म्विष्णुसहस्रनाम
ॐ अथ श्री विष्णुसहस्रनाम स्तोत्रम् ॐ
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये १
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् २
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ३
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ४
अविकाराय शुद्धाय नित्याय परमात्मने
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ५
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ६
अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
श्री वेदव्यासो भगवान् ऋषिः
अनुष्टुप्छन्दः
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता
अमृतांशूद्भवो भानुरिति बीजम्
देवकीनन्दनः स्रष्टेति शक्तिः
उद्भवः क्षोभणो देव इति परमो मन्त्रः
शङ्खभृन्नन्दकी चक्रीति कीलकम्
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्
रथाङ्गपाणिरक्षोभ्य इति नेत्रम्
त्रिसामा सामगः सामेति कवचम्
आनन्दं परब्रह्मेति योनिः
ऋतुः सुदर्शनः काल इति दिग्बन्धः
श्रीविश्वरूप इति ध्यानम्
श्री महाविष्णु प्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः
ध्यानम्
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ७
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ८
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ९
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् १०
नमः समस्तभूतानामादिभूताय भूभृत्
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ११
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलशोभिकौस्तुभम्
नमामि विष्णुं शिरसा चतुर्भुजम् १२
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलङ्कृतम् ।
चन्द्रा ननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये १३
ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः १४
पूतात्मा परमात्मा च मुक्तानां परमा गतिः
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च १५
योगो योगविदां नेता प्रधानपुरुषेश्वरः
नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः १६
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः १७
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः
अनादिनिधनो धाता विधाता धातुरुत्तमः १८
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः १९
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् २०
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः २१
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् २२
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः २३
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः २४
वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः २५
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः २६
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः २७
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः २८
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः २९
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः
अतीन्द्र ः\! सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ३०
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः
अतीन्द्रि यो महामायो महोत्साहो महाबलः ३१
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रि धृक् ३२
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ३३
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ३४
अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ३५
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ३६
अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ३७
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः
अहः संवर्तको वह्निरनिलो धरणीधरः ३८
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ३९
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ४०
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ४१
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः
नैकरूपो बृहद्रू पः शिपिविष्टः प्रकाशनः ४२
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रा शुं\!र्भास्करद्युतिः ४३
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ४४
भूतभव्यभवन्नाथः पवनःपावनोऽनलः
काम हाकामकृत्कान्तः कामः कामप्रदः प्रभुः ४५
युगादिकृद्युगावर्तो नैकमायो महाशनः
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ४६
इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नमुषो वृषः
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ४७
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ४८
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ४९
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ५०
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ५१
अतुलः शरभो भीमः समयज्ञो हविर्हरिः
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ५२
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः
महीधरो महाभागो वेगवानमिताशनः ५३
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः
करणं कारणं कर्ता विकर्ता गहनो गुहः ५४
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः
परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ५५
रामो विरामो विरजो मार्गो नेयो नयोऽनयः
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ५६
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ५७
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ५८
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम्
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ५९
अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ६०
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ६१
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ६२
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ६३
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ६४
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ६५
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ६६
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ६७
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ६८
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ६९
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ७०
महावराहो गोविन्दः सुषेणः कनकाङ्गदी
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ७१
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ७२
भगवान्भगहा नन्दी वनमाली हलायुधः
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ७३
सुधन्वा खण्डपरशुर्दारुणो द्र विणप्रदः
दिविःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ७४
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्
सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ७५
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ७६
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ७७
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रेयः श्रीमाँ ल्लोकत्रयाश्रयः ७८
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ७९
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ८०
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ८१
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ८२
कामदेवः कामपालः कामी कान्तः कृतागमः
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ८३
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ८४
महाक्रमो महाकर्मा महातेजा महोरगः
महाक्रतुर्महायज्वा महायज्ञो महाहविः ८५
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ८६
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ८७
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ८८
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ८९
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ९०
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ९१
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यो घृताशीरचलश्चलः ९२
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ९३
तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः ९४
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ९५
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ९६
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्र कर्मा महाकर्मा कृतकर्मा कृतागमः ९७
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ९८
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः
महाह्रदो महागर्तो महाभूतो महानिधिः ९९
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः १००
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः १०१
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः १०२
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः १०३
भारभृत्कथितो योगी योगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः १०४
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः
अपराजितः सर्वसहो नियन्ता नियमो यमः १०५
सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्होऽर्ह प्रियकृत्प्रीतिवर्धनः १०६
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः
रविर्विरोचनः सूर्यः सविता रविलोचनः १०७
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः १०८
सनात्सनातनतमः कपिलः कपिरव्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः १०९
अरौद्र ः\! कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ११०
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः १११
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ११२
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ११३
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः
जननो जनजन्मादिर्भीमो भीमपराक्रमः ११४
आधारनिलयो धाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ११५
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ११६
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ११७
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ११८
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ११९
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः १२०
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु १२१
नमोस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिषिरोरुबाहवे
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटी युगधारिणे नमः
कायेन वाचा मनसेन्द्रि यैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॐ
Reference:
Vi·öusahasranŒma with the BhŒ·ya of êr´ êa‹karŒchŒrya, (Adyar, Madras:
The Adyar Library and Research Centre, 1980).
ध्यानम्
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम्
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम्
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः १
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः २
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ३
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ४
महारूपो महाकायो वृषरूपो महायशाः
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ५
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः
पवित्रं च महांश्चैव नियमो नियमाश्रितः ६
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ७
चन्द्र ः\! सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः
अत्रिरत्र्\! यानमस्कर्ता मृगबाणार्पणोऽनघः ८
महातपा घोरतपा अदीनो दीनसाधकः
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ९
योगी योज्यो महाबीजो महारेता महाबलः
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः १०
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ११
गणकर्ता गणपतिर्दिग्वासाः काम एव च
मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः १२
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
शतघ्नी अशनी खड्गी पट्टिशी चायुधी महान् १३
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा १४
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः १५
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः १६
त्रिजटी चीरवासाश्च रुद्र ः\! सेनापतिर्विभुः
अहश्चरोनक्तञ्चरस्तिग्ममन्युः सुवर्चसः १७
गजहा दैत्यहा कालो लोकधाता गुणाकरः
सिंहशार्दूलरूपश्च आर्द्र चर्माम्बरावृतः १८
कालयोगी महानादः सर्वकामश्चतुष्पथः
निशाचरः प्रेतचारी भूतचारी महेश्वरः १९
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः २०
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रि तः २१
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः
दक्षयागापहारी च सुसहो मध्यमस्तथा २२
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः २३
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
सुतीक्ष्णदशनश्चैव महाकायो महाननः २४
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् २५
विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः
हुताशनसहायश्च प्रशान्तात्मा हुताशनः २६
उग्रतेजा महातेजा जन्यो विजयकालवित्
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च २७
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली
वैणवी पणवी ताली खली कालकटङ्कटः २८
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः २९
विमोचनः सुसरणो हिरण्यकवचोद्भवः
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ३०
सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ३१
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः
बन्धनस्त्वसुरेन्द्रा णां युधिशत्रुविनाशनः ३२
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ३३
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ३४
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ३५
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः
सर्वकालप्रसादश्च सुबलो बलरूपधृत् ३६
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ३७
रौद्र रूपॐऽशुरादित्यो बहुरश्मिः सुवर्चसी
वसुवेगो महावेगो मनोवेगो निशाचरः ३८
सर्ववासी श्रियावासी उपदेशकरोऽकरः
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ३९
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ४०
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ४१
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः
महासेनो विशाखश्च षष्ठिभागो गवाम्पतिः ४२
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ४३
वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ४४
ईशान ईश्वरः कालो निशाचारी पिनाकवान्
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ४५
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ४६
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ४७
बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ४८
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ४९
अक्षरं परमं ब्रह्म बलवच्चक्र एव च
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ५०
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ५१
महामेघनिवासी च महाघोरो वशीकरः
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ५२
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ५३
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ५४
कृष्णवर्णः सुवर्णश्च इन्द्रि यं सर्वदेहिनाम्
महापादो महाहस्तो महाकायो महायशाः ५५
महामूर्धा महामात्रो महानेत्रो निशालयः
महान्तको महाकर्णो महोष्ठश्च महाहनुः ५६
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ५७
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ५८
महानखो महारोमो महाकोशो महाजटः
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ५९
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ६०
गण्डली मेरुधामा च देवाधिपतिरेव च
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ६१
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ६२
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ६३
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः
नक्तं कलिश्च कालश्च मकरः कालपूजितः ६४
सगणो गणकारश्च भूतवाहनसारथिः
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ६५
लोकपालस्तथा लोको महात्मा सर्वपूजितः
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ६६
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ६७
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ६८
परश्वधायुधो देव अनुकारी सुबान्धवः
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ६९
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ७०
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ७१
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः
अमरेशो महादेवो विश्वदेवः सुरारिहा ७२
अहिर्बुÞयोऽनिलाभश्च चेकितानो हविस्तथा
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ७३
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ७४
प्रभावः सर्वगो वायुरर्यमा सविता रविः
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ७५
विभुर्वर्णविभावी च सर्वकामगुणावहः
पद्मनाभो महागर्भश्चन्द्र वक्त्रोऽनिलोऽनलः ७६
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ७७
सर्वाशयो दर्भचारी सर्वेषां प्राणिनाम्पतिः
देवदेवः सुखासक्तः सदसत् सर्वरत्नवित् ७८
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ७९
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः
सारग्रीवो महाजत्रु रलोलश्च महौषधः ८०
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ८१
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ८२
भूतालयो भूतपतिरहोरात्रमनिन्दितः ८३
वाहिता सर्वभूतानां निलयश्च विभुर्भवः
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ८४
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ८५
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रि यः ८६
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ८७
महाकेतुर्महाधातुर्नैकसानुचरश्चलः
आवेदनीय आदेशः सर्वगन्धसुखावहः ८८
तोरणस्तारणो वातः परिधी पतिखेचरः
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ८९
नित्यमात्मसहायश्च देवासुरपतिः पतिः
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ९०
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ९१
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः
अक्षश्च रथयोगी च सर्वयोगी महाबलः ९२
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ९३
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित्
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ९४
आरोहणोऽधिरोहश्च शीलधारी महायशाः
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ९५
युगरूपो महारूपो महानागहनो वधः
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ९६
बहुमालो महामालः शशी हरसुलोचनः
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ९७
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ९८
निवेदनः सुखाजातः सुगन्धारो महाधनुः
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ९९
मन्थानो बहुलो वायुः सकलः सर्वलोचनः
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् १००
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः १०१
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्
सहस्रमूर्धा देवेन्द्र ः\! सर्वदेवमयो गुरुः १०२
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः १०३
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः १०४
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः १०५
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः १०६
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत्
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः १०७
वरो वराहो वरदो वरेण्यः सुमहास्वनः
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः १०८
प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्
सर्वपार्श्वमुखस्त्र्\! यक्षो धर्मसाधारणो वरः १०९
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ११०
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः १११
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ११२
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ११३
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः
देवासुरविनिर्माता देवासुरपरायणः ११४
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरगणाश्रयः ११५
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ११६
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ११७
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ११८
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ११९
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः १२०
अभिरामः सुरगणो विरामः सर्वसाधनः
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः १२१
स्थावराणाम्पतिश्चैव नियमेन्द्रि यवर्धनः
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः १२२
व्रताधिपः परं ब्रह्म भक्तानां परमागतिः
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् १२३
ॐ
इति श्री शिव सहस्रनाम स्तोत्रं सम्पूर्णम्
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य
गणेश ऋषिः
महागणपतिर्देवता
नानाविधानिच्छन्दांसि
हुमिति बीजम्
तुङ्गमिति शक्तिः
स्वाहाशक्तिरिति कीलकम्
श्रीमहागणपतिप्रसादसिद्ध्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः
ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम्
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि १
श्रीगणपतिरुवाच
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः
एकदन्तो वक्रतुण्डो गजवक्त्रो महादरः १
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः २
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ३
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः
विनायको विरूपाक्षो वीरः शूरवरप्रदः ४
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः
रुद्र प्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ५
कुमारगुरुरीशानपुत्रो मूषकवाहनः
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ६
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः
कटङ्कटो राजपुत्रः शाकलः सम्मितोऽमितः ७
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ८
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ९
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः १०
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित्
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ११
किरीटी कुण्डली हारी वनमाली मनोमयः
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः १२
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत्
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः १३
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः १४
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः १५
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी
देवदेवः स्मरः प्राणदीपको वायुकीलकः १६
विपश्चिद्वरदो नादो नादभिन्नमहाचलः
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः १७
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः १८
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः १९
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः २०
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् २१
गिरीन्द्रै करदो धर्माधर्मोष्ठः सामबृंहितः
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः २२
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः
कुलाचलांसः सोमार्कघण्टो रुद्र शिरोधरः २३
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः २४
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः २५
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः २६
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः
सद्भक्तध्याननिगडः पूजावारिनिवारितः २७
प्रतापी काश्यपो मन्ता गणको विष्टपी बली
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः २८
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः २९
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ३०
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ३१
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः
लिपिपद्मासनाधारो वह्निधामत्रयालयः ३२
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ३३
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ३४
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ३५
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ३६
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ३७
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ३८
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ३९
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ४०
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम्
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ४१
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ४२
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत्
पाशी धृतोत्पलः शालीमञ्जलीभृत्स्वदन्तभृत् ४३
कल्पवल्लीधरो विश्वाभयदैककरो वशी
अक्षमालाधरो ज्ञानमुद्रा वान् मुद्गरायुधः ४४
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ४५
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः
भारतीसुन्दरीनाथो विनायकरतिप्रियः ४६
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ४७
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः
आमोदमोदजननः सप्रमोदप्रमोदनः ४८
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ४९
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्र वः ५०
विघ्नकृन्निम्नचरणो द्रा विणीशक्तिसत्कृतः
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ५१
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ५२
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ५३
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः
ईशानमूर्धा देवेन्द्र शिखः पवननन्दनः ५४
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक्
ऐरावतादिसर्वाशावारणो वारणप्रियः ५५
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः
जयाजयपरिकरो विजयाविजयावहः ५६
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ५७
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ५८
सुभगासंश्रितपदो ललिताललिताश्रयः
कामिनीपालनः कामकामिनीकेलिलालितः ५९
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ६०
नलिनीकामुको वामारामो ज्येष्ठामनोरमः
रौद्री मुद्रि तपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ६१
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः
अमृताब्धिकृतावासो मदघूर्णितलोचनः ६२
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ६३
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ६४
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ६५
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः
आधारपीठमाधार आधाराधेयवर्जितः ६६
आखुकेतन आशापूरक आखुमहारथः
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ६७
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः
इन्द्र गोपसमानश्रीरिन्द्र नीलसमद्युतिः ६८
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ६९
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः
ईशानमौलिरीशान ईशानप्रिय ईतिहा ७०
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ७१
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ७२
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ७३
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम्
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ७४
एकारपीठमध्यस्थ एकपादकृतासनः
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ७५
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः
ऐरम्मदसमोन्मेष ऐरावतसमाननः ७६
ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ७७
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ७८
कमण्डलुधरः कल्पः कपर्दी कलभाननः
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ७९
कदम्बगोलकाकारः कूष्माण्डगणनायकः
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ८०
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ८१
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ८२
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ८३
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ८४
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः
चराचरपिता चिन्तामणिश्चर्वणलालसः ८५
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ८६
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ८७
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ८८
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ८९
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ९०
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत्
दक्षयज्ञप्रमथनो दाता दानं दमो दया ९१
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ९२
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ९३
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ९४
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ९५
परं व्योम परं धाम परमात्मा परं पदम् ९६
परात्परः पशुपतिः पशुपाशविमोचनः
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ९७
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ९८
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ९९
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः १००
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः १०१
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः १०२
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः
महाबलो महावीर्यो महाप्राणो महामनाः १०३
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः
यशस्करो योगगम्यो याज्ञिको याजकप्रियः १०४
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः १०५
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः १०६
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः १०७
वामदेवो विश्वनेता वज्रिवज्रनिवारणः
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः १०८
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः १०९
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ११०
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः १११
साक्षी समुद्र मथनः स्वयंवेद्यः स्वदक्षिणः
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ११२
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ११३
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ११४
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ११५
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ११६
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ११७
पराभिचारशमनो दुःखहा बन्धमोक्षदः
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ११८
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम्
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ११९
राशिस्तारा तिथिर्योगो वारः करणमंशकम्
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः १२०
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् १२१
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान्
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः १२२
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः १२३
समुद्रा ः\! सरितः शैला भूतं भव्यं भवोद्भवः
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः १२४
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् १२५
वैखानसं भागवतं मानुषं पाञ्चरात्रकम्
शैवं पाशुपतं कालामुखम्भैरवशासनम् १२६
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् १२७
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान्
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषड् वौषड् वषण् नमः १२८
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः
एक एकाक्षराधार एकाक्षरपरायणः १२९
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक्
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः १३०
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः १३१
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः १३२
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः १३३
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः १३४
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः १३५
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः १३६
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः १३७
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः १३८
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः १३९
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः १४०
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः १४१
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् १४२
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः १४३
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् १४४
अष्टचक्रस्फुरन्मूर्तिरष्टद्र व्यहविःप्रियः
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः
नवनागासनाध्यासी नवनिध्यनुशासितः १४५
नवद्वारपुरावृत्तो नवद्वारनिकेतनः
नवनाथमहानाथो नवनागविभूषितः १४६
नवनारायणस्तुल्यो नवदुर्गानिषेवितः
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः १४७
दशात्मको दशभुजो दशदिक्पतिवन्दितः
दशाध्यायो दशप्राणो दशेन्द्रि यनियामकः १४८
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः
एकादशमहारुद्रै स्तुःतश्चैकादशाक्षरः १४९
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् १५०
चतुर्दशेन्द्र वरदश्चतुर्दशमनुप्रभुः
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः १५१
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः १५२
षोडशाधारनिलयः षोडशस्वरमातृकः
षोडशान्तपदावासः षोडशेन्दुकलात्मकः १५३
कलासप्तदशी सप्तदशसप्तदशाक्षरः
अष्टादशद्वीपपतिरष्टादशपुराणकृत् १५४
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः १५५
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत्
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः १५६
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः
सप्तविंशतितारेशः सप्तविंशतियोगकृत् १५७
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः १५८
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्र विग्रहः १५९
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः १६०
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः १६१
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः
शतानन्दः शतधृतिः शतपत्रायतेक्षणः १६२
शतानीकः शतमखः शतधारावरायुधः
सहस्रपत्रनिलयः सहस्रफणिभूषणः १६३
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः १६४
दशसाहस्रफणिभृत्फणिराजकृतासनः
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठिनः १६५
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः १६६
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः
कोटिसूर्यप्रतीकाशः कोटिचन्द्रा शुं\!निर्मलः १६७
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः १६८
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः १६९
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः १७०
మ్విష్ణుసహస్రనామ
ఓం అథ శ్రీ విష్ణుసహస్రనామ స్తోత్రమ్ ఓం
శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే ౧
నారాయణం నమస్కృత్య నరం చైవ నరోత్తమమ్
దేవీం సరస్వతీం వ్యాసం తతో జయముదీరయేత్ ౨
వ్యాసం వసిష్ఠనప్తారం శక్తేః పౌత్రమకల్మషమ్
పరాశరాత్మజం వన్దే శుకతాతం తపోనిధిమ్ ౩
వ్యాసాయ విష్ణురూపాయ వ్యాసరూపాయ విష్ణవే
నమో వై బ్రహ్మనిధయే వాసిష్ఠాయ నమో నమః ౪
అవికారాయ శుద్ధాయ నిత్యాయ పరమాత్మనే
సదైకరూపరూపాయ విష్ణవే సర్వజిష్ణవే ౫
యస్య స్మరణమాత్రేణ జన్మసంసారబన్ధనాత్
విముచ్యతే నమస్తస్మై విష్ణవే ప్రభవిష్ణవే ౬
అస్య శ్రీవిష్ణోర్దివ్యసహస్రనామస్తోత్రమహామన్త్రస్య
శ్రీ వేదవ్యాసో భగవాన్ ఋషిః
అనుష్టుప్ఛన్దః
శ్రీమహావిష్ణుః పరమాత్మా శ్రీమన్నారాయణో దేవతా
అమృతాంశూద్భవో భానురితి బీజమ్
దేవకీనన్దనః స్రష్టేతి శక్తిః
ఉద్భవః క్షోభణో దేవ ఇతి పరమో మన్త్రః
శఙ్ఖభృన్నన్దకీ చక్రీతి కీలకమ్
శార్ఙ్గధన్వా గదాధర ఇత్యస్త్రమ్
రథాఙ్గపాణిరక్షోభ్య ఇతి నేత్రమ్
త్రిసామా సామగః సామేతి కవచమ్
ఆనన్దం పరబ్రహ్మేతి యోనిః
ఋతుః సుదర్శనః కాల ఇతి దిగ్బన్ధః
శ్రీవిశ్వరూప ఇతి ధ్యానమ్
శ్రీ మహావిష్ణు ప్రీత్యర్థే సహస్రనామస్తోత్రపాఠే వినియోగః
ధ్యానమ్
క్షీరోదన్వత్ప్రదేశే శుచిమణివిలసత్సైకతేర్మౌక్తికానాం
మాలాకౢప్తాసనస్థః స్ఫటికమణినిభైర్మౌక్తికైర్మణ్డితాఙ్గః ।
శుభ్రైరభ్రైరదభ్రైరుపరివిరచితైర్ముక్తపీయూష వర్షైః
ఆనన్దీ నః పునీయాదరినలినగదా శఙ్ఖపాణిర్ముకున్దః ౭
భూః పాదౌ యస్య నాభిర్వియదసురనిలశ్చన్ద్ర సూర్యౌ చ నేత్రే
కర్ణావాశాః శిరో ద్యౌర్ముఖమపి దహనో యస్య వాస్తేయమబ్ధిః ।
అన్తఃస్థం యస్య విశ్వం సురనరఖగగోభోగిగన్ధర్వదైత్యైః
చిత్రం రంరమ్యతే తం త్రిభువనవపుషం విష్ణుమీశం నమామి ౮
శాన్తాకారం భుజగశయనం పద్మనాభం సురేశం
విశ్వాధారం గగనసదృశం మేఘవర్ణం శుభాఙ్గమ్
లక్ష్మీకాన్తం కమలనయనం యోగిభిర్ధ్యానగమ్యం
వన్దే విష్ణుం భవభయహరం సర్వలోకైకనాథమ్ ౯
మేఘశ్యామం పీతకౌశేయవాసం
శ్రీవత్సాఙ్కం కౌస్తుభోద్భాసితాఙ్గమ్ ।
పుణ్యోపేతం పుణ్డరీకాయతాక్షం
విష్ణుం వన్దే సర్వలోకైకనాథమ్ ౧౦
నమః సమస్తభూతానామాదిభూతాయ భూభృత్
అనేకరూపరూపాయ విష్ణవే ప్రభవిష్ణవే ౧౧
సశఙ్ఖచక్రం సకిరీటకుణ్డలం
సపీతవస్త్రం సరసీరుహేక్షణమ్ ।
సహారవక్షఃస్థలశోభికౌస్తుభమ్
నమామి విష్ణుం శిరసా చతుర్భుజమ్ ౧౨
ఛాయాయాం పారిజాతస్య హేమసింహాసనోపరి
ఆసీనమమ్బుదశ్యామమాయతాక్షమలఙ్కృతమ్ ।
చన్ద్రా ననం చతుర్బాహుం శ్రీవత్సాఙ్కిత వక్షసం
రుక్మిణీ సత్యభామాభ్యాం సహితం కృష్ణమాశ్రయే ౧౩
ఓం విశ్వం విష్ణుర్వషట్కారో భూతభవ్యభవత్ప్రభుః
భూతకృద్భూతభృద్భావో భూతాత్మా భూతభావనః ౧౪
పూతాత్మా పరమాత్మా చ ముక్తానాం పరమా గతిః
అవ్యయః పురుషః సాక్షీ క్షేత్రజ్ఞోఽక్షర ఏవ చ ౧౫
యోగో యోగవిదాం నేతా ప్రధానపురుషేశ్వరః
నారసింహవపుః శ్రీమాన్కేశవః పురుషోత్తమః ౧౬
సర్వః శర్వః శివః స్థాణుర్భూతాదిర్నిధిరవ్యయః
సమ్భవో భావనో భర్తా ప్రభవః ప్రభురీశ్వరః ౧౭
స్వయమ్భూః శమ్భురాదిత్యః పుష్కరాక్షో మహాస్వనః
అనాదినిధనో ధాతా విధాతా ధాతురుత్తమః ౧౮
అప్రమేయో హృషీకేశః పద్మనాభోఽమరప్రభుః
విశ్వకర్మా మనుస్త్వష్టా స్థవిష్ఠః స్థవిరో ధ్రువః ౧౯
అగ్రాహ్యః శాశ్వతః కృష్ణో లోహితాక్షః ప్రతర్దనః
ప్రభూతస్త్రికకుబ్ధామ పవిత్రం మఙ్గలం పరమ్ ౨౦
ఈశానః ప్రాణదః ప్రాణో జ్యేష్ఠః శ్రేష్ఠః ప్రజాపతిః
హిరణ్యగర్భో భూగర్భో మాధవో మధుసూదనః ౨౧
ఈశ్వరో విక్రమీ ధన్వీ మేధావీ విక్రమః క్రమః
అనుత్తమో దురాధర్షః కృతజ్ఞః కృతిరాత్మవాన్ ౨౨
సురేశః శరణం శర్మ విశ్వరేతాః ప్రజాభవః
అహః సంవత్సరో వ్యాలః ప్రత్యయః సర్వదర్శనః ౨౩
అజః సర్వేశ్వరః సిద్ధః సిద్ధిః సర్వాదిరచ్యుతః
వృషాకపిరమేయాత్మా సర్వయోగవినిఃసృతః ౨౪
వసుర్వసుమనాః సత్యః సమాత్మా సమ్మితః సమః
అమోఘః పుణ్డరీకాక్షో వృషకర్మా వృషాకృతిః ౨౫
రుద్రో బహుశిరా బభ్రుర్విశ్వయోనిః శుచిశ్రవాః
అమృతః శాశ్వతః స్థాణుర్వరారోహో మహాతపాః ౨౬
సర్వగః సర్వవిద్భానుర్విష్వక్సేనో జనార్దనః
వేదో వేదవిదవ్యఙ్గో వేదాఙ్గో వేదవిత్కవిః ౨౭
లోకాధ్యక్షః సురాధ్యక్షో ధర్మాధ్యక్షః కృతాకృతః
చతురాత్మా చతుర్వ్యూహశ్చతుర్దంష్ట్రశ్చతుర్భుజః ౨౮
భ్రాజిష్ణుర్భోజనం భోక్తా సహిష్ణుర్జగదాదిజః
అనఘో విజయో జేతా విశ్వయోనిః పునర్వసుః ౨౯
ఉపేన్ద్రో వామనః ప్రాంశురమోఘః శుచిరూర్జితః
అతీన్ద్ర ః\! సఙ్గ్రహః సర్గో ధృతాత్మా నియమో యమః ౩౦
వేద్యో వైద్యః సదాయోగీ వీరహా మాధవో మధుః
అతీన్ద్రి యో మహామాయో మహోత్సాహో మహాబలః ౩౧
మహాబుద్ధిర్మహావీర్యో మహాశక్తిర్మహాద్యుతిః
అనిర్దేశ్యవపుః శ్రీమానమేయాత్మా మహాద్రి ధృక్ ౩౨
మహేష్వాసో మహీభర్తా శ్రీనివాసః సతాం గతిః
అనిరుద్ధః సురానన్దో గోవిన్దో గోవిదాం పతిః ౩౩
మరీచిర్దమనో హంసః సుపర్ణో భుజగోత్తమః
హిరణ్యనాభః సుతపాః పద్మనాభః ప్రజాపతిః ౩౪
అమృత్యుః సర్వదృక్సింహః సన్ధాతా సన్ధిమాన్స్థిరః
అజో దుర్మర్షణః శాస్తా విశ్రుతాత్మా సురారిహా ౩౫
గురుర్గురుతమో ధామ సత్యః సత్యపరాక్రమః
నిమిషోఽనిమిషః స్రగ్వీ వాచస్పతిరుదారధీః ౩౬
అగ్రణీర్గ్రామణీః శ్రీమాన్న్యాయో నేతా సమీరణః
సహస్రమూర్ధా విశ్వాత్మా సహస్రాక్షః సహస్రపాత్ ౩౭
ఆవర్తనో నివృత్తాత్మా సంవృతః సమ్ప్రమర్దనః
అహః సంవర్తకో వహ్నిరనిలో ధరణీధరః ౩౮
సుప్రసాదః ప్రసన్నాత్మా విశ్వధృగ్విశ్వభుగ్విభుః
సత్కర్తా సత్కృతః సాధుర్జహ్నుర్నారాయణో నరః ౩౯
అసఙ్ఖ్యేయోఽప్రమేయాత్మా విశిష్టః శిష్టకృచ్ఛుచిః
సిద్ధార్థః సిద్ధసఙ్కల్పః సిద్ధిదః సిద్ధిసాధనః ౪౦
వృషాహీ వృషభో విష్ణుర్వృషపర్వా వృషోదరః
వర్ధనో వర్ధమానశ్చ వివిక్తః శ్రుతిసాగరః ౪౧
సుభుజో దుర్ధరో వాగ్మీ మహేన్ద్రో వసుదో వసుః
నైకరూపో బృహద్రూ పః శిపివిష్టః ప్రకాశనః ౪౨
ఓజస్తేజో ద్యుతిధరః ప్రకాశాత్మా ప్రతాపనః
ఋద్ధః స్పష్టాక్షరో మన్త్రశ్చన్ద్రా శుం\!ర్భాస్కరద్యుతిః ౪౩
అమృతాంశూద్భవో భానుః శశబిన్దుః సురేశ్వరః
ఔషధం జగతః సేతుః సత్యధర్మపరాక్రమః ౪౪
భూతభవ్యభవన్నాథః పవనఃపావనోఽనలః
కామ హాకామకృత్కాన్తః కామః కామప్రదః ప్రభుః ౪౫
యుగాదికృద్యుగావర్తో నైకమాయో మహాశనః
అదృశ్యో వ్యక్తరూపశ్చ సహస్రజిదనన్తజిత్ ౪౬
ఇష్టో విశిష్టః శిష్టేష్టః శిఖణ్డీ నముషో వృషః
క్రోధహా క్రోధకృత్కర్తా విశ్వబాహుర్మహీధరః ౪౭
అచ్యుతః ప్రథితః ప్రాణః ప్రాణదో వాసవానుజః
అపాం నిధిరధిష్ఠానమప్రమత్తః ప్రతిష్ఠితః ౪౮
స్కన్దః స్కన్దధరో ధుర్యో వరదో వాయువాహనః
వాసుదేవో బృహద్భానురాదిదేవః పురన్దరః ౪౯
అశోకస్తారణస్తారః శూరః శౌరిర్జనేశ్వరః
అనుకూలః శతావర్తః పద్మీ పద్మనిభేక్షణః ౫౦
పద్మనాభోఽరవిన్దాక్షః పద్మగర్భః శరీరభృత్
మహర్ద్ధిరృద్ధో వృద్ధాత్మా మహాక్షో గరుడధ్వజః ౫౧
అతులః శరభో భీమః సమయజ్ఞో హవిర్హరిః
సర్వలక్షణలక్షణ్యో లక్ష్మీవాన్సమితిఞ్జయః ౫౨
విక్షరో రోహితో మార్గో హేతుర్దామోదరః సహః
మహీధరో మహాభాగో వేగవానమితాశనః ౫౩
ఉద్భవః క్షోభణో దేవః శ్రీగర్భః పరమేశ్వరః
కరణం కారణం కర్తా వికర్తా గహనో గుహః ౫౪
వ్యవసాయో వ్యవస్థానః సంస్థానః స్థానదో ధ్రువః
పరర్ద్ధిః పరమః స్పష్టస్తుష్టః పుష్టః శుభేక్షణః ౫౫
రామో విరామో విరజో మార్గో నేయో నయోఽనయః
వీరః శక్తిమతాం శ్రేష్ఠో ధర్మో ధర్మవిదుత్తమః ౫౬
వైకుణ్ఠః పురుషః ప్రాణః ప్రాణదః ప్రణవః పృథుః
హిరణ్యగర్భః శత్రుఘ్నో వ్యాప్తో వాయురధోక్షజః ౫౭
ఋతుః సుదర్శనః కాలః పరమేష్ఠీ పరిగ్రహః
ఉగ్రః సంవత్సరో దక్షో విశ్రామో విశ్వదక్షిణః ౫౮
విస్తారః స్థావరః స్థాణుః ప్రమాణం బీజమవ్యయమ్
అర్థోఽనర్థో మహాకోశో మహాభోగో మహాధనః ౫౯
అనిర్విణ్ణః స్థవిష్ఠో భూర్ధర్మయూపో మహామఖః
నక్షత్రనేమిర్నక్షత్రీ క్షమః క్షామః సమీహనః ౬౦
యజ్ఞ ఇజ్యో మహేజ్యశ్చ క్రతుః సత్రం సతాం గతిః
సర్వదర్శీ విముక్తాత్మా సర్వజ్ఞో జ్ఞానముత్తమమ్ ౬౧
సువ్రతః సుముఖః సూక్ష్మః సుఘోషః సుఖదః సుహృత్
మనోహరో జితక్రోధో వీరబాహుర్విదారణః ౬౨
స్వాపనః స్వవశో వ్యాపీ నైకాత్మా నైకకర్మకృత్
వత్సరో వత్సలో వత్సీ రత్నగర్భో ధనేశ్వరః ౬౩
ధర్మగుబ్ధర్మకృద్ధర్మీ సదసత్క్షరమక్షరమ్
అవిజ్ఞాతా సహస్రాంశుర్విధాతా కృతలక్షణః ౬౪
గభస్తినేమిః సత్త్వస్థః సింహో భూతమహేశ్వరః
ఆదిదేవో మహాదేవో దేవేశో దేవభృద్గురుః ౬౫
ఉత్తరో గోపతిర్గోప్తా జ్ఞానగమ్యః పురాతనః
శరీరభూతభృద్భోక్తా కపీన్ద్రో భూరిదక్షిణః ౬౬
సోమపోఽమృతపః సోమః పురుజిత్పురుసత్తమః
వినయో జయః సత్యసన్ధో దాశార్హః సాత్వతాం పతిః ౬౭
జీవో వినయితా సాక్షీ ముకున్దోఽమితవిక్రమః
అమ్భోనిధిరనన్తాత్మా మహోదధిశయోఽన్తకః ౬౮
అజో మహార్హః స్వాభావ్యో జితామిత్రః ప్రమోదనః
ఆనన్దో నన్దనో నన్దః సత్యధర్మా త్రివిక్రమః ౬౯
మహర్షిః కపిలాచార్యః కృతజ్ఞో మేదినీపతిః
త్రిపదస్త్రిదశాధ్యక్షో మహాశృఙ్గః కృతాన్తకృత్ ౭౦
మహావరాహో గోవిన్దః సుషేణః కనకాఙ్గదీ
గుహ్యో గభీరో గహనో గుప్తశ్చక్రగదాధరః ౭౧
వేధాః స్వాఙ్గోఽజితః కృష్ణో దృఢః సఙ్కర్షణోఽచ్యుతః
వరుణో వారుణో వృక్షః పుష్కరాక్షో మహామనాః ౭౨
భగవాన్భగహా నన్దీ వనమాలీ హలాయుధః
ఆదిత్యో జ్యోతిరాదిత్యః సహిష్ణుర్గతిసత్తమః ౭౩
సుధన్వా ఖణ్డపరశుర్దారుణో ద్ర విణప్రదః
దివిఃస్పృక్సర్వదృగ్వ్యాసో వాచస్పతిరయోనిజః ౭౪
త్రిసామా సామగః సామ నిర్వాణం భేషజం భిషక్
సన్న్యాసకృచ్ఛమః శాన్తో నిష్ఠా శాన్తిః పరాయణమ్ ౭౫
శుభాఙ్గః శాన్తిదః స్రష్టా కుముదః కువలేశయః
గోహితో గోపతిర్గోప్తా వృషభాక్షో వృషప్రియః ౭౬
అనివర్తీ నివృత్తాత్మా సఙ్క్షేప్తా క్షేమకృచ్ఛివః
శ్రీవత్సవక్షాః శ్రీవాసః శ్రీపతిః శ్రీమతాం వరః ౭౭
శ్రీదః శ్రీశః శ్రీనివాసః శ్రీనిధిః శ్రీవిభావనః
శ్రీధరః శ్రీకరః శ్రేయః శ్రీమాఁ ల్లోకత్రయాశ్రయః ౭౮
స్వక్షః స్వఙ్గః శతానన్దో నన్దిర్జ్యోతిర్గణేశ్వరః
విజితాత్మా విధేయాత్మా సత్కీర్తిశ్ఛిన్నసంశయః ౭౯
ఉదీర్ణః సర్వతశ్చక్షురనీశః శాశ్వతః స్థిరః
భూశయో భూషణో భూతిర్విశోకః శోకనాశనః ౮౦
అర్చిష్మానర్చితః కుమ్భో విశుద్ధాత్మా విశోధనః
అనిరుద్ధోఽప్రతిరథః ప్రద్యుమ్నోఽమితవిక్రమః ౮౧
కాలనేమినిహా వీరః శౌరిః శూరజనేశ్వరః
త్రిలోకాత్మా త్రిలోకేశః కేశవః కేశిహా హరిః ౮౨
కామదేవః కామపాలః కామీ కాన్తః కృతాగమః
అనిర్దేశ్యవపుర్విష్ణుర్వీరోఽనన్తో ధనఞ్జయః ౮౩
బ్రహ్మణ్యో బ్రహ్మకృద్బ్రహ్మా బ్రహ్మ బ్రహ్మవివర్ధనః
బ్రహ్మవిద్బ్రాహ్మణో బ్రహ్మీ బ్రహ్మజ్ఞో బ్రాహ్మణప్రియః ౮౪
మహాక్రమో మహాకర్మా మహాతేజా మహోరగః
మహాక్రతుర్మహాయజ్వా మహాయజ్ఞో మహాహవిః ౮౫
స్తవ్యః స్తవప్రియః స్తోత్రం స్తుతిః స్తోతా రణప్రియః
పూర్ణః పూరయితా పుణ్యః పుణ్యకీర్తిరనామయః ౮౬
మనోజవస్తీర్థకరో వసురేతా వసుప్రదః
వసుప్రదో వాసుదేవో వసుర్వసుమనా హవిః ౮౭
సద్గతిః సత్కృతిః సత్తా సద్భూతిః సత్పరాయణః
శూరసేనో యదుశ్రేష్ఠః సన్నివాసః సుయామునః ౮౮
భూతావాసో వాసుదేవః సర్వాసునిలయోఽనలః
దర్పహా దర్పదో దృప్తో దుర్ధరోఽథాపరాజితః ౮౯
విశ్వమూర్తిర్మహామూర్తిర్దీప్తమూర్తిరమూర్తిమాన్
అనేకమూర్తిరవ్యక్తః శతమూర్తిః శతాననః ౯౦
ఏకో నైకః సవః కః కిం యత్తత్పదమనుత్తమమ్
లోకబన్ధుర్లోకనాథో మాధవో భక్తవత్సలః ౯౧
సువర్ణవర్ణో హేమాఙ్గో వరాఙ్గశ్చన్దనాఙ్గదీ
వీరహా విషమః శూన్యో ఘృతాశీరచలశ్చలః ౯౨
అమానీ మానదో మాన్యో లోకస్వామీ త్రిలోకధృక్
సుమేధా మేధజో ధన్యః సత్యమేధా ధరాధరః ౯౩
తేజో వృషో ద్యుతిధరః సర్వశస్త్రభృతాం వరః
ప్రగ్రహో నిగ్రహోఽవ్యగ్రో నైకశృఙ్గో గదాగ్రజః ౯౪
చతుర్మూర్తిశ్చతుర్బాహుశ్చతుర్వ్యూహశ్చతుర్గతిః
చతురాత్మా చతుర్భావశ్చతుర్వేదవిదేకపాత్ ౯౫
సమావర్తో నివృత్తాత్మా దుర్జయో దురతిక్రమః
దుర్లభో దుర్గమో దుర్గో దురావాసో దురారిహా ౯౬
శుభాఙ్గో లోకసారఙ్గః సుతన్తుస్తన్తువర్ధనః
ఇన్ద్ర కర్మా మహాకర్మా కృతకర్మా కృతాగమః ౯౭
ఉద్భవః సున్దరః సున్దో రత్ననాభః సులోచనః
అర్కో వాజసనః శృఙ్గీ జయన్తః సర్వవిజ్జయీ ౯౮
సువర్ణబిన్దురక్షోభ్యః సర్వవాగీశ్వరేశ్వరః
మహాహ్రదో మహాగర్తో మహాభూతో మహానిధిః ౯౯
కుముదః కున్దరః కున్దః పర్జన్యః పావనోఽనిలః
అమృతాంశోఽమృతవపుః సర్వజ్ఞః సర్వతోముఖః ౧౦౦
సులభః సువ్రతః సిద్ధః శత్రుజిచ్ఛత్రుతాపనః
న్యగ్రోధోదుమ్బరోఽశ్వత్థశ్చాణూరాన్ధ్రనిషూదనః ౧౦౧
సహస్రార్చిః సప్తజిహ్వః సప్తైధాః సప్తవాహనః
అమూర్తిరనఘోఽచిన్త్యో భయకృద్భయనాశనః ౧౦౨
అణుర్బృహత్కృశః స్థూలో గుణభృన్నిర్గుణో మహాన్
అధృతః స్వధృతః స్వాస్యః ప్రాగ్వంశో వంశవర్ధనః ౧౦౩
భారభృత్కథితో యోగీ యోగీశః సర్వకామదః
ఆశ్రమః శ్రమణః క్షామః సుపర్ణో వాయువాహనః ౧౦౪
ధనుర్ధరో ధనుర్వేదో దణ్డో దమయితా దమః
అపరాజితః సర్వసహో నియన్తా నియమో యమః ౧౦౫
సత్త్వవాన్సాత్త్వికః సత్యః సత్యధర్మపరాయణః
అభిప్రాయః ప్రియార్హోఽర్హ ప్రియకృత్ప్రీతివర్ధనః ౧౦౬
విహాయసగతిర్జ్యోతిః సురుచిర్హుతభుగ్విభుః
రవిర్విరోచనః సూర్యః సవితా రవిలోచనః ౧౦౭
అనన్తో హుతభుగ్భోక్తా సుఖదో నైకజోఽగ్రజః
అనిర్విణ్ణః సదామర్షీ లోకాధిష్ఠానమద్భుతః ౧౦౮
సనాత్సనాతనతమః కపిలః కపిరవ్యయః
స్వస్తిదః స్వస్తికృత్స్వస్తి స్వస్తిభుక్స్వస్తిదక్షిణః ౧౦౯
అరౌద్ర ః\! కుణ్డలీ చక్రీ విక్రమ్యూర్జితశాసనః
శబ్దాతిగః శబ్దసహః శిశిరః శర్వరీకరః ౧౧౦
అక్రూరః పేశలో దక్షో దక్షిణః క్షమిణాం వరః
విద్వత్తమో వీతభయః పుణ్యశ్రవణకీర్తనః ౧౧౧
ఉత్తారణో దుష్కృతిహా పుణ్యో దుఃస్వప్ననాశనః
వీరహా రక్షణః సన్తో జీవనః పర్యవస్థితః ౧౧౨
అనన్తరూపోఽనన్తశ్రీర్జితమన్యుర్భయాపహః
చతురస్రో గభీరాత్మా విదిశో వ్యాదిశో దిశః ౧౧౩
అనాదిర్భూర్భువో లక్ష్మీః సువీరో రుచిరాఙ్గదః
జననో జనజన్మాదిర్భీమో భీమపరాక్రమః ౧౧౪
ఆధారనిలయో ధాతా పుష్పహాసః ప్రజాగరః
ఊర్ధ్వగః సత్పథాచారః ప్రాణదః ప్రణవః పణః ౧౧౫
ప్రమాణం ప్రాణనిలయః ప్రాణభృత్ప్రాణజీవనః
తత్త్వం తత్త్వవిదేకాత్మా జన్మమృత్యుజరాతిగః ౧౧౬
భూర్భువఃస్వస్తరుస్తారః సవితా ప్రపితామహః
యజ్ఞో యజ్ఞపతిర్యజ్వా యజ్ఞాఙ్గో యజ్ఞవాహనః ౧౧౭
యజ్ఞభృద్యజ్ఞకృద్యజ్ఞీ యజ్ఞభుగ్యజ్ఞసాధనః
యజ్ఞాన్తకృద్యజ్ఞగుహ్యమన్నమన్నాద ఏవ చ ౧౧౮
ఆత్మయోనిః స్వయఞ్జాతో వైఖానః సామగాయనః
దేవకీనన్దనః స్రష్టా క్షితీశః పాపనాశనః ౧౧౯
శఙ్ఖభృన్నన్దకీ చక్రీ శార్ఙ్గధన్వా గదాధరః
రథాఙ్గపాణిరక్షోభ్యః సర్వప్రహరణాయుధః ౧౨౦
వనమాలీ గదీ శార్ఙ్గీ శఙ్ఖీ చక్రీ చ నన్దకీ
శ్రీమాన్ నారాయణో విష్ణుర్వాసుదేవోఽభిరక్షతు ౧౨౧
నమోస్త్వనన్తాయ సహస్రమూర్తయే
సహస్రపాదాక్షిషిరోరుబాహవే
సహస్రనామ్నే పురుషాయ శాశ్వతే
సహస్రకోటీ యుగధారిణే నమః
కాయేన వాచా మనసేన్ద్రి యైర్వా
బుద్ధ్యాత్మనా వా ప్రకృతేః స్వభావాత్
కరోమి యద్యత్సకలం పరస్మై
నారాయణాయేతి సమర్పయామి ఓం
Reference:
Vi·öusahasranŒma with the BhŒ·ya of êr´ êa‹karŒchŒrya, (Adyar, Madras:
The Adyar Library and Research Centre, 1980).
ధ్యానమ్
వన్దే శమ్భుముమాపతిం సురగురుం వన్దే జగత్కారణమ్
వన్దే పన్నగభూషణం మృగధరం వన్దే పశూనాం పతిమ్
వన్దే సూర్యశశాఙ్కవహ్నినయనం వన్దే ముకున్దప్రియమ్
వన్దే భక్తజనాశ్రయం చ వరదం వన్దే శివం శఙ్కరమ్
స్థిరః స్థాణుః ప్రభుర్భీమః ప్రవరో వరదో వరః
సర్వాత్మా సర్వవిఖ్యాతః సర్వః సర్వకరో భవః ౧
జటీ చర్మీ శిఖణ్డీ చ సర్వాఙ్గః సర్వభావనః
హరశ్చ హరిణాక్షశ్చ సర్వభూతహరః ప్రభుః ౨
ప్రవృత్తిశ్చ నివృత్తిశ్చ నియతః శాశ్వతో ధ్రువః
శ్మశానవాసీ భగవాన్ ఖచరో గోచరోఽర్దనః ౩
అభివాద్యో మహాకర్మా తపస్వీ భూతభావనః
ఉన్మత్తవేషప్రచ్ఛన్నః సర్వలోకప్రజాపతిః ౪
మహారూపో మహాకాయో వృషరూపో మహాయశాః
మహాత్మా సర్వభూతాత్మా విశ్వరూపో మహాహనుః ౫
లోకపాలోఽన్తర్హితాత్మా ప్రసాదో హయగర్దభిః
పవిత్రం చ మహాంశ్చైవ నియమో నియమాశ్రితః ౬
సర్వకర్మా స్వయమ్భూత ఆదిరాదికరో నిధిః
సహస్రాక్షో విశాలాక్షః సోమో నక్షత్రసాధకః ౭
చన్ద్ర ః\! సూర్యః శనిః కేతుర్గ్రహో గ్రహపతిర్వరః
అత్రిరత్ర్\! యానమస్కర్తా మృగబాణార్పణోఽనఘః ౮
మహాతపా ఘోరతపా అదీనో దీనసాధకః
సంవత్సరకరో మన్త్రః ప్రమాణం పరమం తపః ౯
యోగీ యోజ్యో మహాబీజో మహారేతా మహాబలః
సువర్ణరేతాః సర్వజ్ఞః సుబీజో బీజవాహనః ౧౦
దశబాహుస్త్వనిమిషో నీలకణ్ఠ ఉమాపతిః
విశ్వరూపః స్వయంశ్రేష్ఠో బలవీరోఽబలో గణః ౧౧
గణకర్తా గణపతిర్దిగ్వాసాః కామ ఏవ చ
మన్త్రవిత్పరమోమన్త్రః సర్వభావకరో హరః ౧౨
కమణ్డలుధరో ధన్వీ బాణహస్తః కపాలవాన్
శతఘ్నీ అశనీ ఖడ్గీ పట్టిశీ చాయుధీ మహాన్ ౧౩
స్రువహస్తః సురూపశ్చ తేజస్తేజస్కరో నిధిః
ఉష్ణీషీ చ సువక్త్రశ్చ ఉదగ్రో వినతస్తథా ౧౪
దీర్ఘశ్చ హరికేశశ్చ సుతీర్థః కృష్ణ ఏవ చ
సృగాలరూపః సిద్ధార్థో ముణ్డః సర్వశుభఙ్కరః ౧౫
అజశ్చ బహురూపశ్చ గన్ధధారీ కపర్ద్యపి
ఊర్ధ్వరేతా ఊర్ధ్వలిఙ్గ ఊర్ధ్వశాయీ నభఃస్థలః ౧౬
త్రిజటీ చీరవాసాశ్చ రుద్ర ః\! సేనాపతిర్విభుః
అహశ్చరోనక్తఞ్చరస్తిగ్మమన్యుః సువర్చసః ౧౭
గజహా దైత్యహా కాలో లోకధాతా గుణాకరః
సింహశార్దూలరూపశ్చ ఆర్ద్ర చర్మామ్బరావృతః ౧౮
కాలయోగీ మహానాదః సర్వకామశ్చతుష్పథః
నిశాచరః ప్రేతచారీ భూతచారీ మహేశ్వరః ౧౯
బహుభూతో బహుధరః స్వర్భానురమితో గతిః
నృత్యప్రియో నిత్యనర్తో నర్తకః సర్వలాలసః ౨౦
ఘోరో మహాతపాః పాశో నిత్యో గిరిరుహో నభః
సహస్రహస్తో విజయో వ్యవసాయో హ్యతన్ద్రి తః ౨౧
అధర్షణో ధర్షణాత్మా యజ్ఞహా కామనాశకః
దక్షయాగాపహారీ చ సుసహో మధ్యమస్తథా ౨౨
తేజోపహారీ బలహా ముదితోఽర్థోఽజితో వరః
గమ్భీరఘోషో గమ్భీరో గమ్భీరబలవాహనః ౨౩
న్యగ్రోధరూపో న్యగ్రోధో వృక్షకర్ణస్థితిర్విభుః
సుతీక్ష్ణదశనశ్చైవ మహాకాయో మహాననః ౨౪
విష్వక్సేనో హరిర్యజ్ఞః సంయుగాపీడవాహనః
తీక్ష్ణతాపశ్చ హర్యశ్వః సహాయః కర్మకాలవిత్ ౨౫
విష్ణుప్రసాదితో యజ్ఞః సముద్రో బడవాముఖః
హుతాశనసహాయశ్చ ప్రశాన్తాత్మా హుతాశనః ౨౬
ఉగ్రతేజా మహాతేజా జన్యో విజయకాలవిత్
జ్యోతిషామయనం సిద్ధిః సర్వవిగ్రహ ఏవ చ ౨౭
శిఖీ ముణ్డీ జటీ జ్వాలీ మూర్తిజో మూర్ధగో బలీ
వైణవీ పణవీ తాలీ ఖలీ కాలకటఙ్కటః ౨౮
నక్షత్రవిగ్రహమతిర్గుణబుద్ధిర్లయోఽగమః
ప్రజాపతిర్విశ్వబాహుర్విభాగః సర్వగోఽముఖః ౨౯
విమోచనః సుసరణో హిరణ్యకవచోద్భవః
మేఢ్రజో బలచారీ చ మహీచారీ స్రుతస్తథా ౩౦
సర్వతూర్యవినోదీ చ సర్వాతోద్యపరిగ్రహః
వ్యాలరూపో గుహావాసీ గుహో మాలీ తరఙ్గవిత్ ౩౧
త్రిదశస్త్రికాలధృక్కర్మసర్వబన్ధవిమోచనః
బన్ధనస్త్వసురేన్ద్రా ణాం యుధిశత్రువినాశనః ౩౨
సాఙ్ఖ్యప్రసాదో దుర్వాసాః సర్వసాధునిషేవితః
ప్రస్కన్దనో విభాగజ్ఞో అతుల్యో యజ్ఞభాగవిత్ ౩౩
సర్వవాసః సర్వచారీ దుర్వాసా వాసవోఽమరః
హైమో హేమకరో యజ్ఞః సర్వధారీ ధరోత్తమః ౩౪
లోహితాక్షో మహాక్షశ్చ విజయాక్షో విశారదః
సఙ్గ్రహో నిగ్రహః కర్తా సర్పచీరనివాసనః ౩౫
ముఖ్యోఽముఖ్యశ్చ దేహశ్చ కాహలిః సర్వకామదః
సర్వకాలప్రసాదశ్చ సుబలో బలరూపధృత్ ౩౬
సర్వకామవరశ్చైవ సర్వదః సర్వతోముఖః
ఆకాశనిర్విరూపశ్చ నిపాతీ హ్యవశః ఖగః ౩౭
రౌద్ర రూపఓంఽశురాదిత్యో బహురశ్మిః సువర్చసీ
వసువేగో మహావేగో మనోవేగో నిశాచరః ౩౮
సర్వవాసీ శ్రియావాసీ ఉపదేశకరోఽకరః
మునిరాత్మనిరాలోకః సమ్భగ్నశ్చ సహస్రదః ౩౯
పక్షీ చ పక్షరూపశ్చ అతిదీప్తో విశామ్పతిః
ఉన్మాదో మదనః కామో హ్యశ్వత్థోఽర్థకరో యశః ౪౦
వామదేవశ్చ వామశ్చ ప్రాగ్దక్షిణశ్చ వామనః
సిద్ధయోగీ మహర్షిశ్చ సిద్ధార్థః సిద్ధసాధకః ౪౧
భిక్షుశ్చ భిక్షురూపశ్చ విపణో మృదురవ్యయః
మహాసేనో విశాఖశ్చ షష్ఠిభాగో గవామ్పతిః ౪౨
వజ్రహస్తశ్చ విష్కమ్భీ చమూస్తమ్భన ఏవ చ
వృత్తావృత్తకరస్తాలో మధుర్మధుకలోచనః ౪౩
వాచస్పత్యో వాజసనో నిత్యమాశ్రితపూజితః
బ్రహ్మచారీ లోకచారీ సర్వచారీ విచారవిత్ ౪౪
ఈశాన ఈశ్వరః కాలో నిశాచారీ పినాకవాన్
నిమిత్తస్థో నిమిత్తం చ నన్దిర్నన్దికరో హరిః ౪౫
నన్దీశ్వరశ్చ నన్దీ చ నన్దనో నన్దివర్ధనః
భగహారీ నిహన్తా చ కాలో బ్రహ్మా పితామహః ౪౬
చతుర్ముఖో మహాలిఙ్గశ్చారులిఙ్గస్తథైవ చ
లిఙ్గాధ్యక్షః సురాధ్యక్షో యోగాధ్యక్షో యుగావహః ౪౭
బీజాధ్యక్షో బీజకర్తా అధ్యాత్మాఽనుగతో బలః
ఇతిహాసః సకల్పశ్చ గౌతమోఽథ నిశాకరః ౪౮
దమ్భో హ్యదమ్భో వైదమ్భో వశ్యో వశకరః కలిః
లోకకర్తా పశుపతిర్మహాకర్తా హ్యనౌషధః ౪౯
అక్షరం పరమం బ్రహ్మ బలవచ్చక్ర ఏవ చ
నీతిర్హ్యనీతిః శుద్ధాత్మా శుద్ధో మాన్యో గతాగతః ౫౦
బహుప్రసాదః సుస్వప్నో దర్పణోఽథ త్వమిత్రజిత్
వేదకారో మన్త్రకారో విద్వాన్ సమరమర్దనః ౫౧
మహామేఘనివాసీ చ మహాఘోరో వశీకరః
అగ్నిజ్వాలో మహాజ్వాలో అతిధూమ్రో హుతో హవిః ౫౨
వృషణః శఙ్కరో నిత్యం వర్చస్వీ ధూమకేతనః
నీలస్తథాఙ్గలుబ్ధశ్చ శోభనో నిరవగ్రహః ౫౩
స్వస్తిదః స్వస్తిభావశ్చ భాగీ భాగకరో లఘుః
ఉత్సఙ్గశ్చ మహాఙ్గశ్చ మహాగర్భపరాయణః ౫౪
కృష్ణవర్ణః సువర్ణశ్చ ఇన్ద్రి యం సర్వదేహినామ్
మహాపాదో మహాహస్తో మహాకాయో మహాయశాః ౫౫
మహామూర్ధా మహామాత్రో మహానేత్రో నిశాలయః
మహాన్తకో మహాకర్ణో మహోష్ఠశ్చ మహాహనుః ౫౬
మహానాసో మహాకమ్బుర్మహాగ్రీవః శ్మశానభాక్
మహావక్షా మహోరస్కో హ్యన్తరాత్మా మృగాలయః ౫౭
లమ్బనో లమ్బితోష్ఠశ్చ మహామాయః పయోనిధిః
మహాదన్తో మహాదంష్ట్రో మహాజిహ్వో మహాముఖః ౫౮
మహానఖో మహారోమో మహాకోశో మహాజటః
ప్రసన్నశ్చ ప్రసాదశ్చ ప్రత్యయో గిరిసాధనః ౫౯
స్నేహనోఽస్నేహనశ్చైవ అజితశ్చ మహామునిః
వృక్షాకారో వృక్షకేతురనలో వాయువాహనః ౬౦
గణ్డలీ మేరుధామా చ దేవాధిపతిరేవ చ
అథర్వశీర్షః సామాస్య ఋక్సహస్రామితేక్షణః ౬౧
యజుః పాదభుజో గుహ్యః ప్రకాశో జఙ్గమస్తథా
అమోఘార్థః ప్రసాదశ్చ అభిగమ్యః సుదర్శనః ౬౨
ఉపకారః ప్రియః సర్వః కనకః కాఞ్చనచ్ఛవిః
నాభిర్నన్దికరో భావః పుష్కరః స్థపతిః స్థిరః ౬౩
ద్వాదశస్త్రాసనశ్చాద్యో యజ్ఞో యజ్ఞసమాహితః
నక్తం కలిశ్చ కాలశ్చ మకరః కాలపూజితః ౬౪
సగణో గణకారశ్చ భూతవాహనసారథిః
భస్మశయో భస్మగోప్తా భస్మభూతస్తరుర్గణః ౬౫
లోకపాలస్తథా లోకో మహాత్మా సర్వపూజితః
శుక్లస్త్రిశుక్లః సమ్పన్నః శుచిర్భూతనిషేవితః ౬౬
ఆశ్రమస్థః క్రియావస్థో విశ్వకర్మమతిర్వరః
విశాలశాఖస్తామ్రోష్ఠో హ్యమ్బుజాలః సునిశ్చలః ౬౭
కపిలః కపిశః శుక్ల ఆయుశ్చైవ పరోఽపరః
గన్ధర్వో హ్యదితిస్తార్క్ష్యః సువిజ్ఞేయః సుశారదః ౬౮
పరశ్వధాయుధో దేవ అనుకారీ సుబాన్ధవః
తుమ్బవీణో మహాక్రోధ ఊర్ధ్వరేతా జలేశయః ౬౯
ఉగ్రో వంశకరో వంశో వంశనాదో హ్యనిన్దితః
సర్వాఙ్గరూపో మాయావీ సుహృదో హ్యనిలోఽనలః ౭౦
బన్ధనో బన్ధకర్తా చ సుబన్ధనవిమోచనః
సయజ్ఞారిః సకామారిర్మహాదంష్ట్రో మహాయుధః ౭౧
బహుధా నిన్దితః శర్వః శఙ్కరః శఙ్కరోఽధనః
అమరేశో మహాదేవో విశ్వదేవః సురారిహా ౭౨
అహిర్బుÞయోఽనిలాభశ్చ చేకితానో హవిస్తథా
అజైకపాచ్చ కాపాలీ త్రిశఙ్కురజితః శివః ౭౩
ధన్వన్తరిర్ధూమకేతుః స్కన్దో వైశ్రవణస్తథా
ధాతా శక్రశ్చ విష్ణుశ్చ మిత్రస్త్వష్టా ధ్రువో ధరః ౭౪
ప్రభావః సర్వగో వాయురర్యమా సవితా రవిః
ఉషఙ్గుశ్చ విధాతా చ మాన్ధాతా భూతభావనః ౭౫
విభుర్వర్ణవిభావీ చ సర్వకామగుణావహః
పద్మనాభో మహాగర్భశ్చన్ద్ర వక్త్రోఽనిలోఽనలః ౭౬
బలవాంశ్చోపశాన్తశ్చ పురాణః పుణ్యచఞ్చురీ
కురుకర్తా కురువాసీ కురుభూతో గుణౌషధః ౭౭
సర్వాశయో దర్భచారీ సర్వేషాం ప్రాణినామ్పతిః
దేవదేవః సుఖాసక్తః సదసత్ సర్వరత్నవిత్ ౭౮
కైలాసగిరివాసీ చ హిమవద్గిరిసంశ్రయః
కూలహారీ కూలకర్తా బహువిద్యో బహుప్రదః ౭౯
వణిజో వర్ధకీ వృక్షో వకులశ్చన్దనశ్ఛదః
సారగ్రీవో మహాజత్రు రలోలశ్చ మహౌషధః ౮౦
సిద్ధార్థకారీ సిద్ధార్థశ్ఛన్దోవ్యాకరణోత్తరః
సింహనాదః సింహదంష్ట్రః సింహగః సింహవాహనః ౮౧
ప్రభావాత్మా జగత్కాలస్థాలో లోకహితస్తరుః
సారఙ్గో నవచక్రాఙ్గః కేతుమాలీ సభావనః ౮౨
భూతాలయో భూతపతిరహోరాత్రమనిన్దితః ౮౩
వాహితా సర్వభూతానాం నిలయశ్చ విభుర్భవః
అమోఘః సంయతో హ్యశ్వో భోజనః ప్రాణధారణః ౮౪
ధృతిమాన్ మతిమాన్ దక్షః సత్కృతశ్చ యుగాధిపః
గోపాలిర్గోపతిర్గ్రామో గోచర్మవసనో హరిః ౮౫
హిరణ్యబాహుశ్చ తథా గుహాపాలః ప్రవేశినామ్
ప్రకృష్టారిర్మహాహర్షో జితకామో జితేన్ద్రి యః ౮౬
గాన్ధారశ్చ సువాసశ్చ తపఃసక్తో రతిర్నరః
మహాగీతో మహానృత్యో హ్యప్సరోగణసేవితః ౮౭
మహాకేతుర్మహాధాతుర్నైకసానుచరశ్చలః
ఆవేదనీయ ఆదేశః సర్వగన్ధసుఖావహః ౮౮
తోరణస్తారణో వాతః పరిధీ పతిఖేచరః
సంయోగో వర్ధనో వృద్ధో అతివృద్ధో గుణాధికః ౮౯
నిత్యమాత్మసహాయశ్చ దేవాసురపతిః పతిః
యుక్తశ్చ యుక్తబాహుశ్చ దేవో దివి సుపర్వణః ౯౦
ఆషాఢశ్చ సుషాఢశ్చ ధ్రువోఽథ హరిణో హరః
వపురావర్తమానేభ్యో వసుశ్రేష్ఠో మహాపథః ౯౧
శిరోహారీ విమర్శశ్చ సర్వలక్షణలక్షితః
అక్షశ్చ రథయోగీ చ సర్వయోగీ మహాబలః ౯౨
సమామ్నాయోఽసమామ్నాయస్తీర్థదేవో మహారథః
నిర్జీవో జీవనో మన్త్రః శుభాక్షో బహుకర్కశః ౯౩
రత్నప్రభూతో రక్తాఙ్గో మహార్ణవనిపానవిత్
మూలం విశాలో హ్యమృతో వ్యక్తావ్యక్తస్తపోనిధిః ౯౪
ఆరోహణోఽధిరోహశ్చ శీలధారీ మహాయశాః
సేనాకల్పో మహాకల్పో యోగో యుగకరో హరిః ౯౫
యుగరూపో మహారూపో మహానాగహనో వధః
న్యాయనిర్వపణః పాదః పణ్డితో హ్యచలోపమః ౯౬
బహుమాలో మహామాలః శశీ హరసులోచనః
విస్తారో లవణః కూపస్త్రియుగః సఫలోదయః ౯౭
త్రిలోచనో విషణ్ణాఙ్గో మణివిద్ధో జటాధరః
బిన్దుర్విసర్గః సుముఖః శరః సర్వాయుధః సహః ౯౮
నివేదనః సుఖాజాతః సుగన్ధారో మహాధనుః
గన్ధపాలీ చ భగవానుత్థానః సర్వకర్మణామ్ ౯౯
మన్థానో బహులో వాయుః సకలః సర్వలోచనః
తలస్తాలః కరస్థాలీ ఊర్ధ్వసంహననో మహాన్ ౧౦౦
ఛత్రం సుచ్ఛత్రో విఖ్యాతో లోకః సర్వాశ్రయః క్రమః
ముణ్డో విరూపో వికృతో దణ్డీ కుణ్డీ వికుర్వణః ౧౦౧
హర్యక్షః కకుభో వజ్రీ శతజిహ్వః సహస్రపాత్
సహస్రమూర్ధా దేవేన్ద్ర ః\! సర్వదేవమయో గురుః ౧౦౨
సహస్రబాహుః సర్వాఙ్గః శరణ్యః సర్వలోకకృత్
పవిత్రం త్రికకున్మన్త్రః కనిష్ఠః కృష్ణపిఙ్గలః ౧౦౩
బ్రహ్మదణ్డవినిర్మాతా శతఘ్నీపాశశక్తిమాన్
పద్మగర్భో మహాగర్భో బ్రహ్మగర్భో జలోద్భవః ౧౦౪
గభస్తిర్బ్రహ్మకృద్బ్రహ్మీ బ్రహ్మవిద్బ్రాహ్మణో గతిః
అనన్తరూపో నైకాత్మా తిగ్మతేజాః స్వయమ్భువః ౧౦౫
ఊర్ధ్వగాత్మా పశుపతిర్వాతరంహా మనోజవః
చన్దనీ పద్మనాలాగ్రః సురభ్యుత్తరణో నరః ౧౦౬
కర్ణికారమహాస్రగ్వీ నీలమౌలిః పినాకధృత్
ఉమాపతిరుమాకాన్తో జాహ్నవీధృగుమాధవః ౧౦౭
వరో వరాహో వరదో వరేణ్యః సుమహాస్వనః
మహాప్రసాదో దమనః శత్రుహా శ్వేతపిఙ్గలః ౧౦౮
ప్రీతాత్మా పరమాత్మా చ ప్రయతాత్మా ప్రధానధృత్
సర్వపార్శ్వముఖస్త్ర్\! యక్షో ధర్మసాధారణో వరః ౧౦౯
చరాచరాత్మా సూక్ష్మాత్మా అమృతో గోవృషేశ్వరః
సాధ్యర్షిర్వసురాదిత్యో వివస్వాన్ సవితాఽమృతః ౧౧౦
వ్యాసః సర్గః సుసఙ్క్షేపో విస్తరః పర్యయో నరః
ఋతుః సంవత్సరో మాసః పక్షః సఙ్ఖ్యాసమాపనః ౧౧౧
కలా కాష్ఠా లవా మాత్రా ముహూర్తాహః క్షపాః క్షణాః
విశ్వక్షేత్రం ప్రజాబీజం లిఙ్గమాద్యస్తు నిర్గమః ౧౧౨
సదసద్వ్యక్తమవ్యక్తం పితా మాతా పితామహః
స్వర్గద్వారం ప్రజాద్వారం మోక్షద్వారం త్రివిష్టపమ్ ౧౧౩
నిర్వాణం హ్లాదనశ్చైవ బ్రహ్మలోకః పరాగతిః
దేవాసురవినిర్మాతా దేవాసురపరాయణః ౧౧౪
దేవాసురగురుర్దేవో దేవాసురనమస్కృతః
దేవాసురమహామాత్రో దేవాసురగణాశ్రయః ౧౧౫
దేవాసురగణాధ్యక్షో దేవాసురగణాగ్రణీః
దేవాతిదేవో దేవర్షిర్దేవాసురవరప్రదః ౧౧౬
దేవాసురేశ్వరో విశ్వో దేవాసురమహేశ్వరః
సర్వదేవమయోఽచిన్త్యో దేవతాత్మాఽఽత్మసమ్భవః ౧౧౭
ఉద్భిత్త్రివిక్రమో వైద్యో విరజో నీరజోఽమరః
ఈడ్యో హస్తీశ్వరో వ్యాఘ్రో దేవసింహో నరర్షభః ౧౧౮
విబుధోఽగ్రవరః సూక్ష్మః సర్వదేవస్తపోమయః
సుయుక్తః శోభనో వజ్రీ ప్రాసానాం ప్రభవోఽవ్యయః ౧౧౯
గుహః కాన్తో నిజః సర్గః పవిత్రం సర్వపావనః
శృఙ్గీ శృఙ్గప్రియో బభ్రూ రాజరాజో నిరామయః ౧౨౦
అభిరామః సురగణో విరామః సర్వసాధనః
లలాటాక్షో విశ్వదేవో హరిణో బ్రహ్మవర్చసః ౧౨౧
స్థావరాణామ్పతిశ్చైవ నియమేన్ద్రి యవర్ధనః
సిద్ధార్థః సిద్ధభూతార్థోఽచిన్త్యః సత్యవ్రతః శుచిః ౧౨౨
వ్రతాధిపః పరం బ్రహ్మ భక్తానాం పరమాగతిః
విముక్తో ముక్తతేజాశ్చ శ్రీమాన్ శ్రీవర్ధనో జగత్ ౧౨౩
ఓం
ఇతి శ్రీ శివ సహస్రనామ స్తోత్రం సమ్పూర్ణమ్
అస్య శ్రీమహాగణపతిసహస్రనామస్తోత్రమాలామన్త్రస్య
గణేశ ఋషిః
మహాగణపతిర్దేవతా
నానావిధానిచ్ఛన్దాంసి
హుమితి బీజమ్
తుఙ్గమితి శక్తిః
స్వాహాశక్తిరితి కీలకమ్
శ్రీమహాగణపతిప్రసాదసిద్ధ్యర్థే సహస్రనామస్తోత్రపాఠే వినియోగః
ధ్యానమ్
గజవదనమచిన్త్యం తీక్ష్ణదంష్ట్రం త్రినేత్రం
బృహదుదరమశేషం భూతిరాజం పురాణమ్
అమరవరసుపూజ్యం రక్తవర్ణం సురేశం
పశుపతిసుతమీశం విఘ్నరాజం నమామి ౧
శ్రీగణపతిరువాచ
గణేశ్వరో గణక్రీడో గణనాథో గణాధిపః
ఏకదన్తో వక్రతుణ్డో గజవక్త్రో మహాదరః ౧
లమ్బోదరో ధూమ్రవర్ణో వికటో విఘ్ననాశనః
సుముఖో దుర్ముఖో బుద్ధో విఘ్నరాజో గజాననః ౨
భీమః ప్రమోద ఆమోదః సురానన్దో మదోత్కటః
హేరమ్బః శమ్బరః శమ్భుర్లమ్బకర్ణో మహాబలః ౩
నన్దనో లమ్పటో భీమో మేఘనాదో గణఞ్జయః
వినాయకో విరూపాక్షో వీరః శూరవరప్రదః ౪
మహాగణపతిర్బుద్ధిప్రియః క్షిప్రప్రసాదనః
రుద్ర ప్రియో గణాధ్యక్ష ఉమాపుత్రోఽఘనాశనః ౫
కుమారగురురీశానపుత్రో మూషకవాహనః
సిద్ధిప్రియః సిద్ధిపతిః సిద్ధః సిద్ధివినాయకః ౬
అవిఘ్నస్తుమ్బురుః సింహవాహనో మోహినీప్రియః
కటఙ్కటో రాజపుత్రః శాకలః సమ్మితోఽమితః ౭
కూష్మాణ్డసామసమ్భూతిర్దుర్జయో ధూర్జయో జయః
భూపతిర్భువనపతిర్భూతానాం పతిరవ్యయః ౮
విశ్వకర్తా విశ్వముఖో విశ్వరూపో నిధిర్గుణః
కవిః కవీనామృషభో బ్రహ్మణ్యో బ్రహ్మవిత్ప్రియః ౯
జ్యేష్ఠరాజో నిధిపతిర్నిధిప్రియపతిప్రియః
హిరణ్మయపురాన్తఃస్థః సూర్యమణ్డలమధ్యగః ౧౦
కరాహతిధ్వస్తసిన్ధుసలిలః పూషదన్తభిత్
ఉమాఙ్కకేలికుతుకీ ముక్తిదః కులపావనః ౧౧
కిరీటీ కుణ్డలీ హారీ వనమాలీ మనోమయః
వైముఖ్యహతదైత్యశ్రీః పాదాహతిజితక్షితిః ౧౨
సద్యోజాతః స్వర్ణముఞ్జమేఖలీ దుర్నిమిత్తహృత్
దుఃస్వప్నహృత్ప్రసహనో గుణీ నాదప్రతిష్ఠితః ౧౩
సురూపః సర్వనేత్రాధివాసో వీరాసనాశ్రయః
పీతామ్బరః ఖణ్డరదః ఖణ్డవైశాఖసంస్థితః ౧౪
చిత్రాఙ్గః శ్యామదశనో భాలచన్ద్రో హవిర్భుజః
యోగాధిపస్తారకస్థః పురుషో గజకర్ణకః ౧౫
గణాధిరాజో విజయః స్థిరో గజపతిర్ధ్వజీ
దేవదేవః స్మరః ప్రాణదీపకో వాయుకీలకః ౧౬
విపశ్చిద్వరదో నాదో నాదభిన్నమహాచలః
వరాహరదనో మృత్యుఞ్జయో వ్యాఘ్రాజినామ్బరః ౧౭
ఇచ్ఛాశక్తిభవో దేవత్రాతా దైత్యవిమర్దనః
శమ్భువక్త్రోద్భవః శమ్భుకోపహా శమ్భుహాస్యభూః ౧౮
శమ్భుతేజాః శివాశోకహారీ గౌరీసుఖావహః
ఉమాఙ్గమలజో గౌరీతేజోభూః స్వర్ధునీభవః ౧౯
యజ్ఞకాయో మహానాదో గిరివర్ష్మా శుభాననః
సర్వాత్మా సర్వదేవాత్మా బ్రహ్మమూర్ధా కకుప్శ్రుతిః ౨౦
బ్రహ్మాణ్డకుమ్భశ్చిద్వ్యోమభాలఃసత్యశిరోరుహః
జగజ్జన్మలయోన్మేషనిమేషోఽగ్న్యర్కసోమదృక్ ౨౧
గిరీన్ద్రై కరదో ధర్మాధర్మోష్ఠః సామబృంహితః
గ్రహర్క్షదశనో వాణీజిహ్వో వాసవనాసికః ౨౨
భ్రూమధ్యసంస్థితకరో బ్రహ్మవిద్యామదోదకః
కులాచలాంసః సోమార్కఘణ్టో రుద్ర శిరోధరః ౨౩
నదీనదభుజః సర్పాఙ్గులీకస్తారకానఖః
వ్యోమనాభిః శ్రీహృదయో మేరుపృష్ఠోఽర్ణవోదరః ౨౪
కుక్షిస్థయక్షగన్ధర్వరక్షఃకిన్నరమానుషః
పృథ్వీకటిః సృష్టిలిఙ్గః శైలోరుర్దస్రజానుకః ౨౫
పాతాలజఙ్ఘో మునిపాత్కాలాఙ్గుష్ఠస్త్రయీతనుః
జ్యోతిర్మణ్డలలాఙ్గూలో హృదయాలాననిశ్చలః ౨౬
హృత్పద్మకర్ణికాశాలీ వియత్కేలిసరోవరః
సద్భక్తధ్యాననిగడః పూజావారినివారితః ౨౭
ప్రతాపీ కాశ్యపో మన్తా గణకో విష్టపీ బలీ
యశస్వీ ధార్మికో జేతా ప్రథమః ప్రమథేశ్వరః ౨౮
చిన్తామణిర్ద్వీపపతిః కల్పద్రుమవనాలయః
రత్నమణ్డపమధ్యస్థో రత్నసింహాసనాశ్రయః ౨౯
తీవ్రాశిరోద్ధృతపదో జ్వాలినీమౌలిలాలితః
నన్దానన్దితపీఠశ్రీర్భోగదో భూషితాసనః ౩౦
సకామదాయినీపీఠః స్ఫురదుగ్రాసనాశ్రయః
తేజోవతీశిరోరత్నం సత్యానిత్యావతంసితః ౩౧
సవిఘ్ననాశినీపీఠః సర్వశక్త్యమ్బుజాలయః
లిపిపద్మాసనాధారో వహ్నిధామత్రయాలయః ౩౨
ఉన్నతప్రపదో గూఢగుల్ఫః సంవృతపార్ష్ణికః
పీనజఙ్ఘః శ్లిష్టజానుః స్థూలోరుః ప్రోన్నమత్కటిః ౩౩
నిమ్ననాభిః స్థూలకుక్షిః పీనవక్షా బృహద్భుజః
పీనస్కన్ధః కమ్బుకణ్ఠో లమ్బోష్ఠో లమ్బనాసికః ౩౪
భగ్నవామరదస్తుఙ్గసవ్యదన్తో మహాహనుః
హ్రస్వనేత్రత్రయః శూర్పకర్ణో నిబిడమస్తకః ౩౫
స్తబకాకారకుమ్భాగ్రో రత్నమౌలిర్నిరఙ్కుశః
సర్పహారకటీసూత్రః సర్పయజ్ఞోపవీతవాన్ ౩౬
సర్పకోటీరకటకః సర్పగ్రైవేయకాఙ్గదః
సర్పకక్షోదరాబన్ధః సర్పరాజోత్తరచ్ఛదః ౩౭
రక్తో రక్తామ్బరధరో రక్తమాలావిభూషణః
రక్తేక్షనో రక్తకరో రక్తతాల్వోష్ఠపల్లవః ౩౮
శ్వేతః శ్వేతామ్బరధరః శ్వేతమాలావిభూషణః
శ్వేతాతపత్రరుచిరః శ్వేతచామరవీజితః ౩౯
సర్వావయవసమ్పూర్ణః సర్వలక్షణలక్షితః
సర్వాభరణశోభాఢ్యః సర్వశోభాసమన్వితః ౪౦
సర్వమఙ్గలమాఙ్గల్యః సర్వకారణకారణమ్
సర్వదేవవరః శార్ఙ్గీ బీజపూరీ గదాధరః ౪౧
శుభాఙ్గో లోకసారఙ్గః సుతన్తుస్తన్తువర్ధనః
కిరీటీ కుణ్డలీ హారీ వనమాలీ శుభాఙ్గదః ౪౨
ఇక్షుచాపధరః శూలీ చక్రపాణిః సరోజభృత్
పాశీ ధృతోత్పలః శాలీమఞ్జలీభృత్స్వదన్తభృత్ ౪౩
కల్పవల్లీధరో విశ్వాభయదైకకరో వశీ
అక్షమాలాధరో జ్ఞానముద్రా వాన్ ముద్గరాయుధః ౪౪
పూర్ణపాత్రీ కమ్బుధరో విధృతాఙ్కుశమూలకః
కరస్థామ్రఫలశ్చూతకలికాభృత్కుఠారవాన్ ౪౫
పుష్కరస్థస్వర్ణఘటీపూర్ణరత్నాభివర్షకః
భారతీసున్దరీనాథో వినాయకరతిప్రియః ౪౬
మహాలక్ష్మీప్రియతమః సిద్ధలక్ష్మీమనోరమః
రమారమేశపూర్వాఙ్గో దక్షిణోమామహేశ్వరః ౪౭
మహీవరాహవామాఙ్గో రతికన్దర్పపశ్చిమః
ఆమోదమోదజననః సప్రమోదప్రమోదనః ౪౮
సంవర్ధితమహావృద్ధిరృద్ధిసిద్ధిప్రవర్ధనః
దన్తసౌముఖ్యసుముఖః కాన్తికన్దలితాశ్రయః ౪౯
మదనావత్యాశ్రితాఙ్ఘ్రిః కృతవైముఖ్యదుర్ముఖః
విఘ్నసమ్పల్లవః పద్మః సర్వోన్నతమదద్ర వః ౫౦
విఘ్నకృన్నిమ్నచరణో ద్రా విణీశక్తిసత్కృతః
తీవ్రాప్రసన్ననయనో జ్వాలినీపాలితైకదృక్ ౫౧
మోహినీమోహనో భోగదాయినీకాన్తిమణ్డనః
కామినీకాన్తవక్త్రశ్రీరధిష్ఠితవసున్ధరః ౫౨
వసుధారామదోన్నాదో మహాశఙ్ఖనిధిప్రియః
నమద్వసుమతీమాలీ మహాపద్మనిధిః ప్రభుః ౫౩
సర్వసద్గురుసంసేవ్యః శోచిష్కేశహృదాశ్రయః
ఈశానమూర్ధా దేవేన్ద్ర శిఖః పవననన్దనః ౫౪
ప్రత్యుగ్రనయనో దివ్యో దివ్యాస్త్రశతపర్వధృక్
ఐరావతాదిసర్వాశావారణో వారణప్రియః ౫౫
వజ్రాద్యస్త్రపరీవారో గణచణ్డసమాశ్రయః
జయాజయపరికరో విజయావిజయావహః ౫౬
అజయార్చితపాదాబ్జో నిత్యానన్దవనస్థితః
విలాసినీకృతోల్లాసః శౌణ్డీ సౌన్దర్యమణ్డితః ౫౭
అనన్తానన్తసుఖదః సుమఙ్గలసుమఙ్గలః
జ్ఞానాశ్రయః క్రియాధార ఇచ్ఛాశక్తినిషేవితః ౫౮
సుభగాసంశ్రితపదో లలితాలలితాశ్రయః
కామినీపాలనః కామకామినీకేలిలాలితః ౫౯
సరస్వత్యాశ్రయో గౌరీనన్దనః శ్రీనికేతనః
గురుగుప్తపదో వాచాసిద్ధో వాగీశ్వరీపతిః ౬౦
నలినీకాముకో వామారామో జ్యేష్ఠామనోరమః
రౌద్రీ ముద్రి తపాదాబ్జో హుమ్బీజస్తుఙ్గశక్తికః ౬౧
విశ్వాదిజననత్రాణః స్వాహాశక్తిః సకీలకః
అమృతాబ్ధికృతావాసో మదఘూర్ణితలోచనః ౬౨
ఉచ్ఛిష్టోచ్ఛిష్టగణకో గణేశో గణనాయకః
సార్వకాలికసంసిద్ధిర్నిత్యసేవ్యో దిగమ్బరః ౬౩
అనపాయోఽనన్తదృష్టిరప్రమేయోఽజరామరః
అనావిలోఽప్రతిహతిరచ్యుతోఽమృతమక్షరః ౬౪
అప్రతర్క్యోఽక్షయోఽజయ్యోఽనాధారోఽనామయోఽమలః
అమేయసిద్ధిరద్వైతమఘోరోఽగ్నిసమాననః ౬౫
అనాకారోఽబ్ధిభూమ్యగ్నిబలఘ్నోఽవ్యక్తలక్షణః
ఆధారపీఠమాధార ఆధారాధేయవర్జితః ౬౬
ఆఖుకేతన ఆశాపూరక ఆఖుమహారథః
ఇక్షుసాగరమధ్యస్థ ఇక్షుభక్షణలాలసః ౬౭
ఇక్షుచాపాతిరేకశ్రీరిక్షుచాపనిషేవితః
ఇన్ద్ర గోపసమానశ్రీరిన్ద్ర నీలసమద్యుతిః ౬౮
ఇన్దీవరదలశ్యామ ఇన్దుమణ్డలమణ్డితః
ఇధ్మప్రియ ఇడాభాగ ఇడావానిన్దిరాప్రియః ౬౯
ఇక్ష్వాకువిఘ్నవిధ్వంసీ ఇతికర్తవ్యతేప్సితః
ఈశానమౌలిరీశాన ఈశానప్రియ ఈతిహా ౭౦
ఈషణాత్రయకల్పాన్త ఈహామాత్రవివర్జితః
ఉపేన్ద్ర ఉడుభృన్మౌలిరుడునాథకరప్రియః ౭౧
ఉన్నతానన ఉత్తుఙ్గ ఉదారస్త్రిదశాగ్రణీః
ఊర్జస్వానూష్మలమద ఊహాపోహదురాసదః ౭౨
ఋగ్యజుఃసామనయన ఋద్ధిసిద్ధిసమర్పకః
ఋజుచిత్తైకసులభో ఋణత్రయవిమోచనః ౭౩
లుప్తవిఘ్నః స్వభక్తానాం లుప్తశక్తిః సురద్విషామ్
లుప్తశ్రీర్విముఖార్చానాం లూతావిస్ఫోటనాశనః ౭౪
ఏకారపీఠమధ్యస్థ ఏకపాదకృతాసనః
ఏజితాఖిలదైత్యశ్రీరేధితాఖిలసంశ్రయః ౭౫
ఐశ్వర్యనిధిరైశ్వర్యమైహికాముష్మికప్రదః
ఐరమ్మదసమోన్మేష ఐరావతసమాననః ౭౬
ఓంకారవాచ్య ఓంకార ఓజస్వానోషధీపతిః
ఔదార్యనిధిరౌద్ధత్యధైర్య ఔన్నత్యనిఃసమః ౭౭
అఙ్కుశః సురనాగానామఙ్కుశాకారసంస్థితః
అః సమస్తవిసర్గాన్తపదేషు పరికీర్తితః ౭౮
కమణ్డలుధరః కల్పః కపర్దీ కలభాననః
కర్మసాక్షీ కర్మకర్తా కర్మాకర్మఫలప్రదః ౭౯
కదమ్బగోలకాకారః కూష్మాణ్డగణనాయకః
కారుణ్యదేహః కపిలః కథకః కటిసూత్రభృత్ ౮౦
ఖర్వః ఖడ్గప్రియః ఖడ్గః ఖాన్తాన్తఃస్థః ఖనిర్మలః
ఖల్వాటశృఙ్గనిలయః ఖట్వాఙ్గీ ఖదురాసదః ౮౧
గుణాఢ్యో గహనో గద్యో గద్యపద్యసుధార్ణవః
గద్యగానప్రియో గర్జో గీతగీర్వాణపూర్వజః ౮౨
గుహ్యాచారరతో గుహ్యో గుహ్యాగమనిరూపితః
గుహాశయో గుడాబ్ధిస్థో గురుగమ్యో గురుర్గురుః ౮౩
ఘణ్టాఘర్ఘరికామాలీ ఘటకుమ్భో ఘటోదరః
ఙకారవాచ్యో ఙాకారో ఙకారాకారశుణ్డభృత్ ౮౪
చణ్డశ్చణ్డేశ్వరశ్చణ్డీ చణ్డేశశ్చణ్డవిక్రమః
చరాచరపితా చిన్తామణిశ్చర్వణలాలసః ౮౫
ఛన్దశ్ఛన్దోద్భవశ్ఛన్దో దుర్లక్ష్యశ్ఛన్దవిగ్రహః
జగద్యోనిర్జగత్సాక్షీ జగదీశో జగన్మయః ౮౬
జప్యో జపపరో జాప్యో జిహ్వాసింహాసనప్రభుః
స్రవద్గణ్డోల్లసద్ధానఝఙ్కారిభ్రమరాకులః ౮౭
టఙ్కారస్ఫారసంరావష్టఙ్కారమణినూపురః
ఠద్వయీపల్లవాన్తస్థసర్వమన్త్రేషు సిద్ధిదః ౮౮
డిణ్డిముణ్డో డాకినీశో డామరో డిణ్డిమప్రియః
ఢక్కానినాదముదితో ఢౌఙ్కో ఢుణ్ఢివినాయకః ౮౯
తత్త్వానాం ప్రకృతిస్తత్త్వం తత్త్వమ్పదనిరూపితః
తారకాన్తరసంస్థానస్తారకస్తారకాన్తకః ౯౦
స్థాణుః స్థాణుప్రియః స్థాతా స్థావరం జఙ్గమం జగత్
దక్షయజ్ఞప్రమథనో దాతా దానం దమో దయా ౯౧
దయావాన్దివ్యవిభవో దణ్డభృద్దణ్డనాయకః
దన్తప్రభిన్నాభ్రమాలో దైత్యవారణదారణః ౯౨
దంష్ట్రాలగ్నద్వీపఘటో దేవార్థనృగజాకృతిః
ధనం ధనపతేర్బన్ధుర్ధనదో ధరణీధరః ౯౩
ధ్యానైకప్రకటో ధ్యేయో ధ్యానం ధ్యానపరాయణః
ధ్వనిప్రకృతిచీత్కారో బ్రహ్మాణ్డావలిమేఖలః ౯౪
నన్ద్యో నన్దిప్రియో నాదో నాదమధ్యప్రతిష్ఠితః
నిష్కలో నిర్మలో నిత్యో నిత్యానిత్యో నిరామయః ౯౫
పరం వ్యోమ పరం ధామ పరమాత్మా పరం పదమ్ ౯౬
పరాత్పరః పశుపతిః పశుపాశవిమోచనః
పూర్ణానన్దః పరానన్దః పురాణపురుషోత్తమః ౯౭
పద్మప్రసన్నవదనః ప్రణతాజ్ఞాననాశనః
ప్రమాణప్రత్యయాతీతః ప్రణతార్తినివారణః ౯౮
ఫణిహస్తః ఫణిపతిః ఫూత్కారః ఫణితప్రియః
బాణార్చితాఙ్ఘ్రియుగలో బాలకేలికుతూహలీ
బ్రహ్మ బ్రహ్మార్చితపదో బ్రహ్మచారీ బృహస్పతిః ౯౯
బృహత్తమో బ్రహ్మపరో బ్రహ్మణ్యో బ్రహ్మవిత్ప్రియః
బృహన్నాదాగ్ర్యచీత్కారో బ్రహ్మాణ్డావలిమేఖలః ౧౦౦
భ్రూక్షేపదత్తలక్ష్మీకో భర్గో భద్రో భయాపహః
భగవాన్ భక్తిసులభో భూతిదో భూతిభూషణః ౧౦౧
భవ్యో భూతాలయో భోగదాతా భ్రూమధ్యగోచరః
మన్త్రో మన్త్రపతిర్మన్త్రీ మదమత్తో మనో మయః ౧౦౨
మేఖలాహీశ్వరో మన్దగతిర్మన్దనిభేక్షణః
మహాబలో మహావీర్యో మహాప్రాణో మహామనాః ౧౦౩
యజ్ఞో యజ్ఞపతిర్యజ్ఞగోప్తా యజ్ఞఫలప్రదః
యశస్కరో యోగగమ్యో యాజ్ఞికో యాజకప్రియః ౧౦౪
రసో రసప్రియో రస్యో రఞ్జకో రావణార్చితః
రాజ్యరక్షాకరో రత్నగర్భో రాజ్యసుఖప్రదః ౧౦౫
లక్షో లక్షపతిర్లక్ష్యో లయస్థో లడ్డుకప్రియః
లాసప్రియో లాస్యపరో లాభకృల్లోకవిశ్రుతః ౧౦౬
వరేణ్యో వహ్నివదనో వన్ద్యో వేదాన్తగోచరః
వికర్తా విశ్వతశ్చక్షుర్విధాతా విశ్వతోముఖః ౧౦౭
వామదేవో విశ్వనేతా వజ్రివజ్రనివారణః
వివస్వద్బన్ధనో విశ్వాధారో విశ్వేశ్వరో విభుః ౧౦౮
శబ్దబ్రహ్మ శమప్రాప్యః శమ్భుశక్తిగణేశ్వరః
శాస్తా శిఖాగ్రనిలయః శరణ్యః శమ్బరేశ్వరః ౧౦౯
షడృతుకుసుమస్రగ్వీ షడాధారః షడక్షరః
సంసారవైద్యః సర్వజ్ఞః సర్వభేషజభేషజమ్ ౧౧౦
సృష్టిస్థితిలయక్రీడః సురకుఞ్జరభేదకః
సిన్దూరితమహాకుమ్భః సదసద్భక్తిదాయకః ౧౧౧
సాక్షీ సముద్ర మథనః స్వయంవేద్యః స్వదక్షిణః
స్వతన్త్రః సత్యసఙ్కల్పః సామగానరతః సుఖీ ౧౧౨
హంసో హస్తిపిశాచీశో హవనం హవ్యకవ్యభుక్
హవ్యం హుతప్రియో హృష్టో హృల్లేఖామన్త్రమధ్యగః ౧౧౩
క్షేత్రాధిపః క్షమాభర్తా క్షమాక్షమపరాయణః
క్షిప్రక్షేమకరః క్షేమానన్దః క్షోణీసురద్రుమః ౧౧౪
ధర్మప్రదోఽర్థదః కామదాతా సౌభాగ్యవర్ధనః
విద్యాప్రదో విభవదో భుక్తిముక్తిఫలప్రదః ౧౧౫
ఆభిరూప్యకరో వీరశ్రీప్రదో విజయప్రదః
సర్వవశ్యకరో గర్భదోషహా పుత్రపౌత్రదః ౧౧౬
మేధాదః కీర్తిదః శోకహారీ దౌర్భాగ్యనాశనః
ప్రతివాదిముఖస్తమ్భో రుష్టచిత్తప్రసాదనః ౧౧౭
పరాభిచారశమనో దుఃఖహా బన్ధమోక్షదః
లవస్త్రుటిః కలా కాష్ఠా నిమేషస్తత్పరక్షణః ౧౧౮
ఘటీ ముహూర్తః ప్రహరో దివా నక్తమహర్నిశమ్
పక్షో మాసర్త్వయనాబ్దయుగం కల్పో మహాలయః ౧౧౯
రాశిస్తారా తిథిర్యోగో వారః కరణమంశకమ్
లగ్నం హోరా కాలచక్రం మేరుః సప్తర్షయో ధ్రువః ౧౨౦
రాహుర్మన్దః కవిర్జీవో బుధో భౌమః శశీ రవిః
కాలః సృష్టిః స్థితిర్విశ్వం స్థావరం జఙ్గమం జగత్ ౧౨౧
భూరాపోఽగ్నిర్మరుద్వ్యోమాహఙ్కృతిః ప్రకృతిః పుమాన్
బ్రహ్మా విష్ణుః శివో రుద్ర ఈశః శక్తిః సదాశివః ౧౨౨
త్రిదశాః పితరః సిద్ధా యక్షా రక్షాంసి కిన్నరాః
సిద్ధవిద్యాధరా భూతా మనుష్యాః పశవః ఖగాః ౧౨౩
సముద్రా ః\! సరితః శైలా భూతం భవ్యం భవోద్భవః
సాఙ్ఖ్యం పాతఞ్జలం యోగం పురాణాని శ్రుతిః స్మృతిః ౧౨౪
వేదాఙ్గాని సదాచారో మీమాంసా న్యాయవిస్తరః
ఆయుర్వేదో ధనుర్వేదో గాన్ధర్వం కావ్యనాటకమ్ ౧౨౫
వైఖానసం భాగవతం మానుషం పాఞ్చరాత్రకమ్
శైవం పాశుపతం కాలాముఖమ్భైరవశాసనమ్ ౧౨౬
శాక్తం వైనాయకం సౌరం జైనమార్హతసంహితా
సదసద్వ్యక్తమవ్యక్తం సచేతనమచేతనమ్ ౧౨౭
బన్ధో మోక్షః సుఖం భోగో యోగః సత్యమణుర్మహాన్
స్వస్తి హుమ్ఫట్ స్వధా స్వాహా శ్రౌషడ్ వౌషడ్ వషణ్ నమః ౧౨౮
జ్ఞానం విజ్ఞానమానన్దో బోధః సంవిత్సమోఽసమః
ఏక ఏకాక్షరాధార ఏకాక్షరపరాయణః ౧౨౯
ఏకాగ్రధీరేకవీర ఏకోఽనేకస్వరూపధృక్
ద్విరూపో ద్విభుజో ద్వ్యక్షో ద్విరదో ద్వీపరక్షకః ౧౩౦
ద్వైమాతురో ద్వివదనో ద్వన్ద్వహీనో ద్వయాతిగః
త్రిధామా త్రికరస్త్రేతా త్రివర్గఫలదాయకః ౧౩౧
త్రిగుణాత్మా త్రిలోకాదిస్త్రిశక్తీశస్త్రిలోచనః
చతుర్విధవచోవృత్తిపరివృత్తిప్రవర్తకః ౧౩౨
చతుర్బాహుశ్చతుర్దన్తశ్చతురాత్మా చతుర్భుజః
చతుర్విధోపాయమయశ్చతుర్వర్ణాశ్రమాశ్రయః
చతుర్థీపూజనప్రీతశ్చతుర్థీతిథిసమ్భవః ౧౩౩
పఞ్చాక్షరాత్మా పఞ్చాత్మా పఞ్చాస్యః పఞ్చకృత్తమః ౧౩౪
పఞ్చాధారః పఞ్చవర్ణః పఞ్చాక్షరపరాయణః
పఞ్చతాలః పఞ్చకరః పఞ్చప్రణవమాతృకః ౧౩౫
పఞ్చబ్రహ్మమయస్ఫూర్తిః పఞ్చావరణవారితః
పఞ్చభక్షప్రియః పఞ్చబాణః పఞ్చశిఖాత్మకః ౧౩౬
షట్కోణపీఠః షట్చక్రధామా షడ్గ్రన్థిభేదకః
షడఙ్గధ్వాన్తవిధ్వంసీ షడఙ్గులమహాహ్రదః ౧౩౭
షణ్ముఖః షణ్ముఖభ్రాతా షట్శక్తిపరివారితః
షడ్వైరివర్గవిధ్వంసీ షడూర్మిభయభఞ్జనః ౧౩౮
షట్తర్కదూరః షట్కర్మా షడ్గుణః షడ్రసాశ్రయః
సప్తపాతాలచరణః సప్తద్వీపోరుమణ్డలః ౧౩౯
సప్తస్వర్లోకముకుటః సప్తసప్తివరప్రదః
సప్తాఙ్గరాజ్యసుఖదః సప్తర్షిగణవన్దితః ౧౪౦
సప్తచ్ఛన్దోనిధిః సప్తహోత్రః సప్తస్వరాశ్రయః
సప్తాబ్ధికేలికాసారః సప్తమాతృనిషేవితః ౧౪౧
సప్తచ్ఛన్దో మోదమదః సప్తచ్ఛన్దో మఖప్రభుః
అష్టమూర్తిర్ధ్యేయమూర్తిరష్టప్రకృతికారణమ్ ౧౪౨
అష్టాఙ్గయోగఫలభృదష్టపత్రామ్బుజాసనః
అష్టశక్తిసమానశ్రీరష్టైశ్వర్యప్రవర్ధనః ౧౪౩
అష్టపీఠోపపీఠశ్రీరష్టమాతృసమావృతః
అష్టభైరవసేవ్యోఽష్టవసువన్ద్యోఽష్టమూర్తిభృత్ ౧౪౪
అష్టచక్రస్ఫురన్మూర్తిరష్టద్ర వ్యహవిఃప్రియః
అష్టశ్రీరష్టసామశ్రీరష్టైశ్వర్యప్రదాయకః
నవనాగాసనాధ్యాసీ నవనిధ్యనుశాసితః ౧౪౫
నవద్వారపురావృత్తో నవద్వారనికేతనః
నవనాథమహానాథో నవనాగవిభూషితః ౧౪౬
నవనారాయణస్తుల్యో నవదుర్గానిషేవితః
నవరత్నవిచిత్రాఙ్గో నవశక్తిశిరోద్ధృతః ౧౪౭
దశాత్మకో దశభుజో దశదిక్పతివన్దితః
దశాధ్యాయో దశప్రాణో దశేన్ద్రి యనియామకః ౧౪౮
దశాక్షరమహామన్త్రో దశాశావ్యాపివిగ్రహః
ఏకాదశమహారుద్రై స్తుఃతశ్చైకాదశాక్షరః ౧౪౯
ద్వాదశద్విదశాష్టాదిదోర్దణ్డాస్త్రనికేతనః
త్రయోదశభిదాభిన్నో విశ్వేదేవాధిదైవతమ్ ౧౫౦
చతుర్దశేన్ద్ర వరదశ్చతుర్దశమనుప్రభుః
చతుర్దశాద్యవిద్యాఢ్యశ్చతుర్దశజగత్పతిః ౧౫౧
సామపఞ్చదశః పఞ్చదశీశీతాంశునిర్మలః
తిథిపఞ్చదశాకారస్తిథ్యా పఞ్చదశార్చితః ౧౫౨
షోడశాధారనిలయః షోడశస్వరమాతృకః
షోడశాన్తపదావాసః షోడశేన్దుకలాత్మకః ౧౫౩
కలాసప్తదశీ సప్తదశసప్తదశాక్షరః
అష్టాదశద్వీపపతిరష్టాదశపురాణకృత్ ౧౫౪
అష్టాదశౌషధీసృష్టిరష్టాదశవిధిః స్మృతః
అష్టాదశలిపివ్యష్టిసమష్టిజ్ఞానకోవిదః ౧౫౫
అష్టాదశాన్నసమ్పత్తిరష్టాదశవిజాతికృత్
ఏకవింశః పుమానేకవింశత్యఙ్గులిపల్లవః ౧౫౬
చతుర్వింశతితత్త్వాత్మా పఞ్చవింశాఖ్యపూరుషః
సప్తవింశతితారేశః సప్తవింశతియోగకృత్ ౧౫౭
ద్వాత్రింశద్భైరవాధీశశ్చతుస్త్రింశన్మహాహ్రదః
షట్త్రింశత్తత్త్వసమ్భూతిరష్టత్రింశత్కలాత్మకః ౧౫౮
పఞ్చాశద్విష్ణుశక్తీశః పఞ్చాశన్మాతృకాలయః
ద్విపఞ్చాశద్వపుఃశ్రేణీత్రిషష్ట్యక్షరసంశ్రయః
పఞ్చాశదక్షరశ్రేణీపఞ్చాశద్రుద్ర విగ్రహః ౧౫౯
చతుఃషష్టిమహాసిద్ధియోగినీవృన్దవన్దితః
నమదేకోనపఞ్చాశన్మరుద్వర్గనిరర్గలః ౧౬౦
చతుఃషష్ట్యర్థనిర్ణేతా చతుఃషష్టికలానిధిః
అష్టషష్టిమహాతీర్థక్షేత్రభైరవవన్దితః ౧౬౧
చతుర్నవతిమన్త్రాత్మా షణ్ణవత్యధికప్రభుః
శతానన్దః శతధృతిః శతపత్రాయతేక్షణః ౧౬౨
శతానీకః శతమఖః శతధారావరాయుధః
సహస్రపత్రనిలయః సహస్రఫణిభూషణః ౧౬౩
సహస్రశీర్షా పురుషః సహస్రాక్షః సహస్రపాత్
సహస్రనామసంస్తుత్యః సహస్రాక్షబలాపహః ౧౬౪
దశసాహస్రఫణిభృత్ఫణిరాజకృతాసనః
అష్టాశీతిసహస్రాద్యమహర్షిస్తోత్రపాఠినః ౧౬౫
లక్షాధారః ప్రియాధారో లక్షాధారమనోమయః
చతుర్లక్షజపప్రీతశ్చతుర్లక్షప్రకాశకః ౧౬౬
చతురశీతిలక్షాణాం జీవానాం దేహసంస్థితః
కోటిసూర్యప్రతీకాశః కోటిచన్ద్రా శుం\!నిర్మలః ౧౬౭
శివోద్భవాద్యష్టకోటివైనాయకధురన్ధరః
సప్తకోటిమహామన్త్రమన్త్రితావయవద్యుతిః ౧౬౮
త్రయస్త్రింశత్కోటిసురశ్రేణీప్రణతపాదుకః
అనన్తదేవతాసేవ్యో హ్యనన్తశుభదాయకః ౧౬౯
అనన్తనామానన్తశ్రీరనన్తోఽనన్తసౌఖ్యదః
అనన్తశక్తిసహితో హ్యనన్తమునిసంస్తుతః ౧౭౦
mviṣṇusahasranāma
oṃ atha śrī viṣṇusahasranāma stotram oṃ
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye 1
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet 2
vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam
parāśarātmajaṃ vande śukatātaṃ taponidhim 3
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ 4
avikārāya śuddhāya nityāya paramātmane
sadaikarūparūpāya viṣṇave sarvajiṣṇave 5
yasya smaraṇamātreṇa janmasaṃsārabandhanāt
vimucyate namastasmai viṣṇave prabhaviṣṇave 6
asya śrīviṣṇordivyasahasranāmastotramahāmantrasya
śrī vedavyāso bhagavān ṛṣiḥ
anuṣṭupchandaḥ
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā
amṛtāṃśūdbhavo bhānuriti bījam
devakīnandanaḥ sraṣṭeti śaktiḥ
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ
śaṅkhabhṛnnandakī cakrīti kīlakam
śārṅgadhanvā gadādhara ityastram
rathāṅgapāṇirakṣobhya iti netram
trisāmā sāmagaḥ sāmeti kavacam
ānandaṃ parabrahmeti yoniḥ
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ
śrīviśvarūpa iti dhyānam
śrī mahāviṣṇu prītyarthe sahasranāmastotrapāṭhe viniyogaḥ
dhyānam
kṣīrodanvatpradeśe śucimaṇivilasatsaikatermauktikānāṃ
mālākḷptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ 7
bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṃ yasya viśvaṃ suranarakhagagobhogigandharvadaityaiḥ
citraṃ raṃramyate taṃ tribhuvanavapuṣaṃ viṣṇumīśaṃ namāmi 8
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam
lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham 9
meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsāṅkaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvalokaikanātham 10
namaḥ samastabhūtānāmādibhūtāya bhūbhṛt
anekarūparūpāya viṣṇave prabhaviṣṇave 11
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhekṣaṇam |
sahāravakṣaḥsthalaśobhikaustubham
namāmi viṣṇuṃ śirasā caturbhujam 12
chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam |
candrā nanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasaṃ
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye 13
oṃ viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ 14
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca 15
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ
nārasiṃhavapuḥ śrīmānkeśavaḥ puruṣottamaḥ 16
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ 17
svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ
anādinidhano dhātā vidhātā dhāturuttamaḥ 18
aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ 19
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ
prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param 20
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ 21
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān 22
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ 23
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ 24
vasurvasumanāḥ satyaḥ samātmā sammitaḥ samaḥ
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ 25
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ
amṛtaḥ śāśvataḥ sthāṇurvarāroho mahātapāḥ 26
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ 27
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ 28
bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ
anagho vijayo jetā viśvayoniḥ punarvasuḥ 29
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ
atīndra ḥ\! saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ 30
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ
atīndri yo mahāmāyo mahotsāho mahābalaḥ 31
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ
anirdeśyavapuḥ śrīmānameyātmā mahādri dhṛk 32
maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ
aniruddhaḥ surānando govindo govidāṃ patiḥ 33
marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ 34
amṛtyuḥ sarvadṛksiṃhaḥ sandhātā sandhimānsthiraḥ
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā 35
gururgurutamo dhāma satyaḥ satyaparākramaḥ
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ 36
agraṇīrgrāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt 37
āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ 38
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ 39
asaṅkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ 40
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ 41
subhujo durdharo vāgmī mahendro vasudo vasuḥ
naikarūpo bṛhadrū paḥ śipiviṣṭaḥ prakāśanaḥ 42
ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ
ṛddhaḥ spaṣṭākṣaro mantraścandrā śuṃ\!rbhāskaradyutiḥ 43
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ 44
bhūtabhavyabhavannāthaḥ pavanaḥpāvano'nalaḥ
kāma hākāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ 45
yugādikṛdyugāvarto naikamāyo mahāśanaḥ
adṛśyo vyaktarūpaśca sahasrajidanantajit 46
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī namuṣo vṛṣaḥ
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ 47
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ
apāṃ nidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ 48
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ
vāsudevo bṛhadbhānurādidevaḥ purandaraḥ 49
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ 50
padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ 51
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ
sarvalakṣaṇalakṣaṇyo lakṣmīvānsamitiñjayaḥ 52
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ
mahīdharo mahābhāgo vegavānamitāśanaḥ 53
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ 54
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ
pararddhiḥ paramaḥ spaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ 55
rāmo virāmo virajo mārgo neyo nayo'nayaḥ
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ 56
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ 57
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ 58
vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījamavyayam
artho'nartho mahākośo mahābhogo mahādhanaḥ 59
anirviṇṇaḥ sthaviṣṭho bhūrdharmayūpo mahāmakhaḥ
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ 60
yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ
sarvadarśī vimuktātmā sarvajño jñānamuttamam 61
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt
manoharo jitakrodho vīrabāhurvidāraṇaḥ 62
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ 63
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram
avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ 64
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ
ādidevo mahādevo deveśo devabhṛdguruḥ 65
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ 66
somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ 67
jīvo vinayitā sākṣī mukundo'mitavikramaḥ
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ 68
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ
ānando nandano nandaḥ satyadharmā trivikramaḥ 69
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt 70
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī
guhyo gabhīro gahano guptaścakragadādharaḥ 71
vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo'cyutaḥ
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ 72
bhagavānbhagahā nandī vanamālī halāyudhaḥ
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ 73
sudhanvā khaṇḍaparaśurdāruṇo dra viṇapradaḥ
diviḥspṛksarvadṛgvyāso vācaspatirayonijaḥ 74
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak
sannyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam 75
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ 76
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ 77
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmā~ llokatrayāśrayaḥ 78
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ
vijitātmā vidheyātmā satkīrtiśchinnasaṃśayaḥ 79
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥ sthiraḥ
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ 80
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ
aniruddho'pratirathaḥ pradyumno'mitavikramaḥ 81
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ 82
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ
anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ 83
brahmaṇyo brahmakṛdbrahmā brahma brahmavivardhanaḥ
brahmavidbrāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ 84
mahākramo mahākarmā mahātejā mahoragaḥ
mahākraturmahāyajvā mahāyajño mahāhaviḥ 85
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ 86
manojavastīrthakaro vasuretā vasupradaḥ
vasuprado vāsudevo vasurvasumanā haviḥ 87
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ 88
bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ
darpahā darpado dṛpto durdharo'thāparājitaḥ 89
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ 90
eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam
lokabandhurlokanātho mādhavo bhaktavatsalaḥ 91
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ 92
amānī mānado mānyo lokasvāmī trilokadhṛk
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ 93
tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ
pragraho nigraho'vyagro naikaśṛṅgo gadāgrajaḥ 94
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ
caturātmā caturbhāvaścaturvedavidekapāt 95
samāvarto nivṛttātmā durjayo duratikramaḥ
durlabho durgamo durgo durāvāso durārihā 96
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ
indra karmā mahākarmā kṛtakarmā kṛtāgamaḥ 97
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī 98
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ
mahāhrado mahāgarto mahābhūto mahānidhiḥ 99
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ
amṛtāṃśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ 100
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ
nyagrodhodumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ 101
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ
amūrtiranagho'cintyo bhayakṛdbhayanāśanaḥ 102
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ 103
bhārabhṛtkathito yogī yogīśaḥ sarvakāmadaḥ
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ 104
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ
aparājitaḥ sarvasaho niyantā niyamo yamaḥ 105
sattvavānsāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ
abhiprāyaḥ priyārho'rha priyakṛtprītivardhanaḥ 106
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ 107
ananto hutabhugbhoktā sukhado naikajo'grajaḥ
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ 108
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ 109
araudra ḥ\! kuṇḍalī cakrī vikramyūrjitaśāsanaḥ
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ 110
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ 111
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ 112
anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ
caturasro gabhīrātmā vidiśo vyādiśo diśaḥ 113
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ
janano janajanmādirbhīmo bhīmaparākramaḥ 114
ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ 115
pramāṇaṃ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ 116
bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ 117
yajñabhṛdyajñakṛdyajñī yajñabhugyajñasādhanaḥ
yajñāntakṛdyajñaguhyamannamannāda eva ca 118
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ 119
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ 120
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī
śrīmān nārāyaṇo viṣṇurvāsudevo'bhirakṣatu 121
namostvanantāya sahasramūrtaye
sahasrapādākṣiṣirorubāhave
sahasranāmne puruṣāya śāśvate
sahasrakoṭī yugadhāriṇe namaḥ
kāyena vācā manasendri yairvā
buddhyātmanā vā prakṛteḥ svabhāvāt
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi oṃ
Reference:
Vi·öusahasranŒma with the BhŒ·ya of êr´ êa‹karŒchŒrya, (Adyar, Madras:
The Adyar Library and Research Centre, 1980).
dhyānam
vande śambhumumāpatiṃ suraguruṃ vande jagatkāraṇam
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyam
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram
sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ 1
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ 2
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ
śmaśānavāsī bhagavān khacaro gocaro'rdanaḥ 3
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ 4
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ
mahātmā sarvabhūtātmā viśvarūpo mahāhanuḥ 5
lokapālo'ntarhitātmā prasādo hayagardabhiḥ
pavitraṃ ca mahāṃścaiva niyamo niyamāśritaḥ 6
sarvakarmā svayambhūta ādirādikaro nidhiḥ
sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ 7
candra ḥ\! sūryaḥ śaniḥ keturgraho grahapatirvaraḥ
atriratr\! yānamaskartā mṛgabāṇārpaṇo'naghaḥ 8
mahātapā ghoratapā adīno dīnasādhakaḥ
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ 9
yogī yojyo mahābījo mahāretā mahābalaḥ
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ 10
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ
viśvarūpaḥ svayaṃśreṣṭho balavīro'balo gaṇaḥ 11
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca
mantravitparamomantraḥ sarvabhāvakaro haraḥ 12
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān
śataghnī aśanī khaḍgī paṭṭiśī cāyudhī mahān 13
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ
uṣṇīṣī ca suvaktraśca udagro vinatastathā 14
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca
sṛgālarūpaḥ siddhārtho muṇḍaḥ sarvaśubhaṅkaraḥ 15
ajaśca bahurūpaśca gandhadhārī kapardyapi
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhaḥsthalaḥ 16
trijaṭī cīravāsāśca rudra ḥ\! senāpatirvibhuḥ
ahaścaronaktañcarastigmamanyuḥ suvarcasaḥ 17
gajahā daityahā kālo lokadhātā guṇākaraḥ
siṃhaśārdūlarūpaśca ārdra carmāmbarāvṛtaḥ 18
kālayogī mahānādaḥ sarvakāmaścatuṣpathaḥ
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ 19
bahubhūto bahudharaḥ svarbhānuramito gatiḥ
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ 20
ghoro mahātapāḥ pāśo nityo giriruho nabhaḥ
sahasrahasto vijayo vyavasāyo hyatandri taḥ 21
adharṣaṇo dharṣaṇātmā yajñahā kāmanāśakaḥ
dakṣayāgāpahārī ca susaho madhyamastathā 22
tejopahārī balahā mudito'rtho'jito varaḥ
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ 23
nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ
sutīkṣṇadaśanaścaiva mahākāyo mahānanaḥ 24
viṣvakseno hariryajñaḥ saṃyugāpīḍavāhanaḥ
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit 25
viṣṇuprasādito yajñaḥ samudro baḍavāmukhaḥ
hutāśanasahāyaśca praśāntātmā hutāśanaḥ 26
ugratejā mahātejā janyo vijayakālavit
jyotiṣāmayanaṃ siddhiḥ sarvavigraha eva ca 27
śikhī muṇḍī jaṭī jvālī mūrtijo mūrdhago balī
vaiṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ 28
nakṣatravigrahamatirguṇabuddhirlayo'gamaḥ
prajāpatirviśvabāhurvibhāgaḥ sarvago'mukhaḥ 29
vimocanaḥ susaraṇo hiraṇyakavacodbhavaḥ
meḍhrajo balacārī ca mahīcārī srutastathā 30
sarvatūryavinodī ca sarvātodyaparigrahaḥ
vyālarūpo guhāvāsī guho mālī taraṅgavit 31
tridaśastrikāladhṛkkarmasarvabandhavimocanaḥ
bandhanastvasurendrā ṇāṃ yudhiśatruvināśanaḥ 32
sāṅkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ
praskandano vibhāgajño atulyo yajñabhāgavit 33
sarvavāsaḥ sarvacārī durvāsā vāsavo'maraḥ
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ 34
lohitākṣo mahākṣaśca vijayākṣo viśāradaḥ
saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ 35
mukhyo'mukhyaśca dehaśca kāhaliḥ sarvakāmadaḥ
sarvakālaprasādaśca subalo balarūpadhṛt 36
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ 37
raudra rūpaoṃ'śurādityo bahuraśmiḥ suvarcasī
vasuvego mahāvego manovego niśācaraḥ 38
sarvavāsī śriyāvāsī upadeśakaro'karaḥ
munirātmanirālokaḥ sambhagnaśca sahasradaḥ 39
pakṣī ca pakṣarūpaśca atidīpto viśāmpatiḥ
unmādo madanaḥ kāmo hyaśvattho'rthakaro yaśaḥ 40
vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ
siddhayogī maharṣiśca siddhārthaḥ siddhasādhakaḥ 41
bhikṣuśca bhikṣurūpaśca vipaṇo mṛduravyayaḥ
mahāseno viśākhaśca ṣaṣṭhibhāgo gavāmpatiḥ 42
vajrahastaśca viṣkambhī camūstambhana eva ca
vṛttāvṛttakarastālo madhurmadhukalocanaḥ 43
vācaspatyo vājasano nityamāśritapūjitaḥ
brahmacārī lokacārī sarvacārī vicāravit 44
īśāna īśvaraḥ kālo niśācārī pinākavān
nimittastho nimittaṃ ca nandirnandikaro hariḥ 45
nandīśvaraśca nandī ca nandano nandivardhanaḥ
bhagahārī nihantā ca kālo brahmā pitāmahaḥ 46
caturmukho mahāliṅgaścāruliṅgastathaiva ca
liṅgādhyakṣaḥ surādhyakṣo yogādhyakṣo yugāvahaḥ 47
bījādhyakṣo bījakartā adhyātmā'nugato balaḥ
itihāsaḥ sakalpaśca gautamo'tha niśākaraḥ 48
dambho hyadambho vaidambho vaśyo vaśakaraḥ kaliḥ
lokakartā paśupatirmahākartā hyanauṣadhaḥ 49
akṣaraṃ paramaṃ brahma balavaccakra eva ca
nītirhyanītiḥ śuddhātmā śuddho mānyo gatāgataḥ 50
bahuprasādaḥ susvapno darpaṇo'tha tvamitrajit
vedakāro mantrakāro vidvān samaramardanaḥ 51
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ
agnijvālo mahājvālo atidhūmro huto haviḥ 52
vṛṣaṇaḥ śaṅkaro nityaṃ varcasvī dhūmaketanaḥ
nīlastathāṅgalubdhaśca śobhano niravagrahaḥ 53
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ
utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ 54
kṛṣṇavarṇaḥ suvarṇaśca indri yaṃ sarvadehinām
mahāpādo mahāhasto mahākāyo mahāyaśāḥ 55
mahāmūrdhā mahāmātro mahānetro niśālayaḥ
mahāntako mahākarṇo mahoṣṭhaśca mahāhanuḥ 56
mahānāso mahākamburmahāgrīvaḥ śmaśānabhāk
mahāvakṣā mahorasko hyantarātmā mṛgālayaḥ 57
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ 58
mahānakho mahāromo mahākośo mahājaṭaḥ
prasannaśca prasādaśca pratyayo girisādhanaḥ 59
snehano'snehanaścaiva ajitaśca mahāmuniḥ
vṛkṣākāro vṛkṣaketuranalo vāyuvāhanaḥ 60
gaṇḍalī merudhāmā ca devādhipatireva ca
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ 61
yajuḥ pādabhujo guhyaḥ prakāśo jaṅgamastathā
amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ 62
upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ
nābhirnandikaro bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ 63
dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ 64
sagaṇo gaṇakāraśca bhūtavāhanasārathiḥ
bhasmaśayo bhasmagoptā bhasmabhūtastarurgaṇaḥ 65
lokapālastathā loko mahātmā sarvapūjitaḥ
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣevitaḥ 66
āśramasthaḥ kriyāvastho viśvakarmamatirvaraḥ
viśālaśākhastāmroṣṭho hyambujālaḥ suniścalaḥ 67
kapilaḥ kapiśaḥ śukla āyuścaiva paro'paraḥ
gandharvo hyaditistārkṣyaḥ suvijñeyaḥ suśāradaḥ 68
paraśvadhāyudho deva anukārī subāndhavaḥ
tumbavīṇo mahākrodha ūrdhvaretā jaleśayaḥ 69
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ
sarvāṅgarūpo māyāvī suhṛdo hyanilo'nalaḥ 70
bandhano bandhakartā ca subandhanavimocanaḥ
sayajñāriḥ sakāmārirmahādaṃṣṭro mahāyudhaḥ 71
bahudhā ninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro'dhanaḥ
amareśo mahādevo viśvadevaḥ surārihā 72
ahirbuÞyo'nilābhaśca cekitāno havistathā
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ 73
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ 74
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ
uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ 75
vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ
padmanābho mahāgarbhaścandra vaktro'nilo'nalaḥ 76
balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī
kurukartā kuruvāsī kurubhūto guṇauṣadhaḥ 77
sarvāśayo darbhacārī sarveṣāṃ prāṇināmpatiḥ
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit 78
kailāsagirivāsī ca himavadgirisaṃśrayaḥ
kūlahārī kūlakartā bahuvidyo bahupradaḥ 79
vaṇijo vardhakī vṛkṣo vakulaścandanaśchadaḥ
sāragrīvo mahājatru ralolaśca mahauṣadhaḥ 80
siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ 81
prabhāvātmā jagatkālasthālo lokahitastaruḥ
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ 82
bhūtālayo bhūtapatirahorātramaninditaḥ 83
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ 84
dhṛtimān matimān dakṣaḥ satkṛtaśca yugādhipaḥ
gopālirgopatirgrāmo gocarmavasano hariḥ 85
hiraṇyabāhuśca tathā guhāpālaḥ praveśinām
prakṛṣṭārirmahāharṣo jitakāmo jitendri yaḥ 86
gāndhāraśca suvāsaśca tapaḥsakto ratirnaraḥ
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ 87
mahāketurmahādhāturnaikasānucaraścalaḥ
āvedanīya ādeśaḥ sarvagandhasukhāvahaḥ 88
toraṇastāraṇo vātaḥ paridhī patikhecaraḥ
saṃyogo vardhano vṛddho ativṛddho guṇādhikaḥ 89
nityamātmasahāyaśca devāsurapatiḥ patiḥ
yuktaśca yuktabāhuśca devo divi suparvaṇaḥ 90
āṣāḍhaśca suṣāḍhaśca dhruvo'tha hariṇo haraḥ
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ 91
śirohārī vimarśaśca sarvalakṣaṇalakṣitaḥ
akṣaśca rathayogī ca sarvayogī mahābalaḥ 92
samāmnāyo'samāmnāyastīrthadevo mahārathaḥ
nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ 93
ratnaprabhūto raktāṅgo mahārṇavanipānavit
mūlaṃ viśālo hyamṛto vyaktāvyaktastaponidhiḥ 94
ārohaṇo'dhirohaśca śīladhārī mahāyaśāḥ
senākalpo mahākalpo yogo yugakaro hariḥ 95
yugarūpo mahārūpo mahānāgahano vadhaḥ
nyāyanirvapaṇaḥ pādaḥ paṇḍito hyacalopamaḥ 96
bahumālo mahāmālaḥ śaśī harasulocanaḥ
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ 97
trilocano viṣaṇṇāṅgo maṇividdho jaṭādharaḥ
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ 98
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇām 99
manthāno bahulo vāyuḥ sakalaḥ sarvalocanaḥ
talastālaḥ karasthālī ūrdhvasaṃhanano mahān 100
chatraṃ succhatro vikhyāto lokaḥ sarvāśrayaḥ kramaḥ
muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ 101
haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāt
sahasramūrdhā devendra ḥ\! sarvadevamayo guruḥ 102
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt
pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ 103
brahmadaṇḍavinirmātā śataghnīpāśaśaktimān
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ 104
gabhastirbrahmakṛdbrahmī brahmavidbrāhmaṇo gatiḥ
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ 105
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ
candanī padmanālāgraḥ surabhyuttaraṇo naraḥ 106
karṇikāramahāsragvī nīlamauliḥ pinākadhṛt
umāpatirumākānto jāhnavīdhṛgumādhavaḥ 107
varo varāho varado vareṇyaḥ sumahāsvanaḥ
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ 108
prītātmā paramātmā ca prayatātmā pradhānadhṛt
sarvapārśvamukhastr\! yakṣo dharmasādhāraṇo varaḥ 109
carācarātmā sūkṣmātmā amṛto govṛṣeśvaraḥ
sādhyarṣirvasurādityo vivasvān savitā'mṛtaḥ 110
vyāsaḥ sargaḥ susaṅkṣepo vistaraḥ paryayo naraḥ
ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ 111
kalā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ
viśvakṣetraṃ prajābījaṃ liṅgamādyastu nirgamaḥ 112
sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam 113
nirvāṇaṃ hlādanaścaiva brahmalokaḥ parāgatiḥ
devāsuravinirmātā devāsuraparāyaṇaḥ 114
devāsuragururdevo devāsuranamaskṛtaḥ
devāsuramahāmātro devāsuragaṇāśrayaḥ 115
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ
devātidevo devarṣirdevāsuravarapradaḥ 116
devāsureśvaro viśvo devāsuramaheśvaraḥ
sarvadevamayo'cintyo devatātmā''tmasambhavaḥ 117
udbhittrivikramo vaidyo virajo nīrajo'maraḥ
īḍyo hastīśvaro vyāghro devasiṃho nararṣabhaḥ 118
vibudho'gravaraḥ sūkṣmaḥ sarvadevastapomayaḥ
suyuktaḥ śobhano vajrī prāsānāṃ prabhavo'vyayaḥ 119
guhaḥ kānto nijaḥ sargaḥ pavitraṃ sarvapāvanaḥ
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ 120
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ
lalāṭākṣo viśvadevo hariṇo brahmavarcasaḥ 121
sthāvarāṇāmpatiścaiva niyamendri yavardhanaḥ
siddhārthaḥ siddhabhūtārtho'cintyaḥ satyavrataḥ śuciḥ 122
vratādhipaḥ paraṃ brahma bhaktānāṃ paramāgatiḥ
vimukto muktatejāśca śrīmān śrīvardhano jagat 123
oṃ
iti śrī śiva sahasranāma stotraṃ sampūrṇam
asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya
gaṇeśa ṛṣiḥ
mahāgaṇapatirdevatā
nānāvidhānicchandāṃsi
humiti bījam
tuṅgamiti śaktiḥ
svāhāśaktiriti kīlakam
śrīmahāgaṇapatiprasādasiddhyarthe sahasranāmastotrapāṭhe viniyogaḥ
dhyānam
gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃ
bṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi 1
śrīgaṇapatiruvāca
gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ
ekadanto vakratuṇḍo gajavaktro mahādaraḥ 1
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ
sumukho durmukho buddho vighnarājo gajānanaḥ 2
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ 3
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ
vināyako virūpākṣo vīraḥ śūravarapradaḥ 4
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ
rudra priyo gaṇādhyakṣa umāputro'ghanāśanaḥ 5
kumāragururīśānaputro mūṣakavāhanaḥ
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ 6
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ
kaṭaṅkaṭo rājaputraḥ śākalaḥ sammito'mitaḥ 7
kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ 8
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ
kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ 9
jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ 10
karāhatidhvastasindhusalilaḥ pūṣadantabhit
umāṅkakelikutukī muktidaḥ kulapāvanaḥ 11
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ 12
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt
duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ 13
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ 14
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ
yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ 15
gaṇādhirājo vijayaḥ sthiro gajapatirdhvajī
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ 16
vipaścidvarado nādo nādabhinnamahācalaḥ
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ 17
icchāśaktibhavo devatrātā daityavimardanaḥ
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ 18
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ 19
yajñakāyo mahānādo girivarṣmā śubhānanaḥ
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ 20
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ
jagajjanmalayonmeṣanimeṣo'gnyarkasomadṛk 21
girīndrai karado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ
graharkṣadaśano vāṇījihvo vāsavanāsikaḥ 22
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ
kulācalāṃsaḥ somārkaghaṇṭo rudra śirodharaḥ 23
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ
vyomanābhiḥ śrīhṛdayo merupṛṣṭho'rṇavodaraḥ 24
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ 25
pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ 26
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ 27
pratāpī kāśyapo mantā gaṇako viṣṭapī balī
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ 28
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ 29
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ
nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ 30
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ 31
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ
lipipadmāsanādhāro vahnidhāmatrayālayaḥ 32
unnataprapado gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ
pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ 33
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ
pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ 34
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ 35
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ
sarpahārakaṭīsūtraḥ sarpayajñopavītavān 36
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ
sarpakakṣodarābandhaḥ sarparājottaracchadaḥ 37
rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ
raktekṣano raktakaro raktatālvoṣṭhapallavaḥ 38
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ
śvetātapatraruciraḥ śvetacāmaravījitaḥ 39
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ 40
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ 41
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ 42
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt
pāśī dhṛtotpalaḥ śālīmañjalībhṛtsvadantabhṛt 43
kalpavallīdharo viśvābhayadaikakaro vaśī
akṣamālādharo jñānamudrā vān mudgarāyudhaḥ 44
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ
karasthāmraphalaścūtakalikābhṛtkuṭhāravān 45
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ
bhāratīsundarīnātho vināyakaratipriyaḥ 46
mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ
ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ 47
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ
āmodamodajananaḥ sapramodapramodanaḥ 48
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ 49
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ
vighnasampallavaḥ padmaḥ sarvonnatamadadra vaḥ 50
vighnakṛnnimnacaraṇo drā viṇīśaktisatkṛtaḥ
tīvrāprasannanayano jvālinīpālitaikadṛk 51
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ 52
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ 53
sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ
īśānamūrdhā devendra śikhaḥ pavananandanaḥ 54
pratyugranayano divyo divyāstraśataparvadhṛk
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ 55
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ
jayājayaparikaro vijayāvijayāvahaḥ 56
ajayārcitapādābjo nityānandavanasthitaḥ
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ 57
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ
jñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ 58
subhagāsaṃśritapado lalitālalitāśrayaḥ
kāminīpālanaḥ kāmakāminīkelilālitaḥ 59
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ
guruguptapado vācāsiddho vāgīśvarīpatiḥ 60
nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ
raudrī mudri tapādābjo humbījastuṅgaśaktikaḥ 61
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ 62
ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ
sārvakālikasaṃsiddhirnityasevyo digambaraḥ 63
anapāyo'nantadṛṣṭiraprameyo'jarāmaraḥ
anāvilo'pratihatiracyuto'mṛtamakṣaraḥ 64
apratarkyo'kṣayo'jayyo'nādhāro'nāmayo'malaḥ
ameyasiddhiradvaitamaghoro'gnisamānanaḥ 65
anākāro'bdhibhūmyagnibalaghno'vyaktalakṣaṇaḥ
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ 66
ākhuketana āśāpūraka ākhumahārathaḥ
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ 67
ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ
indra gopasamānaśrīrindra nīlasamadyutiḥ 68
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ 69
ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ
īśānamaulirīśāna īśānapriya ītihā 70
īṣaṇātrayakalpānta īhāmātravivarjitaḥ
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ 71
unnatānana uttuṅga udārastridaśāgraṇīḥ
ūrjasvānūṣmalamada ūhāpohadurāsadaḥ 72
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ
ṛjucittaikasulabho ṛṇatrayavimocanaḥ 73
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ 74
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ 75
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ
airammadasamonmeṣa airāvatasamānanaḥ 76
oṃkāravācya oṃkāra ojasvānoṣadhīpatiḥ
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ 77
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ
aḥ samastavisargāntapadeṣu parikīrtitaḥ 78
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ
karmasākṣī karmakartā karmākarmaphalapradaḥ 79
kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt 80
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ 81
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ 82
guhyācārarato guhyo guhyāgamanirūpitaḥ
guhāśayo guḍābdhistho gurugamyo gururguruḥ 83
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt 84
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ
carācarapitā cintāmaṇiścarvaṇalālasaḥ 85
chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ
jagadyonirjagatsākṣī jagadīśo jaganmayaḥ 86
japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ 87
ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ
ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ 88
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ 89
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ
tārakāntarasaṃsthānastārakastārakāntakaḥ 90
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat
dakṣayajñapramathano dātā dānaṃ damo dayā 91
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ 92
daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ 93
dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ 94
nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ
niṣkalo nirmalo nityo nityānityo nirāmayaḥ 95
paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam 96
parātparaḥ paśupatiḥ paśupāśavimocanaḥ
pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ 97
padmaprasannavadanaḥ praṇatājñānanāśanaḥ
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ 98
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ
bāṇārcitāṅghriyugalo bālakelikutūhalī
brahma brahmārcitapado brahmacārī bṛhaspatiḥ 99
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ 100
bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ
bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ 101
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ
mantro mantrapatirmantrī madamatto mano mayaḥ 102
mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ 103
yajño yajñapatiryajñagoptā yajñaphalapradaḥ
yaśaskaro yogagamyo yājñiko yājakapriyaḥ 104
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ
rājyarakṣākaro ratnagarbho rājyasukhapradaḥ 105
lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ 106
vareṇyo vahnivadano vandyo vedāntagocaraḥ
vikartā viśvataścakṣurvidhātā viśvatomukhaḥ 107
vāmadevo viśvanetā vajrivajranivāraṇaḥ
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ 108
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ 109
ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ
saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam 110
sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ 111
sākṣī samudra mathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī 112
haṃso hastipiśācīśo havanaṃ havyakavyabhuk
havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ 113
kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ
kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ 114
dharmaprado'rthadaḥ kāmadātā saubhāgyavardhanaḥ
vidyāprado vibhavado bhuktimuktiphalapradaḥ 115
ābhirūpyakaro vīraśrīprado vijayapradaḥ
sarvavaśyakaro garbhadoṣahā putrapautradaḥ 116
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ
prativādimukhastambho ruṣṭacittaprasādanaḥ 117
parābhicāraśamano duḥkhahā bandhamokṣadaḥ
lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ 118
ghaṭī muhūrtaḥ praharo divā naktamaharniśam
pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ 119
rāśistārā tithiryogo vāraḥ karaṇamaṃśakam
lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ 120
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat 121
bhūrāpo'gnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān
brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ 122
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ 123
samudrā ḥ\! saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ 124
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam 125
vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam 126
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā
sadasadvyaktamavyaktaṃ sacetanamacetanam 127
bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān
svasti humphaṭ svadhā svāhā śrauṣaḍ vauṣaḍ vaṣaṇ namaḥ 128
jñānaṃ vijñānamānando bodhaḥ saṃvitsamo'samaḥ
eka ekākṣarādhāra ekākṣaraparāyaṇaḥ 129
ekāgradhīrekavīra eko'nekasvarūpadhṛk
dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ 130
dvaimāturo dvivadano dvandvahīno dvayātigaḥ
tridhāmā trikarastretā trivargaphaladāyakaḥ 131
triguṇātmā trilokādistriśaktīśastrilocanaḥ
caturvidhavacovṛttiparivṛttipravartakaḥ 132
caturbāhuścaturdantaścaturātmā caturbhujaḥ
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ
caturthīpūjanaprītaścaturthītithisambhavaḥ 133
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ 134
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ 135
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ
pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ 136
ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ 137
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ 138
ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ 139
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ 140
saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ
saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ 141
saptacchando modamadaḥ saptacchando makhaprabhuḥ
aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam 142
aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ 143
aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ
aṣṭabhairavasevyo'ṣṭavasuvandyo'ṣṭamūrtibhṛt 144
aṣṭacakrasphuranmūrtiraṣṭadra vyahaviḥpriyaḥ
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ
navanāgāsanādhyāsī navanidhyanuśāsitaḥ 145
navadvārapurāvṛtto navadvāraniketanaḥ
navanāthamahānātho navanāgavibhūṣitaḥ 146
navanārāyaṇastulyo navadurgāniṣevitaḥ
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ 147
daśātmako daśabhujo daśadikpativanditaḥ
daśādhyāyo daśaprāṇo daśendri yaniyāmakaḥ 148
daśākṣaramahāmantro daśāśāvyāpivigrahaḥ
ekādaśamahārudrai stuḥtaścaikādaśākṣaraḥ 149
dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ
trayodaśabhidābhinno viśvedevādhidaivatam 150
caturdaśendra varadaścaturdaśamanuprabhuḥ
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ 151
sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ
tithipañcadaśākārastithyā pañcadaśārcitaḥ 152
ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ
ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ 153
kalāsaptadaśī saptadaśasaptadaśākṣaraḥ
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt 154
aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ
aṣṭādaśalipivyaṣṭisamaṣṭijñānakovidaḥ 155
aṣṭādaśānnasampattiraṣṭādaśavijātikṛt
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ 156
caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt 157
dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ 158
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ
dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṃśrayaḥ
pañcāśadakṣaraśreṇīpañcāśadrudra vigrahaḥ 159
catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ
namadekonapañcāśanmarudvarganirargalaḥ 160
catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ
aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ 161
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ
śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ 162
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ 163
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ 164
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ
aṣṭāśītisahasrādyamaharṣistotrapāṭhinaḥ 165
lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ
caturlakṣajapaprītaścaturlakṣaprakāśakaḥ 166
caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ
koṭisūryapratīkāśaḥ koṭicandrā śuṃ\!nirmalaḥ 167
śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ
saptakoṭimahāmantramantritāvayavadyutiḥ 168
trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ
anantadevatāsevyo hyanantaśubhadāyakaḥ 169
anantanāmānantaśrīrananto'nantasaukhyadaḥ
anantaśaktisahito hyanantamunisaṃstutaḥ 170