सङ्क्षेपरामायणम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्
तत्पदं दर्शितं येन तस्मै श्री-गुरवे नमः
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना
\\
श्री-वाल्मीकि-नमस्क्रिया
कूजन्तं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः
शृण्वन् रामकथानादं को न याति परां गतिम्
यः पिबन् सततं रामचरितामृतसागरम्
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्
श्री-हनुमन्नमस्क्रिया
गोष्पदीकृत-वाराशिं मशकीकृत-राक्षसम्
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम्
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्
आञ्जनेयमतिपाटलाननं काञ्चनाद्रि-कमनीय-विग्रहम्
पारिजात-तरुमूल-वासिनं भावयामि पवमान-नन्दनम्
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि
\\
श्री-रामायण-प्रार्थना
यः कर्णाञ्जलिसम्पुटैरहरहः सम्यक् पिबत्यादरात्
वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु
जन्म-व्याधि-जरा-विपत्ति-मरणैरत्यन्त-सोपद्रवं
संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम्
तदुपगत-समास-सन्धियोगं सममधुरोपनतार्थ-वाक्यबद्धम्
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्
वाल्मीकि-गिरिसम्भूता रामसागरगामिनी
पुनातु भुवनं पुण्या रामायणमहानदी
श्लोकसारजलाकीर्णं सर्गकल्लोलसङ्कुलम्
काण्डग्राहमहामीनं वन्दे रामायणार्णवम्
वेदवेद्ये परे पुंसि जाते दशरथात्मजे
वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना
\\
श्री-राम-ध्यानम्
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्
रामं रामानुजं सीतां भरतं भरतानुजम्
सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः
ॐ श्री-गुरुभ्यो नमः।
श्रीमद्रामायणम्
बालकाण्डः
अथ प्रथमोऽध्यायः
तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः
चारित्रेण च को युक्तः सर्वभूतेषु को हितः
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः
आत्मवान् को जितक्रोधो मतिमान् कोऽनसूयकः
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः
श्रूयतामिति चाऽऽमन्त्र्य प्रहृष्टो वाक्यमब्रवीत्
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः
महोरस्को महेष्वासो गूढजत्रुररिन्दमः
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान्
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः
सर्वदाऽभिगतः सद्भिः समुद्र इव सिन्धुभिः
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः
धनदेन समस्त्यागे सत्ये धर्म इवापरः
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम्
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया
यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी
पूर्वं दत्तवरा देवी वरमेनमयाचत
विवासनं च रामस्य भरतस्याभिषेचनम्
स सत्यवचनाद्राजा धर्मपाशेन संयतः
विवासयामास सुतं रामं दशरथः प्रियम्
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्
रामस्य दयिता भार्या नित्यं प्राणसमा हिता
जनकस्य कुले जाता देवमायेव निर्मिता
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः
सीताऽप्यनुगता रामं शशिनं रोहिणी यथा
पौरैरनुगतो दूरं पित्रा दशरथेन च
शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्
गुहेन सहितो रामो लक्ष्मणेन च सीतया
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्
रम्यमावसथं कृत्वा रममाणा वने त्रयः
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा
राजा दशरथः स्वर्गं जगाम विलपन् सुतम्
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः
स जगाम वनं वीरो रामपादप्रसादकः
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्
अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्
रामोऽपि परमोदारः सुमुखः सुमहायशाः
न चेच्छत् पितुरादेशाद्राज्यं रामो महाबलः
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः
निवर्तयामास ततो भरतं भरताग्रजः
स काममनवाप्यैव रामपादावुपस्पृशन्
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च
तत्राऽऽगमनमेकाग्रो दण्डकान् प्रविवेश ह
प्रविश्य तु महारण्यं रामो राजीवलोचनः
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ
वसतस्तस्य रामस्य वने वनचरैः सह
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्
स तेषां प्रति शुश्राव राक्षसानां तदा वने
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम्
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्
तेन तत्रैव वसता जनस्थाननिवासिनी
विरूपिता शूर्पणखा राक्षसी कामरूपिणी
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्
निजघान रणे रामस्तेषां चैव पदानुगान्
वने तस्मिन् निवसता जनस्थाननिवासिनाम्
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः
सहायं वरयामास मारीचं नाम राक्षसम्
वार्यमाणः सुबहुशो मारीचेन स रावणः
न विरोधो बलवता क्षमो रावण तेन ते
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः
जगाम सहमारीचस्तस्याऽऽश्रमपदं तदा
तेन मायाविना दूरमपवाह्य नृपात्मजौ
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्
राघवः शोकसन्तप्तो विललापाऽऽकुलेन्द्रियः
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह
कबन्धं नाम रूपेण विकृतं घोरदर्शनम्
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः
स चास्य कथयामास शबरीं धर्मचारिणीम्
श्रमणीं धर्मनिपुणाम् अभिगच्छेति राघव
सोऽभ्यगच्छन् महातेजाः शबरीं शत्रुसूदनः
शबर्या पूजितः सम्यग्रामो दशरथात्मजः
पम्पातीरे हनुमता सङ्गतो वानरेण ह
हनुमद्वचनाच्चैव सुग्रीवेण समागतः
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः
आदितस्तद्यथा वृत्तं सीतायाश्च विशेषतः
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्
ततो वानरराजेन वैरानुकथनं प्रति
रामायाऽऽवेदितं सर्वं प्रणयाद्दुःखितेन च
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति
वालिनश्च बलं तत्र कथयामास वानरः
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्
दर्शयामास सुग्रीवो महापर्वतसन्निभम्
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्
बिभेद च पुनः सालान् सप्तैकेन महेषुणा
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः
किष्किन्धां रामसहितो जगाम च गुहां तदा
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः
तेन नादेन महता निर्जगाम हरीश्वरः
अनुमान्य तदा तारां सुग्रीवेण समागतः
निजघान च तत्रैनं शरेणैकेन राघवः
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्
स च सर्वान् समानीय वानरान् वानरर्षभः
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान् बली
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च
समाश्वास्य च वैदेहीं मर्दयामास तोरणम्
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीतां च मैथिलीम्
रामाय प्रियमाख्यातुं पुनरायान् महाकपिः
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः
दर्शयामास चाऽऽत्मानं समुद्रः सरितां पतिः
समुद्रवचनाच्चैव नलं सेतुमकारयत्
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे
रामः सीतामनुप्राप्य परां व्रीडामुपागमत्
तामुवाच ततो रामः परुषं जनसंसदि
अमृष्यमाणा सा सीता विवेश ज्वलनं सती
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम्
कर्मणा तेन महता त्रैलोक्यं सचराचरम्
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह
देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान्
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्-वृतः
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः
न पुत्रमरणं केचिद्-द्रक्ष्यन्ति पुरुषाः क्वचित्
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा
न चापि क्षुद्भयं तत्र न तस्करभयं तथा
नगराणि च राष्ट्राणि धनधान्ययुतानि च
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः
राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति
दशवर्षसहस्राणि दशवर्षशतानि च
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते
एतदाख्यानमायुष्यं पठन् रामायणं नरः
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते
पठन् द्विजो वागृषभत्वमीयात्
स्यात् क्षत्रियो भूमिपतित्वमीयात्
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रोऽपि महत्त्वमीयात्
॥इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः॥
\\
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा
रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम्
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत् पुरा
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्
अदितिर्मङ्गलं प्रादात् तत्ते भवतु मङ्गलम्
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते
मङ्गलानि महाबाहो दिशन्तु तव सर्वदा
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम्
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि[4]
సఙ్క్షేపరామాయణమ్
శుక్లామ్బరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాన్తయే
వాగీశాద్యాః సుమనసః సర్వార్థానాముపక్రమే
యం నత్వా కృతకృత్యాః స్యుస్తం నమామి గజాననమ్
శ్రీ-గురు-ప్రార్థనా
గురుర్బ్రహ్మా గురుర్విష్ణుర్గురుర్దేవో మహేశ్వరః
గురుః సాక్షాత్ పరం బ్రహ్మ తస్మై శ్రీ-గురవే నమః
సదాశివసమారమ్భాం శఙ్కరాచార్యమధ్యమామ్
అస్మదాచార్యపర్యన్తాం వన్దే గురుపరమ్పరామ్
అఖణ్డమణ్డలాకారం వ్యాప్తం యేన చరాచరమ్
తత్పదం దర్శితం యేన తస్మై శ్రీ-గురవే నమః
శ్రీ-సరస్వతీ-ప్రార్థనా
దోర్భిర్యుక్తా చతుర్భిః స్ఫటికమణినిభైరక్షమాలాం దధానా
హస్తేనైకేన పద్మం సితమపి చ శుకం పుస్తకం చాపరేణ
భాసా కున్దేన్దుశఙ్ఖస్ఫటికమణినిభా భాసమానాఽసమానా
సా మే వాగ్దేవతేయం నివసతు వదనే సర్వదా సుప్రసన్నా
\\
శ్రీ-వాల్మీకి-నమస్క్రియా
కూజన్తం రామ రామేతి మధురం మధురాక్షరమ్
ఆరుహ్య కవితాశాఖాం వన్దే వాల్మీకికోకిలమ్
వాల్మీకేర్మునిసింహస్య కవితావనచారిణః
శృణ్వన్ రామకథానాదం కో న యాతి పరాం గతిమ్
యః పిబన్ సతతం రామచరితామృతసాగరమ్
అతృప్తస్తం మునిం వన్దే ప్రాచేతసమకల్మషమ్
శ్రీ-హనుమన్నమస్క్రియా
గోష్పదీకృత-వారాశిం మశకీకృత-రాక్షసమ్
రామాయణ-మహామాలా-రత్నం వన్దేఽనిలాత్మజమ్
అఞ్జనానన్దనం వీరం జానకీశోకనాశనమ్
కపీశమక్షహన్తారం వన్దే లఙ్కాభయఙ్కరమ్
ఉల్లఙ్ఘ్య సిన్ధోః సలిలం సలీలం యః శోకవహ్నిం జనకాత్మజాయాః
ఆదాయ తేనైవ దదాహ లఙ్కాం నమామి తం ప్రాఞ్జలిరాఞ్జనేయమ్
ఆఞ్జనేయమతిపాటలాననం కాఞ్చనాద్రి-కమనీయ-విగ్రహమ్
పారిజాత-తరుమూల-వాసినం భావయామి పవమాన-నన్దనమ్
యత్ర యత్ర రఘునాథకీర్తనం తత్ర తత్ర కృతమస్తకాఞ్జలిమ్
బాష్పవారిపరిపూర్ణలోచనం మారుతిం నమత రాక్షసాన్తకమ్
మనోజవం మారుతతుల్యవేగం జితేన్ద్రియం బుద్ధిమతాం వరిష్ఠమ్
వాతాత్మజం వానరయూథముఖ్యం శ్రీరామదూతం శిరసా నమామి
\\
శ్రీ-రామాయణ-ప్రార్థనా
యః కర్ణాఞ్జలిసమ్పుటైరహరహః సమ్యక్ పిబత్యాదరాత్
వాల్మీకేర్వదనారవిన్దగలితం రామాయణాఖ్యం మధు
జన్మ-వ్యాధి-జరా-విపత్తి-మరణైరత్యన్త-సోపద్రవం
సంసారం స విహాయ గచ్ఛతి పుమాన్ విష్ణోః పదం శాశ్వతమ్
తదుపగత-సమాస-సన్ధియోగం సమమధురోపనతార్థ-వాక్యబద్ధమ్
రఘువరచరితం మునిప్రణీతం దశశిరసశ్చ వధం నిశామయధ్వమ్
వాల్మీకి-గిరిసమ్భూతా రామసాగరగామినీ
పునాతు భువనం పుణ్యా రామాయణమహానదీ
శ్లోకసారజలాకీర్ణం సర్గకల్లోలసఙ్కులమ్
కాణ్డగ్రాహమహామీనం వన్దే రామాయణార్ణవమ్
వేదవేద్యే పరే పుంసి జాతే దశరథాత్మజే
వేదః ప్రాచేతసాదాసీత్ సాక్షాద్రామాయణాత్మనా
\\
శ్రీ-రామ-ధ్యానమ్
వైదేహీసహితం సురద్రుమతలే హైమే మహామణ్డపే
మధ్యే పుష్పకమాసనే మణిమయే వీరాసనే సుస్థితమ్
అగ్రే వాచయతి ప్రభఞ్జనసుతే తత్త్వం మునిభ్యః పరం
వ్యాఖ్యాన్తం భరతాదిభిః పరివృతం రామం భజే శ్యామలమ్
వామే భూమిసుతా పురశ్చ హనుమాన్ పశ్చాత్ సుమిత్రాసుతః
శత్రుఘ్నో భరతశ్చ పార్శ్వదలయోర్వాయ్వాదికోణేషు చ
సుగ్రీవశ్చ విభీషణశ్చ యువరాట్ తారాసుతో జామ్బవాన్
మధ్యే నీలసరోజకోమలరుచిం రామం భజే శ్యామలమ్
రామం రామానుజం సీతాం భరతం భరతానుజమ్
సుగ్రీవం వాయుసూనుం చ ప్రణమామి పునః పునః
నమోఽస్తు రామాయ సలక్ష్మణాయ
దేవ్యై చ తస్యై జనకాత్మజాయై
నమోఽస్తు రుద్రేన్ద్రయమానిలేభ్యో
నమోఽస్తు చన్ద్రార్కమరుద్గణేభ్యః
ఓం శ్రీ-గురుభ్యో నమః।
శ్రీమద్రామాయణమ్
బాలకాణ్డః
అథ ప్రథమోఽధ్యాయః
తపః స్వాధ్యాయనిరతం తపస్వీ వాగ్విదాం వరమ్
నారదం పరిపప్రచ్ఛ వాల్మీకిర్మునిపుఙ్గవమ్
కో న్వస్మిన్ సామ్ప్రతం లోకే గుణవాన్ కశ్చ వీర్యవాన్
ధర్మజ్ఞశ్చ కృతజ్ఞశ్చ సత్యవాక్యో దృఢవ్రతః
చారిత్రేణ చ కో యుక్తః సర్వభూతేషు కో హితః
విద్వాన్ కః కః సమర్థశ్చ కశ్చైకప్రియదర్శనః
ఆత్మవాన్ కో జితక్రోధో మతిమాన్ కోఽనసూయకః
కస్య బిభ్యతి దేవాశ్చ జాతరోషస్య సంయుగే
ఏతదిచ్ఛామ్యహం శ్రోతుం పరం కౌతూహలం హి మే
మహర్షే త్వం సమర్థోఽసి జ్ఞాతుమేవంవిధం నరమ్
శ్రుత్వా చైతత్త్రిలోకజ్ఞో వాల్మీకేర్నారదో వచః
శ్రూయతామితి చాఽఽమన్త్ర్య ప్రహృష్టో వాక్యమబ్రవీత్
బహవో దుర్లభాశ్చైవ యే త్వయా కీర్తితా గుణాః
మునే వక్ష్యామ్యహం బుద్ధ్వా తైర్యుక్తః శ్రూయతాం నరః
ఇక్ష్వాకువంశప్రభవో రామో నామ జనైః శ్రుతః
నియతాత్మా మహావీర్యో ద్యుతిమాన్ ధృతిమాన్ వశీ
బుద్ధిమాన్ నీతిమాన్ వాగ్మీ శ్రీమాఞ్ఛత్రునిబర్హణః
విపులాంసో మహాబాహుః కమ్బుగ్రీవో మహాహనుః
మహోరస్కో మహేష్వాసో గూఢజత్రురరిన్దమః
ఆజానుబాహుః సుశిరాః సులలాటః సువిక్రమః
సమః సమవిభక్తాఙ్గః స్నిగ్ధవర్ణః ప్రతాపవాన్
పీనవక్షా విశాలాక్షో లక్ష్మీవాఞ్ఛుభలక్షణః
ధర్మజ్ఞః సత్యసన్ధశ్చ ప్రజానాం చ హితే రతః
యశస్వీ జ్ఞానసమ్పన్నః శుచిర్వశ్యః సమాధిమాన్
ప్రజాపతిసమః శ్రీమాన్ ధాతా రిపునిషూదనః
రక్షితా జీవలోకస్య ధర్మస్య పరిరక్షితా
రక్షితా స్వస్య ధర్మస్య స్వజనస్య చ రక్షితా
వేదవేదాఙ్గతత్త్వజ్ఞో ధనుర్వేదే చ నిష్ఠితః
సర్వశాస్త్రార్థతత్త్వజ్ఞో స్మృతిమాన్ ప్రతిభానవాన్
సర్వలోకప్రియః సాధురదీనాత్మా విచక్షణః
సర్వదాఽభిగతః సద్భిః సముద్ర ఇవ సిన్ధుభిః
ఆర్యః సర్వసమశ్చైవ సదైవ ప్రియదర్శనః
స చ సర్వగుణోపేతః కౌసల్యానన్దవర్ధనః
సముద్ర ఇవ గామ్భీర్యే ధైర్యేణ హిమవానివ
విష్ణునా సదృశో వీర్యే సోమవత్ ప్రియదర్శనః
కాలాగ్నిసదృశః క్రోధే క్షమయా పృథివీసమః
ధనదేన సమస్త్యాగే సత్యే ధర్మ ఇవాపరః
తమేవఙ్గుణసమ్పన్నం రామం సత్యపరాక్రమమ్
జ్యేష్ఠం శ్రేష్ఠగుణైర్యుక్తం ప్రియం దశరథః సుతమ్
ప్రకృతీనాం హితైర్యుక్తం ప్రకృతిప్రియకామ్యయా
యౌవరాజ్యేన సంయోక్తుమ్ ఐచ్ఛత్ ప్రీత్యా మహీపతిః
తస్యాభిషేకసమ్భారాన్ దృష్ట్వా భార్యాఽథ కైకయీ
పూర్వం దత్తవరా దేవీ వరమేనమయాచత
వివాసనం చ రామస్య భరతస్యాభిషేచనమ్
స సత్యవచనాద్రాజా ధర్మపాశేన సంయతః
వివాసయామాస సుతం రామం దశరథః ప్రియమ్
స జగామ వనం వీరః ప్రతిజ్ఞామనుపాలయన్
పితుర్వచననిర్దేశాత్ కైకేయ్యాః ప్రియకారణాత్
తం వ్రజన్తం ప్రియో భ్రాతా లక్ష్మణోఽనుజగామ హ
స్నేహాద్వినయసమ్పన్నః సుమిత్రానన్దవర్ధనః
భ్రాతరం దయితో భ్రాతుః సౌభ్రాత్రమనుదర్శయన్
రామస్య దయితా భార్యా నిత్యం ప్రాణసమా హితా
జనకస్య కులే జాతా దేవమాయేవ నిర్మితా
సర్వలక్షణసమ్పన్నా నారీణాముత్తమా వధూః
సీతాఽప్యనుగతా రామం శశినం రోహిణీ యథా
పౌరైరనుగతో దూరం పిత్రా దశరథేన చ
శృఙ్గవేరపురే సూతం గఙ్గాకూలే వ్యసర్జయత్
గుహమాసాద్య ధర్మాత్మా నిషాదాధిపతిం ప్రియమ్
గుహేన సహితో రామో లక్ష్మణేన చ సీతయా
తే వనేన వనం గత్వా నదీస్తీర్త్వా బహూదకాః
చిత్రకూటమనుప్రాప్య భరద్వాజస్య శాసనాత్
రమ్యమావసథం కృత్వా రమమాణా వనే త్రయః
దేవగన్ధర్వసఙ్కాశాస్తత్ర తే న్యవసన్ సుఖమ్
చిత్రకూటం గతే రామే పుత్రశోకాతురస్తథా
రాజా దశరథః స్వర్గం జగామ విలపన్ సుతమ్
మృతే తు తస్మిన్ భరతో వసిష్ఠప్రముఖైర్ద్విజైః
నియుజ్యమానో రాజ్యాయ నైచ్ఛద్రాజ్యం మహాబలః
స జగామ వనం వీరో రామపాదప్రసాదకః
గత్వా తు స మహాత్మానం రామం సత్యపరాక్రమమ్
అయాచద్భ్రాతరం రామమ్ ఆర్యభావపురస్కృతః
త్వమేవ రాజా ధర్మజ్ఞ ఇతి రామం వచోఽబ్రవీత్
రామోఽపి పరమోదారః సుముఖః సుమహాయశాః
న చేచ్ఛత్ పితురాదేశాద్రాజ్యం రామో మహాబలః
పాదుకే చాస్య రాజ్యాయ న్యాసం దత్త్వా పునః పునః
నివర్తయామాస తతో భరతం భరతాగ్రజః
స కామమనవాప్యైవ రామపాదావుపస్పృశన్
నన్దిగ్రామేఽకరోద్రాజ్యం రామాగమనకాఙ్క్షయా
గతే తు భరతే శ్రీమాన్ సత్యసన్ధో జితేన్ద్రియః
రామస్తు పునరాలక్ష్య నాగరస్య జనస్య చ
తత్రాఽఽగమనమేకాగ్రో దణ్డకాన్ ప్రవివేశ హ
ప్రవిశ్య తు మహారణ్యం రామో రాజీవలోచనః
విరాధం రాక్షసం హత్వా శరభఙ్గం దదర్శ హ
సుతీక్ష్ణం చాప్యగస్త్యం చ అగస్త్యభ్రాతరం తథా
అగస్త్యవచనాచ్చైవ జగ్రాహైన్ద్రం శరాసనమ్
ఖడ్గం చ పరమప్రీతస్తూణీ చాక్షయసాయకౌ
వసతస్తస్య రామస్య వనే వనచరైః సహ
ఋషయోఽభ్యాగమన్ సర్వే వధాయాసురరక్షసామ్
స తేషాం ప్రతి శుశ్రావ రాక్షసానాం తదా వనే
ప్రతిజ్ఞాతశ్చ రామేణ వధః సంయతి రక్షసామ్
ఋషీణామగ్నికల్పానాం దణ్డకారణ్యవాసినామ్
తేన తత్రైవ వసతా జనస్థాననివాసినీ
విరూపితా శూర్పణఖా రాక్షసీ కామరూపిణీ
తతః శూర్పణఖావాక్యాదుద్యుక్తాన్ సర్వరాక్షసాన్
ఖరం త్రిశిరసం చైవ దూషణం చైవ రాక్షసమ్
నిజఘాన రణే రామస్తేషాం చైవ పదానుగాన్
వనే తస్మిన్ నివసతా జనస్థాననివాసినామ్
రక్షసాం నిహతాన్యాసన్ సహస్రాణి చతుర్దశ
తతో జ్ఞాతివధం శ్రుత్వా రావణః క్రోధమూర్చ్ఛితః
సహాయం వరయామాస మారీచం నామ రాక్షసమ్
వార్యమాణః సుబహుశో మారీచేన స రావణః
న విరోధో బలవతా క్షమో రావణ తేన తే
అనాదృత్య తు తద్వాక్యం రావణః కాలచోదితః
జగామ సహమారీచస్తస్యాఽఽశ్రమపదం తదా
తేన మాయావినా దూరమపవాహ్య నృపాత్మజౌ
జహార భార్యాం రామస్య గృధ్రం హత్వా జటాయుషమ్
గృధ్రం చ నిహతం దృష్ట్వా హృతాం శ్రుత్వా చ మైథిలీమ్
రాఘవః శోకసన్తప్తో విలలాపాఽఽకులేన్ద్రియః
తతస్తేనైవ శోకేన గృధ్రం దగ్ధ్వా జటాయుషమ్
మార్గమాణో వనే సీతాం రాక్షసం సన్దదర్శ హ
కబన్ధం నామ రూపేణ వికృతం ఘోరదర్శనమ్
తం నిహత్య మహాబాహుర్దదాహ స్వర్గతశ్చ సః
స చాస్య కథయామాస శబరీం ధర్మచారిణీమ్
శ్రమణీం ధర్మనిపుణామ్ అభిగచ్ఛేతి రాఘవ
సోఽభ్యగచ్ఛన్ మహాతేజాః శబరీం శత్రుసూదనః
శబర్యా పూజితః సమ్యగ్రామో దశరథాత్మజః
పమ్పాతీరే హనుమతా సఙ్గతో వానరేణ హ
హనుమద్వచనాచ్చైవ సుగ్రీవేణ సమాగతః
సుగ్రీవాయ చ తత్సర్వం శంసద్రామో మహాబలః
ఆదితస్తద్యథా వృత్తం సీతాయాశ్చ విశేషతః
సుగ్రీవశ్చాపి తత్సర్వం శ్రుత్వా రామస్య వానరః
చకార సఖ్యం రామేణ ప్రీతశ్చైవాగ్నిసాక్షికమ్
తతో వానరరాజేన వైరానుకథనం ప్రతి
రామాయాఽఽవేదితం సర్వం ప్రణయాద్దుఃఖితేన చ
ప్రతిజ్ఞాతం చ రామేణ తదా వాలివధం ప్రతి
వాలినశ్చ బలం తత్ర కథయామాస వానరః
సుగ్రీవః శఙ్కితశ్చాసీన్నిత్యం వీర్యేణ రాఘవే
రాఘవః ప్రత్యయార్థం తు దున్దుభేః కాయముత్తమమ్
దర్శయామాస సుగ్రీవో మహాపర్వతసన్నిభమ్
ఉత్స్మయిత్వా మహాబాహుః ప్రేక్ష్య చాస్థి మహాబలః
పాదాఙ్గుష్ఠేన చిక్షేప సమ్పూర్ణం దశయోజనమ్
బిభేద చ పునః సాలాన్ సప్తైకేన మహేషుణా
గిరిం రసాతలం చైవ జనయన్ ప్రత్యయం తదా
తతః ప్రీతమనాస్తేన విశ్వస్తః స మహాకపిః
కిష్కిన్ధాం రామసహితో జగామ చ గుహాం తదా
తతోఽగర్జద్ధరివరః సుగ్రీవో హేమపిఙ్గలః
తేన నాదేన మహతా నిర్జగామ హరీశ్వరః
అనుమాన్య తదా తారాం సుగ్రీవేణ సమాగతః
నిజఘాన చ తత్రైనం శరేణైకేన రాఘవః
తతః సుగ్రీవవచనాద్ధత్వా వాలినమాహవే
సుగ్రీవమేవ తద్రాజ్యే రాఘవః ప్రత్యపాదయత్
స చ సర్వాన్ సమానీయ వానరాన్ వానరర్షభః
దిశః ప్రస్థాపయామాస దిదృక్షుర్జనకాత్మజామ్
తతో గృధ్రస్య వచనాత్సమ్పాతేర్హనుమాన్ బలీ
శతయోజనవిస్తీర్ణం పుప్లువే లవణార్ణవమ్
తత్ర లఙ్కాం సమాసాద్య పురీం రావణపాలితామ్
దదర్శ సీతాం ధ్యాయన్తీమశోకవనికాం గతామ్
నివేదయిత్వాఽభిజ్ఞానం ప్రవృత్తిం వినివేద్య చ
సమాశ్వాస్య చ వైదేహీం మర్దయామాస తోరణమ్
పఞ్చ సేనాగ్రగాన్ హత్వా సప్త మన్త్రిసుతానపి
శూరమక్షం చ నిష్పిష్య గ్రహణం సముపాగమత్
అస్త్రేణోన్ముక్తమాత్మానం జ్ఞాత్వా పైతామహాద్వరాత్
మర్షయన్ రాక్షసాన్ వీరో యన్త్రిణస్తాన్ యదృచ్ఛయా
తతో దగ్ధ్వా పురీం లఙ్కామ్ ఋతే సీతాం చ మైథిలీమ్
రామాయ ప్రియమాఖ్యాతుం పునరాయాన్ మహాకపిః
సోఽభిగమ్య మహాత్మానం కృత్వా రామం ప్రదక్షిణమ్
న్యవేదయదమేయాత్మా దృష్టా సీతేతి తత్త్వతః
తతః సుగ్రీవసహితో గత్వా తీరం మహోదధేః
సముద్రం క్షోభయామాస శరైరాదిత్యసన్నిభైః
దర్శయామాస చాఽఽత్మానం సముద్రః సరితాం పతిః
సముద్రవచనాచ్చైవ నలం సేతుమకారయత్
తేన గత్వా పురీం లఙ్కాం హత్వా రావణమాహవే
రామః సీతామనుప్రాప్య పరాం వ్రీడాముపాగమత్
తామువాచ తతో రామః పరుషం జనసంసది
అమృష్యమాణా సా సీతా వివేశ జ్వలనం సతీ
తతోఽగ్నివచనాత్ సీతాం జ్ఞాత్వా విగతకల్మషామ్
కర్మణా తేన మహతా త్రైలోక్యం సచరాచరమ్
సదేవర్షిగణం తుష్టం రాఘవస్య మహాత్మనః
బభౌ రామః సమ్ప్రహృష్టః పూజితః సర్వదైవతైః
అభిషిచ్య చ లఙ్కాయాం రాక్షసేన్ద్రం విభీషణమ్
కృతకృత్యస్తదా రామో విజ్వరః ప్రముమోద హ
దేవతాభ్యో వరాన్ ప్రాప్య సముత్థాప్య చ వానరాన్
అయోధ్యాం ప్రస్థితో రామః పుష్పకేణ సుహృద్-వృతః
భరద్వాజాశ్రమం గత్వా రామః సత్యపరాక్రమః
భరతస్యాన్తికే రామో హనూమన్తం వ్యసర్జయత్
పునరాఖ్యాయికాం జల్పన్ సుగ్రీవసహితస్తదా
పుష్పకం తత్ సమారుహ్య నన్దిగ్రామం యయౌ తదా
నన్దిగ్రామే జటాం హిత్వా భ్రాతృభిః సహితోఽనఘః
రామః సీతామనుప్రాప్య రాజ్యం పునరవాప్తవాన్
ప్రహృష్టముదితో లోకస్తుష్టః పుష్టః సుధార్మికః
నిరామయో హ్యరోగశ్చ దుర్భిక్షభయవర్జితః
న పుత్రమరణం కేచిద్-ద్రక్ష్యన్తి పురుషాః క్వచిత్
నార్యశ్చావిధవా నిత్యం భవిష్యన్తి పతివ్రతాః
న చాగ్నిజం భయం కిఞ్చిన్నాప్సు మజ్జన్తి జన్తవః
న వాతజం భయం కిఞ్చిన్నాపి జ్వరకృతం తథా
న చాపి క్షుద్భయం తత్ర న తస్కరభయం తథా
నగరాణి చ రాష్ట్రాణి ధనధాన్యయుతాని చ
నిత్యం ప్రముదితాః సర్వే యథా కృతయుగే తథా
అశ్వమేధశతైరిష్ట్వా తథా బహుసువర్ణకైః
గవాం కోట్యయుతం దత్త్వా విద్వద్భ్యో విధిపూర్వకమ్
అసఙ్ఖ్యేయం ధనం దత్త్వా బ్రాహ్మణేభ్యో మహాయశాః
రాజవంశాఞ్ఛతగుణాన్ స్థాపయిష్యతి రాఘవః
చాతుర్వర్ణ్యం చ లోకేఽస్మిన్ స్వే స్వే ధర్మే నియోక్ష్యతి
దశవర్షసహస్రాణి దశవర్షశతాని చ
రామో రాజ్యముపాసిత్వా బ్రహ్మలోకం గమిష్యతి
ఇదం పవిత్రం పాపఘ్నం పుణ్యం వేదైశ్చ సమ్మితమ్
యః పఠేద్రామచరితం సర్వపాపైః ప్రముచ్యతే
ఏతదాఖ్యానమాయుష్యం పఠన్ రామాయణం నరః
సపుత్రపౌత్రః సగణః ప్రేత్య స్వర్గే మహీయతే
పఠన్ ద్విజో వాగృషభత్వమీయాత్
స్యాత్ క్షత్రియో భూమిపతిత్వమీయాత్
వణిగ్జనః పణ్యఫలత్వమీయాత్
జనశ్చ శూద్రోఽపి మహత్త్వమీయాత్
॥ఇత్యార్షే శ్రీమద్రామాయణే వాల్మీకీయే ఆదికావ్యే బాలకాణ్డే ప్రథమః సర్గః॥
\\
మఙ్గలశ్లోకాః
స్వస్తి ప్రజాభ్యః పరిపాలయన్తాం
న్యాయేన మార్గేణ మహీం మహీశాః
గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం
లోకాః సమస్తాః సుఖినో భవన్తు
కాలే వర్షతు పర్జన్యః పృథివీ సస్యశాలినీ
దేశోఽయం క్షోభరహితో బ్రాహ్మణాః సన్తు నిర్భయాః
అపుత్రాః పుత్రిణః సన్తు పుత్రిణః సన్తు పౌత్రిణః
అధనాః సధనాః సన్తు జీవన్తు శరదాం శతమ్
చరితం రఘునాథస్య శతకోటి-ప్రవిస్తరమ్
ఏకైకమక్షరం పుంసాం మహాపాతకనాశనమ్
శృణ్వన్ రామాయణం భక్త్యా యః పాదం పదమేవ వా
స యాతి బ్రహ్మణః స్థానం బ్రహ్మణా పూజ్యతే సదా
రామాయ రామభద్రాయ రామచన్ద్రాయ వేధసే
రఘునాథాయ నాథాయ సీతాయాః పతయే నమః
యన్మఙ్గలం సహస్రాక్షే సర్వదేవనమస్కృతే
వృత్రనాశే సమభవత్ తత్తే భవతు మఙ్గలమ్
యన్మఙ్గలం సుపర్ణస్య వినతాఽకల్పయత్ పురా
అమృతం ప్రార్థయానస్య తత్తే భవతు మఙ్గలమ్
అమృతోత్పాదనే దైత్యాన్ ఘ్నతో వజ్రధరస్య యత్
అదితిర్మఙ్గలం ప్రాదాత్ తత్తే భవతు మఙ్గలమ్
త్రీన్ విక్రమాన్ ప్రక్రమతో విష్ణోరమితతేజసః
యదాసీన్మఙ్గలం రామ తత్తే భవతు మఙ్గలమ్
ఋషయః సాగరా ద్వీపా వేదా లోకా దిశశ్చ తే
మఙ్గలాని మహాబాహో దిశన్తు తవ సర్వదా
మఙ్గలం కోసలేన్ద్రాయ మహనీయగుణాబ్ధయే
చక్రవర్తితనూజాయ సార్వభౌమాయ మఙ్గలమ్
కాయేన వాచా మనసేన్ద్రియైర్వా
బుద్ధ్యాఽఽత్మనా వా ప్రకృతేః స్వభావాత్
కరోమి యద్యత్ సకలం పరస్మై
నారాయణాయేతి సమర్పయామి[4]
saṅkṣeparāmāyaṇam
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam
śrī-guru-prārthanā
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ
sadāśivasamārambhāṃ śaṅkarācāryamadhyamām
asmadācāryaparyantāṃ vande guruparamparām
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram
tatpadaṃ darśitaṃ yena tasmai śrī-gurave namaḥ
śrī-sarasvatī-prārthanā
dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāṃ dadhānā
hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānā'samānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā
\\
śrī-vālmīki-namaskriyā
kūjantaṃ rāma rāmeti madhuraṃ madhurākṣaram
āruhya kavitāśākhāṃ vande vālmīkikokilam
vālmīkermunisiṃhasya kavitāvanacāriṇaḥ
śṛṇvan rāmakathānādaṃ ko na yāti parāṃ gatim
yaḥ piban satataṃ rāmacaritāmṛtasāgaram
atṛptastaṃ muniṃ vande prācetasamakalmaṣam
śrī-hanumannamaskriyā
goṣpadīkṛta-vārāśiṃ maśakīkṛta-rākṣasam
rāmāyaṇa-mahāmālā-ratnaṃ vande'nilātmajam
añjanānandanaṃ vīraṃ jānakīśokanāśanam
kapīśamakṣahantāraṃ vande laṅkābhayaṅkaram
ullaṅghya sindhoḥ salilaṃ salīlaṃ yaḥ śokavahniṃ janakātmajāyāḥ
ādāya tenaiva dadāha laṅkāṃ namāmi taṃ prāñjalirāñjaneyam
āñjaneyamatipāṭalānanaṃ kāñcanādri-kamanīya-vigraham
pārijāta-tarumūla-vāsinaṃ bhāvayāmi pavamāna-nandanam
yatra yatra raghunāthakīrtanaṃ tatra tatra kṛtamastakāñjalim
bāṣpavāriparipūrṇalocanaṃ mārutiṃ namata rākṣasāntakam
manojavaṃ mārutatulyavegaṃ jitendriyaṃ buddhimatāṃ variṣṭham
vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śirasā namāmi
\\
śrī-rāmāyaṇa-prārthanā
yaḥ karṇāñjalisampuṭairaharahaḥ samyak pibatyādarāt
vālmīkervadanāravindagalitaṃ rāmāyaṇākhyaṃ madhu
janma-vyādhi-jarā-vipatti-maraṇairatyanta-sopadravaṃ
saṃsāraṃ sa vihāya gacchati pumān viṣṇoḥ padaṃ śāśvatam
tadupagata-samāsa-sandhiyogaṃ samamadhuropanatārtha-vākyabaddham
raghuvaracaritaṃ munipraṇītaṃ daśaśirasaśca vadhaṃ niśāmayadhvam
vālmīki-girisambhūtā rāmasāgaragāminī
punātu bhuvanaṃ puṇyā rāmāyaṇamahānadī
ślokasārajalākīrṇaṃ sargakallolasaṅkulam
kāṇḍagrāhamahāmīnaṃ vande rāmāyaṇārṇavam
vedavedye pare puṃsi jāte daśarathātmaje
vedaḥ prācetasādāsīt sākṣādrāmāyaṇātmanā
\\
śrī-rāma-dhyānam
vaidehīsahitaṃ suradrumatale haime mahāmaṇḍape
madhye puṣpakamāsane maṇimaye vīrāsane susthitam
agre vācayati prabhañjanasute tattvaṃ munibhyaḥ paraṃ
vyākhyāntaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhaje śyāmalam
vāme bhūmisutā puraśca hanumān paścāt sumitrāsutaḥ
śatrughno bharataśca pārśvadalayorvāyvādikoṇeṣu ca
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsuto jāmbavān
madhye nīlasarojakomalaruciṃ rāmaṃ bhaje śyāmalam
rāmaṃ rāmānujaṃ sītāṃ bharataṃ bharatānujam
sugrīvaṃ vāyusūnuṃ ca praṇamāmi punaḥ punaḥ
namo'stu rāmāya salakṣmaṇāya
devyai ca tasyai janakātmajāyai
namo'stu rudrendrayamānilebhyo
namo'stu candrārkamarudgaṇebhyaḥ
oṃ śrī-gurubhyo namaḥ|
śrīmadrāmāyaṇam
bālakāṇḍaḥ
atha prathamo'dhyāyaḥ
tapaḥ svādhyāyanirataṃ tapasvī vāgvidāṃ varam
nāradaṃ paripapraccha vālmīkirmunipuṅgavam
ko nvasmin sāmprataṃ loke guṇavān kaśca vīryavān
dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ
ātmavān ko jitakrodho matimān ko'nasūyakaḥ
kasya bibhyati devāśca jātaroṣasya saṃyuge
etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
maharṣe tvaṃ samartho'si jñātumevaṃvidhaṃ naram
śrutvā caitattrilokajño vālmīkernārado vacaḥ
śrūyatāmiti cā''mantrya prahṛṣṭo vākyamabravīt
bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ
mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
buddhimān nītimān vāgmī śrīmāñchatrunibarhaṇaḥ
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
mahorasko maheṣvāso gūḍhajatrurarindamaḥ
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
pīnavakṣā viśālākṣo lakṣmīvāñchubhalakṣaṇaḥ
dharmajñaḥ satyasandhaśca prajānāṃ ca hite rataḥ
yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān
prajāpatisamaḥ śrīmān dhātā ripuniṣūdanaḥ
rakṣitā jīvalokasya dharmasya parirakṣitā
rakṣitā svasya dharmasya svajanasya ca rakṣitā
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
sarvaśāstrārthatattvajño smṛtimān pratibhānavān
sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ
sarvadā'bhigataḥ sadbhiḥ samudra iva sindhubhiḥ
āryaḥ sarvasamaścaiva sadaiva priyadarśanaḥ
sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
samudra iva gāmbhīrye dhairyeṇa himavāniva
viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
dhanadena samastyāge satye dharma ivāparaḥ
tamevaṅguṇasampannaṃ rāmaṃ satyaparākramam
jyeṣṭhaṃ śreṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam
prakṛtīnāṃ hitairyuktaṃ prakṛtipriyakāmyayā
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
tasyābhiṣekasambhārān dṛṣṭvā bhāryā'tha kaikayī
pūrvaṃ dattavarā devī varamenamayācata
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
sa satyavacanādrājā dharmapāśena saṃyataḥ
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam
sa jagāma vanaṃ vīraḥ pratijñāmanupālayan
piturvacananirdeśāt kaikeyyāḥ priyakāraṇāt
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo'nujagāma ha
snehādvinayasampannaḥ sumitrānandavardhanaḥ
bhrātaraṃ dayito bhrātuḥ saubhrātramanudarśayan
rāmasya dayitā bhāryā nityaṃ prāṇasamā hitā
janakasya kule jātā devamāyeva nirmitā
sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ
sītā'pyanugatā rāmaṃ śaśinaṃ rohiṇī yathā
paurairanugato dūraṃ pitrā daśarathena ca
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
guhamāsādya dharmātmā niṣādādhipatiṃ priyam
guhena sahito rāmo lakṣmaṇena ca sītayā
te vanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ
citrakūṭamanuprāpya bharadvājasya śāsanāt
ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ
devagandharvasaṅkāśāstatra te nyavasan sukham
citrakūṭaṃ gate rāme putraśokāturastathā
rājā daśarathaḥ svargaṃ jagāma vilapan sutam
mṛte tu tasmin bharato vasiṣṭhapramukhairdvijaiḥ
niyujyamāno rājyāya naicchadrājyaṃ mahābalaḥ
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
gatvā tu sa mahātmānaṃ rāmaṃ satyaparākramam
ayācadbhrātaraṃ rāmam āryabhāvapuraskṛtaḥ
tvameva rājā dharmajña iti rāmaṃ vaco'bravīt
rāmo'pi paramodāraḥ sumukhaḥ sumahāyaśāḥ
na cecchat piturādeśādrājyaṃ rāmo mahābalaḥ
pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
nivartayāmāsa tato bharataṃ bharatāgrajaḥ
sa kāmamanavāpyaiva rāmapādāvupaspṛśan
nandigrāme'karodrājyaṃ rāmāgamanakāṅkṣayā
gate tu bharate śrīmān satyasandho jitendriyaḥ
rāmastu punarālakṣya nāgarasya janasya ca
tatrā''gamanamekāgro daṇḍakān praviveśa ha
praviśya tu mahāraṇyaṃ rāmo rājīvalocanaḥ
virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
sutīkṣṇaṃ cāpyagastyaṃ ca agastyabhrātaraṃ tathā
agastyavacanāccaiva jagrāhaindraṃ śarāsanam
khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau
vasatastasya rāmasya vane vanacaraiḥ saha
ṛṣayo'bhyāgaman sarve vadhāyāsurarakṣasām
sa teṣāṃ prati śuśrāva rākṣasānāṃ tadā vane
pratijñātaśca rāmeṇa vadhaḥ saṃyati rakṣasām
ṛṣīṇāmagnikalpānāṃ daṇḍakāraṇyavāsinām
tena tatraiva vasatā janasthānanivāsinī
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
tataḥ śūrpaṇakhāvākyādudyuktān sarvarākṣasān
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam
nijaghāna raṇe rāmasteṣāṃ caiva padānugān
vane tasmin nivasatā janasthānanivāsinām
rakṣasāṃ nihatānyāsan sahasrāṇi caturdaśa
tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrcchitaḥ
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam
vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
na virodho balavatā kṣamo rāvaṇa tena te
anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ
jagāma sahamārīcastasyā''śramapadaṃ tadā
tena māyāvinā dūramapavāhya nṛpātmajau
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
rāghavaḥ śokasantapto vilalāpā''kulendriyaḥ
tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
mārgamāṇo vane sītāṃ rākṣasaṃ sandadarśa ha
kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
taṃ nihatya mahābāhurdadāha svargataśca saḥ
sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
so'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
śabaryā pūjitaḥ samyagrāmo daśarathātmajaḥ
pampātīre hanumatā saṅgato vānareṇa ha
hanumadvacanāccaiva sugrīveṇa samāgataḥ
sugrīvāya ca tatsarvaṃ śaṃsadrāmo mahābalaḥ
āditastadyathā vṛttaṃ sītāyāśca viśeṣataḥ
sugrīvaścāpi tatsarvaṃ śrutvā rāmasya vānaraḥ
cakāra sakhyaṃ rāmeṇa prītaścaivāgnisākṣikam
tato vānararājena vairānukathanaṃ prati
rāmāyā''veditaṃ sarvaṃ praṇayādduḥkhitena ca
pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
vālinaśca balaṃ tatra kathayāmāsa vānaraḥ
sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave
rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyamuttamam
darśayāmāsa sugrīvo mahāparvatasannibham
utsmayitvā mahābāhuḥ prekṣya cāsthi mahābalaḥ
pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam
bibheda ca punaḥ sālān saptaikena maheṣuṇā
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
tataḥ prītamanāstena viśvastaḥ sa mahākapiḥ
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
tato'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ
tena nādena mahatā nirjagāma harīśvaraḥ
anumānya tadā tārāṃ sugrīveṇa samāgataḥ
nijaghāna ca tatrainaṃ śareṇaikena rāghavaḥ
tataḥ sugrīvavacanāddhatvā vālinamāhave
sugrīvameva tadrājye rāghavaḥ pratyapādayat
sa ca sarvān samānīya vānarān vānararṣabhaḥ
diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām
tato gṛdhrasya vacanātsampāterhanumān balī
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
dadarśa sītāṃ dhyāyantīmaśokavanikāṃ gatām
nivedayitvā'bhijñānaṃ pravṛttiṃ vinivedya ca
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam
pañca senāgragān hatvā sapta mantrisutānapi
śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
astreṇonmuktamātmānaṃ jñātvā paitāmahādvarāt
marṣayan rākṣasān vīro yantriṇastān yadṛcchayā
tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
rāmāya priyamākhyātuṃ punarāyān mahākapiḥ
so'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
samudraṃ kṣobhayāmāsa śarairādityasannibhaiḥ
darśayāmāsa cā''tmānaṃ samudraḥ saritāṃ patiḥ
samudravacanāccaiva nalaṃ setumakārayat
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave
rāmaḥ sītāmanuprāpya parāṃ vrīḍāmupāgamat
tāmuvāca tato rāmaḥ paruṣaṃ janasaṃsadi
amṛṣyamāṇā sā sītā viveśa jvalanaṃ satī
tato'gnivacanāt sītāṃ jñātvā vigatakalmaṣām
karmaṇā tena mahatā trailokyaṃ sacarācaram
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarvadaivataiḥ
abhiṣicya ca laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha
devatābhyo varān prāpya samutthāpya ca vānarān
ayodhyāṃ prasthito rāmaḥ puṣpakeṇa suhṛd-vṛtaḥ
bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ
bharatasyāntike rāmo hanūmantaṃ vyasarjayat
punarākhyāyikāṃ jalpan sugrīvasahitastadā
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito'naghaḥ
rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān
prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ
nirāmayo hyarogaśca durbhikṣabhayavarjitaḥ
na putramaraṇaṃ kecid-drakṣyanti puruṣāḥ kvacit
nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ
na cāgnijaṃ bhayaṃ kiñcinnāpsu majjanti jantavaḥ
na vātajaṃ bhayaṃ kiñcinnāpi jvarakṛtaṃ tathā
na cāpi kṣudbhayaṃ tatra na taskarabhayaṃ tathā
nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca
nityaṃ pramuditāḥ sarve yathā kṛtayuge tathā
aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
asaṅkhyeyaṃ dhanaṃ dattvā brāhmaṇebhyo mahāyaśāḥ
rājavaṃśāñchataguṇān sthāpayiṣyati rāghavaḥ
cāturvarṇyaṃ ca loke'smin sve sve dharme niyokṣyati
daśavarṣasahasrāṇi daśavarṣaśatāni ca
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca sammitam
yaḥ paṭhedrāmacaritaṃ sarvapāpaiḥ pramucyate
etadākhyānamāyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
paṭhan dvijo vāgṛṣabhatvamīyāt
syāt kṣatriyo bhūmipatitvamīyāt
vaṇigjanaḥ paṇyaphalatvamīyāt
janaśca śūdro'pi mahattvamīyāt
||ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe prathamaḥ sargaḥ||
\\
maṅgalaślokāḥ
svasti prajābhyaḥ paripālayantāṃ
nyāyena mārgeṇa mahīṃ mahīśāḥ
gobrāhmaṇebhyaḥ śubhamastu nityaṃ
lokāḥ samastāḥ sukhino bhavantu
kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī
deśo'yaṃ kṣobharahito brāhmaṇāḥ santu nirbhayāḥ
aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ
adhanāḥ sadhanāḥ santu jīvantu śaradāṃ śatam
caritaṃ raghunāthasya śatakoṭi-pravistaram
ekaikamakṣaraṃ puṃsāṃ mahāpātakanāśanam
śṛṇvan rāmāyaṇaṃ bhaktyā yaḥ pādaṃ padameva vā
sa yāti brahmaṇaḥ sthānaṃ brahmaṇā pūjyate sadā
rāmāya rāmabhadrāya rāmacandrāya vedhase
raghunāthāya nāthāya sītāyāḥ pataye namaḥ
yanmaṅgalaṃ sahasrākṣe sarvadevanamaskṛte
vṛtranāśe samabhavat tatte bhavatu maṅgalam
yanmaṅgalaṃ suparṇasya vinatā'kalpayat purā
amṛtaṃ prārthayānasya tatte bhavatu maṅgalam
amṛtotpādane daityān ghnato vajradharasya yat
aditirmaṅgalaṃ prādāt tatte bhavatu maṅgalam
trīn vikramān prakramato viṣṇoramitatejasaḥ
yadāsīnmaṅgalaṃ rāma tatte bhavatu maṅgalam
ṛṣayaḥ sāgarā dvīpā vedā lokā diśaśca te
maṅgalāni mahābāho diśantu tava sarvadā
maṅgalaṃ kosalendrāya mahanīyaguṇābdhaye
cakravartitanūjāya sārvabhaumāya maṅgalam
kāyena vācā manasendriyairvā
buddhyā''tmanā vā prakṛteḥ svabhāvāt
karomi yadyat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi[4]