रामस्तवराजस्तोत्रम्
अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः। \\
श्रीरामो देवता। अनुष्टुप् छन्दः। सीता बीजम्। हनुमान् शक्तिः।
श्रीरामप्रीत्यर्थे जपे विनियोगः॥
सूत उवाच
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम्
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम्
युधिष्ठिर उवाच
भगवन् योगिनां श्रेष्ठ सर्वशास्त्रविशारद
किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम्
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम
वेदव्यास उवाच
धर्मराज महाभाग शृणु वक्ष्यामि तत्त्वतः
यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम्
तदेव परमं तत्त्वं कैवल्यपदकारणम्
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः
श्रीराम रामेति जना ये जपन्ति च सर्वदा
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता
तत्सर्वं सम्प्रवक्ष्यामि हरिध्यानपुरःसरम्
तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम्
दारिद्र्यदुःखशमनं सर्वसम्पत्करं शिवम्
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम्
अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे
स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम्
तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम्
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम्
पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम्
कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम्
भानुकोटिप्रतीकाशकिरीटेन विराजितम्
रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम्
रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम्
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम्
दिव्यरत्नसमायुक्तमुद्रिकाभिरलङ्कृतम्
राघवं द्विभुजं बालं राममीषत्स्मिताननम्
तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम्
कर्पूरागरुकस्तूरीदिव्यगन्धानुलेपनम्
योगशास्त्रेष्वभिरतं योगेशं योगदायकम्
सदा भरतसौमित्रशत्रुघ्नैरुपशोभितम्
विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः
योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम्
विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम्
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम्
रामं रघुवरं वीरं धनुर्वेदविशारदम्
मङ्गलायतनं देवं रामं राजीवलोचनम्
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम्
कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम्
एवं सञ्चिन्तयन् विष्णुं यज्ज्योतिरमलं विभुम्
प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम्
कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम्
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम्
यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम्
विज्ञानहेतुं विमलायताक्षम्प्रज्ञानरूपं स्वसुखैकहेतुं
श्रीरामचन्द्रं हरिमादिदेवम्परात्परं राममहं भजामि
कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम्
अणोरणीयांसमनन्तवीर्यम्प्राणेश्वरं राममसौ ददर्श
नारद उवाच
नारायणं जगन्नाथमभिरामं जगत्पतिम्
कविं पुराणं वागीशं रामं दशरथात्मजम्
राजराजं रघुवरं कौसल्यानन्दवर्धनम्
भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम्
सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम्
आदित्यं रविमीशानं घृणिं सूर्यमनामयम्
आनन्दरूपिणं सौम्यं राघवं करुणामयम्
जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम्
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्
श्रीशार्ङ्गधारिणं रामं चिन्मयानन्दविग्रहम्
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम्
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम्
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम्
वासुदेवं जगद्योनिमनादिनिधनं हरिम्
गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम्
गोगोपालपरीवारं गोपकन्यासमावृतम्
विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम्
गोगोपिकासमाकीर्णं वेणुवादनतत्परम्
कामरूपं कलावन्तं कामिनीकामदं विभुम्
मन्मथं मथुरानाथं माधवं मकरध्वजम्
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम्
भूतेशं भूपतिं भद्रं विभूतिं भूमिभूषणम्
सर्वदुःखहरं वीरं दुष्टदानववैरिणम्
श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम्
चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम्
आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम्
भक्तिप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम्
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम्
सिंहासने समासीनं नित्यव्रतमकल्मषम्
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम्
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम्
सत्यसन्धं जितक्रोधं शरणागतवत्सलम्
सर्वक्लेशापहरणं विभीषणवरप्रदम्
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम्
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्
नरवानरदेवैश्च सेवितं हनुमत्प्रियम्
शुद्धं सूक्ष्मं परं शान्तं तारकं ब्रह्मरूपिणम्
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम्
सर्वकारणकर्तारं निदानं प्रकृतेः परम्
निरामयं निराभासं निरवध्यं निरञ्जनम्
नित्यानन्दं निराकारमद्वैतं तमसः परम्
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम्
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्
सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम्
नमामि पुण्डरीकाक्षममेयं गुरुतत्परम्
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः
नमोऽस्तु रामदेवाय जगदानन्दरूपिणे
नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने
मायामयनिरासाय प्रपन्नजनसेविने
वन्दामहे महेशानचण्डकोदण्डखण्डनम्
जानकीहृदयानन्दवर्धनं रघुनन्दनम्
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते
कामाय प्रमदामनोहरगुणग्रामाय रामात्मने
योगारूढमुनीन्द्रमानससरोहंसाय संसारवि-
ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः
भवोद्भवं वेदविदां वरिष्ठम्
आदित्यचन्द्रानलसुप्रभावम्
सर्वात्मकं सर्वगतस्वरूपं
नमामि रामं तमसः परस्तात्
निरञ्जनं निष्प्रतिमं निरीहं
निराश्रयं निष्कलमप्रपञ्चम्
नित्यं ध्रुवं निर्विषयस्वरूपं
निरन्तरं राममहं भजामि
भवाब्धिपोतं भरताग्रजं तं
भक्तिप्रियं भानुकुलप्रदीपम्
भूतत्रिनाथं भुवनाधिपं तं
भजामि रामं भवरोगवैद्यम्
सर्वाधिपत्यं समराङ्गधीरं
सत्यं चिदानन्दमयस्वरूपम्
सत्यं शिवं शान्तिमयं शरण्यं
सनातनं राममहं भजामि
कार्यक्रियाकारणमप्रमेयं
कविं पुराणं कमलायताक्षम्
कुमारवेद्यं करुणामयं तं
कल्पद्रुमं राममहं भजामि
त्रैलोक्यनाथं सरसीरुहाक्षं
दयानिधिं द्वन्द्वविनाशहेतुम्
महाबलं वेदनिधिं सुरेशं
सनातनं राममहं भजामि
वेदान्तवेद्यं कविमीशितारम्
अनादिमध्यान्तमचिन्त्यमाद्यम्
अगोचरं निर्मलमेकरूपं
नमामि रामं तमसः परस्तात्
अशेषवेदात्मकमादिसंज्ञम्
अजं हरिं विष्णुमनन्तमाद्यम्
अपारसंवित्सुखमेकरूपं
परात्परं राममहं भजामि
तत्त्वस्वरूपं पुरुषं पुराणं
स्वतेजसा पूरितविश्वमेकम्
राजाधिराजं रविमण्डलस्थं
विश्वेश्वरं राममहं भजामि
लोकाभिरामं रघुवंशनाथं
हरिं चिदानन्दमयं मुकुन्दम्
अशेषविद्याधिपतिं कवीन्द्रं
नमामि रामं तमसः परस्तात्
योगीन्द्रसङ्घैश्च सुसेव्यमानं
नारायणं निर्मलमादिदेवम्
नतोऽस्मि नित्यं जगदेकनाथम्
आदित्यवर्णं तमसः परस्तात्
विभूतिदं विश्वसृजं विरामं
राजेन्द्रमीशं रघुवंशनाथम्
अचिन्त्यमव्यक्तमनन्तमूर्तिं
ज्योतिर्मयं राममहं भजामि
अशेषसंसारविहारहीनम्
आदित्यगं पूर्णसुखाभिरामम्
समस्तसाक्षिं तमसः परस्तात्
नारायणं विष्णुमहं भजामि
मुनीन्द्रगुह्यं परिपूर्णकामं
कलानिधिं कल्मषनाशहेतुम्
परात्परं यत्परमं पवित्रं
नमामि रामं महतो महान्तम्
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा
आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन
तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा
विप्रा वेदास्तथा यज्ञाः पुराणं धर्मसंहिताः
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च
यक्षराक्षसगन्धर्वा दिक्पाला दिग्गजादयः
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव
वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः
तारका दश दिक् चैव त्वमेव रघुनन्दन
सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः
स्थावरा जङ्गमाश्चैव त्वमेव रघुनायक
देवतिर्यङ्मनुष्याणां दानवानां तथैव च
माता पिता तथा भ्राता त्वमेव रघुवल्लभ
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि
त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम
त्वमेव तारकं ब्रह्म त्वत्तोऽन्यं नैव किञ्चन
शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम्
राजीवलोचनं रामं प्रणमामि जगत्पतिम्
व्यास उवाच
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम्
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम्
नारद उवाच
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे
त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम
अद्य मे सफलं जन्म जीवितं सफलं च मे
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः
अद्य मे सफलं कर्म त्वत्पादाम्भोजदर्शनात्
अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा
त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं देहि राघव
ततः परमसम्प्रीतः स रामः प्राह नारदम्
श्रीराम उवाच
मुनिवर्य महाभाग मुने त्विष्टं ददामि ते
यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति
नारद उवाच
परं न याचे रघुनाथ युष्मत्
पादाब्जभक्तिः सततं ममास्तु
इदं प्रियं नाथ वरं प्रयाचे
पुनः पुनस्त्वामिदमेव याचे
व्यास उवाच
इत्येवमीडितो रामः प्रादात् तस्मै वरान्तरम्
वीरो रामो महातेजाः सच्चिदानन्दविग्रहः
अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा
अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः
इति श्रीरघुनाथस्य स्तवराजमनुत्तमम्
सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम्
कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम्
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम्
यः पठेच्छृणुयाद्वाऽपि त्रिसन्ध्यं श्रद्धयान्वितः
ब्रह्महत्यादिपापानि तत्समानि बहूनि च
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा
गोवधाद्युपपापानि अनृतात्सम्भवानि च
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः
मानसं वाचिकं पापं कर्मणा समुपार्जितम्
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम्
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते
रामं सत्यं परं ब्रह्म रामात् किञ्चिन्न विद्यते
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत्
श्रीरामचन्द्र रघुपुङ्गव राजवर्य
राजेन्द्र राम रघुनायक राघवेश
राजाधिराज रघुनन्दन रामचन्द्र
दासोऽहमद्य भवतः शरणागतोऽस्मि
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्
रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं
सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम्
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम्
सकलगुणनिधानं योगिभिः स्तूयमानं
भुजविजितसमानं राक्षसेन्द्रादिमानम्
महितनृपभयानं सीतया शोभमानं
स्मर हृदयविमानं ब्रह्म रामाभिधानम्
रघुवर तव मूर्तिर्मामके मानसाब्जे
नरकगतिहरं ते नामधेयं मुखे मे
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे
भवजलनिधिमग्नं रक्ष मामार्तबन्धो
रामरत्नमहं वन्दे चित्रकूटपतिं हरिम्
कौसल्याभक्तिसम्भूतं जानकीकण्ठभूषणम्
॥इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामस्तवराजस्तोत्रं सम्पूर्णम्॥
రామస్తవరాజస్తోత్రమ్
అస్య శ్రీరామచన్ద్రస్తవరాజస్తోత్రమన్త్రస్య సనత్కుమారఋషిః। \\
శ్రీరామో దేవతా। అనుష్టుప్ ఛన్దః। సీతా బీజమ్। హనుమాన్ శక్తిః।
శ్రీరామప్రీత్యర్థే జపే వినియోగః॥
సూత ఉవాచ
సర్వశాస్త్రార్థతత్త్వజ్ఞం వ్యాసం సత్యవతీసుతమ్
ధర్మపుత్రః ప్రహృష్టాత్మా ప్రత్యువాచ మునీశ్వరమ్
యుధిష్ఠిర ఉవాచ
భగవన్ యోగినాం శ్రేష్ఠ సర్వశాస్త్రవిశారద
కిం తత్త్వం కిం పరం జాప్యం కిం ధ్యానం ముక్తిసాధనమ్
శ్రోతుమిచ్ఛామి తత్సర్వం బ్రూహి మే మునిసత్తమ
వేదవ్యాస ఉవాచ
ధర్మరాజ మహాభాగ శృణు వక్ష్యామి తత్త్వతః
యత్పరం యద్గుణాతీతం యజ్జ్యోతిరమలం శివమ్
తదేవ పరమం తత్త్వం కైవల్యపదకారణమ్
శ్రీరామేతి పరం జాప్యం తారకం బ్రహ్మసంజ్ఞకమ్
బ్రహ్మహత్యాదిపాపఘ్నమితి వేదవిదో విదుః
శ్రీరామ రామేతి జనా యే జపన్తి చ సర్వదా
తేషాం భుక్తిశ్చ ముక్తిశ్చ భవిష్యతి న సంశయః
స్తవరాజం పురా ప్రోక్తం నారదేన చ ధీమతా
తత్సర్వం సమ్ప్రవక్ష్యామి హరిధ్యానపురఃసరమ్
తాపత్రయాగ్నిశమనం సర్వాఘౌఘనికృన్తనమ్
దారిద్ర్యదుఃఖశమనం సర్వసమ్పత్కరం శివమ్
విజ్ఞానఫలదం దివ్యం మోక్షైకఫలసాధనమ్
నమస్కృత్య ప్రవక్ష్యామి రామం కృష్ణం జగన్మయమ్
అయోధ్యానగరే రమ్యే రత్నమణ్డపమధ్యగే
స్మరేత్కల్పతరోర్మూలే రత్నసింహాసనం శుభమ్
తన్మధ్యేఽష్టదలం పద్మం నానారత్నైశ్చ వేష్టితమ్
స్మరేన్మధ్యే దాశరథిం సహస్రాదిత్యతేజసమ్
పితురఙ్కగతం రామమిన్ద్రనీలమణిప్రభమ్
కోమలాఙ్గం విశాలాక్షం విద్యుద్వర్ణామ్బరావృతమ్
భానుకోటిప్రతీకాశకిరీటేన విరాజితమ్
రత్నగ్రైవేయకేయూరరత్నకుణ్డలమణ్డితమ్
రత్నకఙ్కణమఞ్జీరకటిసూత్రైరలఙ్కృతమ్
శ్రీవత్సకౌస్తుభోరస్కం ముక్తాహారోపశోభితమ్
దివ్యరత్నసమాయుక్తముద్రికాభిరలఙ్కృతమ్
రాఘవం ద్విభుజం బాలం రామమీషత్స్మితాననమ్
తులసీకున్దమన్దారపుష్పమాల్యైరలఙ్కృతమ్
కర్పూరాగరుకస్తూరీదివ్యగన్ధానులేపనమ్
యోగశాస్త్రేష్వభిరతం యోగేశం యోగదాయకమ్
సదా భరతసౌమిత్రశత్రుఘ్నైరుపశోభితమ్
విద్యాధరసురాధీశసిద్ధగన్ధర్వకిన్నరైః
యోగీన్ద్రైర్నారదాద్యైశ్చ స్తూయమానమహర్నిశమ్
విశ్వామిత్రవసిష్ఠాదిమునిభిః పరిసేవితమ్
సనకాదిమునిశ్రేష్ఠైర్యోగివృన్దైశ్చ సేవితమ్
రామం రఘువరం వీరం ధనుర్వేదవిశారదమ్
మఙ్గలాయతనం దేవం రామం రాజీవలోచనమ్
సర్వశాస్త్రార్థతత్త్వజ్ఞమానన్దకరసున్దరమ్
కౌసల్యానన్దనం రామం ధనుర్బాణధరం హరిమ్
ఏవం సఞ్చిన్తయన్ విష్ణుం యజ్జ్యోతిరమలం విభుమ్
ప్రహృష్టమానసో భూత్వా మునివర్యః స నారదః
సర్వలోకహితార్థాయ తుష్టావ రఘునన్దనమ్
కృతాఞ్జలిపుటో భూత్వా చిన్తయన్నద్భుతం హరిమ్
యదేకం యత్పరం నిత్యం యదనన్తం చిదాత్మకమ్
యదేకం వ్యాపకం లోకే తద్రూపం చిన్తయామ్యహమ్
విజ్ఞానహేతుం విమలాయతాక్షమ్ప్రజ్ఞానరూపం స్వసుఖైకహేతుం
శ్రీరామచన్ద్రం హరిమాదిదేవమ్పరాత్పరం రామమహం భజామి
కవిం పురాణం పురుషం పురస్తాత్సనాతనం యోగినమీశితారమ్
అణోరణీయాంసమనన్తవీర్యమ్ప్రాణేశ్వరం రామమసౌ దదర్శ
నారద ఉవాచ
నారాయణం జగన్నాథమభిరామం జగత్పతిమ్
కవిం పురాణం వాగీశం రామం దశరథాత్మజమ్
రాజరాజం రఘువరం కౌసల్యానన్దవర్ధనమ్
భర్గం వరేణ్యం విశ్వేశం రఘునాథం జగద్గురుమ్
సత్యం సత్యప్రియం శ్రేష్ఠం జానకీవల్లభం విభుమ్
సౌమిత్రిపూర్వజం శాన్తం కామదం కమలేక్షణమ్
ఆదిత్యం రవిమీశానం ఘృణిం సూర్యమనామయమ్
ఆనన్దరూపిణం సౌమ్యం రాఘవం కరుణామయమ్
జామదగ్న్యం తపోమూర్తిం రామం పరశుధారిణమ్
వాక్పతిం వరదం వాచ్యం శ్రీపతిం పక్షివాహనమ్
శ్రీశార్ఙ్గధారిణం రామం చిన్మయానన్దవిగ్రహమ్
హలధృగ్విష్ణుమీశానం బలరామం కృపానిధిమ్
శ్రీవల్లభం కృపానాథం జగన్మోహనమచ్యుతమ్
మత్స్యకూర్మవరాహాదిరూపధారిణమవ్యయమ్
వాసుదేవం జగద్యోనిమనాదినిధనం హరిమ్
గోవిన్దం గోపతిం విష్ణుం గోపీజనమనోహరమ్
గోగోపాలపరీవారం గోపకన్యాసమావృతమ్
విద్యుత్పుఞ్జప్రతీకాశం రామం కృష్ణం జగన్మయమ్
గోగోపికాసమాకీర్ణం వేణువాదనతత్పరమ్
కామరూపం కలావన్తం కామినీకామదం విభుమ్
మన్మథం మథురానాథం మాధవం మకరధ్వజమ్
శ్రీధరం శ్రీకరం శ్రీశం శ్రీనివాసం పరాత్పరమ్
భూతేశం భూపతిం భద్రం విభూతిం భూమిభూషణమ్
సర్వదుఃఖహరం వీరం దుష్టదానవవైరిణమ్
శ్రీనృసింహం మహాబాహుం మహాన్తం దీప్తతేజసమ్
చిదానన్దమయం నిత్యం ప్రణవం జ్యోతిరూపిణమ్
ఆదిత్యమణ్డలగతం నిశ్చితార్థస్వరూపిణమ్
భక్తిప్రియం పద్మనేత్రం భక్తానామీప్సితప్రదమ్
కౌసల్యేయం కలామూర్తిం కాకుత్స్థం కమలాప్రియమ్
సింహాసనే సమాసీనం నిత్యవ్రతమకల్మషమ్
విశ్వామిత్రప్రియం దాన్తం స్వదారనియతవ్రతమ్
యజ్ఞేశం యజ్ఞపురుషం యజ్ఞపాలనతత్పరమ్
సత్యసన్ధం జితక్రోధం శరణాగతవత్సలమ్
సర్వక్లేశాపహరణం విభీషణవరప్రదమ్
దశగ్రీవహరం రౌద్రం కేశవం కేశిమర్దనమ్
వాలిప్రమథనం వీరం సుగ్రీవేప్సితరాజ్యదమ్
నరవానరదేవైశ్చ సేవితం హనుమత్ప్రియమ్
శుద్ధం సూక్ష్మం పరం శాన్తం తారకం బ్రహ్మరూపిణమ్
సర్వభూతాత్మభూతస్థం సర్వాధారం సనాతనమ్
సర్వకారణకర్తారం నిదానం ప్రకృతేః పరమ్
నిరామయం నిరాభాసం నిరవధ్యం నిరఞ్జనమ్
నిత్యానన్దం నిరాకారమద్వైతం తమసః పరమ్
పరాత్పరతరం తత్త్వం సత్యానన్దం చిదాత్మకమ్
మనసా శిరసా నిత్యం ప్రణమామి రఘూత్తమమ్
సూర్యమణ్డలమధ్యస్థం రామం సీతాసమన్వితమ్
నమామి పుణ్డరీకాక్షమమేయం గురుతత్పరమ్
నమోఽస్తు వాసుదేవాయ జ్యోతిషాం పతయే నమః
నమోఽస్తు రామదేవాయ జగదానన్దరూపిణే
నమో వేదాన్తనిష్ఠాయ యోగినే బ్రహ్మవాదినే
మాయామయనిరాసాయ ప్రపన్నజనసేవినే
వన్దామహే మహేశానచణ్డకోదణ్డఖణ్డనమ్
జానకీహృదయానన్దవర్ధనం రఘునన్దనమ్
ఉత్ఫుల్లామలకోమలోత్పలదలశ్యామాయ రామాయ తే
కామాయ ప్రమదామనోహరగుణగ్రామాయ రామాత్మనే
యోగారూఢమునీన్ద్రమానససరోహంసాయ సంసారవి-
ధ్వంసాయ స్ఫురదోజసే రఘుకులోత్తంసాయ పుంసే నమః
భవోద్భవం వేదవిదాం వరిష్ఠమ్
ఆదిత్యచన్ద్రానలసుప్రభావమ్
సర్వాత్మకం సర్వగతస్వరూపం
నమామి రామం తమసః పరస్తాత్
నిరఞ్జనం నిష్ప్రతిమం నిరీహం
నిరాశ్రయం నిష్కలమప్రపఞ్చమ్
నిత్యం ధ్రువం నిర్విషయస్వరూపం
నిరన్తరం రామమహం భజామి
భవాబ్ధిపోతం భరతాగ్రజం తం
భక్తిప్రియం భానుకులప్రదీపమ్
భూతత్రినాథం భువనాధిపం తం
భజామి రామం భవరోగవైద్యమ్
సర్వాధిపత్యం సమరాఙ్గధీరం
సత్యం చిదానన్దమయస్వరూపమ్
సత్యం శివం శాన్తిమయం శరణ్యం
సనాతనం రామమహం భజామి
కార్యక్రియాకారణమప్రమేయం
కవిం పురాణం కమలాయతాక్షమ్
కుమారవేద్యం కరుణామయం తం
కల్పద్రుమం రామమహం భజామి
త్రైలోక్యనాథం సరసీరుహాక్షం
దయానిధిం ద్వన్ద్వవినాశహేతుమ్
మహాబలం వేదనిధిం సురేశం
సనాతనం రామమహం భజామి
వేదాన్తవేద్యం కవిమీశితారమ్
అనాదిమధ్యాన్తమచిన్త్యమాద్యమ్
అగోచరం నిర్మలమేకరూపం
నమామి రామం తమసః పరస్తాత్
అశేషవేదాత్మకమాదిసంజ్ఞమ్
అజం హరిం విష్ణుమనన్తమాద్యమ్
అపారసంవిత్సుఖమేకరూపం
పరాత్పరం రామమహం భజామి
తత్త్వస్వరూపం పురుషం పురాణం
స్వతేజసా పూరితవిశ్వమేకమ్
రాజాధిరాజం రవిమణ్డలస్థం
విశ్వేశ్వరం రామమహం భజామి
లోకాభిరామం రఘువంశనాథం
హరిం చిదానన్దమయం ముకున్దమ్
అశేషవిద్యాధిపతిం కవీన్ద్రం
నమామి రామం తమసః పరస్తాత్
యోగీన్ద్రసఙ్ఘైశ్చ సుసేవ్యమానం
నారాయణం నిర్మలమాదిదేవమ్
నతోఽస్మి నిత్యం జగదేకనాథమ్
ఆదిత్యవర్ణం తమసః పరస్తాత్
విభూతిదం విశ్వసృజం విరామం
రాజేన్ద్రమీశం రఘువంశనాథమ్
అచిన్త్యమవ్యక్తమనన్తమూర్తిం
జ్యోతిర్మయం రామమహం భజామి
అశేషసంసారవిహారహీనమ్
ఆదిత్యగం పూర్ణసుఖాభిరామమ్
సమస్తసాక్షిం తమసః పరస్తాత్
నారాయణం విష్ణుమహం భజామి
మునీన్ద్రగుహ్యం పరిపూర్ణకామం
కలానిధిం కల్మషనాశహేతుమ్
పరాత్పరం యత్పరమం పవిత్రం
నమామి రామం మహతో మహాన్తమ్
బ్రహ్మా విష్ణుశ్చ రుద్రశ్చ దేవేన్ద్రో దేవతాస్తథా
ఆదిత్యాదిగ్రహాశ్చైవ త్వమేవ రఘునన్దన
తాపసా ఋషయః సిద్ధాః సాధ్యాశ్చ మరుతస్తథా
విప్రా వేదాస్తథా యజ్ఞాః పురాణం ధర్మసంహితాః
వర్ణాశ్రమాస్తథా ధర్మా వర్ణధర్మాస్తథైవ చ
యక్షరాక్షసగన్ధర్వా దిక్పాలా దిగ్గజాదయః
సనకాదిమునిశ్రేష్ఠాస్త్వమేవ రఘుపుఙ్గవ
వసవోఽష్టౌ త్రయః కాలా రుద్రా ఏకాదశ స్మృతాః
తారకా దశ దిక్ చైవ త్వమేవ రఘునన్దన
సప్తద్వీపాః సముద్రాశ్చ నగా నద్యస్తథా ద్రుమాః
స్థావరా జఙ్గమాశ్చైవ త్వమేవ రఘునాయక
దేవతిర్యఙ్మనుష్యాణాం దానవానాం తథైవ చ
మాతా పితా తథా భ్రాతా త్వమేవ రఘువల్లభ
సర్వేషాం త్వం పరం బ్రహ్మ త్వన్మయం సర్వమేవ హి
త్వమక్షరం పరం జ్యోతిస్త్వమేవ పురుషోత్తమ
త్వమేవ తారకం బ్రహ్మ త్వత్తోఽన్యం నైవ కిఞ్చన
శాన్తం సర్వగతం సూక్ష్మం పరం బ్రహ్మ సనాతనమ్
రాజీవలోచనం రామం ప్రణమామి జగత్పతిమ్
వ్యాస ఉవాచ
తతః ప్రసన్నః శ్రీరామః ప్రోవాచ మునిపుఙ్గవమ్
తుష్టోఽస్మి మునిశార్దూల వృణీష్వ వరముత్తమమ్
నారద ఉవాచ
యది తుష్టోఽసి సర్వజ్ఞ శ్రీరామ కరుణానిధే
త్వన్మూర్తిదర్శనేనైవ కృతార్థోఽహం చ సర్వదా
ధన్యోఽహం కృతకృత్యోఽహం పుణ్యోఽహం పురుషోత్తమ
అద్య మే సఫలం జన్మ జీవితం సఫలం చ మే
అద్య మే సఫలం జ్ఞానమద్య మే సఫలం తపః
అద్య మే సఫలం కర్మ త్వత్పాదామ్భోజదర్శనాత్
అద్య మే సఫలం సర్వం త్వన్నామస్మరణం తథా
త్వత్పాదామ్భోరుహద్వన్ద్వసద్భక్తిం దేహి రాఘవ
తతః పరమసమ్ప్రీతః స రామః ప్రాహ నారదమ్
శ్రీరామ ఉవాచ
మునివర్య మహాభాగ మునే త్విష్టం దదామి తే
యత్త్వయా చేప్సితం సర్వం మనసా తద్భవిష్యతి
నారద ఉవాచ
పరం న యాచే రఘునాథ యుష్మత్
పాదాబ్జభక్తిః సతతం మమాస్తు
ఇదం ప్రియం నాథ వరం ప్రయాచే
పునః పునస్త్వామిదమేవ యాచే
వ్యాస ఉవాచ
ఇత్యేవమీడితో రామః ప్రాదాత్ తస్మై వరాన్తరమ్
వీరో రామో మహాతేజాః సచ్చిదానన్దవిగ్రహః
అద్వైతమమలం జ్ఞానం స్వనామస్మరణం తథా
అన్తర్దధౌ జగన్నాథః పురతస్తస్య రాఘవః
ఇతి శ్రీరఘునాథస్య స్తవరాజమనుత్తమమ్
సర్వసౌభాగ్యసమ్పత్తిదాయకం ముక్తిదం శుభమ్
కథితం బ్రహ్మపుత్రేణ వేదానాం సారముత్తమమ్
గుహ్యాద్గుహ్యతమం దివ్యం తవ స్నేహాత్ప్రకీర్తితమ్
యః పఠేచ్ఛృణుయాద్వాఽపి త్రిసన్ధ్యం శ్రద్ధయాన్వితః
బ్రహ్మహత్యాదిపాపాని తత్సమాని బహూని చ
స్వర్ణస్తేయం సురాపానం గురుతల్పగతిస్తథా
గోవధాద్యుపపాపాని అనృతాత్సమ్భవాని చ
సర్వైః ప్రముచ్యతే పాపైః కల్పాయుతశతోద్భవైః
మానసం వాచికం పాపం కర్మణా సముపార్జితమ్
శ్రీరామస్మరణేనైవ తత్క్షణాన్నశ్యతి ధ్రువమ్
ఇదం సత్యమిదం సత్యం సత్యమేతదిహోచ్యతే
రామం సత్యం పరం బ్రహ్మ రామాత్ కిఞ్చిన్న విద్యతే
తస్మాద్రామస్వరూపం హి సత్యం సత్యమిదం జగత్
శ్రీరామచన్ద్ర రఘుపుఙ్గవ రాజవర్య
రాజేన్ద్ర రామ రఘునాయక రాఘవేశ
రాజాధిరాజ రఘునన్దన రామచన్ద్ర
దాసోఽహమద్య భవతః శరణాగతోఽస్మి
వైదేహీసహితం సురద్రుమతలే హైమే మహామణ్డపే
మధ్యే పుష్పకమాసనే మణిమయే వీరాసనే సుస్థితమ్
అగ్రే వాచయతి ప్రభఞ్జనసుతే తత్త్వం మునిభ్యః పరం
వ్యాఖ్యాన్తం భరతాదిభిః పరివృతం రామం భజే శ్యామలమ్
రామం రత్నకిరీటకుణ్డలయుతం కేయూరహారాన్వితం
సీతాలఙ్కృతవామభాగమమలం సింహాసనస్థం విభుమ్
సుగ్రీవాదిహరీశ్వరైః సురగణైః సంసేవ్యమానం సదా
విశ్వామిత్రపరాశరాదిమునిభిః సంస్తూయమానం ప్రభుమ్
సకలగుణనిధానం యోగిభిః స్తూయమానం
భుజవిజితసమానం రాక్షసేన్ద్రాదిమానమ్
మహితనృపభయానం సీతయా శోభమానం
స్మర హృదయవిమానం బ్రహ్మ రామాభిధానమ్
రఘువర తవ మూర్తిర్మామకే మానసాబ్జే
నరకగతిహరం తే నామధేయం ముఖే మే
అనిశమతులభక్త్యా మస్తకం త్వత్పదాబ్జే
భవజలనిధిమగ్నం రక్ష మామార్తబన్ధో
రామరత్నమహం వన్దే చిత్రకూటపతిం హరిమ్
కౌసల్యాభక్తిసమ్భూతం జానకీకణ్ఠభూషణమ్
॥ఇతి శ్రీసనత్కుమారసంహితాయాం నారదోక్తం శ్రీరామస్తవరాజస్తోత్రం సమ్పూర్ణమ్॥
rāmastavarājastotram
asya śrīrāmacandrastavarājastotramantrasya sanatkumāraṛṣiḥ| \\
śrīrāmo devatā| anuṣṭup chandaḥ| sītā bījam| hanumān śaktiḥ|
śrīrāmaprītyarthe jape viniyogaḥ||
sūta uvāca
sarvaśāstrārthatattvajñaṃ vyāsaṃ satyavatīsutam
dharmaputraḥ prahṛṣṭātmā pratyuvāca munīśvaram
yudhiṣṭhira uvāca
bhagavan yogināṃ śreṣṭha sarvaśāstraviśārada
kiṃ tattvaṃ kiṃ paraṃ jāpyaṃ kiṃ dhyānaṃ muktisādhanam
śrotumicchāmi tatsarvaṃ brūhi me munisattama
vedavyāsa uvāca
dharmarāja mahābhāga śṛṇu vakṣyāmi tattvataḥ
yatparaṃ yadguṇātītaṃ yajjyotiramalaṃ śivam
tadeva paramaṃ tattvaṃ kaivalyapadakāraṇam
śrīrāmeti paraṃ jāpyaṃ tārakaṃ brahmasaṃjñakam
brahmahatyādipāpaghnamiti vedavido viduḥ
śrīrāma rāmeti janā ye japanti ca sarvadā
teṣāṃ bhuktiśca muktiśca bhaviṣyati na saṃśayaḥ
stavarājaṃ purā proktaṃ nāradena ca dhīmatā
tatsarvaṃ sampravakṣyāmi haridhyānapuraḥsaram
tāpatrayāgniśamanaṃ sarvāghaughanikṛntanam
dāridryaduḥkhaśamanaṃ sarvasampatkaraṃ śivam
vijñānaphaladaṃ divyaṃ mokṣaikaphalasādhanam
namaskṛtya pravakṣyāmi rāmaṃ kṛṣṇaṃ jaganmayam
ayodhyānagare ramye ratnamaṇḍapamadhyage
smaretkalpatarormūle ratnasiṃhāsanaṃ śubham
tanmadhye'ṣṭadalaṃ padmaṃ nānāratnaiśca veṣṭitam
smarenmadhye dāśarathiṃ sahasrādityatejasam
pituraṅkagataṃ rāmamindranīlamaṇiprabham
komalāṅgaṃ viśālākṣaṃ vidyudvarṇāmbarāvṛtam
bhānukoṭipratīkāśakirīṭena virājitam
ratnagraiveyakeyūraratnakuṇḍalamaṇḍitam
ratnakaṅkaṇamañjīrakaṭisūtrairalaṅkṛtam
śrīvatsakaustubhoraskaṃ muktāhāropaśobhitam
divyaratnasamāyuktamudrikābhiralaṅkṛtam
rāghavaṃ dvibhujaṃ bālaṃ rāmamīṣatsmitānanam
tulasīkundamandārapuṣpamālyairalaṅkṛtam
karpūrāgarukastūrīdivyagandhānulepanam
yogaśāstreṣvabhirataṃ yogeśaṃ yogadāyakam
sadā bharatasaumitraśatrughnairupaśobhitam
vidyādharasurādhīśasiddhagandharvakinnaraiḥ
yogīndrairnāradādyaiśca stūyamānamaharniśam
viśvāmitravasiṣṭhādimunibhiḥ parisevitam
sanakādimuniśreṣṭhairyogivṛndaiśca sevitam
rāmaṃ raghuvaraṃ vīraṃ dhanurvedaviśāradam
maṅgalāyatanaṃ devaṃ rāmaṃ rājīvalocanam
sarvaśāstrārthatattvajñamānandakarasundaram
kausalyānandanaṃ rāmaṃ dhanurbāṇadharaṃ harim
evaṃ sañcintayan viṣṇuṃ yajjyotiramalaṃ vibhum
prahṛṣṭamānaso bhūtvā munivaryaḥ sa nāradaḥ
sarvalokahitārthāya tuṣṭāva raghunandanam
kṛtāñjalipuṭo bhūtvā cintayannadbhutaṃ harim
yadekaṃ yatparaṃ nityaṃ yadanantaṃ cidātmakam
yadekaṃ vyāpakaṃ loke tadrūpaṃ cintayāmyaham
vijñānahetuṃ vimalāyatākṣamprajñānarūpaṃ svasukhaikahetuṃ
śrīrāmacandraṃ harimādidevamparātparaṃ rāmamahaṃ bhajāmi
kaviṃ purāṇaṃ puruṣaṃ purastātsanātanaṃ yoginamīśitāram
aṇoraṇīyāṃsamanantavīryamprāṇeśvaraṃ rāmamasau dadarśa
nārada uvāca
nārāyaṇaṃ jagannāthamabhirāmaṃ jagatpatim
kaviṃ purāṇaṃ vāgīśaṃ rāmaṃ daśarathātmajam
rājarājaṃ raghuvaraṃ kausalyānandavardhanam
bhargaṃ vareṇyaṃ viśveśaṃ raghunāthaṃ jagadgurum
satyaṃ satyapriyaṃ śreṣṭhaṃ jānakīvallabhaṃ vibhum
saumitripūrvajaṃ śāntaṃ kāmadaṃ kamalekṣaṇam
ādityaṃ ravimīśānaṃ ghṛṇiṃ sūryamanāmayam
ānandarūpiṇaṃ saumyaṃ rāghavaṃ karuṇāmayam
jāmadagnyaṃ tapomūrtiṃ rāmaṃ paraśudhāriṇam
vākpatiṃ varadaṃ vācyaṃ śrīpatiṃ pakṣivāhanam
śrīśārṅgadhāriṇaṃ rāmaṃ cinmayānandavigraham
haladhṛgviṣṇumīśānaṃ balarāmaṃ kṛpānidhim
śrīvallabhaṃ kṛpānāthaṃ jaganmohanamacyutam
matsyakūrmavarāhādirūpadhāriṇamavyayam
vāsudevaṃ jagadyonimanādinidhanaṃ harim
govindaṃ gopatiṃ viṣṇuṃ gopījanamanoharam
gogopālaparīvāraṃ gopakanyāsamāvṛtam
vidyutpuñjapratīkāśaṃ rāmaṃ kṛṣṇaṃ jaganmayam
gogopikāsamākīrṇaṃ veṇuvādanatatparam
kāmarūpaṃ kalāvantaṃ kāminīkāmadaṃ vibhum
manmathaṃ mathurānāthaṃ mādhavaṃ makaradhvajam
śrīdharaṃ śrīkaraṃ śrīśaṃ śrīnivāsaṃ parātparam
bhūteśaṃ bhūpatiṃ bhadraṃ vibhūtiṃ bhūmibhūṣaṇam
sarvaduḥkhaharaṃ vīraṃ duṣṭadānavavairiṇam
śrīnṛsiṃhaṃ mahābāhuṃ mahāntaṃ dīptatejasam
cidānandamayaṃ nityaṃ praṇavaṃ jyotirūpiṇam
ādityamaṇḍalagataṃ niścitārthasvarūpiṇam
bhaktipriyaṃ padmanetraṃ bhaktānāmīpsitapradam
kausalyeyaṃ kalāmūrtiṃ kākutsthaṃ kamalāpriyam
siṃhāsane samāsīnaṃ nityavratamakalmaṣam
viśvāmitrapriyaṃ dāntaṃ svadāraniyatavratam
yajñeśaṃ yajñapuruṣaṃ yajñapālanatatparam
satyasandhaṃ jitakrodhaṃ śaraṇāgatavatsalam
sarvakleśāpaharaṇaṃ vibhīṣaṇavarapradam
daśagrīvaharaṃ raudraṃ keśavaṃ keśimardanam
vālipramathanaṃ vīraṃ sugrīvepsitarājyadam
naravānaradevaiśca sevitaṃ hanumatpriyam
śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tārakaṃ brahmarūpiṇam
sarvabhūtātmabhūtasthaṃ sarvādhāraṃ sanātanam
sarvakāraṇakartāraṃ nidānaṃ prakṛteḥ param
nirāmayaṃ nirābhāsaṃ niravadhyaṃ nirañjanam
nityānandaṃ nirākāramadvaitaṃ tamasaḥ param
parātparataraṃ tattvaṃ satyānandaṃ cidātmakam
manasā śirasā nityaṃ praṇamāmi raghūttamam
sūryamaṇḍalamadhyasthaṃ rāmaṃ sītāsamanvitam
namāmi puṇḍarīkākṣamameyaṃ gurutatparam
namo'stu vāsudevāya jyotiṣāṃ pataye namaḥ
namo'stu rāmadevāya jagadānandarūpiṇe
namo vedāntaniṣṭhāya yogine brahmavādine
māyāmayanirāsāya prapannajanasevine
vandāmahe maheśānacaṇḍakodaṇḍakhaṇḍanam
jānakīhṛdayānandavardhanaṃ raghunandanam
utphullāmalakomalotpaladalaśyāmāya rāmāya te
kāmāya pramadāmanoharaguṇagrāmāya rāmātmane
yogārūḍhamunīndramānasasarohaṃsāya saṃsāravi-
dhvaṃsāya sphuradojase raghukulottaṃsāya puṃse namaḥ
bhavodbhavaṃ vedavidāṃ variṣṭham
ādityacandrānalasuprabhāvam
sarvātmakaṃ sarvagatasvarūpaṃ
namāmi rāmaṃ tamasaḥ parastāt
nirañjanaṃ niṣpratimaṃ nirīhaṃ
nirāśrayaṃ niṣkalamaprapañcam
nityaṃ dhruvaṃ nirviṣayasvarūpaṃ
nirantaraṃ rāmamahaṃ bhajāmi
bhavābdhipotaṃ bharatāgrajaṃ taṃ
bhaktipriyaṃ bhānukulapradīpam
bhūtatrināthaṃ bhuvanādhipaṃ taṃ
bhajāmi rāmaṃ bhavarogavaidyam
sarvādhipatyaṃ samarāṅgadhīraṃ
satyaṃ cidānandamayasvarūpam
satyaṃ śivaṃ śāntimayaṃ śaraṇyaṃ
sanātanaṃ rāmamahaṃ bhajāmi
kāryakriyākāraṇamaprameyaṃ
kaviṃ purāṇaṃ kamalāyatākṣam
kumāravedyaṃ karuṇāmayaṃ taṃ
kalpadrumaṃ rāmamahaṃ bhajāmi
trailokyanāthaṃ sarasīruhākṣaṃ
dayānidhiṃ dvandvavināśahetum
mahābalaṃ vedanidhiṃ sureśaṃ
sanātanaṃ rāmamahaṃ bhajāmi
vedāntavedyaṃ kavimīśitāram
anādimadhyāntamacintyamādyam
agocaraṃ nirmalamekarūpaṃ
namāmi rāmaṃ tamasaḥ parastāt
aśeṣavedātmakamādisaṃjñam
ajaṃ hariṃ viṣṇumanantamādyam
apārasaṃvitsukhamekarūpaṃ
parātparaṃ rāmamahaṃ bhajāmi
tattvasvarūpaṃ puruṣaṃ purāṇaṃ
svatejasā pūritaviśvamekam
rājādhirājaṃ ravimaṇḍalasthaṃ
viśveśvaraṃ rāmamahaṃ bhajāmi
lokābhirāmaṃ raghuvaṃśanāthaṃ
hariṃ cidānandamayaṃ mukundam
aśeṣavidyādhipatiṃ kavīndraṃ
namāmi rāmaṃ tamasaḥ parastāt
yogīndrasaṅghaiśca susevyamānaṃ
nārāyaṇaṃ nirmalamādidevam
nato'smi nityaṃ jagadekanātham
ādityavarṇaṃ tamasaḥ parastāt
vibhūtidaṃ viśvasṛjaṃ virāmaṃ
rājendramīśaṃ raghuvaṃśanātham
acintyamavyaktamanantamūrtiṃ
jyotirmayaṃ rāmamahaṃ bhajāmi
aśeṣasaṃsāravihārahīnam
ādityagaṃ pūrṇasukhābhirāmam
samastasākṣiṃ tamasaḥ parastāt
nārāyaṇaṃ viṣṇumahaṃ bhajāmi
munīndraguhyaṃ paripūrṇakāmaṃ
kalānidhiṃ kalmaṣanāśahetum
parātparaṃ yatparamaṃ pavitraṃ
namāmi rāmaṃ mahato mahāntam
brahmā viṣṇuśca rudraśca devendro devatāstathā
ādityādigrahāścaiva tvameva raghunandana
tāpasā ṛṣayaḥ siddhāḥ sādhyāśca marutastathā
viprā vedāstathā yajñāḥ purāṇaṃ dharmasaṃhitāḥ
varṇāśramāstathā dharmā varṇadharmāstathaiva ca
yakṣarākṣasagandharvā dikpālā diggajādayaḥ
sanakādimuniśreṣṭhāstvameva raghupuṅgava
vasavo'ṣṭau trayaḥ kālā rudrā ekādaśa smṛtāḥ
tārakā daśa dik caiva tvameva raghunandana
saptadvīpāḥ samudrāśca nagā nadyastathā drumāḥ
sthāvarā jaṅgamāścaiva tvameva raghunāyaka
devatiryaṅmanuṣyāṇāṃ dānavānāṃ tathaiva ca
mātā pitā tathā bhrātā tvameva raghuvallabha
sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi
tvamakṣaraṃ paraṃ jyotistvameva puruṣottama
tvameva tārakaṃ brahma tvatto'nyaṃ naiva kiñcana
śāntaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam
rājīvalocanaṃ rāmaṃ praṇamāmi jagatpatim
vyāsa uvāca
tataḥ prasannaḥ śrīrāmaḥ provāca munipuṅgavam
tuṣṭo'smi muniśārdūla vṛṇīṣva varamuttamam
nārada uvāca
yadi tuṣṭo'si sarvajña śrīrāma karuṇānidhe
tvanmūrtidarśanenaiva kṛtārtho'haṃ ca sarvadā
dhanyo'haṃ kṛtakṛtyo'haṃ puṇyo'haṃ puruṣottama
adya me saphalaṃ janma jīvitaṃ saphalaṃ ca me
adya me saphalaṃ jñānamadya me saphalaṃ tapaḥ
adya me saphalaṃ karma tvatpādāmbhojadarśanāt
adya me saphalaṃ sarvaṃ tvannāmasmaraṇaṃ tathā
tvatpādāmbhoruhadvandvasadbhaktiṃ dehi rāghava
tataḥ paramasamprītaḥ sa rāmaḥ prāha nāradam
śrīrāma uvāca
munivarya mahābhāga mune tviṣṭaṃ dadāmi te
yattvayā cepsitaṃ sarvaṃ manasā tadbhaviṣyati
nārada uvāca
paraṃ na yāce raghunātha yuṣmat
pādābjabhaktiḥ satataṃ mamāstu
idaṃ priyaṃ nātha varaṃ prayāce
punaḥ punastvāmidameva yāce
vyāsa uvāca
ityevamīḍito rāmaḥ prādāt tasmai varāntaram
vīro rāmo mahātejāḥ saccidānandavigrahaḥ
advaitamamalaṃ jñānaṃ svanāmasmaraṇaṃ tathā
antardadhau jagannāthaḥ puratastasya rāghavaḥ
iti śrīraghunāthasya stavarājamanuttamam
sarvasaubhāgyasampattidāyakaṃ muktidaṃ śubham
kathitaṃ brahmaputreṇa vedānāṃ sāramuttamam
guhyādguhyatamaṃ divyaṃ tava snehātprakīrtitam
yaḥ paṭhecchṛṇuyādvā'pi trisandhyaṃ śraddhayānvitaḥ
brahmahatyādipāpāni tatsamāni bahūni ca
svarṇasteyaṃ surāpānaṃ gurutalpagatistathā
govadhādyupapāpāni anṛtātsambhavāni ca
sarvaiḥ pramucyate pāpaiḥ kalpāyutaśatodbhavaiḥ
mānasaṃ vācikaṃ pāpaṃ karmaṇā samupārjitam
śrīrāmasmaraṇenaiva tatkṣaṇānnaśyati dhruvam
idaṃ satyamidaṃ satyaṃ satyametadihocyate
rāmaṃ satyaṃ paraṃ brahma rāmāt kiñcinna vidyate
tasmādrāmasvarūpaṃ hi satyaṃ satyamidaṃ jagat
śrīrāmacandra raghupuṅgava rājavarya
rājendra rāma raghunāyaka rāghaveśa
rājādhirāja raghunandana rāmacandra
dāso'hamadya bhavataḥ śaraṇāgato'smi
vaidehīsahitaṃ suradrumatale haime mahāmaṇḍape
madhye puṣpakamāsane maṇimaye vīrāsane susthitam
agre vācayati prabhañjanasute tattvaṃ munibhyaḥ paraṃ
vyākhyāntaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhaje śyāmalam
rāmaṃ ratnakirīṭakuṇḍalayutaṃ keyūrahārānvitaṃ
sītālaṅkṛtavāmabhāgamamalaṃ siṃhāsanasthaṃ vibhum
sugrīvādiharīśvaraiḥ suragaṇaiḥ saṃsevyamānaṃ sadā
viśvāmitraparāśarādimunibhiḥ saṃstūyamānaṃ prabhum
sakalaguṇanidhānaṃ yogibhiḥ stūyamānaṃ
bhujavijitasamānaṃ rākṣasendrādimānam
mahitanṛpabhayānaṃ sītayā śobhamānaṃ
smara hṛdayavimānaṃ brahma rāmābhidhānam
raghuvara tava mūrtirmāmake mānasābje
narakagatiharaṃ te nāmadheyaṃ mukhe me
aniśamatulabhaktyā mastakaṃ tvatpadābje
bhavajalanidhimagnaṃ rakṣa māmārtabandho
rāmaratnamahaṃ vande citrakūṭapatiṃ harim
kausalyābhaktisambhūtaṃ jānakīkaṇṭhabhūṣaṇam
||iti śrīsanatkumārasaṃhitāyāṃ nāradoktaṃ śrīrāmastavarājastotraṃ sampūrṇam||