగా చ
కుర్వన్త్యవశ్యమబలాజనపక్షపాతమ్ ॥ ౨౪॥
ఏషా నిసర్గకుటిలా యది చన్ద్రలేఖా
స్వర్గాపగా చ యది నిత్యతరఙ్గితేయమ్ ।
దేవీ దయార్ద్రహృదయా తు నగేన్ద్రకన్యా
ధన్యా కరిష్యతి న తే నిబిడామవజ్ఞామ్ ॥ ౨౫॥
త్వామేవ దేవి శరణీకరవాణి వాణి
కల్యాణి సూక్తిభిరుపస్తుహి చన్ద్రమౌలిమ్ ।
మాతర్నయామి న పునభవతీమలీక-
వాచాలబాలిశవిలఙ్ఘనభాజనత్వమ్ ॥ ౨౬॥
దేవి ప్రపన్నవరదే గుణగౌరి గౌరి
యద్గౌరియం పరిమితం స్రవతీహ కిఞ్చిత్ ।
తత్స్వామినే సముచితే సమయే సుపాక-
మాకూతవేదిని నివేదయితుం ప్రసీద ॥ ౨౭॥
స్వేచ్ఛావికల్పితమదృష్టవిశిష్టపాకం
మాత్రావిహీనమిదమార్యజనైరజుష్టమ్ ।
ఉన్మత్తభాషితమథాపి భవత్యవశ్యం
సద్భేషజం విషమయస్య భవామయస్య ॥ ౨౮॥
భాలానలం తవ యథా ముకుటస్థితైవ
శక్నోతి నో శమయితుం కిల సిద్ధసిన్ధుః ।
తద్వజ్జ్వలన్తమనిశం హృది శోకవహ్నిం
వక్త్రే వసన్త్యపి మమాఽత్ర సరస్వతీయమ్ ॥ ౨౯॥
ప్రాక్చేన్మయా విహితమావిలమేవ కర్మ
స్వామిన్ కుతస్త్వయి మమైష దృఢోఽనురాగః ।
ఏకాన్తశుక్లమథ చేదతిదుఃసహోఽయం
శోకానలో హృదయదాహకరః కిమన్తః ॥ ౩౦॥
క్వాప్యన్యజన్మని విధాయ విభోరవశ్య-
మారాధనామనుశయాలు మనో మమాభూత్ ।
నో చేత్ కథం కులగుణాదిపవిత్రమేత-
త్సర్వం నృజన్మ మమ నిష్ఫలమేవ జాతమ్ ॥ ౩౧॥
మానుష్యనావమధిగమ్య చిరాదవాప్య
నిస్తారకం చ కరుణాభరణం భవన్తమ్ ।
యస్యాఽభవద్భరవశస్తరితుం భవాబ్ధిం
సోఽహం బ్రుడామి వద కస్య విడమ్బనేయమ్ ॥ ౩౨॥
స్వామీ ప్రసాదముపకారిషు సేవకేషు
యోగ్యేషు సాధుషు కరోతి కిమత్ర చిత్రమ్ ।
సన్తస్త్వభాజనజనేష్వపి నిర్నిమిత్తం
చిత్తం వహన్తి కరుణామృతసారసిక్తమ్ ॥ ౩౩॥
తస్మాత్సమాప్తసకలాఽభ్యుదయాభ్యుపాయ-
మాయస్తచేతసమసమ్భవభగ్నవృత్తమ్ ।
సీదన్తమన్తకభయాదభయార్పణేన
సమ్భావయ స్వయమనర్థకదర్థితం మామ్ ॥ ౩౪॥
త్వాం నీతిమాన్ భజతి యః స భవత్యనీతి-
ర్ముక్తః స యో హి భవతా హృదయాన్న ముక్తః ।
యస్తే రతోఽపచితయేఽపచితిం స నైతి
తత్త్వాం శ్రితోఽస్మి భవమస్మ్యభవో న కస్మాత్ ॥ ౩౫॥
స్వాపః సచిన్తమనసో నిశి మే దురాపో
నిర్దాహ ఏవ గమయామి కదా సదాహః ।
రక్ష త్వదేకవశగం శివ మామవశ్యం
కస్మాద్భవస్యపరుషో మమ కర్కశస్త్వమ్ ॥ ౩౬॥
పాపః ఖలోఽహమితి నాఽర్హసి మాం విహాతుం
కిం రక్షయా కృతమతేరకుతోభయస్య ।
యస్మాదసాధురధమోఽహమపుణ్యకర్మా
తస్మాత్తవాస్మి సుతరామనుకమ్పనీయః ॥ ౩౭॥
స్వైరేవ యద్యపి గతోఽహమధః కుకృత్యై-
స్తత్రాపి నాథ తవ నాస్మ్యవలేపపాత్రమ్ ।
దృప్తః పశుః పతతి యః స్వయమన్ధకూపే
నోపేక్షతే తమపి కారుణికో హి లోకః ॥ ౩౮॥
అత్యున్నతాన్నిజపదాచ్చపలశ్చ్యుతోఽయం
భూరీన్భ్రమిష్యతి జడప్రకృతిః కుమార్గాన్ ।
మత్వేతి చేత్త్యజసి మామయమీదృగేవ
గాఙ్గస్త్వయా కిమితి మూర్ధ్ని ధృతః ప్రవాహః ॥ ౩౯॥
హన్తాఽయమార్తిమపి నారకిణాం ధృతశ్చే-
న్మూర్ధ్నా కిలేతి వహసే యది గాఙ్గమోఘమ్ ।
ఏతత్తవోచితమనాథజనార్తిభఙ్గ-
హేవాకినో ఘనఘృణామృతసాగరస్య ॥ ౪౦॥
అస్మాదృశస్య రసనా తు సహస్రధేయం
గచ్ఛేదవాప్య తవ శీర్షమితీరయన్తీ ।
కిం తూద్ధరామి భవదగ్రపదావమర్శ-
మాత్రాదహం త్రిజగతీమితి మే ప్రతిజ్ఞా ॥ ౪౧॥
క్షామో నికామజడిమా కుటిలః కలావాన్
దోషాకరోఽయమితి చేత్త్యజసి ప్రభో మామ్ ।
ఏతాదృశైరుపగతోఽపి సమస్తదోషైః
కస్మాత్త్వయా శిరసి నాథ ధృతః శశాఙ్కః ॥ ౪౨॥
శాన్తాకృతిర్ద్విజపతిర్విమలః కలఙ్క-
ముక్తః కిలేతి యది మూర్ధ్ని విధుం బిభర్షి ।
ఏవంవిధోఽపి భవతా కథమఙ్ఘ్రి పీఠ-
ప్రాన్తేఽపి ధర్తుముచితో న సమర్థితోఽహమ్ ॥ ౪౩॥
పాపగ్రహో ధృతిముపైతి వినా పరేషాం
న స్వాపహారమయమిత్యథ మాం జహాసి ।
ఏవంవిధోఽపి తవ దక్షిణదృష్టిపాత-
పాత్రత్వమీశ్వర కథం రుచిమానుపేతః ॥ ౪౪॥
మిత్రత్వమేష భవతో గుణిబన్ధుతాం చ
ప్రఖ్యాప్య చేదుపగతస్తవ వల్లభత్వమ్ ।
దాసత్వమేవ తవ నిత్యముపేత్య భూత్వా
సేవాపరశ్చ గుణినాం కథమప్రియోఽహమ్ ॥ ౪౫॥
అత్యూష్మలం మలినమార్గమనేకజిహ్వం
స్పర్శేఽప్యనర్హమవధార్య జహాసి చేన్మామ్ ।
ఏతాదృశోఽపి శుభదృష్టినివేశనస్య
పాత్రీకృతః కథమయం భవతాఽఽశ్రయాశః ॥ ౪౬॥
యద్బన్ధుజీవదలసద్రుచిరర్థిభావ-
మాయాతి సాధువిబుధవ్రజజీవనాయ ।
యన్మిత్రమణ్డలముఖేన చ విశ్వమేషః
పుష్ణాతి తేన దహనే యది సాదరోఽసి ॥ ౪౭॥
ఆప్యాయనం సుమనసామనిశం విధాతు-
మర్థీభవామి యది కోఽపి న మేఽస్తి దాతా ।
కర్తుం చ బన్ధుజనజీవనమక్షమోఽహం
విశ్వం చ పోషయితుమీశ సుహృన్ముఖేన ॥ ౪౮॥
తేనాఽత్ర మాం నిరపరాధమవేహి దేహి
దృష్టిం ప్రసాదవిశదామమృతద్రవార్ద్రామ్ ।
దీనం దయాస్పదమదభ్రమదభ్రమేణ
భ్రూవిభ్రమేణ సదయం భజ భఙ్గురేణ ॥ ౪౯॥
అన్వగ్రహీరమలదృష్టిసమర్పణేన
మిత్రం శుచిం ద్విజపతిం యది యుక్తమేతత్ ।
ఏవంవిధేఽపి భగవన్ దృశమప్రసన్నాం
ధత్సే మయీతి విధిరేష పరాఙ్ముఖో మే ॥ ౫౦॥
నిష్కర్ణ ఏష కుసృతివ్యసనీ ద్విజిహ్వో
మత్వేతి చేత్త్యజసి నిఃశరణం ప్రభో మామ్ ।
ఏతాదృశోఽపి పవనాశన ఏష కస్మా-
చ్ఛ్రీకణ్ఠ కణ్ఠపులినే భవతా గృహీతః ॥ ౫౧॥
జిహ్వాసహస్రయుగలేన పురా స్తుతస్త్వ-
మేతేన తేన యది తిష్ఠతి కణ్ఠపీఠే ।
ఏకైవ మే తవ నుతౌ రసనాఽస్తి తేన
స్థానం మహేశ భవదఙ్ఘ్రితలే మమాఽస్తు ॥ ౫౨॥
శృఙ్గీ వివేకరహితః పశురున్మదోఽయం
మత్వేతి చేత్పరిహరస్యతికాతరం మామ్ ।
ఏవంవిధోఽపి వృషభశ్చరణార్పణేన
నీతస్త్వయా కథమనుగ్రహభాజనత్వమ్ ॥ ౫౩॥
పృష్ఠే భవన్తమయముద్వహతే కదాచి-
దేతావతా యది తవైతి దయాస్పదత్వమ్ ।
స్వామిన్నహం తు హృదయేఽన్వహముద్వహామి
త్వామిత్యతః కథమహో న తవాఽనుకమ్ప్యః ॥ ౫౪॥
క్రూరః పరాఙ్ముఖమసావనృజుర్జహాతి
యోగ్యం గుణగ్రహణకర్మణి మార్గణౌఘమ్ ।
మత్వేతి చేత్త్యజసి మాం కథమీదృగేవ
స్వామిన్ధృతః కరతలే భవతా పినాకః ॥ ౫౫॥
కోటిం పరాముపగతేఽపి గుణే నితాన్తం
నమ్రం విమృశ్య యది నాఽజగవం జహాసి ।
స్వల్పే గుణేఽపి నతిమానతిమాత్రమేవ
కిం తచ్చ యేన న భవామి తవానుకమ్ప్యః ॥ ౫౬॥
అత్యన్తతీక్ష్ణమతికర్కశమార్జవేన
కృత్వా ప్రవేశమతిమాత్రమరున్తుదం మామ్ ।
మత్వా జహాసి యది నాథ కిమర్థమేత-
దేవంవిధం వహసి హస్తగతం త్రిశూలమ్ ॥ ౫౭॥
జ్ఞాత్వాఽథ చేత్సమరసంహితకర్మయోగ్యం
కోటిత్రయోజ్జ్వలముఖం త్రిశిఖం బిభర్షి ।
నిఃస్వం న కిం సమరసం హితకర్మయోగ్యం
మాం వేత్సి యేన కురుషే మయి న ప్రసాదమ్ ॥ ౫౮॥
న్యగ్భావితద్విజమఖర్వితపూర్వదేవ-
గుర్వాఽపదర్పణపరం కృతగోత్రభేదమ్ ।
సమ్భావ్య చేత్త్యజసి మాం కథమీదృగేవ
నేత్రోత్సవస్తవ జగద్విజయీ కుమారః ॥ ౫౯॥
మత్త్వాఽథ నాథ శుచిజాతిమముం విశాఖ-
మస్మిన్మనో యది బిభర్షి దృఢప్రసాదమ్ ।
ఏవంవిధోఽప్యహమనన్యపరాయణస్తే
కస్మాద్భవామి భగవన్నవలేపభూమిః ॥ ౬౦॥
సర్వాపహారరతిరున్మదవక్రవక్త్ర-
స్త్యాజ్యోఽస్మి కర్ణచపలో యది తున్దిలస్తే ।
ఏవంవిధోఽపి భగవన్ గణనాయకత్వే
కస్మాదయం గజముఖో భవతా నియుక్తః ॥ ౬౧॥
హస్తం సదా వహతి దానజలావసిక్తం
తేనైష చేదలభత ప్రమథాధిపత్యమ్ ।
దానం ప్రదాతుమధనో యది న క్షమోఽహం
దాసత్వమస్తు మమ దేవ భవద్గణానామ్ ॥ ౬౨॥
హేయోఽస్మ్యసేవకతయా తవ చేద్ గ్రహేషు
కుర్వత్సు తుల్యమఖిలేష్వపి రాశిభోగమ్ ।
ద్వావుజ్ఝతస్తవ న దృక్పథమర్కచన్ద్రా-
వేతావతా పరిహృతా భవతా కిమన్యే ॥ ౬౩॥
బలావుభౌ ద్విజపతీ తవ నాథ భక్తా-
వేకస్తయోర్హరతి సన్తమసం ప్రజానామ్ ।
తేనావృతం యది పరం సహసే మహేశ
ద్రష్టుం తతో విషమదృష్టిరితి శ్రుతోఽసి ॥ ౬౪॥
యుక్తం రిపౌ సుహృది వా సమదర్శనస్య
దోషోద్ధతేఽపి యది తే హృదయం దయార్ద్రమ్ ।
తత్సామ్ప్రతం గతివిహీనమనాత్మనీనం
దీనం జనం ప్రతి కుతః కరుణాఽవలేపః ॥ ౬౫॥
అభ్యుద్గమోఽయమశనేరమృతాంశుమ్బిమ్బా-
త్స్వామిన్నసౌ దినమణేస్తిమిరప్రరోహః ।
యుష్మాదృశస్య కౌణామ్బునిధేరకస్మా-
దస్మాదృశేష్వశరణేష్వవధీరణం యత్ ॥ ౬౬॥
స్వామిన్ మృడస్త్వమురుదుఃఖభరార్దితోఽహం
మృత్యుఞ్జయస్త్వమథ మృత్యుభయాకులోఽహమ్ ।
గఙ్గాధరస్త్వమహముగ్రభవోపతాప-
తప్తః కథం కథమహం న తవానుకమ్ప్యః ॥ ౬౭॥
భవజీర్ణజ్వరాతాప-మోహకమ్పాకులాయ మే ।
ఏకం సుదర్శనస్యాంశం దేహి విశ్వచికిత్సక ! ॥
భక్తప్రియః స్వయమపి క్షుధయాఽన్వితస్య
పానోత్సవైకరసికోఽపి పిపాసితస్య ।
తాపాతురస్య ఘనసేవనసాదరోఽపి
జానాసి నాథ న కథం సహసా మమార్తిమ్ ॥ ౬౮॥
సర్వజ్ఞ సర్వమవగచ్ఛసి భూతభావి
భాగ్యక్షయః పునరసౌ భగవన్ మమైవ ।
జానాసి యస్య హృదయస్థిత ఏవ నార్తీం
జ్ఞాత్వాఽపి వా గజనిమీలితమాతనోషి ॥ ౬౯॥
భాలేఽనలం తవ గలే గరలం కరే చ
శూలం ప్రకాశమఖిలోఽయమవైతి లోకః ।
అన్తర్గతం త్రయమిదం తు మమ త్వమేవ
జానాసి నాసి చ దయాలురతో హతోఽహమ్ ॥ ౭౦॥
ఏకస్త్వమేవ భవినామనిమిత్తబన్ధు-
ర్నైసర్గికీ తవ కృపా సవితుః ప్రభేవ ।
వామః పునర్మమ విధిః పరిదేవితాని
జాతాన్య(జానాసి)రణ్యరుదితేన సమాని యస్య ॥ ౭౧॥
అత్యన్తదుర్భగమయోగ్యమభాగ్యభాజ-
మాజన్మనర్మవిముఖం ముఖరోగ్రవాచమ్ ।
దైవాదవాప్య సకలాపసదం మహేశ
నైవాఽత్యజత్కులవధూరివ దుర్గతిర్మామ్ ॥ ౭౨॥
ముక్త్వా సమాధిమసమాధిహరం పరం చ
ప్రోద్దామధామ శివ ధామ సుధామయం తే ।
భ్రాన్తోఽస్మి తేన మలయానిలవేల్ల్యమాన-
కల్లోలలోలనిధనాని ధనాని లబ్ధుమ్ ॥ ౭౩॥
ఆరాధితాః ప్రచపలాశ్చపలావదేవ
దుష్టేశ్వరా న గురవో గురవో గుణౌఘైః ।
యాతాని తాని మమ హానిమహాని మిథ్యా
శ్రాన్తోఽస్మి హా వితతమోహతమోహతోఽహమ్ ॥ ౭౪॥
తృష్ణా దినాద్దినమబృంహత బంహిమన-
మాయామినీ మనసి హైమనయామినీవ ।
నాథ త్రిధామనయనాఽర్పయదృక్ప్రసాదం
సాదం నయాన్ధతమసం భ్రమసమ్భృతం మే ॥ ౭౫॥
స్తమ్భం విజృమ్భయతి దమ్భమయం భ్రమం చ
కఞ్చిత్ప్రపఞ్చయతి యచ్ఛతి వాచి ముద్రామ్ ।
కం నామ నాఽఽమయమయం ప్రథయత్యఖర్వ-
గర్వజ్వరజ్వలనదుఃసహసన్నిపాతః ॥ ౭౬॥
తత్సామ్ప్రతం భువనవిశ్రుతహస్తసిద్ధిం
త్వామోషధీపతిశిఖామణిమాశ్రయామి ।
మౌనం విముద్రయ దరిద్రయ మోహనిద్రాం
విద్రావయ ద్రుతముపద్రవమిన్ద్రియాణామ్ ॥ ౭౭॥
విస్రమ్భమమ్భసి భజే భగవన్నగాధే
బాధే రిపువ్యవసితేఽప్యలసీభవామి ।
జాగర్మి యన్న సమవర్తిని హన్తుకామే
కా మే గతిర్యది కరోషి మనాగవజ్ఞామ్ ॥ ౭౮॥
మోహాన్ధ్యహరణాత్తీవ్రభవజ్వర-నివారణే ।
దేహినాం దక్ష ఏకస్త్వమోషధీశశిఖామణిః ॥
యస్తే దదాతి రవమస్య వరం దదాసి
యో వా మదం వహతి తస్య దమం విధత్సే ।
ఇత్యక్షరద్వయవిపర్యయకేలిశీలః
కిం నామ కుర్వతి నమో న మనః కరోషి ॥ ౭౯॥
చన్ద్రః కరే శిరసి చక్షుషి పాదమూలే
మూర్తావపీతి శివ చన్ద్రసుభిక్షమేతత్ ।
తాపాన్ధకారవిధురం శరణాగతం కి-
మాయాతు లఙ్ఘితవతస్తవ మోఘభావమ్ ॥ ౮౦॥
కౌటిల్యమిన్దుదలతో న సుధామయత్వ-
మూష్మాణమూర్ధ్వనయనాన్న పరం ప్రకాశమ్ ।
మాలిన్యమేవ గలతో న గభీరభావం
త్వత్తోఽపి మే తితఉ కల్పమవాప చేతః ॥ ౮౧॥
కిం వర్ణయామి గురుతాం విపదః పదే మాం
స్థాణోర్న్యయుఙ్క్త యదియం సహసోపదిశ్య ।
నిఃశాఖతాం సుమనసామనుమేయభావం
విచ్ఛాయతాం విఫలతాం రసహీనతాం చ ॥ ౮౨॥
సర్వజ్ఞశమ్భుశివశఙ్కరవిశ్వనాథ-
మృత్యుఞ్జయేశ్వరమృడప్రభృతీని దేవ ।
నామాని తేఽన్యవిషయే ఫలవన్తి కిన్తు
త్వం స్థాణురేవ భగవన్ మయి మన్దభాగ్యే ॥ ౮౩॥
శ్వేతే సుదర్శనసమర్పణతత్పరస్య
కృష్ణే చ యస్య న బభూవ విశేషబుద్ధిః ।
సత్త్వం శ్రియం సృజసి పుణ్యజనేషు మాం చ
ముఞ్చస్యపుణ్యజనమేష విధిః క్షతో మే ॥ ౮౪॥
ఆవర్జనం క్రతుభుజాం గజవాజిరత్న-
శ్రీపారిజాతమదిరేన్దుసుధాఽర్పణేన ।
కృత్వాఽగ్రహీర్గరలమాత్మని యన్మహిమ్నా
సా తే క్వ సమ్పతి కృపా మయి మన్దభాగ్యే ॥ ౮౫॥
దృప్తేషు తే మదనదక్షయమాఽన్ధకేషు
ప్రాదుర్భవన్మనసి రోషవిషప్రరోహః ।
సిక్తః సుధామయమసూత యయా ప్రసాదం
సా తే క్వ సమ్ప్రతి కృపా మయి భాగ్యహీనే ॥ ౮౬॥
కేచిద్వరస్య భగవన్నభయస్య కేచి-
త్సాన్ద్రస్య కేచిదమృతస్య కరస్థితస్య ।
ప్రాపుః కృపాప్రణయినస్తవ భాజనత్వం
శూలస్య కేవలమభాగ్యపరిక్షతోఽహమ్ ॥ ౮౭॥
అభ్రాన్తవృత్తి భవతాన్తరధిష్ఠితం మే
చేతః ప్రకాశవపుషా రవిణేవ బిమ్బమ్ ।
సోపప్లవం యది కృతం తమసా కదాచి-
దక్షీణపుణ్యమహిమైవ తదా విభాతి ॥ ౮౮॥
జానామి నాఽమృతమయం హృదయం ప్రవేష్టు-
ముద్దామదుఃఖదవదాహహతస్తవాఽహమ్ ।
ధర్తుం హృది త్రిదశసిన్ధుసుధాసుధాంశు-
శీతం భవన్తమపి న ప్రభవామి ధిఙ్మామ్ ॥ ౮౯॥
క్షీణః క్షతాఽఖిలకలః ప్రవిలీనధామా
త్వామాశ్రితోఽస్మి సవితారమివాఽమృతాంశుః ।
నాస్త్యేవ జీవనకలా మమ కాచిదన్యా
పాదార్పణేన కురుషే యది న ప్రసాదమ్ ॥ ౯౦॥
ఘోరాన్ధకారవిధురం వివిధోపతాప-
తప్తం విపద్గురుతుషారపరాహతం మామ్ ।
త్వం చేజ్జహాసి వద కస్తపనేన్దువహ్ని-
నేత్రో హరిష్యతి పరస్త్రివిధాం మమార్తిమ్ ॥ ౯౧॥
వ్యక్తిర్న యస్య న మతిర్న గతిర్న శక్తి-
ర్నాపి స్మృతిర్విపదపస్మృతిపీడితస్య ।
తస్యౌషధీశముకుటం త్రిజగద్గురుం త్వాం
ముక్త్వా కరిష్యతి పరో మమ కశ్చికిత్సామ్ ॥ ౯౨॥
త్వం నిర్గుణః శివ తథాహమథ త్వదీయం
శూన్యం పరం కిమపి ధామ తథా మదీయమ్ ।
త్వం చేద్గవి ప్రవిదధాసి ధృతిం తథాఽహం
కష్టం శివస్త్వమశివస్తు విధిక్షతోఽహమ్ ॥ ౯౩॥
కామస్త్వయీవ మయి నిష్ఫలతామవాప
క్షిప్తో మయాపి విఫలో భవతేవ కాలః ।
విధ్వస్తధామ మమ దేవ వపుస్తవేవ
కష్టం శివస్త్వమశివస్తు విధిక్షతోఽహమ్ ॥ ౯౪॥
యద్వద్విభో తవ హృది ప్రవిభాతి నాగ-
స్తద్వన్మమాపి భవదేకపరాయణస్య ।
యద్వత్స్వధర్మనిరతస్త్వమహం తథైవ
కష్టం శివస్త్వమశివస్తు విధిక్షతోఽహమ్ ॥ ౯౫॥
మూర్త్తిస్తవేవ శివ మే విధురోచితేయం
దృష్టిస్తవేవ భగవన్ విషమా మమాపి ।
శూలీ విషాదహతశక్తిరహం యథా త్వం
కష్టం శివస్త్వమశివస్తు విధిక్షతోఽహమ్ ॥ ౯౬॥
కణ్ఠే విషం వసతి మే విషమం తవేవ
భూతేశ్వరః పశుపతిశ్చ భవానివాఽహమ్ ।
అఙ్గం మమాపి గురురుగ్జవలితం తవేవ
కష్టం శివస్త్వమశివస్తు విధిక్షతోఽహమ్ ॥ ౯౭॥
స్వర్భానుగీర్ణమివ పూర్ణశశాఙ్కబిమ్బం
బాలాఙ్గనాఙ్గమివ దారుణరుగ్విరుగ్ణమ్ ।
శ్రీఖణ్డచన్దనమివాఽజగరోపగూఢం
వ్యూఢం నృపస్య పిశునైరివ పాదమూలమ్ ॥ ౯౮॥
హాలాహలాక్తమివ దుగ్ధమహాబ్ధినీరం
తీరం మహామకరరుద్ధమివ ద్యుసిన్ధోః ।
దారిద్ర్యదగ్ధమివ సాధుగృహస్థవృత్తం
చిత్తం సమత్సరమివ శ్రుతవిశ్రుతస్య ॥ ౯౯॥
విద్యావిహీనమివ సత్కులజస్య రూపం
నిర్దానభోగమివ కాపురుషస్య విత్తమ్ ।
మానుష్యముజ్జ్వలకులశ్రుతశీలశుద్ధం
జాతం విపద్విధురితం మమ శోచనీయమ్ ॥ ౧౦౦॥
పశ్చాత్పురః ప్రతిదిశం చ విమృశ్య పశ్య-
న్క్రూరం కృతాన్తహతకం ఫణిపాశపాణిమ్ ।
భూమౌ పతామి కృపణం ప్రలపామి పాద-
పీఠే లుఠామి శఠవత్కఠినోఽసి కస్మాత్ ॥ ౧౦౧॥
ఆః కిం న రక్షసి నయత్యయమన్తకో మాం
హేలావలేపసమయః కిమయం మహేశ ।
మా నామ భూత్కరుణయా హృదయస్య పీడా
వ్రీడాపి నాస్తి శరణాగతముజ్ఝతస్తే ॥ ౧౦౨॥
అజ్ఞోఽసి కిం కిమబలోఽసి కిమాకులోఽసి
వ్యగ్రోఽసి కిం కిమఘృణోసి కిమక్షమోఽసి ।
నిద్రాలసః కిమసి కిం మదఘూర్ణితోఽసి
క్రన్దన్తమన్తకభయార్త్తముపేక్షసే యత్ ॥ ౧౦౩॥
ద్వేషః కిమేష కృపణే కిముతాఽక్షమేయం
నిస్త్రింశతా కిమథవా కిమశక్తిరేవ ।
హుఙ్కారమాత్రకనిరాకరణీయగర్వే
సర్వేశ కాలహతకే యదియత్యుపేక్షా ॥ ౧౦౪॥
ఇత్యాది దూఢ్య ఇవ నిష్ఠురపుష్టభాషీ
యత్కిఞ్చన గ్రహగృహీత ఇవాఽస్తశఙ్కః ।
ఆర్త్యా ముహుర్ముహురయుక్తమపి బ్రవీమి
తత్రాపి నిష్కృప భినత్సి న మౌనముద్రామ్ ॥ ౧౦౫॥
భీతే భవార్తివిధురే చరణావలగ్నే
భగ్నేప్సితే గతిమపశ్యతి కాఞ్చిదన్యామ్ ।
కస్మాదనాగసి మనాగసి విశ్వసాక్షి-
న్దాక్షిణ్యదిగ్ధహృదయోపి పరాఙ్ముఖస్త్వమ్ ॥ ౧౦౬॥
స్వామిన్నిసర్గమలినః కుటిలశ్చలోఽహ-
మేతాదృగేవ చ రిపుర్మమ మృత్యుపాశః ।
భ్రూపల్లవస్తవ తథావిధ ఏవ తస్య
శాన్త్యై విషే హి విషమే విషమేవ పథ్యమ్ ॥ ౧౦౭॥
కిం కార్యమేభిరనిశం పునరుక్తశుక్తై-
రుద్వేగకారిభిరలబ్ధఫలైః ప్రలాపైః ।
ఏవం విదన్నపి ముహుర్ముఖరం విరౌమి
పశ్యామి న త్వదితరం హి పరం శరణ్యమ్ ॥ ౧౦౮॥
త్వం చేత్ప్రసాదసుముఖః ప్రణయోక్తిభిః కిం
త్వం చేదనాదరపరః ప్రణయోక్తిభిః కిమ్ ।
భాగ్యోదయే సతి వృథైవ గుణేషు యత్న-
స్తస్మిన్నసత్యపి వృథైవ గుణేషు యత్నః ॥ ౧౦౯॥
జానన్నపీతి విరమామి న యత్ప్రలాపా-
దార్త్తేర్మహేశ మహిమైష దృశస్తవైవ ।
యా రాత్రిమేవ దివసం తిమిరం ప్రకాశ-
మగ్నిం హిమం గరలమప్యమృతం కరోతి ॥ ౧౧౦॥
ఆర్త్తిః శ్రుతైవ కృపణాత్కరుణాం తవాన్త-
రుత్పాదయత్యనిశమగ్నిశిఖాం శమీవ ।
జాతైవ నిర్దహతి తామియమిత్యముత్ర
కిం బ్రూమహే మహదనఙ్కుశమీశ్వరస్య ॥ ౧౧౧॥
యన్నామ పామరజనోచితమత్ర కిఞ్చి-
దౌచిత్యముక్తమసమఞ్జసమభ్యధాయి ।
తత్రాపి భర్తురుచితా రుచిరీశ్వరాణాం
చేతశ్చమత్కృతికరీ కపిఝమ్పికాఽపి(ఏవ)॥ ౧౧౨॥
చౌరైర్గృహీతమపి దష్టమపి ద్విజిహ్వై-
ర్గ్రస్తం గ్రహైరపి నిరుద్ధమపి ద్విషద్భిః ।
వ్యాఘ్రైరుపద్రుతమపి ద్రుతమాక్షిపద్భి-
రన్విష్టమప్యవనిభృత్పురుషైః సరోషైః ॥ ౧౧౩॥
భూతాఽభిభూతమపి సిన్ధుజలేఽపి మగ్నం
భగ్నం రణేఽపి పతితం దవపావకేఽపి ।
కిం భూయసా యమభటైరపి కృష్యమాణం
కస్త్రాతుమర్హతి మహేశ్వరమన్తరేణ ॥ ౧౧౪॥
తజ్జ్ఞో బతాస్మ్యభిలషన్ సుఖమక్షయం య-
ద్దుఃఖైకధామ వపురస్థిరమర్థయామి ।
యద్వా భవాబ్ధితరణాయ పురాణముగ్ర-
శీలం పుమాంసముడుపార్ధధరం శ్రయామి ॥ ౧౧౫॥
దృఙ్మార్గమాత్రపతితాః సహసైవ యస్య
పఞ్చత్వమిన్దురవిహవ్యభుజోఽప్యవాపుః ।
ధీమానహం బత తమేవ సదాశివం య-
ద్దేవం శ్రయామి శరణమ్మరణార్త్తిభీరుః ॥ ౧౧౬॥
స్థాణుః స యత్ర విభురస్య వధూరపర్ణా
సా యత్ర యత్ర చ తయోస్తనయో విశాఖః ।
ప్రజ్ఞావతామహమహో ప్రవరః ప్రవేష్టు-
మిచ్ఛామి ధామ తదభీష్టఫలాప్తయే యత్ ॥ ౧౧౭॥
మార్జారశూకరశృగాలకరాలవక్త్ర-
వేతాలభూతశతసఙ్కులమీశ్వరస్య ।
భీష్మం నిశాచరపిశాచరవైః ప్రవేష్టు-
మిచ్ఛామి ధామ మతిమానతిమాత్రభీరుః ॥ ౧౧౮॥
కర్ణేక్షణాదచరణాత్త్రిఫణాత్కృతాన్త-
పాశాత్త్రసన్ధృతసహస్రఫణోరగేన్ద్రమ్ ।
ప్రాజ్ఞః సహస్రశిరసం పురుషం సహస్ర-
నేత్రం సహస్రచరణం శరణం శ్రయామి ॥ ౧౧౯॥
త్రస్తః సమస్తజనతాఽపహృతిప్రగల్భా-
ద్దీప్తాఽనలోల్బణదృశః శివ జీవితేశాత్ ।
ప్రాజ్ఞః సమస్తజనతాపహృతిప్రగల్-భం
త్వాం జీవితేశమనలోగ్రదృశం శ్రయామి ॥ ౧౨౦॥
నిర్భర్త్సితక్రతుమృగం సమశిశ్రియత్త్వాం
సంన్యస్తలాఞ్ఛనమృగః కలయా మృగాఙ్కః ।
యత్కామవైరిణమవేత్య సకామ ఏవ
త్వామాశ్రితోఽస్మి సుధియామధికస్తతోఽహమ్ ॥ ౧౨౧॥
పద్మాశ్రితః శతధృతిశ్చతురాననోఽపి
యస్మాత్పరాభవమవాపదవాచ్యమేవ ।
త్యక్తః శ్రియా గతధృతిర్మృదుమన్దవక్త్రః
ప్రాజ్ఞస్తమీశ్వరమనుగ్రహమర్థయేఽహమ్ ॥ ౧౨౨॥
ఆజన్మ కర్మ విరచయ్య ఫలం యదాప్తం
హృత్త్వా క్షణాత్తదఖిలం చిరకాలభోగ్యమ్ ।
యః స్వీకరోత్యపునరాగమనాయ భక్తం
సేవే తమీశ్వరమహో మతిమత్తమోఽహమ్ ॥ ౧౨౩॥
శ్మశానైకస్థానవ్యసనమనలోత్తాలనయనం
విషజ్జ్యోతిర్జ్వాలాజటిలకుటిలవ్యాలవలయమ్ ।
విభుం ముణ్డశ్రేణీవికటముకుటం భీరుహృదయః
శ్రయన్ భీమం ధీమానహమహసనీయః కృతధియామ్ ॥ ౧౨౪॥
అహో తత్త్వజ్ఞోహం కరతలవిలీనైకఫణినః
సముత్త్రస్యన్కాలాత్క్రమకవలితైకైకభవినః ।
మహాకాలం సర్వావయవసులభానల్పభుజగం
సకృద్విశ్వగ్రాసప్రవణమతిమభ్యేమి శరణమ్ ॥ ౧౨౫॥
శృఙ్గీ యత్ర స్ఫటికశిఖరీ యత్ర శృఙ్గీ పినాకః
శృఙ్గీ సోఽపి స్ఫురతి వృషభో వల్లభో యత్ర భర్తుః ।
తత్ర త్రస్తః ప్రకృతిసరలః స్వల్పవాగప్రగల్భః
ప్రాజ్ఞః సేవాసమయముచితం స్వామినః ప్రార్థయేఽహమ్ ॥ ౧౨౬॥
విశ్రాన్తిర్న క్వచిదపి విపద్గ్రీష్మభీష్మోష్మతప్తే
చిత్తే విత్తే గలతి ఫలతి ప్రాక్ప్రవృత్తే కువృత్తే ।
తేనాత్యన్ధం సపది పతితం దీర్ఘదుఃఖాన్ధకూపే
మాముద్ధర్త్తుం ప్రభవతి భవ త్వాం దయాబ్ధిం వినా కః ॥ ౧౨౭॥
యేషామేషా తనుధనలవప్రార్థనాఽనర్థకన్థా
పన్థానం న ప్రదిశతి పరం స్థానమానన్ది లబ్ధుమ్ ।
తేషామేషామకృపణ కృపాభాజనానాం జనానా-
మాశాపాశాకులితమనసాం దృష్టిమిష్టాం నిధేహి ॥ ౧౨౮॥
ఉదఞ్చయ ముఖం మనాగభయఘోషముద్ఘోషయ
ప్రయచ్ఛ విశదాం దృశం గతివిహీనమాశ్వాసయ (ధృతివిహీనమాశ్వాసయ)।
కిమన్యదయమాగతః కుపితదృష్టిరుత్కన్ధరః
కృతాన్త ఇతి మా స్మ భూరవిరలావలేపాలసః ॥ ౧౨౯॥
ముహుః కిమపరం బ్రువే భుజగపాశపాణిం పురః
స్ఫురన్తమివ రోషణం రవిజకిఙ్కరం పశ్యతః ।
ధృతిశ్చలతి మే గతిః స్ఖలతి మూర్తిరుద్వేల్లతి
స్థితిర్జ్వలతి నిర్వృతిర్విగలతి స్మృతిర్మీలతి ॥ ౧౩౦॥
దుర్గం యత్సుగమత్వమేతి భజతే దూరం యదభ్యర్ణతాం
యత్క్రీడోపవనత్వమేతి మరుభూర్మిత్రాయతే యద్రిపుః ।
యస్యాః సా భువి శక్తిరప్రతిహతా సార్త్తిస్త్వదాక్రన్దనే
స్వామిన్మామనుదత్కృపాఽపి నుదతు త్వాం మత్సమాశ్వాసనే ॥ ౧౩౧॥
ద్వారి శ్రీశ్చ సరస్వతీ చ వసతః స్వామింస్తవాఽస్తక్రుధౌ
మాం తు శ్రీర్భవదఙ్ఘ్రివిష్టరతలే నిత్యప్రరూఢస్థితిమ్ ।
యావన్మాత్రసరస్వతీపరిచయద్వేషాదహాసీదతో
వహ్నిం దుర్వహముద్వహామి హృదయే గ్లాయన్నుదన్వానివ ॥ ౧౩౨॥
నాథ ప్రాథమికం వివేకరహితం తిర్యగ్వదస్తం వయ-
స్తారుణ్యం విహతం విరాధితవధూవిస్రమ్భణారమ్భణైః ।
స్వామిన్సమ్ప్రతి జర్జరస్య జరసా యావన్న ధావన్నయం
మృత్యుః కర్ణముపైతి తావదవశం పాదాశ్రితం పాహి మామ్ ॥ ౧౩౩॥
ఆసీద్యావదఖర్వగర్వకరణగ్రామాభిరామాకృతి-
స్తావన్మోహతమోహతేన న మయా శ్వభ్రం పురః ప్రేక్షితమ్ ।
అద్యాఽకస్మికపాతకాతరమతిః కం ప్రార్థయే కం శ్రయే
కిం శక్నోమి కరోమి కిం కురు కృపామాత్మద్రుహం పాహి మామ్ ॥ ౧౩౪॥
జాత్యన్ధః పథి సఙ్కటే ప్రవిచరన్హస్తాఽవలమ్బం వినా
యాతశ్చేదవటే నిపత్య విపదం తత్రాఽపరాధోఽస్య కః ।
ధిగ్ధిఙ్మాం సతి శాస్త్రచక్షుషి సతి ప్రజ్ఞాప్రదీపే సతి
స్నిగ్ధే స్వామిని మార్గదర్శిని శఠః శ్వభ్రే పతత్యేవ యః ॥ ౧౩౫॥
త్రాతా యత్ర న కశ్చిదస్తి విషమే తత్ర ప్రహర్తుం పథి
ద్రోగ్ధారో యది జాగ్రతి ప్రతివిధిః కస్తత్ర శక్యక్రియః ।
యత్ర త్వం కరుణార్ణవస్త్రిభువనత్రాణప్రవీణః ప్రభు-
స్తత్రాపి ప్రహరన్తి చేత్పరిభవః కస్యైష గర్హావహః ॥ ౧౩౬॥
కిం శక్తేన న యస్య పూర్ణకరుణాపీయూషసిక్తం మనః
కిం వా తేన కృపావతా పరహితం కర్తుం సమర్థో న యః ।
శక్తిశ్చాస్తి కృపా చ తే యమభయాద్భీతోఽపి దీనో జనః
ప్రాప్తో నిఃశరణః పురః పరమతః స్వామీ స్వయం జ్ఞాస్యతి ॥ ౧౩౭॥
భృఙ్గారే కరపుష్కరప్రణయిని స్వర్నిమ్నగానిర్ఝరే
సమ్పూర్ణే కరుణారసే పరిణతస్ఫారే తుషారత్విషి ।
అస్తి స్వాదు చ శీతలం చ సులభం పీయూషమోషచ్ఛిదే
ప్రాప్తశ్చ ప్రణయీ పురః పరమతః స్వామీ స్వయం జ్ఞాస్యతి ॥ ౧౩౮॥
ఆర్త్తిః శల్యనిభా దునోతి హృదయం నో యావదావిష్కృతా
సూతే లాఘవమేవ కేవలమియం వ్యక్తా ఖలస్యాఽగ్రతః ।
తస్మాత్సర్వవిదః కృపాఽమృతనిధేరావేదితా సా విభో-
ర్యద్యుక్తం కృతమేవ తత్పరమతః స్వామీ స్వయం జ్ఞాస్యతి ॥ ౧౩౯॥
లేఖాః సన్తు ప్రసన్నా బుధసదసి శుచేరాగమస్యాస్తు లబ్ధి-
ర్మిథ్యాదృష్టిశ్చ మాభూదనుపధిరహతో దీర్ఘకాలోఽస్తు భోగః ।
సభ్యాః సర్వేఽనువృత్తిం విదధతు తదపి న్యాయతో నాస్తి ముక్తిః
సమ్యగ్దర్శీ ప్రమాతా రచయతి న భవానీశ్వరశ్చేద్విచారమ్ ॥ ౧౪౦॥
జానుభ్యాముపసృత్య రుగ్ణచరణః కో మేరుమారోహతి
శ్యామాకాముకబిమ్బమమ్బరతలాదుత్ప్లుత్య గృహ్ణాతి కః ।
కో వా బాలిశభాషితైః ప్రభవతి ప్రాప్తుం ప్రసాదం ప్రభో-
రిత్యన్తర్విమృశన్నపీశ్వర బలాదార్త్యాస్మి వాచాలితః ॥ ౧౪౧॥
ధత్తే పౌణ్డ్రకశర్కరాఽపి కటుతాం కణ్ఠే చిరం చర్వితా
వైరస్యం వరనాయికాఽపి కురుతే సక్త్యా భృశం సేవితా ।
ఉద్వేగం గగనాపగాఽపి జనయత్యన్తర్ముహుర్మజ్జనాద్
విశ్రద్ధాం మధురాఽపి పుష్యతి కథా దీర్ఘేతి విశ్రమ్యతే ॥ ౧౪౨॥
ఇత్థం తత్తదనన్తసన్తతలసచ్చిన్తాశతవ్యాయత-
వ్యామోహవ్యసనావసన్నమనసా దీనం యదాక్రన్దితమ్ ।
తత్కారుణ్యనిధే నిధేహి హృదయే త్వం హ్యన్తరాత్మాఽఖిలం
వేత్స్యన్తఃస్థమతోఽర్హసి ప్రణయినః క్షన్తుం మమాఽతిక్రమమ్ ॥ ౧౪౩॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``దీనాక్రన్దనం'' నామైకాదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౨. తమఃశమనం ద్వాదశం స్తోత్రమ్
మఖైరుపాస్యోఽపి నయజ్ఞసేవ్యో నిరామయోఽపి ప్రథితోగ్రశూలః ।
వేదప్రియోఽప్యశ్రుతివల్లభో యః శ్రయామి తం దేవమచిన్యశక్తిమ్ ॥ ౧॥
స్తుత్యస్త్వమేవ స్తుతికృత్త్వమేవ స్తుతిస్త్వమేవ త్వదృతేఽస్తి నాన్యత్ ।
ఇయం త్వవిద్యా యదహం స్తువే త్వాం స్తుత్యేతి మిథ్యా పృథగర్థబుద్ధిః ॥ ౨॥
స్తౌమ్యేవ తత్రాపి పునః పునస్త్వాం నశ్యత్యవిద్యా యదవిద్యయైవ ।
రజఃప్రరూఢం ముకురే ప్రమార్ష్టుం రజో వినా న హ్యపరోఽస్త్యుపాయః ॥ ౩॥
విజృమ్భమాణే తమసి ప్రగల్-భే యథా భవాసక్తమతిః స్థితోఽహమ్ ।
హతేఽపి తస్మిన్నుదితావబోధస్తథా భవాసక్తమతిర్భవేయమ్ ॥ ౪॥
జగద్విధేయం ససురాసురం తే భవాన్ విధేయో భగవన్ కృపాయాః ।
సా దీనతాయా నమతాం విధేయా మమాఽస్త్యయత్నోపనతైవ సేతి ॥ ౫॥
జానే న శైథిల్యముపైష్యవశ్యం మమార్తిభఙ్గే భగవఁస్తథాపి ।
విజ్ఞప్యసే కర్మ మమైవ మాభూన్మయి ప్రసాదప్రతిఘస్తవేతి ॥ ౬॥
పథ్యం చ తథ్యం చ భరక్షమం చ స్నిగ్ధం చ ముగ్ధం చ మనోహరం చ ।
సలీలమున్మీల్య వచః ప్రసన్నం ప్రపన్నమాశ్వాసయ చన్ద్రమౌలే ॥ ౭॥
మధుద్రవార్ద్రం విషమాహరామః పిణ్డీనిగూఢం బడిశం గిలామః ।
అన్తర్నివిష్టోత్కటకణ్టకౌఘం గ్రసామహే పౌణ్డ్రక(పుణ్డ్రక)పిణ్డఖణ్డమ్ ॥ ౮॥
యదా ముఖే కామధురానజస్రం విపాకరూక్షాన్ విషయాన్ భజామః ।
విభో విదన్తోఽపి కిమత్ర కుర్మో జహాతి సక్తిం న మతిర్వరాకీ ॥ ౯॥
ముక్తామయా దీర్ఘగుణాః సువృత్తా నైర్మల్యభాజో దధతః ఫలర్ద్ధిమ్ ।
కథం న హారా ఇవ భక్తిమన్తః పదం హృదీశస్య భజన్తి సన్తః ॥ ౧౦॥
గుహాశ్రితో ధర్మరతిర్గిరీశప్రథాం దధానో భవతః ప్రసాదాత్ ।
సత్యాహితప్రీతిరహీనభక్తిర్భవానివాహం భగవన్ భవేయమ్ ॥ ౧౧॥
యమేకమారాధ్య మహారిసఙ్గమా-
దసంశయం భక్తజనః ప్రముచ్యతే ।
ఉపస్థితస్తస్య భవత్ప్రసాదతః
కథం హరేరుగ్ర మహారిసఙ్గమః ॥ ౧౨॥
సుదుర్లభోఽయం భవతి గ్రహః పున-
ర్ముఖేఽప్యసౌ సన్నిహితా సరస్వతీ ।
ఇదం కురుక్షేత్రమతీవపావనం
కిమర్థమర్థిన్యుచితే విలమ్బసే ॥ ౧౩॥
న కస్య సౌభాగ్యవతీ చమత్కృతిం
దిశత్యసౌ భాగ్యవతీ సరస్వతీ ।
విభుం జితక్లేశమపి స్థిరాజినం
కరోతి యత్సమ్ముఖమస్థిరాజినమ్ ॥ ౧౪॥
అనుజ్ఝితానుత్తమదానసమ్పదః
సదాఖిలజ్ఞానవిహీనచేతసః ।
అకాలభీతిగ్లపితాన్కరోతి యః
ప్రభుః ప్రసన్నః కుపితశ్చ దేహినః ॥ ౧౫॥
పురా చిరం యో విదధే వనాన్తరే
విధుః పదం రూఢకురఙ్గసౌహృదః ।
సదా పరస్వాపహరోఽపి యో రవి-
స్తయోః సమత్వం దృశి యస్య భాసతే ॥ ౧౬॥
కథం విభో తస్య తవ ప్రవర్తతాం
సతామసేవ్యే పథి పాతితాత్మసు ।
దయావిధేయస్య సదాఽస్మదాదిషు
ప్రసాదపాత్రేషు మనాగనాదరః ॥ ౧౭॥
విభో భవద్భాలవిలోచనాఽనల-
ప్రసూతధూమైరివ సాశ్రులోచనః ।
సఘర్మలేశస్తవ దక్షిణేక్షణ-
ప్రరూఢచణ్డద్యుతిభాభరైరివ ॥ ౧౮॥
ఘనప్రరోహత్పులకాఙ్కురో భవ-
చ్ఛిఖణ్డఖణ్డేన్దుకరోత్కరైరివ ।
సదన్తవీణస్తుహినౌఘశీతల-
త్వదుత్తమాఙ్గద్యునదీజలైరివ ॥ ౧౯॥
తరఙ్గితాఙ్గో భవదఙ్గదస్ఫుర-
త్ఫణీన్ద్రఫూత్కారసమీరణైరివ ।
భవేయమానన్దసుధాపరిప్లుతః
ప్రసన్నమాలోక్య భవన్తమగ్రతః ॥ ౨౦॥
యదేష సేహే పరశుక్షతవ్యథాం
ప్రభోః ప్రియః స్యామితి చన్దనద్రుమః ।
భుజఙ్గమాలిఙ్గితకన్ధరో ద్రువం
బిభర్తి సామ్యం గిరిజాపతేరతః ॥ ౨౧॥
యచ్చక్రిరే ధృతనఖాన్తనిపాతపీడాః
ప్రీతిం ప్రభోః సుమనసాం సుమనస్త్వమేతత్ ।
యత్స్వామినో న దహనేఽపి నిపత్య సేవా-
హేవాకమౌజ్ఝదగురోరపి గౌరవం తత్ ॥ ౨౨॥
ఆదౌ ప్రదర్శ్య పరమామృజుతామథాన్త-
రావిశ్య మర్మణి న యన్నిశితాస్తుదన్తి ।
స్వామిన్ శరా ఇవ ఖలాః కృతినో వనేషు
స త్వత్పదామ్బుజరజఃకణజః ప్రసాదః ॥ ౨౩॥
త్వన్నామ పామరజనైరపి గీయమాన-
మానన్దమర్పయతి యం హృది భక్తిభాజామ్ ।
స్వామిన్నమానవయవేష్వఖిలేషు నూన-
ముద్భిద్యతే బహిరసౌ పులకచ్ఛలేన ॥ ౨౪॥
ఘర్మః ప్రకమ్పపులకౌ గిరి గద్గదత్వ-
మిత్యాదయోఽన్త్యసమయే ప్రభవన్త్యవస్థాః ।
త్వద్దర్శనాత్కృతధియాం దధతామమన్ద-
మానన్దమన్తకభయాద్భగవన్ పరేషామ్ ॥ ౨౫॥
అన్త్యక్షణే భవ భవచ్చరణాబ్జసేవా-
హేవాకినో దధతి కేచన కణ్ఠపీఠే ।
భోగీన్ద్రభోగమధిగమ్య భవద్గణత్వ-
మన్యే కృతాన్తకరకోటరకోటికృష్టమ్ ॥ ౨౬॥
భీతాభయార్పణవిధౌ కిల కాలనాశం
కర్తుం న యః క్షణమపి క్షమతే కదాపి ।
శ్వేతాభయార్పణపరస్య కథం ను కాల-
నాశక్షమత్వమభవత్తవ తస్య దేవ ॥ ౨౭॥
భఙ్క్తుం న పారయతి యః క్వచిదేవ దేవ
కామం కృపామృతమృదుస్తవ దృష్టిపాతః ।
ఉద్దామరోషపరుషః కిల కామభఙ్గ-
మఙ్గీచకార కథమేష మహేశ పూర్వమ్ ॥ ౨౮॥
కిం మేరుమన్దరముఖా గిరయః శిరోభి-
రత్యున్నతైర్దధతి గర్వమఖర్వమేతే ।
ఏతత్తుషారకిరణాభరణప్రణామ-
ప్రహ్వం జగజ్జయతి మామకముత్తమాఙ్గమ్ ॥ ౨౯॥
గాత్రాన్తరాతిశయశంసి యదేతదుచ్చై-
ర్నామోత్తమాఙ్గమితి నాథ శిరో బిభర్తి ।
తద్యుజ్యతే భవ భవచ్చరణారవిన్ద-
పీఠప్రణామపరమస్య నమస్యమస్య ॥ ౩౦॥
కిం శ్రీఘనోఽప్యసుగతః కిముమాధవోఽపి
న త్వం కదాచన జనార్దనతాం బిభర్షి ।
స్వామిన్ గజారిరపి కిం నగజాప్రియస్త్వం
స్వాతన్త్ర్యమస్తి యది వా భవతః కిమన్యత్ ॥ ౩౧॥
అరుణద్యుతిగ్లపితశీతదీధితి-
ప్రకటీకృతాలికమలం విలోక్య మే ।
భవతః ప్రభాతమివ భాలలోచనం
భజతే కదా ను విషమం శమం తమః ॥ ౩౨॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``తమఃశమనం'' నామకం ద్వాదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౩. ప్రభుప్రసాదనం త్రయోదశం స్తోత్రమ్
అథ నుతిభిరమన్థరాక్షరాభిః సుజనమనోమృగవాగురాభిరాభిః ।
విభుమభయదమాదరాదరాతిక్షపణపణప్రవణం ప్రసాదయామః ॥ ౧॥
సురముకుటవిటఙ్కరత్నరోచిఃఖచితనఖాఙ్కురకేసరాభిరామమ్ ।
పురహరచరణారవిన్దయుగ్మం శిరసి విధత్త కిరీటవాఞ్చ్ఛయా కిమ్ ॥ ౨॥
కలయతు భవతామభగ్నవృత్తిర్హరహరశఙ్కరశఙ్కరేతి సూక్తిః ।
అవిరలగలమణ్డనప్రతిష్ఠాం కిమమలమౌక్తికదామకామనాభిః ॥ ౩॥
కలయత మణికుణ్డలేఽవలేపం శ్లథయత నిర్మ్మలమల్లికాభిలాషమ్ ।
హరచరితనుతిక్రమైరజస్రం కురుత నవశ్రవణావతంసలీలామ్ ॥ ౪॥
ఇహ విహతభవోపతాపమాపత్ప్రశమసమర్థమనర్థనాశహేతుమ్ ।
నమతి న మతిమానమానవీయప్రమదవిధానపరం పరం హరం కః ॥ ౫॥
త్రిజగతి భజతి స్థితిం బుధానాం ధురి దురితక్షతిశిక్షితః స ఏకః ।
శశిశకలశిఖామణిప్రణామప్రణయి బిభర్తీ శిరశ్చిరస్థిరం యః ॥ ౬॥
స జయతి జగదీశశక్తిపాతస్తవ కవితుర్యదసక్తముక్తిదేవీ ।
రసమసమచమత్కృతిప్రసూతిం వితరతి కాఞ్చనసిద్ధిమేతి యేన ॥ ౭॥
ఇహ విదధతు నామ పామరాణాం ప్రణతికృతామపరే ప్రభుప్రతీతిమ్ ।
ప్రభవతి న తు మృత్యుభీతిభఙ్గే జగతి భవన్తమృతేఽమృతేశ కశ్చిత్ ॥ ౮॥
వియదియతి మహస్విమణ్డలే కః శ్రితవతి కర్తుమనష్టచేష్టమీష్టే ।
విషమతమతమః ప్రబన్ధమన్ధం జగదగదం ఘృణిమన్తమన్తరేణ ॥ ౯॥
శకలితకలితర్ష సప్రకర్ష ప్రకటితహర్ష మహర్షభాధిరూఢ ।
దిశ విశదమదభ్రమభ్రసిన్ధుద్రవధవలం భవలఙ్ఘనం ప్రసాదమ్ ॥ ౧౦॥
ప్రభవతి భవతి ప్రసాదరమ్యాం దిశతి దృశం న విభా విభావరీణామ్ ।
సవితరి వితరిష్యతి ప్రకాశం నహి మహిమప్రభవో విభావరీణామ్ ॥ ౧౧॥
సముచితసదసద్విచారచర్యాచతురతరః కతరః కలౌ మదన్యః ।
ఇహ పరమశివం భవం విజేతుం పరమశివం భవమేవ సేవతే యః ॥ ౧౨॥
శమయితుమలమగ్నిమగ్నిరేవ గ్లయపతి హన్త హిమం హిమం వివృద్ధమ్ ।
జరయతి చ పయః పయః కిమన్యద్ధరతి భవం భవ ఏవ భక్తిభాజామ్ ॥ ౧౩॥
వరమజినజటాభృతః కపాలప్రణయికరస్య నరస్య భైక్ష్యవృత్తిః ।
స్మరహరచరణారవిన్దసేవావిరహవతీ న తు చక్రవర్తిమూర్తిః ॥ ౧౪॥
మరుభువి వరముష్ణరశ్మిరశ్మిప్రకరకదర్థితమూర్తిరేకభేకః ।
న తు భవదనురాగభాగధేయగ్లపనవిపద్వికలీకృతో మనుష్యః ॥ ౧౫॥
కలిమలపటలీ మలీమసత్వం నయతి మతిం హతదర్ప దర్పణాభామ్ ।
ఇతి శితిగల శీతరశ్మిప్రసరసితం రసితం తవాఽర్థయామః ॥ ౧౬॥
నుతిముఖరముఖః ప్రసాదపాత్రం భవతి మమేతి యదైష తే కృతాన్తః ।
అపి కవలితసప్తలోకలోకః ప్రభవతి నైవ తదైష మే కృతాన్తః ॥ ౧౭॥
తవ రవిజపురాన్ధకప్రమాథే దృశి విశిఖే త్రిశిఖే చ యః కృతాస్థః ।
పరిచరణపరః పురావిరాసీత్ స జయతి దైవతముత్తమం కృశానుః ॥ ౧౮॥
సమజని జనితస్పృహః స ఏకస్త్రిజగతి చన్ద్రకిరీట కృష్ణసారః ।
ఉపకరణపదం జగామ కృత్తిస్తవ చరణాస్తరణక్రమేణ యస్య ॥ ౧౯॥
జనిరపి జయతి వినీతరీతిర్జగతి భుజఙ్గమపుఙ్గవస్య తస్య ।
మణికటకముదస్య యస్య శస్యం భవ భవదఙ్గదభఙ్గిమేతి భోగః ॥ ౨౦॥
అలభత భగవన్నబన్ధ్యమేకస్త్రిభువనసీమని జన్మ పుఙ్గవేన్ద్రః ।
తవ భవ శవభస్మరూషితోంఽఘ్రిః శిరసి ధృతో వినయానతేన యేన ॥ ౨౧॥
జనయతి జగతి స్పృహాం న కేషాం జనిరపి కుఞ్జరశేఖరస్య తస్య ।
త్రిభువనమహితస్య యస్య కృత్తిర్భవ భవదమ్బరడమ్బరం బిభర్తి ॥ ౨౨॥
స జయతి జితకాల కాలకూటః స్వజనిపవిత్రితముగ్ధదుగ్ధసిన్ధుః ।
తవ కవలభువం జవాదవాప్తః కలయతి యఃశితికణ్ఠ కణ్ఠపీఠమ్ ॥ ౨౩॥
పరిణతశరదిన్దుసున్దరాభం వదనమనభ్రనభోనిభశ్చ కణ్ఠః ।
ఇతి శుభముభయం విభోరభిన్నత్రిదశధునీయమునావిడమ్బి వన్దో ॥ ౨౪॥
హిమహిమకరహారి వారి గాఙ్గం కువలయకాన్తికలిన్దకన్యకామ్భః ।
ఇతి శుభముభయం ప్రభుప్రసాదాద్వపురివ హారిహరం వరం ప్రపద్యే ॥ ౨౫॥
ధృతకుటిలకలః కిలాన్ధకారీ రుచితమలీమసభోగిభోగయోగః ।
త్వయి సపది పరాఙ్ముఖే యథాఽహం త్వమివ మహాకలికాలభగ్నశక్తిః ॥ ౨౬॥
కవలితవిషమక్లమం దధానః సతతసమాశ్రితతారకారిరూపమ్ ।
ద్విజపతిముకుటస్తథైవ జాతు త్వమివ శివ త్వయి సమ్ముఖే భవేయమ్ ॥ ౨౭॥
జయ జయద వచో విముఞ్చ ముఞ్చన్మధు మధురం జనరఞ్జనప్రగల్భమ్ ।
హర హర దురితం మమాఽద్య మాద్యద్భవ భవ భీమదభీమదర్శనస్త్వమ్ ॥ ౨౮॥
నిజవృజినవిజృమ్భితం మమైతత్త్రిజగదనుగ్రహనిత్యదీక్షితస్త్వమ్ ।
క్వచిదపి భగవన్నదృష్టపూర్వం ప్రథయసి యన్మయి విహ్వలేఽవలేపమ్ ॥ ౨౯॥
ప్రణమతి విధురే పురోఽవలగ్నే దధతి మయి ప్రసభం గదాభియోగమ్ ।
కిమితి పరిజనే దయామృతార్ద్రాం దృశమపకారవతీవ నో దధాసి ॥ ౩౦॥
స్ఫుటవికటవికస్వరప్రదీప్తజ్వలనమహీనమహీన్ద్రహార చక్షుః ।
బలవదలవదర్పకాలకామక్షయకరమాకరమాశు ముఞ్చ సిద్ధేః ॥ ౩౧॥
హిమకరమకరధ్వజౌ న రూపం కవిధిషణౌ ధిషణౌచితీం న తీవ్రామ్ ।
రణమరుణమరుత్సఖౌ జిగీషోరనుహరతో హరతోషిణో న తేజః ॥ ౩౨॥
రవికరవికసత్సితాబ్జశుభ్రప్రసృమరచామరచారుహాసినీ శ్రీః ।
భవ న భవనముజ్ఝతి క్షణం యత్సుకృతవతాం తవ తాం ప్రణౌమి శక్తిమ్ (భక్తిమ్)॥ ౩౩॥
యదభయద భవత్యవస్థితేఽన్తః సమహిమ నో హి మనో విశోకమాసీత్ ।
విశదవిశదకర్మకర్దమే తత్సపది విషాది విషాద కేన జాతమ్ ॥ ౩౪॥
నయవినయవిశుద్ధమన్తరుద్యద్దహనసమానసమాప్తరోషదోషమ్ ।
యమనియమనియన్త్రితం మనో మే కురు సవిలాసవిలాసినీవిరక్తమ్ ॥ ౩౫॥
అవసరసరసాలసాలఘూద్యన్మధురవధూరవధూతచిత్తచిన్తః ।
స సకలకలధౌతధౌత మూర్తిస్తవ నతిమానతిమాత్రచిత్రచిద్యః ॥ ౩౬॥
మలమలమలఘుం విహన్తుమాప్తుం ముదముదయం సమయం సమర్థ్య చాన్తః ।
మహమహమహహేశ్వరప్రశంసామయమయమాశ్రయమాశ్రయం సుఖానామ్ (గుణానామ్)॥ ౩౭॥
గుణిభిర్విబుధైర్హరీన్ద్రముఖ్యైర్భవ సంసారరిపోర్ద్విషః స్తుతస్య ।
హితమాతనుతే తవ ప్రసాదాదసుహృత్ప్రాణహరోఽపి పుణ్యభాజామ్ ॥ ౩౮॥
అపి నాథ జనార్దనస్య విష్ణోరపి వైకుణ్ఠ ఇతి ప్రసిద్ధిభాజః ।
అధికంసరుషోఽపి చేద్భవత్తో ఝగితిప్రాగభవత్సుదర్శనాప్తిః ॥ ౩౯॥
అపి సర్వజనాఽవిరుద్ధబుద్ధేరపి తీక్ష్ణస్య పరం జితక్రుధోఽపి ।
న కథం మమ సాధునాఽపి యద్వా జగదీశోఽసి విభుః కిముచ్యతే తే ॥ ౪౦॥
సుమనఃసులభే తథా న నాకే సుమనఃసున్దరసౌరభే న చాస్థామ్ ।
సుమనఃసు చ నాశ్నుతే సుధార్ద్రాసు మనః సుష్ఠు యథా భవత్కథాసు ॥ ౪౧॥
శ్రీర్దేవీ జయతి యయా కటాక్షితానాం హస్తస్థా సకలసమీహితార్థసిద్ధిః ।
సా యస్మాదజని తమబ్ధిమర్భకాయ ప్రాదాద్యః కథమివ వర్ణ్యతే స దేవః ॥ ౪౨॥
నార్హత్యమన్దరయమన్దరయత్నలబ్ధా
స్పర్ధాం సుధా న వసుధాఽనవధిశ్చ యస్య ।
సోఽయం నవః శివనవః శివతాతయేఽస్తు
విద్వత్సభాజనసభాజనభాజనం వః ॥ ౪౩॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``ప్రభుప్రసాదనం'' నామ త్రయోదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౪. హితస్తోత్రం చతుర్దశం స్తోత్రమ్
యేన నేత్రకరశేఖరస్పృశా హన్తి సన్తమసమన్తరీశ్వరః ।
ఐన్దవం దవథుహారి హారి తద్ధామ కామదమదభ్రమస్తు వః ॥ ౧॥
భక్తినిర్భరగభీరభారతీవైభవో భవ భవన్నవేషు యః ।
శుష్కశష్పమివ తస్య భాసతే వాసవాసనపరిగ్రహగ్రహః ॥ ౨॥
ఉల్లసత్పులకలాఞ్ఛితం వపుర్బాష్పపూరితపుటే విలోచనే ।
గద్గదా హరహరేతి భారతీ సమ్భవన్తి భవభక్తిశాలినామ్ ॥ ౩॥
నీలకణ్ఠ తరుణేన్దుశేఖర త్ర్యమ్బక త్రినయనేతి భక్తితః ।
గద్గదం నిగదతస్తృణోపమం హేమపూర్ణమఖిలం మహీతలమ్ ॥ ౪॥
అన్తకభ్రుకుటిభీతివిహ్వలశ్వేతసాన్త్వనవిధౌ బభూవ యత్ ।
మాం ప్రతి ప్రతిపదం కదర్థితం తత్క్వ సమ్ప్రతి కృపామృతం తవ ॥ ౫॥
వహ్నిశీతకరఘర్మరశ్మయో లోచనత్రితయవర్తినస్తవ ।
శీతతాపతిమిరార్దితస్య మే నాథ చిత్రలిఖితా ఇవ స్థితాః ॥ ౬॥
సమ్భ్రమభ్రమదమన్దమన్దరక్షీరనీరధిగభీరయా గిరా ।
త్రాతుమర్హసి కృతాన్తకిఙ్కరైర్మామశర్మభిరభిద్రుతం ద్రుతమ్ ॥ ౭॥
కాలకిఙ్కరకరాన్తరస్ఫురద్భోగభోగిపరిణద్ధకన్ధరమ్ ।
అన్తరేణ భవదీయహుఙ్కృతిం నాథ మోచయితుముత్సహేత కః ॥ ౮॥
ఉత్కటభ్రుకుటిభీమదర్శనద్వాఃస్థహుఙ్కృతిఖలీకృతాత్మభిః ।
ద్వారి యః క్షితిభుజాం పరాభవః సహ్యతే ద్రవిణలేశతృష్ణయా ॥ ౯॥
స త్వదాయతనదేహలీతలే పుష్పపాత్రకరపత్రికాకరమ్ ।
కఞ్చిదేవ భవదర్చనోత్సుకం చన్ద్రశేఖర కరోతి కాతరమ్ ॥ ౧౦॥
అన్తరేణ భవదఙ్ఘ్రిసేవనం దేవ కేవలమియం విడమ్బనా ।
యన్నృణాం కమలినీదలస్ఖలన్నీరశీకరచలా విభూతయః ॥ ౧౧॥
యత్తు నిర్జరతరఙ్గిణీతటే సౌహృదంహరిణబాలకైః సమమ్ ।
భూభృతాం చ తృణవద్విలోకనం శ్రీరియం భవ భవత్ప్రసాదతః ॥ ౧౨॥
త్వాముపేత్య శరణం మహేశ్వరం దేవ నిఃశరణ ఏవ చేదహమ్ ।
దోష ఏష మమ జాహ్నవీజలే తర్షులో హి శఫరః స్వదుష్కృతైః ॥ ౧౩॥
గద్గదోద్గతగిరశ్చిరస్థిరప్రేమహేమనికషోపలోపమమ్ ।
శంసతః శివ శివేతి శామ్భవం నామ కామపి దశాం ప్రశాస్తి మే ॥ ౧౪॥
వారి వారితభవార్తి మూర్ధ్ని తే భాతి భాఽతిధవలే హిమత్విషః ।
తేన తే నతిమిమో దవచ్ఛిదే దేహి దేహిషు కరావలమ్బనమ్ ॥ ౧౫॥
మూఢమూఢవిపదం పదం శుచామన్ధమన్ధకరిపోఽరిపోథితమ్ ।
మోఘమోఘమితమేతమేనసాం మాం తమాన్తకరతార తారయ ॥ ౧౬॥
యం స్వయం స్వరసభైరవై రవైరక్షర క్షపితరాక్షసేక్షసే ।
మారమార భువి భాసతే స తే భానుభానుభరభాసురః సురః ॥ ౧౭॥
బాణబాణకృతపూజనైర్జనైరాదరాదఘటి యైస్తవం స్తవః ।
వాస్తవాస్తవ త ఏవ తావతా బన్దివన్దితయశోగణా గణాః ॥ ౧౮॥
త్వాం సతామరసవాసవాఽఽసవాః జ్ఞాతదుర్గమగమాగమాఽఽగమాః ।
అర్చయన్తి సదినం దినన్దినం గీర్భిరమ్బరసదఃసదః సదః ॥ ౧౯॥
న మే తథా ప్రీతిమనేకపాలీ కరోతి నో వా దయితాఽఙ్కపాలీ ।
యథోక్తిదేవీ స విభుః కపాలీ యయాఽర్చ్యతే సేవకలోకపాలీ ॥ ౨౦॥
భవన్తమారాధ్య పరార్ధ్యవైభవం భవం విధాయ ద్విషతాం పరాభవమ్ ।
భవం చ జిత్వా జహతః పునర్భవం భవన్తి ముక్తాః పదమాప్య శామ్భవమ్ ॥ ౨౧॥
న వంశవృత్తేర్గణయామి తానవం న బన్ధురం కఞ్చన నౌమి మానవమ్ ।
నవం తవానన్దితదేవదానవం న వఞ్చితోఽహం రచయన్సదా నవమ్ ॥ ౨౨॥
ధనఞ్జయాక్షం సకలార్థసాధనం ధనఞ్జయారాధితమాధిబాధనమ్ ।
ధనం విదిత్వా విపదాం విశోధనం ధనన్తి ధన్యా విభుమృద్ధివర్ధనమ్ ॥ ౨౩॥
కలాపినః ప్రావృషి యద్వదమ్బుదధ్వనిర్ఘనానన్దవిశఙ్కలాపినః ।
కలాపినద్ధస్ఫుటజూటధారిణస్తథాఽమృతం వర్షతు గీః కలాపి నః ॥ ౨౪॥
నృజన్మ తస్యైవ భవానవద్యం భవానవద్యన్దవమీక్షతే యమ్ ।
త్యజత్యజాతోపరమా సమానం రమాఽసమానన్దకరీ న చైనమ్ ॥ ౨౫॥
అతః పరం జగతి కిమస్తి నీరసం యదుక్తమప్యసకృదుదీర్యతే వచః ।
సహస్రశశ్చిరమపి చర్వితా పునర్నవన్నవం స్రవతి రసం శివస్తుతిః ॥ ౨౬॥
మృత్యుం మృత్యుఞ్జయ జయ జగద్ఘస్మరం భస్మభావం
కామం కామం నయ నయనజోద్ధామధామచ్ఛటాభిః ।
భవ్యాభ వ్యాకులకులవధూరుత్కయేత్యాచరన్తం
సత్రాసత్రాణచణ చరితాన్యద్భుతాని స్తుమస్త్వామ్ ॥ ౨౭॥
యత్తత్సర్గనిసర్గనిర్మితికరం యద్రావణద్రావణ-
వ్యాపారాఽవసరావసక్తమథ యత్సంవర్తసంవర్తకమ్ ।
స్వాభాసం భవసమ్భవస్థితిలయస్ఫారోచితం రోచితం
భాసా కారణకారణం దిశతు తద్ధామేహితం మే హితమ్ ॥ ౨౮॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``హితస్తోత్రం'' నామ చతుర్దశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౫. కరుణారాధనం పఞ్చదశం స్తోత్రమ్
అధునా తపసేవ దేవతామభి యోగేన సరస్వతీమివ ।
సుహృదేవ సమీహితాం శ్రియం ప్రగుణేనేవ గుణేన సంసదమ్ ॥ ౧॥
ప్రతిభామివ కావ్యకర్మ్మణా వసునా కీర్తిమివార్థిగామినా ।
మనసీవ శమేన నిర్వృతిం సుకృతేనేవ పరత్ర సద్గతిమ్ ॥ ౨॥
కరుణాం హరిణాఙ్కలక్ష్మణః సకలార్థాఽర్పణకల్పవల్లరీమ్ ।
విపదన్తకరీముపాసితుం స్తుతిలేశేన మనః ప్రవర్తతే ॥ ౩॥
కరుణాం భవతో వికాసినీమమలైరీశ గుణైరలఙ్కృతామ్ ।
నలినీమలినీవ భారతీ భజతీయం మమ వల్గువాదినీ ॥ ౪॥
ఉపలక్ష్య తవాన్ధకారితాం మయి ధత్తే పదమన్ధకారితా ।
విషమామవలోక్య తే దృశం మమ దృష్టిర్విషమత్వమశ్నుతే ॥ ౫॥
తవ వీక్ష్య వృషాధరీకృతిం ఘటతే మేఽపి వృషాధరీకృతిః ।
ధృతవక్రకలత్వమీక్ష్య తే ప్రథతే వక్రకలత్వమేవ మే ॥ ౬॥
తవ వీక్ష్య చ భగ్నకామతాముదితేయం మమ భగ్నకామతా ।
కరుణామపి తే సమీక్ష్య మే కరుణా గీర్న కథం ప్రవర్తతామ్ ॥ ౭॥
ససురాసురమానుషం జగద్యదధీనం స భవానపీశ్వరః ।
వశవర్తిపదే యయాఽర్పితో జయతీయం కరుణైవ తావకీ ॥ ౮॥
కరుణా తవ జీవితేశ్వరీమతిశేతే భగవన్నుమామపి ।
ఉమయా హృతమర్ధమేవ యత్సకలస్త్వం పునరేతయా హృతః ॥ ౯॥
కరుణా తవ శస్యతే యయా జితకామోఽపి భవాన్ వశీకృతః ।
ఇదమన్యదియం యదమ్బికామపి దేవీమనయద్విధేయతామ్ ॥ ౧౦॥
జగదమ్బుభువా భువామ్భసా సితభాసా నభసా నభస్వతా ।
ధృతముష్ణరుచాత్మనా చ యత్కరుణాయా మహిమా తవేశ సః ॥ ౧౧॥
అహతప్రసరాం ప్రసాదినీం సహసాఽపోహితతాపసమ్పదమ్ ।
శరణం కరుణాతరఙ్గిణీం ప్రతిపద్యే తవ దేవ పావనీమ్ ॥ ౧౨॥
ప్రణయేన చిరం ప్రసాదితా మదనాశాకులితేన చేతసా ।
తరుణీ కరుణా కరోతి తే న కథం నాథ హృది స్థిరం పదమ్ ॥ ౧౩॥
భుజగా ఇవ చన్దనద్రుమం గ్లపయన్తో విషమా నయన్తి మామ్ ।
పరిహార్యదశామరాతయో మదమానప్రముఖా ధృతిచ్ఛిదః ॥ ౧౪॥
కరుణామరుణాఽనుజన్మనస్తనుముచ్చైరివ పక్షపాతినీమ్ ।
సముపైమి ధృతాచ్యుతశ్రియం శరణం భూధరపుత్రికాపతేః ॥ ౧౫॥
స్ఫురితారుణచారుచక్షుషా వపుషా నిర్భరఘర్మవిప్రుషా ।
పరుషాశయతాముపేయుషా సరుషా యత్ప్రహరన్తి యోషితః ॥ ౧౬॥
భగవన్ దృఢబద్ధమూలయోర్ద్విషతోరేష సహస్రశాఖయోః ।
అవిషహ్యనిపాతపీడయోరనుభావః కుసుమేషురోషయోః ॥ ౧౭॥
అనయోః కరుణైవ తావకీ నియతం మూలనికృన్తనక్షమా ।
యమలాఽర్జునయోరివోర్జితా శిశులీలా నరకాన్తకారిణః ॥ ౧౮॥
న విధిర్నిధిలాభసమ్భృతో న వినోదో మృగనాభిసమ్భవః ।
న చ శారదచన్ద్రచన్ద్రికా న కలం కోకిలకణ్ఠకూజితమ్ ॥ ౧౯॥
న శిశోరసమఞ్జసం వచో న మృగాక్షీపరిరమ్భవిభ్రమః ।
మధురా న కవీన్ద్రభారతీ న చ సామ్రాజ్యవిభూతిజృమ్భితమ్ ॥ ౨౦॥
న రసాయనపానకౌతుకం న చ శక్రాసనవాసవాసనా ।
పరిపూరయితుం క్షమేత తే కరుణాయా హర షోడశీం కలామ్ ॥ ౨౧॥
సురభిర్న మమ స్పృహాస్పదం సురభిర్దక్షిణమారుతోఽపి వా ।
సురభిక్షువితీర్ణవాఞ్ఛితా సురభిర్నో కరుణా యథా తవ ॥ ౨౨॥
సముదేతి యదశ్రు శోకజం రుచిరానన్దమయం విభాతి తత్ ।
పులకః ప్రథతే భయేన యః స చమత్కారకృతః ప్రవర్తతే ॥ ౨౩॥
క్లమజం దృశి యన్నిమీలనం పరమార్థానుభవాదుదేతి తత్ ।
శరణం కరుణాముపేయుషాం కృతినాం చన్ద్రకిరీట తావకీమ్ ॥ ౨౪॥
భజతః సరలేవ భారతీ నరకఙ్కాలకృతగ్రహస్య మే ।
కరుణా ప్రథతాముమాపతే కలికాలాఞ్ఛితవిగ్రహస్య తే ॥ ౨౫॥
భగవన్ మదిరామదోన్మదప్రమదాపాఙ్గతరఙ్గభఙ్గురమ్ ।
జరసా తరసావసాదితం వపురాయాతి న యావదాపదమ్ ॥ ౨౬॥
కుపితాన్తకకిఙ్కరేరితః కుటిలాం తద్భ్రుకుటిం విడమ్బయన్ ।
న ఘనాఞ్జనపుఞ్జసన్నిభో భుజగో యావదుపైతి కన్ధరామ్ ॥ ౨౭॥
న కుకర్మవిపాకకల్పితా నరకే యావదుదేతి వేదనా ।
గదితా శమనానుగామిభిః పరుషా గీరివ మర్మభేదినీ ॥ ౨౮॥
యది తావదియం న గాహతే హృదయం తే కరుణాతరఙ్గిణీ ।
బత దుఃసహతాపసమ్పదామితరా కా శరణార్థినాం గతిః ॥ ౨౯॥
న సమానసమాగమాం తథా ప్రమదాయ ప్రమదా యతాత్మనామ్ ।
శివదా శివదాస్యకృద్యథా స్వదమానస్వదమాఽనఘా మతిః ॥ ౩౦॥
ఏకః పురన్దరపురం దరవేల్లితభ్రూః
కింస్విజ్జనఙ్గమజనం గమయేన్మహర్షిః ।
కిం తామసం పదమసమ్పదమిన్ద్రమన్యో
ధన్యోదయా భవ దయా భవతో న చేత్స్యాత్ ॥ ౩౧॥
ఆర్ద్రే మనస్యుదితమార్తజనోపతాప-
సమ్పర్కతోఽథ దృశి కన్దలితం శుభాయామ్ ।
వాచి క్షణాత్కుసుమితం ఫలితం చ కృత్యే
కారుణ్యబీజమజరం జయతీన్దుమౌలేః ॥ ౩౨॥
రోగైరుగ్రైరఖిలవిగలత్సౌష్ఠవో నష్టచేష్టః
పర్యస్తాఙ్గోఽశుచిని శయనే భగ్నసర్వాభ్యుపాయః ।
యావజ్జీవం విహితమహితం కర్మ కర్తవ్యమూఢః
స్మృత్వా స్మృత్వా దలితహృదయః కాతరః కాన్దిశీకః ॥ ౩౩॥
తర్షోత్కర్షాత్కలుషపరుషైః కర్మభిః శర్మహృద్భి-
ర్యత్సమ్ప్రాప్తం కథమపి(కృశమపి)భృశం క్లేశయిత్వా శరీరమ్ ।
రిక్థగ్రాహైర్ద్రవిణమఖిలం లుణ్ఠ్యమానం తదగ్రే
పశ్యన్నశ్యత్సకలకరణో దహ్యమానః శుచాన్తః(శుచార్త్తః)॥ ౩౪॥
శోకోద్రేకాదవిరలగలద్బాష్పపూర్ణేక్షణాభిః
సత్పత్నీభిశ్చకితచకితం(చకితైః)లోచనైరీక్ష్యమాణః ।
పుత్రైర్మిత్రైః సహజసచివైర్బన్ధుభిర్భృత్యవర్గై-
రాక్రన్దద్భిః కరుణకరుణైః పీడ్యమానః ప్రలాపైః ॥ ౩౫॥
స్వస్థావస్థైర్భృశమశుచితాశఙ్కిభిర్వేశ్మగర్భా-
దన్తర్లీనస్మృతిరపి హఠాన్నిష్ఠురైః కృష్యమాణః ।
యస్మిన్కాలే కవలితవపుర్మృత్యునాఽభ్యేతి భీతిం
తత్ర త్రాతా క ఇవ కరుణామైశ్వరీమన్తరేణ ॥ ౩౬॥
వపుఃఖణ్డే ఖణ్డః ప్రతివసతి శైలేన్ద్రదుహితుః
శిఖణ్డే ఖణ్డేన్దుః స్వయమపి విభుః ఖణ్డపరశుః ।
తథాపి ప్రత్యగ్రం శరణముపయాతం ప్రతి విభో-
రఖణ్డో వ్యాపారో జగతి కరుణాయా విజయతే ॥ ౩౭॥
జయ జితామయ జయ సుధామయ జయ ధృతామృతదీధితే
జయ హతాన్ధక జయ పురాన్తక జయ కృతాన్తకసంహృతే ।
జయ పరాపర జయ దయాపర జయ నతాఽర్పితసద్గతే
జయ జితస్మర జయ మహేశ్వర జయ జయ త్రిజగత్పతే ॥ ౩౮॥
స్థానాఽస్థాననియన్త్రణావిరహితో నిర్హేతురప్రార్థితః
సత్యం సత్త్వహితార్థ ఏవ తరణేరమ్భోభృతశ్చోద్యమః ।
తృష్ణాతాపశమక్షమస్తు న రవిర్న ధ్వాన్తశీతాన్తకృ-
న్మేఘః స త్వఖిలార్తిహృద్విజయతే మాహేశ్వరోఽనుగ్రహః ॥ ౩౯॥
బహునా కిమత్ర కరుణాముమాపతేః సుదశావతారకృతమూర్జితశ్రియమ్ ।
భజతాఽనిరుద్ధహృదయేప్సితాగమప్రవణాం విభూతిమివ కైటభద్విషః ॥ ౪౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కరుణారాధనం'' నామకం పఞ్చదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౬. ఉపదేశనం షోడశం స్తోత్రమ్
వృషలక్ష్మణః ప్రణతలోకబన్ధవః కలితాలికస్ఖలితసిద్ధసిన్ధవః ।
ద్యుతిభిర్జయన్తి తులితోదితేన్దవశ్చరణారవిన్దమకరన్దబిన్దవః ॥ ౧॥
అమలైః ఫలైరవిరలైరలఙ్కృతా హరితాఽరుణప్రణతశాలిశాలినీ ।
ప్రతిభాతి జీర్ణతృణవత్తవ స్తవం వసుధా సుధాద్యుతివతంస శంసతఃమ్ ॥ ౨॥
తిమిరం చిరన్తనమనన్త సన్తతగ్లపితావలోకమవలోకనార్థినః ।
సృజతాఽమృతం దశసు దిక్షు చక్షుషాకలికాలకల్మషముషాముషాణ మే ॥ ౩॥
వహతా హతాన్ధతమసామసాదితాం
ద్యుతిభిః కలామవికలాం కలావతః ।
దిశతా ప్రకాశవిశదాశమాశయం
వపుషా శివం శివపుషా పుషాణ మే ॥ ౪॥
ఘనఘర్మలఙ్ఘితకపోలభిత్తయః శ్వసితానుబన్ధవిధురీకృతాధరాః ।
ధనినాం పురః ప్రకటయన్తి దుర్గతిం ద్యుతిహీనదీనవదనా ధనార్థినః ॥ ౫॥
తదనన్తరం తరలితాక్షరాం గిరం చిరసమ్భృతప్రమదసాదగద్గదామ్ ।
విహితావహేలజగతీపతీక్షితాస్త్రపయాపయాపితముఖాః ప్రయుఞ్జతే ॥ ౬॥
అవధీర్యమాణమథ దీర్ఘమత్సరైరవబోధవన్ధ్యహృదయైరనాదృతమ్ ।
గుణకౌశలం శలభజృమ్భితోపమం ప్రథయన్తి యాన్తి చ పరం పరాభవమ్ ॥ ౭॥
ఇతి దీర్ఘదుర్భరకుటుమ్బడమ్బరా ధనసఙ్గ్రహగ్రహగృహీతచేతసః ।
సుధియోఽపి యాన్తి నిబిడం విడమ్బనం వనవాసిభిఃప్రహసితప్రవృత్తయః ॥ ౮॥
కృతినః పునర్మృదుమృదఙ్గమఙ్గల-
స్వనసన్నిభధ్వనితనిర్ఝరోర్మిషు ।
కృతవృత్తయః సులభశాద్వలావలీ-
వలితస్థలేషు (లలితస్థలీషు)తుహినాద్రిసానుషు ॥ ౯॥
సురసిన్ధురోధసి గృహీతకేతకీ-
చలితా(దలిత)ఙ్గులీకిసలయేన పాణినా ।
వివిధాం విధాయ విధినా పినాకినః
కరుణార్ణవస్య చరణాబ్జసత్క్రియామ్ ॥ ౧౦॥
హరిణైః కుశాగ్రకవలాభిలాషిభి-
ర్భరణార్థిభిశ్చ కలవిఙ్కశావకైః ।
అతిథీభవద్భిరహతాహ్నికక్రియాః
ఫలమూలకల్పితశరీరవృత్తయః ॥ ౧౧॥
దివసావసానసమయే సరన్మరు-
త్పరికీర్ణజీర్ణతృణపర్ణమర్మరాః ।
తనుజాహ్నవీసలిలశీకరోత్కరైః శిశిరాః
శివాయ (చిరాయ)చరితా వనస్థలీః ॥ ౧౨॥
ధవలీకృతాస్వమలభానుభానుభి-
ర్జ్వలితౌషధీషు రజనీష్వనన్తరమ్ ।
కలకణ్ఠకణ్ఠకుహరోద్గతస్వర-
స్వరసార్పితశ్రుతిసుఖాసు శేరతే ॥ ౧౩॥
ఇతి బిభ్రతః పరికరం ప్రియఙ్కరం
హరపాదపఙ్కజరజఃప్రసాదజమ్ ।
విహసన్తి మూఢమనసాం మహీభుజాం
గజకర్ణతాలతరలాశ్రయాః శ్రియః ॥ ౧౪॥
దధదుద్ధతం హర పురః పురన్ధ్రిభిః ప్రబలం బలం గలదపాఙ్గభఙ్గిభిః ।
హృదయం భినత్తి మమ ఘస్మరః స్మరః శరపాతకాతరదృశో భృశం కృశమ్ ॥ ౧౫॥
జనయన్నయం నయనయోరధీరతాం భ్రమయన్భ్రువం భృశమదభ్రసమ్భ్రమామ్ ।
శ్లథయన్ప్రయత్నకృతసఙ్గమం శమం హసనీయతాం నయతి రోష ఈశ మామ్ ॥ ౧౬॥
ధనలాభసమ్భ్రతవిలాసవాసనావ్యథమానమానసమసత్యసఙ్గరమ్ ।
న విశోభిలోభవివశం స్పృశన్తి మాం సుహృదోఽపి కోపితకదర్థితార్థినమ్ ॥ ౧౭॥
ఉచితత్రివర్గరహితం తిరోహితం ఘనమోహమూఢమనసం హసన్తి మామ్ ।
కృతమేధసామధిసదః సదఃసదః సదసద్వివేకవికలం కలఙ్కితమ్ ॥ ౧౮॥
ఇతి తర్జయన్తి రిపవః సుదుర్జయాః పరివర్జయన్తి చ విశుద్ధబుద్ధయః ।
న పునర్జయన్తి విధురం యథా తథా కురు హే మహేశ దృశమేహి దేహి నః ॥ ౧౯॥
క్వ మహేశ్వరస్మరణసమ్భవం భవ-
భ్రమభీమఘర్మశమసమ్ముఖం సుఖమ్ ।
విపదాం పదం మృదుమృణాలినీదల-
స్ఖలదమ్బుబిన్దుతరలాః క్వ సమ్పదః ॥ ౨౦॥
క్వ శివేశ్వరేతి కృతగణ్డమణ్డలీ
పులకోద్గమప్రమదమన్థరా గిరః ।
క్వ యథార్థపార్థివనిరర్థకాఽనృత-
స్తుతివిస్తరైరపథపాతపాతకమ్ ॥ ౨౧॥
క్వ సమాధిబాధితదురాధిసాధిమా
భవసమ్భవశ్రమదమక్షమః శమః ।
క్వ మదః ప్రదర్శితసమగ్రవిగ్రహః
ప్రహసన్మనస్విజనగర్హితస్థితిః ॥ ౨౨॥
ఇతి మామనర్గలమమార్గమార్గణ-
ప్రవణావివేకవికలీకృతాశయమ్ ।
కరుణానిధాన పరిబోధయ క్షణం
క్షణదావిశేషకశిఖాశిఖామణే ॥ ౨౩॥
ప్రమదా మదారుణదృశః కృశోదరాస్తనయా నయానతసమస్తమస్తకాః ।
సుహృదో హృదన్తరగతేఙ్గితస్పృశః ప్రణయార్ద్రనిర్భరగిరశ్చ బన్ధవః ॥ ౨౪॥
దధతః ప్రసాదమధురాం ధురామపి ప్రభవోఽమృతద్రవసమానమానసాః ।
ముఖవీక్షణప్రణయినః ప్రతిక్షణం పరిచారకాశ్చ జయజీవవాదినః ॥ ౨౫॥
న భయం భయఙ్కరకృతాన్తకిఙ్కరభ్రుకుటీభవం ఝటితి హన్తుమీశతే ।
భజతామతః క్షపయదాపదం పదం హృదయే దయామృతనిధే నిధేహి నః ॥ ౨౬॥
హన్తాఽహన్తా ప్రథయతి మతిహ్రాసమాసఞ్జయన్తీ
మాయామాయాసితసితశమా యామినీ యామినీవ ।
తస్మాదస్మాన్రవిశశిశిఖిప్రేఙ్ఖితోద్దామధామ
క్షిప్త్వా చక్షుర్ముదితముదితాఽవన్ధ్యబోధాన్విధేహి ॥ ౨౭॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``ఉపదేశనం'' నామకం షోడశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౭. భక్తిస్తోత్రం సప్తదశం స్తోత్రమ్
మన్దస్పన్దే మనసి రసికీభావమాసాద్య సద్యో
హృద్యోద్యోగా విహర వరదే భారతి స్వారతిస్తే ।
మాతర్జాతస్పృహమివ మహామోహనిద్రావసానే
జనీహీమం జనమనలసం శంసితుం శమ్భుభక్తిమ్ ॥ ౧॥
ద్రాక్షా సాక్షాదమృతలహరీ కర్కశాత్కాష్ఠకోషా-
ద్భూరిచ్ఛిద్రాత్ప్రకృతిమధురా మూర్చ్ఛనా వంశగర్భాత్ ।
సూక్తివ్యాజాన్మమ చ వదనాత్కర్ణపేయా సుధేయం
నిర్గచ్ఛన్తీ జనయతి న కం విస్మయస్మేరవక్త్రమ్ ॥ ౨॥
ధ్యాత్వా దేవ ప్రమయసమయత్రాసమాసన్నకల్పం
స్వల్పం జ్ఞాత్వా సులభశలభచ్ఛాయసచ్ఛాయమాయుః ।
మత్త్వా చ త్వా సదయహృదయం భక్తివాల్లభ్యలభ్యం
సభ్యమ్మన్యాస్తవ నవవిధౌ ధౌతచిత్తా యతన్తే ॥ ౩॥
కణ్ఠే కణ్ఠీరవరవసదృగ్దృక్సముద్గోద్గతాశ్రో-
ర్హేలోన్మీలద్విపులపులకోద్భృతభూతేశభక్తేః ।
యస్యోదేతి ధ్వనిరనిభృతః శర్వశర్వేత్యఖర్వం
గర్వం బిభ్రద్ధసతి వసతిం వాసవీయాం స ఏకః ॥ ౪॥
తన్మానుష్యం ప్రభవతి సతాముత్తమా యత్ర జాతిః
సైకా జాతిః ప్రసరతి యశో యత్ర పాణ్డిత్యహేతు ।
తత్పాణ్డిత్యం సరసమధురా జృమ్భతే యత్ర వాణీ
వాణీ సాపి ప్రథయతి రతిం శాఙ్కరీ యత్ర భక్తిః ॥ ౫॥
యేషాం వక్త్రే సమదముదితత్వచ్చరిత్రాః పవిత్రా
ద్విత్రా విత్రాసితరవిసుతభ్రూవిభఙ్గప్రసఙ్గాః ।
నోజ్జృమ్భన్తే మధుకణముచః సూక్తయో భక్తిసిక్తా
ధిక్తాన్రిక్తాన్భువి భవ భవత్పాదసేవారసేన ॥ ౬॥
నాథ జ్యోత్స్నా బహులరజనౌ కార్తికీయేవ కాన్తా
కాన్తారాన్తర్మథితపథికప్రౌఢతాపా ప్రపేవ ।
మా మా భైషీరితి యమభయే తావకీనేవ వాణీ
భావత్కీ మే సతతమమృతస్యన్దినీ భాతి భక్తిః ॥ ౭॥
యేషామన్తః సుకృతసరణిః స్థాణవీయా న భక్తి-
ర్వ్యక్తిం ధత్తే రసకృదసకృన్నాస్మి తేషు స్మితేషు ।
లోకః శోకం త్యజతి సహసా యత్ర తద్భక్తియుక్తం
యుక్తం మన్యే రుదితముదితశ్లాఘముల్లాఘహేతుమ్ ॥ ౮॥
ధ్వాన్తం శాన్తప్రశమమహరద్యన్న సద్యః సముద్య-
న్నుద్యోతశ్రీకలితకమలోల్లాసభానుః స భానుః ।
తద్విధ్వస్తప్రమదమదమోద్దీపితోద్దామదోష-
ప్లోషం నేతుం ప్రభవతి భవే శామ్భవీ భక్తిరేవ ॥ ౯॥
యే సన్తోషప్రశమపిశునే క్లేశరాశౌ నిమగ్నా
భగ్నాశాభిర్విషమవిషయోపాసనావాసనాభిః ।
తేషామేషా భవభయభిదారమ్భసమ్భావనాభూ-
ర్భూత్యై భూయస్త్రిజగతి గతిః శామ్భవీ భక్తిరేవ ॥ ౧౦॥
దమ్భస్తమ్భస్థగితగతయః సావహేలామహేలా-
హేలాలాపభ్రమితమతయః సన్త్యసఙ్ఖ్యాః పుమాంసః ।
భార్గీం భక్తిం దధతి హృదయే నిస్తరఙ్గామభఙ్గాం
గఙ్గాతీరే విహితరతయో దుర్లభాః పూరుషాస్తే ॥ ౧౧॥
శమ్భో దమ్భో దహతి కుహకారమ్భసమ్భావనాభిః
సాభిద్వేషస్త్విషమపకషత్యేష రోషప్రదోషః ।
సావష్టమ్భం భ్రమయతి బృహన్మామహఙ్కారభారః
పారం నేతుం ప్రభవతి భవద్భక్తిరేకా భవాబ్ధేః ॥ ౧౨॥
ద్రాక్సన్ధత్తే యుధమధిధనుర్బద్ధబాణాభిరామైః
సభ్రూభఙ్గైర్లటభలలనాపాఙ్గభఙ్గైరనఙ్గః ।
దోషప్లోషక్షమశమపథాపాతమాతన్వతీ మే
భీమే భక్తిర్భగవతి గతిశ్చక్షుషశ్చన్ద్రికేవ ॥ ౧౩॥
కామః కామం ధనురనునిశం కౌసుమం సంవృణోతు
వ్యాలం కాలః స్వకరకుహరే భగ్నభోగం విధత్తామ్ ।
భార్గీ భక్తిః సపది సకలప్రార్థనాకల్పవల్లీ
లబ్ధా దృబ్ధా జగతి కతి న క్లేశపాశా హతాశాః ॥ ౧౪॥
రాజ్ఞామాజ్ఞావిహతివిహితానీకినీనీరసశ్రీః
స శ్రీలేశస్తనురనుచితప్రార్థనస్తావదాస్తామ్ ।
ఐన్ద్రం యత్ర త్రిభువనజయప్రాజ్యసామ్రాజ్యలక్ష్మీ-
లక్ష్మావజ్ఞాస్పదమపి పదం తాం స్తుమః శమ్భుభక్తిమ్ ॥ ౧౫॥
కాన్తైకాన్తవ్యసనమనసాం వల్కలాలఙ్కృతానాం
జ్ఞానామ్భోభిః క్షపితరజసాం జాహ్నవీతీరభాజామ్ ।
గాఢోత్సేకప్రకటితజటామణ్డలీమణ్డనానాం
నానాకారా భవతి కృతినాం ముక్తయే భర్గభక్తిః ॥ ౧౬॥
మూర్తిర్ధూతిం ప్రథయతి యథా మఞ్జరీ జీర్ణపర్ణా
కర్ణాభ్యర్ణం ప్రసరతి జరా సత్యతో మృత్యుదూతీ ।
భోగా భోగా ఇవ విదధతశ్చేష్టితం వేష్టయన్తే
హన్తేదానీం శరణమపరం నాస్తి నః శమ్భుభక్తేః ॥ ౧౭॥
యత్ర ధ్వాన్తక్షపణనిపుణం దుర్బలం ధామ చాన్ద్రం
సాన్ద్రం యత్ర గ్లపయతి తమస్తాపనో యన్న తాపః ।
యత్ర ప్రేఙ్ఖన్న కచతి శిఖీ తేజసాఽన్యేన సత్రా
తత్రాలోకం దిశతి విషమే శామ్భవీ భక్తిరేకా ॥ ౧౮॥
మా భూద్భూయోఽభ్యసనసులభాన్వీక్షికీ నామ విద్యా
హృద్యా దూరే విహరతు విపత్ఖణ్డినీ దణ్డనీతిః ।
క్వాపి స్థేమ్నా లసతు కలితోల్లాఘవార్తాపి వార్తా
నార్తావర్హం కిమపి శరణం శమ్భుభక్తిం వినాఽన్యత్ ॥ ౧౯॥
సంసారాబ్ధేః ప్రథమలహరీ పాతకాపాతకామా
రామా నామ స్థగయతి గతిం మజ్జతాం సజ్జనానామ్ ।
మోహావర్త్తభ్రమసముదయత్ఖేదవిచ్ఛేదహేతుః
సేతుర్దూరీభవతి చ భృశం శేముషీ శేముషీయమ్ ॥ ౨౦॥
తస్మాదస్మాజ్జననమరణక్లేశవేశన్తపఙ్కా-
చ్ఛఙ్కాతఙ్కాకులితమతయో యే తితీర్షన్తి తేషామ్ ।
ఆశాపాశగ్రథితవపుషాం క్రన్దతామాతురాణాం
ప్రాణాపాతే వితరతి కరాలమ్బనం శమ్భుభక్తిః ॥ ౨౧॥
ఏణాక్షీణాం స్మరశరశిఖాకోటిశౌటీర్యభీమాః
ప్రేమాకృష్టా ఝగితి కుటిలా యే కటాక్షాః పతన్తి ।
కాలేనైతే కులిశనిశితాస్తుణ్డదణ్డా జడానాం
భిన్దన్త్యన్తర్హృదయమదయం పత్రిణాం నారకాణామ్ ॥ ౨౨॥
బాహుద్వన్ద్వం తులితవివలద్బాలమార్ణాలనాలం
సాలఙ్కారం రణితవలయం వేష్టితం కణ్ఠపీఠే ।
మోహాన్ధానాం మహతి పతతాం యాతనాతఙ్కపఙ్కే
శఙ్కే పఙ్కేరుహదలదృశః పాశతామేతదేతి ॥ ౨౩॥
యత్సాకూతం ముకులితదృశః కేతకామోదహృద్యం
సద్యః స్విద్యద్వదనమమృతస్యన్ది పీతం నతాఙ్గ్యాః ।
రాగాన్ధానాం నిరయనిలయే తద్దురాపావసానే
జానే భూయః పతనశపథాక్రోశకోషత్వమేతి ॥ ౨౪॥
రాగోద్రేకాత్కనకకలశాకారమాలమ్బి హారం
సారఙ్గాక్ష్యాః పృథుకుచయుగం గాఢమాలిఙ్గితం యత్ ।
తన్మూఢానాం నరకకలిలే మజ్జతామన్తకాలే
నాలే లగ్నస్థిరతరగురుగ్రావభావం బిభర్తి ॥ ౨౫॥
కిం భూయోభిర్వచనరచనాడమ్బరైర్దీర్ఘశోకా
లోకా యుక్తం శృణుత సుతరాం పశ్చిమం వాక్యమేతత్ ।
దుఃఖోదర్కం ప్రముఖసుఖదం సఙ్గముత్సృజ్య సాఙ్గం
గాఙ్గం లబ్ధ్వా సలిలమమలం శమ్భుభక్తిం భజధ్వమ్ ॥ ౨౬॥
త్రైలోక్యం లమ్భయన్తస్తృణగణగణనాం రోహిణీకాన్తలేఖా-
రేఖాలఙ్కారభక్తిప్రముదితమనసో నిర్మలం ధామ లబ్ధుమ్ ।
ధన్యాః సంన్యాసినోఽన్తః కలిమలపటలం భూరి భిన్దన్త్యమన్దా
మన్దాకిన్యాః పయోభిః శశిముకుటజటావైజయన్తీదుకూలైః ॥ ౨౭॥
ఏవం దేవ ప్రభేవ స్మరహర సకలద్వీపదీపస్య భర్త్తు-
ర్భాసామాసాదయన్తీ విషమతమతమఃఖణ్డనే చణ్డిమానమ్ ।
కారాగారానుకారే పరిభవతి భవే బద్ధమోహాన్ధకారే-
భావత్కీ భక్తిరేకా శరణమశరణత్రాణవిశ్రాణినీ నః ॥ ౨౮॥
యే విశ్వస్థితిసర్గసంహృతికృతో దేవాస్త్రయస్తేఽపి యం
సేవన్తే ముఖవీక్షణప్రణయినో దృక్పాతమాత్రార్థినః ।
యస్యాః స ప్రభురప్రమేయమహిమా క్రీడాశకున్తాయతే
తాం భక్తిం భువనత్రయాద్భుతమహామాహాత్మ్యశక్తిం స్తుమః ॥ ౨౯॥
గావస్తావద్దుహానా రసమసమసుధాసోదరాస్వాదబన్ధుం
భక్తిర్భర్గేనిసర్గక్లమశమనచమత్కారభోగైకభూమిః ।
తృప్తిః స్వాత్మావభాసాదనుపమపరమానన్దనిఃస్యన్దసంవి-
ద్విశ్రాన్త్యేకాన్తహేతోరితిసపది విపత్కిఙ్కరీ కిఙ్కరోతు ॥ ౩౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``భక్తిస్తోత్రం'' నామ సప్తదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౮. సిద్ధిస్తోత్రం అష్టాదశం స్తోత్రమ్
జయతి జితవికారః కౢప్తలోకోపకారః
కృతవిపదపకారః శాన్తమోహాన్ధకారః ।
అతులపురుషకారః ప్రాప్తవిశ్వాధికారః
స్మరరచితనికారః పార్వతీచాటుకారః ॥ ౧॥
అతనుమతనుతాముం ప్రాణినాం పూర్ణశక్తి-
స్తనుభువనగణం యః శర్మదః కర్మభుక్త్యై ।
దిశమదిశదశఙ్కాం శాస్త్రరూపాం చ ముక్త్యై
స భవతు భవదోషప్లోషకృద్వో మహేశః ॥ ౨॥
అనలసహితవృత్తౌ సత్కలాభాసశుద్ధే
బుధవరముఖపద్మే భారతీ నిర్మలోర్మిః ।
వరద పరమతాపక్లేశజిత్త్వత్ప్రసాదాత్
ప్రభవతి భవదీయే మూర్ధని స్వర్ధునీవ ॥ ౩॥
భవ భవమరుచారశ్రాన్తసన్తాపతాన్తి-
ప్రశమనఘనవర్షావారివాహం తవాహమ్ ।
నమదమరకిరీటప్రోతరత్నాంశుపూర-
స్ఫురదురుసురచాపం పాదపీఠం ప్రపద్యే ॥ ౪॥
కరకలితకపోలా బాలశైవాలశయ్యా-
తలలులితమృణాలీపేలవమ్లానమూర్తిః ।
చిరవిరహవినిద్రా రుద్రదృక్పాతపాత్రం
దిశి దిశి నిశి పశ్యత్యఙ్గనానఙ్గభీరుః ॥ ౫॥
హరచరణసరోజద్వన్ద్వభక్తిప్రసాదా-
దుపరి కరివరాణాం సఞ్చరన్తః సహేలమ్ ।
ఘనమదభరనిర్యన్నిర్భరామోదలోభ-
స్ఖలదలికులగీతం స్ఫీతమాకర్ణయన్తి ॥ ౬॥
చరణకమలయుగ్మం దేవ నిర్దమ్భభక్తి-
గ్రహపులకితదేహస్తావకం యో ననామ ।
అధివసతి స సేవానమ్రసామన్తమౌలి-
స్ఖలితబకులమాలాలాలితం పాదపీఠమ్ ॥ ౭॥
శశిశకలశిఖణ్డ త్వత్ప్రసాదేన ధన్యాః
సితకరధవలాభ్యాం చామరాభ్యాం విభాన్తి ।
ఉభయత ఇవ వక్త్రం భావిరుద్రత్వలాభ-
ప్రకటనపిశునాభ్యాం స్వర్ణదీనిర్ఝరాభ్యామ్ ॥ ౮॥
క్షితిధరపతిపుత్రీవల్లభ త్వత్ప్రసాదా-
ద్దధతి జగతి ధన్యా మూర్ధ్ని ధౌతాతపత్రమ్ ।
ఘటయితుమధికత్వం స్వాత్మనోఽపి త్వయైత-
త్సకలమివ వితీర్ణం మణ్డలం శీతరశ్మేః ॥ ౯॥
అయి హృదయ దయార్ద్రః స్వర్ధునీనీరధారీ
త్వయి విహరతి హస్తన్యస్తపీయూషకుమ్భః ।
యది హిమకరలేఖాశేఖరః కోఽపరస్తే
భవదవవినివృత్తౌ శంస శీతోపచారః ॥ ౧౦॥
సురవరనుతధైర్యా వైరిదుర్వారవీర్యా
జగతి వివిధశాస్త్రప్రస్తుతాచార్యచర్యాః ।
దధతి భువనతన్త్రం కోటిశో రుద్రవర్యాః
కృతసతతసపర్యా యే పురా శఙ్కరస్య ॥ ౧౧॥
గిరి గిరివరకన్యాకాన్త శాన్తప్రథాయాం
కరచరణగణేఽపి క్షామతామశ్నువానే ।
గలగలదవకాశే వాపి కీనాశపాశే
భవ భవతి వినా త్వాం ప్రాణినాం త్రాణకృత్కః ॥ ౧౨॥
శయశయననివిష్టం వక్త్రమాపాణ్డుగణ్డం
మతిమతివిరహేణ గ్లానిభాజం వహన్తీ ।
తనుతనులతికార్తిం మానినీ వ్యాహరన్తీ
హర హరతి న ధైర్యం త్వత్సమాధౌ బుధానామ్ ॥ ౧౩॥
దలదలఘువివేకం వ్యక్తశోకాతిరేకం
విశ విశదమనన్త స్వాన్తమన్తః ప్రశాన్తమ్ ।
భవ భవ భవదాహధ్వంసవర్షామ్బువాహః
కలికలితరుజానాం సప్రజానాం ప్రజానామ్ ॥ ౧౪॥
దహదహతమమోఘం పాప్మనాం దీర్ఘమోఘం
రుచిరుచిరమమన్దం సున్దరానన్దకన్దమ్ ।
దిశ దిశదుపదేశం నాశితక్లేశలేశం
మధుమధురముదారం వాక్యపీయూషసారమ్ ॥ ౧౫॥
సరతి సరతిరన్తర్ఘస్మరో మారవీర-
శ్చలతి చ లతికేవ స్ఫీతభీతిర్మనీషా ।
తమహితమహిమానం నాథ నిక్షిప్య చక్షుః
శమయ శమయమేతి ప్రీతిమాన్యేన లోకః ॥ ౧౬॥
జఘనజఘనశోభా స్పర్ధమానా సభృఙ్గం
కమలకమలకాన్తక్రాన్తభాసా ముఖేన ।
ముదితముదితరాగా సేవతే దేవ రామా
మదనమదనవీనైస్త్వత్ప్రపన్నం విలాసైః ॥ ౧౭॥
జనితజనితరఙ్గం జృమ్భయన్తీ భవాబ్ధిం
కలితకలితమిస్రా నాథ కాదమ్బినీవ ।
హరతి హర తితిక్షోన్మాథినీ మోహమూర్చ్ఛా
మహితమహితవృద్ధిః శుద్ధబోధప్రకాశమ్ ॥ ౧౮॥
భజతి భజ తిరశ్చీం దృష్టిమిష్టప్రసాదాం
కృతసుకృతసుమేధఃప్రైధితాభీష్టసిద్ధిమ్ ।
తిరయతి రయమీశ వ్యాపదాం దుఃసహానాం
శమనశమనదక్షం త్వాం వినా నాథ కోఽన్యః ॥ ౧౯॥
సమరసమరజోభిః స్వాన్తమన్తర్వహద్భి-
ర్హితవిహితవియోగం మోహమాహన్తుకామైః ।
భవవిభవవిముక్తైర్యోగిభిర్యోఽభ్యుపేత-
స్తమహతమహనీయశ్లాఘమీశం ప్రపద్యే ॥ ౨౦॥
అకలితమహిమానం ధ్వస్తమిథ్యాభిమానం
దదదమృతసమానం బోధమాభాసమానమ్ ।
ప్రకటితలఘిమానం దుర్వహం వర్ధమానం
భవభవమవభానం భిన్ద్ధి మే బాధమానమ్ ॥ ౨౧॥
కిమివ మణిభిః కిం వా మన్త్రైః కిమౌషధిసఙ్గ్రహై-
రిహ బహువిధైః కిం వా కార్యం పరైరపి భేషజైః ।
అమృతమపి న ప్రాయః పాపోపతాపశమక్షమం
వ్రజత శరణం తస్మాదేకం హరం కరుణాపరమ్ ॥ ౨౨॥
ఇహ హి గిరిషు ప్రాలేయాద్రిర్మహఃసు విభావసు-
ర్గురుషు జననీ మన్త్రేష్వేకాక్షరం పరమం పదమ్ ।
సఖిషు సుకృతం వైరిష్వంహో నదీషు నభోనదీ
ప్రభుషు చ పరః స్వామీ దేవః శశాఙ్కశిఖామణిః ॥ ౨౩॥
న యావదవహీయతే ధృతిధురా జరావిప్లవై-
ర్న జీర్యతి సరస్వతీ న చ విశీర్యతే శేముషీ ।
న చామయభుజఙ్గమైరవశమఙ్గమాలిఙ్గ్యతే
భజధ్వమజరం విభుం భవజయాయ తావద్బుధాః ॥ ౨౪॥
అరాణి కరుణం ముహుర్ముహురకారి చాటు ప్రభో-
రభావి భవభావనాముదితచేతసాన్తర్ముహుః ।
అలోఠి ముకుటం ముహుశ్చరణపీఠికావిష్టరే
కిమన్యదఖిలం జితం కరతలే కృతాః సిద్ధయః ॥ ౨౫॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``సిద్ధిస్తోత్రం'' నామాష్టాదశం స్తోత్రం సమ్పూర్ణమ్ ।
౧౯. భగవద్రూపవర్ణనం ఏకోనవింశం స్తోత్రమ్
యత్తే పరం వరద రూపమతీతమేవ
మార్గం గిరాం తదిహ కః క్షమతే గృణాతుమ్ ।
అగ్రాహి యత్తు నతలోకమనుగ్రహీతుం
బాలేన్దులక్ష్మ భవతా తదిదం గృణామి ॥ ౧॥
ఆస్తాం పరం యదపరం తదపి స్వకీయం
దివ్యం వపుర్నహి మహేశ విమర్శయోగ్యమ్ ।
యత్కిఞ్చిదేవ తు వికల్పవికల్ప్యమాన-
మానన్దధామ తదపీహ భవార్తిభాజామ్ (భవార్ద్దితానామ్)॥ ౨॥
మూర్త్తిర్ధ్రువం తవ శివామృతవర్తిరేనా-
మాసాద్య యత్కతిచిదశ్రులవాః పతన్తి ।
నశ్యత్యఘౌఘపటలం తిమిరం వ్యపైతి
రాగః ప్రశామ్యతి దృశః ప్రథతే ప్రసాదః ॥ ౩॥
సత్యం మహార్ఘగుణరత్న నిధానమేత-
దాలమ్బనం తవ వపుర్విపదర్దితానామ్ ।
నో చేన్నఖాంశుభరకేసరితం కిమత్ర
పాదాభిధం యుగపదుద్గతమబ్జయుగ్మమ్ ॥ ౪॥
పాదద్వయం తవ భవ ప్రణతిప్రకర్ష-
హర్షాశ్రుబిన్దుభరదన్తురితాఙ్గులీకమ్ ।
నీహారశీకరపరిష్కృతపత్రపఙ్క్తి-
పఙ్కేరుహద్వితయకాన్తి భజన్తి ధన్యాః ॥ ౫॥
భస్మోజ్జ్వలం త్రిదశశేఖరపద్మరాగ-
దీప్రప్రభారుణితమఙ్ఘ్రిసరోజయుగ్మమ్ ।
వన్దామహే ఘుసృణరేణుపరాగగర్భ-
కర్పూరపాంసుభిరివచ్ఛురితం స్మరారేః ॥ ౬॥
జఙ్ఘాలతాయుగలమాశ్రితగుల్ఫమూల-
భోగీన్ద్రభోగసుభగాభినవాలవాలమ్ ।
శమ్భోరభీష్టఫలదం భవతాపతాన్తి-
శాన్తిక్షమం శమయితుం విపదం శ్రయామి ॥ ౭॥
వన్దే యుగాన్తసమయోషితసప్తలోకం
లోకోత్తరం జఠరమీశ్వరభైరవస్య ।
యత్రైతి నాభికుహరం జగదాదిసర్గ-
నిర్యజ్జనౌఘనవనిర్గమమార్గభఙ్గిమ్ ॥ ౮॥
సిన్దూరితాఽమరమతఙ్గజకుమ్భశోభి
సన్ధ్యాభితామ్రశరదమ్బుధరానుకారి ।
వన్దే ఫణీన్ద్రఫణరత్నరుచారుణాభం
భస్మౌఘభాస్వరమురః పుర(స్మర)శాసనస్య ॥ ౯॥
స్వామిన్నమీ తవ భుజా భుజగాధిరాజ-
భోగోపగూఢవపుషో హృదయం మదీయమ్ ।
ఆనన్దయన్తి బత భీమభవోపతాప-
నిర్వాపణేన విటపా ఇవ చన్దనస్య ॥ ౧౦॥
మధ్యస్థితేరుభయపార్శ్వగతా చకాస్తి
హస్తస్య మేరుపరిమర్శవినాకృతేయమ్ ।
అవ్యాహతగ్రహవశాహితయోగసిద్ధి-
ర్నక్షత్రపఙ్క్తిరివ దేవ తవాఽక్షమాలా ॥ ౧౧॥
త్వం కాలభైరవవపుర్జ్వలితాఽనలాశ్రి
లోలాఙ్గులీవలనమణ్డలితం దధానః ।
సంహారరాత్రిషు నినర్తిషురీశ శూలం
బాలార్కచుమ్బితనవామ్బుదభఙ్గిమేషి ॥ ౧౨॥
శాణోపలోత్కషణశుద్ధనవేన్ద్రనీల-
నీలద్యుతిర్జయతి తే శితికణ్ఠ కణ్ఠః ।
యస్మిన్ఘనాఞ్జనరుచిర్భుజగః కలిన్ద-
కన్యాహృదాన్తరితకాలియభఙ్గిమేతి ॥ ౧౩॥
కణ్ఠో వహన్నపి విషం విషమం తవైషః
సద్యః శ్రియం సృజతి యద్వచసాశ్రితేషు ।
స్వామిన్నతస్త్రిభువనప్రథితప్రతిష్ఠం
శ్రీకణ్ఠ ఇత్యుచితమేవ తవాభిధానమ్ ॥ ౧౪॥
అన్తర్విమృశ్య గరలేన గలే సలీల-
మాలిఙ్గితం విమలమాననమిన్దుమౌలేః ।
హృష్యామి హన్త ముహురమ్బురుహభ్రమాప్త-
రోలమ్బడమ్బరవిడమ్బనపణ్డితేన ॥ ౧౫॥
యద్వద్విషం సదమృతం శిరసి ప్రసిద్ధ-
మమ్భస్తవేశ విశదం సుమనఃస్రవన్త్యాః ।
మన్యే తథైవ భగవన్ భవతో గలస్థం
సమ్పద్యతేఽమృతమిదం నతసాన్త్వనేషు ॥ ౧౬॥
తద్యుక్తమీశ వదనాద్భవతః సుధాచ్ఛ-
కాన్తేర్యదగ్నిరపతద్వపుషి స్మరస్య ।
యో లఙ్ఘనం త్రిభువనైకగురోర్విధిత్సు-
రుల్కా న కిం పతతి చన్ద్రమసోఽపి తస్య ॥ ౧౭॥
దిష్ట్యా విరుద్ధజనతా దమయన్త్యపీయం
దృష్టిస్తవేశ్వర బిభర్త్యనలాశ్రితత్వమ్ ।
దిష్ట్యా వనైకరతిరప్యవనైకసక్తి-
రేకస్త్వమద్భుతనిధే భగవన్నమస్తే ॥ ౧౮॥
ధన్యస్య యస్య వపుషి గ్లపితే తపోభిః
స్వామిన్ పతన్తి విషమాణి తవేక్షణాని ।
ముష్ణన్తి ముగ్ధమృగశావదృశాం న ధైర్య-
సర్వస్వమస్య విషమాణి విలోచనాని ॥ ౧౯॥
సత్యేవ దృగ్విలసితే కరుణామృతౌఘ-
శీతే జరామరణహారిణి తావకీనే ।
నాథ వ్యధాయి విబుధైరబుధైర్ముధైవ
దుగ్ధోదధిప్రమథనేఽనవధిః ప్రయాసః ॥ ౨౦॥
శ్వేతేఽమృతం యదసృజద్రవిజే చ వహ్ని-
మేకైవ దృక్తవ తయోః స నిజః ప్రభావః ।
ఇక్షౌ సుధా విషముషాణఫలే చ సార్ధం
యద్వర్ధతే కిమపరాధ్యతి తత్ర వృష్టిః ॥ ౨౧॥
నూనం పయోధిమథనావసరే పరేశ
పీతం త్వయా తదమృతం న తు కాలకూటమ్ ।
అద్యాపి యద్వసతి తే వచనక్రమే చ
దృగ్విభ్రమే చ తరుణే కరుణారసే చ ॥ ౨౨॥
సత్యం ప్రసాదసమయే చపలత్వమేతి
ధత్తేఽధికం చ కుటిలత్వమియం తవ భ్రూః ।
ఏతాం వినా పునరనర్గలకాలపాశ-
పాతే పరాస్తి న గతిర్భయవిహ్వలానామ్ ॥ ౨౩॥
ఆపూరితః సురసరిత్పయసాఽమృతాయ
జూటః ప్రతప్తతపనీయపిశఙ్గకాన్తిః ।
స్వామిన్నసౌ తవ నవాతపతామ్రవేలా-
శైలోపగూఢ ఇవ దుగ్ధనిధిర్న కస్య ॥ ౨౪॥
స్వామిన్సుధావదవదాతరుచిస్తవేయ-
మాభాతి హన్త ముకుటే నృకపాలమాలా ।
జూటాన్తరాలవిలసత్సురసిన్ధుతీర-
లీలావిహారరసికేవ మరాలమాలా ॥ ౨౫॥
బ్రహ్మాదిభిస్తవ జగద్గురుభిః శిరాంసి
యాన్యర్పితాని పరమేశ్వర పాదపీఠే ।
తాన్యేవ మూర్ధని యదాభరణీకరోషి
స ప్రౌఢిమా జయతి కోఽపి కృతజ్ఞతాయాః ॥ ౨౬॥
నిర్వాణమేతి న జలైరపి యత్ర వహ్ని-
ర్యత్రైష నో పచతి తాని మహాశిఖోఽపి ।
మాన్ద్యం న విన్దతి తమీరమణః కృశోఽపి
తాభ్యామసౌ విజయతే శితికణ్ఠ జూటః ॥ ౨౭॥
భాలస్థలే హుతవహం వహతో జలం చ
చన్ద్రం చ మూర్ధ్ని వికటం చ కపాలఖణ్డమ్ ।
ఏకత్ర ముణ్డమపరత్ర సుధాఘటం చ
హస్తే చకాస్తి భవతోఽద్భుత ఏష వేషః ॥ ౨౮॥
దానే నదీనముపకల్పయతః సహర్ష-
మాక్రమ్య గామనుపమాం గతిమాస్థితస్య ।
నాగేన్ద్రసమ్భృతమహాకటకస్య కస్య
శస్యం వినా త్వదిహ రాజశిరోమణిత్వమ్ ॥ ౨౯॥
కణ్ఠే విషం విషభృతోఽపి విభూషణాని
గాత్రేషు మూర్ధని విషం విబుధస్రవన్త్యాః ।
ఇత్థం విషైకవసతేరపి తే చకాస్తి
కర్ణామృతం సుకృతినామమృతేశనామ ॥ ౩౦॥
క్షతవిభవవిశేషాః ప్రాణమాత్రావశేషా
విపదమనుభవామః కర్మపాకో హి వామః ।
తదిహ భుజగహారః కౢప్తమోహాపహారః
స భవతి గతిరేకః కృత్తశోకాతిరేకః ॥ ౩౧॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``భగవద్రూపవర్ణనం'' నామైకోనవింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౦. హసితస్తోత్రం వింశం స్తోత్రమ్
యత్సౌభగేన ఘనమోఘమమోఘమేఘ-
సఙ్ఘాతసమ్భవమవన్ధ్యమధః కరోతి ।
తచ్ఛామ్భవం భవమరుభ్రమఖేదభేద-
దక్షం విలాసహసితం నుతిభిర్భజామః ॥ ౧॥
యద్వాఙ్మయం సకలవాఙ్మనసాతివృత్త-
సీమానమీశ మహిమానమమానమేయమ్ ।
అస్మాదృశం కృశదృశం భృశమామృశన్త-
మన్తర్విమృష్య భవతో భగవన్నుదేతి ॥ ౨॥
యేనోపమన్యుమపమన్యుమనన్యభాజ-
మాజన్మతృష్ణజమజస్రమజ శ్రమార్తమ్ ।
ఆనన్దయః స్వయమదీననదీనదాన-
భాస్వన్మహాఫలలసత్కుసుమోపమేన ॥ ౩॥
యేనాపి తాపవిపదం ప్రథమం జహర్థ
నాథ ప్రసాదసుభగేన భగీరథస్య ।
మూర్ధ్నా ధృతత్రిదశసిన్ధుమహాప్రవాహ-
నిర్వాపణేన పునరస్య పితామహానామ్ ॥ ౪॥
ఉత్ప్రాసనాయ శమనస్య మనస్యనల్ప-
దర్పోద్గమప్రశమవిక్లవవిక్రమస్య ।
ఆశ్వాసనాయ చ సమం సమభావి యేన
కీనాశపాశవివశస్య నరేశ్వరస్య ॥ ౫॥
భావత్కభక్తిభరసమ్భృతభూరిభూతి-
సమ్భారరూఢగురుగర్వగలద్వివేకమ్ ।
మోహాన్ధమన్ధకముపాహితసాహసిక్య-
హేవాకమాకలయతో భవతో యదాసీత్ ॥ ౬॥
లఙ్కేశకమ్పితకుబేరగిరిప్రరూఢ-
సంరమ్భభీరుగిరిజాపరిరమ్భభాజః ।
యత్తే రుషామవసరేఽప్యుదితానవద్య-
హృద్యప్రసాదసుముఖస్య సముజ్జగామ ॥ ౭॥
పూజార్థమమ్బుజసహస్రముపాహితం య-
దేకం తతో హృతవతస్తవ కైతవేన ।
విష్ణుం విలోక్య నిజలోచనముత్ఖనన్త-
మన్తః ప్రసన్నమనసో యదమన్దమాసీత్ ॥ ౮॥
దృష్ట్వా వధూజనమనుత్తమరూపసమ్ప-
త్సన్దర్శనోద్భవమనోభవభగ్నవృత్తమ్ ।
ఆషాఢపాణిషు రుషా మునిషు ప్రహర్త్తు-
మభ్యుద్యతేషు తవ యద్భృశముద్బభూవ ॥ ౯॥
అభ్యర్ణవర్తికరగోచరకాలకూట-
కూటప్రభానిచయమేచకితేఽధరోష్ఠే ।
యత్పూర్వపర్వతశిఖాశ్రితశీతరశ్మి-
రశ్మిచ్ఛటాచ్ఛవివిడమ్బి పురావిరాసీత్ ॥ ౧౦॥
యత్కర్ణతాలవలనానిలధూతకుమ్భ-
సిన్దూరరేణుకణకూణితలోచనస్య ।
బాలస్య నాగవదనస్య మనస్యభీష్టాం
దృష్టైవ నాట్యఘటనాం తవ సమ్బభూవ ॥ ౧౧॥
శైలాదివాదితమృదఙ్గలయానుయాత-
నృత్తప్రవృత్తగుహవాహవిలోకనేన ।
స్వామిన్ మహాప్రలయభైరవరూపిణో య-
దావిర్బభూవ తవ తాణ్డవడమ్బరేషు ॥ ౧౨॥
వ్యోమ ప్రచణ్డభుజదణ్డవిఘట్యమాన-
తారావలీవిరహబన్ధురితాన్ధకారమ్ ।
స్వామిన్ యుగాన్తసమయాభినయేషు యేన
సమ్భావ్యతే పునరపి ప్రచురప్రకాశమ్ ॥ ౧౩॥
దిక్చక్రవాలముఖరీకరణప్రగల్భ-
ప్రావృట్పయోధరగభీరరవానుకారి ।
స్వామిన్ కఠోరహృదయస్య భయం విధాతుం
భీరోశ్చ దాతుమభయం యుగపత్క్షమం యత్ ॥ ౧౪॥
యత్కాలకూటకవలీకరణప్రరూఢ-
నీలిమ్ని కణ్ఠపులినే విమలం నిలీనమ్ ।
నీరన్ధ్రనీరభరమేదురమేఘఖణ్డ-
లగ్నేన్దుమణ్డలవిడమ్బనమాతనోతి ॥ ౧౫॥
ధ్యాయన్త్యనన్యహృదయా హృదయాధినాథ-
మద్య క్షపామగమయం సఖి కల్పకల్పామ్ ।
ప్రాణేశసఙ్గమనిమిత్తమథ ప్రభాతే
నిద్రా సఖీవ మమ సమ్ముఖమాజగామ ॥ ౧౬॥
తస్మిన్క్షణే నయనవర్త్మని జీవితేశః
శంసన్ దృశా మధురయైవ మనఃప్రసాదమ్ ।
చక్రే పదం మమ తమోముకులీకృతాయాః
స్వైరం సమేత్య సవితేవ సరోరుహిణ్యాః ॥ ౧౭॥
అస్మత్కృతే సితమయూఖముఖి త్వయై-
తత్కిం ప్రస్తుతం మునిభిరప్యతిదుష్కరం యత్ ।
ఉద్యానచఙ్క్రమణకేలిషు ఖిద్యతే యా
సా తే కథం కథయ కష్టసహాఽఙ్గయష్టిః ॥ ౧౮॥
మూర్తిః క్వ బాలకదలీదలకోమలేయం
తీవ్రం తపః క్వ మనసోఽపి న గోచరం యత్ ।
క్వేషద్వికాసి కుసుమం సుమనోలతాయాః
క్వోన్మత్తకుఞ్జరకఠోరకరోపమర్దః ॥ ౧౯॥
ఏతేన కర్కశకుశగ్రహణం కరేణ
సోఢం కథం ప్రథమపల్లవకోమలేన ।
పాదౌ కథం కమలగర్భనిభౌ శిలాశ్రి-
శ్రేణీషు తీర్థగమనక్లమమన్వభూతామ్ ॥ ౨౦॥
హారోపి భార ఇవ యత్ర కుచద్వయం త-
త్సేహే కథం కులిశకర్కశవల్కలోల్కామ్ ।
ఏతత్కథం మృదుమృణాలలతాభిజాతం
పఞ్చాగ్నితాపవిపదః పదమఙ్గమాసీత్ ॥ ౨౧॥
ఇత్యాదిభిర్దశనచన్ద్రికయానువిద్ధై-
రన్తర్బహిశ్చ తిమిరప్రసరం హరద్భిః ।
ఆశ్వాసయన్నివ నివర్తితతీవ్రఖేదం
గర్భీకృతస్మితసుధామధురైర్వచోభిః ॥ ౨౨॥
యావత్త్రపాపరవశం క్షితిమీక్షమాణం
ముక్తాఫలోపమసముద్గతఘర్మలేశమ్ ।
కిఞ్చిత్కరేణ ముఖమున్నమయన్నియేష
పీయూషవర్షమివ వర్షితుమేష భూయః ॥ ౨౩॥
తావత్ప్రబోధితవతా కృకవాకునాదై-
ర్దుర్వేధసా సఖి తదాచరితం శఠేన ।
యత్రైష ఏవ శరణం మమ జీవితేశో-
యద్వాఽపరో హరతి యోఽఖిలజన్తువర్గమ్ ॥ ౨౪॥
ఇత్యాది తీవ్రవిరహజ్వరయా జయాయై
యత్స్వప్నవృత్తముదితం గిరిరాజపుత్ర్యా ।
తచ్ఛృణ్వతో వనలతాన్తరితస్య యత్తే
జాతం ప్రమోదభరనిర్భరమానసస్య ॥ ౨౫॥
సఞ్జీవనౌషధమిదం హరహుఙ్కృతాగ్ని-
జ్వాలావలీఢవపుషః కుసుమాయుధస్య ।
బాలే సుధారసమయే సమయే కిమర్థ-
మాయాస్యతే త్రిభువనాభరణం శరీరమ్ ॥ ౨౬॥
కల్పద్రుమైర్నిధిభిరోషధికామధేను-
చిన్తామణిప్రభృతిభిశ్చ పరిష్కృతస్య ।
కిం దుర్లభం తవ పితుర్భువనాతిశాయి-
శ్రీధామ్ని ధామని యదర్థయసే తపోభిః ॥ ౨౭॥
త్వం జీవితాదపి గురోరధికా స తావ-
దుత్పాదయేత్తవ న మన్యుమధీతనీతిః ।
సమ్భావ్యతే తవ చ నాన్యకృతో నికారః
కుర్వీత కేసరిసటాహఠకర్షణం కః ॥ ౨౮॥
శ్రద్ధానుబన్ధవిహితవ్రతహోమదాన-
స్వాధ్యాయతీర్థగమనాదినిబన్ధనాని ।
ధన్యస్య కస్య ఫలితాని తుషారహార-
గౌరాణి గౌరి సుకృతాని పురాకృతాని ॥ ౨౯॥
దుర్వారదుర్గతినికారకదర్థ్యమాన-
మాలోక్య లోకమఖిలం విపులాశయేన ।
సద్యఃకృతం కనకవర్షణమిన్దుకాన్త-
వర్ష్మత్విషా పరమకారుణికేన కేన ॥ ౩౦॥
గాయన్తి కస్య విషదం విషమోగ్రకాల-
సంరుద్ధశక్తిశరణాగతరక్షణోత్థమ్ ।
ద్వన్ద్వాని నన్దనసదామపదానమిన్దు-
ధౌతాసు కౌముదమహోత్సవయామినీషు ॥ ౩౧॥
కేనేశ్వరేణ మహతా వహతాత్రినేత్ర-
సఞ్జాతకాన్తి వపురద్భుతభూతిభూషమ్ ।
ఉద్దామకామశితమార్గణదౌర్మనస్య-
వైరస్యమిద్ధమహసా సహసా నిరస్తమ్ ॥ ౩౨॥
ధన్యాః కమస్ఖలితపౌరుషభగ్నభూరి-
దర్పాన్ధకన్దలితలోకవిషాదముచ్చైః ।
హేలావలీఢవిషమశ్రమవీర్యవహ్ని-
భస్మీకృతాహితపురం కవయః స్తువన్తి ॥ ౩౩॥
కః స్వర్ధునీసవనవహ్నినిషేవణాది-
ధౌతాం దధత్తనుమనుజ్ఝితభైక్షవృత్తిః ।
కాలం ద్విజేన్ద్రముకుటః పరిశుద్ధధర్మ-
చర్యారతః క్షపితవానజినావృతాఙ్గః ॥ ౩౪॥
ఉద్ధూలితశ్చితిరజోభిరఖణ్డముణ్డ-
మాలాకరాలశిఖరః సుచిరం చచార ।
భీష్మశ్మశానవసనవ్యసనః కపాల-
ఖట్వాఙ్గపాణిరతితీవ్రమపి వ్రతం కః ॥ ౩౫॥
మన్యే భవాన్తరశతోపచితస్య పుణ్య-
పృథ్వీరుహః ఫలమలభ్యమభాగ్యభాజామ్ ।
యస్యా దృగఞ్చలవిలోకనమాత్రమేవ
సమ్భావనం తు వచసా వచసామభూమిః ॥ ౩౬॥
సా త్వం మహార్ఘగుణరత్నసముద్రవేలా-
లావణ్యసిన్ధురకలఙ్కకులప్రసూతిః ।
సౌభాగ్యభాగ్యవిభవాదిభవాఽభిమాన-
భూమానమానయసి యం తపసా ప్రసాదమ్ ॥ ౩౭॥
ఇత్థం విదగ్ధరసదిగ్ధకథాక్రమేణ
దేవ్యా సమం సమభిభాషణలోలుభస్య ।
యద్వ్యాజవర్ణితరుణస్య తవాఽవహిత్థ-
సంరుద్ధమప్యతిభరేణ సముద్బభూవ ॥ ౩౮॥
రూపం ప్రదర్శ్య విదధద్గిరి సానుకమ్పం
దివ్యం ధృతామృతరసం గిరిసానుకమ్పమ్ ।
యేన వ్యధా ముఖమఖణ్డసితాంశుకాన్తం
దేవ్యా వపుశ్చ పులకోచ్ఛ్వసితాంశుకాన్తమ్ ॥ ౩౯॥
స్వామిన్నుదారఘనసారతుషారహార-
కహ్లారశారదనిశారమణోపమేన ।
తాపం తమశ్చ విషమం జహి మే సహేల-
ముల్లాసితేన హసితేన సితేన తేన ॥ ౪౦॥
సహస్రచరణం రవిం నయనపఙ్కజాన్తఃస్థితం
సహస్రనయనం హరిం చరణపఙ్కజాన్తఃస్థితమ్ ।
విమృశ్య ధృతవిస్మయాం భగవతీమవేక్ష్యోద్గతం
ప్రభోరభిమతాప్తయే హసితమస్తు శర్వస్య మే ॥ ౪౧॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``హసితస్తోత్రం'' నామకం వింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౧. అర్ధనారీశ్వరస్తోత్రం ఏకవింశం స్తోత్రమ్
వన్దేమహ్యమలమయూఖమౌలిరత్నం
దేవస్య ప్రకటితసర్వమఙ్గలాఖ్యమ్ ।
అన్యోన్యం సదృశమహీనకఙ్కణాఙ్కం
దేహార్ధద్వితయముమార్ధరుద్ధమూర్తేః ॥ ౧॥
తద్వన్దే గిరిపతిపుత్రికార్ధమిశ్రం
శ్రైకణ్ఠం వపురపునర్భవాయ యత్ర ।
వక్త్రేన్దోర్ఘటయతి ఖణ్డితస్య దేవ్యా
సాధర్మ్యం ముకుటగతో మృగాఙ్కఖణ్డః ॥ ౨॥
ఏకత్ర స్ఫటికశిలామలం యదర్ధే
ప్రత్యగ్రద్రుతకనకోజ్జ్వలం పరత్ర ।
బాలార్కద్యుతిభరపిఞ్జరైకభాగ-
ప్రాలేయక్షితిధరశృఙ్గభఙ్గిమేతి ॥ ౩॥
యత్రైకం చకితకురఙ్గభఙ్గి చక్షుః
ప్రోన్మీలత్కుచకలశోపశోభి వక్షః ।
మధ్యం చ క్రశిమసమేతముత్తమాఙ్గం
భృఙ్గాలీరుచికచసఞ్చయాఞ్చితం చ ॥ ౪॥
సాభోగం ఘననిబిడం నితమ్బబిమ్బం
పాదోపి స్ఫుటమణినూపురాభిరామః ।
ఆలోక్య క్షణమితి నన్దినోప్యకస్మా-
దాశ్చర్యం పరముదభూదభూతపూర్వమ్ ॥ ౫॥
యత్రార్ధం ఘటయతి భూరిభూతిశుభ్రం
చన్ద్రాంశుచ్ఛురితకుబేరశైలశోభామ్ ।
అర్ధం చ ప్రణిహితకుఙ్కుమాఙ్గరాగ-
మ్పర్యస్తారుణరుచికాఞ్చనాద్రిముద్రామ్ ॥ ౬॥
యత్కాన్తిం దధదపి కాఞ్చనాభిరామాం
ప్రోన్మీలద్భుజగశుభాఙ్గదోపగూఢమ్ ।
విభ్రాణం ముకుటముపోఢచారుచన్ద్రం
సన్ధత్తే సపది పరస్పరోపమానమ్ ॥ ౭॥
ఆశ్చర్యం తవ దయితే హితం విధాతుం
ప్రాగల్భ్యం కిమపి భవోపతాపభాజామ్ ।
అన్యోన్యం గతమితి వాక్యమేకవక్త్ర-
ప్రోద్భిన్నం ఘటయతి యత్ర సామరస్యమ్ ॥ ౮॥
ప్రత్యఙ్గం ఘనపరిరమ్భతః ప్రకమ్పం
వామార్ధం భుజగభయాదివైతి యత్ర ।
యత్రాపి స్ఫుటపులకం చకాస్తి శీత-
స్వఃసిన్ధుస్నపితతయేవ దక్షిణార్ధమ్ ॥ ౯॥
ఏకత్ర స్ఫురతి భుజఙ్గభోగభఙ్గి-
ర్నీలేన్దీవరదలమాలికా పరత్ర ।
ఏకత్ర ప్రథయతి భస్మనోఽఙ్గరాగః
శుభ్రత్వం మలయజరఞ్జనం పరత్ర ॥ ౧౦॥
ఏకత్రాఽర్పయతి విషం గలస్య కార్ష్ణ్యం
కస్తూరీకృతమపి పుణ్డ్రకం పరత్ర ।
ఏకత్ర ద్యుతిరమలాఽస్థిమాలికానా-
మన్యత్ర ప్రసరతి మౌక్తికావలీనామ్ ॥ ౧౧॥
ఏకత్ర స్రుతరుధిరా కరీన్ద్రకృత్తిః
కౌసుమ్భం వసనమనశ్వరం పరత్ర ।
ఇత్యాదీన్యపి హి పరస్పరం విరుద్ధా-
న్యేకత్వం దధతి విచిత్రధామ్ని యత్ర ॥ ౧౨॥
దన్తానాం సితిమని కజ్జలప్రయుక్తే-
మాలిన్యేఽప్యలికవిలోచనస్య యత్ర ।
రక్తత్వే కరచరణాధరస్య చాన్యో
నాఽన్యోన్యం సమజని నూతనో విశేషః ॥ ౧౩॥
కణ్ఠస్య భ్రమరనిభా విభార్ధభాగం
ముక్త్వా కిం స్థితిమకరోచ్ఛిరోరుహార్ధే ।
అర్ధం వా కనకసదృగ్రుచిః కచానాం
సన్త్యజ్య న్యవిశత కిం గలైకదేశే ॥ ౧౪॥
సౌవర్ణః కరకమలే యథైవ వామే
సవ్యేఽపి ధ్రువమభవత్తథైవ కుమ్భః ।
క్రీడైకప్రసృతమతిర్విభుర్బిభర్తి
స్వాచ్ఛన్ద్యాదురసి తమేవ నూనమేనమ్ ॥ ౧౫॥
యత్రాసీజ్జగదఖిలం యుగావసానే
పూర్ణత్వం యదుచితమత్ర మధ్యభాగే ।
సంరమ్భాద్గలితమదస్తదేవ నూనం
విశ్రాన్తం ఘనకఠినే నితమ్బబిమ్బే ॥ ౧౬॥
ఇత్యాదీన్ప్రవిదధురేవ యత్ర తావ-
త్సఙ్కల్పాన్ప్రథమసమాగమే గణేన్ద్రాః ।
యావత్స ప్రణతివిధౌ పదారవిన్దం
భృఙ్గీశః పరిహరతి స్మ నాఽమ్బికాయాః ॥ ౧౭॥
కిమయం శివః కిము శివాఽథ శివా-
వితి యత్ర వన్దనవిధౌ భవతి ।
అవిభావ్యమేవ వచనం విదుషా-
మవిభావ్యమేవ వచనం విదుషామ్ ॥ ౧౮॥
ఏకః స్తనః సముచితోన్నతిరేకమక్షి
లక్ష్యాఞ్జనం తనురపి క్రశిమాన్వితేతి ।
లిఙ్గైస్త్రిభిర్వ్యవసితే సవిభక్తికేఽపి
యత్రాఽవ్యయత్వమవిఖణ్డితమేవ భాతి ॥ ౧౯॥
యత్ర ధ్రువం హృదయ ఏవ యదైక్యమాసీ-
ద్వాక్కాయయోరపి పునః పతితం తదేవ ।
యస్మాత్సతాం హృది యదేవ తదేవ వాచి
యచ్చైవ వాచి కరణేఽప్యుచితం తదేవ ॥ ౨౦॥
కాన్తే శివే త్వయి విరూఢమిదం మనశ్చ
మూర్తిశ్చ మే హృదయసమ్మదదాయినీతి ।
అన్యోన్యమభ్యభిహితం వితనోతి యత్ర
సాధారణస్మితమనోరమతాం ముఖస్య ॥ ౨౧॥
ఉద్యన్నిరుత్తరపరస్పరసామరస్య-
సమ్భావనవ్యసనినోరనవద్యహృద్యమ్ ।
అద్వైతముత్తమచమత్కృతిసాధనం త-
ద్యుష్మాకమస్తు శివయోః శివయోజనాయ ॥ ౨౨॥
లక్ష్యాణ్యలక్ష్యాణ్యపరత్ర యత్ర విలక్షణాన్యేవ హి లక్షణాని ।
సాహిత్యమత్యద్భుతమీశయోస్తన్న కస్య రోమాఞ్చముదఞ్చయేత ॥ ౨౩॥
జూటాహేర్ముకుటేన్ద్రనీలరుచిభిః శ్యామం దధత్యూర్ధ్వగం
భాగం వహ్నిశిఖాపిశఙ్గమధరం మధ్యే సుధాచ్ఛచ్ఛవిః ।
ధత్తే శక్రధనుఃశ్రియం ప్రతిమితా యత్రేన్దులేఖానృజు-
ర్యుష్మాకం స పయోధరో భగవతోర్హర్షామృతం వర్షతు ॥ ౨౪॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``అర్ధనారీశ్వరస్తోత్రం'' నామైకవింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౨. కాదిపదబన్ధస్తోత్రం ద్వావింశం స్తోత్రమ్
కావ్యకౌశలకలాసు కోవిదైః కీర్తితః కవికులైః కుతూహలాత్ ।
కౌముదీకుముదకాన్తకీర్తిభిః కామితః కుశలకార్యకారిభిః ॥ ౧॥
కేరలీకచకలిన్దకన్యకాకూలకాలియకడారకన్ధరః ।
కిల్బిషక్షపణకారణక్రతుక్లాన్తికృత్కరటికృత్తికర్పటః ॥ ౨॥
కేకికేతనకృశానుకౌశికైః కిన్నరైః కవికుబేరకేశవైః ।
కాలకూటకవలక్రియాక్రమే క్రన్దితః కలుషకర్షణక్షమః ॥ ౩॥
కర్ణకీలితకపాలకుణ్డలః కుణ్ఠితక్రకచకల్పకల్మషః ।
కాలకామకదనః కుముద్వతీకాన్తకర్బురకపర్దకన్దరః ॥ ౪॥
కాపిశాయనకషాయకామినీకేలికూజితకలేన కౌతుకాత్ ।
క్రీడితః క్వణితకీచకక్వణత్కోకిలాకలకలేన కాననే ॥ ౫॥
కున్దకుడ్మలకదమ్బకేతకీకాఞ్చనారకలికాకదమ్బకైః ।
కర్ణికారకరబీరకోరకైః కైరవైః కువలయైః కుశేశయైః ॥ ౬॥
కింశుకైః కపికపోలకాన్తిభిః కేసరైః కమలకోషకోమలైః ।
కోవిదారకుటజైః కణేరకైః కేవలైః కచితకీర్ణకున్తలః ॥ ౭॥
కృష్ణకుణ్డలికఠోరకఞ్చుకైః కౢప్తకుబ్జకమనీయకఙ్కణః ।
క్రోధకృత్తకరికుమ్భకోటరక్రూరకేసరికిశోరకణ్టకః ॥ ౮॥
కాన్తయా కనకకాఞ్చికిఙ్కిణీకాన్తయా కలితకణ్ఠకన్దలః ।
కోపయన్కపటతః కిరీటినం క్రీడయా కృతకిరాతకైతవః ॥ ౯॥
కాకకఙ్కకురరైః కలఙ్కితే కశ్మలే కఠినకృత్యకారితే ।
కాఙ్క్షితః క్షతకలేవరైః కటుం కర్షయన్కరుణయా కదర్థనామ్ ॥ ౧౦॥
కోపకర్కశకృతాన్తకిఙ్కరక్లేశకాతరకృపాకృతౌ కృతీ ।
కల్పతాం కలికలఙ్కకన్దలీకన్దకర్త్తనకుఠారకర్మణే ॥ ౧౧॥
కల్లోలినీకుటిలకైరవిణీకుటుమ్బ-
కఙ్కాలకల్పితకరాలకిరీటకోటిః ।
కాత్యాయనీకరకరమ్బితకీర్యమాణ-
కర్పూరకుఙ్కుమకణః కరుణాం కరోతు ॥ ౧౨॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కాదిపదబన్ధస్తోత్రం'' నామకం ద్వావింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౩. శృఙ్ఖలాబన్ధస్తోత్రం త్రయోవింశం స్తోత్రమ్
జగతి విబోధితవిధురం విధురఞ్జితచారుశేఖరం గిరిశమ్ ।
గిరి శంసామి ససాధ్వససాధ్వసమానన్దదానపరమ్ ॥ ౧॥
న పరం శరణం ప్రభవతి భవతి కృతావజ్ఞమానసే మహతామ్ ।
మహతాం భజతి హి సహసా సహసా తవ భారతీ మధురా ॥ ౨॥
మధురాగారుణనయనా నయనాశవిధౌ పటీయసీ ప్రమదా ।
ప్రమదార్పణార్థముదితే ముదితే త్వయి సా తృణం భజతామ్ ॥ ౩॥
భజతాం సరసామమలాం మమ లాఞ్ఛితశేఖరేన్దునా కరుణామ్ ।
కరుణాం గిరం నవతయా బత యాఽర్పయతి తవ శ్రయతామ్ ॥ ౪॥
శ్రయతాం నవనవిధౌ తవ ధౌతవతీ గీరఘం రతిం చతురమ్ ।
చతురన్తమహీపతితా పతితా హేయత్వ ఏవ యత్ర సతామ్ ॥ ౫॥
త్రసతాం న కదా భవతా భవతాపహృతా విభో శుభాకృతినా ।
కృతినాముపకారచితం రచితం శుభమేవ భావిహితమ్ ॥ ౬॥
విహితం మయి చారు చిరం రుచిరం న గతే వివేకలయమ్ ।
కలయన్నమలవిభాసితభాసిత రుచిమేహి మే విపాకమలమ్ ॥ ౭॥
కమలం రవిరపరాజిత రాజితవికసద్వపుర్యథా కురుతే ।
కురు తేన పథా మా భవ మా భవ విముఖో దృశం దిశ మే ॥ ౮॥
దిశమేష విచారహితాం రహితాం విషయోరగైరహం న లభే ।
నలభేకవదతివిలపన్ విలపన్నగవద్వృతః సదా తమసా ॥ ౯॥
తమసావుజ్ఝితకలహం కలహంసగిరోమయా సదా సహితమ్ ।
సహితం గీరుదితరసా తరసా శ్రయతాం విభుం సదయమ్ ॥ ౧౦॥
సదయం యదుదారమతే రమతే కుర్వంస్తదేవ దేవ జనః ।
వజ నః కరుణాపరతాం పరతాం మా గా నమో భవతే ॥ ౧౧॥
భవ తేజఃప్రసరసితం రసితం శ్రుత్వాఽమృతోపమం భవతః ।
భవతస్త్రాసం సకలం సకలఙ్కమతిః కదా విముఞ్చామి ॥ ౧౨॥
ముఞ్చామితభాస దృశం సదృశం శశినః ప్రదర్శ్య వదనమ్ ।
వద నన్దయితుం జగతీం జగతీశః కోస్తు నామాన్యః ॥ ౧౩॥
నామాన్యః సుమతిరయం తిరయన్తి యశాంసి తస్య వా విపదమ్ ।
విపదం న విలాసమయే సమయే వపురస్య యాత్యయాతవయః ॥ ౧౪॥
తవ యః స్తుతిషు సదా హర దాహరజః క్లేశపాశమయమ్ ।
శమయన్తీష్వస్తమనాస్తమనాహతభాగ్యమేవ దేవ నమే ॥ ౧౫॥
వనమేవ శరణమధునా మధునాశినుత ప్రసాదనాయ తవ ।
యతవతి హృదయే శకలితకలితమసో మే నమేరుచితమ్ ॥ ౧౬॥
రుచితం నోరగసదనం సదనన్తమహర్ద్ధి నన్దనం న వనమ్ ।
నవనం ధృతదీప్రగుణం ప్రగుణం తవ కర్తుమేవ దేవ రమే ॥ ౧౭॥
వరమేనోహరమమలం మమ లఙ్ఘితవిఘ్న దేహి నామ హితమ్ ।
మహితం పదమపి మా నయ మానయ విధురం దృశామలయా ॥ ౧౮॥
మలయానిలమివ సురభిం సురభిం కుసుమైరివావదాతవనమ్ ।
తవ నన్దితహృదనామయ నామ యమత్రాసహృత్కలయే ॥ ౧౯॥
కలయేన్దోరభిభూషిత భూషితముకుటైః సురైర్నతేశ న కైః ।
శనకైరఘశమనాశయ నాశయ విపదం పదం నయ మా ॥ ౨౦॥
న యమాహితభయశమనే శమనేకవిధం ప్రసాదదక్షమతే ।
క్షమతే మునిభిరుపాసిత పాసితరాం చేన్న మామదయమ్ ॥ ౨౧॥
మదయఞ్జితవిప్రకృతీః ప్రకృతీర్వసుధాధిపో మహీవలయమ్ ।
బలయన్త్రితరిపురక్షతి రక్షతి తవ యః ప్రసాదమితః ॥ ౨౨॥
దమితస్తేన హి శమనః శమనస్తరుచాపి తేన జాతముదా ।
తముదారాహితచరితం చరితం శుభవర్త్మనా స్తువన్త్యమలమ్ ॥ ౨౩॥
త్యమలఙ్కృతభూభవనం భవ నన్దితలోకమీశ భావపుషా ।
వపుషా నౌమ్యభయస్తవ యస్తవ నుతిషు ప్రియాసు కృతీ ॥ ౨౪॥
సుకృతీ తవ భవవారణవారణహరిణేన్ద్ర సిద్ధిభాజనతామ్ ।
జనతాం నయదమలసితం లసితం వపురర్చయే నవైరసకృత్ ॥ ౨౫॥
రసకృద్యోఽప్రతిఘస్మరఘస్మర భవతః స్తవః సదైవ సతామ్ ।
వసతాం దివి భయహృదయం హృదయం కురుతే ఘనోత్కలికమ్ ॥ ౨౬॥
కలికమ్పనమఘశరణం శరణం చరణద్వయం భజేఽవికలమ్ ।
వికలఙ్కమతిరహం తవ హన్త వరద్విరదరాజగతిమ్ ॥ ౨౭॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టకృతే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``శృఙ్ఖలాబన్ధస్తోత్రం'' నామకం స్తోత్రం సమ్పూర్ణమ్ ।
౨౪. ద్విపదయమకం చతుర్వింశం స్తోత్రమ్
వచసి సరస్వతి మే విభవం ప్రకటయ జాతరసారమ్ ।
నుతిభిరుపస్తుహి దేవి భయం సకలసురాన్తరసారమ్ ॥ ౧॥
అవిరలభస్మరజోధవలం విహితమహాశమలాభమ్ ।
భజ భగవత్యగజాధవలం శ్రమశమనం విమలాభమ్ ॥ ౨॥
దాతుమనుత్తమహావపుషం యః ప్రబభూవ నదీనమ్ ।
నాథమనుత్తమహావపుషం తం భజ దేవి న దీనమ్ ॥ ౩॥
భక్తిరసస్తవ దేవ సతాం జయతి మహామృతహృద్యః ।
చరణతలే భవతో వసతాం కలిమలపల్వలహృద్యః ॥ ౪॥
నయనముదీర్య తమో హర మే నిహతమహావిషమేషు ।
యేన పునర్హతమోహ రమే వైరిషు నో విషమేషు ॥ ౫॥
త్వయి వరదే రుచిరప్రమదాః ప్రచలితచామరహస్తాః ।
సదసి భజన్తి జనం ప్రమదా రమయతి సోఽపి రహస్తాః ॥ ౬॥
హిమకరకిరణసమూహసితం సురసరిదమ్బువిడమ్బి ।
వహ భగవన్ వదనే హసితం మా భవతాత్ర విడమ్బి ॥ ౭॥
ఉపమితమన్మథచాపలతాం భ్రువమవధూయ సహేలమ్ ।
రవిజదృశాం ఘనచాపలతాం విఘటయ తా న సహేఽలమ్ ॥ ౮॥
రవిసుతవర్త్మ మమ స్మరతః శ్రుతయమకిఙ్కరవాణి ।
దలతి విభో హృదయం దరతః పురహర కిం కరవాణి ॥ ౯॥
ప్రథయతి యస్తవ హన్త మహం నుతివచసా రుచిరేణ ।
శుభశతసిద్ధిసహం తమహం శిరసి వహామ్యచిరేణ ॥ ౧౦॥
భవభయభఞ్జనభఙ్గివిధౌ భక్తిమతాం ప్రభవన్తమ్ ।
విహితహితం విధురేఽపి విధౌ భజత జగత్ప్రభవం తమ్ ॥ ౧౧॥
మదనమహీరుహదవదహనం శిరసి ధృతామృతభాసమ్ ।
భజత దురన్తవిషాదహనం ప్రణతసమర్పితభాసమ్ ॥ ౧౨॥
వితర నదీరమణం శమనం శకలయ ఖణ్డయ కామమ్ ।
ప్రథయ ధనఞ్జయభయశమనం రచయ పురం హతకామమ్ ॥ ౧౩॥
ఇతి సదయేన యదాచరితం భువనహితాయ హరేణ ।
భజత తదస్య మహాచరితం నుతివచసార్తిహరేణ ॥ ౧౪॥
గతిరశుభం హర కా తరతాం భవతి వినాశ భవన్తమ్ ।
ఇతి చతురం హర కాతరతాం రచయ చ మాం శుభవన్తమ్ ॥ ౧౫॥
వరద భవన్తమృతే ధరతే భువనమిదం సకలం కః ।
ఇతి నతిమిన్దుకలాధర తే భజతి న కః సకలఙ్కః ॥ ౧౬॥
ఇయమఖిలేతరజాతిమతాం జయతి జనిః ప్రథమా నః ।
సేవ్యభువం విభురేతి మతాం యత్ర హృది ప్రథమానః ॥ ౧౭॥
తుభ్యమయం శితినాల సతాం వరద కరోమి నమోఽహమ్ ।
శమయ మహేశ మమాలసతాం యేన భజామి న మోహమ్ ॥ ౧౮॥
భజసి యయా కిల కామదయా నతజనమీశ సమస్తమ్ ।
సా మమ తే హతకామ దయా గమయతు వైశసమస్తమ్ ॥ ౧౯॥
యేన శుచం హతలోభ జనస్త్యజతి సుధామధురేణ ।
తేన విభో వచసా భజ నః ప్రకటితధామధురేణ ॥ ౨౦॥
మదయసి యేన జనం సకలం మధురగిరా వదనేన ।
మయి వచనం పరిహాసకలం ప్రతిదిశ తావదనేన ॥ ౨౧॥
యేన సతాం విపదానయనం దురితమదభ్రమహారి ।
దిశ విశదం మయి తన్నయనం మదనమదభ్రమహారి ॥ ౨౨॥
జగదఖిలం యది నన్దయసే తిమిరముషా రసితేన ।
ఇమమపి కిం న జనం దయసే తేన తుషారసితేన ॥ ౨౩॥
దురితహృతౌ విషసాద కరః క్వాపి న తే రమణీయః ।
అపి స భయం విషసాదకరః శమయతు ఘోరమణీయః ॥ ౨౪॥
భయహరణే మహితాభ యతః ప్రథయసి జాతరసత్వమ్ ।
మామపి పాహి మహాభయతః పురహర కాతరసత్త్వమ్ ॥ ౨౫॥
భజామి మాయాశబరం వరం వరం దిశన్తమన్తం కునయం నయన్నయమ్ ।
విజిత్య కృత్యప్రభవం భవం భవం విఖణ్డితక్లేశపరమ్పరం పరమ్ ॥ ౨౬॥
మలక్షయమలక్షయం భవ భవత్ప్రసాదాదహం
శివస్తవ శివ స్తవః ప్రవిహితస్తతోఽయం మయా ।
సముద్ధర సముద్ధర వ్యసనసఙ్కటాదర్కజః
సమక్షమసమక్షమః స్పృశతి చేన్న జిహ్వేషి కిమ్ ॥ ౨౭॥
సన్త్యన్యాః కృతినామనామయగిరః కా నామ నామన్థరా
న జ్ఞానాం హృది వాస్తవాస్తవ ముదం కే వా స్తవాస్తన్వతే ।
వాగేషా త్వతిసాధ్వసాధ్వపతితా యత్సాధ్వసాధ్వభ్యధా-
త్తన్మన్యే మహిమానమానయతి తే స్థేమానమానన్దకృత్ ॥ ౨౮॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వర్స్య స్తుతికుసుమాఞ్జలౌ
``ద్విపదయమకం'' నామ చతుర్వింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౫. రుచిరఞ్జనాఖ్యం పఞ్చవింశం స్తోత్రమ్
కిల యస్య కల్పితమహోదయయా-
హృదయం సమాశ్రితమహో దయయా ।
విభవం యతశ్చ పరమాప దివః
ప్రభురేష పాతు పరమాపది వః ॥ ౧॥
తవ సేవకస్య పరమేశ మనః
కురుతే న హన్తుమపి మే శమనః ।
భగవన్నతో వపురనీరసదృ-
క్తవ నౌమి సిద్ధధునినీరసదృక్ ॥ ౨॥
స్రగివాఽర్ప్యతే కలితసారసనా
త్వయి గీర్యయా జయతి సా రసనా ।
త్వయి యన్మహేశ వరదేఽవహితం
హృదయం తదేవ వరదేవ హితమ్ ॥ ౩॥
తవ దృక్సుధాకరకలోపమితా-
పతితా విపత్తదనులోపమితా ।
భగవన్ దృశైవ కమలా భవతః
సహసాఽఙ్కమేతి శమలా భవతః ॥ ౪॥
కురు నాథ చేతసి వచో దయితా
తవ గీరహం న తవ చోదయితా ।
అథవా మహేశ పృథుకామతయా
న కిమారటన్తి పృథుకా మతయా ॥ ౫॥
విషయైర్ముఖే వరద కామధురై-
ర్వివశీకృతం ఘటితకామధురైః ।
భజ మాం మహేశ్వర ముదా రహితం
దిశ భాషితామృతముదారహితమ్ ॥ ౬॥
విజితం మయా జగదమోహతయా
న రుషా క్షతో మమ దమో హతయా ।
తృణవత్సురక్షితిధరోఽపి తయా
విహితో మహేశ హృది రోపితయా ॥ ౭॥
మరుతాయతేవ మలయాచలతః
క్షపితా ధృతిః కమలయా చలతః ।
తదిమాం ప్రసాదనపరాం కరుణాం
శృణు మే గిరం కురు పరాం కరుణామ్ ॥ ౮॥
భవతః ప్రసాదమధురామహతాం
దృశమీయుషాం శమధురా మహతామ్ ।
ధృతిమేత్యపాస్య చ రమా లసతాం
సులభత్వమేతి చరమాలసతామ్ ॥ ౯॥
సమరే వికీర్ణగజరాజఘటే
బత తస్య శక్తిరజరా జఘటే ।
తవ యేన సేవనవిధౌ తరసా
మతిరర్పితాఽన్యభవిధౌతరసా ॥ ౧౦॥
విషయాన్ప్రతి ప్రయతమానమదః
సుజనో మనః ప్రయతమానమదః ।
తవ శాసనేన వశమానయతే
శరణం తతో నవశమానయతే ॥ ౧౧॥
రవిజం రజోభిరివ మేచకితం
హృదయం విభావ్య శివ మే చకితమ్ ।
వచనం జితామృతరసం భ్రమతః
పథి సఙ్కటే వితర సమ్భ్రమతః ॥ ౧౨॥
త్వయి చక్షురీశ కలితాపకృతి
క్షిపతి క్షణం శకలితాపకృతి ।
పరశక్తిరిద్ధవపురఙ్గమితా
జనతా యయా తవ పురం గమితా ॥ ౧౩॥
రవిజస్య వర్ష్మ సహసా రచితం
భవతాగ్నిసాదసహసారచితమ్ ।
వపురాప తే మదనఘస్మరతాం న
తథాపి భీమదనఘస్మరతామ్ ॥ ౧౪॥
కరుణా క్షతానవధికోపచయా-
ధిగతా మయా త్వదధికోపచయా ।
శశినా యథాకులతరం గలతా
ద్యుసరిన్నిరర్గలతరఙ్గలతా ॥ ౧౫॥
గరుడేన యద్విషమపక్షతినా
కవలీకృతం విషమపక్షతినా ।
స తవ ప్రసాదమహిమా న పరః
ప్రభురానతం ప్రతి హి మానపరః ॥ ౧౬॥
పదమాప్తుమార్తిశమనం గహనం
ప్రభుమర్థయే భృశమనఙ్గహనమ్ ।
వసనం యథార్త్తిహరణం సహిమే
సమయే తథైవ శరణం స హి మే ॥ ౧౭॥
సురసున్దరీషు రమణీయతమా
స్వవపుర్గుణేన రమణీ యతమా ।
తవ భక్తమక్షతరసాజర సా
భజతే సమేత్య తరసా జరసా ॥ ౧౮॥
త్వయి గీర్మయా నిజగదే బత
యా నిఖిలం జయామి జగదేవ తయా ।
ముదితస్య భక్తిసుధయా భవతః
సభయస్య కిం వసుధయా భవతః ॥ ౧౯॥
శిరసి స్రజేవ విధురోచితయా
హృది మద్గిరాత్ర విధురోచితయా ।
క్రియతాం పదం శివ ధియా సహతేఽ-
విపదం సదానవధి యా సహతే ॥ ౨౦॥
విభుమాశ్రయే విగలదఙ్గలతః
ప్రమయే బిభేమి యదమఙ్గలతః ।
స విముచ్య పాశమశమం గలతః
కురుతే హి మే భయశమం గలతః ॥ ౨౧॥
చరణౌ యథా మురజితః క్షమయా-
ధిగతౌ భరం ధరితుమక్షమయా ।
నమతాం తథైవ కృతరక్ష మయా
భవతో ధియా సముచితక్షమయా ॥ ౨౨॥
తిమిరం రవేరివ విభాముదితాం
దృశమాప్య తే జహతి యా ముదితామ్ ।
భగవన్ రసాద్గిరమిమాముదితా-
ముపకర్ణయన్మయి దిశాఽముదితామ్ ॥ ౨౩॥
కరుణా సురైః ప్రతిపదానత యా
భవతః స్తుతా సదపదానతయా ।
కిము మాం భియాప్తమపదానతయా
భజసే నిరస్తవిపదా న తయా ॥ ౨౪॥
తవ దృగ్జయత్యలసతాం లసతాం
మదనస్య యా వ్యతనుతాఽతనుతామ్ ।
కుశలాయ సా కిల సతాం లసతాం
నిబిడం శమప్యతనుతా తనుతామ్ ॥ ౨౫॥
యయా భజన్తే భువి మానవా హితాం
విభూతిమన్తే చ విమానవాహితామ్ ।
యమం చ యాఽధాద్దలశో భయానకం
తయా దృశా పాస్యురుశోభయా న కమ్ ॥ ౨౬॥
పరమయా రమయా రహితస్య మే
న రుచిరం రుచిరఙ్గమిమం వ్యధాత్ ।
హర మయాఽరమయాచి భవానతః
కురు చిరం రుచిరఞ్జనమేహి మే ॥ ౨౭॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టకృతే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``రుచిరఞ్జనాఖ్యం'' పఞ్చవింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౬. పాదాదియమకస్తోత్రం షడ్వింశం స్తోత్రమ్
హన్తాపహన్తాపదుపద్రవాణాం
యస్యాఽక్షయస్యాక్షణికః ప్రసాదః ।
సన్తాపసన్తాపహరా ప్రపేవ
కాన్తారకాన్తా రసనా చ యస్య ॥ ౧॥
తాదృఙ్మతా దృఙ్మహతాం సమన్తా-
దాలోకదా లోకహితా చ యస్య ।
తం సన్తతం సన్తమసార్త్తలోక-
పాలం కృపాలఙ్కృతమీశమీడే ॥ ౨॥
హృద్యః సుహృద్యః సుకృతోర్జితానా-
మన్యూనమన్యూనపి యః పృణాతి ।
యోఽనామయో నామగృహీతిమాత్రా-
దస్తాపదస్తాపమపాకరోతి ॥ ౩॥
చేతః ప్రచేతఃప్రముఖా యదేక-
తానన్తతానన్తగుణా వహన్తి ।
యోగీతి యో గీతిషు గీయమానః
సిద్ధైః ప్రసిద్ధైః ప్రభురభ్యుపేతః ॥ ౪॥
మాన్యోఽధమాన్యోఽధరయత్యుదగ్ర-
రంహోభిరంహోభిరపాస్తవృత్తాన్ ।
నామాపి నామాపిదధాతి వీతా-
లోకస్య లోకస్య తమాంసి యస్య ॥ ౫॥
భూతిర్విభూతిర్విపులా దిశశ్చ
వాసో నివాసో నిలయః పితౄణామ్ ।
హీనైరహీనైరపి యస్య భూషాఽ-
రాలా కరాలా కలికా చ మౌలౌ ॥ ౬॥
యః ఖేఽలయః ఖేలతి యః శిఖాభిః
సత్యం హసత్యంహతిహారిణీభిః ।
భానాం శుభానాం శుచిరీశ్వరో య-
స్తానక్షతానక్షిషు యో బిభర్తి ॥ ౭॥
సఙ్ఖ్యేష్వసఙ్ఖ్యేష్వపి యో భటానాం
వైరస్య వైరస్యభువో నిదానమ్ ।
నిన్దావనిం దావహుతాశవన్తం
రోషం ఖరోషం ఖలు యః ప్రమార్ష్టి ॥ ౮॥
యజ్ఞే నయజ్ఞేన వృతో న పూర్వం
దక్షేణ దక్షేణ శుభే విధౌ యః ।
తస్యాఽఽనతస్యాఽనఘముజ్ఝితావ-
సాదం ప్రసాదం ప్రదదౌ దయాబ్ధిః ॥ ౯॥
నీతావనీతావచలైరలభ్యః
సాధ్యైరసాధ్యైరపి యస్తపోభిః ।
సేవాలసే బాలమునౌ కిలోప-
మన్యావమన్యావకరోత్ప్రసాదః ॥ ౧౦॥
నాయం వినాఽయం విదధాతి లోకః
కర్మణ్యకర్మణ్యతయాభియోగమ్ ।
సత్త్వానసత్త్వానపి నేతుమాస్థా-
మర్థః సమర్థః స యతోఽభ్యుదేతి ॥ ౧౧॥
ధర్మేణ ధర్మేణ నిజోచితేన
కామేన కామేన వృతాభయేన ।
కాలేన కాలే నతిమాగతేన
వాతేన వా తేన సుఖావహేన ॥ ౧౨॥
జీవేన జీవేన తదర్పితేన
కావ్యేన కావ్యేన మనోహరేణ ।
మిత్రేణ మిత్రేణ తమోవృతానాం
సౌమ్యేన సౌమ్యేన చ సేవ్యతే యః ॥ ౧౩॥
లోకాన్ సలోకాన్ సదయోఽసృజద్యో
ధాతా విధాతా విభురీప్సితానామ్ ।
దేవః పదే వః పరమే నియోక్తా
కామం సకామం సఫలీకరోతు ॥ ౧౪॥
తం వన్దితం వన్దిభిరర్చయన్తే
సన్తో లసన్తో లలితైర్వచోభిః ।
తస్యాఽజితస్యాజిషు నౌతి లీలా-
ముత్తాలముత్తాలరవేణ లోకః ॥ ౧౫॥
ధీరస్య ధీరస్యతి తస్యతీక్ష్ణా-
బన్ధానుబన్ధానుగతాం ప్రవృత్తిమ్ ।
దానం దదానం దయితేవ రాగా-
దానన్దదా నన్దయతే చ తం శ్రీః ॥ ౧౬॥
సమ్పన్నసమ్పన్నవసిద్ధిహేతుం
ధుర్యామధుర్యామమరేన్ద్రముఖ్యాః ।
భాసా శుభా సా శుచిరీశభక్తి-
ర్యస్యాఽభయస్యాభరణత్వమేతి ॥ ౧౭॥
శఙ్కా భృశం కా భృతకప్రియశ్చే-
దాసన్నదాసం న జహాతి శమ్భుః ।
నారాధనారాధయితుశ్చ మిథ్యా
కిం చిత్త కిఞ్చిత్తరలత్వమేషి ॥ ౧౮॥
సానన్ద సా నన్దనభూస్తృణం తే
కల్యాణ కల్యాణగిరిః క్వ గణ్యః ।
సా తేజసా తే జడతాముదస్త-
కమ్పాఽనుకమ్పా నుదతీన్దుమౌలేః ॥ ౧౯॥
జమ్బాలజం బాలరవేరివాభా-
ఽదీనం నదీనం నవచన్ద్రికేవ ।
సాశఙ్క సా శఙ్కరభక్తిరుచ్చై-
రక్షామరక్షా మదయిష్యతి త్వామ్ ॥ ౨౦॥
నో భోగినో భోగిభిరర్చితో యః
సాతఙ్క సాతం కలయఞ్జహాతి ।
స త్వాఽలసత్వాలయదైన్యహారీ
పాస్యత్యపాసత్యశుభం చ శమ్భుః ॥ ౨౧॥
దోషప్రదోషప్రసృతాపి సక్తా
సేవారసే వారవిలాసినీవ ।
యా నిర్భయా నిర్భరరాగిణీ త్వా-
మాయాతి మాయాతిమిరేఽభిసర్త్తుమ్ ॥ ౨౨॥
భావానుభావానుగమేన రూఢా
బాలా నవాలానగతా వశేవ ।
సాఽనేహసా నేహ విహాస్యతి త్వాం
కణ్ఠోపకణ్ఠోపగతైవ వాణీ ॥ ౨౩॥
దివ్యా యది వ్యాయతకాన్తయస్తే
గౌరీశ గౌరీ శశినః కలా చ ।
విఘ్నన్తి విఘ్నం తిమిరాభిధానం
తేనాఽహతేనాఽహముపద్రుతః కిమ్ ॥ ౨౪॥
ముద్యోగముద్యోగభృతో భజన్తే
శంసన్తి శం సన్తి చ నిర్వికల్పాః ।
భక్తా విభక్తా విపదస్త్వదీయాః
కస్మాదకస్మాదహమేవ మగ్నః ॥ ౨౫॥
వాచాం తవాచాన్తశుచాం శుభానా
మోఘా న మోఘా నమతాం కదాచిత్ ।
తైరుద్ధతైరుద్ధర మామనాథం
లీనం కులీనం కుదశాన్ధకారే ॥ ౨౬॥
కల్పాన్తకల్పాన్తకభీతియుక్తం
రక్షామి రక్షామిహ యోఽర్హతీతి ।
యస్తే నయస్తేన దిశ ప్రసన్నా-
మత్రాఽసమత్రాసహరాం దృశం మే ॥ ౨౭॥
కన్దర్ప కం దర్పముపైషి యాత-
మస్తం సమస్తం సహసా బలం తే ।
భీరో గభీరో గలితః కిముచ్చై-
రక్షోభరక్షో భగవత్ప్రసాదః ॥ ౨౮॥
విద్యామవిద్యామపి తాం యయా త్వా-
మారాధ్యమారాధ్య సుఖీ భవామి ।
మాయాపి మా యాపితభీరుపైతు
యాతా న యా తానవమర్చితుం త్వామ్ ॥ ౨౯॥
రామాభిరామాభిమతా ధృతార్ధే
భోగోపభోగోపగతేన కేన ।
కస్యాన్తకస్యాన్తకరీ చ లక్ష్మీ-
ధామాని ధామాని బిభర్తి దృష్టిః ॥ ౩౦॥
కః స్తమ్భకః స్తమ్భనిభస్య జిష్ణోః
కస్తాపకస్తాపకృతః స్మరస్య ।
కారానుకారానుభవే భవేఽస్మిన్
కో జీవకో జీవభృతాం వినా త్వామ్ ॥ ౩౧॥
యా శంసయా శంసతి శమ్భుభక్తిం
చేష్టాసు చేష్టాసు రతిం స్మరస్య ।
తామక్షతామక్షయపుణ్యకోషా-
దన్యో వదన్యో వహతే తనుం కః ॥ ౩౨॥
యాహన్తయా హన్త నృపేఽప్యవజ్ఞా-
మానఞ్జ మానం జనయన్త్యభఙ్గమ్ ।
హా నిఃసహా నిఃసరణేఽపి భక్త్యా
సా వాగసావాగమదన్తికం తే ॥ ౩౩॥
దేవం యదేవం యమకైర్మహేశం
తుష్టావ తుష్టావసరోచితం గీః ।
శస్యో యశస్యోఽయముపస్థితోఽస్మా-
దేనోభిదే నోఽభిమతః ప్రసాదః ॥ ౩౪॥
తరలతరలతాగ్రస్పర్ద్ధినీ చఞ్చలత్వం
రుచిరరుచిరమన్దానన్దదా ముఞ్చతి శ్రీః ।
చరతి చ రతికాన్తధ్వంసిశంసారతానాం
మధురమధురసార్ద్రా భారతీ వక్త్రపద్మే ॥ ౩౫॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``పాదాదియమకస్తోత్రం'' నామ షడ్వింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౭. పాదమధ్యయమకాఖ్యం సప్తవింశం స్తోత్రమ్
జయతి సంయతి సఙ్గతపాణ్డవ-
ప్రహరణాహరణాహితకైతవః ।
తరుణదారుణదాశవపుర్ధృత-
స్థిరయశా రయశాలిశరో హరః ॥ ౧॥
భువనపావనపాదమధర్షితం
మఘవతాఽఘవతామపి సస్పృహమ్ ।
మునిజనీనిజనీతిపరీక్షణే
ధవలకేవలకేలికృతం స్తుమః ॥ ౨॥
స్థిరమగారమగాత్మజయా శ్రితం
స్మరవికారవికాసపరాఙ్ముఖమ్ ।
భుజగరాజగరాగ్నిశిఖావలీ-
విషమవేషమవేపథుదాయినమ్ ॥ ౩॥
శమిషు కామిషు కారుణికేషు వా
వరమఘోరమఘోపశమక్షమమ్ ।
ఘనవిపన్నవిపన్నిధనే సదా
పరమధీరమధీశముపాస్మహే ॥ ౪॥
శ్రుతనయాస్తనయాస్తనుమధ్యమా
యువతయో బత యోగిమనోహృతః ।
యదఘనామఘనామయవైశసం
తదమృతేశమృతే శమయన్తి కిమ్ ॥ ౫॥
న హరిణా హరిణాఙ్కశిఖామణే
న విధినా విధినాఽపి సపర్యతా ।
తవ పురా వపురామమృశే వయం
క్వ ను భవానుభవావృతచేతసః ॥ ౬॥
చతురగాస్తురగా నగజా గజాః
స్థిరముదారముదాత్తబలం బలమ్ ।
ప్రభవతా భవతా విహితే హితే
ప్రతిదిశన్తి దిశం కమలామలామ్ ॥ ౭॥
ద్విజసమాజసమాధికదర్థన-
ప్రవణరావణరాజ్యహృతౌ కృతీ ।
చరణయో రణయోగ్యబలోఽభవ-
న్నవనతో వనతో భరతాగ్రజః ॥ ౮॥
శుభరతో భరతోఽప్యభవద్ద్విషద్-
గరిమహారిమహాః సమవాప్య యమ్ ।
దిశ తమీశ తమీపతిశేఖర
స్థిరమనుగ్రమనుగ్రహమేహి మే ॥ ౯॥
భృశమనీశమనీతిపథస్థితం
మదవశాదవశాక్షముపప్లుతమ్ ।
అహరహర్హర హర్షయతే న కిం
హితవతీ తవ తీవ్రశుచం రుచిః ॥ ౧౦॥
కుశలపేశలపేలవదృగ్వమన్
రసనయా సనయార్త్తిహృతామృతమ్ ।
మదనసాదన సాన్త్వయ సమ్పదా-
మపదమాపదమాశ్రితమేహి మామ్ ॥ ౧౧॥
కథమనాథమనాగసమన్తికే
మదనమర్దన మర్షయసే న మామ్ ।
భువనభావన భాతి వినా త్వయా
జగతి కోఽగతికోద్ధరణక్షమః ॥ ౧౨॥
యది కృపాపర పాపరతస్య మే
న కురుషే పరుషే పదమాశయే ।
హితతమా కతమా కలుషాత్మనో
మమ హరాఽమహరా ఘటతే గతిః ॥ ౧౩॥
స్థిరవిభా రవిభాతిరివోన్మదం
మదమయం దమయన్త్యసమన్తమః ।
తవ దయా వద యాత్యుదయం న చేద్
భవతమీ బత మీలతి మే కథమ్ ॥ ౧౪॥
రజనిరాజనిరాకరణక్షమః
క్షతనిశాతనిశాతిమిరోత్కరః ।
కృతవిభాతవిభాభరభాస్వరో
దినకరో న కరోత్యుదయం యదా ॥ ౧౫॥
దివి యదా వియదాభరణం కృపా-
పరమతే రమతే న సుధాకరః ।
న శుచిరాశు చిరాపతితం యదా
స్థిరమపారమపాకురుతే తమః ॥ ౧౬॥
తనుకృశానుకృశాం గ్రసతే యదా
మిహిరజాహిరజాతఘృణస్తనుమ్ ।
శివ తదా బత దాస్యతి మే ధృతిం
త్వదితరః కతరః కరుణాపరః ॥ ౧౭॥
నిధనసాధనసాన్ద్రలసద్విషా-
నలకరాలకరాత్తమహోరగః ।
నియమనాయ మనాఙ్మమ సస్పృహే
భవతి ధావతి ధామ యమః కథమ్ ॥ ౧౮॥
పలితమీలితమీశ మమ స్మర-
శ్చతురమాతురమారచయన్వపుః ।
ఘనబలేఽనవలేపపరే త్వయి
ప్రభవితా భవితాపకరః కథమ్ ॥ ౧౯॥
కిమధునా మధునాపి యుతో వహన్
రతిమభీతిమభీష్టతమామపి ।
శ్రితమవన్తమవన్ధ్యబలం విభుం
జయతి మాం యతిమానహరః స్మరః ॥ ౨౦॥
విషమరోషమరోః పథి పాతయ-
న్మతిమనీతిమనీక్షితసత్పథామ్ ।
భృశమయం శమయన్నియమం కథం
తవ పురో వపురోషతి మే మదః ॥ ౨౧॥
మమ నికామనికారకృతో వృథా
వపురవాపురవార్యరుషోఽరయః ।
న హి తదాహితదాహమదన్త్యమీ
తవ హితావహితా హి నతేషు ధీః ॥ ౨౨॥
యది విభా దివి భాతి న తావకీ
యది న మే దినమేతి భవన్మయమ్ ।
వద మహాదమహారి తమః కథం
విషమదోషమదో వినివర్తతే ॥ ౨౩॥
కమలినీ మలినీక్రియతే యయా
విహతసన్తతసన్తమసాపి యా ।
స్మరచితా రచితాపి చ యత్ర తాం
వితర కాతరకామదుఘాం దృశమ్ ॥ ౨౪॥
తుహినవాహినవానిలజే మనః
సహసి రంహసి రఞ్జయతి ప్రియా ।
న రసికోరసి కోష్ణకుచా తథా
తవ గుణానుగుణా నుతిగీర్యథా ॥ ౨౫॥
అయమసౌ యమసౌష్ఠవహృత్పురః
పరుషపౌరుషపౌష్టికచేష్టితః ।
విధురబన్ధురవన్ధ్యపరిగ్రహః
స్ఫురతి మే రతిమేత్య మహేశ్వరః ॥ ౨౬॥
అనిధనేన ధనేన మనస్వినా-
మనుగుణేన గుణేన గరీయసా ।
అభిజనేన జనేన సుదుష్కృతై-
రశబలేన బలేన చ వర్ధతే ॥ ౨౭॥
అభినవేన నవేన శివస్య యః
స్తుతిముదారముదారభతేఽమునా ।
అవహితస్య హి తస్య తనోతి శం
విభవదో భవదోషహరో హరః ॥ ౨౮॥
స సకలాసు కలాసు విచక్షణః
స మతిమానతిమానసమున్నతః ।
న శశిఖణ్డశిఖణ్డమృతే స్తుతిం
సుకృతవాన్ కృతవానపరస్య యః ॥ ౨౯॥
రవిరహో విరహోద్ధరణాద్ది-
శన్ధృతిముదేతి ముదే రథపక్షిణామ్ ।
యదవిషాదవిషాభిభవం జగ-
త్కృతమసన్తమసం స్తుతిభిః ప్రభోః ॥ ౩౦॥
వినయశోభిః యశోభిరతం మనః
పరహితారహితా విమలా మతిః ।
విపులమఙ్గలమఙ్గమితి ప్రభోః
ప్రతిఫలన్తి ఫలం స్తుతివీరుధః ॥ ౩౧॥
జితసుధారసుధారసభారతీ-
విభవసమ్భవసమ్భృతకీర్తయః ।
కవిబుధా విబుధాధిపవన్దితం
సుకృతినః కృతినః స్తువతే శివమ్ ॥ ౩౨॥
న మహతామహతామలసంవిదాం
మదయితా దయితాధిగమస్తథా ।
మధురసాధురసార్ద్రపదా యథా
సయమకా యమకామరిపుస్తుతిః ॥ ౩౩॥
కా నామ నామరవధూరవధూతకాన్తా
కాన్తా న కా నరజనీ రజనీపతిశ్రీః ।
శ్రీమన్తమన్తకరిపుం కరిపుఙ్గవాన్త-
హేతుం స్తువన్తమవిరామవిరావమేతి ॥ ౩౪॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``పాదమధ్యయమకాఖ్యం'' సప్తవింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౮. పాదాన్తయమకస్తోత్రం అష్టావింశం స్తోత్రమ్
అన్తశ్చేతసి నిర్వృతిర్న గమితా నాశం కయా శఙ్కయా
నైషా పుష్యతి తేన సంహృతగతిః శోభారతీ భారతీ ।
భక్తిః కిం తు విజృమ్భతే మమ యథైవాభా స్వతో భాస్వతో
యాదృక్తాదృగతః కిమప్యభిదధే సమ్ప్రత్యహం ప్రత్యహమ్ ॥ ౧॥
వక్త్రం బిభ్రదదభ్రదీర్ఘదహనజ్వాలం భయం లమ్భ-
యన్నుద్గ్రీవం ఘటయన్కరే విదధతం వ్యాలం ఘనం లఙ్ఘనమ్ ।
ప్రత్యాసీదతి మృత్యురిత్యుపచితస్ఫారోచితాం రోచితాం
శ్రుత్వా మాం న కథం విభుర్గిరమిమాం చిత్రాయతాం త్రాయతామ్ ॥ ౨॥
మన్యే తాం స్పృహణీయగౌరవగుణామాయామినీం యామినీం
తత్సేవారసమాదధత్తవ సుధా సంవాదినం వా దినమ్ ।
యత్రోపాన్తగతం వచోభిరుచితైరానన్దినం నన్దినం
కుర్వద్భిశ్చరితం సుచారు జగతామీశస్య తే శస్యతే ॥ ౩॥
తస్యోదేతి సదఃసదాం విదలితగ్లానిర్భరో నిర్భరో
వాచాం వక్త్రసరోరుహే పరిణమత్పాకోఽమలః కోమలః ।
లక్ష్మీస్తం న జహాతి కిం చ విభవైరాభాసితాభాసితా
యేన త్వం హృదయామ్బుజే భవభయాత్త్రాతోషితస్తోషితః ॥ ౪॥
సేవ్యన్తే భగవన్నపాస్య(అవాప్య)కలితోల్లాసం మదం సమదమ్ (పదం సమ్పదం)
బిభ్రాణాస్తరుణీజనేన మధురవ్యాహారిణా హారిణా ।
వీజ్యన్తే దివి చన్ద్రరశ్మిరుచితైః కిఞ్చాఽమరైశ్చామరై-
రాబాల్యాద్విదధే త్వదేకవిషయా యైః శేముషీ శేముషీ ॥ ౫॥
తూర్ణం చూర్ణయితుం వపుర్యమభటో ఝమ్పారయం పారయ-
న్నుచ్చణ్డభ్రుకుటీకరాలితముఖో యత్రాసకృత్త్రాసకృత్ ।
తాం భూమిం పరిహర్తుమీశ్వర భవత్సేవాధనం బాధనం
దుఃఖానామధిగమ్య హన్మి కుమతిప్రాదుష్కృతం దుష్కృతమ్ ॥ ౬॥
ముఞ్చద్భిర్యమకిఙ్కరైః కృతమహాజృమ్భైరవం భైరవం
యావద్దర్శితమాననం న ఘుసృణక్షోదారుణం దారుణమ్ ।
తావత్సత్త్వరమేహి దేహి మహసాం ధామేదృశం మే దృశం
యా దూరీకురుతే నిరన్తరసుధాసన్దోహదం దోహదమ్ ॥ ౭॥
యావద్దుఃసహవహ్నిహేతివిహితస్ఫీతాపదం తాపదం
జన్తూనాం భగవన్ భజామి నరకం నాహం సదాహం సదా ।
తావన్ముఞ్చ వచో యథా మరుపథే బాధావతాం ధావతాం
భీష్మగ్రీష్మకదర్థ్యమానవపుషాం సఞ్జీవనం జీవనమ్ ॥ ౮॥
న్యస్తం యేన మనస్త్వయీదమహతోత్సాహం తయాఽహన్తయా
గాఢోద్వేగవిధాయినీ ఘటయతే సాయాసతాం యా సతామ్ ।
తం భోగైరుపసేవతే సుమనసామానన్దనే నన్దనే
దివ్యస్త్రీజనతా విలాసవికసచ్ఛోభా సురం భాసురమ్ ॥ ౯॥
యస్యా హన్తి ధృతిం వివేకవిహితహ్రాసా విలాసావిలా
ముగ్ధా దృఙ్మదిరామదేన విగలద్వాచారుణా చారుణా ।
రామా కామమహాస్త్రమర్పయతి మే సా హన్త మోహం తమో
యేనాఽజ్ఞానమయం మనస్యుపరమత్తాపప్రథే పప్రథే ॥ ౧౦॥
లజ్జేఽహం భజ దూరమేవ రభసాదేవం ధుతా బన్ధుతా-
సమ్మూఢేన మయా యయా విధృతవానేతామహన్తామహమ్ ।
కిం కిం శ్రీమదమోహితేన విభవస్థేనాఽహితం నాహితం
యేనైతాం న భజే పునర్మయి వరం బాధే హితం ధేహి తమ్ ॥ ౧౧॥
ఆనీతా చరణాన్తికప్రణయితాం కామేన కా మేనకా
కార్యం కిం ఘనభోగసమ్భృతవిధౌ సారమ్భయా రమ్భయా ।
కాన్తా మే పరమేశ్వరే హతవిపత్సమ్భావనా భావనా
చిత్తే కాపి రతిర్యయాహితహితవ్రాతాయతే తాయతే ॥ ౧౨॥
ధత్తే యస్య జటా కపాలపటలం భవ్యా కులం వ్యాకులం
హంసానామివ రున్ధతీం భగవతీం గఙ్గాం తరఙ్గాన్తరమ్ ।
తస్యాధాయ మహేశితుర్నుతిగిరాం నవ్యాకృతిం వ్యాకృతిం
భక్త్యా నిశ్చలయా నృజన్మ సకలం సమ్మానయామానయా ॥ ౧౩॥
కఞ్చిచ్ఛ్రీర్వసతేః కరోతు వికసచ్ఛోభా జనం భాజనం
కఞ్చిద్వన్దిజనః ప్రశంసతు ముదం ప్రీత్యా గతస్త్యాగతః ।
మన్యేఽహం తు సమగ్రశోకశమనం సంన్యాసమన్యాసమం
యస్మిన్మృత్యుజితం భజామి మనసా వాచేష్టయా చేష్టయా ॥ ౧౪॥
రూపం యద్భవతో దధత్పరికరం భౌజఙ్గం జఙ్గమం
సేవన్తే యదపి శ్రియా కృతధియః స్వస్థా వరం స్థావరమ్ ।
ప్రాజ్యం జ్యోతిరివ ప్రసహ్య తమసాం వైకర్తనం కర్తనం
లబ్ధ్వా తత్ప్రతిభా కథం న జనితస్వాభా సతాం భాసతామ్ ॥ ౧౫॥
స్తోతుం వాఞ్ఛసి సంశ్రితం మరకతశ్యామం గలం మఙ్గలం
లబ్ధుం మానస తత్పరం భగవతః సేవాసు కిం వాసుకిమ్ ।
భక్తిశ్చేద్భవతి స్థితిం మదమరుద్వేగాహతే గాహతే
తద్బధ్నాసి ధృతిం త్వమప్యహిపతిప్రావారసేవారసే ॥ ౧౬॥
దృష్ట్వా యన్మఘవా విహాయ గతవానైరావణం రావణం
పశ్యన్పాణ్డుతయా భయాదనుకృతశ్యామాధవం మాధ్వమ్ ।
సర్వోఽయం భవతః ప్రసాదమహిమా హన్తా నవం తానవం
సేవా కస్య న సిద్ధయే హతవృథాసఙ్కల్ప తే కల్పతే ॥ ౧౭॥
తం హత్వా సబలం నిశాచరపతిం లఙ్కాలయం కాలయ-
న్నార్తిం నాకసదాముపేత్య విభవం వైభీషణం భీషణమ్ ।
వైదేహీమనఘాం లభేత స కథం రామో హి తాం మోహితాం
త్వద్భక్తిం యది న వ్యధాస్యతనుతో భ్రాజిష్ణునా జిష్ణునా ॥ ౧౮॥
లోకం శోకహరం పరం ప్రతి భృశం సన్దేహినాం దేహినాం
మాయా మోహతమోవిమోహితదృశామాయాసదా యా సదా ।
తాం హన్తుం మమ కిం కరోషి విహితజ్ఞానోదయాం నో దయాం
యస్యా దాస్యమపీహ నార్హతి ఘనస్ఫారా సుధారా సుధా ॥ ౧౯॥
దోషాణాం సహసా విధాతుముదయం నో సామ్ప్రతం సామ్ప్రతం
స్వాలోకక్షపణం కరోతు తిమిరం తన్మాదృశాం మా దృశామ్ ।
ఖ్యాతః పౌష్ణ ఇవ ప్రసహ్య కమలోల్లాసాదయం సాదయ-
న్నార్తిం న ప్రకటీకరోతి బత కామాశాం కరః శాఙ్కరః ॥ ౨౦॥
శీతస్నిగ్ధం పరిమలసుఖం ఘానసారం న సారం
నాపి ప్రేమ్ణా కలితలలితోద్దామహేలామహేలా ।
తస్మాజ్జిత్వా భవమనుదితస్తమ్భజేయం భజేయం
భూయో భూయో హర పరహితారమ్భవన్తం భవన్తమ్ ॥ ౨౧॥
దృష్టిః స్త్రీణాం మమ నివసతో హానిశాన్తే నిశాన్తే
చిత్తం రున్ధే శిశుమివ మృగం వాగురా భఙ్గురాభమ్ ।
తత్సమ్పర్కాదహమివ సహే దేవ మానాఽవమానా-
వార్త్తః ప్రాప్తః శరణమధునా త్వాముదారం ముదారమ్ ॥ ౨౨॥
ప్రాజ్యం రాజ్యం నృపతిమకరీరత్ననిర్యత్ననిర్య-
ద్రశ్మిస్రోతఃస్నపితచరణం క్రాన్తసామన్తసామ్ ।
సభ్రూభఙ్గం మునిజనమనఃక్షోభిరామాఽభిరామా
వక్త్రం బిభ్రత్యుపచితరతిర్ఘస్మరేణ స్మరేణ ॥ ౨౩॥
ద్వారి క్షోభః క్షితిధరగుహాభోగజానాం గజానాం
కా వా సఙ్ఖ్యా ప్రకటితవిపద్బాధనానాం ధనానామ్ ।
ఇత్థం లక్ష్మీః కథమివ భజేద్ధామహీనం మహీనం
స్యాచ్చేన్నైకస్తవ కృతరిపుక్షిప్రసాదః ప్రసాదః ॥ ౨౪॥
భీమాం పఙ్క్తిం పురుషశిరసాం మస్తకేఽశస్తకేశ-
ప్రోతాం ధత్సే విబుధసరితో యాం తరఙ్గాన్తరఙ్గామ్ ।
సైవ శ్రేయః ప్రథయతి యథా దేవ రాజీవ రాజీ
త్వత్సమ్పర్కాద్ఘటయతి న కిం మఙ్గలాభఙ్గలాభమ్ ॥ ౨౫॥
కృత్వా శయ్యాముపాన్తే విరచితకలికాదామశేషామశేషాం
సమ్పత్తిం మానయన్తః కుసుమబలగలద్బాలతానాం లతానామ్ ।
సేవ్యన్తే హన్త వృన్దైరవిరతరతయః సున్దరీణాం దరీణా-
మన్తస్త్వద్భక్తిభాజః సితకరకిరణైరుత్తమాయాం తమాయామ్ ॥ ౨౬॥
హన్తాఽహన్తావృతానాం మహ ఇవ రజనీ భాసమానం సమానం
జ్ఞానం జ్ఞానన్దకారి గ్లపయతి విలసద్బోధనాశా ధనాశా ।
వాచా వాచాలభావం తవ విహితవతాం వాస్తవేన స్తవేన
శ్రేయః శ్రేయస్కరస్త్వం భవ భవసి విపద్భాజనానాం జనానామ్ ॥ ౨౭॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``పాదాన్తయమకస్తోత్రం'' నామాష్టావింశం స్తోత్రం సమ్పూర్ణమ్ ।
౨౯. ఏకాన్తరయమకస్తోత్రం ఏకోనత్రింశం స్తోత్రమ్
ఉదారవర్ణైరథ సఙ్గతైరహం
ముదాభిధావద్భిరుపోఢలక్షణైః ।
పదైరమన్దధ్వనిభిర్మహేశ్వరం
ప్రభుం ప్రపద్యే తురగోత్తమైరివ ॥ ౧॥
శివేన దేవ్యా జగృహే కరోహిత-
స్త్రసన్యదా కుఙ్కుమపఙ్కరోహితః ।
తదాస్య యోఽర్కాగ్నినిశాకరోహితః
స్తవః స వః స్యాదభయఙ్కరో హితః ॥ ౨॥
అనఞ్జనం నేత్రవికాసకారణం
నిరఙ్కుశం కర్ణకరేణువారణమ్ ।
అచన్ద్రికం చిత్తచకోరపారణం
క్రియాద్వ ఈశార్చనమార్తిదారణమ్ ॥ ౩॥
సుఖాకరోతి క్లమహృన్న మాధవ-
స్తథామరౌ వోపవనేఽపి మాధవః ।
యథా శరీరార్ధనిరుద్ధమాధవః
ప్రశస్యమానో భగవానుమాధ్వః ॥ ౪॥
దినాన్తరాత్ర్యాగమయోరివాథవా
సురస్రవన్తీయమునౌఘయోరివ ।
ఉమారమాకాముకయోః సమాగమః
సితాఽసితస్తాపమఘం చ హన్తు వః ॥ ౫॥
ఉమాఖ్యమాసాద్య మహానియోఽగతః
ప్రియం నిధిం సౌఖ్యమహాని యో గతః ।
కరోతు యుష్మాకమహాని యోగతః
శుభాన్యసావిద్ధమహా నియోగతః ॥ ౬॥
ద్విజాధిపాధిష్ఠితశేఖరం మహా-
భుజం గవిన్యస్తభరం సముద్వహన్ ।
వపుః సదాభఙ్గదయాసమాశ్రితం
తనోతు వః సమ్పదమచ్యుతః శివః ॥ ౭॥
అఘద్రుమధ్వంసమహాకరేణవః
సుధాసితాః పావకకల్కరేణవః ।
వసన్తి యస్మిన్నభయఙ్కరేఽణవః
కరోతు శం తేన హరః కరేణ వః ॥ ౮॥
ధృతిస్త్వదీయేన సుదర్శనేన మే
భవత్యభేదస్తు హరే కిముచ్యతే ।
పరస్పరం శఙ్కరకృష్ణయోరిదం
వచః సుఖాయైకముఖోత్థమస్తు వః ॥ ౯॥
న జన్మ యస్యాద్రినివాస దారుణః
స తే జ్వలత్యక్ష్ణి శిఖీ సదారుణః ।
యమం న కిం తేన శిరఃసదాఽరుణ-
స్త్వదాశ్రితం కిం గ్రసతాం స దారుణః ॥ ౧౦॥
సదా నగోపాహితబన్ధురస్థితిం
స్తువే పినాకేన సమేధితశ్రియమ్ ।
మహర్ద్ధికం సోపశమే కృతాదరం
హరం హరిం వా తరసా రసాదహమ్ ॥ ౧౧॥
మనో భృశం భ్రామ్యతి బాలిశం భవే
జహాతి భక్తిం చ దివానిశం భవే ।
అతః పరం నామ కిమస్య శం భవే-
న్నివేదయేత్స్వం యది కర్మ శమ్భవే ॥ ౧౨॥
సముద్రజన్మానముపాదధత్కరే
సితద్యుతిం వక్త్రనివేశనోచితమ్ ।
రతః సదాస్కన్దకదర్థనాహతౌ
హరో హరిర్వా దురితం ధునోతి వః ॥ ౧౩॥
జిగీషవః క్లేశపరమ్పరాభవం
వనేషు భిక్షాధృతకర్పరా భవమ్ ।
అసోఢవన్తః కునృపాత్పరాభవం
భజన్తి సన్తః స్తుతితత్పరా భవమ్ ॥ ౧౪॥
కదా దధానో ఘనశాన్తిశోభినీం
శుభామ్బరాలఙ్కరణోచితాం తనుమ్ ।
భజామ్యహం దృష్టినివేశనౌచితీం
శశీవ తిగ్మాంశురివాఽచ్యుతస్య తే ॥ ౧౫॥
కిమామ్రవన్యా సృమరాలవాలయా
ప్రియాకబర్యా కిమరాలబాలయా ।
సరఃశ్రియా కిం సమరాలబాలయా
ధృతేశభక్తిర్హ్యమరాఽలవాఽలయా ॥ ౧౬॥
కదాఽనవద్యామతినిర్మలామహం
మహానదీనాం సలిలైః ప్రసాదిభిః ।
వహామి హంసైరుపశోభితామ్బరాం
ప్రభుప్రసాదాచ్ఛరదం యథా తనుమ్ ॥ ౧౭॥
ప్రభుం ప్రపత్తుం స్థలమేహి మాలయం
మహీధరం మానస వా హిమాలయమ్ ।
రసాతలే వౌపయికాహిమాలయం
శ్రయన్తమన్వేషయ యాహి మా లయమ్ ॥ ౧౮॥
నిధాయ చక్షుర్దహతో మనోభవం
న కామహానిం ప్రవితన్వతో దృశా ।
అనష్టమూర్తేర్దధతోఽష్టమూర్తితాం
జయన్తి శమ్భోర్వివిధా విభూతయః ॥ ౧౯॥
సమాశ్రితస్త్వాం కరుణాపరాఽజ యః
క్వచిన్న తస్యాస్తి రణే పరాజయః ।
పరే తమారబ్ధపరస్పరాజయః
శ్రయన్తి నాథం ధృతచాపరాజయః ॥ ౨౦॥
ధ్రువం స కృష్ణస్తమధశ్చకార య-
శ్చిరాయ పక్షద్వయకల్పితస్థితిమ్ ।
ద్విజాధిరాజం వినతార్తిహారిణం
బిభర్తి యో మూర్ధ్ని స తు త్వమీశ్వరః ॥ ౨౧॥
విభుం విరిఞ్చోఽపి న వేద నామ యం
నతస్య దుఃఖం ఘనవేదనామయమ్ ।
నిహన్తి తస్యాపి భవేదనామయం
శుచం భజేన్నాప్యనివేదనామయమ్ ॥ ౨౨॥
సముద్రజాలిఙ్గితకణ్ఠపీఠం
సదైవ సత్యాహితసక్తిమచ్యుతమ్ ।
అనన్యగా యస్య నవోక్తిమౌక్తికై-
రలఙ్కరోతి ప్రచురా సరస్వతీ ॥ ౨౩॥
అభీష్టదాయీ యమధామహోదయాద్-
ధ్వనిర్యయా శ్వేతనృపే మహోదయా ।
ధృతిం దిశన్తీ నమతామహో దయా
క్వ సా తవాస్మాస్వధునా మహోదయా ॥ ౨౪॥
అయమహం పురుషోత్తమమచ్యుతం
బలిజితం కృతసత్యపరిగ్రహమ్ ।
అచలితశ్రియమాశ్రితనన్దకం
ధృతసుదర్శనమీశ్వరమాశ్రయే ॥ ౨౫॥
వితన్వతీ భక్తిమతాం సమానతాం
బిభర్తి యా కల్పలతాసమానతామ్ ।
కథం దధన్మూర్తిమిమాం సమాన్తాం
తవ స్తుతిం వచ్మి శతం సమా న తామ్ ॥ ౨౬॥
ఇహ పరశుచితోర్జితాకృతి-
ద్విజపతిశేఖరతాం బిభర్తి యః ।
త్రిజగతి గిరిశం సతాం హితం
ప్రణమతరామతనుం తమచ్యుతమ్ ॥ ౨౭॥
యమం యయారబ్ధమహామహాఽనయః క్షయం
దృశా యస్య స శర్మహాఽనయః ।
దదాసి చేత్తాముదితో మహానయః
క్షతాశ్చ విఘ్నాః కృతకామహానయః ॥ ౨౮॥
అనలసమ్భృతకాన్తి దధత్సదా
రుచిరమారచితాస్పదమీక్షణమ్ ।
సుమతయే విధురోపకృతిప్రియో
భవతు వో భగవాన్ భగవానివ ॥ ౨౯॥
న జాతు తజ్జ్ఞాః కృతినోఽవహన్త యా-
మధోగతౌ కారణమేవ హన్త యా ।
త్వయి ప్రసన్నే సుమతావహన్తయా
న యామి దుఃఖం నరకావహం తయా ॥ ౩౦॥
ప్రియాం ముఖే యో ధృతపఞ్చమస్వరాం
గిరం వహన్తీమమృతస్య సోదరామ్ ।
విశేషవిశ్రాన్తరుచిర్బిభర్తి మాం
వపుష్యసౌ పుష్యతు వః శివోఽచ్యుతః ॥ ౩౧॥
నుతిర్మయేయం భజతాం హితాయ తే
కృతాఽనయా శర్మ సతాం హి తాయతే ।
మనస్యపి గ్లానిరపోహితా యతే
ధృతా యదేషా శ్రుతిసంహితాయతే ॥ ౩౨॥
అమేయమహిమా హిమాద్రితనయా-
నయాత్తహృదయో దయోర్జితమతిః ।
విభుర్భవరుజం రుజన్నవికలం
కలఙ్కరహితం హితం దిశతు వః ॥ ౩౩॥
ఉదారకరుణోఽరుణోర్జితమహా
మహాహివలయో లయోజ్ఝితవపుః ।
అఘౌఘశమనో మనోధృతముదా-
ముదాత్తవిభవో భవో భవతు వః ॥ ౩౪॥
ఏకః పాదోదకమధిశిరః శ్లాఘ్యమన్యస్య ధత్తే
చక్రే పూజాం నయనకమలేనాఽపరస్య ద్వితీయః ।
ఇత్యన్యోన్యం ప్రకృతిమహతామన్తరజ్ఞౌ గుణానాం
హర్షోత్కర్షం కమపి కురుతాం కామకంసద్విషౌ వః ॥ ౩౫॥
యస్మిన్నద్రిసముద్రజావహనయోరుత్సృజ్య నైసర్గికం
వైరం కేసరికుఞ్జరప్రవరయోః సౌహార్దహృద్యా స్థితిః ।
యస్మిన్నప్యహిరాజపన్నగభుజౌ నిర్వ్యాజమైత్రీయుజౌ
నిష్ప్రత్యూహమసౌ మహాపురుషయోః సన్ధిర్నిబధ్నాతు వః ॥ ౩౬॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``ఏకాన్తరయమకస్తోత్రం'' నామైకోనత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౦. మహాయమకస్తోత్రం త్రింశం స్తోత్రమ్
శారదీమివ నదీం ప్రసాదినీ-
ముచ్చకైరవసరోజరాజితామ్ ।
స్తోతుమేష మమ మూర్తిమైశ్వరీ-
ముచ్చకైరవసరోఽజరాజితామ్ ॥ ౧॥
రోహిణీరమణఖణ్డమణ్డనం
నన్దినన్దినమనం దినం దినమ్ ।
నౌమి బిభ్రతముపోఢకాలికా-
సఙ్గమం గలమసఙ్గమఙ్గలమ్ ॥ ౨॥
నౌమి భక్తజనకణ్ఠనిఃసర-
న్నాదరఞ్జితమకాలకామదమ్ ।
కాలకామదమనాదరం జిత-
క్లేశమీశమమృతాంశుశేఖరమ్ ॥ ౩॥
భ్రామ్యతు ద్రవిణతృష్ణయా భృశం
మానసం సదినమానసంసది ।
త్వత్స్తవామృతమృతే తు దుస్తరే
బన్ధురధ్వని న బన్ధురధ్వని ॥ ౪॥
సాధు నాథ నుతిరీప్సయా మయా
యా మయార్చిత కృతాత్ర సాధునా ।
సా ధునాతు విపదం భవామయా-
యామయాపనలసద్రసాఽధునా ॥ ౫॥
న మేఽభిభూతస్య పితా న మాతా
న వా సనాభిర్ధనవాసనాభిః ।
అరిస్తు రున్ధే సుహృదా వియుక్తం
సమాధినా మానసమాధినామా ॥ ౬॥
దర్పకాన్తక విరాజమానయా-
ఽదర్పకాన్తకవిరాజమానయా ।
త్వత్ప్రసాదవిధిలబ్ధయా ధియా
సాధవో దధతి వైబుధీం ధురమ్ ॥ ౭॥
యేన శీతకరఖణ్డశేఖర
త్వత్ప్రసాదవశతః కరోత్కరః ।
కోఽపి తామరసభాసనోఽర్జితః
కోపితాఽమరసభాసనోర్జిత ॥ ౮॥
రవిరలఙ్కురుతే నవరఞ్జనం
స కిల యత్తవ దక్షిణమీక్షణమ్ ।
ఇమమపాస్య తమః సహజం శనై-
రవిరలం కురు తేన వరం జనమ్ ॥ ౯॥
మహతామతామసమహావపుషం
తవ భక్తిమర్థితవతాం భగవన్ ।
మహతామతామసమహావపుషం
ప్రథయన్తి కీర్తిమిహ సిద్ధగణాః ॥ ౧౦॥
అధ్యాస్యతే శమజుషా భవతః ప్రసాదా-
దామోదరాజితరుచారు చిరం జనేన ।
దామోదరాజితరుచా రుచిరఞ్జనేన
కీర్ణం తృణేన మృదునా వనమార్తవేన ॥ ౧౧॥
తవ సవహరిణం ఘ్నతీ మహర్షిం
యమకృత చాపలతా నవాసమాధిమ్ ।
పునరపి దృగలమ్భయత్తవైనం
యమకృతచాపలతానవా సమాధిమ్ ॥ ౧౨॥
సభాజనేఽనల్పరతేర్నృపస్య
త్వద్భక్తిభాజః ప్రసభాజనేన ।
సభాజనేన ప్రగుణేన పూర్ణా
విభాతి నిఃశ్రేయసభాజనేన ॥ ౧౩॥
అనన్తరాఽయన్త్రితవాగ్భవస్త్వాం
గృణాతి యో నిత్యమనన్తరాయమ్ ।
అనన్తరాయం స్వయమేత్య లక్ష్మీ-
ర్నిషేవతే తం సమనన్తరాయమ్ ॥ ౧౪॥
సహో మయాద్యైరపి యస్య దుర్ధరం
యమః స ధర్తుం హృది దుఃసహో మయా ।
సహోమయాఽభ్యేత్య భజ ప్రసన్నయా
దృశా కృతానఙ్గభుజాంసహోమయా ॥ ౧౫॥
కలే వరం దాతుముదీరితేఽస్తి యా
సుధా సువాక్యే తవ నిష్కలే వరమ్ ।
కలేవ రఙ్క్వఙ్కతనోరసౌ కదా
మమేదమాప్యాయయతే కలేవరమ్ ॥ ౧౬॥
సదానవారిద్విరదా వరూథినీ
హరేరివ ధ్వస్తసహింసదానవా ।
సదా నవారాద్ధశివా శివాప్తయే
న కస్య గీర్భక్తివికాసదా నవా ॥ ౧౭॥
ఘనైరహన్తాకృతలఙ్ఘనైరహం
మహారిభిర్నిర్మలశర్మహారిభిః ।
నిరాకృతౌజా ధృతహానిరాకృతౌ
న తేఽవలేపావసరో నతేఽబలే ॥ ౧౮॥
మనస్యదోషేఽప్యతిదౌర్మనస్యదో
మహారయః పన్నగభీమహార యః ।
తమన్తకమ్పైకనిమిత్తమన్తకం
నయాశు భఙ్గం హతదుర్నయాశుభమ్ ॥ ౧౯॥
న వారబాణా న హయా నవారవా
న దన్తినః సద్మని వా నదన్తి నః ।
క్షతాపదాజ్ఞా తు విపక్షతాపదా
జితో భవః సాధు హి పూజితో భవః ॥ ౨౦॥
జలాశయా యాన్తి మృగా జలాశయా
మరావలఙ్ఘ్యే ఘ్నతి పామరా బలమ్ ।
పరం హసన్తో జితకోపరంహసం
జనా భవేఽప్యుజ్ఝితపూజనా భవే ॥ ౨౧॥
అమన్దరాగాశ్రితమన్దరాగా-
స్తే దేవజాతావిహ దేవ జాతాః ।
యే సిద్ధసాధ్యార్చిత సిద్ధసాధ్యా
రతా నవం తేనురతానవం తే ॥ ౨౨॥
సదయ మోదయ మోదయమోక్షదం
కృశమదః శమదః శమదః కురు ।
న హి తతా హితతాఽఽహితతాయనైః
కృతనుతే తను తే తనుతే శుభమ్ ॥ ౨౩॥
రసమయే సమయేఽసమయేహయా
ధనమహీనమహీనమహీష్వపి ।
కృతముదాత్తముదాత్తముదాహృతం
తదిదమాపదమాప దమాపహమ్ ॥ ౨౪॥
మదనవాదనవాదనవాసనా-
యతనయాతనయా తనయాఽమ్బుధేః ।
అకృత వై కృతవైకృతవైశసా
సకమలా కమలా కమలాఘవమ్ ॥ ౨౫॥
కమలయాఽమలయా మలయాద్రివ-
త్త్రసదయాసదయా సదయాప్యయా ।
ప్రవరధీవర ధీవర ధీరయా
కలయమాఽలయమాలయమాపదామ్ ॥ ౨౬॥
వితరణాభరణా భరణాభయ-
క్షమమనా మమ నామ మనాగపి ।
శుభవనే భవనే భవ నేప్సిత-
ప్రద రమాఽదరమాదరమాదధే ॥ ౨౭॥
అనయతో నయతో న యతో ధృతి-
ప్రద యమాదయమాదయమాశ్రితః ।
త్రసతి శంసతి శంసతి శం చ యో
ధృతముదం తముదన్తముదఞ్చయ ॥ ౨౮॥
శుభవతా భవతా భవతారిణా
శకలితాఽకలితా కలితాపభూః ।
హర కృతాన్తకృతాన్తకృతాన్త నో
కిమమతా మమతా మమ తాదృశీ ॥ ౨౯॥
విశదశోభయశోభయ శోభయ
త్రిజగదక్షమదక్షమదక్షమ ।
స్వపదమానయ మానయ మా నయ-
క్షతసమక్షయమక్షయమక్షయ ॥ ౩౦॥
ఘనాఽఘనాశనైః శనైర్నవైర్నవైరిహాఽరిహా ।
భవాన్భవాఽన్వహం వహన్నహీనహీనదానదాః ॥ ౩౧॥
దయోదయోర్జితోఽర్జితో మయోమయోచితశ్చితః ।
యతేయ తే హితేహితే రవైరవైరధీరధీః ॥ ౩౨॥
తవాత్తబాధనే ధనే గదం గదన్తి కేఽన్తికే ।
మయాఽఽమయావినా వినా విభో విభోజనా జనాః ॥ ౩౩॥
స్తవాస్తవాఽఽహితా హితా న కేన కేవలం బలమ్ ।
శుభాఽఽశు భారతీ రతీశనాశనాఽఽపదాపదా ॥ ౩౪॥
నతానతానవానవారితారితాపదం పదమ్ ।
హరాహరామి తేఽమితే శమే శమేవమేవ మే ॥ ౩౫॥
పరాఽపరాధబాన్ధవాః సవాసవాః సురాసురాః ।
సదా సదానమానమాశ్రయం శ్రయన్తి యన్తి యమ్ ॥ ౩౬॥
స మా సమాహితం హితం బతాఽవతాదమన్దమమ్ ।
కలఙ్కలఙ్ఘనే ఘనే హ్యబాహ్యవాసనః స నః ॥ ౩౭॥
అలం ఘనా అలఙ్ఘనాస్తపస్యతస్తపస్యతః ।
తనుర్హి మేఽతనుర్హిమేఽఙ్గతానవం గతా నవమ్ ॥ ౩౮॥
మలమలక్షవలక్షబలస్మర-
స్మరణకారణకార కదఙ్కదమ్ ।
హర హరస్వ భజస్వ భజన్ దిశం
దిశ విభాసవిభాసదృశం దృశమ్ ॥ ౩౯॥
భవసమ్భవసంహతమోహతమో-
దమనేదమనేకమశఙ్కమశమ్ ।
సవికాసవికారచిత్తం రచితం
హర మే హర మేదురితం దురితమ్ ॥ ౪౦॥
కృపణం భగవన్ బహుశోఽభిహితం
బహుశోభి హితం దిశ మే వచనమ్ ।
దిశమేవ చ నన్దితమానస తాం
దితమాన సతాం న పతామి యతః ॥ ౪౧॥
మన్యామహే గతిమృతే త్వయి భక్తిమన్యా-
మన్యాయగాం తవ దృశైవ తమఃశమన్యా ।
మన్యాభిధాభృతి నతిం సహతే ధమన్యా-
మన్యాభిధేషు నహి ధీరభిమానిమన్యా ॥ ౪౨॥
మాఽనారతం నిజపరైరుపభుజ్యమానా
మానాతివృత్తవిభవాఽన్వహమేధమానా ।
మా నాథ భూద్భవతు ధీరభినన్ద్యమానా
మానాఽలసైః సుహృదరాతిషు మే సమానా ॥ ౪౩॥
దోషారయస్తరలయన్తి మహామదోషా
దోషా ధృతిం హరతి మోహమయప్రదోషా ।
దోషాకరాఙ్కవపురేష్యతి మాం కదోషా
దోషాత్తకణ్ఠమనిరుద్ధమివోన్మదోషా ॥ ౪౪॥
కా రామణీయకకృతేన్దుకరానుకారా-
కారా వినా తవ కృపాం ప్రథితోపకారా ।
కారాగృహేఽత్ర భవనామని మోచికా రా-
కారాజఖణ్డశిఖర క్షపితాన్ధకారా ॥ ౪౫॥
కాశాన్తచిత్తధృతముక్తిపథాఽవకాశా-
కాశాన్తవర్తిరవివత్ ప్రచురప్రకాశా ।
కాశావకీర్ణఖిలతుల్యకృతాన్తకాశా
కా శామ్భవీం దృశమృతే భృతసేవకాశా ॥ ౪౬॥
కాం తాపతాన్తిముపయాన్తి శుచౌ న కాన్తాః
కాన్తావలమ్బితకరాః స్ఖలితాంశుకాన్తాః ।
కాన్తా హఠాద్వనచరైర్మృదితాలకాన్తాః
కాన్తారగాస్త్వదనురక్తనృపారికాన్తాః ॥ ౪౭॥
మాయాఽర్కరశ్మిపటలీం మరుక్షమాయా-
మాయాసమర్పయతి మే దురితక్రమా యా ।
మాయాః పదం తవ కృపాఽత్ర మహాతమాయా-
మాయాత్యుషేవ హి కదా కలితోత్తమాఽయాః ॥ ౪౮॥
రామాదిసేవ్యభవభక్తిభృతోఽభిరామా-
రామాశ్రితౌషధిరివ క్షతదుస్తరామా ।
రామా సతీవ కృతసాధువిపద్విరామా
రా మాన్యముజ్ఝతి న సద్మ న చాఽస్థిరా మా ॥ ౪౯॥
వారాన్నిధేరివ సుధా తవ దుర్నివారా
వారాణసీవ దృగఘక్షయకృద్ధ్రువారా ।
వారాఙ్గనేవ పృతనేవ చ సాశ్వవారా
వారానువారముదయత్యురుకూర్చవారా ॥ ౫౦॥
భద్రాభిధే గజ ఇవేశమకౢప్తభద్రా
భద్రాసనేఽర్చితవతః కృతభాలభద్రా ।
భద్రా సితా తిథిరివేప్సితదా విభద్రా
భద్రా తనుర్గుణవిడమ్బితరామభద్రా ॥ ౫౧॥
నాఽగాధమాప తవ హృన్మమ ధీరనాగా
నాగాలయం సురపురీవ సకాఞ్చనాగా ।
నాఽగాత్ పరత్ర చ సృజన్త్యకదర్థనా గా
నాగాశ్రితేన్ద్రదిగివోన్నతనన్దనాగా ॥ ౫౨॥
సారాసహాఽపి మమ ధీస్త్వయి మన్దసారా
సారాధనా విహితమోహతమోఽభిసారా ।
సారావకోకిలవచఃసమసూక్తిసారా
సారావలీవ గురుతాపకృతాపసారా ॥ ౫౩॥
సామాత్యభూపసదసీక్షితసూక్తిసామా
సామాజికాహితనుతిః కృతసేర్ష్యసామా ।
సామాన్యవర్త్మ న యయాశ్రయమోజసా మా
సా మాన్యతా త్వయి విభో ముచదఞ్జసా మా ॥ ౫౪॥
ధారా గిరేరివ తరీవ సకర్ణధారా-
ధారాఽర్పణీ తవ దృగూషరవర్షధారా ।
ధారాపురీవ సుఖదా దురితాసిధారా
ధారా పరార్తిహరణే హతషడ్విధారా ॥ ౫౫॥
కాలాయసోపమరుచిర్గలభూః సుకాలా
కాలాగ్నివద్దృగపి తే క్షణదగ్ధకాలా ।
కాలా యథోక్తిరమృదుః క్షతసేవకాలా
కా లాభకృన్మమ వినాఽఽభిరనన్తకాలా ॥ ౫౬॥
ముక్తార్పితస్వపదపూర్ణకృపాఽవిముక్తా
ముక్తార్చనాదిరతినాఽఽర్కిభయాద్విముక్తా ।
ముక్తావలీవ విమలా త్వయి గీరముక్తా
ముక్తాన్యమార్గగమనేన మయేయముక్తా ॥ ౫౭॥
కల్పాహ్వవల్లిరివ ధౌతవిపద్వికల్పా
కల్పాఞ్చితా కృతనుతిర్భవతీన్దుకల్పా ।
కల్పాఖ్యసూత్రవిదురాగమదృష్టకల్పాఽఽ-
కల్పాక్షయాఽస్తు మమ గీరమృతానుకల్పా ॥ ౫౮॥
సహసాఽర్క ఇవాఽస్మి కృతః సహసా-
ఽసహసారభృదాత్మభువా సహసా ।
స హ సాయకమస్యతి యా సహసా
సహసాధ్వసమేత్యపి దుఃసహసా ॥ ౫౯॥
జనయాఽశుచమార్తమభాజనయా-
జనయాచనరఞ్జనవేజనయా ।
జనయామలఖిన్నమఖఞ్జనయా-
ఽజనయాఽమృతమాత్మనియోజనయా ॥ ౬౦॥
శమనాయ శుచాం త్వముమేశ మనాక్
శమనార్తికరః కృతభీశమ నా ।
శమనామయ దేహి విపాశమనా-
శమనాథజనప్రథితాశమనాః ॥ ౬౧॥
మధునాశినాఽర్చిత సమం మధునా
మధునామపుష్పజనుషా మధునా ।
మధునాఽలసామివ వధూమధునా-
మధునాప్లుతాం త్వయి గిరం మధునా ॥ ౬౨॥
వసు ధాన్యముజ్ఝితుమపీవసు ధా-
వ సుధాసితచ్ఛవియశోవసుధా ।
వసుధాతృవన్ద్య యదసావసుధా
వసుధామ దృక్తవ నవేవ సుధా ॥ ౬౩॥
సమయాసిషుః క్వ న వికాసమయాః
సమయాపతిం జగతి యం సమయా ।
సమయా భవన్తి చ విలాసమయాః
స మయా గిరాఽర్చ్యత సుధాసమయా ॥ ౬౪॥
కలికాలతామ్యదమృతోత్కలికా
కలికాతరే హృది నవోత్కలికా ।
కలికా స్రజీవ జితశాకలికా-
ఽకలి కాన్తిభృచ్చ ముకుటే కలికా ॥ ౬౫॥
కలయాఽఽశ్రితం విరుజమేకలయా
కలయా విధోర్దలితపాకలయా ।
కలయా గిరా చ సకలాఽకల యా
కలయా వినా విహితశోకలయా ॥ ౬౬॥
పరమారకాఽన్తకకృతోపరమా-
ఽపరమానతం తవ దృశాఽఽప రమా ।
పరమార్థసద్గుణపరమ్పర మా
పరమార్త్తముజ్ఝ కరుణాపర మా ॥ ౬౭॥
కలకలకలకలకణ్ఠవదస్మా-
నవ నవనవనవరోచితవాచః ।
భవ భవ భవభవభీతిభిదస్య-
న్మదమదమదమదనాఽన్తక దూరమ్ ॥ ౬౮॥
అవికలకల కలకలకలకణ్ఠం
దిశ నవనవనవనవన వరవచః ।
సవిభవ భవ భవ భవభవభయభి-
ద్ధర మదమదమదమదమదయమిమమ్ ॥ ౬౯॥
దేవ్యాం భ్రమద్భ్రువి జయావిజయార్చితాయాం
సక్తా తవాఽస్తవిజయా విజయాయ దృష్టిః ।
వృష్ట్యేవ భూర్దివిజయా విజయాఖ్యయా తే
మూర్త్త్యా త్రసద్రవిజయాఽఽవి జయాహ్వయా చ ॥ ౭౦॥
హరముపేత రసాదమలం ఘనం
దమలఙ్ఘనం తనుత మా కృతినః ।
తనుతమాకృతి నః శ్రయతాఽఽదృతం
శ్రయతాదృతం భవత ఇత్యుదితమ్ ॥ ౭౧॥
శమితసఙ్గమసజ్జనతాపదం
శమితసఙ్గమసజ్జనతాపదమ్ ।
నమతకామమహీనవిభాసితం
నమత కామమహీనవిభాసితమ్ ॥ ౭౨॥
కలితమోహనమారవరాజితం
స్మర హరం శిఖిచన్ద్రకలాఞ్ఛితమ్ ।
కలితమోహనమారవరాజితం
స్మరహరం శిఖిచన్ద్రకలాఞ్ఛితమ్ ॥ ౭౩॥
అసౌ హృదన్తర్హితమోహరోధనే
సదా యతే రక్ష యశో భియో జయ ।
అసౌహృదం తర్హి తమోహరో ధనే
సదాయతేరక్షయశోభి యోజయ ॥ ౭౪॥
సకలశం సకపాలమలఙ్కృత-
ప్రమదమస్థిరసం మదనాశనమ్ ।
భవమదభ్రమహానిధనే హితం
శమనమజ్జనమానమతాఽలయమ్ ॥ ౭౫॥
సకలశంసకపాలమలం కృత-
ప్రమదమస్థిరసమ్మదనాశనమ్ ।
భవమదభ్రమహానిధనేహితం
శమనమజ్జనమానమతాలయమ్ ॥ ౭౬॥
తనుశఙ్కరవైరసమాఽయతయా-
ఽతను శఙ్కర వై రస మాఽయతయా ।
తను శం కరవై రసమాయతయా-
ఽతనుశం కర వైరసమాయతయా ॥ ౭౭॥
ప్రకాశకలితాపదం శకలితాపదం శంసతా-
మసారసమయే హితం రసమయేహితం శఙ్కరమ్ ।
హృది స్మరత రఙ్గితం స్మరతరఙ్గితం శాన్తతాం
నయన్తమసమానసన్తమసమానసం చాన్తకమ్ ॥ ౭౮॥
ఇయం విచిత్రతావిరాజితా మయా మనోహరా
జితామయా మనో హరాఽఽహితా నుతిర్ధినోతు తే ।
త్వయి ప్రసన్నమానసేఽసమస్తమోహరాశయే
సమస్తమోహరాశయే కరోమి న స్పృహాం పునః ॥ ౭౯॥
కాన్తా కాన్తారమధ్యే సరిదివ సకులక్ష్మాధరాయాం ధరాయాం
యాతా యా తారతమ్యం క్వ న విమలమతిప్రేక్షణేన క్షణేన ।
సాభాసా భారతీయం తనురివ తరణేరన్ధకారేఽన్ధకారేః
స్తుత్యా స్తుత్యా బుధానాం మదయతు హృదయం గ్లానితాన్తం నితాన్తమ్ ॥ ౮౦॥
వర్షావర్షాయమాణా సహృదయశిఖినాం సంహితానాం హితానాం
దాత్రీ దాత్రీ తృణానామివ లవనపటుర్దుష్కృతానాం కృతానామ్ ।
కల్యా కల్యాణదానే నుతిరియమశుభం తర్జయన్తీ జయన్తీ
విశ్వం విశ్వమ్భరాన్తం ప్రసరతు సురభీనన్దనస్యన్దనస్య ॥ ౮౧॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``మహాయమకస్తోత్రం'' నామకం త్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౧. నతోపదేశస్తోత్రం ఏకత్రింశం స్తోత్రమ్
మనః సమాధౌ పరమాన్తరఙ్గం
విధాయ నిఃస్పన్దమనుత్తరఙ్గమ్ ।
బుధా విధాతుం భవభీతిభఙ్గం
విభుం భజధ్వం గిరిజాభుజఙ్గమ్ ॥ ౧॥
పాశ్యావశేనేవ మహావిహఙ్గం
వల్గాబలేనేవ మహాతురఙ్గమ్ ।
నిరుధ్య యోగేన మనఃప్లవఙ్గం
విభుం భజధ్వం గిరిజాభుజఙ్గమ్ ॥ ౨॥
మన్త్రౌషధాదిక్రియయా భుజఙ్గం
యథా యథా వాగురయా కురఙ్గమ్ ।
మనస్తథాఽఽయమ్య ధియాఽస్తసఙ్గం
విభుం భజధ్వం గిరిజాభుజఙ్గమ్ ॥ ౩॥
భిత్త్వాఽలికం సభ్రుకుటీవిభఙ్గం
యస్యాఽగ్నిరుద్యన్రభసాదనఙ్గమ్ ।
దదాహ తం మోహతమఃపతఙ్గం
విభుం భజధ్వం గిరిజాభుజఙ్గమ్ ॥ ౪॥
వహన్తముద్దామభుజఙ్గమఙ్గం
జటాభరం నిర్భరనాకగఙ్గమ్ ।
విలోచనం చాగ్నిశిఖాపిశఙ్గం
విభుం భజధ్వం గిరిజాభుజఙ్గమ్ ॥ ౫॥
భవబన్ధబద్ధవిధురోద్ధరణం
ఫణిమణ్డలజ్వలదలఙ్కరణమ్ ।
వ్రజత క్షమాధరదరీశరణం
శరణం తుషారకిరణాభరణమ్ ॥ ౬॥
కృతఘస్మరస్మరనిరాకరణం
కటుకాలకూటకవలీకరణమ్ ।
వ్రజత ప్రపన్నజనతాశరణం
శరణం తుషారకిరణాభరణమ్ ॥ ౭॥
మరుమేదినీరచితసఞ్చరణం
త్రిదశేన్ద్రశేఖరసరచ్చరణమ్ ।
వ్రజత త్రిదుఃఖహరణస్మరణం
శరణం తుషారకిరణాభరణమ్ ॥ ౮॥
ప్రణతం జనం జితజరామరణం
రచయన్తమాప్తభవనిస్తరణమ్ ।
వ్రజతాఽఽహితత్రిపురసంహరణం
శరణం తుషారకిరణాభరణమ్ ॥ ౯॥
అవధూతమోహతిమిరావరణం
కరికృత్తికల్పితపరావరణమ్ ।
వ్రజత ప్రకల్పితపురేశరణం
శరణం తుషారకిరణాభరణమ్ ॥ ౧౦॥
తరుణతమాలమలీమసనాలం
జ్వలనశిఖాపటలోజ్జ్వలభాలమ్ ।
శిరసి లసత్పరమేష్ఠికపాలం
శ్రయత విభుం హతకల్మషజాలమ్ ॥ ౧౧॥
నరముఖకల్పితశేఖరమాలం
నతజనజమ్భితమోహతమాలమ్ ।
నయనశిఖాశతశాతితకాలం
శ్రయత విభుం హతకిల్విషజాలమ్ ॥ ౧౨॥
విషమవిషాగ్నిశిఖావికరాలం
ఫణిపతిహారమతీవవిశాలమ్ ।
గలభువి బిభ్రతముగ్రసిరాలం
శ్రయత విభుం హతకల్మషజాలమ్ ॥ ౧౩॥
విదలయితుం యమృతే భవతాలం
త్రిభువనసీమని కశ్చన నాఽలమ్ ।
తమమలమానసవాసమరాలం
శ్రయత విభుం హతకిల్బిషజాలమ్ ॥ ౧౪॥
కమలపరాగపిశఙ్గజటాలం
జలధిసమర్పణతర్పితబాలమ్ ।
భవభటభఙ్గమహాకరవాలం
శ్రయత విభుం హతకల్మషజాలమ్ ॥ ౧౫॥
అతిఘస్మరభస్మరజోధవలం
నతలోకసమర్పితబోధబలమ్ ।
ధ్వజధామవిరాజిమహాధవలం
భజత ప్రభుమద్రిసుతాధవలమ్ ॥ ౧౬॥
ప్రభయా పరిభూతదలద్గవలం
గలమఙ్గదరత్నశిఖాశబలమ్ ।
దధతం విషకౢప్తమహాకవలం
భజత ప్రభుమద్రిసుతాధవలమ్ ॥ ౧౭॥
శిఖరం ద్యునదీలహరీతరలం
గలమూలముపోఢమహాగరలమ్ ।
దధతం హృదయం చ సుధాసరలం
భజత ప్రభుమద్రిసుతాధవలమ్ ॥ ౧౮॥
అపనీతకుకర్మకలఙ్కమలం
నతలోకవితీర్ణమహాకమలమ్ ।
దదతం శుభసిద్ధివిపాకమలం
భజత ప్రభుమద్రిసుతాధవలమ్ ॥ ౧౯॥
దదతం వచనం ఘనహాసకలం
నమతాం దలయన్తమఘం సకలమ్ ।
భజతాం చ దిశన్తమభీష్టఫలం
భజత ప్రభుమద్రిసుతాధవలమ్ ॥ ౨౦॥
అవిరతనతిపరసురవరశిఖర-
ప్రణిహితమణిగణమసృణితచరణమ్ ।
సితకరకరభరధవలితముకుటం
ప్రణమత పురహరమశరణశరణమ్ ॥ ౨౧॥
భవభవపరిభవధుతవిధురధియా-
మధిగతశమదమనియమితమనసామ్ ।
అభిమతవితరణపరిణతకరుణం
ప్రణమత పురహరమశరణశరణమ్ ॥ ౨౨॥
తనుతృణగణనిభమనసిజశమన-
ప్రశమనపరిచితహుతవహమహితమ్ ।
పరహితకృతమతిమతిమృదుహృదయం
ప్రణమత పురహరమశరణశరణమ్ ॥ ౨౩॥
దినకరహిమకరహుతవహనయనం
పదకరకచభరధృతసితకిరణమ్ ।
విఘటితనతజనఘనతమతమసం
ప్రణమత పురహరమశరణశరణమ్ ॥ ౨౪॥
అవిరలజలభరసురసరిదుదయ-
త్సరసిజభరనిభధృతనరశిరసమ్ ।
భవదవహుతవహవిదలనజలదం
ప్రణమత పురహరమశరణశరణమ్ ॥ ౨౫॥
జహత కల్పితకలుషలోచనతిమిరభఞ్జనమఞ్జనం
త్యజత దుఃస్థితహృదయనన్దనమలయచన్దనరఞ్జనమ్ ।
భజత నిర్జితవిషమవైభవభవమహార్ణవమజ్జనం
క్షితిధరాధిప దుహితృవల్లభచరణపఙ్కజపూజనమ్ ॥ ౨౬॥
(క్షితిధరాపతిపుత్రికాపతిపాదపఙ్కజపూజనమ్)॥ ౨౬॥
సకలకలిమలపటలపన్నగనిగడఖణ్డనపణ్డితం
విశదశశధరశకలశోభితముకుటమణ్డనమణ్డితమ్ ।
హృదయమీహితుమభయమున్మదమదనదుర్నృపదణ్డితం
భజతదుస్తరదురితవారిధితర(వర)తరణ్డమఖణ్డితమ్ ॥ ౨౭॥
జితసుధాకరగిరిసుతాకరసరసిజాదరలాలితం
నతపురన్దరరుచిరశేఖరకుసుమకేసరరఞ్జితమ్ ।
ద్రుహిణమాధవకుముదబాన్ధవకమలినీధవసేవితం
వితర మూర్ధని చరణపఙ్కజమమృతశీకరశీతలమ్ ॥ ౨౮॥
అవటమజ్జనజనితతర్జనవృజినభఞ్జనసాధనం
కృతనమజ్జనహృదయరఞ్జనచిరనిరఞ్జనపూజనమ్ ।
త్రిపురమారణదురితదారణదరనివారణకారణం
వితర మూర్ధని చరణపఙ్కజమమృతశీకరశీతలమ్ ॥ ౨౯॥
ఇదమకృత్రిమరసమసమ్భృతబహువిధౌషధసాధనం
స్తుతిరసాయనమయముపాయనమనుగృహాణ గృహాణ మే ।
వరముదాహర వరముదా హర పరమదాహరుజాహరం
వితర మూర్ధని చరణపఙ్కజమమృతశీకరశీతలమ్ ॥ ౩౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``నతోపదేశస్తోత్రం'' నామైకత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౨. శరణాగతోద్ధరణం ద్వాత్రింశం స్తోత్రమ్
భవమరుభ్రమవిషమసమ్భ్రమసముదితక్లమవిక్లవం
కులిశకర్కశహృదయదుర్జనకృతపరాభవవిప్లవమ్ ।
అతిభయఙ్కరరవిజకిఙ్కరవికృతహుఙ్కృతికాతరం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౧॥
కృతనికేతనమకరకేతనదలితచేతనవేతనం
లలితలోచనవరవధూజనవచనతర్జనభాజనమ్ ।
గుణలవోద్గతగురుమదజ్వరజనితతీవ్రరుజాతురం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౨॥
ప్రముఖపేశలవిషమవైశసవిషయపాశవశీకృతం
ప్రకృతిదుర్గ్రహగురుపరిగ్రహనిబిడపీడితవిగ్రహమ్ ।
జ్వలదనర్గలభవదవానలకవలితాకులచేతసం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౩॥
పవనవేల్లితకమలినీదలతలచలజ్జలచఞ్చలం
విభవయౌవనసుతసుఖాదికమితివివేకవిసంస్థులమ్ ।
బలవదిన్ద్రియకపటతస్కరహఠవిలుణ్ఠనవిహ్వలం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౪॥
సమదనన్దనమదనమర్దన దురితతర్దనలోలుభం
భువనభావన పరమపావన సుదృఢభావనమానతమ్ ।
శశికలాఞ్ఛితముకుటలాఞ్ఛిత విఫలవాఞ్ఛితమాకులం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౫॥
జగదనుగ్రహమహితవిగ్రహ కృతపరిగ్రహసద్గ్రహం
త్రిపురశాసన శబలవాసనమసదుపాసనలాలసమ్ ।
ఘనచమత్కృతికృతనమస్కృతిముచితసత్కృతిసస్పృహం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౬॥
వరద నన్దయ విపదమర్దయ కిమితి నిర్దయతేదృశీ
కృతనివేదనమతులవేదనముదితఖేదనవాపదమ్ ।
దిశ యశోధన హృదయశోధనవిమలబోధనదీం దృశం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౭॥
అభయమర్పయ కపటమల్పయ శిరసి కల్పయ మే పదం
ముఖముదఞ్చయ వచనమఞ్చయ వరద వఞ్చయ మా నతమ్ ।
భృశమవిశ్రమకృతపరిశ్రమశతమతిశ్రమనిఃసహం
చతురముద్ధర హర జగద్ధరమశరణం శరణాగతమ్ ॥ ౮॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``శరణాగతోద్ధరణం'' నామకం ద్వాత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౩. కర్ణపూరస్తోత్రం త్రయస్త్రింశం స్తోత్రమ్
కాఞ్చీకాఞ్చనకిఙ్కిణీకలకలః శిఞ్జానమఞ్జీరజో
ఝాఙ్కారః సకలాఙ్గభూషణమణిశ్రేణీఝణాడమ్బరః ।
వాగ్దేవ్యాః ప్రచలస్ఖ (ప్రచలోచ్ఛలత్)లద్భుజలతాక్షేపక్వణత్కఙ్కణ-
క్వాణశ్చఙ్కమణక్రమే విజయతే చన్ద్రార్ధమౌలేః స్తవః ॥ ౧॥
స్వామిన్ వాఙ్మయదేవతా భగవతీ స్వేచ్ఛావిహారక్రియా-
క్రీడాకాననమాననం భవ భవద్భక్తస్య నూనం వ్యధాత్ ।
నోచేన్నూతననూతనః ప్రతిదినం హృద్యః సముద్యన్క్రమా-
దస్మిన్నుజ్జ్వలవర్ణకోమలపదన్యాసః కథం లక్ష్యతే ॥ ౨॥
స్వైరం కైరవిణీకుటుమ్బకలికాలఙ్కార సారస్వత-
స్ఫారస్వారసికప్రసాదవిశదస్వాధీనవాగ్దేవతాః ।
ధన్యాః సత్కవయస్తవ స్తవనిభాత్త్వద్భక్తిభాజాం విప-
త్తాపాఽపాకృతయే దిశన్తి శిశిరస్నిగ్ధాః సుధావిప్రుషః ॥ ౩॥
యస్య త్వన్నమనైః శిరోదశశతీ సౌన్దర్యసన్దర్శనై-
శ్చారిత్రశ్రవణోత్సవైశ్చ భవతశ్చక్షుఃసహస్రద్వయమ్ ।
సాఫల్యం రసనాసహస్రయుగలం త్వత్కీర్తనైశ్చాశ్నుతే
త్రైలోక్యాద్భుతమూర్తయే భగవతే శేషాయ తస్మై నమః ॥ ౪॥
రాకేన్దోరపి మాధవాదపి సతాం సఙ్గాదపి స్వామినః
సమ్మానాదపి కామినీకుచయుగాభోగోపభోగాదపి ।
శమ్భో శర్వ శశాఙ్కశేఖర శివ శ్రీకణ్ఠ విశ్వేశ్వర
త్రాయస్వేతి సతాం హరన్తి హృదయం సాన్ద్రామృతార్ద్రా గిరః ॥ ౫॥
శ్యామాకాముకమాధవాదివిరసం నాసీరకస్తూరికా-
కాశ్మీరాదినిరాదరం మలయజాలేపావలేపావహమ్ ।
కుర్వన్తి ప్రవిధూతనూతనవధూగాఢాఙ్గసఙ్గస్పృహం
చేతః కస్య న శామ్భవస్తవసుధాసిక్తాః సతాం సూక్తయః ॥ ౬॥
యస్యైతాః స్తవసూక్తయస్తవ ముఖే ఖేలన్తి హేలాజిత-
జ్వాలాజాలజటాలకాలరసనాసంరమ్భసమ్భావనాః ।
వల్గన్త్యస్య పురః పురన్దరపురీకాన్తాకటాక్షచ్ఛటా-
బాణశ్రేణిశరవ్యదివ్యవపుషః స్వర్వన్దివృన్దోక్తయః ॥ ౭॥
హర్షోత్కర్షవివర్ద్ధినీః పరిణతక్షౌద్రద్రవస్పర్ధినీ-
ర్ధన్యానాం మధురాస్తవ స్తవగిరః కర్ణే చిరం కుర్వతామ్ ।
మాన్ద్యం విన్దతి నన్దనేన్దువదనాసన్దిగ్ధముగ్ధాధర-
ప్రోన్మీలన్మధుబిన్దుసున్దరసుధాసన్దోహదో దోహదః ॥ ౮॥
సద్విద్యాభ్యసనః సభానివసనః సౌధాసనాధ్యాసనః
శుద్ధాన్నగ్రసనః సుధౌతవసనః సత్సాధ్వసధ్వంసనః ।
సహ్లాదోల్లసనః ప్రసన్నహసనః సమ్పన్నసద్వాసనః
సత్కావ్యవ్యసనః సుధార్ద్రరసనః శమ్భోః కృతోపాసనః ॥ ౯॥
రాకాకాన్తరుచః క్షతాఖిలశుచః పీయూషధారాముచః
స్వాన్తక్లాన్తిహృతశ్చమత్కృతికృతః సఙ్గీతభఙ్గీభృతః ।
శమ్భోరమ్బుదనాదవిహ్వలవలద్బాలాఙ్గనాలిఙ్గన-
హ్లాదస్వాదసుఖస్పృహామిహ జహత్త్యన్తర్మృశన్తః స్తుతీః ॥ ౧౦॥
సారాసారవిదః సతాం భయభిదః ప్రహ్వోపతాపచ్ఛిదః
కారుణ్యార్ద్రహృదః ప్రసన్నసుహృదః స్ఫారీభవత్సంవిదః ।
త్రాతాశేషవిశః ప్రకాశితదిశః కీర్త్యా మహీనిర్విశః
కర్షన్తీశ నిశః ప్రసక్తసుదృశస్త్వత్పాదపీఠస్పృశః ॥ ౧౧॥
దుర్ధర్షర్ద్ధిపుషః సహర్షవపుషస్తర్షప్రకర్షప్లుషః
సర్వోత్కర్షజుషః క్షణక్షతరుషః కల్యాణపూర్ణాయుషః ।
ఉత్సర్పత్సహసః సమిద్ధమహసః క్షిప్తోర్జితానేహస-
శ్చిత్తాన్తప్రహసః సుఖాప్తరహసస్త్వద్ధ్యానధౌతాంహసః ॥ ౧౨॥
కాలం బాలకురఙ్గకేతనకృతోత్తంసప్రశంసామృత-
స్యన్దాస్వాదవినోదనైర్యదనయన్నిఃస్పన్దమన్దం మనః ।
తస్యాన్యత్ర కవిక్రమే కమలినీకిఞ్జల్కపానోత్సవ-
వ్యగ్రస్యేవ మధువ్రతస్య కుసుమేఽన్యస్మిన్కథం స్యాద్రతిః ॥ ౧౩॥
ఖట్వాఙ్గే ముకుటే కరే శ్రవణయోః ప్రాయేణ యో భూషణం
బ్రహ్మోపేన్ద్రపురఃసరామరశిరఃశ్రేణిం బిభర్తి ప్రభుః ।
తత్పాదామ్బుజభక్తిభావితమతిర్ధన్యః శిరోభూషణ-
ఖ్యాతిం నిశ్చితమశ్నుతే త్రిభువనప్రష్ఠప్రతిష్ఠాజుషామ్ ॥ ౧౪॥
రోహన్మోహమహీరుహోరుపరశుర్దుర్వారమారజ్వర-
ప్లోషోల్లాఘభిషగ్విషౌఘవిషమక్లేశోగ్రశాపావధిః ।
తామ్యల్లోచనచక్రవాకమిథునబ్రధ్నోదయశ్చన్ద్రికా-
పూరశ్చిత్తచకోరకస్య జయతి శ్రీకణ్ఠపూజావిధిః ॥ ౧౫॥
అర్చాం వీక్ష్య విచిత్రచారురచనాం చన్ద్రార్ధచూడామణే-
ర్వ్యక్తిం భక్తిచమత్కృతిః కృతధియో యస్యైతి చిత్తే ముహుః ।
తస్మిన్సస్పృహమర్పితాః సచకితాః సాచీకృతాః సస్మితాః
సాకూతాశ్చ పతన్తి పక్ష్మలదృశాం ప్రేమామృతార్ద్రా దృశః ॥ ౧౬॥
స్వామిన్ సౌమనసం నిబధ్య వపుషి స్రగ్దామ దృగ్దామభి-
ర్భస్మీభావితమన్మథస్య భవతో భిన్దన్తి భక్తిస్పృశః ।
దోలాన్దోలనవిహ్వలేన్దువదనాదోఃకన్దలీచన్దన-
స్యన్దానన్దనిమీలితార్ధనయనాస్తాపవ్యథాం మాన్మథీమ్ ॥ ౧౭॥
స్వామిన్ యస్తవ పాదపఙ్కజయుగం భక్త్యాఽభ్యషిఞ్చన్ముహుః
పూజాన్తేషు నమన్నమన్దముదితానన్దాశ్రులేశోత్కరైః ।
తస్యాఙ్ఘ్రీ లలితాక్షిపక్ష్మపటలప్రాన్తస్రుతార్ణఃకణ-
శ్రేణీభిః స్నపయన్త్యనఙ్గవిగలన్మానాః కురఙ్గీదృశః ॥ ౧౮॥
త్వామక్షామశుభానుభావవిభవం భాలాగ్నికీలావలీ-
సంరమ్భాదభియోక్తుమక్షమతయా సాక్షాదుపేక్ష్య స్మరః ।
నూనం హన్తి నిరన్తరం భవ భవత్సేవైకహేవాకినం
కర్ణాభ్యర్ణవలత్కటాక్షవిశిఖశ్రేణీభిరేణీదృశామ్ ॥ ౧౯॥
ఆదౌ భక్తివయస్యయా పరిచయాన్నీతోన్ముఖత్వం శనై-
రారూఢా విషమేషువర్త్మసు చిరం భ్రాన్తాఽథ తాన్తేః పదమ్ ।
దూతీకృత్య నవానవద్యవచసం దేవీం పురో భారతీ-
మేషా త్వాముపగన్తుమిచ్ఛతి పతిం ప్రోద్దామకామా మతిః ॥ ౨౦॥
ధూమోద్గారగభీరఘస్మరవపుర్నిర్భర్త్సితార్కప్రభం
స్ఫూర్జత్ఫూత్కృతకర్బురీకృతసితశ్రీకాన్తదేహద్యుతి ।
గ్రాసీకర్త్తుముదగ్రవిగ్రహగలద్వహ్నిస్ఫులిఙ్గం విషం
కో జగ్రాహ కరేఽమరేశ్వరనుతస్త్వామన్తరేణాఽపరః ॥ ౨౧॥
క్రోధోద్భ్రాన్తకృతాన్తకిఙ్కరకరద్రోణీముఖప్రేఙ్ఖిత-
వ్యాలాలిఙ్గితకన్ధరః ప్రకటయన్నాక్రన్దదీనాం గిరమ్ ।
చక్షుర్దిక్షు విదిక్షు చ క్షతధృతిర్నిక్షిప్య రక్షాక్షమం
కాఙ్క్షన్కం శరణం వృణోతి మరణే త్వామన్తరేణాతురః ॥ ౨౨॥
వర్షన్తీ భవదోషపోషపరుషప్లోషప్రమోషక్షమం
పీయూషం విశదాంశు(డశనాంశు)భిర్దశ దిశత్కాశప్రకాశా దిశః ।
కర్షన్తీ విషమం తమః ప్రమథితాలోకస్య లోకస్య గీ-
శ్చాన్ద్రీ మూర్ధ్ని కలేవ దేవ భవతో వక్త్రే విధత్తాం పదమ్ ॥ ౨౩॥
యత్పర్యాప్తకృపావిపాకవికసన్మాధుర్యధుర్యం తవ
స్వాన్తం భీమభవోపతాపవిపది స్ఫీతాఽవహేలం మయి ।
స్వామిన్నేష విధిర్మమైవ విధురో దూరాధ్వఖిన్నో జన-
స్తీరాద్రత్ననిధేర్వ్యపైతి విఫలః స్వైరేవ దుష్కర్మభిః ॥ ౨౪॥
యత్సౌన్దర్యసముద్రసాన్ద్రలహరీహేలాచలచ్చామర-
వ్యగ్రాఙ్గాఙ్గులిబాలమాలవవధూదృక్పాతపాత్రం వపుః ।
సేవాసన్నిధిశంసిసమ్భ్రమనమత్సామన్తమౌలిస్థలీ-
లీఢాఙ్ఘ్రిద్వయముద్వహన్తి కృతినః సౌభాగ్యభాగ్యాస్పదమ్ ॥ ౨౫॥
యచ్చ ప్రేఙ్ఖదఖర్వగర్వఘటితభ్రూభఙ్గభీమాకృతి-
క్ష్మాభృత్పాశముఖావలోకనఘనప్రోల్లఙ్ఘనాభీరుభిః ।
ఉన్మీలన్మృదుశాద్వలే తరుతలే స్వర్ల్లోకకల్లోలినీ-
కూలే మూలఫలాశనైః శమసుధాస్వాదార్థిభిః స్థీయతే ॥ ౨౬॥
యచ్చాఽస్మిన్భవడమ్బరే పరిణమన్మన్దానిలాన్దోలన-
వ్యాలోలన్నలినీదలాఞ్చలచలప్రాలేయలేశోపమే ।
దుష్కాలవ్యసనావసన్నజనతాసన్తాపనిర్వాపణ-
వ్యాపారైకసుకర్మనిర్మలఫలారమ్భైః సుఖం జీవ్యతే ॥ ౨౭॥
నిఃశఙ్కం వికలఙ్కమఙ్కవికసల్లక్ష్మీకటాక్షేక్షితం
యన్మానుష్యముపేత్య నిత్యముదితా నన్దన్తి దన్తివ్రజైః ।
యచ్చాన్తే పురుహూతవారవనితాగీతామృతాకర్ణన-
ప్రోన్మీలత్పులకావకీర్ణవపుషః స్వర్మధ్యమధ్యాసతే ॥ ౨౮॥
సోఽయం సర్వజగత్ప్రభోరశరణత్రాణైకహేవాకినః
కారుణ్యామృతసాగరస్య గిరిజాభర్తుః పరోఽనుగ్రహః ।
కస్తం న స్తుతిభిర్విమర్శరసికః ప్రౌఢార్పితప్రీతిభిః
ప్రాప్తుం శర్మదకర్మనిర్మలఫలం నన్దత్యమన్దాదరః ॥ ౨౯॥
దృష్టిః పీయూషవృష్టిర్మధురమధురసస్యన్దినీ దేవ వాణీ
పాణీ త్వత్పాదపీఠీపరిమలనరజోరాజిమైత్రీపవిత్రౌ ।
చేతః స్వచ్ఛన్దచర్యాపరిణతకరుణారామవిశ్రామధామ
త్వామక్షామప్రసాదామృతజలధిమహో భేజుషామేష పాకః ॥ ౩౦॥
తస్యైకస్యాఙ్ఘ్రిపీఠం స్ఫుటముకుటమణిప్రౌఢరోచిఃప్రతానైః
క్షోణీపాలాః శిరోభిః కరపుటఘటితైరఞ్జసా రఞ్జయన్తి ।
ధత్తే ధన్యః స చైకః సితరుచిరుచిరచ్ఛత్రశుభ్రోత్తరీయాం
లక్ష్మీముద్దామరామాకరకమలచలచ్చామరోదారహారామ్ ॥ ౩౧॥
తం వాణీభిర్గృణన్తి శ్రవణపుటసుధాస్యన్దినీభిర్మునీన్ద్రా
గీతైర్గాయన్తి విద్యాధరవరవనితాస్తస్య చిత్రం చరిత్రమ్ ।
విద్వద్గోష్ఠీషు తస్య ప్రసరతి కృతినో దానదాక్షిణ్యవార్తా
కీర్తిర్జాగర్తి తస్య ప్రవరకవివచోభఙ్గిసన్మఙ్గలేషు ॥ ౩౨॥
కిం వాఽన్యన్నైష పశ్యత్యలమనలశిఖాపిఙ్గజిహ్వాస్ఫులిఙ్గ-
స్ఫూర్జద్దంష్ట్రాకరాలం భ్రుకుటికుటిలితం భీషణం కాలవక్త్రమ్ ।
స్వామిన్మన్దానిలాన్దోలితలలితలతానృత్తకాన్తే వనాన్తే
శాన్తేర్ష్యస్త్వామవిద్యాజడజగదగదఙ్కారమారాధయేద్యః ॥ ౩౩॥
ఆకర్ణాకృష్టచాపః ప్రహరతి నిభృతం నిర్నిమిత్తాపకారీ
నారీనేత్రాన్తతిర్యగ్వివలనవిశిఖశ్రేణిభిః పుష్పచాపః ।
ఫూత్కారస్ఫారఫాలః స్ఫురదురుగరలజ్వాలజిహ్వాజటాలః
కాలవ్యాలః కరాలః కవలయతి వపుర్హన్తుకామః క్వ యామః ॥ ౩౪॥
తస్మాదస్మాకమాకస్మికవికసదసత్కర్మపాకోపతాప-
వ్యాపత్తాపాతురాణామవిరలకరుణాసిన్ధురాపన్నబన్ధుః ।
భక్తిశ్రద్ధాప్రబన్ధానమదమరశిరఃశ్రేణిమాణిక్యమాలా-
జ్వాలాలీఢాఙ్ఘ్రిపీఠః శరణమశరణత్రాణశీలస్త్వమేకః ॥ ౩౫॥
యా నిఃశేషౌషధీనాం జనిరజని పునర్న క్వచిత్కమ్పసమ్ప-
త్సమ్పర్కో యత్ర యత్ర స్థితిరుపరి పరిభ్రంశభాజాం జనానామ్ ।
ఏషా శేషాహిపీఠప్రకటితవసతిః సమ్పదాం భూతధాత్రీ
పాత్రీకుర్వత్యజస్రం జనమనఘమఘః ప్రక్రమస్తే నమస్తే ॥ ౩౬॥
సంసారేఽస్మిన్నసారే పరమిహ కుశలం కర్మ ధర్మప్రధానం
ధర్మః శర్మప్రదోఽపి ప్రభవతి సుధియాం సిద్ధయే శుద్ధిహేతోః ।
శుద్ధౌ బద్ధస్పృహాణాం న భవతి కృతినాం యద్వినాఽఽపద్వినాశ-
స్త్రైలోక్యాప్యాయకం తజ్జలమపి భగవన్ విభ్రమస్తే నమస్తే ॥ ౩౭॥
యం ముక్త్వా జీవయన్తం జగదగదమదః సన్తతం సన్తమన్త-
ర్జన్తూనాం శీతభీతిప్రకటితవిపదామస్తి న స్వస్తిహేతుః ।
గీర్వాణానాం హవిర్భిర్గ్లపయతి విపదం యజ్వనామప్యనల్పైః
సఙ్కల్పైః కల్పితైర్యః స భవతి విభవః పావకస్తే నమస్తే ॥ ౩౮॥
అన్తః సన్తిష్ఠమానః స్థగయతి జగతాం పఞ్చతాం పఞ్చధా యః
సన్ధాయ స్థాయిభావం ప్రసరతి సతతం యత్ర తేజస్విచక్రమ్ ।
యత్ర స్థైర్యం బిభర్తి త్రిభువనభవనం బిభ్రదాధారభూతాం
భూతానాం మూర్తిమేష ప్రథయతి విభుతాం మారుతస్తే నమస్తే ॥ ౩౯॥
యత్ర బ్రహ్మాణ్డపిణ్డః ప్రసరతి సరలాలాబుతుమ్బీవిడమ్బీ
స్థైర్యం ఝాఙ్కారి వారి ప్రథయతి తదపి స్కన్ధబన్ధేషు యస్య ।
సోఽపి స్ఫారేణ భర్తుం ప్రభవతి పవనో యస్య నోద్దేశలేశం
ధామ్నామాధారభూతం భవ భవతి వపుస్తన్నభస్తే నమస్తే ॥ ౪౦॥
ధాతుశ్చాతుర్యభాజో జనజననవిధౌ యా ముఖేభ్యశ్చతుర్భ్యః
సాకం నాకస్థితానామజనిషత కృతప్రీతయః స్ఫీతభాసామ్ ।
తాసామాసాం శ్రుతీనాం జనయతి నియతం కర్మభిః శర్మకృద్భిః
సాఫల్యం యః స యజ్వా వపురధృతవిపత్సఙ్గమస్తే నమస్తే ॥ ౪౧॥
ప్రేఙ్ఖద్భిర్యన్మయూఖైర్విదధతి ధవలే నిర్జరాః ప్రాణయాత్రాం
ప్రోద్దామానన్దధామ ప్రథయతి బహులే పారణం యః పితౄణామ్ ।
కుర్వన్నుర్వన్తరిక్షం ప్రశమితతిమిరం యః సమస్తౌషధీనాం
పీనాం పుష్ణాతి భాతిం తనురతనురసౌ చన్ద్రమాస్తే నమస్తే ॥ ౪౨॥
ప్రాతః ప్రాభఞ్జనేఽస్మిన్పథి పథికమివ ధ్వాన్తకాన్తారతామ్య-
ల్లోకాలోకార్పణార్థం ప్రముదితముదితం యం సమర్చన్తి సన్తః ।
సాయం ధ్యాయన్తి సన్ధ్యావిధిమధి సుధియో బాధితాధిం సమాధిం
సాధిమ్నాఽధిష్ఠితాయం త్వమిహ స మిహిరః సద్గభస్తే నమస్తే ॥ ౪౩॥
దిగ్దేశాకారకాలైరకలితవిభవం యన్మహద్బీజభూతం
భూతగ్రామస్య యస్య త్రిభువనవిషయం వస్తుజాతం వివర్త్తః ।
యస్మిన్హేమ్నీవ నానాభరణపరికరో లీయతే విశ్వమన్తే
తద్భిన్నేష్వప్యభిన్నం భవ భవసి పరం బ్రహ్మ తస్మై నమస్తే ॥ ౪౪॥
ఇత్థం మత్సూక్తయస్తే శశధరశిఖర స్ఫారసారస్వతౌఘ-
ప్రోన్మీలద్వక్త్రశుక్తిస్ఖలదమలమిలన్మౌక్తికవ్యక్తిభాజః ।
తీవ్రాపత్తాపతామ్యత్సహృదయహృదయక్లాన్తిశాన్తిప్రగల్భా-
దర్భాగ్రస్పర్ద్ధిబుద్ధిగ్రథితదృఢగుణాః కర్ణపూరీభవన్తు ॥ ౪౫॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``కర్ణపూరస్తోత్రం'' నామకం త్రయస్త్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౪. అగ్ర్యవర్ణస్తోత్రం చతుస్త్రింశం స్తోత్రమ్
సర్పత్కన్దర్పదర్పజ్వరభరహరణవ్యగ్రవర్చఃప్రపఞ్చ-
ప్రత్యగ్రబ్రధ్నచన్ద్రజ్వలదనలవలత్పక్ష్మలత్ర్యక్షవక్త్రః ।
శర్వస్తర్షప్రకర్షశ్రమశమనమనస్తర్పణస్వర్ణవర్ష-
స్వస్థం తన్వన్సహర్షం జనమనఘమఘః కల్పయత్వక్షయం వః ॥ ౧॥
యద్వద్వన్ద్యం ప్రసన్నం లసదసమరసస్పన్దసన్దర్భగర్భం
మఙ్గల్యం నర్మనద్ధం తవ వచనమదః శస్యమస్యత్కలఙ్కమ్ ।
తద్వద్భర్గస్య వర్యం శశధరశకలం ద్యత్వవద్యం కపర్ద-
న్యస్తం వక్త్రం ప్రశస్తం ప్రబలతమతమఃఖణ్డనం మణ్డనం వః ॥ ౨॥
షట్చక్రస్థః షడధ్వప్రసరసరభసః సర్గబన్ధప్రగల్భః
ప్రత్యగ్రప్రహ్వనవ్యస్తవపఠనపరబ్రహ్మసచ్చక్రశక్రః ।
దక్షక్రత్వన్తకత్వం దధదధమమదధ్వంసలక్ష్యప్రశంసః
సంసర్గధ్వస్తపఙ్కో గణగణమచలం కల్పయన్హన్త్వశం వః ॥ ౩॥
వక్షఃసద్మస్థపద్మం కరకమలతలప్రజ్వలచ్ఛఙ్ఖచక్రం
కంసఘ్నం సర్పతల్పం ఖగవరవహనం నన్దయత్యర్ధగం యః ।
ధర్మం బధ్నన్ధ్వజస్థం కరగతకలశం వర్ష్మ యశ్చ వ్రతస్థం
శంసన్తం సంస్మరన్తం నతమనవరతం సోఽవ్యయఃస్యత్వఘం వః ॥ ౪॥
సంరక్షన్భక్తవర్గం యమభటభయతః సభ్యమభ్యర్ణలభ్యం
ధన్యమ్మన్యం వదన్యం ప్రణయపరవశం పర్షదగ్ర్యవ్యవస్థమ్ ।
వర్షత్వచ్ఛిన్నచఞ్చద్గరగవలగలః కస్థరఙ్గత్తరఙ్గ-
స్వర్గఙ్గః శశ్వదఙ్కస్థలగతనగజస్త్ర్యమ్బకః సమ్పదం వః ॥ ౫॥
అమ్భఃకమ్ప్రం కటప్రం సబహలగరలం పన్నగం కణ్ఠలగ్నం
గ్రథ్నన్మహ్యమ్నభస్వత్ఖరకరదహనస్వర్క్షపత్యమ్బరత్వమ్ ।
స్కన్ధస్థం చర్మ భర్మప్రభమలకచయం చన్దనత్వం ప్రపన్నం
ప్రత్యఙ్గం భస్మ సప్తచ్ఛదదలధవలం స్యత్వజః కల్మషం వః ॥ ౬॥
సద్యః సన్యస్తగర్వగ్రహమహతమహస్త్యక్తసఙ్గప్రసఙ్గం
సత్త్వస్థం లబ్ధతత్త్వం మలశబలగలత్సర్వసమ్బన్ధబన్ధమ్ ।
యత్సమ్పర్కప్రయత్నక్షమమలయదయం తథ్యపథ్యప్రసక్తం
యచ్ఛత్వచ్ఛం మనస్తత్స్మరహరచరణద్వన్ద్వనమ్రస్య శం వః ॥ ౭॥
సత్యం నశ్యత్యవశ్యం ఘనమఘపటలం యత్పదస్పర్శబద్ధ-
శ్రద్ధస్య స్పష్టకష్టప్రశమనమనసః కస్య న వ్యక్తకల్కమ్ ।
తస్య వ్యస్యత్వశం వః సితకరశరణం మస్తకం ధ్వస్తకమ్పం
సమ్పత్సమ్పర్కరమ్యప్రభమభయకరస్యర్షభస్యన్దనస్య ॥ ౮॥
అత్యన్తస్వచ్ఛమన్తఃకరణమశరణప్రత్తరక్షం సమక్షం
వ్యఞ్జన్భఞ్జన్నజస్రం నయనతవదనస్తమ్భసంరమ్భదమ్భమ్ ।
సర్వజ్ఞః సత్త్వసఙ్ఘక్లమకరణచణం జన్మకర్మప్రబన్ధం
మథ్నన్నత్యర్థమర్థం క్షతసకలమలం వర్ధయత్వవ్యయం వః ॥ ౯॥
గల్వర్కప్రస్థపస్త్యం ధరమథమలయం మన్దరం సహ్యమన్త-
ర్నన్దద్గన్ధర్వయక్షం సకనకకటకం కల్పతర్వన్తరఙ్గమ్ ।
భద్రం సఙ్క్రన్దనస్య ప్రహసనసదనం నన్దనం స్వర్గరఙ్గం
గచ్ఛన్స్వచ్ఛన్దచర్యః పరబలదలనస్తర్పయత్వన్వహం వః ॥ ౧౦॥
పద్మస్థం పద్మహస్తం గజవరవదనం నన్దనం స్కన్దసంజ్ఞం
పర్జన్యం హంసమబ్జం దశశతనయనం హవ్యభక్షం సదణ్డమ్ ।
రక్షఃప్రఖ్యం జలస్థప్రథమథ పవనం మర్త్యపత్త్రం మఖఘ్నం
సమ్పశ్యత్యత్యజన్తం చరణతలమలం యః స కర్షత్వఘం వః ॥ ౧౧॥
అవ్యక్తం యః సమగ్రం జగదగనగరం వ్యఞ్జయత్యబ్జజః స-
న్యః సంరక్షత్యనన్తః స్మరయమదమనః సంహరత్యక్రమం యః ।
స త్రయక్షస్తన్త్రమన్త్రప్రణయనసఫలగ్రన్థకర్మణ్యఖర్వ-
జ్ఞత్వః సద్గమ్యవర్త్మప్రకటనపరమః స్పర్శయత్వద్వయం వః ॥ ౧౨॥
ద్రష్టవ్యం సమ్యగర్థప్రవచనపరమం శర్మదం పద్యబద్ధం
ప్రష్ఠప్రజ్ఞప్రశస్యం నమదమరవరః శఙ్కరః సఙ్కరఘ్నః ।
వర్షన్తం భగ్నఘర్మం ప్రమదమయపయః సత్యసఙ్కల్పజల్ప-
శ్రవ్యం భవ్యం వసవ్యం నవమవగమయత్వగ్ర్యవర్ణస్తవం వః ॥ ౧౩॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``అగ్ర్యవర్ణస్తోత్రం'' నామకం చతుస్త్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౫. ఈశ్వరప్రశంసాస్తోత్రం పఞ్చత్రింశం స్తోత్రమ్
అనాథానాం నాథో గతిరగతికానాం వ్యసనినాం
వినేతా భీతానాం శరణమధృతీనాం భరవశః ।
సుహృద్బన్ధుః స్వామీ శరణముపకారీ వరగురుః
పితా మాతా భ్రాతా త్రిజగతి జయత్యన్తకరిపుః ॥ ౧॥
ఉదారైర్మన్దారైరచితశిఖరం చన్ద్రశిఖరం
సమభ్యర్చ్య ప్రేమ్ణా విపులపులకాలఙ్కృతతనుః ।
కదా గన్ధాబన్ధప్రమదముదితోద్దామమధుప-
స్ఫురద్గుఞ్జాగర్భైర్విభుమభిభజేయం నుతిపదైః ॥ ౨॥
ఇతో ద్వన్ద్వక్లేశా విషయమృగతృష్ణాస్థితిరితో
జరామృత్యువ్యాధిప్రతిభయమితః సర్వసులభమ్ ।
మహామోహైర్ఘోరైరుపహతమితో బోధలసితం
కథం కుర్యాదార్యః కృతమతిరపి స్వాత్మని హితమ్ ॥ ౩॥
అశేషక్లేశౌఘగ్లపనపరిపన్థీ ప్రకటయ-
న్నయం విఘ్నవ్రాతః ప్రబలవిపదాపాదనవిధిమ్ ।
వివేకాఖ్యం చక్షుస్తిరయతి సతాం యేన సహసా
భవశ్వభ్రే పాతః ప్రతిపదమదభ్రః ప్రభవతి ॥ ౪॥
భవద్భక్తిం తస్య వ్యుపశమసమర్థామథ దృశః
ప్రసాదం తన్వానాం ఘనమహసమాసాద్య సుధియః ।
ప్రకాశాత్మానం త్వామతివిమలయా హంసముదితం
దృశా సాక్షాత్కృత్య ప్రతిజహతి మోహాన్ధతమసమ్ ॥ ౫॥
అనిత్యే నిత్యాశామశుచిని శుచిత్వవ్యసనితా-
మనాత్మన్యాత్మాస్థామథ మహతి దుఃఖే సుఖమతిమ్ ।
చతుర్ధా దుర్భేద్యామవిరతమవిద్యాం పరిణతాం
హతాశేషస్వాభామభిదధతి మూలం భవతరోః ॥ ౬॥
నరాస్తత్త్వాలోకే నియతమనయా దూషితదృశో
వివేకప్రధ్వంసాద్విదధతి భవే కన్దుకగతిమ్ ।
ఉపాసాభిర్లబ్ధ్వా భవభయభిదం నిర్మలధియః
సమాధిం సాధిమ్నా దధతి న పునర్జన్మవిపదమ్ ॥ ౭॥
చకాశే నాకాశే రవిరవిరలైరంశుపటలై-
రమన్దాభైరిన్దుస్తిమిరమహరన్నాపి కిరణైః ।
న చాన్యన్నక్షత్రగ్రహదహనరత్నౌషధితడి-
త్ప్రదీపాదిజ్యోతిః క్వచిదపి పురా నాథ దదృశే ॥ ౮॥
తమోభూతం విశ్వం కిమపి గహనం ధామ తదభూ-
దథ స్వేచ్ఛాశక్తిప్రకటితమహావైభవభరమ్ ।
విభజ్యాత్మానం క్ష్మావనపవనవహ్నీన్దుతపన-
స్వఖైరంశైరీశ త్రిజగదసృజత్కస్త్వదపరః ॥ ౯॥
అనాదౌ సంసారే విదధతి రజోబాధితధియః
శుభం వా ఘోరం వా శబలమథ వా కృత్యమణవః ।
తతస్తద్భోగార్థం తరుణకరుణాపూర్ణహృదయో
విధత్సే యత్తేషాం తనుభువననిర్మాణమఖిలమ్ ॥ ౧౦॥
తదేతత్సఙ్కల్పప్రకటితసమస్తత్రిజగతః
ప్రభోర్లీలామాత్రం భువనమహనీయస్య భవతః ।
తవైకస్య స్వామిన్యదిహ సహజే సర్వవిషయే
క్రియాజ్ఞానే నిత్యే కరణనిరపేక్షే ప్రభవతః ॥ ౧౧॥
ప్రసిద్ధోఽయం పన్థా న భవతి విచిత్రా విరచనా
వినా యత్కర్తారం స చ న భవతి జ్ఞానరహితః ।
అతోఽవశ్యం కర్తా త్రిజగతి విచిత్రే జ్ఞ ఉచితః
స చ త్వం త్వయ్యన్యే కిమివ వివదన్తే హతధియః ॥ ౧౨॥
అథైవం చేద్బ్రూయుః కిమయమపరప్రేరితమతిః
స్వతన్త్రో వా దేవస్త్రిభువనవిధానే ప్రయతతే ।
అముష్యాద్యే పక్షే నహి పరవిధేయస్య విభుతా
పరస్మిన్పక్షే వా ఫలమపి కిముద్దిశ్య యతతే ॥ ౧౩॥
అథాస్యేయం వాఞ్ఛా ప్రభవతి న కర్మక్షయమృతే
నృణాం ముక్తిః సోఽపి క్వచన న వినా భోగముచితః ।
వినాధారం భోగో న భవతి వపుర్నాపి భువనం
తతోఽర్హం జన్తూనాం తనుభువననిష్పాదనమితి ॥ ౧౪॥
ఇదం యుక్తం సాన్ద్రామృతమధురయాఽన్తః కరుణయా
ప్రయుక్తస్యాఽజస్రం పరహితవిధానవ్యసనినః ।
దయాలుశ్చేల్లోకం సృజతి సకలం కిం న సుఖినం
కుతో వాఽఽధివ్యాధిక్షత ఇహ జనోఽనేన జనితః ॥ ౧౫॥
అథోపాదానం యద్భవతి పరమాణ్వాది జగత-
స్తథా కర్మాఽనేహఃప్రభృతి సహకార్యేతదుభయమ్ ।
వినా సృష్టౌ నైష ప్రభవతి యదీశః కిమమునా
తదేవాఽస్తు వ్యక్తం తనుభువననిర్మాణనిపుణమ్ ॥ ౧౬॥
ఇతీత్థం ముగ్ధానామిహ మతివిమోహాయ కుధియః
కుతర్కప్రాగల్భీముఖరితముఖా మూఢమనసః ।
అధిష్ఠాతారం త్వాం వరద జడవర్గస్య సదయం
న జానన్తి స్వామిన్ పరమపురుషం చేతనమమీ ॥ ౧౭॥
యథోపాదానం మృత్తదను సహకారీహ లగుడో
జలం చక్రం సూత్రం వరద జడవర్గోఽయమఖిలః ।
న యత్నం కౌలాలం ప్రభవతి వినా కుమ్భఘటనే
తథాధిష్ఠాతారం న భవతి వినా త్వాం భవవిధిః ॥ ౧౮॥
అవిజ్ఞాయైవాఽజ్ఞః పరుషవిషమం కర్మ కురుతే
విపాకే తస్యాసౌ నిపతతి భవక్లేశకలిలే ।
అతో జ్ఞానాలోకః ప్రకటితసమస్తార్థగహనో
మహామోహధ్వాన్తవ్యవహితదృశోఽవశ్యముచితః ॥ ౧౯॥
ఉపాయస్తత్ప్రాప్తౌ భవతి న వినా శాస్త్రమపరో
న శాస్త్రం తత్వామిన్నిహ యదుపదిష్టం న భవతా ।
వివిఞ్చన్తః సన్తో హితమహితమేతే విదధతే
హితే సక్తిం ముఞ్చన్త్యహితమితి నార్హన్తి పతనమ్ ॥ ౨౦॥
భవాన్ధర్మం సాక్షాదకృత సహజజ్ఞానమహసా
తమోధ్వంసం పుంసామథ తదుపదేశేన విదధే ।
ప్రమాణం చోక్తిస్తే నహి ఘనఘృణానిఘ్నమనసో
జగద్భర్త్తుర్యుక్తం వితథమభిధాతుం భగవతః ॥ ౨౧॥
తదేతత్కారుణ్యం ఘనతమతమఃపఙ్కపటలీ-
విలీనోఽయం లోకస్తవ వరద సమ్భావ్య సహజమ్ ।
దధచ్ఛ్రద్ధాబన్ధం త్వదుదితమనుష్ఠాతుమసకృత్
ప్రవృత్తో దుష్పారం హర తరతి సంసారజలధిమ్ ॥ ౨౨॥
ఇత్యేవం భగవన్నబన్ధ్యమహిమా నిర్మాయ నిర్మానుషం
విశ్వం విశ్వసితం వితత్య తదను స్ఫీతైర్విభూతిక్రమైః ।
సంహృత్యాథ నిజే మహిమ్ని నిఖిలం తత్కన్దుకాన్దోలన-
క్లేశావేశవిరామసమ్భృతసుఖం కైవల్యమాకాఙ్క్షసి ॥ ౨౩॥
ఇత్థం కిం బహునా త్వదఙ్ఘ్రికమలద్వన్ద్వప్రసాదాదిదం
భూయాన్మే భవభీతిభఞ్జన విభో భక్తానుకమ్పాపర ।
యత్త్వత్పాదసరోజపూజనవిధౌ భక్తిర్విరోగం వపు-
ర్యావజ్జీవమథ త్వదేకమనసో ముక్తిస్తవైవాగ్రతః ॥ ౨౪॥
ఏవం దేవ తవ స్తుతిప్రవచనప్రాప్తప్రసాదస్య మే
భూయో జన్మ భవిష్యతీతి భగవన్ మన్యే ఖపుష్పోపమమ్ ।
స్యాచ్చేత్ప్రాక్తనకర్మశేషజనితం తన్నాథ కిం భూయసా
భూయాసం భవదీయపాదకమలస్తుత్యా పునర్నిర్వృతః ॥ ౨౫॥
ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``ఈశ్వరప్రశంసాస్తోత్రం'' నామకం పఞ్చత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౬. స్తుతిఫలప్రాప్తిస్తోత్రం షట్త్రింశం స్తోత్రమ్
తే నాథ జన్మ సకలం న కలఙ్కయన్తి
న ద్రోహకర్మరసికానపి శఙ్కయన్తి ।
తాన్సస్పృహం మృగదృశః ప్రవిలోకయన్తి
యే త్వత్పదాబ్జరజసాఽలికమఙ్కయన్తి ॥ ౧॥
తే విద్విషామభిమతం హృది మోఘయన్తి
జ్ఞానామృతం చ కృపణేషు సమర్పయన్తి ।
తేషాం వచః క్షితిభుజోఽపి న లఙ్ఘయన్తి
యే త్వాం స్తవోక్తికుసుమర్ద్ధిభిరర్చయన్తి ॥ ౨॥
తే జన్మనః ఫలమనల్పముదఞ్చయన్తి
క్లేశాపదః స్వమపరం చ విమోచయన్తి ।
తాన్వైరిణః సహభువోఽపి న వఞ్చయన్తి
యే త్వామనాథజనబాన్ధవమర్చయన్తి ॥ ౩॥
తే ధర్మమిన్దుకరసున్దరమర్జయన్తి
గీర్భిర్విదగ్ధహృదయాన్యపి రఞ్జయన్తి ।
తానన్తకభ్రుకుటయోఽపి న తర్జయన్తి
యే త్వాం భవామయహరం హర పూజయన్తి ॥ ౪॥
తే త్వత్స్తుతిం హృదయధామ్ని కవాటయన్తి
దుఃఖద్రుమం చ దృఢమాపది పాటయన్తి ।
భావం తవైవ భువి బాలమివాటయన్తి
యే వాఙ్నటీమభిముఖం తవ నాటయన్తి ॥ ౫॥
తే కర్మరజ్జునిగడం హ్యతిఖణ్డయన్తి
సూక్తైః శ్రుతీర్బుధజనస్య చ మణ్డయన్తి ।
త్వద్భక్తిమప్యధిభవాబ్ధి తరణ్డయన్తి
యే త్వన్మనః స్తుతిధనస్య కరణ్డయన్తి ॥ ౬॥
పాపాని తేఽశ్మశకలాని వ చూర్ణయన్తి
గీర్భిర్బ్రువః సుమనసామపి ఘూర్ణయన్తి ।
లోకే నిజాని చ యశాంస్యుపకర్ణయన్తి
యే ధీమతాం నుతికథాస్తవ వర్ణయన్తి ॥ ౭॥
తే మారకానపి న సంయతి ఘాతయన్తి
కారుణ్యతః కృతరుషోపి న యాతయన్తి ।
లోకస్య శోకమభయేన చ శాతయన్తి
యే శేఖరం చరణయోస్తవ పాతయన్తి ॥ ౮॥
తే పాపపాశ(కర్మబన్ధ)మధికం హృది కర్తయన్తి
భోగస్పృహాం చ విషయేషు నివర్తయన్తి ।
సూక్తైః సచేతనమనాంస్యపి నర్తయన్తి
యే చన్ద్రచూడచరితం తవ కీర్తయన్తి ॥ ౯॥
తే జాన్మికాని దురితాన్యవసాదయన్తి
సూక్తాని నిర్మలమతీననువాదయన్తి ।
గీతాని వైణికనటానపి నాదయన్తి
యే భక్తితస్తవ నుతీః ప్రతిపాదయన్తి ॥ ౧౦॥
తే సత్సు కర్మసు రిపూనపి చోదయన్తి
గీర్భిః సతాం చ హృదయాని వినోదయన్తి ।
తేషాం శుచః క్వచన చేతసి నోదయన్తి
యే తావకాని చరితాన్యనుమోదయన్తి ॥ ౧౧॥
తే విగ్రహోగ్రమనసోపి న ఖేదయన్తి
మోహం దృఢార్గలనిభం హృది భేదయన్తి ।
స్వం కౌశలం మృదుమతీనపి వేదయన్తి
సూక్తాని యే తవ నిజాని నివేదయన్తి ॥ ౧౨॥
తే భేజుషాం భవతి భక్తిమమన్దయన్తి
వాగ్వీరుధస్త్వయి రతిం హృది కన్దయన్తి ।
త్వామన్యదర్శనగతానపి వన్దయన్తి
యే వాగ్భరేణ హృదయం తవ నన్దయన్తి ॥ ౧౩॥
తే భుక్తిముక్తిసఫలర్ద్ధి వివర్ద్ధయన్తి
సత్కర్మ శర్మ శమితాధి చ సాధయన్తి ।
యే త్వాం నవైరభినవైరభిరాధయన్తి
యానిక్షుసారమధురాన్ సుధియో ధయన్తి ॥ ౧౪॥
తే సఙ్గరే గురురుషోఽపి న యోధయన్తి
జ్ఞానామృతేన హృదయం చ విశోధయన్తి ।
రోషోద్భవం హృది రిపోరపి రోధయన్తి
యే త్వాం నిజా నుతికథాః ప్రతిబోధయన్తి ॥ ౧౫॥
తే దుర్మదాన్బుధసదస్యవమానయన్తి
ప్రౌఢాన్ప్రణమ్య వినయేన చ మానయన్తి ।
తాన్భూతయః స్వయమనన్యసమానయన్తి
యే వాసరాంస్తవ నవైః సశమా నయన్తి ॥ ౧౬॥
తే నిర్భయే నతిమతః పథి యాపయన్తి
నోత్కమ్పదానపి రిపూనుపతాపయన్తి ।
క్లేశాపదం పశుసమానపి హాపయన్తి
యే త్వాం ప్రసాద్య దృశమీశ్వర దాపయన్తి ॥ ౧౭॥
తే దుర్మదం శమనముగ్రమదర్పయన్తి
గర్ధం చ సాధుసదనాదపసర్పయన్తి ।
దానాదినార్థినివహానపి తర్పయన్తి
యే తావకే ముకుటమఙ్ఘ్రితలేఽర్పయన్తి ॥ ౧౮॥
తే సద్గృహేషు గురుమాపదమల్పయన్తి
స్వం చాశయం శిశయిషోస్తవ తల్పయన్తి ।
ఆర్తిస్పృశాముపకృతీరపి కల్పయన్తి
యే బాలకానపి నవం తవ జల్పయన్తి ॥ ౧౯॥
తే సాపరాధమనసోఽపి న కోపయన్తి
తాపం హ్వియా విపులమాపది గోపయన్తి ।
త్వద్ధామ చామలమతీనధిరోపయన్తి
యే నార్చనం తవ కదాచన లోపయన్తి ॥ ౨౦॥
తే శక్తిమప్రతిహతాం భువి జృమ్భయన్తి
ప్రీతిం పరాం కృతమతీనుపలమ్భయన్తి ।
వంశత్రయీమపి నిజామభిశోభయన్తి
యే త్వాం నిజాసు నుతిసూక్తిషు లోభయన్తి ॥ ౨౧॥
తే మగ్నమార్త్తజనమాపది తారయన్తి
బుద్ధ్యా విమృశ్య సదసచ్చ విచారయన్తి ।
అజ్ఞానమానతిమతాం చ నివారయన్తి
త్వద్భక్తిమిన్దుధర యే హృది ధారయన్తి ॥ ౨౨॥
తే విద్విషః స్థిరరుషోఽప్యనుకూలయన్తి
మోహం మహీరుహమివ ప్రవిమూలయన్తి ।
ఆజ్ఞాం చ మూర్ధ్ని మహతామవచూలయన్తి
యే భాలమఙ్ఘ్రిరజసా తవ ధూలయన్తి ॥ ౨౩॥
తే పఙ్కమఙ్కగతమాత్మని ధావయన్తి
దిఙ్మణ్డలం చ పరితః పరిపావయన్తి ।
క్లేశాన్ క్షణాత్తృణగణానివ లావయన్తి
యే త్వాం ప్రకాశవపుషం హృది భావయన్తి ॥ ౨౪॥
తే పీవరీం విపదమోకసి కర్శయన్తి
స్వం కౌశలం సుమనసశ్చ విమర్శయన్తి ।
ప్రీతిం సతాం చ హృదయేషు నివేశయన్తి
యే త్వత్స్తుతీర్విబుధసద్మసు దర్శయన్తి ॥ ౨౫॥
తే నిర్మలం సుకృతమాత్మని పోషయన్తి
దుష్కర్మకర్దమమలం హృది శోషయన్తి ।
క్రూరాన్ విరోధబిధురానపి తోషయన్తి
యే నామ తే శివశివేత్యభిఘోషయన్తి ॥ ౨౬॥
తే విశ్వమేవ చరితైరభిభూషయన్తి
క్రుద్ధాన్ విరుద్ధహృదయాఁశ్చ న దూషయన్తి ।
నాత్యుద్భటాన్యమభటానపి రోషయన్తి
రాగేణ యే శివ మనస్తవ తోషయన్తి ॥ ౨౭॥
తే త్వాం కృపామ్బుతృషితే హృది వర్షయన్తి
స్వాన్తౌకసోఽఘభుజగానపి కర్షయన్తి ।
కమ్పం విధాయ చ యమం భ్రువి ధర్షయన్తి
యే త్వాం నిజై(నవై)ర్నుతిపదైర్హర హర్షయన్తి ॥ ౨౮॥
తే మౌనముద్రి తగిరోఽప్యుపహాసయన్తి
గీర్భిర్ముఖాని సుధియామధివాసయన్తి ।
విశ్వం యశోభిరమలైరభిభాసయన్తి
యే మానసం తవ నవైః ప్రవికాసయన్తి ॥ ౨౯॥
తే చిత్తభిత్తిమసతామపి చిత్రయన్తి
రోషోద్ధతానరిజనానపి మిత్రయన్తి ।
సూక్తామృతైశ్చ భువమేవ పవిత్రయన్తి
వాఙ్నావి యే తవ చరిత్రమరిత్రయన్తి ॥ ౩౦॥
చేతాంసి తే సుకృతినాముపబృంహయన్తి
బాహ్యాన్తరానసుహృదశ్చ నిబర్హయన్తి ।
నాత్మానమానతమరీనపి గర్హయన్తి
యే త్వాం నవస్తవవిభూతిభిరర్హయన్తి ॥ ౩౧॥
ఆత్మానం తే కలుషకలిలే మగ్నముచ్చాలయన్తి
జ్ఞానామ్భోభిర్మలమలికులశ్యామలం క్షాలయన్తి ।
స్మృత్వా చ త్వాం ప్రమదరభసాదంసమాస్ఫాలయన్తి
త్వద్భక్త్యా యే సకలమలసం చిత్తముత్తాలయన్తి ॥ ౩౨॥
తే రామాణాం మనసి మదనం సుప్తమున్నిద్రయన్తి
శ్లాఘాం లబ్ధుం సదసి చ సతాం చిత్తమున్ముద్రయన్తి ।
తానుద్వృత్తాః కుటిలమతయో న క్వచిచ్ఛిద్రయన్తి
త్వచ్చిత్తం యే వరద కరుణాక్రన్దితైరార్ద్రయన్తి ॥ ౩౩॥
తే సభ్యానాం సదసి నయనాన్యశ్రు విస్రావయన్తి
క్రోధోత్కర్షం గురుమురురుషాం దూరముత్ప్రావయన్తి ।
చేతః సూక్తైర్మణిమివ సతామైన్దవం ద్రావయన్తి
స్వామిన్యే త్వామభినవనవవ్యాహృతీః శ్రావయన్తి ॥ ౩౪॥
తేషాం సూక్తీరమలమతయః పూగవచ్చర్వయన్తి
క్రూరాణాం తే మదమభిముఖం ప్రేఙ్ఖితం ఖర్వయన్తి ।
తాన్విద్వాంసస్తవ నవసుధాస్వాదనాయాహ్వయన్తి
త్వత్పాదాగ్రే ముదితమనసో యే శిరః ప్రహ్వయన్తి ॥ ౩౫॥
తే దుర్వృత్తానపి న కృపయా పేశలాః క్లేశయన్తి
గ్లానిం జ్ఞానాం వ్యసనజనితామాశయే నాశయన్తి ।
తృష్ణార్త్తానప్యమృతమధురాః స్వా గిరః ప్రాశయన్తి
త్వామన్తర్యే శకలితకలిక్లేశమావేశయన్తి ॥ ౩౬॥
తే రాగాదీన్మనసి మిలితానాశు విశ్లేషయన్తి
క్రోధాన్ధానప్యతనువినయా న క్వచిద్ద్వేషయన్తి ।
మోహధ్వాన్తం ఘనమధిమతివ్యోమ నిఃశేషయన్తి
త్వత్పార్శ్వం యే గిరమభిమతప్రాప్తయే ప్రేషయన్తి ॥ ౩౭॥
తే నిర్వేదం మనసి శమినామహ్ను తం హ్రాసయన్తి
త్రస్తానస్తఙ్గమితవిపదః శశ్వదాశ్వాసయన్తి ।
త్వద్భావైకప్రవణభణితైరన్తకం త్రాసయన్తి
స్తుత్యా యే త్వాం నతజనహృతత్రాసముల్లాసయన్తి ॥ ౩౮॥
తే తజ్జ్ఞానాం పరిషది గుణానాత్మనః శంసయన్తి
స్వాన్తే చాన్తర్యమభుజగజం సాధ్వసం ధ్వంసయన్తి ।
క్లేశాన్పాశానివ చ నిబిడానాశు విస్రంసయన్తి
ప్రౌఢానాం యే తవ నుతిమధిశ్రోత్రముత్తంసయన్తి ॥ ౩౯॥
తే త్వద్భక్తివ్యసనమనఘం కర్మ నిర్వాహయన్తి
త్వత్సేవాసు స్థిరమవిరతం చిత్తముత్సాహయన్తి ।
స్వం చాఘౌఘం యమమదనవత్త్వద్దృశా దాహయన్తి
త్వాం విజ్ఞప్తిం స్వయమవహితం యేఽన్వహం గ్రాహయన్తి ॥ ౪౦॥
తే తక్షాణం తరుమివ గురుం త్వామఘం తక్షయన్తి
ప్రాప్తుం తృప్తిం శుభఫలభరం నిర్భరం భక్షయన్తి ।
ప్రత్యాసన్నాం శ్రియమపి ధియా తీక్ష్ణయా లక్షయన్తి
త్వద్భక్తాన్యే శ్రుతిమివ నుతిం తావకీం శిక్షయన్తి ॥ ౪౧॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``స్తుతిఫలప్రాప్తిస్తోత్రం'' నామకం షట్త్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౭. స్తుతిప్రశంసాస్తోత్రం సప్తత్రింశం స్తోత్రమ్
ఇహ హి స్వాత్మమహేశ్వరపరిభావనశుద్ధసంవిదః సుధియః ।
కమలదలాని జలైరివ బహిరావరణైర్న లిప్యన్తే ॥ ౧॥
కవిముఖకమలోపవనే కృతవసతిర్జయతి సూక్తికల్పలతా ।
యా ఫలతి భుక్తిముక్తీ శివభక్తిసుధారసాసేకైః ॥ ౨॥
జయ జయ హర రక్ష భయాదేవం దేవం శివం శివం లబ్ధుమ్ ।
యః స్తౌతి తస్య సఫలః సారః సారస్వతః స్వతః స్ఫారః ॥ ౩॥
శివ శివ శఙ్కర శఙ్కర భవగతిరితి యః ప్రలాపముఖరముఖః ।
తస్య హి సఫలా దివసాః శివసాయుజ్యం చ హస్తగతమ్ ॥ ౪॥
ఇహ ఖలు పశుపతినుతిభిః కతిపయమపి యః కృతార్థయతి కాలమ్ ।
సకలకలికలుషముక్తో జీవన్ముక్తః స కిం బహునా ॥ ౫॥
ఉపచితకుశలశ్రేణిః పరమపదారోహణైకనిశ్రేణిః ।
జయతి మహామృతవేణిర్విబుధజనాహ్లాదినీ నుతిః శమ్భోః ॥ ౬॥
కిమియం సద్గురుదృష్టిర్హ్లాదైకమయీ ను కిం జగత్సృష్టిః ।
కిం వా నిరభ్రవృష్టిః శ్రవణామృతవర్షిణీ నుతిః శమ్భోః ॥ ౭॥
అక్షయసుఖోపభుక్తిః పరమశివావాప్తయే నవా యుక్తిః ।
యది వా జీవన్ముక్తిః శ్రవణామృతవర్షిణీ నుతిః శమ్భోః ॥ ౮॥
క్షేత్రం తదిహ పవిత్రం తత్తీర్థం పావనం తదాయతనమ్ ।
తదిహ తపోవనమనఘం యత్ర నుతిః శామ్భవీ శ్రుతిం విశతి ॥ ౯॥
సా క్రీడా సా గోష్ఠీ సా విశ్రాన్తిః స భూమికాలాభః ।
సాఽఖిలదుఃఖనివృత్తిర్యత్ర నుతిః శామ్భవీ శ్రుతిం విశతి ॥ ౧౦॥
తద్ధ్యానం స సమాధిః స మహాయాగస్తదర్చనం సకలమ్ ।
సా ఖలు పరమా దీక్షా యత్ర నుతిః శామ్భవీ శ్రుతిం విశతి ॥ ౧౧॥
యది పారిజాతకుసుమస్తవకస్తవ కర్ణయోరలఙ్కరణమ్ ।
భవితుం భవతి న సులభః శ్రుతిపథమేతా నయ స్తుతీః శమ్భోః ॥ ౧౨॥
అభిలషసి యది నిరోద్ధుం పవనాదపి దుర్గ్రహం మనోహరిణమ్ ।
తదిమా గృహాణ నిభృతం దృఢగుణగుణగుమ్ఫితాః స్తుతీః శమ్భోః ॥ ౧౩॥
యదమృతమమ్బుధిమన్థనసముత్థితం తస్య కః స్విదాస్వాదః ।
ఇతి యది హృది తవ కౌతుకమాకర్ణయ తత్స్తుతీరిమాః శమ్భోః ॥ ౧౪॥
విషయోపభోగరహితః సహజో హ్లాదః సతాం మతో మోక్షః ।
తమపి యదీచ్ఛసి వేదితుమవహితహృదయః శృణు స్తుతీః శమ్భోః ॥ ౧౫॥
అశుచి శుచామాయతనం మలకలిలమిదం కలేవరం సత్యమ్ ।
భగవదుపాసనసాధనమితి భవతి న కస్య కమనీయమ్ ॥ ౧౬॥
యది మనుషే యమనియమప్రాణాయామాది దుర్ఘటం కర్త్తుమ్ ।
తదిమం సుగమముపాయం శ్రయ పరమపదాప్తయే నుతిం శమ్భోః ॥ ౧౭॥
సిద్ధం సమ్యగభీష్టం సత్యగిరామాశిషః సతాం ఫలితాః ।
లబ్ధం సుకృతస్య ఫలం నిర్వ్యూఢేయం యతః స్తుతిః శమ్భోః ॥ ౧౮॥
మమ సారః సంసారః సకలమిదం మర్త్యజన్మ మమ సఫలమ్ ।
మమ సదృశోఽస్తి న కశ్చన యదహం స్తోతా శివస్య సంవృత్తః ॥ ౧౯॥
ప్రణమామి ప్రణమామి స్తౌమి స్తౌమి ప్రభుం జగన్నాథమ్ ।
ధ్యాయామి ధ్యాయామి చ యామి చ విమలం పరం ధామ ॥ ౨౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``స్తుతిప్రశంసా'' నామకం సప్తత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౮. పుణ్యపరిణామస్తోత్రం అష్టాత్రింశం స్తోత్రమ్
సహస్రశీర్షా పురుషః పునాతు వః
సహస్రచక్షుర్భగవాన్ సహస్రపాత్ ।
గలేఽఙ్ఘ్రిమూలే నయనే చ నిశ్చలా-
స్త్రయోఽప్యమీ యం పురుషా ఉపాసతే ॥ ౧॥
(ఉపాసతే యం పురుషాస్త్రయోఽప్యమీ)॥ ౧॥
సరస్వతీవేన్దుకలోద్గతా కరైః
సరస్వతీవ శ్రవణామృతైః స్వరైః ।
సరస్వతీవోర్మిభిరీశ్వరస్తవైః
సరస్వతీ వర్షతు వః సుధామియమ్ ॥ ౨॥
విమర్శశూన్యేన మయా నిరర్థకః
ఖలేన కాలః సకలోఽతివాహితః ।
ఇదం త్వసారాదతిసారముద్ధృతం
ధృతం యదీశస్తుతివేతనం మనః ॥ ౩॥
న హృద్యతామేతి పరస్య దుర్ముఖః
శిశుః స్రవత్పీనసదిగ్ధనాసికః ।
పితుః స్వకీయస్య తు జీవితాధిక-
స్తథోపహాస్యోఽపి మమాఽయముద్యమః ॥ ౪॥
అవైమి భాగ్యోపచయః స పుష్కలః
సశక్తిపాతః ఖలు పారమేశ్వరః ।
స వా మహార్హో మహతామనుగ్రహో
యదీశ్వరారాధనసాధనం మనః ॥ ౫॥
అహో కృతార్థోఽస్మి మనోభిరామయా
గిరా గుణాలఙ్కృతయేహ రామయా ।
తనుః స్థిరేయం ధ్రియతే నిరామయా
భవే చ యద్భక్తిరభఙ్గురా మయా ॥ ౬॥
న విద్యయా ప్రీతిరనర్ఘమానయా
తథా శ్రియా వాఽన్వహమేధమానయా ।
శివస్తవైకవ్రతయాఽసమానయా (మమానయా)
యథా గిరా సాన్ద్రసుధాసమానయా ॥ ౭॥
పురః స్ఫురన్తం విమృశన్మహేశ్వరం
విలీనవేద్యాన్తరవేదనో దశామ్ ।
నవస్తవోల్లేఖవిధౌ స్పృశామి యాం
మమాన్తరాత్మా విభురేవ వేత్తి తామ్ ॥ ౮॥
మనుష్యతా పూరుషతాఽగ్ర్యవర్ణతా
మనీషితా సత్కవితా శివైకతా ।
ఇయం మమ క్షేమపరమ్పరా విభోః
స్తుతిప్రసఙ్గేన గతా కృతార్థతామ్ ॥ ౯॥
ధ్రువం నవానాం రసగర్భనిర్భర-
ధ్వనిర్ఘనానామనఘేయమావలిః ।
పృథుప్రభావం శశిఖణ్డమణ్డితం
ప్రహర్షిణం నీలగలం కరిష్యతి ॥ ౧౦॥
యది హ్యయోగ్యాశ్చరణాన్తికే వయం
తథాపి నః ప్రాఙ్గణసీమసేవినామ్ ।
చమత్కరిష్యన్తి గిరః ప్రభోరిమా
జనఙ్గమానామివ గీతరీతయః ॥ ౧౧॥
పరోపకారైరివ రాజసేవనం
దరిద్రగార్హస్థ్యమివార్థితర్పణైః ।
ఇదం బహుక్లేశమపీశ్వరస్తవై-
రవైమి వర్ష్మ స్పృహణీయమాత్మనః ॥ ౧౨॥
(వపుర్బహుక్లేశమపీదమీశ్వరస్తవై-
రవైమి స్పృహణీయమాత్మనః)॥ ౧౨॥
సహస్రపత్రైరివ పల్వలోదకం
శిరః ఫణీన్ద్రస్య మణివ్రజైరివ ।
సదోషమప్యేతదవైమి మానుషం
మనోరమం జన్మ మహేశ్వరస్తవైః ॥ ౧౩॥
మృగేన్ద్రశావా ఇవ కన్దరోదరా-
త్కరీన్ద్రకుమ్భాదివ మౌక్తికోత్కరాః ।
వినిఃసరన్తః కవితుర్ముఖాదమీ
మనోజ్ఞతాం బిభ్రతి కస్య న స్తవాః ॥ ౧౪॥
మరాలమాలా సరసీవ నిర్మలే
కుచస్థలే హారలతేవ సుభ్రువామ్ ।
ఇయం భవత్వాభరణం మహేశ్వర-
స్తవావలీ వక్త్రసరోరుహే సతామ్ ॥ ౧౫॥
ఇమాం ఘనశ్రేణిమివోన్ముఖః శిఖీ
చకోరకః కార్తికచన్ద్రికామివ ।
రథాఙ్గనామా తరణేరివ త్విషం
స్తవావలీం వీక్ష్య న కః ప్రమోదతే ॥ ౧౬॥
మధువ్రతః సౌమనసీమివ స్రజం
సితచ్ఛదః పఙ్కజకర్ణికామివ ।
పికో వికోషామివ చూతమఞ్జరీ-
మిమాం న కశ్చర్వయతి స్తవావలీమ్ ॥ ౧౭॥
మనస్వినీనామివ సాచి వీక్షితం
స్తనన్ధయానామివ ముగ్ధజల్పితమ్ ।
అవశ్యమాసాం మధు సూక్తివీరుధాం
మనీషిణాం మానసమార్ద్రయిష్యతి ॥ ౧౮॥
ఇయం మధుశ్రీరివ కేలికాననం
సరోవరం ప్రావృడివాతపక్షతమ్ ।
స్తవావలీ కావ్యకుతూహలం సతా-
మకాలజీర్ణం తరుణీకరిష్యతి ॥ ౧౯॥
విమత్సరాణాం సదసద్వివేకినాం
మహాత్మనాం మూర్ధ్ని ధృతోఽయమఞ్జలిః ।
విలోకయన్తు ప్రభుగౌరవాదిమాం
ప్రసాదబుద్ధ్యా మయి వా స్తవావలీమ్ ॥ ౨౦॥
స్తవావలీఢౌకనకార్పణచ్ఛలా-
దలభ్యమభ్యర్ణచరైః సురైరపి ।
ప్రభోః పదస్పర్శమశఙ్కమీప్సతో
వికత్థనత్వేపి న మే విడమ్బనా ॥ ౨౧॥
కలిమలమషీకల్మాషోఽయం మనోముకురః పురః
స్ఫురితమపి న వ్యక్తం వస్తు గ్రహీతుమభవత్క్షమః ।
సపది విశదైః శబ్దబ్రహ్మోర్మిభిర్విమలీకృతే
కరబదరవత్పశ్యామోఽస్మిన్ సమస్తమిదం జగత్ ॥ ౨౨॥
ఆనన్దిని స్తువతి నన్దిని గూఢమర్థం
దేవశ్చమత్కృతికృతాఙ్గులిభఙ్గభఙ్గిః ।
అఙ్గస్థితాం భగవతీమధిరూఢహాసా-
మాసామవశ్యమవబోధయతి స్తుతీనామ్ ॥ ౨౩॥
మన్యే మనోవచనకర్మభిరద్భుతాని
యాన్యూర్జితాని సుకృతాని పురాకృతాని ।
ఏతాని తాని శివభక్తిపవిత్రితాని
కర్ణామృతాని ఫలితాని సుభాషితాని ॥ ౨౪॥
ఏతే ప్రభోః ప్రమథభర్త్తురభీష్టమష్టా-
త్రింశత్స్తవా విమృశతాం విదుషాం దిశన్తు ।
తేనైవ దృక్షు ధృతఘర్మకరామృతాంశు-
సప్తార్చిషామివ కలాః సకలార్థలాభమ్ ॥ ౨౫॥
అయమిహ కిఙ్కరేణ రచితశ్చరణామ్బుజయోః
``స్తుతికుసుమాఞ్జలి''ర్భగవతస్తరుణేన్దుభృతః ।
అవిరలభక్తిసిక్తనవసూక్తిలతాఽవచితః
కలయతు సౌరభేణ సుకృతాం స్పృహయాలు మనః ॥ ౨౬॥
అయి ప్రమథనాయక త్రిజగతామధిష్ఠాయక
ప్రసన్నముఖ షణ్ముఖ త్రిదశవన్ద్య నన్దీశ్వర ।
నివేదయత భక్తితశ్చరణకిఙ్కరేణాఽర్పితం
పురః పురరిపోరిమం వికచవాక్యపుష్పాఞ్జలిమ్ ॥ ౨౭॥
ఇతి పరిషది సింహస్యన్దనస్కన్దనన్ది-
ప్రభృతిభిరభిరాద్ధైర్వన్ద్యమావేద్యమానమ్ ।
స్తుతికుసుమసమూహం ప్రాభృతీకృత్య శమ్భో-
ర్యదమలముపలబ్ధం శర్మ తేనేదమస్తు ॥ ౨౮॥
భువి భువి కువికల్పః స్వల్పతామేతు జేతుం
ధురి ధురి దురితౌఘం వర్ద్ధతాం శుద్ధబోధః ।
పథి పథి మథితోగ్రవ్యాపదాపన్నతాపా
నరి నరి పరిపూర్ణా జృమ్భతాం శమ్భుభక్తిః ॥ ౨౯॥
ఇతి శుభం భగవచ్చరితస్తుతి-
వ్యతికరేణ యదర్జితమూర్జితమ్ ।
భవతు తేన మనస్యనపాయినీ
సుకృతినాం శివభక్తిచమత్కృతిః ॥ ౩౦॥
ఇతి కాశ్మీరకమహాకవిశ్రీమజ్జగద్ధరభట్టవిరచితే
భగవతో మహేశ్వరస్య స్తుతికుసుమాఞ్జలౌ
``పుణ్యపరిణామస్తోత్రం'' నామష్టాత్రింశం స్తోత్రం సమ్పూర్ణమ్ ।
౩౯. గ్రన్థకర్తుర్వంశవర్ణనమ్
పురా పురారేః పదధూలిధూసరః
సరస్వతీస్వైరవిహారభూరభూత్ ।
విశాలవంశశ్రుతవృత్తవిశ్రుతో
విపశ్చితాం ``గౌరధరః'' కిలాఽగ్రణీః ॥ ౧॥
భ్రమాదనిర్మాయ పురాతనః కవి-
ర్యమగ్రిమశ్లోకమవశ్యమగ్రతః ।
విమృశ్య పఙ్క్తేరుపరి ద్విజన్మనాం
న్యవీవిశత్కాకపదాఙ్కితం పునః ॥ ౨॥
అనన్తసిద్ధాన్తపథాన్తగామినః
సమస్తశాస్త్రార్ణవపారదృశ్వనః ।
ఋజుర్యజుర్వేదపదార్థవర్ణనా
వ్యనక్తి యస్యాఽద్భుతవిశ్రుతం శ్రుతమ్ ॥ ౩॥
సుతోఽభవద్రత్నధరః శిరోమణి-
ర్మనీషిణామస్య గుణౌఘసాగరః ।
యమాశ్రితాహ్వాస్త సరస్వతీ హరే-
రురఃస్థలం ``రత్నధరం'' శ్రితాం శ్రియమ్ ॥ ౪॥
ఉదారసత్త్వం విపులం సునిర్మలం
ప్రరూఢమర్యాదమగాధమాశయమ్ ।
ప్రవిశ్య యస్య స్వవశా సరస్వతీ
పదం బబన్ధ స్థిరమమ్బుధేరివ ॥ ౫॥
కపోలదోలాయితకర్ణభూషణం
తరఙ్గితభ్రూయుగభఙ్గురాలికమ్ ।
సచేతసామర్ధనిమీలితేక్షణం
క్షణం వితన్వన్తి ముఖం యదుక్తయః ॥ ౬॥
అథాఽస్య ధీమానుదపాది వాదినాం
వితీర్ణముద్రో వదనేష్వనేకశః ।
ఉదారసంస్కారసుసారభారతీ-
పవిత్రవక్త్రామ్బురుహో ``జగద్ధరః'' ॥ ౭॥
అపి స్థవీయఃస్వకృతస్థిరస్థితిః
కుశాగ్రతీక్ష్ణామధిరుహ్య యన్మతిమ్ ।
అహో బత స్వైరవిహారలీలయా
పదం న్యధాదస్ఖలితం సరస్వతీ ॥ ౮॥
నిర్మత్సరః సహృదయః శ్రుతపారదృశ్వా
విశ్వాతిశాయివినయః ప్రియవాక్ సుశీలః ।
కిం వాఽపరం కవిగిరాం సదసద్విచార-
చాతుర్యధుర్యధిషణః శరణం య ఏకః ॥ ౯॥
తేనాదృతేన శిశునైవ నివేద్యమాన-
మానన్దకన్దలితభక్తికుతూహలేన ।
ఏతం మృగాఙ్కకలికాకలితావతంస-
శంసారసాయనరసం రసయన్తు సన్తః ॥ ౧౦॥
గృహ్ణన్తు కఞ్చన విశేషమశేషమస్మా-
దస్మాకమాత్తవచనాః(నాత్)క్వచనాఽన్తరజ్ఞాః ।
చిన్వన్తి పల్వలజలాత్కుశలా విశాల-
శేవాలజాలకలిలాత్కమలౌఘమేవ ॥ ౧౧॥
యద్యప్యాసామనలసరసస్ఫారసారం న కిఞ్చి-
ద్వాచామన్తర్విరచితచమత్కారమస్త్యర్థతత్త్వమ్ ।
తత్రాఽప్యేతాస్త్రిభువనగురుస్తోత్రమైత్రీపవిత్రాః
కర్ణాభ్యర్ణాభరణసరణిం నేతుమర్హన్తి సన్తః ॥ ౧౨॥
ప్రేమాణం మణికర్ణికాం ప్రతి బుధా మన్దీకురుధ్వం మతిం
ముక్తాదామని మాకృత స్పృశత మా తామ్బూలహేవాకితామ్ ।
భూషార్థం ప్రభవన్తి కర్ణపులినే కణ్ఠే ముఖామ్భోరుహే
దేవస్య స్మరశాసనస్య యదిమాః స్తోత్రావలీసూక్తయః ॥ ౧౩॥
నిక్షిప్తం శతసప్తకేన సహితం పాదాయుతార్ధం మయా
నిర్హింసే గుణిని ద్విజేన్ద్రముకుటే ధర్మైకధామ్నీశ్వరే ।
ప్రాయేణ క్లిశితస్య దీనవచసః క్ష్మాక్షిప్తమూర్ధ్నోఽపి మే
పాదం నైకమయం ప్రయచ్ఛతి విధౌ వక్రే కరోమ్యత్ర కిమ్ ॥ ౧౪॥
కారఙ్కారమకారి వారితశమైరక్షైరరక్షైరిదం
నిఘ్నం విఘ్నితశమ్భుసేవనసుఖాభోగోపభోగం మనః ।
కిన్తు క్వాపి కదాపి కాఽపి పతితా సా సాధుదృష్టిర్యతః
ప్రాప్తః సూక్తివపుర్జితోర్జితసుధాస్వాదః ప్రసాదః ప్రభోః ॥ ౧౫॥
యత్సత్యం సదసద్వివేకవికలగ్రామీణకగ్రామణీ-
మిథ్యాస్తోత్రపరా పరాభవభువం నీతాసి భీతాస్యతః ।
మాతః కాతరతాం విముఞ్చ యదసౌ సౌభాగ్యభాగ్యావధిః
సఞ్జాతో జగదేకనాథనుతిభిర్వాగ్దేవి తే విభ్రమః ॥ ౧౬॥
ఇతి శ్రీమజ్జగద్ధరభట్టకవివంశావలీవివరణం సమ్పూర్ణమ్ ।
॥ ఇతి కాశ్మీరకమహాకవి శ్రీమజ్జగద్ధరభట్టవిరచితః స్తుతికుసుమాఞ్జలిః సమ్పూర్ణా ॥
Notes
Stutikusumāñjaliḥ స్తుతికుసుమాఙ్జలిః is a composition by Kāśmīra Mahākavi కాశ్మీర మహాకవి Jagaddhara Bhaṭṭa జగద్ధరభట్ట who belongs to the lineage of Ratnadhara రత్నధర (father)and Gauradhara గౌరధర (grandfather).
Proofread by Ruma Dewan
% Text title : Stutikusumanjalih
% File name : stutikusumAnjaliH.itx
% itxtitle : stutikusumAnjaliH (jagaddharabhaTTavirachite)
% engtitle : stutikusumAnjaliH
% Category : major_works, sangraha, jagaddharabhatta, kAshmIrashaivadarshanam
% Location : doc_z_misc_major_works
% Sublocation : major_works
% Author : jagaddharabhaTTa
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Ruma Dewan
% Indexextra : (1, 2, 3)
% Latest update : June 25, 2024
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org